कालिकापुराणम्/अध्यायः ४३
कालिकापुराणम् त्रिचत्वारिंशोऽध्यायः पार्वतीतपवर्णनम्
अथ श्रीकालिका पुराण अध्याय ४३
।। मार्कण्डेय उवाच ।।
अथ देवमुनिर्या हिमवन्मन्दिरं तदा ।
नियोजितो बलभिदा नारदः कामगः परम् ।। १ ।।
स गतः पूजितस्तेन धरेशेन महात्मना ।
तं समुत्सृज्य रहसि कालीं तामाससाद ह ।।२।।
आसाद्य कालीं स मुनिः सम्बोध्य ज्ञानशालिनीम् ।
उवाचेदं वचस्तथ्यं सर्वेषां जगतां हितम् ॥३॥
।। नारद उवाच ।।
शृणु कालि वचो मह्यं सत्यं तदवधारय ।
सेवित: स महादेवस्त्वयेह तपसा विना ॥४॥
अनुरक्तोऽपि तेन त्वां महादेवो विसृष्टवान् ।
त्वामृते शङ्करो नान्यां द्वितीयां संग्रहीष्यति ।। ५ ।।
त्वं चापि नान्यं दयितं ग्रहीष्यसि विनेश्वरम् ।
तस्मात् त्वं तपसा युक्ता चिरमाराधयेश्वरम् ॥६॥
तपसा संस्कृतां त्वां तु स द्वितीयां करिष्यति ।
मन्त्रोऽयं तस्य सुभगे शृणु त्वं येन सोऽचिरात् ।।७।।
आराधितस्ते प्रत्यक्षो भविष्यति महेश्वरः ।
ॐ नमः शिवायेति च सर्वदा शङ्करप्रियः ॥८॥
चिन्तयन्ती तु तद्रूपं नियमस्था षडक्षरम् ।
मन्त्रं जप त्वं गिरिजे तेन तुष्टो भवेद्धरः ॥९॥
एवमुक्ता तदा काली नारदेन महात्मना ।
कर्तव्यमनुमेने सा हितं तथ्यञ्च तद्वचः ।।१०।।
अनुमान्य तपस्तप्तुं तदा कालीञ्च नारदः ।
स्वर्गं जगाम तस्याश्च निश्चिताभून्मतिव्रते ।। ११ ।।
अथ याते देवमुनौ काली सासाद्य मेनकाम् ।
तपः श्रद्धां समाचख्ये चात्मनो हरसङ्गमे ।।१२।।
।। काल्युवाच ।।
तपस्तप्तुं गमिष्यामि मातः प्राप्तुं महेश्वरम् ।
अनुजानीहि मां गन्तुं तपसेऽद्य तपोवनम् ।। १३ ।।
तपः करणयत्नं मे पितुरावेदय द्रुतम् ।
यावन्न दह्ये जननि भूतेशविरहाग्निना ।। १४ ।।
इति तस्या वचः श्रुत्वा मेनका शोककर्शिता ।
आलिंग्य स्वसुतामूचे मा तपः कुरु वल्लभे ।।१५।।
मृदुदेहासि पुत्रि त्वं मा तपो याहि कर्कशम् ।
तपः सोढुं मुनेर्गात्रं शक्तं ते न कलेवरम् ।। १६ ।
वनवासश्च ते पुत्रि नेष्टः शत्रुगणैरपि ।
तस्मात् त्वं सम्परित्यज्य वनवासोद्भवं तपः ।
आत्मनो ह्यनुरूपेण तपस्तत् कुरु यद्धितम् ।।१७।।
।। मार्कण्डेय उवाच ।।
मातुः सा वचनं श्रुत्वा गिरिजा दीनमानसा ।
इत्यूचे च तंदा वाक्यं तपोयत्नपरा प्रसूम् ।। १८ ।।
मा निषेधय मां यास्ये तपसेऽद्य तपोवनम् ।
प्रच्छन्नमपि यास्यामि नानुज्ञाताप्यहं त्वया ।।१९।।
।। मेनकोवाच ।।
गृहेषु देवाः सततं ब्रह्मविष्णुशिवादयः ।
तस्माद् गृहे पुत्रि देवानर्चय त्वं यथेप्सितान् ।।२०।।
स्त्रीणां तपोवनगतिर्न श्रुता स्वामिना विना ।
तस्मान्न युज्यते पुत्रि तपोयात्रा वनं प्रति ।। २१ । ।
यतो निरस्ता तपसे वनं गन्तुं च मेनया ।
उमेति तेन सोमेति नाम प्राप तदा सती ।। २२ ।।
अवज्ञाय तदा मातुर्वचनं हिमवत्सुता ।
सखीभ्यां ज्ञापयामास पितरं तपसोद्यमम् ।। २३ ।।
स तु ज्ञात्वा गिरिपतिस्तपसे चरितोद्यमम् ।
दुहितुश्चानुमेने च नातिहृष्टमना इव ।। २४ ।।
सानुज्ञाप्य तदा तातं यत्र दग्धो मनोभवः ।
शम्भुना प्रययौ तत्र गङ्गावतरणं प्रति ।। २५ ।।
गङ्गावतरणं नाम प्रस्थो हिमवतः स च ।
हरशून्योऽथ ददृशे काल्या तच्चिन्तया तदा ।। २६ ।।
यत्र स्थित्वा पुरा शम्भुर्ध्यानवानभवद् भृशम् ।
तत्र क्षणं तु सा स्थित्वा बभूव विरहार्दिता ।। २७ ।।
हा हरेति क्षणं तत्र रोदमाना गिरेः सुता ।
विललापातिदुःखार्ता चिन्ताशोकसमन्विता ।। २८ ।।
क्षणं विलप्य सा काली स्मृत्वा पूर्वोद्भवं तदा ।
हार्दं हरस्य सा मोहमवाप कमलेक्षणा ।। २९ ।।
ततश्चिरेण सा मोहं धैर्यात् संस्तभ्य भामिनी ।
नियमायाभवत्तत्र दीक्षिता हिमवत्- सुता ।। ३० ।।
प्रथमं नियमस्तस्या बभूव फलभोजनम् ।
चर्या पञ्चातपा चिन्ता शाम्भवी शाम्भवो जपः ।। ३१ ।।
यज्ञियैर्दारुभिः शुष्कैश्चतुर्दिक्षु चतुष्कृतम् ।
वह्निसंस्थापनं ग्रीष्मे तीव्रांशुस्तत्र पञ्चमः ।।३२।
हस्तान्तरे चतुर्वह्नीन् कृत्वा वैश्वानरेष्टिना ।
तन्मध्यस्था सूर्यविम्बं वीक्षन्ती वल्कलांशुका ।
ग्रीष्मं निन्ये वह्निमध्ये शिशिरे तोयवासिनी ।। ३३ ।।
प्रथमं फलभोगेन द्वितीयं तोयभोजनम् ।
तृतीयं तु स्वयम्पाति- वृक्षपल्लव- भोजनम् ।। ३४।।
क्रमेण तु तदा पर्णं निरस्य हिमवत् सुता ।
निराहारव्रता भूत्वा तपश्चरणखिन्निका ।। ३५ ।।
आहारे त्यक्तपर्णाभूद्यस्माद्धिमवतः सुता ।
तेन देवैरपर्णेति कथिता पृथिवीतले ।। ३६ ।।
पञ्चातपव्रतेनैव तोयानाञ्च प्रवेशनैः ।। ३७।।
एकपादस्थिता सा तु वसन्ते हिमवत्सुता ।
षडक्षरं जपन्ती सा चिरं तेपे तपो महत् ।। ३८ ।।
चीरवल्कलसंवीता जटासङ्घातधारिणी ।
कृशाङ्गी चिन्तने शक्ता जिगाय तपसा मुनीन् ।। ३९ ।।
तां तपश्चरणे शक्तां ररक्ष शङ्करः स्वयम् ।
आप्यायति स्म स तदा भयाद्रक्षति हर्षितः ॥४०॥
एवं तस्यास्तपस्यन्त्याश्चिन्तयन्त्या महेश्वरम् ।
त्रीणि वर्षसहस्राणि जग्मुः काल्यास्तपोवने ॥ ४१ ।।
षट्त्रिवर्षसहस्राणि संस्कृता वीक्षणात् स्वयम् ।
दैवेन विधिना देवी हरयोग्या तथाभवत् ।।४२।।
षट्त्रिवर्षसहस्रान्ते यत्र तेपे तपो हरः ।
तत्र क्षणमथोषित्वा चिन्तयामास भामिनी ॥४३॥
नियमस्थां महादेवः किं मां जानाति नाधुना ।
येनाहं सुचिरं तेन नानुज्ञाता तपोरता ।। ४४ ।।
लोके नास्त्यत्र गिरिशः किं तत्र मुनिभिः स्तुतः ।
सर्वज्ञः सर्वगो देवो हरो देवैर्निगद्यते ।। ४५ ।।
स सर्वगस्तु सर्वज्ञः सर्वात्मा सर्वहृद्गतः ।
सर्वभूतिप्रदो देवः सर्व भावनभावनः ।। ४६ ।।
सती च मेनका माता यदि चाहं वृषध्वजे ।
सानुरक्ता नचान्यस्मिन् स प्रसीदतु शङ्करः ।। ४७ ।।
यदि नारदवक्त्रोत्थो मन्त्रोऽयं स्यात्षडक्षरः ।
यदि भक्त्या मया जप्तं हरस्तेन प्रसीदतु ।।४८ ।।
सत्यं यदि तपस्तप्तं सत्यं चाराधितो हरः ।
सत्यं भवेद् यदि तपो हरस्तेन प्रसीदतु ।। ४९।।
।। मार्कण्डेय उवाच ।।
एवं विचिन्तयन्ती सा वदातिष्ठद्धराश्रमे ।
अधोमुखी दीनवेशा जटावल्कलमण्डिता ।। ५० ।।
तदैव ब्राह्मणः कश्चिद् ब्रह्माचारी धृतव्रतः ।
कृष्णाजिनोत्तरीयेण धृतदण्डकमण्डलुः ।।५१।।
ब्राह्मश्रिया दीप्यमानः स्वर्ण गौरः सुशोभनः ।
जटाभिः परिवीताभिरुद्रिक्तस्तनुदेहभूत् ।
उपस्थितस्तदा कालीं शम्भुर्ब्राह्मणरूपधृक् ।।५२।।
आसाद्य प्रथमं कालीं समाभाष्य तदा द्विजः ।
ज्ञातुं प्रत्यक्षतो रागं श्रोतुमिच्छंश्च तद्वचः ।। ५३ ।।
वाग्मी विचित्रवाक्येन पप्रच्छ गिरिजां तदा ।।५४।।
।। ब्राह्मण उवाच ।।
कां त्वं कस्यासि कल्याणि किमर्थं विजने वने ।
तपश्चरसि दुर्धर्षं मुनिभिः प्रयतात्मभिः ॥५५॥
न बाला त्वं नापि वृद्धा तरुणी चातिशोभना ।
कथं पतिं विनाभीक्ष्णं तपश्चरसि साम्प्रतम् ।। ५६ ।।
किंवा तपस्विनी भद्रे कस्यचित् सहचारिणी ।
तपस्विनः स पुष्पादि समाहर्तुं गतोऽन्यतः ।। ५७ ।।
एतन्मम समाचक्ष्व यदि गुह्यं भवेन्न ते ।
यदि ते हृदये मन्युः कच्चिद्वसति सम्प्रति ।
तदाचक्ष्व समर्थोऽस्मि तमहं चापि वारितुम् ।। ५८ ।।
इत्युक्ता तेन विप्रेण गिरिजाथ निजां सखीम् ।
तस्योत्तरप्रदानाय कटाक्षेण न्ययोजयत् ।। ५९।।
सा सखी विजया तस्या वचनाद् ब्राह्मणं तदा ।
प्रोवाचेदं यथातथ्यं वीक्षन्ती गिरिजामुखम् ।।६० ।।
।। विजयोवाच ।।
एतस्य गिरिराजस्य तनयेयं द्विजोत्तम ।
ख्याता च पार्वतीनाम्ना कालीति च सुशोभना । । ६१ ।।
ऊचे यन्न च केनापि शङ्करं वृषभध्वजम् ।
वाञ्छन्ती दयितं तीव्रं तपश्चरति वै पतिम् ।।६२।।
षट्त्रि वर्षसहस्राणि तपस्तपति भामिनी ।
न शङ्करो गिरिसुतामद्याप्यभ्युपपद्यते ।।६३।।
शङ्करो गिरिशो देवः सर्वगः परमेश्वरः ।
इति स्म गद्यते देवैर्मुनिभिश्च तपोधनैः ।।६४।।
किमेनां स न जानाति किं सानौ नास्ति वा गिरेः ।
इति चिन्ताविषण्णेयमद्य नो लभते सुखम् ।।६५।।
अप्रार्थितस्त्वमनया दयसे यदि वा सुखम् ।
तदैनां शङ्करेणाद्य त्वं सङ्गमय सुव्रत ।। ६६ ।।
।। मार्कण्डेय उवाच ।।
इति तस्या वचः श्रुत्वा ब्रह्मचारी तदा द्विजः ।
स्मयमान इदं वाक्यं हेलयोवाच पार्वतीम् ।।६७ ।।
।। ब्राह्मण उवाच ।।
अमोघदर्शनश्चास्मि हरं चानयितुं क्षमः ।
किन्त्वेकं निगदाम्यद्य निश्चितं मन्मतं शृणु ।। ६८ ।।
जानाम्यहं महादेवं तं वदामि शृणुष्व मे ।
वृषध्वजो महादेवो भूतिलेपी जटाधरः ।।६९।।
व्याघ्रचर्मांशुकश्चैकः संवीतो गजकृत्तिना ।
कपालधारी सर्पौघैः सर्वगात्रेषु वेष्टितः ।।७०॥
विषदग्धगलस्त्रयक्षो विरूपाक्षो विभीषणः ।
अव्यक्तजन्मा सततं गृहभोग्यविवर्जितः ।।७१।।
ज्ञातिभिर्बान्धवैर्हीनो भक्ष्यभोज्यविवर्जितः ।
श्मशानवासी सततं तत्सङ्गपरिवर्जितः ।। ७२ ।।
गर्जद्भिर्विकटैस्तीक्ष्णैर्भूतोघैः परिवारितः ।
शृङ्गाररसहीनश्च भार्यापुत्रविवर्जितः ।।७३।।
केन वा कारणेन त्वं भर्तारं तं समीहसे ।
पूर्वं श्रुतं मया चैव तस्यापरमिदं कृतम् ।।७४ ।।
शृणु ते निगदाम्यद्य यदि ते गृह्ण रोचते ।
दक्षस्य दुहिता साध्वी सती वृषभवाहनम् ।। ७५ ।।
वव्रे पतिं पुरा दैवात् सम्भोगपरिवर्जितम् ।
कपालिजायेति सती दक्षेण परिवर्जिता ।। ७६ ।।
यज्ञभागप्रदानाय शम्भुश्चापि विवर्जितः ।
साथ तेनापमानेन भृशं शोकाकुला सती ।
तत्याज स्वान् प्रियान् प्राणांस्तया त्यक्तश्च शङ्करः ।।७७।।
त्वं स्त्रीरत्नं तव पिता राजा निखिलभूभृताम् ।
तथाविधं पतिं कस्मादुग्रेण तपसेहसे ॥७८॥
देवेन्द्रो वा धनेशो वा पवनो वाप्यपांपतिः ।।७९।।
अग्निर्वाऽन्यः सुरो वापि स्वर्वैद्यावश्विनावपि ।
विद्याधरो वा गन्धर्वो नागो वा मानुषोऽथवा ॥८०॥
रूपयौवनसम्पन्नः समस्तगुणसंयुतः ।
स ते योग्यः पतिः श्रीमानुदारकुलसम्भवः ॥८१ ।।
येन त्वं बहुरत्नौघ- पूरितेऽनर्घविस्तृते ।
माल्यप्रवरसंयुक्ते धूपचूर्णै: सुवासिते ।।८२।।
मृद्वास्तरणसंयुक्ते विस्तृते सुमनोहरे ।
चारुप्रासादगर्भस्थे जाम्बूनदविचित्रिते ।
शय्यातले समासाद्य स योग्यस्ते भवेत् पतिः ।। ८३ ।।
एवं ज्ञात्वाऽद्य सुभगे यदि वाञ्छसि शङ्करम् ।
किं ते तपोभिः सुतरामहं तं योजये त्वया ।। ८४ ।।
।। मार्कण्डेय उवाच ।।
इति श्रुत्वा तदा काली ब्राह्मणस्योत्तरं तदा ।
मितं तथ्यं जगादैनं ब्राह्मणं कोपसंयुता ।।८५ ।।
।। काल्युवाच ।।
न जानासि हरं देवं त्वं जानामीति भाषसे ।
बहिर्यद् दृश्यते तत्ते कथितं द्विजनन्दन ॥८६ ।।
यस्य भावं न जानन्ति सेन्द्रा ब्रह्मादयः सुराः ।
तस्य त्वं विप्रतनय शिशुर्ज्ञास्यसि किं भवम् ।। ८७ ।।
यच्छुतं भवता नीचवदनाद् भाषितं लघु ।
इतस्ततस्तु श्रुत्वैव भाषसे त्वं न दृष्टवान् ।। ८८ ।।
तस्मात् त्वत्तो वरं नाहं वाञ्छये नापि वा पतिम् ।
अन्यद् वद न च त्वत्तो वाञ्छये हरसङ्गमम् ।।८९।।
इत्युक्त्वा गिरिजा विप्रमवलोक्य सखीमुखम् ।
इदमाह तदा काली संशयारूढचेतना ।। ९० ।।
महता चिन्तनेनेह तपसाराधितो हरः ।
तन्ममाग्रे विप्रसुतो निन्दितुं वाक्यमुक्तवान् ।
तदहं चापनेष्यामि स्तुतिवाक्येन साम्प्रतम् ।।९१ ।।
महात्मनां च यो निन्दां शृणोति कुरुतेऽथवा ।। ९२ ।।
तयोरागः समं पूर्वं मया तातमुखाच्छ्रुतम् ।
तस्मात्तदपनेष्येऽहं तन्निषेधय विप्रकम् ।। ९३ ।।
इत्युक्त्वा सा सखीं काली शम्भुसङ्गतमानसा ।
अघंसंमार्जनायाशु हरं स्तोतुमुपाक्रमत् ।। ९४ ।।
।। काल्युवाच ।।
नमः शिवाय शान्ताय कारणत्रयहेतवे ।
निवेदयामि चात्मानं त्वं गतिः परमेश्वर ।। ९५ ।।
विज्ञानसौभाग्यसुहृद्गताय ते प्रपञ्चहीनाय हिरण्यबाहवे ।
नमोऽस्तु नारायणपद्मसम्भव- प्रधानबीजाय जगद्धिताय ते । । ९६ ।।
इति स्तुवन्तीं पुनरेव स द्विजस्तदा वचः किञ्चिदुदीरितुं पुनः ।
समीक्ष्य कालीमकरोत् सयत्नकं बुद्ध्वा समाचष्ट सखीं गिरे: सुता ।।९७।।
अयं द्विज: किञ्चन वक्तुमिच्छत्युग्रं हरं चापि न संविदानः ।
निन्दन्नहि प्राणहरीं हरस्य निन्दामहं श्रोतुमिह क्षमामि ।।९८।।
यावद् भूरिवचोऽस्याहं न शृणोम्यधुना सखि ।
गच्छामि तावद् दूराय समुत्तिष्ठामि मत्प्रिये ।।९९ ।।
इत्युक्त्वा सा तया सख्या सहिता हिमवत्सुता ।
प्रतस्थेऽथ समुत्थाय तमुत्सृज्य द्विजं हठात् ।। १०० ।।
अथ शम्भुनिजं रूपमास्थाय हिमवत्सुताम् ।
तं समुत्सृज्य गच्छन्तीं हरः स्मेरमुखोऽन्वयात् ।। १०१ ।।
अहं हरो महादेवो मां संस्तौषि न चाधुना ।
सम्मुखीभव हे कालि समाश्वासय शाङ्करि ।। १०२ ।।
इत्युक्त्वा स महादेवो गच्छन्त्याः पुरतो गतः ।
प्रसार्य हस्तौ काल्यास्तु गतिं तस्या विरोधयन् ।। १०३ ।।
सा वीक्ष्य शम्भुवदनं तत्क्षणादभवद्धठात् ।
अधोमुखी तडिद्वातचकितेव गिरे: सुता ।। १०४ ।।
मन्दाक्षं प्रीतिलज्जाभिः सा जडेव तदाभवत् ।
वक्तुं च नाशकत् किञ्चिद्विवक्षुरपि भामिनी । । १०५ ।।
मनोरथानां सिद्ध्या तु सुधाभिरिव पूरितम् ।
शरीरमभवत्तस्या मुदा पूर्णं द्विजोत्तमाः ।। १०६ ।।
षट्त्रिवर्षसहस्रैस्तु तपः क्लेशमविन्दत ।
यत्तं क्षणात् समुत्सृज्य सम्मोदमुदिताभवत् ।। १०७ ।।
तां च वीक्ष्य तथाभूतां प्रणयाद् वृषभध्वजः ।
कामेन भस्मरूपेण गात्रस्थेन च मोहितः ।। १०८ ।।
अथ तां विरहोद्रिक्तः समेत्य वृषभध्वजः ।
सम्बोधयन्निदं चाटुवचनं प्रोक्तवान् मुदा ।। १०९ ।।
।। शिव उवाच ।।
न तु सुन्दरि मां वक्तुं किञ्चनापि त्वमीहसे ।
तपः क्लेशं स्मरन्ती किं मह्यं कुप्यसि साम्प्रतम् ।। ११० ।।
अहं च परितप्यामि त्वामृते सुभगे मम ।
समयाद् यत् समारब्धं तपस्तप्तुं त्वया समम् ।। १११ । ।
सानुरक्तोऽथ संस्कृत्य भविष्यामि त्वया प्रिये ।
अधुना समतीतो मे यः कृतः समयो मया ।। ११२ ।।
तपसे भवती चापि तपसैव सुसंस्कृता ।
संचिन्तनेन जप्येन तीव्रेण तपसा तदा ।
मूल्येन महता क्रीतो दासोऽहं मां नियोजय ।। ११३ ।।
त्वदंगानां संस्करणे जटानां च प्रसाधने ।
प्रमुच्य वल्कल गात्राच्चार्वंशुकनिवेशने । । ११४ ।।
हारनूपुरकेयूरकाच्यादिपरिधापने ।
द्रुतं नियोजय शुभे यदि स्नेहोऽस्ति मादृशि ।। ११५ ।।
निर्दग्धो योमया कामो भस्मरूपेण मत्तनौ ।
स्थितो मां प्रतिकृत्येव त्वद दग्धुमिच्छति ।। ११६ ।।
तस्मादुद्धर मां कामादग्नेरिव मनोहरे ।
त्वदङ्गामृत दानेन प्रसीद दयिते मम ।। ११७ ।।
॥ इति श्रीकालिकापुराणे पार्वतीतपोवर्णने त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand