कालिकापुराणम् द्वाविंशोऽध्यायः
अरुन्धतीजन्मकथनम्
अथ कालिका पुराण अध्याय २२
।। मार्कण्डेय उवाच ।।
यत्र देवसभा भूता सानौ तस्य महागिरेः ।
तत्र जाता देवनदी सीताख्या वचनाद्विधेः ॥ १॥
स्नापयित्वा यदा चन्द्रं सीतातोयैर्मनोहरैः ।
चन्द्रं पपुर्ब्रह्मवाक्यात् सर्वे ते त्रिदिवौकसः ।।२।।
तदा सीताजलं चन्द्रस्नानयोगाच्च सामृतम् ।
भूत्वा निपतितं तस्मिन् बृहल्लोहितसंज्ञके ।।३।।
तद्विवृद्धं तदा तोयं तस्मिन् सरसि नो ममौ ।
तद्ददर्श स्वयं ब्रह्मा विवृद्धं सामृतं जलम् ॥४॥
तद्दर्शनाज्जलात् तस्मादुत्थिता कन्यकोत्तमा ।
चन्द्रभागेति तन्नाम विधिश्चक्रे स्वयं ततः ।।५।।
भार्यार्थ सागरस्तां तु जग्राह ब्रह्मसन्मते ॥६॥
तयैवाधिष्ठितं तोयं गदाग्रेण निशापतिः ।
निर्भिद्य पश्चिमे पार्श्वे गिरिं तं समवाहयत् ।।७।।
तस्यामृतजलं भित्त्वा बृहल्लोहितनामकम् ।
कासारं सागरं याता चन्द्रभागा नदी तु सा ॥८॥
सागरोऽपि तदा भार्यां चन्द्रभागां महानदीम् ।
तेन तोयप्रवाहेण निनाय भवनं स्वकम् ।।९।।
एवं तस्मिन् समुत्पन्ना चन्द्रभागाह्वया नदी ।
चन्द्रभागे महाशैले गुणैर्गंगासमा सदा ।।१०।।
नद्यश्च पर्वताः सर्वे द्विरूपाश्च स्वभावतः ।
तोयं नदीनां रूपन्तु शरीरमपरं तथा ।।११।।
स्थावरः पर्वतानां तु रूपं कायः तथापरः ।
शुक्तीनामथ कम्बूनां यथैवान्तर्गता तनुः ।।१२।।
बहिरस्ति स्वरूपन्तु सर्वदैव प्रवर्तते ।
एवं जलं स्थावरस्तु नदीपर्वतयोस्तदा ।। १३ ।।
अन्तर्वसति कायस्तु सततं नोपपद्यते ।।१४।।
आप्याय्यते स्थावरेण शरीरं पर्वतस्य तु ।
तथा नदीनां कायस्तु तोयेनाप्याय्यते सदा ।।१५।।
नदीनां कामरूपित्वं पर्वतानां तथैव च ।
जगत्स्थित्यै पुरा विष्णुः कल्पयामास यत्नतः ।। १६ ॥
तोयहानौ नदीदुःखं जायते सततं सुराः ।
विशीर्णे स्थावरे दुःखं जायते गिरिकायजम् ।।१७।।
तस्मिन् गिरौ चन्द्रभागे बृहल्लोहिततीरगाम् ।
सन्ध्यां दृष्टाथ पप्रच्छ वसिष्ठः सादरं तदा ।। १८ ।।
।। वसिष्ठ उवाच ॥
किमर्थमागता भद्रे निर्जनं तु महीधरम् ।
कस्य वा तनया गौरि किं वा तव चिकीर्षितम् ।।१९।।
एतदिच्छाम्यहं श्रोतुं यदि गुह्यं न ते भवेत् ।
वदनं पूर्णचन्द्राभं निःश्रीकं वा कथं तव ।।२०।।
एतच्छ्रुत्वा वचस्तस्य वसिष्ठस्य महात्मनः ।
दृष्ट्वा च तं महात्मानं ज्वलन्तमिव पावकम् ।।२१।।
शरीरधृग्ब्रह्मचर्य - सदृशं तं जटाधरम् ।
सादरं प्रणिपत्याथ सन्ध्योवाच तपोधनम् ।।२२।।
॥ सन्ध्योवाच ॥
यदर्थमागता शैलं सिद्धं तन्मे द्विजोत्तम ।
तव दर्शनमात्रेण तन्मे सेत्स्यति वा विभो ॥२३॥
तपः कर्तुमहं ब्रह्मन्निर्जनं शैलमागता ।
ब्रह्मणोऽहं मनोजाता सन्ध्या नाम्ना च विश्रुता ।। २४ ।।
नोपदेशमहं जाने तपसो मुनिसत्तम ।
यदि ते युज्यते गुह्यं मां त्वं समुपदेशय ।
एतच्चिकीर्षितं गुह्यं नान्यत्किञ्चन विद्यते ।।२५।।
अज्ञात्वा तपसो भावं तपोवनमुपाश्रिता ।
चिन्तया परिशुष्येऽहं वेपते च मनः सदा ।। २६ ।।
।। मार्कण्डेय उवाच ।।
आकर्ण्य तस्याः वचनं वसिष्ठो ब्रह्मणः सुतः ।
स्वयं स सर्वतत्त्वज्ञो नान्यत्किञ्चन पृष्टवान् ।। २७ ।।
अथ तां नियतात्मानं तपसेऽतिधृतोद्यमाम् ।
वसिष्ठो मन्त्रयाञ्चके गुरुवच्छिष्यवत्तदा ।। २८ ।।
।। वसिष्ठ उवाच ॥
परमं यो महत्तेजः परमं यो महत्तपः ।
परमो यः समाराध्यो विष्णुर्मनसि धीयताम् ।।२९।।
धर्मार्थकाममोक्षाणां य एकस्त्वादिकारणम् ।
तमेकं जगतामाद्यं भजस्व पुरुषोत्तमम् ॥३०॥
विष्णु-ध्यानवर्णनम्
शङ्खचक्रगदापद्मधरं कमललोचनम् ।
शुद्धस्फटिकसंकाशं क्वचिन्नीलाम्बुदच्छविम् ।। ३१ ।।
गरुड़ोपरि शुक्लाब्जे पद्मासनगतं हरिम् ।
श्रीवत्सवक्षसं शान्तं वनमालाधरं परम् ।।३२।।
केयूरकुण्डलधरं किरीटमुकुटोज्वलम् ।
निराकारं ज्ञानगम्यं साकारं देहधारिणम् ।।३३॥
नित्यानन्दं निरालम्बं सूर्यमण्डलमध्यगम् ।
मन्त्रेणानेन देवेशं विष्णुं भज शुभानने ।। ३४।।
।। विष्णु उपासना मन्त्र ।।
ओं नमो वासुदेवाय ओमित्यन्तेन सन्ततम् ।
तपस्यामारभेन्मौनीं तत्रैतान्नियमान् शृणु ।।३५।।
स्नानं मौनेन कर्तव्यं मौनेनैव तु पूजनम् ।
द्वयोः पर्णजलाहारं प्रथमं षष्ठकालयोः ।
तृतीये षष्ठकाले तु उपवासपरो भवेत् ।।३६।।
एवं तपः समाप्तौ तु षष्ठे काले क्रिया भवेत् ।
वृक्षवल्कलवासाश्च काले भूमिशयस्तथा ।
एवं मौनी तपस्याख्या व्रतचर्या फलप्रदा ।। ३७।।
एवं तपः समुद्दिश्य कामं चिन्तय माधवम् ।
सते प्रसन्न इष्टार्थं नचिरादेव दास्यति ।। ३८ ।।
।। मार्कण्डेय उवाच ।।
उपदिश्य वसिष्ठोऽथ सन्ध्यायै तपसः क्रियाम् ।
तामाभाष्य यथान्यायं तत्रैवान्तर्दधे मुनिः ।। ३९ ।।
सन्ध्यापि तपसो भावं ज्ञात्वा मोदमवाप्य च ।
तपः कर्तुं समारेभे बृहल्लोहिततीरगा ।।४०।।
यथोक्तन्तु वसिष्ठेन मन्त्रं तपसि साधनम् ।
व्रतेन तेन गोविन्दं पूजयामास भक्तित: ।।४१।।
एकान्तमनसस्तस्या कुर्वन्त्याः सुमहत्तपः ।
विष्णौ विन्यस्तमनसो गतमेकं चतुर्युगम् ।।४२।।
न कोऽपि विस्मयं नाप तस्या दृष्ट्वा तपोऽद्भुतम् ।
न तादृशी तपश्चर्या भविष्यति च कस्यचित् ।।४३।।
मानुषेणाथ मानेन गते त्वेकचतुर्युगे ।
अन्तर्बहिस्तथाकाशे दर्शयित्वा निजं वपुः ।। ४४ ।।
प्रसन्नस्तेन रूपेण यद्रूपं चिन्तितं तया ।
पुरः प्रत्यक्षतां यातस्तस्या विष्णुर्जगत्पतिः ।। ४५ ।।
अथ सा पुरतो दृष्ट्वा मनसा चिन्तितं हरिम् ।
शङ्खचक्रगदापद्मधारिणं पद्मलोचनम् ।।४६ ॥
केयूरकुण्डलधरं किरीटमुकुटोज्ज्वलम् ।
तार्क्ष्यर्स्थं पुण्डरीकाक्षं नीलोत्पलदलच्छविम् ।।४७।।
ससाध्वसमहं वक्ष्ये किं कथं स्तौमि वा हरिम् ।
इति चिन्तापरा भूत्वा न्यमीलयत चक्षुषी ।। ४८ ।।
निमीलिताक्ष्यास्तस्यास्तु प्रविश्य हृदयं हरिः ।
दिव्यं ज्ञानं ददौ तस्यै वाचं दिव्ये च चक्षुषी ।। ४९ ।।
दिव्यं ज्ञानं दिव्यचक्षुर्दिव्यां वाचमवाप सा ।
प्रत्यक्षं वीक्ष्य गोविन्दं तुष्टाव जगतां पतिम् ।। ५० ।।
।। सन्ध्योवाच ।।
निराकारं ज्ञानगम्यं परं यन्नैव स्थूलं नापि सूक्ष्मं न चोच्चैः ।
अन्तश्चिन्त्यं योगिभिर्यस्य रूपं तस्मै तुभ्यं हरये मे नमोऽस्तु ।।५१।।
शिवं शान्तं निर्मलं निर्विकारं ज्ञानात्परं सुप्रकाशं विसारि ।
रविप्रख्यं ध्वान्तभागात् परस्ताद् रूपं यस्य त्वां नमामि प्रसन्नम् ।।५२।।
एकं शुद्धं दीप्यमानं विनोदं चित्तानन्दं सत्वजं पापहारि ।
नित्यानन्दं सत्य भूरिप्रसन्नं यस्य श्रीद रूपमस्मै नमोऽस्तु ।। ५३ ।।
विद्याकारोद्भावनीयं प्रभिन्नं सत्वच्छन्नं ध्येयमात्मस्वरूपम् ।
सारं पारं पावनानां पवित्रं तस्मै रूपं यस्य चेदं नमस्ते ।।५४ ॥
नित्यार्जवं व्ययहीनं गुणौघै रष्टाङ्गैर्यश्चिन्त्यये योगयुक्तैः ।
तत्त्वं व्यापि प्राप्य यज्ज्ञानयोगे परं याता योगिनस्तं नमस्ते ।।५५॥
यत्साकारं शुद्धरूपं मनोज्ञं गरुत्मस्थं नीलमेघप्रकाशम् ।
शङ्खं चक्रं पद्मगदे दधानं तस्मै नमो योगयुक्ताय तुभ्यम् ।।५६।।
गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च ।
वायुः कालश्च रूपाणि यस्य तस्मै नमोऽस्तु ते ।। ५७ ।।
प्रधानपुरुषौ यस्य कार्याङ्गत्वे निवत्स्यतः।
तस्मादव्यक्तरूपाय गोविन्दाय नमोऽस्तु ते ।। ५८ ।।
यः स्वयं यश्च भूतानि यः स्वयं तद्गुणः परः ।
यः स्वयं जगदाधारस्तस्मै तुभ्यं नमोनमः ।। ५९ ।।
परः पुराणः पुरुषः परमात्मा जगन्मयः ।
अक्षयो योऽव्ययो देवस्तस्मै तुभ्यं नमो नमः ।। ६० ।।
यो ब्रह्मा कुरुते सृष्टिं यो विष्णुः कुरुते स्थितिम् ।
संहरिष्यति यो रुद्रस्तस्मै तुभ्यं नमो नमः ।। ६१ ।।
नमो नमः कारणकारणाय दिव्यामृतज्ञानविभूतिदाय ।
समस्त लोकान्तर मोहदाय प्रकाशरूपाय परात्पराय ॥६२॥
यस्य प्रपञ्चो जगदुच्यते महान् क्षितिर्दिशः सूर्य इन्दुर्मनोजवः ।
वह्निर्मुखान्नाभितश्चान्तरीक्षं तस्मै तुभ्यं हरये ते नमोऽस्तु ।।६३।।
त्वं परः परमात्मा च त्वं विद्या विविधा हरे ।
शब्दब्रह्म परंब्रह्म विचारणपरात्परः ।।६४।।
यस्य नादिर्नमध्यञ्च नान्तमस्ति जगत्पतेः ।
कथं स्तोष्यामि तं देवं वाङ्मनोगोचराद्बहिः ।। ६५ ।।
यस्य ब्रह्मादयो देवा मुनयश्च तपोधनाः ।
न विवृण्वन्ति रूपाणि वर्णनीयः कथं स मे ।। ६६ ।।
स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभोः ।
नैव जानन्ति यद्रूपं सेन्द्रा अपि सुरासुराः ।। ६७ ।।
नमस्तुभ्यं जगन्नाथ नमस्तुभ्यं तपोमय ।
प्रसीद भगवंस्तुभ्यं भूयोभूयो नमोनमः ।।६८।।
।। मार्कण्डेय उवाच ।।
अथ तस्याः शरीरन्तु वल्कलाजिनसंवृतम् ।
परिक्षीणं जटाव्रातैः पवित्रैमूर्घ्नि राजितम् ।। ६९ ।।
हिमानी तर्जिताम्भोजसदृशवदनं तथा ।
निरीक्ष्य कृपयाविष्टो हरिः प्रोवाच तामिदम् ॥७०॥
।। श्रीभगवानुवाच ।।
प्रीतोऽस्मि तपसा भद्रे भवत्याः परमेण वै ।
स्तवेन च शुभप्रज्ञे वरं वरय साम्प्रतम् ।।७१।।
येन ते विद्यते कार्यं वरेणास्ति मनोगतम् ।
तत् करिष्यामि भद्रन्ते प्रसन्नोऽहं तव व्रतैः ।।७२।।
॥ सन्ध्योवाच ।।
यदि देव प्रसन्नोऽसि तपसा मम साम्प्रतम् ।
वृतस्तदायं प्रथमो वरो मम विधीयताम् ।। ७३ ।।
उत्पन्नमात्रा देवेश प्राणिनोऽस्मिन्नभस्तले ।
न भवन्तु क्रमेणैव सकामाः सम्भवन्तु वै ।। ७४ ।।
पतिव्रताहं लोकेषु त्रिष्वपि प्रथिता यथा ।
भविष्यामि तथा नान्या वर एको वृतो मम ।। ७५ ।।
सकामा मम दृष्टिस्तु कुत्रचिन्न पतिष्यति ।
ऋते पतिं जगन्नाथ सोऽपि मेऽति सुकृत्तरः ।।७६ ।।
यो द्रक्ष्यति सकामो मां पुरुषस्तस्य पौरुषम् ।
नाशं गमिष्यति तदा स तु क्लीवो भविष्यति ।।७७।।
।। श्रीभगवानुवाच ।।
प्रथमः शैशवो भावः कौमाराख्यो द्वितीयकः ।
तृतीयो यौवनो भावश्चतुर्थो वार्द्धकस्तथा ।।७८ ।।
तृतीये त्वथ सम्प्राप्ते वयोभागे शरीरिणः ।
सकामाः स्युर्द्वितीयान्ते भविष्यन्ति क्वचित् क्वचित् ।।७९।।
तपसा तव मर्यादा जगति स्थापिता मया ।
उत्पन्नमात्रा न यथा सकामाः स्युः शरीरिणः ।। ८० ।।
त्वञ्च लोके सतीभावं तादृशं समवाप्स्यसि ।
त्रिषु लोकेषु नान्यास्या यादृशं सम्भविष्यति ।। ८१ ॥
यः पश्यति सकामस्त्वां पाणिग्रहमृते तव ।
स सद्यः क्लीवतां प्राप्य दुर्बलत्वं गमिष्यति ।। ८२ ।।
पतिस्तव महाभागस्तपोरूपसमन्वितः ।
सप्तकल्पान्तजीवी च भविष्यति सह त्वया ।।८३ ।।
इति ये ते वरा मत्तः प्रार्थितास्ते कृता मया ।
अन्यच्च ते वदिष्यामि पूर्वं यन्मनसि स्थितम् ।।८४ ।।
अग्नौ शरीरत्यागस्ते पूर्वमेव प्रतिश्रुतः ।।८५।।
स च मेधातिथेर्यज्ञे मुनेर्द्वादशवार्षिके ।
हुतप्रज्वलिते वह्नौ न चिरात् क्रियतां त्वया ।। ८६ ।।
एतच्छैलोपत्यकायां चन्द्रभागानदीतटे ।
मेधातिथिर्महायज्ञं कुरुते तापसाश्रमे ।। ८७ ।।
तत्र गत्वा स्वयं छन्ना मुनिभिर्नोपलक्षिता ।
मत्प्रसादाद्वह्निजाता तस्य पुत्री भविष्यसि ॥८८॥
यस्त्वया वाञ्छनीयोऽस्ति स्वामी मनसि कश्चन ।
तं निधाय निजस्वान्ते त्यज वह्नौ वपुः स्वकम् ।।८९।।
यदा त्वं दारुणे सन्ध्ये तपश्चरसि पर्वते ।
यावच्चतुर्युगं तस्य व्यतीते तु कृते युगे ।। ९० ।।
त्रेतायाः प्रथमे भागे जाता दक्षस्य कन्यकाः ।
स ददौ कन्यका सप्तविंशतिञ्च सुधांशवे ।। ११ ।।
तासां हेतोर्यदा शप्तश्चन्द्रो दक्षेण कोपिना ।
तदा भवत्या निकटे सर्वे देवाः समागताः ।। ९२ ।।
न दृष्टाश्च तया सन्ध्ये देवाश्च ब्रह्मणा सह ।
मयि विन्यस्तमनसा त्वञ्च दृष्टा न तैः पुनः ।। ९३ ।।
चन्द्रस्य शापमोक्षार्थं चन्द्रभागा नदी यथा ।
सृष्टा धात्रा तदैवात्र मेधातिथिरुपस्थितः ।। ९४ ।।
तपसा तत्समो नास्ति न भूतो न भविष्यति ।। ९५ ।।
तेन यज्ञः समारब्धो ज्योतिष्टोमो महाविधिः ।
तत्र प्रज्वलितो वह्निस्तस्मिंस्त्यज वपुः स्वकम् ।।९६ ।।
एतन्मया स्थापितं ते कार्यार्थ भोस्तपस्विनि ।
तत् कुरुष्व महाभागे याहि यज्ञं महामुनेः ।। ९७ ।।
।। मार्कण्डेय उवाच ।।
नारायणः स्वयं सन्ध्यां पस्पर्शाथाग्रपाणिना ।
ततः पुरोडाशमयं तच्छरीरमभूत् क्षणात् ।।९८ ।
महामुनेर्महायज्ञे तस्मिन् विश्वोपकारिणि ।
नाग्निः कव्यादतां याति त्वेतदर्थं तथा कृतम् ।।९९ ।।
एवं कृत्वा जगन्नाथस्तत्रैवान्तरधीयत ।
सन्ध्याप्यगच्छत्तत्सत्रे यत्र मेधातिथिर्मुनिः ।। १०० ।।
अथ विष्णोः प्रसादेन केनाप्यनुपलक्षिता ।
प्रविवेश यदा यज्ञं सन्ध्या मेधातिथेर्मुनेः ।। १०१ ।।
वसिष्ठेन पुरा सा तु वर्णीभूत्वा तपस्विनी ।
उपदिष्टातपश्चर्तुं वचनात् परमेष्ठिनः ।। १०२ ।।
तमेव कृत्वा मनसि तपश्चर्योपदेशकम् ।
पतित्वेन तदा सन्ध्या ब्राह्मणं ब्रह्मचारिणम् ।। १०३ ।।
समिद्धेऽनौ महायज्ञे मुनिभिर्नोपलक्षिता ।
तदा विष्णोः प्रसादेन साविवेश विधेः सुता ।।१०४ ।।
तस्याः पुरोडाशमयं शरीरं तत्क्षणात्ततः ।
दग्धं पुरोडाशगन्धं व्यस्तारयदलक्षितम् ।। १०५।।
वह्निस्तस्याः शरीरन्तु दग्ध्वा सूर्यस्य मण्डले ।
शुद्धं प्रवेशयामास विष्णोरेवाज्ञया पुनः ।। १०६ ।
सूर्यो द्विधा विभज्याथ तच्छरीरं तदा रथे ।
स्वके संस्थापयामास प्रीतये पितृदेवयोः ।। १०७ ।।
यदूर्धभागस्तस्यास्तु शरीरस्य द्विजोत्तमाः ।
प्रातः सन्ध्याभवत् सा तु अहोरात्रादिमध्यगा ।। १०८ ।।
यच्छेष भागस्तस्यास्तु अहोरात्रान्तमध्यगा ।
सा सायमभवत् सन्ध्या पितृप्रीतिप्रदा सदा ।। १०९ ।।
सूर्योदयात्तु प्रथमं यदा स्यादरुणोदयः ।
प्रातः सन्ध्या तदोदेति देवानां प्रीतिकारिणी ।। ११० ।।
अस्तं गते ततः सूर्ये शोणपद्मनिभा सदा ।
उदेति सायंसन्ध्यापि पितॄणां मोदकारिणी ।। १११ । ।
तस्याः प्राणास्तु मनसा विष्णुना प्रभविष्णुना ।
दिव्येन तु शरीरेण चक्रिरेऽथ शरीरिणः ।। ११२ ।।
मुनेर्यज्ञावसाने तु सम्प्राप्ते मुनिना तु सा ।
प्राप्ता पुत्री वह्निमध्ये तप्तकाञ्चन सप्रभा ।।११३ ॥
तां जग्राह तदा पुत्रीं मुनिरामोदसंयुतः ।
यज्ञार्थतोयैः संस्नाप्य निजक्रोडे कृपायुतः ।। ११४ ।।
अरुन्धतीति तस्यास्तु नाम चक्रे महामुनिः ।
शिष्यैः परिवृतस्तत्र महामोदमवाप च ।। ११५ ।।
न रुणद्धि यतो धर्मं सा केनापि च कारणात् ।
अतस्त्रिलोकविदितं नाम सा प्राप सान्वयम् ।।११६ । ।
यज्ञं समाप्य स सुनिः कृतकृत्यभाव-मासाद्य सम्मदयुतस्तनयाप्रलम्भात् ।
तस्मिन् निजाश्रमपदे सहशिष्यवर्गैस्तामेव सन्ततमसौ दयते महर्षिः ।। ११७।।
॥ इति श्रीकालिकापुराणे अरुन्धती - जन्मकथनं नाम द्वाविंशोऽध्यायः ॥ २२॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand