कालिकापुराणम्/अध्यायः ३८
कालिकापुराणम् अष्टत्रिंशोऽध्यायः नरकासुर अभिषेकवर्णनम्
अथ श्रीकालिका पुराण अध्याय ३८
।। मार्कण्डेय उवाच ।।
अथ तस्य नृपश्रेष्ठो गौतमेन महर्षिणा ।
संस्कारं कारयामास विधिना मानुषेण तु ।।१।।
नरस्य शीर्षे स्वशिरो निधाय स्थितवान् यतः ।
तस्मात्तस्य मुनिश्रेष्ठो नरकं नाम वै व्यधात् ॥२॥
अपरान् बालसंस्कारान् क्षात्रेण विधिना मुनिः ।
केशान्तावधि संचक्रे ऋग्यजुः साममन्त्रकैः ।।३।।
ववृधे तस्य सदने नरको नाम भूसुतः ।
दिनं दिनं धृतान्यश्रीः शरदीव निशाकरः ॥४॥
स राजा तं सदा भावैर्मानुषैयजयन् स्वयम् ।
गौतमस्य सुतेनाथ शतानन्देन धीमता ।
ग्राहयामास तन्नित्यं क्षात्रं भावं च मानुषम् ।।५।।
तथैव पृथिवी देवी धात्रीवेषेण तं सुतम् ।
नियतं ग्राहयामास मानुषं चरितं शुभम् ॥६॥
यदैव पुत्र उत्पन्नस्तदैव पृथिवीस्वयम् ।
मायामानुषरूपेण नृपान्तःपुरमाविशत् ।।७।।
प्रविश्य तत्र सा देवी नृपस्यानुमतेऽभवत् ।
धात्री तस्य द्विजश्रेष्ठाः कात्यायन्यानयस्थया ॥८॥
यावत् षोडशवर्षाणि तस्य बालस्य भावीनि ।
तावत् स्वयं पालयन्ती ग्राहयामास संनयम् ।।९।।
स वर्धमानोऽनुदिनं नरकः पृथिवीसुतः ।
अत्यक्रामत् सुतान् सर्वान् जनकस्य महात्मनः ।। १० ।।
शरीरेणाथ वीर्येण रूपेण बलवत्तया ।
धनुषा गदया वीरो ह्यत्यक्रामन् नृपात्मजान् ।।११।।
स शास्त्रवादकुशलो धनुर्वेदे च कोविदः ।
वर्षैः षोडशभिर्भूतो वीरैरन्यैर्दुरासदः ।। १२ ।।
विदेहाधिपतिर्दृष्ट्वा महाबलपराक्रमम् ।
न्यून्यान् स्वपुत्रांश्च नातिहृष्टमनाभवत् ।। १३ ।।
निरस्यासौ च मत्पुत्रान् मम राज्यं ग्रहीष्यति ।
काले प्राप्ते महावीरो मतिस्तस्याभवत् पुरा ।। १४ ।।
अन्तःपुरे यदा पुत्रान् सर्वान् रंमयते नृपः ।
तदा तु नरकं वीक्ष्य हर्षं प्राप्नोति नाधिकम् ।।१५।।
तस्य बुधे देवी नृपस्याथ वसुन्धरा ।
महिषी विस्मयं चक्रे तस्मिन् भावे तु भूभृतः ।। १६ ।।
अथैकदा महादेवी जनकस्य महात्मनः ।
पप्रच्छ नृपतिश्रेष्ठं विदेहाधिपतिं पतिम् ।। १७ ।।
।। महादेव्युवाच ।।
नाथ पृच्छामि ते किञ्चिद्रहस्यं यदि नो तव ।
तदा मां तद्वदस्व त्वं कृपा चेद्विद्यते मयि ।। १८ ।।
यदैव तनयाः सर्वे विहरन्ति पुरस्तव ।
तदैव नरकं दृष्ट्वा विशीर्ण इव लक्ष्यसे ।। १९ ।।
तन्मे रात्रिन्दिवं वाढं विस्मयः प्रतिवर्धते ।
संशयश्च भयं चैव न जहाति च मां सदा ।। २० ।।
रूपवान् वीर्यवानेष नये च विनये तथा ।
कुशल: प्रतिबुद्धश्च पुत्रस्तव महाबलः ।। २१ ।
स सभाजयते कस्मात् पुत्रमन्यैर्दुरासदम् ।
तदहं ज्ञातुमिच्छामि यदि तथ्यं वदस्व मे ।। २२ ।।
।। मार्कण्डेय उवाच ॥
इति तस्य वचः श्रुत्वा प्रियायाः पृथिवीपतिः।
तूष्णीं भूत्वा क्षणं देवीमिदं वचनमब्रवीत् ।। २३ ।।
।। राजोवाच ।।
कथयिष्ये प्रिये तत्त्वं यत् पृष्टोऽहं त्वयाधुना ।
मासत्रये व्यतीते तु समयं प्रतिपालय ।। २४ ।।
निगूढः कश्चिदत्रास्ति देवस्य समयो मम ।
तेनाधुना न किञ्चित्ते कथयिष्यामि तद्रहः ।। २५ ।।
।। मार्कण्डेय उवाच ।।
राज्ञो ह्ययं सभार्यस्य संवादोऽ भवदन्तिके ।
मानुषी पृथिवी धात्री तं शुश्राव यदा तदा ।। २६ ।।
श्रुत्वा तयोस्तु संवादं महिषीभूपयोः क्षितिः ।
मासत्रयेण समयं दत्तं देव्यै धराभृता ।। २७ ।।
तत्काले विमनस्कं च भूपं नरकसंज्ञया ।
त्रिभिर्मासैर्व्यतीतैः स्यादस्य षोडशवत्सरः ॥२८॥
ततो नृपो महिष्यास्तु कथयिष्यति तद्रहः ।
ततो मम रहस्यं तु विदितं सम्भविष्यति ।। २९ ।।
चिन्तयित्वेति सा देवी जगद्धात्री सुतं प्रति ।
निश्चित्येदं तदा कृत्यं प्राप्तकालमचेष्टत ।। ३० ।।
ततो रहसि भूपं तं समासाद्य सगौतमम् ।
इदमाह जगद्धात्री स्वपुत्रार्थे यशस्विनी ।। ३१ ।।
।। पृथिव्युवाच ।।
यो मया समयो दत्तः पालितः स त्वयानघ ।
पुत्रश्च पालितो मेऽयं नरको विनयैर्युतः ।। ३२ ।।
सम्प्राप्तयौवनः पुत्रो योजितश्च त्वया नयैः ।
तव प्रसादात् पुत्रो मे सुखी वृद्धो गृहे तव ।।३३।।
तमहं पूर्वसमयान्नयिष्यामि स्वमात्मजम् ।
अनुजानीहि भयं नरकस्य गतिं प्रति ।। ३४ ।।
रक्षितव्यश्च भवता समयः सपुरोधसा ।
छन्नमेव नयिष्यामि भूपते मा कृथा व्यथाम् ।। ३५ ।।
।। मार्कण्डेय उवाच ।।
इत्युक्त्वा जगतां धात्री विदेहाधिपतिं नृपम् ।
तत्रैव पश्यता तेषामन्तर्धानमुपागमत् ।। ३६ ।।
नृपोऽपि तस्यास्तद्वाक्यमगीकृत्य क्षितिं प्रति ।
तस्याः प्रत्यक्षतः स्थानं जगाम सपुरोहितः ।। ३७।।
अथैकदा धरा देवी मायामानुषरूपिणी ।
उपांशु नरकं प्राह धात्री तस्य महात्मनः ॥३८॥
त्वया समं महाबाहो गङ्गां यातुं मनो मम ।
यदि त्वं यासि यास्यामि रथेनाद्यैव पुत्रक ।। ३९ ।।
।। नरक उवाच ।।
न पितुर्वचनं यास्ये विना मातस्त्वया समम् ।
अनुज्ञाप्य रथेनाहं यास्ये गङ्गां त्वया समम् ॥४०॥
।। धात्र्युवाच ।।
न ते पितायं जनको यः सर्वजगतां प्रभुः ।
स ते पिता तं गङ्गायां पश्य गत्वा मया सह ।।४१।।
अयं पिता पालकस्ते न राज्यं सम्प्रदास्यति ।
यस्ते वर्धयिता तात तमासादय पुत्रक ।।४२।।
अत्र यद्मद्रहस्यं तद् गङ्गायामेव पुत्रक ।
कथयिष्याम्यहं सर्वं रहोभङ्गस्ततोऽन्यथा ।। ४३ ।।
।। मार्कण्डेय उवाच ।।
जातसम्प्रत्ययो धात्र्या वचसा नरकस्तथा ।
विहाय यानं छन्देन पद्भ्यां गङ्गां ययौ तदा ।। ४४ ।।
अथ गङ्गां समासाद्य संस्नाप्य विधिवत् सुतम् ।
आत्मानं दर्शयामास पृथिवी स्वसुताय वै ।। ४५ ।।
मायामानुषमूर्तिं तां विहाय जगतां प्रसूः ।
नीलोत्पलदलश्यामं सर्वलक्षणसंयुतम् ।।४६।।
सर्वाङ्गसुन्दरं चारु नानालङ्कारभूषितम् ।
पुत्राय दर्शयामास नरकाय वसुन्धरा ।। ४७ ।।
कथामेताञ्च पूर्वस्मिन्नुद्भूतां पृथिवी तदा ।
कथयामास पुत्राय प्रतीतिर्जायते यथा ।।४८ ।
।। पृथिव्युवाच ।।
मम गर्भे यथा पुत्र वर्धसे त्वं दिने दिने ।
ब्रह्मादयस्तदा देवा आलोक्य स्वयमेव ते ।। ४९ ।।
मलिनीक्षितिसंजातः पुत्रो विष्णोर्महात्मनः ।
आसुरं भावमास्थाय सर्वानस्मान् हनिष्यति ।। ५० ।।
इति चिन्तापरा देवाः कुमन्त्रं चक्रिरे तदा ।
अयं नोत्पद्यतां गर्भार्भे तिष्ठत्वयं सदा ।।५१।।
ततो मम भवान् गर्भे सुबहूनि युगान्यथ ।
अवसदुःखवान् पुत्र देवानां च कुमन्त्रतः ।। ५२ ।।
मृतकल्पाभवमहं भवतो धारणात् सुत ।
ततोऽहं शरणं याता भगवन्तं सनातनम् ।।५३ ।।
नारायणस्य वाक्यात् तु भवानुत्पन्नवांस्ततः ।
इति सत्यं मम वचः पुत्र जानीहि निश्चितम् ।।५४।।
।। मार्कण्डेय उवाच ॥
अथ यावन्नपुत्रस्य विस्मयः समपद्यत ।
तावदेव स्वयं देवी प्रोचे पुत्रमिदं वचः ॥५५ ।।
यथा विदेहराजस्य यज्ञभूमावसूयत ।
विदेहराजेन समं यादृश: समयोऽभवत् ।। ५६ ।।
यथा मानुषरूपेण धात्री सा समपद्यत ।
तत् सर्व कथयामास नरकाय महात्मने ।। ५७ ।।
अथ तां पृथिवीं प्राह नरकः पुनरेव हि ।
पृथिव्या: वचनं श्रुत्वा स्वल्पसंशयसंयुतः ।।५८।।
।। नरक उवाच ।।
यद्येवं मे पिताविष्णुर्माता त्वं पृथिवी शुभे ।
आगच्छतु जगन्नाथो ममैवाभ्युपपत्तये ।। ५९ ।।
स एव सर्वलोकेशो यदि मां भाषतेऽच्युतः ।
पिताहं ते त्वियं माता श्रद्धधे तदहं शुभे ।। ६० ।।
त्वया मानुषरूपेण धात्र्याहं प्रतिपालितः ।
तद्रूपं द्रष्टुमिच्छामि यदि ते रूपमीदृशम् ।।६१।।
।। पृथिव्युवाच ।।
अहं ते जननी तात मया ज्ञातोऽसि पुत्रक ।
पृथिव्यहं जगद्धात्री मद्रूपं मृन्मयन्त्विदम् ।।६२।।
पिता तव महाबाहो प्रभुर्नारायणोऽव्ययः ।
अच्युतो जगतां धाता महात्मा शूकरात्मधृक् ।। ६३ ।।
तेनाहितस्त्वं मदर्भे सुचिरं त्वं पुरावसः ।
सम्प्राप्ते समये जातः पालितश्चेह भूभृता ।।६४।।
।। मार्कण्डेय उवाच ।।
इति तस्य वचः श्रुत्वा हर्षशोकाकुलस्तदा ।
नरकः पृथिवीदेवीमिदमाह धनुर्धरः ।। ६५ ।।
।। नरक उवाच ।।
न माता विदिता पूर्व माताहमिति भाससे ।
विष्णुः पितेति च वचो न पिता विदितो मम ।। ६६ ।।
जानामि पितरं चाहं विदेहाधिपतिं नृपम् ।
तस्य भार्य्यं सुमत्याख्यामहं जानामि मातरम् ।।६७।।
भ्रातरस्तत्सुताः सर्वे सीता मे भगिनी शुभा ।
सुमतिर्मम मातेति लोको जानाति सन्ततम् ।।६८।।
कात्यायनी च धात्री मे याधुनैव कृता त्वया ।। ६९ ।।
एतत् सर्वं त्वया मिथ्या शंशितं मम साम्प्रतम् ।
यथा तवाहं तनयः सत्यमाख्याहि तन्मम ।।७० ।।
।। मार्कण्डेय उवाच ।।
पुत्रस्य वचनं चेति श्रुत्वा सर्वंसहा तदा ।
सर्वं तत् पूर्ववृत्तान्तं तनयाय न्यवेदयत् ।। ७१ ।।
यथा मलिन्या सम्भोगो वराहस्याभवत् पुरा ।
यथा गर्भे धृतो देवैर्येन वा कारणेन सः ।।७२।।
यथा च गर्भदुःखार्ता माधवं शरणं गता ।
यथा तेन प्रदत्तश्च समयो जनकं प्रति ।। ७३ ।।
।। ऋषयः ऊचुः ।।
किमर्थं समयो दत्तो विष्णुना प्रभुविष्णुना ।
निहते रावणे वीरे रामेण सुमहात्मना ।।७४ ।।
भविष्यति सुतस्ते वै तत्र नः संशयो महान् ।
एतान् त्वं संशयान् छिन्धि गुरो शास्तासि नः सदा ।। ७५ ।।
।। मार्कण्डेय उवाच ।।
भारार्ता रावणादीनां पृथिवी मांसभोगिनाम् ।
अधोगता योजनानि पञ्च वै द्विजसत्तमाः ।।७६ ।।
अयं वराहवीर्येण जातो गर्भे क्षितेः पुनः ।
असावपि महाराजो दशग्रीवो यथाभवत् ।।७७ ।।
अधो यास्यति भारार्ता सातीव पृथिवीत्विति ।
समयो दत्तवान् विष्णू रावणे निहते सति ।
धरायै भारविहतिव्याजेन द्विजसत्तमाः ।।७८ ।।
त्वत्पूर्वरूपं दृष्ट्वा वचनाच्च जगद्गुरोः ।
जातश्श्रद्धो महाभागे स्थास्यामि समये तव ।।७९।
पुत्रस्य वचनं श्रुत्वा पृथिवी प्रथमं तदा ।
मायामानुषरूपं तत् प्रतिजग्राह तत्पुरः ॥८०॥
यथा कात्यायनीरूपं येन रूपेण पालितः ।
नरकः सा तु तद्गृह्य तत्याज पृथिवीतनुम् ।। ८१ ।।
अथ दृष्टैव नरको धात्रीं कात्यायनीं तदा ।
पप्रच्छ पूर्ववृत्तान्तं यद्वृत्तं नृपमन्दिरे॥८२॥
सा तथा कथयामास यथा सम्प्रति पालितः ।
यद्वृत्तं पूर्वतो गेहे नृपस्य जनकस्य तु ॥ ८३ ॥
जातसम्प्रत्ययस्तत्र नरक: समपद्यत ।
पृथिवी च पुनर्देवीरूपं स्वं जगृहे तदा ॥८४ ॥
अथ सस्मार पृथिवी जगन्नाथं हरिं प्रभुम् ।
समये पूर्वविहि प्रणभ्य शिरसा मुहुः ॥८५।।
स्मृतमात्रस्तदा क्षित्या माधवो गरुड़ध्वजः ।
प्रसन्नो जगतां नाथ: प्रत्यक्षत्वं गतस्तदा ।। ८६ ।।
तं दृष्ट्वा पृथिवी देवी देवं गरुड़वाहनम् ।
नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम् ॥८७ ।।
पीताम्बरं जगन्नाथं श्रीवत्सोरस्कमव्ययम् ।
प्रणनाम महाभक्त्या पस्पर्श शिरसा महीम् ॥८८ ।।
परमेश जगन्नाथ जगत् कारणकारण ।
प्रसीदेति वचश्चापि तदा प्रोचे जगत्प्रसूः ।।८९।।
नरकस्तु हरिं दृष्ट्वा निमील्य नयनद्वयम् ।
तत्तेजसा चाभिभूतस्तदा भूमावुपाविशत् ।। ९० ।।
उपविष्टे तदा देवी तनये नरकाह्वये ।
प्रसादयामास तदा पुत्रार्थे वरवर्णिनी । । ९१ ।।
प्रसाद्यमानो धरया हरिर्नारायणोऽव्ययः ।
शङ्खाग्रेण तदा पुत्रं पस्पर्श नरकाह्वयम् ।। ९२ ।।
स्पृष्टमात्रोऽथ हरिणा नरकोऽभूत् सुदर्शनः ।
दृष्टश्चोत्साहवांश्चैव बलवान् समपद्यत ।।९३।।
तत उत्थाय नरको हरिं नारायणं प्रभुम् ।
भक्त्या प्रणम्य गोविन्दं साष्टाङ्गं च मुहुर्मुहुः ।। ९४ ।।
ननाम पृथिवीं वीरो जातसम्प्रत्ययस्तदा ।
प्रणम्य च महाभागां भक्त्या परमया युतः ।
प्राञ्जलिः पुरतस्तस्थौ नोक्त्वा किञ्चन वै भिया ।। ९५ ।।
ततस्तदर्थे पृथिवी माधवं समयाचत ।
प्रसीद देवदेवेश समयं प्रतिपालय ।। ९६ ।।
त्वयाहं तनयो दत्तो मम सर्वं जगत्पते ।
एतदर्थे प्रतिज्ञातं यद्दत्तं प्रतिपालय ।। ९७ ।।
।। भगवानुवाच ।।
भवती यत्सुपुत्रार्थे मामयाचत पुरा मया ।
तत् सर्वं तव दत्तं वै राज्यं च त्वत्सुते ।। ९८ ।।
इत्युक्त्वा भगवान् विष्णुरादाय नरकाह्वयम् ।
सार्द्धं पृथिव्या गङ्गायां ममज्ज जगतां प्रभुः ।। ९९ ।।
निमज्य क्षणमात्रेण प्राग्ज्योतिषपुरं गतः ।
मध्यगं कामरूपस्य कामाख्या यत्र नायिका ।। १०० ।।
स च देशः स्वराज्यार्थे पूर्वं गुप्तश्च शम्भुना ।
किरातैर्बलिभिः क्रूरैरज्ञैरपि च वासितः ।। १०१ ।।
रुक्मस्तम्भनिभांस्तत्र किरातान् ज्ञानवर्जितान् ।
अनर्थमुण्डितान् मद्यमांसाशनैकतत्परान् ।
ददर्श विष्णुः कुपितान् विष्णुं दृष्ट्वा द्विजर्षभाः ।। १०२ ।।
तेषामधिपतिस्तत्र घटको नाम वीर्यवान् ।
रुक्मस्तम्भनिभस्तत्रः प्रदीप्त इव पावकः ।। १०३ ।।
स क्रोधाच्चतुरङ्गेन बलेन महता युतः ।
आससाद जगन्नाथं नरकं च महाबलम् ।। १०४ ।।
आसाद्य शरवर्षेण ववर्ष प्रभुमव्ययम् ।
किरातैः सहितो राजा घटकाख्यः किरातराट् ।। १०५ ।।
माधवोपि तदा पुत्रं नरकं वीर्यवत्तरम् ।
प्रेसयामास युद्धाय किरातनृपतेस्तदा ।। १०६ ।।
नरको धनुरादाय सह तैर्बलवत्तरैः ।
युयुधे सुचिरं तत्र शस्त्रास्त्रैर्बहुधेरितैः ।। १०७ ।।
ततोऽसौ भल्लमादाय योजयित्वा धनुर्गुणैः ।
शिरः किरातराजस्य चिच्छेद नरको बली ।। १०८ ।।
मुख्यान् मुख्यान् किरातांश्च बहून् सेनाधिपांस्तथा ।
जघान कुपितो वीरः केशरीव मतङ्गजान् ।। १०९ ।।
हतेऽथ नृपतौ केचित् पलायनपरायणाः ।
किराताः केचन पुनर्नरकं शरणं गताः ।। ११० ।।
निहत्य युध्यमानांस्तु संरक्ष्य शरणं गतान् ।
नरकः पितरं गत्वा प्रणम्याथ न्यवेदयत् ।। १११ ।।
।। नरक उवाच ।।
हतस्तात किरातानामधिपो घटको मया ।
सेनाधिपाश्च तस्यान्ये किमन्यत् करवाण्यहम् ।। ११२ ।।
।। भगवानुवाच ।
किरातान् जहि यावत्त्वं देवीं दिक्करवासिनीम् ।
पलायमानान् विद्राव्य पालय शरणं गतान् ।। ११३ ।।
।। मार्कण्डेय उवाच ॥
ततः स नरको वीरः समारुह्य सितं गजम् ।
चतुर्दन्तं महाकायं किराताधिपवाहनम् ।। ११४ ।।
ऐरावतसमं वीर्ये वेगेन गरुडोपमम् ।
किरातान् द्रावयामास यावद् दिक्करवासिनीम् ।
पितरं पुनरागत्य वचनं चेदमब्रवीत् ।। ११५ ।।
।। नरक उवाच ।।
विद्राविताः किरातास्ते सागरान्तं समाश्रिताः ।
हतश्च घटकाख्यो हि किराताधिपतिर्महान् ॥ ११६ ॥
वेगिनं गजमारुह्य ऐरावतसमं गुणैः ।
यदन्यत् करणीयं मे तदाज्ञापय सम्प्रति ।। ११७ ।।
।। भगवानुवाच ।
करतोया सदागङ्गा पूर्व भागावधिश्रया ।
यावल्ललितकान्तास्ति तावदेव पुरं तव ।। ११८ ॥
अत्र देवी महाभागा योगनिद्रा जगत्प्रसूः ।
कामाख्यारूपमास्थाय सदा तिष्ठति शोभना । । ११९ ।।
अत्रास्ति नदराजोऽयं लौहित्यो ब्रह्मणः सुतः ।
अत्रैव दशदिक्पालाः स्वे स्वे पीठे व्यवस्थिताः ।। १२० ।।
अत्र स्वयं महादेवो ब्रह्मा चाहं व्यवस्थितः ।
चन्द्रः सूर्यश्च सततं वसतोऽत्र च पुत्रक ।।१२१ ।।
सर्वे क्रीडार्थमायाता रहस्यं देशमुत्तमम् ।
अत्र श्रीर्वसते भद्रा भोग्यमन्त्र तथा बहु ।। १२२ ।।
अस्य मध्ये स्थितो ब्रह्मा प्राङ्नक्षत्रं ससर्ज ह ।
ततः प्राग्ज्योतिषाख्येयं पुरी शक्रपुरीसमा ।। १२३ ।।
अत्र त्वं वस भद्रं ते ह्यभिषिक्तो मया स्वयम् ।
कृतदार: सहामात्यै राजा भूत्वा महाबलः ।। १२४ ।।
।। मार्कण्डेय उवाच ।।
एवमुक्त्वा स्वयं विष्णुः शम्भोरनुमते तदा ।
सर्वान् किरातान् पूर्वस्यां सागरान्ते न्यवेशयत् ।। १२५ ।।
पूर्वं ललितकान्तायाः समादायावधिं पुनः ।
यावत् सागरपर्यन्तं किरातास्तावदावसन् ।। १२६ ।।
पश्चाल्ललितकान्तायाः देशं कृत्वावधिं पुनः ।
करतोया नदीं यावत् कमाख्यानिलयं तु तत् ।। १२७ ।।
तस्मात् किरातानुत्सार्यवेदशास्त्रातिगान् बहून् ।
द्विजातीन् वासयामास तत्र वर्णान् सनातनान् ।। १२८ ।।
वेदाध्ययनदानानि सततं वर्तते यथा ।
तथा चकार भगवान् मुनिभिर्वासयन् विभुः ।। १२९ ।।
वेदवादरताः सर्वे दानधर्मपरायणाः ।
नचिरादभवद्देशः कामरूपाह्वयस्तदा ।। १३० ।।
ततो विदर्भराजस्य पुत्रीं मायाह्वयां हरिः ।
पुत्रार्थे वरयामास नरकस्य समां गुणैः ।। १३१।।
तामुद्वाह्य हृषीकेशस्तस्मिन् पुरवरे स्वयम् ।
तया समं स्वतनयं राजत्वेनाभ्यषेचयत् ।। १३२ ।।
सुगुप्तां च पुरीं चक्रे गिरिदुर्गेण माधवः ।
जलदुर्गं सर्वतो भद्रं देवैरपि दुरासदम् ।। १३३ ।।
ततः किरातराजस्य चतुर्दन्ताः सुदन्तिनः ।
पञ्चविंशतिसाहस्रा महामात्रकुथैर्युताः ।। १३४।।
यानि रत्नान्यनेकानि सैन्यानि विविधानि च ।
अश्वाश्चाभरणाचैव तत्सर्वं नरकोऽग्रहीत् ।। १३५ ।।
यद्यत् सुभूषणं राज्ञो ध्वजाश्चाभरणानि च ।
तानि तानि स्वयं विष्णुस्तनयस्य ददौ तदा ।। १३६ ।।
रथं च प्रददौ तस्मै त्रिषु लोकेषु दुर्लभम् ।
लोहाष्टचक्रसञ्छन्नमर्धयोजनविस्तृतम् ।। १३७।।
युक्तमश्वसहस्रैश्च तथाष्टाभिर्मनोजवैः ।
रत्नकाञ्चनचित्राढ्यं वेदिका भागविस्तरम् ।। १३८ ।।
वज्रध्वजेन महता काञ्चनेन विराजितम् ।
हेमदण्डपताकाढ्यं वैदूर्यमणिकूवरम् ।। १३९ ।।
सिंहव्याघ्रसमुद्भूतैश्चर्मभिश्छादितं सदा ।
लोहजालैश्च सञ्छन्नं किंकिणीजालमालिनम् ।
सर्वप्रहरणैर्युक्तं बहुमायासमन्वितम् ।। १४० ।।
शक्तिं च प्रददौ तस्मै सर्वशत्रुविशातनीम् ।
ज्वालामालाभिदीप्ताङ्गीं रिपुकक्षाग्निरूपिणीम् ।। १४१ ।।
इमं च समयं प्रोचे नरकाय महात्मने ।
नरकस्य हितायेशो वसुधायाः समक्षतः ।। १४२ ।।
॥ भगवानुवाच ।।
इमां शक्तिं न हि भवान् प्राणस्य संशयं विना ।
प्रयोक्ष्यति कदाचित्तु मानुषेषु विशेषतः ।। १४३ ॥
एषा भार्या च वैदर्भी भवतः सदृशी गुणैः ।
भवतो जीवनं यावत्तावत् स्थास्यति शोभना । । १४४ ।।
त्वं तु प्रजायै त्रेतायां यत्नवान् वै भविष्यसि ।
द्वापरान्ते तु सम्प्राप्ते प्रजा तत्र भविष्यति ।। १४५ ।।
विरोधो मुनिभिः सार्धं ब्राह्मणैरपि पुत्रक ।
न कदाचित्त्वया कार्यश्चिरञ्जीवितुमिच्छता ।। १४६ ।।
न राजभिर्न देवैश्च विरोधो युज्यते तव ।
महादुर्गस्य वै मध्ये वसतो ह्यपराजिते ।।१४७।।
दिव्ययोषिद्गणैः सार्धं वसमानोऽतिभोगवान् ।
स्वपर्वते कामरूपे चिरं त्वं तिष्ठ पुत्रक ।। १४८ ।।
महादेवीं महामायां जगन्मातरमम्बिकाम् ।
कामाख्यां त्वं विना पुत्र नान्यदेवं यजिष्यसि ।। १४९ ।।
इतोऽन्यथा त्वं विहरन् गतप्राणो भविष्यसि ।
तस्मान्नरक यत्नेन समयं प्रतिपालय ।। १५० ।।
इत्युक्त्वा भगवान् विष्णुर्नरकं तनयं स्वकम् ।
तमपास्य रहस्येनां पृथिवीं वाक्यमब्रवीत् ।। १५१ ।।
यद् यत् पूर्वं मया प्रोक्तं कर्तव्यं तव सुन्दरि ।
तत् सर्व नरकायाशु भूत्यै समुपदेशय ।। १५२ ।।
यदैनं त्वं स्वयं हन्तुं मां जगद्धात्रि भाषसे ।
तदा तु मानुषः कश्चिन्नरकं निहनिष्यति ।। १५३ ।।
।। पृथिव्युवाच ।।
प्रजार्थमेष यत्नो मे निन्द्यः स्यात् सन्ततिं विना ।
तस्मान्नाथ प्रयत्नान्मे सन्ततिं पालयिष्यसि ।। १५४।।
।। मार्कण्डेय उवाच ।।
एवमस्त्विति तां विष्णुः पृथिवींप्रति पावनः ।
नरकं च समाभाव्य तत्रान्तर्धिमगात् क्षणात् ।। १५५ ।।
गते हरौ निजस्थानं पृथिवी तनयं स्वकम् ।
यत् पूर्वं हरिणा प्रोक्तं तत्र तं व्यनयत् स्वयम् ।। १५६ ।।
नरकोऽपि तदा धीमान् वेदशास्त्रार्थपारगः ।
ब्रह्मण्यनीतिकुशलो वदान्यो दानतत्परः ।। १५७।।
कामाख्यापूजनरतो नीलकूटे महागिरौ ।
महाभोगी महाश्रीमान् हीनबाधश्च शत्रुभिः ।
सुचिरं राज्यमकरोच्छक्रवत्रिदशालये ।। १५८ ।।
ततो विदेहराजोऽपि श्रुत्वैव नरकश्रियम् ।
सपुत्रभार्यः सगणो नरकं द्रष्टुमभ्यगात् ।। १५९ ।।
प्राग्ज्योतिषं पुरं गत्वा कामरूपान्तरस्थितम् ।
ददर्श नरकं राजा शरच्चन्द्रसमं श्रिया ।। १६० ।।
प्राग्ज्योतिषं पुरं मेने स राजा त्वमरावतीम् ।
देवेन्द्रं नरकं मेने सत्परिच्छदभूषणम् ।
ततो महिष्यै तत् सर्वं जनको वाक्यमब्रवीत् ।। १६१ ।।
।। जनक उवाच ।।
एष ते पालितसुतः श्रीमान् नरकसंज्ञकः ।। १६२ ।।
पृथिव्या दयितः पुत्रः संजातो घृष्टिरूपिणा ।
विष्णुना जगदीशेन त्वमेनं पश्य संगतम् ।। १६३ ।।
।। मार्कण्डेय उवाच ।।
इत्युक्त्वा जनको राजा यथा वृत्तं तथा पुरा ।
वृत्तान्तं कथयामास नरको जातवान् यथा ।। १६४ ।।
ततस्तत्र चिरं स्थित्वा प्राग्ज्योतिषपुरे मुदा ।
विदेहाधिपती राजा नरकेण प्रपूजितः ।। १६५ ।।
स्वस्थानं गतवांस्तस्मात् स्वगणैः परिवारितः ।। १६६ ।।
एवं स नरको जातः पृथिव्यास्तनयस्तदा ।
हीनासुरस्वभावः संविजहार चिरं क्षितौ ।। १६७ ।।
॥ इति श्रीकालिकापुराणे नरकाभिषेचनेऽष्टत्रिंशोऽध्यायः ॥ ३८ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand