कालिकापुराणम्/अध्यायः ३४
कालिकापुराणम् चतुस्त्रिंशोऽध्यायः पुनसृष्टिवर्णनम्
अथ श्रीकालिका पुराण अध्याय ३४
।। मार्कण्डेय उवाच ।।
यथा पुनरभूत् सृष्टिरकालप्रलये गते ।
येन चैवोद्धृता पृथ्वी तच्छृणवन्तु द्विजोत्तमाः ।। १ ।।
व्यतीते प्रलये विष्णुः कूर्मरूपी महाबलः ।
पृष्ठे निधाय पृथिवीमुद्धृत्याथ सपर्वताम् ।
समांचकार सकलां पूर्ववत्परमेश्वरः ।। २ ।।
शरभस्य वराहस्य तत्पुत्राणां पदक्रमैः ।
यत्र भूमिर्विशीर्णाभूत्तां तां समां कमठोऽकरोत् ।।३।।
कृत्वा समां ततो भूमिं पूर्ववत् परमेश्वरः ।
अनन्तं धारयामास पृथिवीतलसंश्रितम् ।।४।।
ततो ब्रह्मा च विष्णुश्च हरश्च परमेश्वरः ।
नावोदरस्थितान् सप्तमुनीन्मनुं स्वायम्भुवं तदा ।
नरनारायणौ चोभौ दक्षञ्चोचुः समागताः ।।५॥
शृण्वन्तु मुनयः सर्वे ब्रूमोधुना च यत् ।।६।।
सृष्टिर्नष्टा वराहस्य शरभस्य च सङ्गरात् ।
अतोऽस्माकं यथाकार्या सृष्टिराकर्णयन्तु तत् ।।७।।
नरनारायणावेतौ सृष्ट्यर्थं समुपस्थितौ ।
संस्थापनाय देवानां परमं तप्यतां तपः ।।८।।
आप्याय तपसा चोभौ जनलोकगतान् सुरान् ।
आनयन्त्वपराञ्छश्वत् संसृजन्तु गणान् बहून् ।।९ ॥
नक्षत्राणि ग्रहांश्चैव तेषां स्थानानि वै मुने ।
एग्रोस्तपसा यान्तु स्थिरतां पूर्ववन्मनो ।।१०।।
सूर्यस्य रथसंस्थानं तथा चन्द्ररथस्थितिम् ।
करोत्वयं महाभागः स्वयमेव जनार्दनः ।। ११ ।।
पृथिव्यां सर्वबीजानि स्वायम्भुवमनो त्वया ।
उप्यन्तां सर्वतः शस्यपूर्णा भवतु मेदिनी ।। १२ ।।
प्ररोहयौषधीवृक्षान् लतावल्लीश्च सर्वतः ।
स्वायम्भुव महान्त्येतत् प्राप्तान्यृतुफलानि च ।।१३।।
दक्षः सप्तमुनीन्द्रस्तु यज्ञेन यजतां हरिम् ।
वराहपुत्रदेहोत्थमग्नित्रयमिदं यजन् ।। १४ ।।
असौ यज्ञो वराहस्य देहाज्जातस्तु सृष्टये ।
अनेनैव तु यज्ञेन दक्षः सृष्टिं तनोत्विमाम् ।। १५ ।।
नरनारायणाभ्यां तु मुनिभिः सप्तभिस्तथा ।
दक्षेण भवता चापि यज्ञेनैभिस्तथाग्निभिः ।
सम्पूर्यतामियं सृष्टिः स्वर्गे भुवि रसातले ।।१६।।
वयं च सृष्टिमाप्याय्य यथा सम्पद्यते त्वियम् ।
यतिष्यामस्तथा नित्यं यूयं कुरुत सर्जनम् ।। १७ ।।
ततः सम्पद्यतां सृष्टिर्यथा पूर्वं तथैव च ।
प्रथमं त्वन्तु बीजानि प्ररोहय मनोऽधुना ।। १८ ।।
।। मार्कण्डेय उवाच ।।
इत्यादिश्य महाभागा विधिविष्णुवृषध्वजाः ।
यथास्थानं स्थापयितुं पर्वतान् प्रययुस्ततः ।। १९।।
मेरुमन्दरकैलासहिमवत्प्रभृतिष्वथ।
पुराणि सर्वदेवानां ते वै चक्रुः पृथक् पृथक् ।।२०।।
परित्यज्य ततो नावमवधृत्य वसुन्धराम् ।
स्वायम्भुवःक्षितौ बीजान्यवपत् सर्वसम्पदे ।। २१ ।।
ततो वृक्षलतावल्लीगुल्मानि च वनानि च ।
बालशस्यानि धान्यानि तथैवौषधयः समाः ।। २२ ।।
बीजकाण्डप्ररोहाश्च प्रताना जलजानि च ।
प्रफुल्लानि विकोशानि फलकन्ददलानि च ।
बभुवुः शाद्वलान्येव सर्वेषां प्राणवृद्धये ।। २३ ।।
पृथिवी शस्यसम्पन्ना वृक्षास्ते शाद्वलाः शुभाः ।
दृष्टाः पूर्वं यथा तस्मान्मनुना चित्तहर्षिणा ।। २४ ।।
ततो नरो महायोगी तपस्तेपे महत्तमम् ।
नारायणश्च देवानां भावनाय महामतिः ।। २५ ।
नारायणो नरश्वोभौ परमावृषिसत्तमौ ।
तपसाराध्य परमं तेजोमयमनामयम् ।। २६ ।।
आनित्या जनगणान् देवान् देवर्षिसत्तमान् ।
ये मृता अमराः पूर्वं गणशस्तान् पृथक् पृथक् ।। २७।।
तपोबलेन महता सर्जयामासतुर्मुनी ।
सूर्याचन्द्रमसौ देवौ दिक्पालांश्च तथा दश ।
जनार्दनः स्वयं चक्रे पातालतलवासिनः ।। २८ ।।
सूर्याचन्द्रमसोश्चक्रे यथासंस्थानमच्युतः ।
पूर्ववद् योजयामास दिवारात्रस्थितौ च तौ ।। २९ ।।
ओषधिषु च जातासु यज्ञवृक्षेषु सत्तमाः ।
शस्यबीजेषु जातेषु देवेषु च पृथक् पृथक् ।
दक्षः कर्तुं समारेभे ज्योतिष्टोमं महाध्वरम् ।।३० ॥
कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः ।
जमदग्निर्भरद्वाज एते सप्तर्षयोऽमलाः ।।३१।।
एतैः सप्तमुनीन्द्रैस्तु दक्षो ब्रह्मसुतः स्वयम् ।
महायज्ञं ततश्चक्रे यावद्द्वादशवत्सरान् ।।३२।।
हूयमानेषु तत्रैव त्रिष्वग्निषु पुनः पुनः ।
इज्यमाने वराहे तु यज्ञरूपे तदा द्विजैः ।
चतुर्विधाः प्रजा जाता यज्ञादेव द्विजोत्तमा ।। ३३ ।।
ततो दक्षस्य संजाताः पुत्र्यः पुण्यात्रयोदश ।
स्वरूपगुणसम्पन्नाःसृष्टयर्थममितप्रजाः ।। ३४।।
ताः पुत्रीः प्रददौ दक्षः कश्यपाय महात्मने ।
ताभ्यो जाताश्च बहवस्तैर्व्याप्तं सकलं जगत् ।। ३५ ।।
स सर्वासां प्रजानां तु कश्यपो जनको ह्यभूत् ।
निःसृतं द्विजशार्दूलाः कश्यपात् सकलं जगत् ।। ३६।।
तासां नामानि तज्जाताः प्रजाः सर्वाः पृथक् पृथक् ।
शृण्वन्तु मुनयः सर्वे सम्यक् कथयतो मम ।। ३७ ।।
अदितिर्दितिर्दनु; काला दनायूः सिंहिका मुनिः ।
क्रोधा प्रधा वरिष्ठा च विनता कपिला तथा ।
कद्रूस्त्रयोदशसुता एता दक्षस्य कीर्तिताः ।। ३८।।
संजातो दक्षिणाङ्गुष्ठान्मनसा ध्यायतो विधेः ।
तेन देवमनुष्येषु दक्ष इत्येव कथ्यते ।। ३९।।
ब्रह्मणो मानसाः पुत्रा दश पूर्वं प्रकीर्तिताः ।
तेषां षट्सृष्टिकर्तारो व्यतीतेऽस्मिन् जनक्षये ।
मरीचिरत्र्यंगिरसौ पुलस्त्यः पुलहः क्रतुः ।। ४० ।।
मरीचेस्तनयो जातः कश्यपो लोकभावनः ।
अस्यैव दक्षकन्याभ्यः प्रजा जज्ञेऽथ भूरिशः ।।४१।।
अस्य जायाप्रजातानां नामतो विनिबोधत ।
धाता मित्रोऽर्यमा शक्रो वरुणः सोम एव च ।। ४२ ।।
भर्गो विवस्वान् पूषा च सवितृत्वष्टविष्णवः ।
अदितेर्द्वादशसुता आदित्यास्ते प्रकीर्तिताः ॥ ४३ ॥
एषां कनीयान् गुणवान् सदा यस्तपति प्रजाः ।
स वै वंशकरो मुख्यो गद्यते वो दिवाकरः ।।४४।।
एक एव दितेः पुत्रो हिरण्यकशिपुर्बली ।। ४५ ।।
चत्वारस्तस्य तनया हृष्टा मदबलान्विताः ।
प्रह्लादो ह्यथ संह्लादो वाष्कलः शिविरेव च ।। ४६ ।।
प्रह्लादस्य त्रयः पुत्रास्तेषामाद्यो विरोचनः ।
कुम्भो निकुम्भो बलवांस्त्रयः प्राह्लादयः स्मृताः ।।४७।।
विरोचनसुतो जातो दानशौण्डो बलिर्महान् ।
बलेश्च पुत्रो विदितो बाणो नाम महाबली ।।४८ ।।
शम्भोरनुचरः श्रीमान् महाकालाह्वयश्च सः ।
बाणस्य च शतं पुत्राः कुसुम्भमकरादयः ।।४९ ।।
चत्वारिंशद्दनोः पुत्राः विप्रचित्तिपुरःसराः ।
शम्बरो नमुचिश्चैव पुलोमा च तथैव च ॥ ५० ॥
असिलोमा तथा केशी दुर्जयोऽयः शिरास्तथा ।
अश्वशीर्षो क्षयः शङ्कुर्वियन्मूर्धा महाबलः ।।५१।।
वेगवान् केतुमांश्चैव स्वयं स्वर्भानुरेव च ।
अश्वो ह्यश्वपतिः कुण्डो वृषपर्वाजकस्तथा ।। ५२ ।।
अश्वग्रीवश्च सूक्ष्मश्च तुरुण्डुर्माण्डलस्तथा ।
ऊर्धबाहुश्चैकचक्रो विरूपाक्षो हराहरौ ।। ५३ ।।
नियन्त्रश्च निकुम्भश्च कुपटश्चपटुस्तथा ।
सरभ: सुलभश्चैव सूर्याचन्द्रमसौ तथा ।।५४।।
अन्यावेतौ दनोः पुत्रौ सूर्याचन्द्रमसौ तथा ।
दिवाकर निशानाथौ तावन्यौ देवपुङ्गवौ ।।५५।।
एषां पुत्रैश्च पौत्रैश्च तत्पुत्रैश्चैव भूरिभिः ।
जगद् व्याप्तमिदं सर्वं बलवीर्यसमन्वितैः ।।५६ ।।
दनायूषोऽभवन् पुत्राश्चत्वारो बलवत्तराः ।
वीरभद्रो विक्षरश्च वत्सो वृत्तस्तथैव च ।। ५७ ।।
एषां चतुर्णां बहवः पुत्रा जाता द्विजोत्तमाः ।
रूपसत्वबलोपेता एकैकस्य शतं शतम् ।। ५८ ।।
कालायास्तनया जाता: कालेया इति विश्रुताः ।
विख्यातास्ते महावीर्याश्चत्वारो दानावाधिपाः ।। ५९ ।।
विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव च ।
क्रोधशक्रस्तथा चैते कालापुत्राः प्रकीर्तिताः ।। ६० ।।
सिंहिकायाः सुतो जातो राहुश्चन्द्रार्कमर्दनः ।
सुचन्द्रश्चन्द्रहन्ता च तथा चन्द्रविमर्दनः ।। ६१ ।।
गणः क्रोधवशोनाम क्रूरकर्मारिमर्दनः ।
क्रोधायास्तनया जाताःक्रूरकर्मकरास्तथा ।। ६२ ।।
सिंहिका चैव क्रोधा च द्वे सुते क्रूरिके सदा ।
ताभ्यां च प्रभवो वंशो ह्यत: क्रूरतरः स्मृतः ।।६३।।
एक एव मुनेः पुत्रो जातः शुक्रः कविर्महान् ।
दैत्यदानवकालेयप्रभृतीनां सदा गुरुः ।। ६४ ।।
चत्वारस्तस्य तनया जाता असुरयाजकाः ।
त्वष्टावरस्तथात्रिश्च सौकलश्चेति वाग्मिनः ।
तेजसा सूर्यसदृशा ब्रह्मलोक - प्रभावनाः ।। ६५ ।।
असुराणां सदैत्यानां कालेयानां तथैव च ।। ६६ ।।
क्रोधात्मजानाञ्च तथा सिंहिकातनयस्य च ।
सूतिप्रसूतिभिः सर्वं जगद्व्याप्तं चराचरम् ।।६७।।
तेषां तु यान्यपत्यानि वर्धितानि क्रमाद्विजाः ।
तेषां बहुत्वात् सङ्ख्यातुं चिरेणापि न शक्यते ।। ६८ ।।
तार्क्ष्यश्चारिष्टनेमिश्च अनूरुर्गरुडस्तथा ।
आरुणिर्वारुणिश्चैव विनतातनयाः स्मृताः ।। ६९ ।।
शेषो वासुकिराजश्च तक्षकः कुलिकस्तथा ।
कूर्मश्च सुमनाचेति काद्रवेयाः प्रकीर्तिताः ।।७० ।।
भीमसेनोग्रसेनश्च सुपर्णो गरुडस्तथा ।
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च वीर्यवान् ।।७१।।
अर्कदृष्टः प्रयुक्तश्च विश्रुतः सुश्रुतस्तथा ।
भीमश्चित्ररथश्चैव विख्यातः सर्वविद्दली ।।७२।
शालिशीर्षश्च पर्जन्य:कलिर्नारद एव च ।
इत्येते देव गन्धर्वा मुनिपुत्राः प्रकीर्तिताः ।। ७३ ।।
अनवद्यां सानुरागां संवरां मार्गणां प्रियाम् ।
असूयां सुभगां भीमामिति कन्यामसूयत ।
प्राधा सर्वगुणोत्थानात् कश्यपात्तु तपोधनात् ।। ७४ ।।
विश्वावसुः सुचन्द्रश्च सुपर्णः सिद्धः एव च ।। ७५ ।।
बर्हिः पूर्णश्च पूर्णाङ्गो ब्रह्मचारी रतिप्रियः ।
भानुश्च दशमश्चैते प्राधापुत्राः प्रकीर्तिताः ।। ७६ ।।
इत्येते देवगन्धर्वाः सन्ततं पुण्यलक्षणाः ।
प्राधासूत महामागा देवी देवर्षिसत्तमात् ।।७७।।
अलम्बुषा मिश्रकेशी गामिनी च मनोरमा ।
विद्युत्पन्नानधारम्भा ह्यरुणा रक्षितातुला ।।७८ ।।
सुबाहुः सुरता चैव मुरजा सुप्रिया तथा ।
वपुस्तिलोत्तमा चेति मुख्या अप्सरसः स्मृताः ।।७९।।
अतिबाहुस्तुम्बुरुश्च हाहा हूहूस्तथैव च ।
गन्धर्वाणामि मुख्या देवतुल्याः प्रकीर्तिताः ।। ८० ।।
अमृतं ब्राह्मणा गावो मुनयोऽप्सरसस्तथा ।
कपिलातनयाः प्रोक्ता महाभागा महोत्सवाः ।। ८१ ।।
इति दक्षसुतानां ये कश्यपात्तनयाः स्मृताः ।
तैरिदं सकलं व्याप्तं जगत्स्थावरजङ्गम् ।।८२।।
एवं यज्ञवराहस्य यज्ञरूपस्य पातनात् ।
त्रिभ्योऽग्निभ्यो मनोस्तस्मात् स्वायम्भुवमहात्मनः ।। ८३ ।।
मुनिभ्यश्चैव सप्तम्यः कश्यपादिभ्य एव च ।
नरनारायणाभ्यां तु व्यतीतेऽकालिके लये ।
पुनः प्रजा: पुरा सृष्टा हरिणानेकरूपिणा ।। ८४ ।।
एवं पुनरभूत् सृष्टिः सृष्टिस्थित्यन्तकारिणः ।
हरेस्तस्य प्रसादेन नरनारायणात्मनः ।। ८५ ।।
॥ इति श्रीकालिकापुराणे पुनः सृष्टिवर्णने चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand