कालिकापुराणम्/अध्यायः २०
कालिकापुराणम् विंशोऽध्यायः चन्द्रशापवर्णनम्
कालिका पुराण अध्याय २०
।। मार्कण्डेय उवाच ।।
अथ तत्र गतां दृष्ट्वा सन्ध्यां गिरिवरं प्रति ।
तपसे नियतात्मानं ब्रह्मा प्राह स्वकं सुतम् ।।१।।
वसिष्ठं संशितात्मानं सर्वज्ञं ज्ञानियोगिनम् ।
समीपे सुसमासीनं वेदवेदाङ्गपारगम् ।।२॥
।। ब्रह्मोवाच ।।
वसिष्ठ गच्छ यत्रैषा सन्ध्या याता मनस्विनी ।
तपसे धृतकामा सा दीक्षस्वैनां यथाविधि ॥३॥
मन्दाक्षमभवत् तस्याः पुरा दृष्ट्वेह कामुकान् ।
युष्मान् माञ्च तथात्मानं सकामान् मुनिसत्तम ।।४।।
अयुक्तरूपं तत्कर्म पूर्ववृत्तं विमृश्य सा ।
अस्माकमात्मनश्चापि प्राणान् सन्त्यक्तुमिच्छति ॥५॥
अमर्यादेषु मर्यादां तपसा स्थापयिष्यति ।
तपः कर्तुं गता साध्वी चन्द्रभागाय साम्प्रतम् ॥६॥
न भावं तपसस्तात सा तु जानाति कञ्चन ।
तस्माद्यथोपदेशं सा प्राप्नोति त्वं तथा कुरु ॥७।।
इदं रूपं परित्यज्य रूपान्तरं परं भवान् ।
परिगृह्णान्तिके तस्यास्तपश्चर्यान्निदेशतु ॥८॥
इदं स्वरूपं भवतो दृष्ट्वा पूर्वं यथा त्रपाम् ।
तथा प्राप्य न किञ्चित् सा त्वदग्रे व्याहरिष्यति ।।९।।
परित्यज्य स्वकं रूपं रूपान्तरधरो भवान् ।
तस्मात् सन्ध्यां महाभागामुपदेष्टुं प्रगच्छतु ।।१०।।
।। मार्कण्डेय उवाच ॥
तथेत्युक्त्वा वसिष्ठोऽपि वर्णी भूत्वा जटाधरः ।
तरुणश्चन्द्रभागाय ययौ सन्ध्यान्तिकं मुनिः ।।११।।
तत्र देवसर: पूर्ण गुणैर्मानससम्मितम् ।
ददर्श स वसिष्ठोऽथ सन्ध्यां तत्तीरगामिनीम् ।।१२।।
तीरस्थया तया रेजे तत्सरः कमलोज्ज्वलम् ।
उद्यदिन्दुसनक्षत्रं प्रदोषे गगनं यथा ।।१३।।
तां तत्र दृष्ट्वाथ मुनिः समाभाष्य सकौतुकः ।
वीक्षाञ्चक्रे सरस्तत्र वृहल्लोहितसंज्ञकम् ।।१४।।
चन्द्रभागा नदी तस्मात् कासाराद्दक्षिणाम्बुधिम् ।
यान्तीं निर्भिद्य ददृशे तेन सानुगिरेर्महत् ।। १५ ।।
निर्भिद्य पश्चिमं सानुं चन्द्रभागस्य सा नदी ।
यथा हिमवतो गङ्गा तथा गच्छति सागरम् ।।१६।।
।। ऋषय ऊचुः ।।
चन्द्रभागा कथं सिन्धुस्तत्रोत्पन्ना महागिरौ ।
कीदृक् सरस्तद्विप्रेन्द्र वृहल्लोहितसंज्ञकम् ।।१७।।
कथं स पर्वतश्रेष्ठश्चन्द्रभागाह्वयोऽभवत् ।
चन्द्रभागाह्वया कस्मान्नदी जाता वृषोदका ।।१८।।
एतन्नः श्रोष्यमाणानां जायते कौतुकं महत् ।
माहात्म्यं चन्द्रभागायाः कासारस्य गिरेस्तथा ।।१९।।
।। मार्कण्डेय उवाच ।।
श्रूयताञ्चन्द्रभागायाः उत्पत्तिर्मुनिसत्तमाः ।
युष्माभिश्चन्द्रभागस्य माहात्म्यं नामकारणम् ।।२० ॥
हिमवगिरिसंसक्तः शतयोजनविस्तृतः ।
योजनत्रिंशदायामः कुन्देन्दुधवलो गिरिः ।।२१।।
तस्मिन् गिरौ पुरा वेधाश्चन्द्रं शुद्धं सुधानिधिम् ।
विभज्य कल्पयामास देवान्नं स पितामहः ।। २२ ।।
पित्रर्थञ्च तथा तस्य तिथिवृद्धिक्षयात्मकम् ।
कल्पयामास जगतां हिताय कमलासनः ।। २३ ।।
विभक्तश्चन्द्रमास्तस्मिन् जीमूते द्विजसत्तमाः ।
अतो देवाश्चन्द्रभागं नाम्ना चक्रुः पुरा गिरिम् ॥२४॥
।। ऋषय ऊचुः ।।
यज्ञभागेषु तिष्ठत्सु तथा क्षीरोदजेऽमृते ।
किमर्थमकरोच्चन्द्रं देवान्नं कमलासनः ।।२५।।
तथा कंव्ये स्थिते कस्मात् पित्र्यर्थं समकल्पयत् ।
तिथिक्षये तथा वृद्धौ कथमिन्दुरभूद्गुरो ।। २६ ।।
एतन्नः संशयं ब्रह्मञ्छिन्धि सूर्यो यथा तमः ।
नान्योऽस्ति संशयस्यास्य छेत्ता त्वत्तो द्विजोत्तम ।।२७।।
।। मार्कण्डेय उवाच ।।
पुरा दक्षः स्वतनयाः अश्विन्याद्याः मनोरमाः ।
षड्विशतिं तथैकाञ्च सोमायादात् प्रजापतिः ।। २८ ।।
समस्तास्तास्ततः सोम उपयेमे यथाविधि ।
निनाय च स्वकं स्थानं दक्षस्यानुमते तदा ।। २९ ।।
अथ चन्द्रः समस्तासु तासु कन्यासु रागतः ।
रोहिण्या सार्धमवसद्रतोत्सवकलादिभिः ॥३०॥
रोहिणीमेव भजते रोहिण्या सह मोदते ।
विनेन्दू रोहिणीं शान्तिं न काचिल्लभते पुरा ।। ३१ ।।
रोहिणी तत्परं चन्द्रं वीक्ष्य ताः सर्वकन्यकाः ।
उपचारैर्बहुविधैर्भेजुश्चन्द्रमसं प्रति ।।३२।।
निषेव्यमाणोऽनुदिनं यदा नैवाकरोद्विधुः ।
तासु भावं तदा सर्वा अमर्षवशमागताः ।। ३३ ।।
अथोत्तराफाल्गुनीति नाम्ना या भरणी तथा ।
कृत्तिकार्द्रा मघा चैव विशाखोत्तरभाद्रपत् ।।३४।।
तथा ज्येष्ठोत्तराषाढे नवैताः कुपिताः भृशम् ।
हिमांशुमुपसंगम्य परिवव्रुः समन्ततः ।। ३५ ।।
परिवार्य निशानाथं ददृशू रोहिणीं ततः ।
वामांकस्थां तस्य तेन रममाणां स्वमण्डले ।। ३६ ।।
तां वीक्ष्य तादृशीं सर्वा रोहिणीं वरवर्णिनीम् ।
जज्वलुश्चातिकोपेन हविषेव हुताशनः ।। ३७।।
ततो मधात्रिपूर्वाश्च भरणी कृत्तिका तथा ।
चन्द्रांकस्थां महाभागां रोहिणीं जगृहुर्हठात् ।। ३८।।
ऊचुश्चातीव कुपिताः परुषं रोहिणीं प्रति ।
जीवन्त्यां त्वयि दुष्प्राज्ञे नास्मानिन्दुस्तु भावभाक् ।।३९।।
समुपैष्यति कस्मिंश्चित्सम सुरतोत्सुकः ।
वह्नीनां क्षेमवृद्ध्यर्थं तां हनिष्याम दुर्मतिम् ॥४०॥
न त्वां हत्वा भवेत् पापमस्माकमपि किञ्चन ।
प्रजनघ्नीं बहुस्त्रीणामनृतौ पापकारिणीम् ।।४१ ।।
यस्मिन्नर्थे पुरा ब्रह्मा व्याजहार सुतं प्रति ।
नीतिशास्त्रोपदेशाय तन्नः संश्रुतमस्ति वै ।। ४२ ।।
एकस्य यत्र निधने प्रवृत्ते दुष्टकारिणः ।
बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः ।।४३।।
रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः ।
आत्मानं घातयेद्यस्तु तस्य पुण्यप्रदो वधः ।।४४।।
।। मार्कण्डेय उवाच ।।
तासां तादृगभिप्रायं बुद्ध्वा दृष्ट्वा च कर्म च ।
भीतां च रोहिणीं दृष्ट्वा प्रियामतिमनोरमाम् ।।४५ ।।
आत्मानश्चापराधं च तदसम्भोगजं मुहुः ।
विचिन्त्य रोहिणीं भीतां तासां हस्तादमोचयत् ।। ४६ ।।
मोचयित्वा च बाहुभ्यां सम्परिष्वज्य रोहिणीम् ।
वारयामास ताः सर्वाः कृत्तिकाद्याः स भामिनीः ।। ४७ ।।
तदेन्दुं वारयन्त्यस्ताः कृत्तिकाद्या मघान्तकाः ।
साम्यमूचुर्मनस्विन्यस्तां वीक्ष्यन्त्योऽथ रोहिणीम् ।।४८।।
न ते त्रपा वा भीतिर्वा पापतोऽस्मान्निरस्यतः ।
संजायते निशानाथ प्राकृतस्येव वर्ततः ।। ४९ ।।
कथमस्मान्निराकृत्य चारित्रव्रतधारिणीः ।
सदा भक्तिमतीरेकां मूढवत्त्वं निषेवसे ।। ५० ।।
किं ते नावगतो धर्मो वेदमूलः श्रुतः पुरा ।
यद्धर्महीनं कुरुषे कर्म सद्भिर्विगर्हितम् ।। ५१ ।।
धर्मशास्त्रार्थगं कर्म चरन्तीनां यथोचितम् ।
कथमुद्वाहितानां त्वं मुखमात्र न वीक्षसे ।। ५२ ।।
गदतो यच्छुतं पूर्वं नारदाय पितुर्मुखात् ।
दक्षस्य धर्मशास्त्रार्थं तच्छृणुष्व निशापते ।।५३॥
बहुदारः पुमान् यस्तु रागादेकां भजेत् स्त्रियम् ।
स पापभाक्स्त्रीजितश्च तस्याशौचं सनातनम् ।।५४।।
यद्दुःखं जायते स्त्रीणां स्वाम्यसम्भोगजं विधो ।
न तस्य सदृशं दुःखं किञ्चिदन्यत्र विद्यते ।।५५।।
सतीमृतुमतीं जायां यो नेयात्पुरुषाधमः ।
ऋतुधस्त्रेषु शुद्धेषु भ्रूणहा स च जायते ।।५६॥
भार्या स्याद्यावदात्रेयी तावत्कालं विबोधनम् ।
तस्यास्तु सङ्गमे किञ्चिद्विहितञ्चापि नाचरेत् ।।५७ ।।
बहुभार्यस्य भार्याणामृतुमैथुननाशनम् ।
न किञ्चिद्विद्यते कर्म शास्त्रेणापि यदीरितम् ।।५८।।
तोषयेत् सततं भार्याविधिवत्पाणिपीडिताः ।
तासां तुष्ट्या तु कल्याणमकल्याणमतोऽन्यथा ।। ५९ ।।
सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च ।
यस्मिन्नेतत्कुले नित्यं कल्याणं तत्र वै ध्रुवम् ।।६० ।।
यया विरुध्यते स्वामी सौभाग्यमददृप्तया ।
सपत्नीसङ्गमं कर्तुं सा स्याद्वेश्या भवान्तरे ।। ६१ ।।
इहापि लोके वाच्यत्वमधर्मञ्चापि विन्दति ।
न पितुश्च कुलं स्वामिकुलं तस्याः प्रमोदते ।। ६२ ।।
विरुध्यमाने पत्यौ यत्सपत्न्या वा प्रवर्तते ।
अतीव दुःखं भवति तदकल्याणकृत्तयोः ।।६३।।
।। मार्कण्डेय उवाच ।।
इत्येवं भाषमाणासु तासु चातीव निष्ठुरम् ।
चुकोप चन्द्रमा दृष्ट्वा मलिनं रोहिणीमुखम् ।।६४।।
रोहिणी च तदा तासामवलोक्योग्रतां मुहुः ।
न किञ्चित् सापि प्रोवाच भयशोकत्रपाकुला ।। ६५ ।।
अथापि कुपितश्चन्द्रस्ताः शशाप तदा स्त्रियः ।
यस्मान्मम पुरश्चोप्रास्तीक्ष्णा वाचः समीरिताः ।।६६।।
भवतीभिश्च तिसृभिर्लोकेऽस्मिन् कृत्तिकादिभिः ।
ऊप्रास्तीक्ष्णा इति ख्यातिः प्राप्तव्या त्रिदशेष्वपि ।।६७।।
तस्मादेवंविधानेन नवैताः कृत्तिकादयः ।
यात्रायां नोपयुक्ता हि भविष्यध्वं दिने दिने ।। ६८ ।।
युष्मान् पश्यन्ति देवाद्या मनुष्याद्या च ये क्षितौ ।
यात्रायां तेन दोषेण तेषां यात्रा न चेष्टदा ।। ६९ ।।
अथ सर्वास्तदा शापं तस्य श्रुत्वातिदारुणम् ।
चन्द्रस्य हृदयं ज्ञात्वा शापाच्चातीव निष्ठुरम् ।।७० ।।
जग्मुः सर्वास्तदा दक्षभवनं प्रत्यमर्षिताः ।
ऊचुश्च दक्षं पितरमश्विन्याद्याः सगद्गदम् ।।७१ ।।
सोमो वसति नास्मासु रोहिणीं भजते सदा ।
सेवमाना न भजते सोऽस्मान् परबधूरिव ।।७२ ।।
नावस्थाने नावसाने भोजने श्रवणे तथा ।
विनेन्दू रोहिणीं शान्तिं लभते नहि काञ्चन ।।७३।
रोहिण्या वसतस्तस्य समीपं वीक्ष्य ते सुताः ।
यान्तीः सोऽन्यत्र नयनमाधाय नहि वीक्षते ॥७४।।
मास्त्वन्यः स्वामिसद्भावो मुखमात्रं न वीक्षते ।
अस्मिन् वस्तुनि यत्कार्यं तदस्माभिर्निगद्यताम् ।।७५।।
अस्माभिरेतत्समयेऽनुरुद्धश्च चन्द्रमाः ।
स तत्कृते ततश्चास्मच्छापं तीव्रं तदाकरोत् ।। ७६ ।।
दोरुणाश्चातितीक्ष्णाश्च लोके वाच्यत्वमाप्य च ।
अयात्रिका भविष्यध्वं यूयमित्युक्तवान् विधुः ।। ७७ ।।
।। मार्कण्डेय उवाच ।।
श्रुत्वा वाक्यं स पुत्रीणां ताभिः सार्धं प्रजापतिः ।
जगाम यत्र सोमोऽभूद्रोहिण्या सहितस्तदा ।।७८ ।।
दूरादेव विधुर्दृष्टवा दक्षमायान्तमासनात् ।
उत्तस्थावन्तिके प्राप्य ववन्दे च महामुनिम् ।।७९।।
अथ दक्षस्तदोवाच कृतासनपरिग्रहः ।
सामपूर्वं चन्द्रमसं कृत- संवन्दनं तथा ॥८०॥
।। दक्ष उवाच ।
समं वर्तस्व भार्यासु वैषम्यं त्वं परित्यज़ ।
वैषम्ये बहवो दोषा ब्रह्मणा परिकीर्तिताः ।। ८१ ।।
रतिपुत्रफला दारास्तासु कामानुबन्धनात् ।
कामानुबन्धः संसर्गात् संसर्गः सङ्गमाद्भवेत् ।।८२।।
सङ्गमश्चाप्यभिध्यानाद्वीक्षणादभिजायते ।
तस्माद् भार्यास्वभिध्यानं कुरु त्वं वीक्षणादिकम् ।।८३।।
यद्येवं नैव कुरुषे मद्वचो धर्मयन्त्रितम् ।
तदा लोकवचोदुष्टः पापवांस्त्वं भविष्यसि ॥८४॥
।। मार्कण्डेय उवाच ।।
एतच्छ्रुत्वा वचस्तस्य दक्षस्य सुमहात्मनः ।
एवमस्त्विति चन्द्रोऽपि न्यगदद्दक्षशङ्कया ।।८५ ।।
अथानुमन्त्र्य तनयाश्चन्द्रं जामातरं तथा ।
ययौ दक्षो निजं स्थानं कृतकृत्यस्तदा मुनिः ॥८६ ।।
गते दक्षे ततश्चन्द्रस्तां समासाद्य रोहिणीम् ।
जग्राह पूर्ववद्भावं तासु तस्यां च रागतः ।।८७ ।।
तत्रैव रोहिणीं प्राप्य न काश्चिदपि वीक्षते ।
रोहिण्यामेव वसते ततस्ताः कुपिताः पुनः ।। ८८ ।।
गत्वा ता: पितरं प्राहुदौर्भाग्योद्वग्नमानसाः ।
सोमो वसति नास्मासु रोहिणीं भजते सदा ।।८९।।
तवापि नाकरोद्वाक्यं तस्मान्न: शरणं भव ।। ९० ।।
उद्वेगकोपसंयुक्त उत्तस्थौ तत्क्षणान्मुनिः ।
जगाम मनसा ध्यायन् कर्तव्यं निकटं विधोः ।। ९९ ।।
उपगम्य तदा प्राह वचश्चन्द्रं प्रजापतिः ।
समं वर्तस्व भार्यासु वैषम्यं त्वं परित्यज ।।९२।।
न चेदिदं वचोऽस्माकं मौर्ख्यात् त्वं मावबुध्यसे ।
धर्मशास्त्रातिगायाहं शप्स्ये तुभ्यं निशापते ।।९३।।
।। मार्कण्डेय उवाच ।।
ततो दक्षभयाच्चन्द्रस्तत्कर्तुं प्रति तत्पुरः ।
अङ्गीचकारातिभयात् कार्यमेव मुहुस्त्विति ।। ९४ ।।
समं प्रवर्तनं कर्तुं भार्यास्वङ्गीकृते ततः ।
विधुना प्रययौ दक्षः स्वस्थानं चन्द्रसम्मतः ।। ९५ ।।
गते दक्षे निशानाथो रोहिण्यासहितो भृशम् ।
रममाणो विसस्मार दक्षस्य वचनन्तु सः ।।९६।।
सेवमानाश्च ताः सर्वा अश्विन्याद्या मनोरमाः ।
नाभजच्चन्द्रमास्तासु अवज्ञामेव चाकरोत् ।।९७।।
अवज्ञातास्तु ताः सर्वाश्चन्द्रेण पितुरन्तिकम् ।
गत्वैवार्तस्वराश्चार्ता रुदन्त्यश्चेदमब्रुवन् ।। ९८ ।।
नाकरोद्वचनं सोमस्तवापि मुनिसत्तम ।
अवज्ञां कुरुतेऽस्मासु पूर्वतोऽप्यधिकं स च ।। ९९ ।।
तस्मात् सोमेन नः कार्यं न किञ्चिदपि विद्यते ।
तपस्विन्यो भविष्यामस्तपश्चर्यां निदेशय ।।१०० ॥
तपसा शोधितात्मानः परित्यक्ष्याम जीवितम् ।
किमस्माकं जीवितेन दुर्भगानां द्विजोत्तम ।। १०१ ।।
।। मार्कण्डेय उवाच ।।
इत्युक्त्वा तास्ततः सर्वा दक्षजाः कृत्तिकादयः ।
कपोलमालम्व्य करैरुरुदुर्विविशुः क्षितौ ।। १०२ ।।
तास्तु दृष्ट्वा तथाभूता दुःखव्याकुलितेन्द्रियाः ।
अतिदीनमुखो दक्षः कोपाज्जज्वाल वह्निवत् ||१०३ ।।
अथ कोपपरीतस्य दक्षस्य सुमहात्मनः ।
निश्चक्राम तदा यक्ष्मा नासिकाग्राद्विभीषणः ।। १०४ ।।
दंष्ट्राकरालवदनः कृष्णांगारसमप्रभः ।
अतिदीर्घः स्वल्पकेशः कृशो धमनिसन्ततः ।। १०५ ।।
अधोमुखो दण्डहस्तः कासं विश्रम्य सन्ततम् ।
कुर्वाणो निम्ननेत्रश्च योषासम्भोगलोलुपः ।। १०६।।
स चोवाच तदा दक्षं कस्मिंस्थास्याम्यहं मुने ।
किं वा चाहं करिष्यामि तन्मे वद महामते ।। १०७ ।।
ततो दक्षस्तु तं प्राह सोमं यातु द्रुतं भवान् ।
सोममत्तु भवान्नित्यं सोमे त्वं तिष्ठ स्वेच्छया ।। १०८ ।।
।। मार्कण्डेय उवाच ।।
इति श्रुत्वा वचस्तस्य दक्षस्याथ महामुनेः ।
शनैः शनैस्ततः सोममाससाद गदः स च ।। १०९ ।।
आसाद्य स तदा सोमं वल्मीकं पन्नगो यथा ।
प्रविवेशेन्दुहृदयं छिद्रं प्राप्य महागदः । । ११० ।।
तस्मिन् प्रविष्टे हृदये दारुणे राजयक्ष्मणि ।
मुमोह चन्द्रस्तन्द्रांच विषमां प्राप्तवांश्च सः ।। १११ ।।
उत्पद्य प्रथमं यस्माल्लीनो राजन्यसौ गदः ।
राजयक्ष्मेति लोकेऽस्मिन्तस्य ख्यातिरभूद्विजाः ।। ११२ ।।
ततस्तेनाभिभूतः स यक्ष्मणा रोहिणीपतिः ।
क्षयं जगामानुदिनं ग्रीष्मे क्षुद्रा नदी यथा ।। ११३ ।।
अथ चन्द्रे क्षीयमाणे सर्वौषध्यो गताः क्षयम् ।
क्षयं यातास्वौषधिषु न यज्ञः समवर्तत ।। ११४ ।।
यज्ञाभावात्तु देवानामन्नं सर्वं क्षयं गतम् ।
पर्जन्याश्च ततो नष्टास्ततो वृष्टिर्नचाभवत् ।। ११५ ।।
वृष्ट्यभावे तु लोकानामाहाराः क्षीणतां गताः ।
दुर्भिक्षव्यसनोपेते सर्वलोके द्विजोत्तमाः ।। ११६ ।।
दानधर्मादिकं किञ्चिन्न लोकस्य प्रवर्तते ।
सत्त्वहीनाः प्रजा: सर्वा लोभेनोपहतेन्द्रियाः ।
पापमेव तदा चक्रुः कुकर्मरतयश्च ताः ।। ११७।।
एतान् दृष्ट्वा तदा भावान् दिक्पालाः सपुरन्दराः ।
जग्मुः क्षोभं परं देवाः सागराश्च ग्रहास्तथा ।। ११८ ।।
ततो दृष्टवा जगत्सर्वं व्याकुलं दस्युपीडितम् ।
ब्रह्माणमगमन् देवाः सर्वे शक्रपुरोगमाः ।।११९।।
उपसङ्गम्य देवेशं स्रष्टारं जगतां पतिम् ।
प्रणम्याथ यथायोग्यमुपविष्टास्तदा सुराः ।।१२० ॥
तान् म्लानवदनान् सर्वान्वीक्ष्य लोकपितामहः ।
अभिभूतान् परेणेव हृतस्वविषयानिव ।
पप्रच्छ सम्मुखीकृत्य गुरुमिन्द्रं हुताशनम् ।।१२१ ।।
।। ब्रह्मोवाच ।।
स्वागतं भो सुरगणाः किमर्थं यूयमागताः ।
दुःखोपहतदेहांश्च युष्मान् म्लानांश्च लक्षये ।। १२२ ।।
निराबाधान्निरातंकान् युष्मान् सर्वांश्च कामगान् ।
कृत्वा स्वविषये न्यस्तान् कथं पश्यामि दुःखितान् ।। १२३ ।।
यद्वोऽभवद्दुः खबीजं युष्मान् वा यस्तु बाधते ।
तत्कथ्यतामशेषेण सिद्धञ्चाप्यवधार्यताम् ।।१२४।।
।। मार्कण्डेय उवाच ।।
ततो वृद्धश्रवा जीवः कृष्णवर्त्मा च लोकभृत् ।
उवाचात्मभुवे तस्मै सुराणां दुःखकारणम् ।। १२५ ।।
।। देवा ऊचुः ।।
शृणु सर्वं जगत्कर्तस्त्वां येन वयमागताः ।
यद्वास्माकं दुःखबीजं यतो म्लानश्रियो वयम् ।। १२६ ।।
न क्वचित् सम्प्रवर्तन्ते यज्ञा लोके पितामह ।
निराधारा निरातंकाः प्रजाः सर्वां क्षयं गताः ।। १२७ ।।
न च दानादिधर्माश्च न तपांसि क्षितौ क्वचित् ।
नैव वर्षति पर्जन्यः क्षीणतोयाभवत् क्षितिः ।। १२८ ।।
क्षीणाः सर्वास्तथैौषध्यः शस्या लोकाः समाकुलाः ।
दस्युभिः पीडिता विप्रा वेदवादं न कुर्वते ।। १२९ ।।
अन्नवैकल्यमासाद्य म्रियन्ते बहव: प्रजाः ।
क्षीणेषु यज्ञभागेषु भोग्यहीनास्तथा वयम् ।।१३० ।।
दुर्बलास्तु श्रियाहीना नैव शान्तिं लभामहे ।।१३१।।
रोहिण्या मन्दिरे चन्द्रो वक्रगत्या चिरं स्थितः ।
वृषराशौ स च क्षीणो ज्योत्स्नाहीनश्च वर्तते ।। १३२ ।।
यदैवान्विष्यते देवैश्चन्द्रो नैषां पुरःसरः ।
कदाचिदपि देवानां समाजे वा भवद्विधे ।। १३३ ।।
कदाचिद्रोहिणी त्यक्त्वा नैव क्वचन गच्छति ।
यद्यन्यः कोऽपि न भवेत्तदा चन्द्रो बहिर्भवेत् ।। १३४।।
दृश्यते स कलाहीनः कलामात्रावशेषकः ।
इति सर्वत्र लोकेश वृत्तः कर्मविपर्ययः ।। १३५।।
तं दृष्ट्वा कान्दिशीकास्तु वयं त्वां शरणं गताः ।
पातालाद्यावदुत्थाय कालकञ्जादयोऽसुराः ।
नास्मान् लोकेश बाधन्ते तावन्नस्त्राहि साध्वसात् ।। १३६ ।।
अयं प्रवर्तते कस्माज्जगतां वा व्यतिक्रमः ।
न जानीमस्तु तत्सर्वं विप्लवे वापि काणम् ।।१३७।।
।। मार्कण्डेय उवाच ।।
एतत् सुराणां वचनं दिव्यदर्शी पितामहः ।
श्रुत्वा क्षणमभिध्यायन् निजगाद सुरोत्तमान् ।। १३८।।
।। ब्रह्मोवाच ।।
शृण्वन्तु देवताः सर्वा यदर्थं लोकविप्लवः ।
प्रवर्ततेऽधुना येन शान्तिस्तस्य भविष्यति ।।१३९ ।।
सोमो दाक्षायणीः कन्याः सप्तविंशतिसङ्ख्यकाः ।
अश्विन्याद्या वरबधूर्भार्यार्थे परिणीतवान् ।। १४० ।।
परिणीय स ताः सर्वा रोहिण्यां सततं विधुः ।
प्रावर्ततानुरागेण न समस्तासु वर्तते ।। १४१ ।।
अश्विन्याद्यास्तु ताः सर्वा दौर्भाग्यज्वरपीडिताः ।
षड्विंशतिर्वरारोहाः पितरं प्रस्थिताः स्वकम् ।।१४२।।
प्रवर्तते निशानाथो रोहिण्यां रागतो यथा ।
तथा न तासु भजते तद्दक्षाय न्यवेदयन् ।। १४३।।
ततो दक्षो महाबुद्धिः साम्ना संस्तूय विट्पतिम् ।
बहुसुनृतमाभाष्य पुत्र्यर्थे चान्वरोधत ।। १४४ ।।
अनुरुद्धो यथाकामं दक्षेण सुमहात्मना ।
समं प्रवर्तितुं तासु समयं कृतवान् विधुः ।। १४५ ।।
सममङ्गीकृते भावं तासु कर्तुं हिमांशुना ।
स्वं जगाम ततः स्थानं दक्षोऽपि मुनिसत्तमः ।। १४६।।
गते दक्षे मुनिश्रेष्ठे वैषम्यं तासु चन्द्रमाः ।
जहौ न भावं ताः शश्वत् कुपिताः पितरं गताः ।। १४७ ।।
ततो दक्षः पुनश्चन्द्रमनुरुध्य सुतान्तरे ।
समां वृत्तिं प्रतिश्राव्य वचनं चेदमब्रवीत् ।। १४८।।
न समं वर्तते चन्द्र सर्वास्वासु भवान् यदि ।
तदा शप्स्ये त्वहं तुभ्यं तस्मात् कुरु समंजसम् ।।१४९ ।।
ततो गते पुनर्दक्षे न समं वर्तते यदा ।
तासु चन्द्रस्तदा दक्षं पुनर्गत्वाश्रुवन् रुषा ।। १५० ।।
न ते वचः सत्कुरुते नैवास्मासु प्रवर्तते ।
वयं तपश्चरिष्यामः स्थास्यामश्च तवान्तिके ।। १५१ ।।
तासामिति वचः श्रुत्वा कुपितः स महामुनिः ।
क्षयाय चन्द्रस्य पुनः शापायोत्सुकतां गतः ।। १५२ ।।
शापायोद्युक्तमनसः कुपितस्य महामुने ।
क्षयो नाम महारोगो नासिकाग्राद्विनिर्गतः ।। १५३ ।।
प्रेषितः स च चन्द्राय दक्षेण मुनिना ततः ।
प्रविष्टश्च ततो देहे क्षयितस्तेन चन्द्रमाः ।। १५४ ।।
क्षीणे चन्द्रे क्षयं याता ज्योत्स्नास्तस्य महात्मनः ।
क्षीणासु सर्वज्योत्स्नासु सर्वौषध्यः क्षयं गताः ।। १५५ ।।
औषध्यभावाल्लोकेऽस्मिन् न यज्ञः सम्प्रवर्तते ।
यज्ञाभावादनावृष्टिस्ततः सर्वप्रजाक्षयः ।। १५६ ।।
यज्ञभागोपभोगेन हीनानां भवतां तथा ।
दुर्बलत्वं समुत्पन्नं विकारश्च स्वगोचरे ।। १५७।।
इति वः कथितं सर्वं यथाभूल्लोकविप्लवः ।
येनोपायेन तच्छान्तिस्तच्छृण्वन्तु सुरोत्तमाः ।। १५८।।
।। इति श्रीकालिकापुराणे चन्द्रस्यशापवर्णनन्नाम विंशोऽध्यायः ॥ २० ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand