कालिकापुराणम् त्रिंशोऽध्यायः शरभवाराहयुद्धः
अथ कालिका पुराण अध्याय ३०
।। मार्कण्डेय उवाच ।।
ततो देवागणाः सर्वे सहिता देवयोनिभिः ।
शक्रेण सहिता मन्त्रं चक्रुः सम्यग्जगद्धितम् ।। १ ।।
ततो निश्चित्य ते सर्वे शक्राद्या मुनिभिः सह ।
शरण्यं शरणं जग्मुर्नारायणमजं विभुम् ।।२।।
तं समासाद्य गोविन्दं वासुदेवं जगत्पतिम् ।
प्रणम्य सर्वे त्रिदशास्तुस्टुवुर्गरुडध्वजम् ।। ३ ।।
।। देवा ऊचुः ।।
नमस्ते देव देवेश जगत्कारण कारक ।
कालस्वरूपिन् भगवन् प्रधानपुरुषात्मक ।।४।।
स्थूल सूक्ष्म जगद्व्यापिन् परेश पुरुषोत्तम ।।५।।
त्वं कर्ता सर्व भूतानां त्वं पाता त्वं विनाशकृत् ।
त्वं हि मायास्वरूपेण सम्मोहयसि वै जगत् ।।५।।
यद्भूतं यच्च वै भाव्यं यदिदानीं प्रवर्तते ।
तत् सर्वं परमेशत्वं स्थावरं जङ्गमं तथा ।। ६ ।।
अर्थार्थिनां त्वमर्थस्तु कामः कामार्थिनां तथा ।
त्वं हि धर्मार्थिनां धर्मो मोक्षो निर्वाणमिच्छताम् ।।७।।
त्वं कामुकस्त्वमेवार्थी धार्मिकस्त्वं सदागतिः ।।८।।
त्वद्वक्त्राद् ब्राह्मणा जाता बाहुजाः क्षत्रियास्तव ।
ऊर्वो वैश्यास्तथा शूद्राः पादाभ्यां तव निर्गताः ।। ९ ।।
सूर्यो नेत्रात्तव विभो मनोजश्चन्द्रमास्तव ।
श्रवणात् पवनो जातो दश प्राणास्तथापरे ।। १० ।।
ऊर्ध्वं स्वर्गादिभुवनं तव शीर्षादजायत ।
तव नाभेस्तथाकाशं क्षितिः पादतलादभूत् ।। ११ ।।
कर्णाभ्यां ते दिशो जाता जठरात् सकलं जगत् ।
त्वं हि मायास्वरूपेण सम्मोहयसि वै जगत् ।। १२ ।।
निर्गुणो गुणवांस्त्वं हि शुद्ध एकः परात्परः ।
उत्पत्तिस्थितिहीनस्त्वं त्वमच्युतगुणाधिकः ।।१३।।
आदित्यैर्वसुभिर्देवैः साध्यैर्यक्षैर्मरुद्गणैः ।
त्वं चिन्त्यसे जगन्नाथ मुनिभिश्च मुमुक्षुभिः ।। १४ ।।
त्वां वै चिदानन्दमयं विदन्ति विशेषविज्ञा मुनयो विभोगाः ।
त्वमेव संसार महीरुहस्य बीजं जलं स्थानमथो फलं च ।। १५ ।।
त्वं पद्मया पद्माकरो विभासि वरासिचक्राब्जधनुर्धरस्त्वम् ।
त्वमेव तार्क्षे प्रतिभासि नित्यं स्वर्णाचले तोययुतो यथाब्दः ।। १६ ।।
त्वमेव पीताम्बरशङ्कराब्जजास्त्वं सर्वमेतन्न च किञ्चिदन्यत् ।
न ते गुणा नः परिचिन्तनीया विधेर्हरस्थापि दिशां पतीनाम् ।
भीतेन भक्त्या शरणं प्रपन्ना गता वयं नः परिरक्ष विष्णो ।।१७।।
।। मार्कण्डेय उवाच ।।
इति स्तुतो देवदेवो भूतभावनभावनः ।
सेन्द्रैर्देवगणैरूचे तान् सर्वान्मेघनिस्वनः ।। १८ ।।
।। श्रीभगवानुवाच ।।
यदर्थमागता यूयं यद्वा भयमुपस्थितम् ।
तत्र यद्वा मया कार्यं तद् देवास्तूर्णमुच्यताम् ।।१९।।
।। देवा ऊचुः ।।
शीर्यते वसुधा नित्यं क्रीडया यज्ञपोत्रिणः ।
लोकाश्च सर्वे संक्षुब्धा नाप्नुवन्त्युपशान्त्वनम् ।। २० ।।
शुष्कं तुम्वीफलं घातैर्यथा जर्जरतां गतम् ।
वाराहक्षुरघातेन तथा जर्जरिता क्षितिः ।। २१ ।।
तस्य ये वा त्रयः पुत्राः कालाग्निसमतेजसः ।
सुवृत्तः कनको घोरस्तैश्चाप्याघातितं जगत् ।। २२ ।।
तेषां कर्दमलीलाभिः सरांसि जगतां पते ।
मानसादीनि भग्नानि प्रकृतिं यान्ति नाधुना ।। २३ ।।
भग्नास्तैर्देवतरवो मन्दाराद्या महाबलैः ।
देव नाद्यापि रोहन्ति फलं पुष्पं दलं च वा ।। २४ ।।
यदा त्रिकूटमारुह्य ते सुवृत्तादयस्त्रयः ।
प्लुतं कृत्वा महाबाहो पतन्ति लवणार्णवे ।। २५ ।।
तदा तत् क्षुब्धतोयौघैः प्लाव्यते सकला मही ।
उत्प्लवन्ति जनाः सर्वे प्रयान्ति च दिशो दश ।
जीवितं रक्षमाणास्ते प्रयान्ति च दिशो दश ।। २६ ।।
यदा त्रिविष्टपं यान्ति यज्ञवाराह पुत्रकाः ।
इतस्ततस्तदा भग्ना देवाः शान्तिं न लेभिरे ।। २७ ।
सर्वे तैः पर्वताः पुत्रैर्वाराहस्य जगत्पते ।
क्रीडद्भिः शिखरे नीतार्भूरिभागमधोगतिम् ।। २८ ।।
एवं विक्रीडतां तेषां क्रीडाभिः सकलं जगत् ।
नाशमायाति वैकुण्ठ तस्माद्रक्ष जगत्प्रभो ।। २९।।
।। मार्कण्डेय उवाच ।।
इति तेषां निगदतां श्रुत्वा वाक्यं जनार्दनः ।
उवाच शङ्करं देवं ब्रह्माणं च विशेषतः ।।३०।।
यत्कृते देवताः सर्वाः प्रजाश्च सकला इमाः ।
प्राप्नुवन्ति मह दुःखं शीर्यते सकलं जगत् ।। ३१ ।।
वाराहं तदहं कायं त्यक्तुमिच्छामि शङ्कर ।
निर्वेशशक्तं तं त्यक्तुं स्वेच्छया न हि शक्यते ।
त्वं त्याजयस्व तं कायं यत्नाद्वा शङ्कराधुना ।। ३२ ।।
त्वमाप्यायस्व तेजोभिर्ब्रह्मन् स्मरहरं मुहुः ।
आप्यायन्तु तथा देवाः शङ्करो हन्तु पोत्रिणम् ।। ३३ ।।
रजस्वलायाः संसर्गाद्विप्राणां मारणात्तथा ।
कायः पापकरो भूतस्तं त्यक्तुं युज्यतेऽधुना ।। ३४।।
प्रायश्चित्तैरपैत्येनः प्रायश्चित्तमहं ततः ।
चरिष्यामि तदर्थं मे तनुर्यत्नेन शाम्यताम् ।। ३५ ।।
प्रजापाल्या मम सदा सा हि सीदति नित्यशः ।
मत्कृते प्रत्यहं तस्मात् त्यक्ष्ये कायं प्रजाकृते ।। ३६ ।।
।। मार्कण्डेय उवाच ।।
इत्युक्तौ वासुदेवेन तदा तौ ब्रह्मशङ्करौ ।
त्वया तथोक्तं तत्कार्यमिति गोविन्दमूचतुः ।। ३७।।
वासुदेवोऽपि तान् सर्वान् विसृज्य त्रिदशांस्तथा ।
वाराहं तेज आहर्तुं स्वयं ध्यानपरोऽभवत् ।। ३८ ।।
शनैः शनैर्यदा तेजो आहरत्येष माधवः ।
तदा देहं तु वाराहं सत्त्वहीनमजायत ।। ३९ ।।
तेजोहीनं यदा देहं ज्ञातं सर्वैस्तदामरैः ।
आससाद तदा देवो यज्ञवाराहमद्भुतम् ।।४० ।।
ब्रह्माद्यास्त्रिदशाः सर्वे महादेवमुमापतिम् ।
अनुजग्मुस्तदा तेज आधातुं स्मरशासने ।। ४१ ।।
ततः सर्वैर्देवगणैः स्वं स्वं तेजो वृषध्वजे ।
आदधे तेन बलवान् सोऽतीव समजायत ।।४२।।
ततः शरभरूपी स तत्क्षणात् गिरिशोऽभवत् ।।४३।।
ऊर्ध्वाधोभागतश्चाष्टपादयुक्तः सुभैरवः ।
द्विलक्षयोजनोच्छ्रायः सार्धलक्षैकविस्तृतः ।। ४४ ।।
ऊर्ध्वं वाराहकायस्तु लक्षयोजनविस्तृतः ।
लक्षार्धविस्तृतः पार्श्वे वर्धमानस्तदाभवत् ।। ४५ ।।
ततः शरभरूपं तं महादेवमुमापतिम् ।
ददर्श यज्ञपोत्री सः स्पृशन्तं शिरसा विधुम् ।
सुदीर्घनासानखरं कृष्णांगारसमप्रभम् ।। ४६ ।।
दीर्घवक्त्रं महाकायमष्टदंष्ट्रासमन्वितम् ।
विभ्रतं स सटं पुच्छं दीर्घकर्णं भयानकम् ।।४७।।
चतुरं पृष्ठतः पादानधरे चतुरस्तथा ।
कुर्वन्तं घोरमारावमुत्पतन्तं पुनः पुनः ।।४८ ।।
तमायान्तं ततो दृष्ट्वा क्रोधाद्धावन्तमञ्जसा ।
सुवृत्तः कनको घोर आसेदुः क्रोधमूर्च्छिताः ।।४९।।
तमासाद्य महाकायं शरभं भ्रातरस्त्रयः ।
उच्चिक्षिपुस्ते युगपत् पोत्रघातैर्महाबलाः ।। ५० ।।
यावत् प्रमाण: शरभस्तत्प्रमाणास्तदाभवन् ।
शरभोत्क्षेपसमये मायया पोत्रिणस्त्रयः ।। ५१ ।।
तेषां पोत्रप्रहारेण प्रोत्क्षिप्तः शरभस्तदा ।
पपात पृथिवीप्रान्ते गम्भीरे तोयसागरे ।। ५२ ।।
तस्मिन् निपतिते तत्र सागरे मकरालये ।
उत्पत्य ते त्रयः पेतुः क्रोधात्तस्मिन् महोदधौ ।। ५३ ।।
सुवृत्ते कनके घोरे पतिते सागराम्भसि ।
वाराहोऽपि सुतस्नेहात् क्रोधाच्च द्विजसत्तमाः ।
उत्पत्य सहसा तस्मिंस्तोयराशौ पपात ह ।।५४।।
उत्पतन्तस्तदा ते वै वाराहा: शरभस्तथा ।
वभञ्जर्दिवि देवांस्तु नक्षत्राणि ग्रहांस्तथा ।। ५५ ।।
केचित्तु निहता देवा भूमौ पेतुश्च केचन ।
केचिच्च ज्ञानिनो देवा महलोंकमुपाश्रिताः ।। ५६ ।।
नक्षत्राणि विमानात्तु पतितानि महीतले ।
अदृश्यन्त द्विजश्रेष्ठा ज्वालामालाकुलानि वै ।।५७।।
तेषामुत्पतने वेगो योऽभूत् परमदारुणः ।
तेनातिवेगो जनितो वायुः परमदारुणः ।।५८।।
वायुना तेन संत्रस्ता पर्वताः पृथिवीतले ।
केचिच्छैलाः पर्वतेषु पतिताः पुनरेव ते ।। ५९ ।।
विमृद्य वृक्षान् जन्तूंश्च निपेतुश्च पुनः पुनः ।
केचित्तु पर्वताघातैर्नृत्यमाना महीतले ।
वभञ्जुरचलाश्चापि व्रजन्तो बहुश: प्रजाः ।।६०।
पर्वता समदृश्यन्त वातवेगेन भूतले ।
सङ्घट्टमानास्तेभ्योऽन्ये व्रजन्त इव तेऽचलाः ।। ६१ ।।
अम्भोनिधौ पतद्भिस्तैर्वाराहैः शरभेण च ।
पर्वतैश्च महातुङ्गैरुत्क्षिप्तास्तोयराशयः ।। ६२ ।।
तेषां प्रपातवेगेन क्षिप्तेषु जलराशिषु ।
निस्तोया इव संजाताः क्षणं वै सर्वसागराः ।। ६३ ।।
तैः सर्वैरुदकैः क्षिप्तैः पृथिवीतलमागतैः ।
उत्प्लाविताः प्रजाः सर्वाः क्षणाज्जग्मुः क्षयं ततः ।। ६४ ।।
प्लवमाना: प्रजास्तोये म्रियमाणाः समन्ततः ।। ६५ ।।
हा पितस्त्वथ हा तात हा मातर्हा सुतेति च ।
विलपन्ति स्म करुणं भीताश्चार्ता मुमूर्षवः ।। ६६ ।।
यस्मिन् देशे निपतितो वाराहैः शरभः सह ।
तत्रैवाधोगता भूमिः पादवेगेन दारिता ।। ६७ ।।
अपरः पृथिवीप्रान्त उत्थितः पर्वतैः सह ।
ससर्ज जनलोकेषु चलां तेषां प्रभञ्जनैः ।। ६८ ।।
जनलोकेषु संयुक्तां पृथिवीं शरभस्तदा ।
निःश्रेणीमिव सम्बद्धामचलामपि पोत्रिभिः ।
ददर्श विस्मयाविष्टः स भीतः श्रान्तपीडितः ।। ६९ ।।
ततस्ते युयुधुः सर्वे पोत्राघातेन पोत्रिणः ।
खुरप्रहारैर्दंष्ट्राभिर्गात्रक्षेपैश्च दारुणैः ।। ७०।।
शरभोऽप्यथ दंष्ट्रायैर्नखैस्तीक्ष्णैः खुरैस्तथा ।
लाङ्गुलस्य प्रहारैस्तु तुण्डघातैर्महास्वनैः ।।७१।।
चतुर्भिः पोत्रिभिस्तैस्तु स एकः शरभो महान् ।
एकान्तं योधयामास सहस्रं परिवत्सरान् ।। ७२ ।।
तेषां प्रहारैर्वेगैश्च भ्रमणैश्च गतागतैः ।
आस्फोटितैस्तथारावैर्देहपातैः पृथक् पृथक् ।
पाताले पन्नगाः सर्वे विनेशुः कद्रुजैः सह ।।७३।।
ततस्ते सागरं त्यक्त्वा पृथिवीमध्यमागताः ।
परस्परं युध्यमाना ततोऽभूत् पृथिवी समा ।। ७४ ।।
शेषोऽपि महता यत्नाद्वलेनाष्टभ्यकच्छपम् ।
दधार पृथिवीं दुःखैर्भग्नशीर्षः प्रतापितः ।। ७५ ।।
अनन्ते वामनीभूते समत्वं पृथिवीतले ।
गतेऽम्भोभिश्चलद्भिश्च पर्वतैः सर्वजन्तुषु ।। ७६ ।।
नष्टेषु युध्यमानेषु त्रिपोत्रिशरभेषु च ।
सागरैराप्लुते सर्वजगत्यापोमये हरिम् ।
चिन्ताविष्टः सुरज्येष्ठः उवाचाथ पितामहः ।।७७ ।।
।। ब्रह्मोवाच ।।
भगवन् भुवनं सर्वं ससुरासुरमानुषम् ।
विध्वस्तं पृथिवी शीर्णा नष्टाः स्थावरजङ्गमाः ।।७८।।
देवदानवगन्धर्वा दैत्याश्चापि सरीसृपाः ।
विध्वस्ता जगतां नाथ मुनयश्च तपोधनाः ।।७९।।
त्वं पालकोऽसि सर्वेषां त्वमेव जगतः प्रभुः ।
तस्मात् पालय नः सर्वान् पृथिवीं च जगत्पते ॥८०॥
त्वमेव कायं वाराहं स्वयमेवोपसंहर ।
संस्थापय महाबाहो पृथिवीं च चराचरैः ।।८१ ।।
।। मार्कण्डेय उवाच ॥
इति तस्य वचः श्रुत्वा ब्रह्मणोऽथ जनार्दनः ।
यत्नं चक्रे तदा सर्वं संस्थापयितुमच्युतः ।।८२।।
ततो हरी रोहितमत्स्यरूपी भूत्वा मुनीन् सप्त तदा सवेदान् ।
अधोच्छुते रक्षणतत्परो जगद्हिताय सर्वश्रुतिकोविदां वरान् ।।८३ ।।
वसिष्ठमत्रिं त्वथ कश्यपं च विश्वादिमित्रं च सगौतमं मुनिम् ।
महातपस्थं जमदग्निमुख्यं तथा भरद्वाजमुनिं तपोनिधिम् ।। ८४ ।।
निधाय पृष्ठे स हि तोयमध्ये स्थितो महानौप्रवरे मुनीन्द्रान् ।
ततः शिवं सान्त्वयितुं जनार्दनो जगाम यस्मिन् युयुधे स पोत्रिभिः ।।८५।।
श्रान्तं वाराहैरतिपौत्रघट्टनै- र्निपिडीतं व्यात्तमुखं श्वशन्तम् ।
अथागतं वीक्ष्य हरि वाराह: सस्मार पूर्वां नरसिंहमूर्तिम् ।।८६ ।।
स्मृतस्तदा तेन समाजगाम सखा वराहस्य हिते नृसिंहः ।
तमागतं वीक्ष्य तदा नृसिंहं तदीयकायान् निजतेज आदात् ।। ८७ ।।
दृष्टं वराहै: शरभेण तेजो यत् सूर्यतुल्यं प्रविवेश विष्णौ ।
विज्ञाय तेजोरहितं नृसिंहं ससर्ज निश्वासचयं वराहः ।।८८ ।।
ततस्तु जाता बहवो वराहा बहुप्रमाणाद्भुततीक्ष्णदंष्ट्राः ।
ते वै वराहा: शरभं गिरीशं मायाविनो वीतभयास्तुदन्तः । । ८९ ।।
समं नृसिंहेन तदापि युद्धं चक्रुर्ममर्दुश्च भृशं गिरीशम् ।
क्षणं महापक्षिसमानरूपाः क्षणं तु गावस्तुरगा नराश्च ।। ९० ।।
क्षणं नृसिंहाश्च वराहरूपा गोमायवो वैकृतिका: क्षणं ते ।
अनेकरूपाणि भयङ्कराणि वितन्यमानाति रणे वराहैः ।।९१।।
निरीक्ष्य भर्गं च निपीडितं तै रथासदन्माधवस्तं गिरीशम् ।
पस्पर्श विष्णुर्गिरिशं करेण तेजो न्यधात्तत्र निजं पुनः सः ।।९२।।
अथ संस्पृष्टमात्रः स विष्णुना प्रभविष्णुना ।
अतीव मुदितो हृष्टो बलवान् समजायत ।। ९३ ।।
अथोच्चैः शरभो नादं ननाद बलवद् दृढम् ।
आपूरितानि येनैतद्भुवनानि चतुर्दश ।। ९४ ।।
नदतस्तस्य वदनाच्छीकरा ये विनिःसृताः ।
ततो गणाः समभवन् महाकाया महौजसः ।। ९५ ।।
यथा वराहनिश्वासान्नानारूपधरा गणाः ।
वराहास्तादृशा एते ततोऽप्यतिबलाः पुनः ।। ९६ ।।
श्ववराहोष्ट्ररूपाश्च प्लवगोमायुगोमुखाः ।
ऋक्षमार्जारमातंगशिशुमारस्वरूपिणः।।९७।।
सिंहव्याघ्रमुखाः केचित् केचित् सर्पाखुमूर्तयः ।
हयग्रीवा हयमुखा महिषाकृतयः परे ।। ९८ ।।
अन्ये तु मनुजाकारा मृगमेषमुखाः पुनः ।
कबन्धा हीनपादाश्च विहस्ता बहुपाणयः ।। ९९ ।।
केचित्तु शरभाकाराः कृकलासमुखाः परे ।
मत्स्यवक्त्रा ग्राहवक्त्रा ह्रस्वा दीर्घाबलाः कृशाः ।। १०० ।।
चतुः पादाष्टपादाश्च त्रिपादाः द्विपदाः परे ।
एकपादा भूरिहस्ता यक्षकिंपुरुषोपमाः ।। १०१।।
पश्वाकाराः पक्षयुक्ताः लम्बोदरमहोदराः ।
दीर्घोदराः स्थूलकेशा बहुकर्णा विकर्णकाः ।
स्थूलाधरा दीर्घदन्ता दीर्घश्मश्रुधराः परे ।। १०२ ।।
ये सन्ति प्राणिनो विप्रा भुवनेषु समन्ततः ।
चतुर्दशसु ते तेषां रूपेण समतां गताः ।। १०३ ।।
नेहास्ति भुवने जन्तुः स्थावरो वा जगत् पुनः ।
यत्तुल्यरूपेण गणो न जातः शङ्करस्य च ।। १०४ ।।
ते भिन्दिपालैः खड्गैश्च परिघैस्तोमरैस्तथा ।
शङ्कुलासिगदाभिश्च पाशैः शङ्कभिरेव च ।। १०५ ।।
खट्वाङ्गैश्च त्रिशूलैश्च कपालैः शक्तिभिस्तथा ।
दात्रैः सृणिभिरीषायैर्यष्टिभिश्च त्रिकण्टकैः ।। १०६ ।।
प्रासैः परशुभिर्बाणैः कोदण्डैरतिभीषणाः ।
जटाचन्द्रकलायुक्ताः सर्व एव महाबलाः ।। १०७ ।।
केचिद्भर्गस्य रूपेण वाहनेनाथ भूषणैः ।
तुल्या जटार्धशुभ्रांशु शुभ्रशीर्षा महाबलाः ।। १०८ ।।
अर्धनारीश्वराः केचिद् यथारुद्रस्तथैव ते ।। १०९ ।।
केचित्तु चारुरूपेण मोहनेन मनोभुवः ।
तुल्येन वनितासंघैः समं जाता रतोत्सुकाः ।। ११०।।
आकाशचारिणः सर्वे सर्वे स्वच्छन्दगामिनः ।। १११ ।
नीलोत्पलदलश्यामाः शुक्ला: केचन लोहिताः ।
रक्ताः पीतास्तथा चित्रा हरिताः कपिलाः परे ।
अर्धपीता ह्यर्द्धरक्ता नीलार्धा धवलाः परे ।। ११२ ।।
सकृष्णपीताः शुक्लेन कृष्णेनार्धेन रञ्जिताः ।
एकवर्णा द्विवर्णाश्च त्रिवर्णाश्च तथापरे ।
चतुःषट्पञ्चवर्णाश्च केचिद् दशवर्णाः द्विजाः ।। ११३ ।।
डिण्डिमान् पटहान् शङ्खान् भेर्यानकसकाहलान् ।। ११४ ।।
मण्डूकान् झर्झरांश्चैव झर्झरीश्च समर्दलाः ।
वीणास्तन्त्री: पञ्चतन्त्रीः शकटान् दर्दरांस्तथा ।। ११५ ।।
गोमुखानानकान् कुण्डान् सतालकरतालिकान् ।
वादयन्तो गणाः सर्वे हसन्तश्च मुहुर्मुहुः ।। ११६ ।।
वराहाभिमुखा भूत्वा तस्थुस्ते हृष्टमानसाः ।
तान् सर्वानाह शरभो भगवान् वृषभध्वजः ।। ११७ ।।
निध्नतैतान् वराहस्य गणान् वै क्रूरकर्मभिः ।
क्रूरदृष्ट्या क्रूरयुद्धैः क्रूरा भूत्वा महाबलाः ।। ११८ ।
ततस्ते वै गणाः सर्वे नानाकारवरायुधाः ।
सार्धं वराहस्य गणैर्युयुधुः क्रूरदर्शनाः ।। ११९ ।।
आकाशचारिणः सर्वे जलपूर्णं जगत्त्रयम् ।
ते परित्यज्य युयुधुर्वियत्येवोभये गणाः ।। १२० ।।
ततः क्षणाद् वराहास्य गणान् सर्वान् महाबलान् ।
हरस्य प्रमथा जघ्नुर्महावाता इवाम्बुदान् ।। १२१ ।।
हतेषु तेषु वीरेषु वाराहेषु गणेष्वथ ।
दध्यौ वराहः किमिति प्राक् पश्चाद्वृत्तमास्थितम् ।। १२२ ।।
अथ चिन्तयतस्तस्य स्वान्तं गत्वा जनार्दनः।
तत् सर्वं ज्ञापयामास वराहवपुषो हितम् ।
ततो देह – परित्यागं कर्तुं समयतस्तदा ।। १२३ ।।
ततो दंष्ट्राप्रघातेन नरसिंहं महाबलः ।
शरभो भगवान् भर्गो द्विधा मध्ये चकार ह ।। १२४ ।।
नरसिंहे द्विधाभूते नरभागेण तस्य च ।
नर एव समुत्पन्नो दिव्यरूपी महाऋषिः ।। १२५ ।।
तस्य पञ्चास्यभागेन नारायण इतिश्रुतः ।
अभवत् सुमहातेजा मुनिरूपी जनार्दनः ।। १२६ ।।
नरो नारायणश्चोभौ सृष्टिहेतू महामती ।
द्वयोः प्रभावो दुर्धर्षः शास्त्रे वेदे तपःसु च ।। १२७ ।।
तौ नावि विनिधायाथ मत्स्यमूर्त्यवितात्मनि ।
आससाद पुनर्देवो वाराहः शरभं हरिः ।। १२८ ।।
वपुस्त्यागो मयावश्यं कर्तव्यो जगतां हिते ।। १२९ ।।
इति पूर्वं प्रतिज्ञातं तदर्थोऽयं समुद्यमः ।
क्रियते हरिणा सार्धं शम्भुना ब्रह्मणापि च ।।१३० ।।
इति संचिन्त्य स तदा शूकरः परमेश्वरः ।
जगाद शरभं देवं महादेवं महाबलम् ।। १३१ ।।
।। वाराह उवाच ।।
जहि मां त्वं महादेव त्यक्ष्ये कायमसंशयम् ।
हिताय सर्वजगतां देवानामपि ऋत्विजान् ।। १३२ ।।
मम देहप्रतीकौ धैर्यज्ञं यूपं प्रकल्प्य च ।
पृथक् पृथक् महाभागा सशामित्रं श्रुवादिकम् ।। १३३ ।।
ततस्ते तान् त्रिभिः पुत्रैर्विधध्वं जगतां हिते ।
कनकेन सुवृत्तेन घोरेण च जगन्मयीम् ।। १३४।।
यज्ञाद् देवाः प्रजाश्चैव यज्ञादन्नान् नियोगिनः ।
सर्वं यज्ञात् सदा भावि सर्वं यज्ञमयं जगत् ।। १३५ ।।
यमिमं पृथिवीगर्भमाधत्त मलिनी पुनः ।
तमुत्पन्नं स्वयं देवीं चिरं संगोपयिष्यति ।। १३६ ।।
प्राप्ते काले यदा देवी तदायुष्मान् सुभाषते ।
वधस्तस्यातिमारार्ता तदैवैनं हनिष्यथ ।। १३७ ।।
भारतीं पृथिवीं मग्नां यदाधः शतयोजनम् ।
शृङ्गिवराहरूपेण प्रोद्धरिष्ये तदात्विमाम् ।।१३८ ।।
कृतकृत्यं तु तं कायं त्याजयिष्यति ते सुतः ।
यो भावी देवसेनानी रुद्रात् षाण्मातुराह्वयः ।। १३९।।
।। मार्कण्डेय उवाच ।।
एवं यज्ञवराहे तु भाषमाणे महाबले ।
निःसृत्य सुमहत्तेजो ज्वालामालातिदीपितम् ।। १४० ।।
सूर्यकोटिप्रतीकाशं वराहवपुषस्तदा ।
हरेर्भगवतो देहे विवेश महद्दभुतम् ।। १४१ ।।
तस्मिन् विष्णौ प्रविष्टे तु वाराहे तेजसि द्विजाः ।
सुवृत्तात् कनकाद्घोरात्तेज आदात् स्वयं हरिः ।। १४२ ।।
तेषामपि शरीरेभ्यस्तेजोभागः पृथक् पृथक् ।
विनिःसृत्य विनिःसृत्य ज्वालामालातिदीपितः ।
प्रविवेश हरेः काये यथा तेषां पितुस्तथा ।। १४३ ।।
ततो हरिश्च ब्रह्मा च महादेवश्च तद्वचः ।
वाराहस्य प्रतिश्रुत्य ओमित्युक्त्वा पुनः पुनः ।। १४४ ।।
तेषां कायपरित्यागे अकार्षुर्यत्नमुत्तमम् ।। १४५ ।।
ततस्तुण्डप्रहारेण शरभः कण्ठमध्यतः ।
भित्वा वपुर्वराहस्य पातयामास तज्जले ।। १४६ ।।
तं पातयित्वा प्रथमं सुवृत्तं कनकं तथा ।
घोरं च कण्ठदेशेषु भित्वा भित्वा जघान ह ।। १४७ ।।
त्यक्तप्राणास्तु ते सर्वे पेतुस्तोये महार्णवे ।
जले शब्दं वितन्वानाः कालानलसमत्विषः ।। १४८ ।।
पतितेषु वराहेषु ब्रह्माविष्णुर्हरस्तथा ।
सृष्ट्यर्थं चिन्तयामासुः पुनरेव समागताः ।। १४९ ।।
हरस्य तु गणाः सर्वे तदा भर्गं समागताः ।
उपतस्थुर्महाभागाश्चतुर्भागेन भाजिताः ।। १५० ।।
षट्त्रिंशत्तु सहस्राणि प्रमथा द्विजसत्तमाः ।
तत्रैकत्र सहस्राणि भागे षोडश संस्थिताः ।। १५१ ।।
नानारूपधरा ते वै जटाचन्द्रार्धमण्डिताः ।
ते सर्वे सकलैश्वर्ययुक्ता ध्यानपरायणाः ।। १५२ ।।
योगिनो मदमात्सर्यदम्भाहङ्कार वर्जिताः ।
क्षीणपापा महाभागाः शम्भोः प्रीतिकराः पराः ।। १५३ ।।
न ते परिग्रहं रागं कांक्षन्ति स्म कदाचन ।
संसार - विमुखाः सर्वे यतयो योगतत्पराः ।। १५४ ।।
ध्यानावस्थं महादेवं परिवार्य धृतव्रताः ।
कृत्वा परिषदं रुच्या तिष्ठन्ति विगतक्लमाः ।। १५५ ।।
यदैव परमं ज्योतिश्चिन्तयत्यम्बिकापतिः ।
तदैव ते पारिषदाः सर्वे संवेष्टयन्ति तम् ।। १५६।।
ते षोडश समाख्याताः कोटयो ये यतव्रताः ।
सिंहव्याघ्रादि सारूप्या अणिमादिसमायुताः ।। १५७।।
अपरे कामिनः शम्भोः सुनर्मसचिवाः स्मृताः ।
विचित्ररूपाभरणा जटाचन्द्रार्धमण्डिताः ।। १५८ ।।
हरस्य तुल्यरूपेण विशदा वृषभध्वजाः ।
उमासदृशरूपाभिः प्रमदाभिः समागताः ।। १५९ ।।
विचित्रमाल्याभरणा दिव्यस्रग्गन्धभूषिताः ।
उमासहायं क्रीडन्तमनुगच्छन्ति भूषिताः ।
शृङ्गारवेषाभरणा अष्टौ ते कोटयो गणाः ।। १६० ।।
अर्धनारीश्वराश्चान्ये ह्यर्धनारीश्वरं हरम् ।
ध्यानस्थं प्रविविशुस्ते तुल्यरूपा हरस्य ये ।। १६१।।
उमासहायो हि यदा रमते ससुखं हरः ।
अर्धनारीशरीरास्तु द्वारपाला भवन्ति ते ।। १६२ ।।
आकाशमार्गे गच्छन्तमनुगच्छन्ति नित्यशः ।
ध्यानस्थं परिचर्यन्ति सलिलादिभिरीश्वरम् ।। १६३ ।।
नानाशस्त्रधराः शम्भोर्गणास्ते प्रमथाः स्मृताः ।। १६४ । ।
प्रमथ्नन्ति च युद्धेषु युध्यमानान् महाबलान् ।
ते वै महाबलाः शूराः सङ्ख्यया नव कोटयः ।। १६५।।
अपरे गायनास्तालमृदङ्गपणवादिभिः ।
नृत्यन्ति वाद्यं कुर्वन्ति गायन्ति मधुरस्वरम् ।।१६६।।
नानारूपधरास्ते वै सङ्ख्यया कोटयस्त्रयः ।
सततं चानुगच्छन्ति विचरन्तं महेश्वरम् ।।१६७।।
सर्वे मायाविनः शूराः सर्वे शास्त्रार्थपारगाः ।
सर्वे सर्वत्र सर्वज्ञाः सर्वे सर्वत्रगाः सदा ।। १६८ ।।
मुहूर्तात् सर्वभुवनं गत्या यान्ति पुनर्भवम् ।
अणिमाद्यष्टकैश्वर्ययुक्तास्ते वै महाबलाः ।। १६९ ।।
अपरे रुद्रनामानो जटाचन्द्रार्धमण्डिताः ।
देवेन्द्रस्य नियोगेन वर्तन्ते त्रिदिवे सदा ।
तेषां सङ्ख्या चैककोटिस्ते सर्वे बलवत्तराः ।। १७० ।।
कुर्वन्ति हि सदा सेवां हरस्य सततं गणाः ।
विस्मयन्ति च पापिष्ठान् धर्मिष्ठान् पालयन्ति च ।। १७१ ।।
अनुगृणन्ति सततं धृतपाशुपतव्रतान् ।
विघ्नांश्च सततं घ्नन्ति योगिनां प्रयतात्मनाम् ।। १७२ ।।
षट्त्रिंशत् कोटयश्चैते हरस्य सकला गणाः ।
वराहगणनाशार्थं हिताय जगतां तथा ।। १७३ ।
शङ्करस्याथ सेवायै समुत्पन्ना इमे गणाः ।। १७४।।
वराहस्य गणान् दृष्ट्वा नरसिंहं तथा हरिम् ।
स्वयं शरभरूपः सन् ध्यायन्नादं तदाकरोत् ।
तच्छीत्कराद्यतो जातास्तत्तेषां बहुरूपता ।। १७५ ।।
क्रूरदृष्ट्या क्रूरयुद्धैः क्रूरकृत्यैरिमान् गणान् ।
वराहस्य घ्नतेत्येवं यतः प्रोक्तं कपर्दिना ।
अतस्ते क्रूरकर्माणः प्रजाताश्च भयङ्कराः ।। १७६ ।।
न सदा क्रूरकर्माणि ते कुर्वन्ति महौजसः ।
दृष्टिमात्रस्य ते क्रूराः क्रूरास्ते न तु कार्यतः ।। १७७ ।।
फलं जलं तथा पुष्पं पत्रं मूलं तथैव च ।। १७८ ।।
निवेदितानि भुञ्जन्ति वनपर्वतसानुषु ।
आहृत्यापि च भुञ्जन्ति पत्रं पुष्पादिकं च यत् ।। १७९ ।।
भवेद्भर्गस्य यद्धोग्यं तद्भोगास्ते महौजसः ।
आमिषाणि च नाश्नन्ति हित्वा चैत्रचतुर्दशीम् ।।१८० ।।
तत्रामिषं हरो भुंक्ते चतुर्दश्या मधौ सदा ।
ततः सर्वे गणास्तत्र भुंजते पललान्यपि ।। १८१ ।।
हते वराहस्य गणे भर्गमासाद्य ते गणाः ।
चतुर्भागाः स्वयं भूत्वा भूतकर्मेति वै जगुः ।
भूतत्वमभवत्तेषां चतुर्भागवतां तदा ।
वचनात् पद्मयोस्तु भूतग्रामस्ततो मतः ।। १८२ ।।
यो लोकविदितः पूर्वं भूतग्रामश्चतुर्विधः ।
यतस्तेभ्योऽधिको यत्तद्भूतग्रामः स उच्यते ।। १८३ ।।
इति वः कथितं सर्वं भूताः शम्भुगणाः यथा ।
यदाहारा यदाकारा यत्कृत्यास्ते महौजसः ।। १८४ । ।
य इदं शृणुयान्नित्यमाख्यानं महदद्भुतम् ।
स दीर्घायुः सदोत्साही योगयुक्तश्च जायते ।। १८५ ।।
इति श्रीकालिकापुराणे शरभवाराहयुद्धो नाम त्रिंशोऽध्यायः ॥ ३० ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand