कालिकापुराणम्/अध्यायः २७
कालिकापुराणम् सप्तविंशोऽध्यायः सृष्टि कथनम्
अथ कालिका पुराण अध्याय २७
।। मार्कण्डेय उवाच ।।
मन्वन्तरं मनोः कालो यावत् पालयते प्रजाः ।
एको मनुः स कालस्तु मन्वन्तरमितिश्रुतम् ।। १ ।।
तदेकसप्ततियुगैर्देवानामिह जायते ।
चतुर्दशभिः कल्पो दिनमेकं तु वेधसः ।।२।।
दिनान्ते बह्मणो जाते सुषुप्सा तस्य जायते ।
योगनिद्रा महामाया समायाति पितामहम् ।।३।।
नाभिपद्मं प्रविश्याथ विष्णोरमिततेजसः ।
सुखं शेते स भगवान् ब्रह्मा लोकपितामहः ॥४॥
ततो विष्णुः स्वयं भूत्वा रुद्ररूपी जनार्दनः ।
पूर्ववन्नाशयामास स सर्वं भुवनत्रयम् ।।५।।
वायुना वह्निना सार्धं दाहयामास वै यथा ।
महाप्रलयकालेषु तथा सर्वं जगत् त्रयम् ।। ६ ।।
जनं यान्ति प्रतापार्ता महर्लोकनिवासिनः ।
त्रैलोक्यदाहसमये पीडिता दारुणाग्निना ।।७।।
ततः कालान्तकैर्मेधैर्नानावर्णैर्महास्वनैः ।
समुत्पाद्य महावृष्टिमापूर्य भुवनत्रयम् ।।८।।
चलत्तरंगैस्तोयोधैराध्रुवस्थानसंगतैः I
निधाय जठरे लोकानिमांस्त्रीन् स जनार्दनः ।
नागपर्यंकशयने शेते स परमेश्वरः ।। ९ ।।
शयानं नाभिकमले ब्रह्माणं स जगप्रभुः ।
संस्थाप्य त्रीनिमाँल्लोकान् दग्ध्वा जगध्वा सर्वश्रियासह ।। १० ।।
शेते स भोगिशय्यायां ब्रह्मा नारायणात्मकः ।
योगनिद्रावशं जातस्त्रैलोक्यग्रासबृंहितः ।। ११ ।।
त्रैलोक्यमखिलं दग्धं यदा कालाग्निना तदा ।
अनन्तः पृथिवीं त्यक्त्वा विष्णोरन्तिकमागतः ।।१२।।
तेन त्यक्ता तु पृथिवी क्षणमात्रादधोगता ।
पतिता कूर्मपृष्ठे च विशीर्णेव तदाभवत् ।। १३ ।।
कूर्मोऽपि महतो यत्नाच्चलन्तीं पृथिवीं जले ।
ब्रह्माण्डं पद्धिराक्रम्य पृष्ठे दध्रे धरां तदा ।। १४ ।।
ब्रह्माण्डखण्डसंयोगाच्चूर्णिता पृथिवी भवेत् ।
इति तां परिजग्राह कूर्मरूपी जनार्दनः ।। १५ ।।
चलज्जलौघसंसर्गाच्चलन्त्या धरया तदा ।
कूर्मपृष्ठं बहुतरैर्वरण्डैर्विततीकृतम् ।। १६ ।।
अनन्तस्तत्र गत्वा तु यत्र क्षीरोदसागरः ।
तत्र स्वयं श्रिया युक्तं सुषुप्सन्तं जनार्दनम् ।।१७।।
फणया मध्यया दध्रे त्रैलोक्यग्रासबृंहितम् ।
पूर्णं फणाः वितत्योर्धं पद्मं कृत्वा महाबलः ।
विष्णुमाच्छादयामास शेषाख्यः परमेश्वरम् ।।१८।।
तस्योपधानमकरोदनन्तो दक्षिणां फणाम् ।
उत्तरां पादयोश्चक्रे उपधानं महाबलः ।। १९ ।।
तालवृन्तं तदा चक्रे सशेषः पश्चिमां फणाम् ।
स्वपन्तं बीजयामास शेषरूपी जनार्दनम् ।। २० ।।
शङ्खं चक्रं नन्दकासिमिषुधी द्वे महाबलः ।
ऐशान्ययाथ फणया स दने गरुडं तथा ।। २१ ।।
गदां पद्मं च शार्ङ्गश्च तथैव विविधायुधम् ।
यानि चान्यानि तस्यासन्नाग्नेय्या फणया दधौ ।। २२ ।।
एवं कृत्वा स्वकं कायं शयनीयं तदा हरेः ।
पृथ्वीमधरकायेन मग्नामाक्रम्य चाम्भसि ।।२३।।
त्रैलोक्यं ब्रह्मसहितं सलक्ष्मीकं जनार्दनम् ।
सोपासङ्ग जगद्वीजं जगत्कारणकारणम् ।। २४ ।।
नित्यानन्दं वेदमयं ब्रह्मण्यं परमेश्वरम् ।
जगत्कारणकर्तारं जगत्कारणकारणम् ।। २५ ।।
भूतभव्यभवन्नाथं परावरगतिं हरिम् ।
दधार शिरसा तन्तु स्वयमेव स्वकां तनुम् ।। २६ ।।
एवं ब्रह्मदिनस्यैव प्रमाणेन निशां हरिः ।
सन्ध्यां च समभिव्याप्य शेते नारायणोऽव्ययः ।। २७ ।।
यस्मादयन्तु प्रलयो ब्रह्मणः स्याद् दिने दिने ।
तस्माद् दैनिन्दिनमिति ख्यापयन्ति पुराविदः ।। २८ ।।
व्यतीतायां निशायां तु ब्रह्मा लोकपितामहः ।
त्यक्त्वा निद्रां समुत्तस्थौ स पुनः सृष्टये हितः ।। २९ ।।
त्रैलोक्यं तोयसम्पूर्णं शयानं पुरुषोत्तमम् ।
निरीक्ष्य वैष्णवीं मायां महामायां जगन्मयीम् ।
योगनिद्रां स तुष्टाव हरेरंगेषु संस्थिताम् ।। ३० ।।
।। ब्रह्मोवाच ।।
चितिशक्तिं निर्विकारां परब्रह्मस्वरूपिणीम् ।
प्रणमामि महामायां योगनिद्रां सनातनीम् ।। ३१ ।।
त्वं विद्या योगिनां देवि त्वं गतिस्त्वं मतिः स्तुतिः ।
त्वं सृष्टिस्त्वं स्थितिः स्वाहा स्वधा त्वमिह गीतिका ।। ३२ ।।
त्वं सामगीतिस्त्वं नीतिस्त्वं ह्रीः श्रीस्त्वं सरस्वती ।
योगनिद्रा महामाया मोहनिद्रा त्वमीश्वरी ।। ३३ ।।
त्वं कान्तिः सर्वशक्तिस्त्वं त्वं तनुर्वैष्णवी शिवा ।
त्वं धात्री सर्वलोकानामविद्या त्वं शरीरिणाम् ।। ३४ ।।
आधारशक्तिस्त्वं देवी त्वं हि ब्रह्माण्डधारिणी ।
त्वमेव सर्वजगतां प्रकृतिस्त्रिगुणात्मिकां ॥। ३५ ।।
त्वं सावित्री च गायत्री सौम्यासौम्यातिशोभना ।
त्वं सिसृक्षा हरेर्नित्या सुषुप्सा त्वं सुषुप्तिका ।। ३६ ।।
पुष्टिर्लज्जा क्षमा शान्तिस्त्वं धृतिः परमेश्वरी ।
त्वयैव क्षितिरूपेण ध्रियते सचराचरम् ।।३७।।
त्वमापस्त्वमपां माता सर्वान्तर्गतचारिणी ।
स्तुतिः स्तुत्या च स्तोत्री च स्तुतिशक्तिस्त्वमेव च ।। ३८ ।।
त्वामहं किन्नु स्तोष्यामि प्रसीद परमेश्वरि ।
नमस्तुभ्यं जगन्मातः प्रबोधय जनार्दनम् ।। ३९ ।।
एवं स्तुता महामाया ब्रह्मणा लोककारिणा ।
नेत्रास्यनासिका बाहु - हृदयान्निर्गता हरे ।
राजसीं मूर्तिमाश्रित्य सा तस्थौ ब्रह्मदर्शने ।। ४० ।।
ततो जनार्दनो भोगिशयनान्निद्रया क्षणात् ।
परित्यक्तः समुत्तस्थौ सृष्टये चाकरोन्मतिम् ।। ४१ ।।
ततो वराहरूपेण निमग्नां पृथिवीं जले ।
मग्नां समुद्दधाराशु न्यधाच्च सलिलोपरि ।। ४२ ।।
तस्योपरि जलौघस्य महती नौरिव स्थिता ।
विततत्वाच्च देहस्य न मही याति संप्लवम् ।।४३।।
ततो हरिः क्षितिं गत्वा तोयराशिं स्वमायया ।
संहृत्य जन्तुस्थितये प्रवृत्तः स्वयमेव हि ।। ४४ ।।
अनन्तोऽपि यथापूर्वं तथा गत्वा क्षितेस्तलम् ।
पृथिवीं धारयामास कूर्मस्योपरि संस्थितः ।। ४५ ।।
ततो ब्रह्मा समुत्पाद्य सर्वानेव प्रजापतीन् ।
जगदुत्पादयामास सर्वलोकपितामहः ।। ४६ ।।
ब्रह्मा वा कुरुते सृष्टिं यदान्ये वापि कुर्वते ।
दक्षाद्यास्तु प्रजापालाः स्वयमेव तदिच्छया ।। ४७ ।।
परब्रह्मस्वरूपी यः सोऽनुगृह्णाति सन्ततम् ।
प्रकृतिश्चानुगृह्णाति महाभूतानि पञ्च वै ।।४८ ।।
पुरुषश्चानुगृह तथैव महदादयः ।
ईश्वरेच्छान्वधिष्ठानात् पुरुषादष्टसंचयात् ।। ४९ ।।
पुरुषाणामधिष्ठानान्महाभूतगणस्य च ।
तथैव महदादीनां कालस्य च महात्मनः ।
अधिष्ठानात् प्रधानस्य यच्च किञ्चन जायते ।। ५० ।।
स्थावरं जङ्गमं वापि स्थिरं वाप्यथवोम्भूतम् ।
सर्वमेतदधिष्ठानाज्जायते द्विजसत्तमाः ।। ५१ ।।
इति वः कथितं सर्वं यथैवादर्शयत् पुरा ।
हराय सृष्टिसंहार-कल्पास्तान् भगवान् हरिः ।।५२।।
यथा जगत् प्रपञ्चस्यासारता दर्शिता परा ।
यच्च सारं दर्शितं तन्मत्तः शृण्वन्तु वै द्विजाः ।। ५३ ।।
॥ इति श्रीकालिकापुराणे सृष्टिकथने सप्तविंशोऽध्यायः ॥ २७॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand