कालिकापुराणम्/अध्यायः २
कालिकापुराणम् द्वितीयोऽध्यायः ब्रह्मामोहवर्णनम् अथ कालिका पुराण अध्याय २ ।। मार्कण्डेय उवाच ।। ततस्ते मुनयः सर्वे तदभिप्रायवेदिनः । चक्रुस्तदुचितं नाम मरीच्यत्रिमुखास्तथा ।। १ ।। मुखावलोकनादेव ज्ञात्वा वृत्तान्तमन्यतः । दक्षादयस्तु स्रष्टारः स्थानं पत्नीञ्च ते ददुः ।।२।। ततो निश्चित्य नामानि मरीचिप्रमुखाद्विजाः । ऊचुः सङ्गतमेतस्मै पुरुषाय द्विजोत्तमाः ।।३।। ।। ऋषय ऊचुः ।। यस्मात् प्रमथ्य चेतस्त्वं जातोऽस्माकं तथा विधेः । तस्मान्मन्मथनाम्ना त्वं लोके ख्यातो भविष्यसि ।।४।। जगत्सु कामरूपस्त्वं त्वत्समो नहि विद्यते । अतस्त्वं काम नाम्नापि ख्यातो भव मनोभव ॥५॥ मदनान्मदनाख्यस्त्वं शम्भोदर्पाच्च दर्पकः । तथा कन्दर्प- नाम्नापि लोके ख्यातो भविष्यसि ॥६ ॥ त्वदाशुगानां यद्वीर्यं तद्वीर्यं न भविष्यति । वैष्णवानाञ्च रौद्राणां ब्रह्मास्त्राणाञ्च तादृशम् ।।७।। स्वर्गे मत्यें च पाताले ब्रह्मलोके सनातनः । तव स्थानानि सर्वाणि सर्वव्यापी भवान् यतः । किं वाचातिविशेषेण सामान्ये नास्ति ते समः ॥८॥ यत्र यत्र भवेत्प्राणी शाद्वलास्तरवोऽथवा । तत्र तत्र तव स्थानमस्त्वाब्रह्मस भोदयम् ।।९।। दक्षोऽयं भवतः पत्नीं स्वयं दास्यति शोभनाम् । आद्यः प्रजापतियों हि यथेष्टं पुरुषोत्तम ।।१०।। एषा च कन्यका चारुरूपा ब्रह्ममनोभवा । सन्ध्यानामेति विख्याता सर्वलोके भविष्यति ।। ११ ।। ब्रह्मणो ध्यायतो यस्मात् सम्यग्जाता वराङ्गना । अतः सन्ध्येति लोकेऽस्मिन्नाम्ना ख्यातिर्भविष्यति ।।१२।। ।। मार्कण्डेय उवाच ।। इत्युक्त्वा मुनयः सर्वे तूष्णीं तस्थुर्द्विजोत्तमाः । अवेक्ष्य ब्रह्मवदनं विनयावनताः पुरः ।।१३।। ततः कामोऽपि कोदंडमादाय कुसुमोद्भवम् । उन्मादनेति विख्यातं कान्ताभ्रूतुल्य- वेल्लिताम् ।।१४।। कौसुमानि तथास्त्राणि पञ्चादाय द्विजोत्तमाः । हर्षणं रोचनाख्यञ्च मोहनं शोषणं तथा ।। १५ ।। मारणञ्चेति संज्ञाभिर्मुनिमोहकराण्यपि । प्रच्छन्नरूपी तत्रैव चिन्तयामास निश्चयम् ।। १६ ।। ब्रह्मणा मम यत्कार्यं समुद्दिष्टं सनातनम् । तदिहैव करिष्यामि मुनीनां सन्निधौ विधेः ।। १७ ।। तिष्ठन्ति मुनयश्चात्र स्वयञ्चापि प्रजापतिः । एषा सन्ध्या वरस्त्री च दक्षोऽप्यत्र प्रजापतिः ।। १८ ।। एते शरव्यभूता मे भविष्यन्त्यद्य निश्चयम् । सन्ध्यापि ब्रह्मणा प्रोक्तमिदानीमेव तद्वचः ।।१९।। अहं विष्णुर्हरश्चापि तवास्त्रवशवर्तिनः । किमन्यैर्जन्तुभिरिति तत्सार्थं करवाण्यहम् ।।२०।। ॥ मार्कण्डेय उवाच ।। इति सञ्चित्यमनसा निश्चित्य च मनोभवः । पुष्पज्यां पुष्पचापस्य योजयामास मार्गणैः ।। २१ ।। आलीढस्थानमासाद्य धनुराकृष्य यत्नतः । चकार वलयाकारं कामो धन्विवरस्तदा ।। २२।। संहिते तेन कोदण्डे मारुताश्च सुगन्धयः । ववुस्तत्र मुनिश्रेष्ठाः सम्यगाह्लादकारिणः ।। २३ ।। ततस्तानथ धात्रादीन् सर्वानेव च मानसान् । पृथक् पृथक् पुष्पशरैर्मोहयामास मोहनः ।। २४ । । ततस्ते मुनयः सर्वे मोहिताश्चतुराननः । मोहितो मनसा किञ्चिद्विकारं प्रापुरादितः ।।२५।। सन्ध्यां सर्वे निरीक्षन्तः सविकाराः मुहुर्मुहुः । आसन्प्रवृद्धमदनाः स्त्रीयस्मान्मदवर्द्धिनी ।।२६।। ततः सर्वान् स मदनो मोहयित्वा पुनः पुनः । यथेन्द्रियविकारांस्ते प्रापुस्तानकरोत्तथा ।। २७।। उदीरितेन्द्रियो धाता वीक्षाञ्चक्रे यदाप्य ताम् । तदैव ह्यूनपञ्चाशद्भावा जाताः शरीरतः ॥२८॥ विव्वोकाद्यास्तथा हावाश्चतुःषष्टिकलास्तथा । कन्दर्पशरविद्वायाः सन्ध्याया अभवन् द्विजाः ।। २९ ।। सापि चक्रे तैर्वीक्ष्यमाणाथ कन्दर्पशरपातजान् । मुहुर्मुहुर्भावान् कटाक्षावरणादिकान् ।। ३० ।। निसर्गसुन्दरी सन्ध्या तान् भावान् मदनोद्भवान् । कुर्वन्त्यतितरां रेजे स्वर्नदीव तनूर्मिभिः ।। ३१ ।। अथ भावयुतां सन्ध्यां वीक्षमाणः प्रजापतिः । धर्म्माम्भपूरिततनुः अभिलाषमथाकरोत् ।।३२।। ततस्ते मुनयः सर्वे मरीच्यत्रिमुखा अपि । दक्षाद्याश्च द्विजश्रेष्ठाः प्रापुर्वैकारिकेन्द्रियम् ।।३३।। दृष्ट्वा तथाविधान् दक्षमरीचिप्रमुखान् विधम् । सन्ध्याञ्च कर्मणि निजे श्रद्दधे मदनस्तदा ॥३४॥ यदिदं ब्रह्मणा कर्म ममोद्दिष्टं मयापि तत् । कर्तुं शक्यमिति श्रद्धा भावितात्मा भवत्तदा ।। ३५ ।। ततो वियद्गतः शम्भुर्विधिं दृष्ट्वा तथाविधम् । सदक्षान्मानसाञ्चापि जहासोपजहास च ।। ३६।। ससाधुवादं तान् सर्वान् विहस्य च पुनः पुनः । उवाचेदं द्विजश्रेष्ठा लज्जयंस्तान् वृषध्वजः ।। ३७।। ।। ईश्वर उवाच ।। अहो ब्रह्मन् अत्र कथं कामभावाः समुद्गताः । दृष्ट्वा स्वतन्यां नैतद्योग्यं वेदानुसारिणाम् ॥३८॥ यथा माता तथा जामिर्यथा जामिस्तथा सुता । एष वै वेदमार्गस्य निश्चयस्त्वन्मुखोत्थितः । कथन्तु काममात्रेण तत्ते विस्मारितं विधे ।। ३९ ।। धैर्ये जागरितं ब्रह्मन् समस्तं चतुरानन । कथं क्षुद्रेण कामेन तत्ते विघटितं विधे ॥४०॥ एकान्तयोगिनः कस्मात् सर्वज्ञा दिव्यदर्शनाः । कथं दक्षमरीच्याद्या लोलुपाः स्त्रीषु मानसाः ।।४१।। कथं कामोऽपि मन्दात्मा प्राप्तकर्माधुनैव तु । युष्मान् शरव्यान् कृतवानकालज्ञोऽल्पचेतसः ।।४२।। धिगस्तु तं मुनिश्रेष्ठं यस्य कान्ताजनो हठाद् । धैर्यमाकृष्य लौल्येषु मज्जयत्यपि तन्मनः ॥४३॥ मार्कण्डेय उवाच । । इति तस्य वचः श्रुत्वा लोकेशो गिरिशस्य च । व्रीडया द्विगुणीभूतस्वेदार्द्रा ह्यभवत् क्षणात् ।। ४४ ।। ततो निगृह्यैन्द्रियकं विकारं चतुराननः । जिघृक्षुरपि तत्याज तां सन्ध्यां कामरूपिणीम् ।।४५ ।। तच्छरीरात्तु धर्माम्भो यत्पपात द्विजोत्तमाः । अग्निष्वात्ता वर्हिषदो जाताः पितृगणास्तथाः ।। ४६ ।। भिन्नाञ्जननिभाः सर्वे फुल्लराजीवलोचनाः । नितान्त यतयः पुण्याः संसारविमुखाः पराः ।।४७।। सहस्राणां चतुः षष्टिरग्निष्वात्ताः प्रकीर्तिताः । षडशीतिसहस्राणि तथा वर्हिषदो द्विजाः ।।४८ ।। घर्माम्भः पतितं भूमौ यद्दक्षस्य शरीरतः । समस्तगुणसम्पन्ना तस्माज्जाता वराङ्गना ।। ४९ ।। तन्वङ्गी तनुमध्या च तनुमावली शुभा । मृदङ्गी चारुदशना तप्तकाञ्चनसुप्रभा ।।५०।। मरीचिप्रमुखैः षड्भिर्निगृहीतेन्द्रियक्रिया । ऋते क्रतुं वशिष्ठञ्च पुलस्त्याङ्गिरसौ तदा ।। ५१ ।। क्रत्वादीनां चतुर्णाञ्च यो भूमौ निपपात ह । तेभ्यः पितृगणा जाता अपरे द्विजसत्तमाः ।। ५२ ।। सोमपा आज्यपा नाम्ना तथैवान्ये सुकालिनः । हविर्भुजस्तु ते सर्वे कव्यवाहाः प्रकीर्तिताः ।।५३ ।। क्रतोस्तु सोमपाः पुत्रा वसिष्ठस्य सुकालिनः । आज्यपाख्याः पुलस्त्यस्य हविष्मन्तोऽङ्गिरः सुताः ।। ५४ ।। जातेषु तेषु विप्रेन्द्रा अग्निष्वात्तादिकेष्वथ । लोकानां पितृवर्गेषु कव्यवाहाः समन्ततः ।। ५५।। सर्वेषामेव भूतानां ब्रह्माभूतः पितामहः । सन्ध्या पितृप्रसूर्भूता तदुद्देशाद्यतोऽभवत् ।। ५६ ।। अथ शङ्करवाक्येन लज्जित: स पितामहः । कन्दर्पाय चुकोपाशु भ्रुकुटीकुटिलाननः ।। ५७ ।। पुरैव तदभिप्रायं विदित्वा सोऽपि मन्मथः । स्वबाणान् सञ्जहाराशु भीतः पशुपतेर्विधेः ।। ५८ ।। ततः क्रोधसमाविष्टो ब्रह्मा लोक- पितामहः । यच्चकार द्विजेन्द्रास्तच्छृणुध्वं सुसमाहिताः ।। ५९ ।। ॥ श्रीकालिकापुराणे ब्रह्मामोहनो नाम द्वितीयोऽध्यायः ॥ २ ॥ कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand </poem>