कालिकापुराणम्/अध्यायः १९
कालिकापुराणम् एकोनविंशोऽध्यायः सन्ध्यातपश्चरणम्
कालिका पुराण अध्याय १९
।। मार्कण्डेय उवाच ।।
ततस्तां पतितां दृष्ट्वा तदा दाक्षायणीं स्मरन् ।
न शशाक हवै सोढुं शोकमुद्वेगसम्भवम् ।।१।।
भ्रष्टधैर्यस्ततः शम्भुर्वाष्पव्याकुललोचनः ।
पश्यतां सर्वदेवानां चिन्ताध्यानपरोऽभवत् ।।२।।
अथाश्वास्य तदा धाता विजयां शोककर्षिताम् ।
हरमाश्वासयन् सान्त्वपूर्वमेतदुवाच ह ॥३॥
।। ब्रह्मोवाच ।।
पुराणयोगिन् भगवन्न शोकस्तव युज्यते ।
परधानि तव ध्यानमासीत् कस्मात् स्त्रियामिह ॥४॥
प्रभविष्णुः परः शान्तः सूक्ष्मः स्थूलतरः सदा ।
तव स्वभावश्च कथं शोकेन बहुधाकृतः ॥५॥
निरञ्जनं ध्यानगम्यं यतीनां परात्परं निर्मलं सर्वगामि ।
मलैर्हीनं रागलोभादिभिर्यत् तत् ते रूपं त्वद्भूयों तद् गृह्ण बुद्ध्या ।।६।।
शोको लोभः क्रोधमोहौ च हिंसा मानो दम्भो मदमोहप्रमोदाः ।
ईर्ष्यासूयाक्षान्तिरसत्यता च चतुर्दश ज्ञाननाशा हि दोषाः ॥७॥
ध्यानेन त्वां योगिनश्चिन्तयन्ति त्वं विष्णुरूपी जगतां विधाता ।
या ते महामोहकरी सतीति तवैव सा लोकमोहाय माया ॥८॥
या सर्वलोकाञ्जननेऽथ गर्भे विमोहयन्ती पूर्वदेहस्य बुद्धिम् ।
विनाश्य बाल्यं कुरुते हि जन्तो-र्विमोहयत्यद्य सा त्वं सशोकम् ।।९।।
सतीसहस्राणि पुरोज्झितानि त्वया मृतानि प्रतिकल्पमेवम् ।
हिताय लोकस्य चराचरस्य पुनर्गृहीता च तथा त्वयेयम् ।।१०।।
भवान्तरे ध्यानयोगेन पश्य सतीसहस्राणि मृतानि यानि ।
यथा तथा त्वं परिवर्जितश्च यथास्ति सा वा वृषराजकेतो ।। ११ ।।
यतः समुत्पद्य मुहुर्भवन्तं सा प्राप्स्यतीश त्रिदशैदुरापम् ।
पुनश्चजाया यादृशी ते भवित्री तत्तत् सर्वं ध्यानयोगेन पश्य ।। १२ ॥
।। मार्कण्डेय उवाच ॥
एवं बहुविधं ब्रह्मा व्याहरत् साम शङ्करम् ।
गिरिराजपुरात्तस्माद्गमयामास निर्जनम् ।।१३।।
ततो हिमवतः प्रस्थे प्रतीच्यां तत्पुरस्य च ।
शिप्रं नाम सरः पूर्णं ददृशुर्दुहिणादयः ।। १४ ॥
तद्रहस्थानमासाद्य ब्रह्मशक्रादयः सुराः ।
उपविष्टा यथान्यायं पुरस्कृत्य महेश्वरम् ।।१५।।
तं शिप्रसंज्ञं कासारं मनोज्ञं सर्वदेहिनाम् ।
शीतामलजलं सर्वैर्गुणैर्मानससम्मितम् ।
दृष्ट्वा क्षणं हरस्तस्मिन् सोत्सुकोऽभूदवेक्षणे ।। १६ ।।
शिप्रां नाम नदीं तस्मान्निः सृतां दक्षिणोदधिम् ।
गच्छन्तीञ्च ददर्शासौ पावयन्तीं जगज्जनान् ।।१७।।
तत्सरः पूर्णमासाद्य चरतः शकुनान् बहून् ।
नानादेशागताञ्छम्भुर्वीक्षाञ्चक्रे मनोरमान् ।। १८ ।।
गम्भीरपवनोद्धतिसम्पन्नेषु विराजितः ।
कोकद्वन्द्वांस्तरङ्गेषु ददर्श नृत्यतो यथा ।।१९।
मद्गुचञ्चषु सम्पृक्तांस्तरङ्गान् सः पृथक् पृथक् ।
वीक्षाञ्चक्रे यथा तोयादुत्पतत्पतगान् मुहुः ॥२०॥
कादम्बैः सारसैर्हसैः श्रेणीभूतैस्तटे तटे ।
भङ्गीकृतैर्यथा शङ्खैः सागरस्तादृशं सरः ।।२१।।
महामीनाहतिक्षुब्धैस्तोयशब्दोत्थसाध्वसैः।
पक्षिभिर्विहितैः शब्दस्तत्र तत्र मनोहरम् ।।२२।।
प्रफुल्लैः पङ्कजैश्चैव क्वचिर्ज्जालर्मनोहरैः ।
सरो रेजे यथा स्वर्गे नक्षत्रैः स्थूलसूक्ष्मकैः ।। २३ ।।
महोत्पलानां मध्येषु विरलं नीलमुत्पलम् ।
रेजे नक्षत्रमध्येषु नीलनीरदखण्डवत् ॥२४॥
पद्मसङ्घात- मध्यस्था हंसा: कैश्चिन्न संस्तुताः ।
प्रफुल्लपङ्कजभ्रान्त्या निश्चलाः स्वर्गवासिभिः ।।२५।।
द्विधा दृष्ट्वा शोणशुक्ले पद्मे फुल्ले विधिः स्वके ।
कायेऽरुणत्वं फुल्लत्वं स्वासनाब्जे निनिन्द च ।। २६ ।।
फुल्लं महोत्पलं वीक्ष्य सरसस्तस्य शङ्करः ।
मौलीन्दुकान्तिमलिनं हस्तस्थं नोत्पलं ममे ।। २७ ।।
हरे: स्वचक्रसूर्यांशुफुल्लं हस्तगताम्बुजम् ।
सरः पद्मञ्च सदृशं मेने वीक्ष्य समन्ततः ।। २८।।
तत्सरो वीक्ष्य सम्पूर्णं नानापक्षिसमाकुलम् ।
पद्मिनीशतसञ्छन्नं नीलोत्पलचयैर्वृतम् ।। २९ ।।
देवदारुतरूणाञ्च तटस्थानां प्रसूनजैः ।
परागैर्वासितजलं हृदयानन्दकारकम् ।।३०।।
तीरे तीरे महावृक्षैः शाद्वलैः परिवारितम् ।
दृष्ट्वा शम्भुः क्षणं तत्र सोत्सुकः शोकवर्जितः ।
शिप्रामालोकयामास निःसृतां सरसस्ततः ।। ३१ ।।
यथेन्दुमण्डलद् गङ्गा मेरोर्जाम्बूनदी यथा ।
तथा दृष्ट्वा महेशेन शिप्रा शिप्राद्विनिःसृता ।। ३२ ।।
।। ऋषय ऊचुः ।।
शिप्राह्वयः कः कासारः कथं शिप्रा ततः सृता ।
कीदृशोऽस्य प्रभावश्च तत् समाचक्ष्व विस्तरात् ।।३३।।
।। मार्कण्डेय उवाच ।।
शृण्वन्तु मुनयः सर्वे यथा शिप्रा नदी सृता ।
शिप्रस्य च महाभागाः प्रभावं गदतो मम ।।३४।।
वसिष्ठेन यदा देवी परिणीता त्वरुन्धती ।
तदा वैवाहिकैस्तोयैः शिप्रासिन्धुर भूद्विजाः ।।३५।।
सा समागत्य पतिता शिप्रे सरसि शासनात् ।
यथा मन्दाकिनी विष्णुपादादब्धौ शिवोदका ।। ३६ ।।
ब्रह्मविष्णुमहादेवैस्तोयं सिक्तं तयोः पुरा ।
विवाहे शान्तिविहितं गायत्रीद्रुपदादिभिः ।। ३७।।
एकीभूतन्तु तत्तोयं मानसाचलकन्दरात् ।
तत् सर्वं पतितं शिप्रे कासारे सागरोपमे ।। ३८ ।।
देवानामुपभोगार्थं पुरा धात्रा विनिर्मितम् ।
सर: शिप्राह्वयं सानौ प्रालेयस्य गिरेर्महत् ।। ३९ ।।
तत्राद्यापि सुनासीर: सहितश्चाप्सरोगणैः ।
शचीसहायो रमते प्रसन्ने सलिले शुभे ।। ४० ।।
तद्देवैः सर्वदा यत्नाद्रक्ष्यतेऽद्यापि रत्नवत् ।
न तत्र मानुषः कश्चिद् यातुं शक्नोति योऽमुनिः ।।४१।।
तपः प्रभावान्मुनयः प्रयान्ति सरसीं शुभाम् ।
शिप्राख्यान्तु महायनात् स्नातुं पातुञ्च तज्जलम् ।।४२।।
तत्र स्नात्वा च पीत्वा च मनुष्याः दैवयोगतः ।
अवश्यममरत्वाय गच्छन्त्यविकलेन्द्रियाः ।। ४३ ।।
वृद्धिं गच्छति वर्षासु सरो नैतद्विजोत्तमाः ।
न ग्रीष्मे शोषतां याति सर्वदा तद्यथा तथा ।।४४ ।।
तत्र तत् पतितं तोयं वसिष्ठोद्वाहसम्भवम् ।
ब्रह्मविष्णुमहादेवकरपद्मैरुदीरितम् ।। ४५ ।।
ववृधे शिप्रगर्भस्थमन्वहं द्विजसत्तमाः ।
तत्र वृद्धन्तु तत्तोयञ्चक्रेण च हरिः पुरा ।। ४६ ।।
गिरेः शृङ्गं विनिर्भिद्य लोकानां हितकाम्यया ।
पृथिवीं प्रेरयामास कृत्वा पुण्यतमां नदीम् ।।४७ ।।
परिवृत्य महेन्द्रं सा पुनाना स्नानकारिणः ।
दक्षिणं सागरं याता फलंदा जाह्नवी समा ।।४८ ।।
शिप्राख्यात् सरसो यस्मान्निःसृता सा महानदी ।
अतः शिप्रेति तन्नाम पुरैव ब्रह्मणा कृतम् ।।४९ ।।
कार्तिक्यां पौर्णमास्यां तु तस्यां यः स्नाति मानवः ।
स याति विष्णुसदनं विमानेनातिदीप्यता ।। ५० ।।
कार्तिकं सकलं मासं स्नात्वा शिप्राजले नरः ।
प्रयाति ब्रह्मसदनं पश्चान्मोक्षमवाप्नुयात् ।।५१।।
।। ऋषय ऊचुः ।
वसिष्ठेन कथं देवी परिणीता त्वरुन्धती ।
कस्य सा तनया ब्रह्मन्नुत्पन्ना वा वदस्व नः ।।५२।।
पतिव्रतासु प्रथिता त्रिषु लोकेषु या वरा ।
भर्तृपादौ विनान्यत्र या न चक्षुः प्रदास्यति ।। ५३ ।।
यस्या: स्मृत्वा कथामात्रं माहात्म्यसहितं स्त्रियः ।
प्रेत्येह च सतीत्वं वै प्राप्नुवन्त्यन्यजन्मनि ।। ५४ । ।
आसन्नकालधर्मो यां न पश्यति तथा शुचिः ।
पुरुषः पापकारी च तस्या जन्म वदस्व नः ।। ५५।।
।। मार्कण्डेय उवाच ।।
शृणुध्वं सा यथा जाता यस्य वा तनया शुभा ।
यथावाप वसिष्ठं सा यथाभूता प्रतिव्रता ।।५६ ।।
या सा सन्ध्या ब्रह्मसुता मनोजाता पुराभवत् ।
तपस्तप्त्वा तनुं त्यक्त्वा सैव भूता त्वरुन्धती ।।५७।।
मेधातिथेः सुता भूत्वा मुनिश्रेष्ठस्य सा सती ।
ब्रह्मविष्णुमहेशानां वचनाच्चरितव्रता ।
वव्रे पतिं महात्मानं वसिष्ठं संशितव्रतम् ।।५८।।
।। ऋषय ऊचुः ।
कथं तया तपस्तप्तं किमर्थं कुत्र सन्ध्यया ।
कथं शरीरं सा त्यक्त्वा भूता मेधातिथेः सुता ।। ५९ ।।
कथं वा गदितं देवैर्ब्रह्मविष्णुशिवैः पतिम् ।
वसिष्ठं सुमहात्मानं सा वव्रे संशितव्रतम् ।।६०।।
तन्नः सर्वं समाचक्ष्व विस्तरेण द्विजोत्तम ।
एतन्नः श्रोष्यमाणानां चरितं द्विजसत्तम ।
अरुन्धत्या महासत्याः परं कौतुहलं महत् ।। ६१ ।।
।। मार्कण्डेय उवाच ।।
ब्रह्मापि तनयां सन्ध्यां दृष्ट्वा पूर्वमथात्मनः ।
कामाय मानसञ्चक्रे त्यक्ता सा च सुतेति वै ।।६२।।
तस्यांच चलितं चित्तं कामवाणविलोडितम् ।
ऋषीणां प्रेक्षतां तेषां मानसानां महात्मनाम् ।।६३॥
भर्गस्य वचनं श्रुत्वा सोपहासविधिं प्रति ।
आत्मनश्चलचित्तत्वममर्यादमृषीन् प्रति ।। ६४ ।।
कामस्य तादृशं भावं मुनिमोहकरं मुहुः ।
दृष्ट्वा सन्ध्या स्वयं तत्र त्रपामायाति दुःखिता ।।६५ ।।
ततस्तु ब्रह्मा शप्ते मदने तदनन्तरम् ।
अन्तर्भूते विधौ शम्भौ गते चापि निजास्पदम् ।।६६ ।।
अमर्षवशमापन्ना सन्ध्या ध्यानपराभवत् ।
ध्यायन्ती क्षणमेवाशु पूर्ववृत्तं मनस्विनी ।।६७।।
इदं विममृशे सन्ध्या तस्मिन् काले यथोचितम् ।
उत्पन्नमात्रां मां दृष्ट्वा युवतीं मदनेरितः ।
अकार्षीत् सानुरागोऽयमभिलाषं पितामहः ॥६८ ॥
सर्वेषां मानसानाञ्च मुनीनां भावितात्मनाम् ।
दृष्टैव माममर्यादं सकाममभवन् मनः ।।६९॥
ममापि मथितं चित्तं मदनेन दुरात्मना ।
येन दृष्ट्वा मुनीन् सर्वान् चलितं मे मनोभृशम् ।।७०।।
फलमेतस्य पापस्य मदनः स्वयमाप्तवान् ।
स्वयं शशाप कुपितः शम्भोरग्रे पितामहः ।।७१।।
ममोचितं फलं सर्वं प्राप्तुमिच्छामि साम्प्रतम् ।।७२।।
यन्मां पिता भ्रातरश्च सकामामपरोक्षतः ।
दृष्ट्वा चक्रुः स्पृहां तस्मान्न मत्तः काऽपि पापकृत् ।।७३।।
ममापि कामभावोऽभूदमर्यादं समीक्ष्य तान् ।
पत्याविव स्वके ताते सर्वेषु सहजेष्वपि ।।७४।।
करिष्याम्यस्य पापस्य प्रायश्चित्तमहं स्वयम् ।
आत्मानमग्नौ होष्यामि वेदमार्गानुसारतः ।। ७५ ।।
किन्त्वेकां स्थापयिष्यामि मर्यादामिह भूतले ।
उत्पन्नमात्रा न यथा सकामाः स्युः शरीरिणः ।। ७६ ।।
एतदर्थमहं कृत्वा तपः परमदारुणम् ।
मर्यादां स्थापयित्वैव पश्चात्त्यक्ष्यामि जीवितम् ।।७७ ।।
यस्मिञ्छरीरे पित्रा मे ह्यभिलाषः स्वयं कृतः ।
भ्रातृभिस्तेन कायेन किञ्चिन्नास्ति प्रयोजनम् ।।७८ ।।
येन स्वेन शरीरेण ताते च सहजे स्वके ।
उद्भावितः कामभावो न तत्सुकृतसाधकम् ।।७९।।
इति सञ्चिन्त्य मनसा सन्ध्या शैलवरं ततः।
जगाम चन्द्रभागाख्यं चन्द्रभागा यतः सृता ॥८०॥
तया स शैलैः समधिष्ठितः तदा सुवर्णगौर्या सुसमप्रभाभृता ।
सोमेन सन्ध्यासमयोदितेन यथोदयाद्रिर्विरराज शश्वत् ।।८१।।
॥ इति श्रीकालिकापुराणे सन्ध्यातपश्चरणं नाम एकोनविंशोऽध्यायः ।। १९ ।।
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand