कालिकापुराणम्/अध्यायः ३७
कालिकापुराणम् सप्तत्रिंशोऽध्यायः नरकासुरजन्मकथनम्
अथ श्रीकालिका पुराण अध्याय ३७
।। मार्कण्डेय उवाच ॥
अथ काले वहुतिथे व्यतीते द्विजसत्तमाः ।
विदेहविषये राजा जनको नाम वीर्यवान् ॥ १ ॥
सर्वराजगुणैर्युक्तो राजनीतिविवर्धितः ।
सत्यवाक् शीलवान् दक्षो ब्रह्मण्यः प्रयत: शुचिः ॥ २ ॥
देवद्विजगुरूणां च पूजासु निरतः सदा ।
बभूव सर्वलोकानां पितेव परिपालकः ॥३ ॥
तस्य राज्ञः सुतो नाभूत् प्राप्ते कालेऽपि वै सदा ।
तदा स विमना भूत्वा चिन्ताध्यानपरोऽभवत् ॥४॥
एकदा सोऽथ शुश्राव नारदस्य मुखान्नृपः ।
अपुत्रो नृपतिर्वृद्धो नाम्ना दशरथो महान् ।।५।।
पुत्रान् लेभे महासत्वानध्वरेण महामतिः ।
अयोध्यायां नगर्यां तु ऋष्यशृङ्गपुरोगमैः ॥६॥
मुनिभिर्विहितैर्यज्ञैर्लब्धवान् स नृपः सुतान् ।
रामं च भरतं चैव शत्रुघ्नं लक्ष्मणं तथा ।
महासत्वान् महावीरान् देवगर्भोपमाञ्छुभान् ।।७।।
तच्छ्रुत्वा जनको राजा प्रविश्यान्तः पुरं स्वकम् ।
भार्याभिर्मन्त्रयामास यज्ञार्थं पुत्रजन्मने ॥८॥
मन्त्रयित्वा तदा राजा महिषीप्रमुखैः स्वयम् ।
चतसृभिस्तु भार्याभिर्यज्ञार्थं दीक्षितोऽभवत् ।। ९ ।।
ततः पुरोधसं राजा गौतमं मुनिसत्तमम् ।
तत्पुत्रं च शतानन्दं पुरोधायोकरोन्मखम् ।।१०।।
द्वौ पुत्रौ तस्य संजातौ यज्ञभूमौ मनोहरौ ।
एका च दुहिता साध्वी भूम्यन्तरगता शुभा ।। ११ ।।
नारदस्योपदेशेन यज्ञभूमिं ततो नृपः ।
हलेन दारयामास यज्ञबाटावधिस्वयम् ।। १२ ।।
तद्भूमिजातसीतायां शुभां कन्यां समुत्थिताम् ।
लेभे मुदा युक्तः सर्वलक्षणसंयुताम् ।।१३।।
तस्यां तु जातमात्रायां पृथिव्यन्तर्हिता स्वयम् ।
जगाद वचनं चेदं गौतमं नारदं नृपम् ।।१४।।
।। पृथिव्युवाच ।।
एषा सुता मया दत्ता तव राजन् मनोहरा ।
एनां गृहाण सुभगां कुलद्वयशुभावहाम् ।। १५ ।।
अनया मे महाभारस्तत्त्वतो हेतुभूतया ।
क्षयं यास्यति भारार्ति मोचयिष्यामि दारुणाम् ।। १६ ।।
रावणाद्या महावीराः कुम्भकर्णादयोऽपरे ।
नाशं यास्यन्ति दुर्धर्षाः कृतेऽस्या राक्षसाः परे ।। १७ ।।
त्वञ्च मोदं दुराधर्षं दुहितृकृतिजं नृपः ।
अवाप्स्यसि सुराणां च पितॄणामृणशोधनम् ।। १८ ।।
किन्त्वेक: समय: कार्यस्त्वया मम नरोत्तम ।
तमहं ते प्रवक्ष्यामि पुरो नारदगौतमौ ।।१९।।
निहते रावणे वीरे भारार्ति रहिता सुखम् ।
सुपुत्रं जनयिष्यामि यज्ञभूमावहं तव ।।२०।।
तं पालयिता भवान् नृपतिसत्तम ।
यावद्व्यतीतबाल्यः सन् भविता तनयो मम ।। २१ ।।
व्यतीतबाल्यं तमहं पालयिष्ये स्वयं नृप ।
तस्य स्यान्मानुषो भावो यथा त्वं तत्करिष्यसि ।। २२ ।।
।। मार्कण्डेय उवाच ।।
इति पृथिव्या वचनं श्रुत्वा राजा तदा मुदा ।
प्रणम्य पृथिवीं प्राह साम्रा स जनकाह्वयः ।। २३ ।।
।। राजोवाच ।।
यत् त्वं ब्रूषे जगद्धात्रि करिष्ये तद्वचस्तव ।
ममापीष्टं प्रयच्छस्व प्रसीद परमेश्वरि ।।२४।।
देवि प्रत्यक्षतो रूपं द्रष्टुमिच्छाम्यहं तव ।
शक्तिस्त्वं लोकजननी त्वां नमामि प्रसीद मे ॥२५॥
इति तस्य वचः श्रुत्वा जनकस्य तदा क्षितिः ।
मुनीनां सन्निधौ रूपं दर्शयामास भूभृते ।। २६ ।।
नीलोत्पलदलश्यामामक्षमालाब्जधारिणीम् ।
बाहुयुग्मेन शुभ्रेण मृणालायतशोभिना ।
सुन्दरीं लोकधात्रीं तां दृष्ट्वा शश्वत् नृपोऽनमत् ।। २७ ।।
ततः सा पृथिवी देवी सीतां जातां नृपात्मजाम् ।
करेण शश्वत् संस्पृश्य वचनं चेदमब्रवीत् ।। २८ ।।
।। पृथिव्युवाच ।।
इयं ते मानुषं भावमवाप्स्यति जगत्प्रसूः ।
तव पुत्री नृपश्रेष्ठ समयं प्रतिपालय ।। २९ ।।
।। मार्कण्डेय उवाच ।।
इत्युक्त्वा पृथिवी देवी राजानं जनकाह्वयम् ।
सम्भाष्य नारदादींस्तांस्तत्रैवान्तरधीयत ।। ३० ।।
जनकोऽपि सुतां लब्धा सर्वलक्षणशालिनीम् ।
सुतद्वयं तथा प्राप्य मुदितः स्वगृहं ययौ ।। ३१ ।।
ततः काले तु सम्प्राप्ते रावणे राक्षसे हते ।
मानुषेण स्वरूपेण विष्णुना प्रभविष्णुना ।। ३२ ।।
गत्वा विदेहराजस्य यज्ञभूमिं तदा क्षितिः ।
सुषुवे तनयं वीरं यत्र सीता पुराभवत् ।।३३।।
जाते पुत्रे तदा देवी जगद्धात्री जगत्प्रभुम् ।
सस्मार समये विष्णुं स्मरन्ती समयं पुरा ।। ३४ ।।
स्मृतमात्रस्तदा देवः समयं प्रत्यपालयत् ।
क्षितेर्यत्र सुतो जातस्तत्र प्रादुर्बभूव ह ।। ३५ ।।
प्रादुर्भूतं तदा देवी प्रणम्य परमेश्वरम् ।
संस्तूय सुनृतं शश्वदिदमाह जगत्प्रभुम् ।। ३६ ।।
।। पृथिव्युवाच ।।
एष ते तनयो जातः सुकुमारो महाप्रभः ।
संस्मरन् समयं पूर्वं त्वमेनं प्रतिपालय ।। ३७।।
।। श्रीभगवानुवाच ।।
अयं ते तनयो देवी महाबलपराक्रमः ।
भविता मानुषं भावं तन्वानः सुचिरं बुधः ॥३८॥
यावन्मानुषभावं ते तनयो भावयिष्यति ।
तावत् कल्याणभाग्भूत्वा चिरं राज्यं करिष्यति ।। ३९ ।।
त्यक्तमानुषभावस्तु यदा चायं विचेष्टते ।
तदा तु नास्य सुचिरं जीवितं सम्भविष्यति ।। ४० ।।
सम्प्राप्ते षोडशे वर्षे राज्यमासादयिष्यति ।
धनरत्नगजैश्वर्ययुक्तोऽयं रथसञ्चयैः ।
आसाद्य महतीं नित्यं श्रियं भोक्ष्यति वीर्यवान् ।। ४१ ।।
यस्मिन् यस्मिन् युगे भावो यो वा भवति वै नृणाम् ।
तं तं भावं तथैवायं करिष्यति तथा कुरु ।।४२।।
एतस्य निभृतं राज्यं यत् प्राग्ज्योतिषसंज्ञकम् ।
पुरं तत्र चिरं शास्ता राज्यमेष सुतस्तव ।। ४३ ।।
इत्युक्त्वा पृथिवीं विष्णुः समाभाष्य जगत्पतिः ।
दृश्यमानस्तया क्षिप्रं तत्रैवान्तर्दधे प्रभुः ।। ४४ ।।
प्रसूय पृथिवी पुत्रं मध्यरात्रे महाद्युतिम् ।
जनकं ज्ञापयामास रहस्यं पूर्वमीरितम् ।।४५।।
विदेहराजो ज्ञात्वैव पृथिवीजनितं सुतम् ।
तत्रैव यज्ञवाटं स रात्रावागात् कृतक्रियः ।। ४६ ।।
गच्छन्तं यज्ञवाटं तं दृष्ट्वा सर्वंसहा तदा ।
नोक्त्वा किञ्चन तं शश्वदन्तर्धानं गता नृपम् ।। ४७ ।।
अथ गत्वा तदा तत्र विदेहाधिपतिः सुतम् ।
धरायां ददृशे कान्त्या चन्द्रार्कज्वलनोपमम् ।।४८।।
रुदन्तं बहुश: स्निग्धं चलद्हस्तपदद्वयम् ।
वपुष्मन्तं श्रियादीप्तं कार्तिकेयमिवापरम् ।। ४९ ।।
उद्गच्छन् स रुदन् बालो यज्ञभूमिं व्यतीत्य च ।
कियद्दूरं जगामाशूत्तानशायी महाद्युतिः ।। ५० ।।
मनुष्यस्य शिरस्तत्र मृतस्य प्राप्य बालकः ।
स्वशिरस्तत्र विन्यस्य रुदंस्तस्थौ क्षणं तदा ।। ५१ ।।
ततो विदेहराजोऽपि मार्गमाणः क्षितेः सुतम् ।
व्यतीत्य यज्ञभूमिं तमाससादाञ्जसा बहिः ।।५२।।
आसाद्य बालकं दीप्तं प्रदीप्तमिव पावकम् ।
कान्त्या चन्द्रमसस्तुल्यं तेजोभिर्भास्करोपमम् ।। ५३ ।।
शरमध्यगतं पूर्वं पावकिं पावको यथा ।
स्वयं जग्राह तं राजा पृथिव्याः समयं स्मरन् ।। ५४ ।।
उद्वृह्णन् तच्छिरोदेशे ददृशे मानुषं शिरः ।
शशंस चाचिरं शीर्षं मानुषं गौतमाय सः ।। ५५ ।।
अथ बालं समादाय प्रविश्यान्तः पुरं स्वकम् ।
महिष्यै कथयामास प्राप्तं पुत्रं गुहोपमम् ।। ५६।।
सा तं दृष्ट्वा विशालाक्षं सिंहस्कन्धं महाभुजम् ।
विस्तीर्णहृदयं कान्तं नीलोत्पलदलच्छविम् ।
मुमोद पालनीयोऽयं मयेति न्यवदत् नृपम् ।। ५७ ।।
तां राजापि ततः प्राह पुत्रोऽयं मम सुन्दरि ।
यज्ञभूमौ समुत्पन्नः स्वच्छन्दं पाल्यतामयम् ।।५८।।
यत् पृथिव्या रहः प्रोक्तं न तद्देव्यै न्यवेदयत् ।
सत्यसन्धो नृपश्रेष्ठः प्रियाया अपि भाषितम् ।। ५९ ।।
मम सुतसुतवंशान् पालयित्री घरेय-
मिति नरपतिवर्यो मोदवांस्तद्दिने च ।
सुरतनयसमानं पुत्रमासाद्य देवी ।
जितरिपुरतिधीमान् स्यादयञ्चेत्यमोदत् ।। ६० ।।
।। इति श्रीकालिकापुराणे नरकजन्म-कथने सप्तत्रिंशोऽध्यायः ॥ ३७॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand