कालिकापुराणम्/अध्यायः ३९
कालिकापुराणम् एकोनचत्वारिंशोऽध्यायः भौमतपस्यावर्णनम्
अथ श्रीकालिका पुराण अध्याय ३९
।। मार्कण्डेय उवाच ।।
स राजा नरक: श्रीमांश्चिरञ्जीवी महाभुजः ।
मानुषेणैव भावेन चिरं राज्यमथाकरोत् ॥१॥
त्रेतायां च व्यतीतायां द्वापरस्य तु शेषतः ।
अभवच्छोणितपुरे बाणो नाम महासुरः ।।२।।
तस्याग्निदुर्गं नगरं स च शम्भुसखो बली ।
सहस्रबाहुर्दुर्धर्षः प्रियः पुत्रः स वै बले: ।।३।।
नरकेण समं तस्य महामैत्री व्यजायत ।
गमनागमनान्नित्यमन्योन्यानुग्रहैस्तथा ।
तयोरभूद् महाप्रीतिः पवनानलयोर्यथा ॥४॥
स च बाणः समाराध्य महादेवं जगत्प्रभुम् ।
सुरेणाथ भावेन व्यचरच्चाकुतोभयः ।।५।।
तत्संसर्गात् स नरको दृष्ट्वा तस्याद्भुतां कृतिम् ।
तेनैव सह भावेन विहर्तुमुपचक्रमे ।।६।।
न ब्राह्मणान् पूजयति यथा पूर्वं तथा द्विजाः ।
न च यज्ञेषु दानेषु पूर्ववन्मुदितः स च ।। ७ ।।
न तथा विष्णुमभ्येति पृथिवीं वापि नार्च्चति ।
कामाख्यायां तथा भक्तिस्तदा तस्थाय नाभवत् ॥८॥
एतस्मिन्नन्तरे धातुस्तनयो मुनिसत्तमः ।
वसिष्ठो नाम कामाख्यां द्रष्टुं प्राग्ज्योतिषं गतः ॥९॥
तां दुर्गाभ्यन्तरे नीलकूटदेवीं व्यवस्थिताम् ।
द्रष्टुं गन्तुं वसिष्ठस्य न द्वारं नरको ह्यदात् ।। १० ।।
ततो वसिष्ठः कुपितो वचनं परुषं मुनिः ।
जगाद नरकं वीरं गर्हयन्मुनिसत्तमः ।। ११।।
।। वसिष्ठ उवाच ॥
कथं पृथिव्यास्तनयो वराहस्य सुतोऽञ्जसा ।
देवीं द्रष्टुं ब्राह्मणस्य न ददासि तथागतः ।।१२।।
किं ते कुलोचितं कर्म त्वं करोषि धरात्मज ।
देवीं प्राग्ज्योतिषं गत्वा पूजयिष्ये जगन्मयीम् ।। १३ ।।
।। मार्कण्डेय उवाच ।।
ततः स नरको राजा प्राप्तकालः क्षितेः सुतः ।
परुषेणाथ वाक्येन तमाक्षिप्य निरस्तवान् ।
ततो मुनिः स कुपितः शशाप नरकं नृपम् ।। १४ ।।
।। वसिष्ठ उवाच ॥
नचिराद् येन जातोऽसि तेन मानुषरूपिणा ।
मरणं भविता पाप वराहकुंलपांसन ।। १५ ।।
मृते त्वयि महादेवीं कामाख्यां जगतां प्रभुम् ।
पूजयिष्याम्यहं पाप तिष्ठ यास्ये स्वमालयम् ।। १६ ।।
त्वं यावज्जीविता पाप कामाख्यापि जगत्प्रभुः ।
सर्वैः परिकरैः सार्धमन्तर्धानाय गच्छतु ।।१७।।
।। मार्कण्डेय उवाच ।।
इत्युक्त्वा ब्रह्मपुत्रः स स्वस्थानं गतवान् मुनिः ।
वसिष्ठस्तेन भौमेन निरस्तः कुपितो भृशम् ।। १८ ।।
गते वसिष्ठे नरकः शीघ्रं विस्मयसंयुतः ।
जगाम देवीभवनं नीलकूटं महागिरिम् ।। १९ ।।
तत्र गत्वा न चापश्यत् कामाख्यां कामरूपिणीम् ।
न योनिमण्डलं तस्याः सर्वान् परिकरांस्तथा ।। २० ।।
ततः स विमना भूत्वा क्षितिं सस्मार मातरम् ।
पितरं च जगन्नाथं नरकः प्रभुमव्ययम् ।। २१ ।।
न तावपि तदा यातौ तस्य प्रत्यक्षतां द्विजाः ।
व्युत्क्रान्तसमयस्येति नीतिहीनस्य शम्भवे ।। २२ ।।
चिरं प्रतीक्ष्य तौ तत्र भौमो वज्रध्वजस्तदा ।
अप्राप्तक्षितिविष्णुः स सशोकः स्वं निवेशनम् ।। २३ ।।
स गच्छन् स्वगृहं भौमः पुरीं स्वां दृष्टवांस्तु सः ।
पूर्वश्रिया परित्यक्तां मलिनां वनितामिव ।। २४ ।।
देव्यामन्तर्हितायां तु वेदवादविवर्जितम् ।
पुण्यस्वल्पदारजनं तत् पुरं समपद्यत ।। २५ ।।
न देवास्तत्र गच्छन्ति न विप्रा न महर्षयः ।
बभूव नगरं तस्य स्वल्पयज्ञक्रियोत्सवम् ।। २६ ।।
ईतयो बहवो जाता मृताश्च बहवो जनाः ।
लौहित्यनदराजोऽपि हीनतोयस्तदाऽभवत् ।। २७ ।।
बहूनि विपरीतानि दृष्ट्वा स नरकस्तदा ।
मेने मरणमासन्नमात्मनो ब्रह्मशापतः ।। २८।।
ततः प्राग्ज्योतिषाध्यक्षः शोकविह्वलचेतनः ।
चिन्तयन् मनसा मित्रं बाणं बलिसुतं ययौ ।। २९।।
सखा प्राणसमः सोऽस्य सततान्योन्यरक्षणे ।
तत्परौ बाणनरकौ स्वर्वैद्यावश्विनाविव ।। ३० ।।
एतस्मिन्नन्तरे बाणो मित्रं शम्भुसखो बली ।
अनुकूलयिता मन्त्रप्रदानेन महाबुधः ।। ३१ ।।
इति चासीन्मतिस्तस्य वज्रकेतोस्तदाचला ।
दूतं च प्राहिणोद् दीप्तं बाणस्य नगरं प्रति ।। ३२ ।।
स शोणितपुरं गत्वा स्यन्दनेनाशुगामिना ।
ततो भौमस्य वृत्तान्तं वाणायाशु न्यवेदयत् ।। ३३ ।।
यथा शप्तो वसिष्ठेन यथा चान्तर्हिताम्बिका ।
यथा विघ्नः पुरवरे जातः प्राग्ज्योतिषाह्वये ।। ३४ ।।
समयस्य व्यतिक्रान्तिर्भूमिमाधवयोर्यथा ।
तथा स दूतो भौमस्य शशंस बलिसूनवे ॥३५॥
स समाकारमित्रस्य सम्यग् दैवपराभवम् ।
स्वयं जगाम नरकं सभाजयितुमीश्वरः ।। ३६।।
स काञ्चनविचित्राङ्गं युक्तमश्वशतैस्त्रिभिः ।
लोहचक्रं च वैयाघ्रं मयूरध्वजभूषितम् ।। ३७ ।।
हेमदण्डसितच्छत्रच्छादितं किंकिणीगणैः ।
नानारत्नौघरचितमारुरोह महारथम् ।। ३८ ।।
स सहस्रभुजः श्रीमांश्चतुरङ्गबलैर्युतः ।
प्राग्ज्योतिषं भौमपुरमचिरादाजगाम ह ।। ३९ ।।
तमासाद्य महाबाहुर्बाणः प्राग्ज्योतिषेश्वरम् ।
हीनं पूर्वश्रिया मित्रमपश्यन्नगरं च तत् ।।४० ॥
स तेन पूजितो बाणो यथायोग्यं सुतेन कोः ।
पप्रच्छ किं निमित्तं ते हीनश्रीकमभूत् पुरम् ।।४१।।
।। बाण उवाच ।।
शरीरं च यथापूर्वं तथा न तव राजते ।
मनश्च ते नाति हृष्टं तत्र हेतुं वदस्व मे ।। ४२ ।।
।। मार्कण्डेय उवाच ।।
एवमादीनि पृष्टः स नरकः क्षितिनन्दनः ।
यथा वसिष्ठशापोऽभूत् तत् सर्वं तस्य चाब्रवीत् ।।४३।।
यच्छुतं भौमवदनात्तद्दूतावेदितं पुरा ।
ज्ञात्वां तथा तं प्रोवाच बाणो वज्रध्वजं पुनः ॥ ४४ ॥
।। बाण उवाच ।।
नहिमन्युस्त्वया कार्यः सुखे दुःखे शरीरिणाम् ।
चक्रवत् परिवर्तेते नैताभ्यां कोऽपि हीयते ।। ४५ ।।
परं तत्र प्रतीकारः कार्यो धीरैर्विभूतये ।
भवानपि प्रतीकारं कर्तुमर्हति सम्प्रति ।। ४६ ।।
य एष मानुषः पृथ्व्यामसाधारणभूतिभिः ।
वर्धते दानवो वापि दैत्यो वाप्यथवासुरः ।
राक्षसः किन्नरो वापि शक्रस्तान् सहते नहि ।। ४७ ।।
स कौटिल्यं देवगणैः सार्धं कुर्वन्नितस्ततः ।
यथा तथा प्रकारेण भ्रंशयत्येव तं श्रियः ।।४८ ।।
तस्य चेष्टतमो देवो विष्णुर्नित्यं सनातनः ।
स न शक्रस्य कुरुते मनोऽनिष्टं मनागपि ।। ४९ ।।
यः समाराधयेद् विष्णुं शक्रस्यानिष्टकारकः ।
तस्मै वरं तु सच्छिद्रं दत्त्वा तं शातयत्वितः ।। ५० ।।
चिरमाराधितो विष्णुरिष्टान् कामान् प्रयच्छति ।
महता कायदुःखेन पूजितः सम्प्रसीदति ।। ५१ ।।
विनेष्टदेवतापूजां विभूतिमतुलां पुमान् ।
कः प्राप्नोति श्रुतः पूर्वं न वा पूर्वतरैः क्वचित् ।। ५२ ।।
त्वया नाराधितः पूर्वं ब्रह्मा वा विष्णुरीश्वरः ।
तेन तेऽद्य महाविघ्ना उत्पन्ना विषये तव ।।५३ ।।
यो वा विष्णुः पालकस्ते न निसर्गानुकम्पकः ।
किन्तु ते स क्षितेर्वाक्यात्तया चाराधितो मुहुः ।। ५४ ।।
दत्तं छिद्रं च ते विष्णुर्नापराध्यास्त्वया द्विजाः ।
इतोऽन्यथा त्वं भविता हतश्रीरिति नः श्रुतम् ।। ५५ ।।
अपराध्यस्त्वया भूप वसिष्ठः परमो मुनिः ।
तेन स्मरणमात्रेण नायातौ क्षितिमाधवौ ।। ५६ ।।
तस्मात्त्वं मित्र बुध्यस्व कौटिल्यं हरिमेधसः ।
नाधुना युज्यते भौम तवोदासीनताकृतिः ।।५७।।
यत्ते मनसि तातोऽयमिति सम्प्रत्ययः स ते ।
वराह एव ते तातः स च लोकान्तरं गतः ।। ५८ ।।
वराहोऽपि हरेरंश इति यच्छ्रयते त्वया ।
तस्यांश इत्यनुक्रोशः केन वा क्रियते वद ।। ५९ ।।
तस्मात्त्वं कुरु शम्भोर्वा ब्रह्मणो वाधुनार्च्चनम् ।
स ते प्रसन्नः परममिष्टकामं प्रदास्यति ।। ६० ।।
विघ्नो वा मुनिशापो वा महेतिर्वातिपीडकः ।
विधौ प्रसन्ने शम्भौ वा नचिरात्क्षयमेष्यति ।। ६१ । ।
।। मार्कण्डेय उवाच ।।
जातसम्प्रत्ययो भौमो बाणस्य वचनात् तदा ।
सुप्रीतः समुवाचेदं धीरघर्घरनिःस्वनः ।।६२।।
।। भौम उवाच ।।
यत् त्वया गदितं बाण हितं मे मित्रवत्सल ।
तत् कार्यमचिरादेव तपश्चरणमुत्तमम् ।।६३॥
विष्णुर्नाराधनीयो मे तत्र हेतुस्त्वयोदितः ।
नैवाराध्यस्तथा शम्भुरन्तर्गुप्तः स मे पुरे ।। ६४ । ।
तस्माद् ब्रह्मा समाराध्यो वचनात् तव मित्रक ।
तत्पुत्रस्य महाबाहो लौहित्यस्याम्बुसन्निधौ ।।६५॥
शिष्योऽथ भवताध्यापितश्चाहं गुरुणा यथा ।
मित्रं मित्रं यथा धीर साम्ना परमवल्गुना ।। ६६ ।।
।। मार्कण्डेय उवाच ।।
इत्युक्त्वा स महाबाहुर्बाणं वज्रध्वजस्तदा ।
यथावत् पूजयामास तन्मित्रं मित्रवत्सलः ।। ६७ ।।
अर्चयित्वा यथायोग्यं प्रस्थाप्य च बलेः सुतम् ।
ब्रह्माराधनमत्युग्रं कर्तुमिच्छन् क्षितेः सुतः ।। ६८ ।।
स तीरे नदराजस्य लौहित्यस्य महात्मनः ।
ब्रह्माचलं समारुह्य तपस्तप्तुमुपस्थितः ।। ६९ ।।
स मानुषेण मानेन क्षितिपुत्रः शतं समाः ।
जलाहारव्रतेनैव समानर्च पितामहम् ।।७० ।।
सन्तुष्टः शतवर्षान्ते ब्रह्मा लोकपितामहः ।
प्रत्यक्षीभूय नरकस्याग्रतः समुपस्थितः ।। ७१ ।।
प्रीतोऽस्मि ते वरं दास्ये वरं वरय सुव्रत ।
इति चोवाच नरकं स तदा कमलासनः ।।७२।।
स दृष्ट्वा सर्वलोकेशं प्रत्यक्षं कमलासनम् ।
प्रणम्य प्राञ्जलिः प्रोचे विनयानतकन्धरः ।।७३।।
।। भौमो वाच ।।
देवासुरेभ्यो रक्षोभ्यः सर्वेभ्यो देवयोनितः ।
अवध्यत्वं सुरश्रेष्ठ वरमेकं प्रयच्छ मे ।। ७४ ।।
अविच्छिन्ना सन्ततिर्मे यावच्चन्द्रो रविस्तपेत् ।
तावद्भवतु लोकेश द्वितीयोऽयं वरो मम ।। ७५ ।।
तिलोत्तमाद्या या देव्यः सद्रूपगुणसंयुताः ।
तास्ता मे दयिताः सन्तु सहस्राणि तु षोडश ।। ७६ ।।
अजेयत्वं सदा श्रीर्मां न जहातु कदाचन ।
इति पञ्च वरा मेऽद्य वृतास्वत्तः पितामह ।।७७।।
।। मार्कण्डेय उवाच ।।
मायया मोहितो भौमो मुनिशापं विस्मृत्य च ।
अन्यद्वरान्तरं वव्रे मुनिशापस्तथा स्थितः ।।७८।।
एवमस्त्विति तान् सर्वान् वरान् दत्त्वा पितामहः ।
उवाचेदं द्वापरान्ते सन्ध्यायां सुरकन्यकाः ।
तिलोत्तमाद्यास्ते जाया: सम्भविष्यन्ति भूतले ।। ७९ ।।
न यावन्नारदो याति वज्रध्वज पुरं तव ।
तावन्न मैथुने योज्या भवता ताः क्षितेः सुत ।।८०।।
इत्युक्त्वा सर्वलोकेशः क्षणादन्तर्हितोऽभवत् ।
मुदमासाद्य परमां स्वस्थानं नरकोऽभ्यगात् ।।८१ ।।
ततो मुदितलोकं तं नगरं श्रीनिषेवितम् ।
सदा सोत्साहसम्पूर्णभीतिविघ्नविवर्जितम् ।। ८२ ।।
अभवत् पशुसंधैश्च वाजिवारणकुम्भकैः ।
सम्पूर्णं देवराजस्य दयितेवामरावती ।।८३ ।।
उत्तीर्णतपसं श्रुत्वा बाणो दत्तवरं तथा ।
स्वयं पुनरुपातिष्ठद् भौमं वज्रध्वजं तदा ।। ८४ ।।
स गत्वा भौमनगरं बाणः प्राग्ज्योतिषाह्वयम् ।
पप्रच्छ नरकं मित्रं तपसः सन्निवेशनम् ।। ८५ ।।
।। बाण उवाच ।।
कुत्र त्वया तपस्तप्तं किं वा चीर्णं त्वया व्रतम् ।
कीदृशो वा वरो लब्धस्त्वं ममाख्यातुमर्हसि ।। ८६ ।।
दृष्टं तव पुरं सर्वं प्रहृष्टजनसंकुलम् ।
वाजिवारणरत्नौघैः पूरितं मङ्गलस्वनैः ।।८७।।
दृश्यतेऽद्य त्वया पाल्यं शस्यपूर्णमनामयम् ।
कथ्यतां वा कथं ब्रह्मा वरं तुभ्यं प्रदत्तवान् ।। ८८ ।।
।। भौम उवाच ।।
ब्रह्मा स्वयं पर्वतरूपधारी कामेश्वरीं धर्तुमिहावतीर्णः ।
तत्र स्वयं सम्प्रति घस्रमेति पुरा न यावच्छपते वसिष्ठः ।।८९।।
सोऽयं पुरे मे बलिपुत्र राजते देवौघसेव्योऽप्यमरोत्तमांशः।
तत्राहमेको वरतोयभोजनो वर्षाण्यकार्षं च तपः शतानि वै ।।९० ।।
लौहित्यतीरे घनवायुसेविते मनोहरे प्राणभृतां सुखप्रदे
तपः प्रवृत्तस्य सुखं समागमच्छरद् यथैका शरदां शतानि मे ।। ९१ ।।
ततः स तुष्टश्चतुराननोऽभवत् प्रत्यक्षतो मां न्यगदच्च मद्धितम् ।
तव प्रसन्नोऽस्मि वरं तथेप्सितं दास्ये गृहाणेति पुरोऽथ भूत्वा ।।९२।।
अवध्यता मे सुरयोनित: सुरा-दच्छिन्नसन्तानमजेयता तथा ।
सदा विभूतिर्न जहातु मामिति वराश्च नार्यो नवयौवनान्विताः ।।९३।।
एते वराः पञ्च मया ततो वृताः सोऽपि प्रतिश्रुत्य गतो निजास्पदम् ।।९४।।
ततोऽहमभ्येत्य पुरं निजं मुदा मन्त्रिप्रवीरैः सहितः पुनस्तान् ।
पौरान् सबन्धून् सगणानमोदयम् दानेन मानेन च भोजनेन ।। ९५ ।।
।। मार्कण्डेय उवाच ।।
इतीरितं तस्य बलेः सुतस्तदा भौमस्य श्रुत्वा मुमुदे न तत्क्षणात् ।
इदं तदोचे वचनं क्षितेः सुतं तत्कालयुक्तं न च सूनृतोद्भवम् ।। ९६ ।।
।। बाण उवाच ।।
न ते मुने: शापमतीत्य गन्तुं भूता मतिर्मित्र तदा विधेः पुरः ।
कथं तु भद्रं भविता तवेह भावीत्यवश्यं क्षितिपुत्र नित्यम् ।।९७।।
कृतस्य करणं नास्ति दैवाधिष्ठितकर्मणः ।
भावीत्यवश्यं यद्भाव्यं तत्र ब्रह्माप्यबाधकः ।।९८।।
तस्मात् त्वं सुमहावीरानसुरान् पावकोपमान् ।
सन्ध्याय च पुरस्कृत्य साचिव्ये विनियोजय ।। ९९ ।।
द्वारि संस्थाप्य वै वीरान् देवैरपि दुरासदान् ।
अतिक्रमस्व देवेशं यदि लब्धवरो भवान् ।। १०० ।।
विधिना यो वरो दत्तो भवते तत् परीक्षणम् ।
कतुमर्हसि जायायामपुत्रो जनकात्मजम् ।। १०१ ।।
इत्युक्त्वा प्रययौ बाणो यथावत् तेन पूजितः ।
नरको मित्रवचनं कर्तुं समुपचक्रमे ।। १०२ ।
॥ इति श्रीकालिकापुराणे भौमतपस्यायां एकोनचत्वारिंशोऽध्यायः ॥ ३९॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand