कालिकापुराणम् पञ्चमोऽध्यायः कालीस्तुतिः
अथ कालिका पुराण अध्याय ५
।। मार्कण्डेय उवाच ।।
अथ ब्रह्मा तदोवाच दक्षाय सुमहात्मने ।
मरीचिप्रमुखेभ्यश्च वचनञ्चेदमञ्जसा ।।१।।
।। ब्रह्मोवाच ।।
भवित्री शम्भुपत्नी का का तं सन्मोहयिष्यति ।
इति सञ्चिन्तयन् कान्तां न स्थिरीकर्तुमुत्सहे ।। २ ।।
विष्णुमायामृते दक्ष महामायां जगन्मयीम् ।
नान्या तन्मोहकर्त्री स्यात् सन्ध्यासावित्र्युमामृते ।।३।।
तस्मादहं विष्णुमायां योगनिद्रां जगत्प्रसूम् ।
स्तौमि सा चारुरूपेण शङ्करं मोहयिष्यति ।।४।।
भवांस्तु दक्ष तामेव यजतां विश्वरूपिणीम् ।
यथा तव सुता भूत्वा हरजाया भविष्यति ॥५॥
।। मार्कण्डेय उवाच ।।
एवं वचनमाकर्ण्य ब्रह्मण: परमात्मनः ।
उवाच दक्षः स्रष्टारं मरीच्यादिभिरीरितः ।।६।।
।। दक्ष उवाच ।।
यथात्थ भगवंस्तथ्यं त्वं लोकेश जगद्धितम् ।
तत् करिष्यामहे सम्यग् यथा स्यात्तन्मनोहरा ।।७।।
तथा तथा भविष्यामि यथा मम सुता स्वयम् ।
विष्णुमाया भवेत् पत्नी भूत्वा शम्भोर्महात्मनः ॥८॥
।। मार्कण्डेय उवाच ।।
एवमेवेति तैरुक्तं मरीचिप्रमुखैस्तदा ।
यष्टुं दक्षः समारेभे महामायां जगन्मयीम् ।।९।।
क्षीरोदोत्तरतीरस्थस्तां कृत्वा हृदयस्थिताम् ।
तपस्तप्तुं समारेभे द्रष्टुं प्रत्यक्षतोऽम्बिकाम् ॥१०॥
दीव्यवर्षेण दक्षोऽपि सहस्राणां त्रयः समाः ।
तपश्चचार नियतः संयतात्मा दृढव्रतः ।। ११ ।।
मारुताशी निराहारो जलाहारी च पर्णभुक् ।
एवं निनाय तत्कालं चिन्तयंस्तां जगन्मयीम् ।।१२।।
गते दक्षे तपः कर्तुं ब्रह्मा सर्वजगत्पतिः ।
जगाम मन्दराभ्यासं पुण्यात्पुण्यतरं वरम् ।।१३।।
तत्र गत्वा जगद्धात्रीं विष्णुमायां जगन्मयीम् ।
तुष्टाव वाग्भिरर्थ्याभिरेकतानं शतं समाः ।। १४ ।।
।। ब्रह्मोवाच ।।
विद्याविद्यात्मिकां शुद्धां निरालम्बां निराकुलाम् ।
स्तौमि देवीं जगद्धात्रीं स्थूलाणीयः स्वरूपिणीम् ।। १५ ।।
यस्या उदेति च जगत्प्रधानाख्यं जगत्परम् ।
यस्यास्तदंशभूतां त्वां स्तौमि निद्रां सनातनीम् ।। १६ ।।
त्वं चितिः परमानन्दा परमात्मस्वरूपिणी ।
शक्तिस्त्वं सर्वभूतानां त्वं सर्वेषां च पावनी ।। १७ ।।
त्वं सावित्री जगद्धात्री त्वं सन्ध्या त्वं रतिर्धृतिः ।
त्वं हि ज्योतिः स्वरूपेण संसारस्य प्रकाशिनी ।
तथा तमः स्वरूपेण च्छादयन्ती सदा जगत् ।।१८।।
त्वमेव सृष्टिरूपेण संसारपरिपूरणी ।। १९ ।।
स्थितिरूपेण च हरेर्जगतां च हितैषिणी ।
तथैवान्तस्वरूपेण जगतामन्तकारिणी ॥२०॥
त्वं मेधा त्वं महामाया त्वं स्वधा पितृमोदिनी ।
त्वं स्वाहा त्वं नमस्कार वषट्कारौ तथा स्मृतिः ।। २१ ।।
त्वं पुष्टिस्त्वं धृतिमैत्री करुणा मुदिता तथा ।
त्वमेव लज्जा त्वं शान्तिस्त्वं कान्तिर्जगदीश्वरी ।। २२।।
महामाया त्वं च स्वाहा स्वधा च पितृदेवता ।। २३ ।।
या सृष्टिशक्तिरस्माकं स्थितिशक्तिश्च या हरेः ।
अन्तशक्तिस्तथैशानी सा त्वं शक्तिः सनातनी ।। २४ ।।
एका त्वं द्विविधा भूत्वा मोक्षसंसारकारिणी ।
विद्याविद्यास्वरूपेण स्वप्रकाशाप्रकाशतः ।। २५ ।।
त्वं लक्ष्मीः सर्वभूतानां त्वं छाया त्वं सरस्वती ।
त्रयीमयी त्रिमाता त्वं सर्वभूतस्वरूपिणी ।। २६ ।।
उद्गीति: सामवेदस्य या पितृगणरञ्जनी ।
त्वं वेदिः सर्वयज्ञानां सामिधेनी तथा हविः ।। २७ ।।
यदव्यक्तमनिर्देश्यं निष्कलं परमात्मनः ।
रूपं तथैव तन्मात्रं सकलं च जगन्मयम् ।।२८।।
या मूर्त्तिर्वितता सर्वधरित्री विभ्रती क्षितिम् ।
सा त्वं विश्वम्भरे लोके शक्तिभूतिप्रदा सदा ।। २९ ।।
त्वं लक्ष्मीश्चेतना कान्तिस्त्वं पुष्टिस्त्वं सनातनी ।
त्वं कालरात्रिस्त्वं मुक्तिः शान्तिः प्रज्ञा तथा स्मृतिः ।। ३० ।।
संसारसागरोत्तार- तरणि: सुखमोक्षदे ।
प्रसीद सर्वजगतां त्वं गतिस्त्वं मतिः सदा ।। ३१ ।।
त्वं नित्या त्वमनित्या च त्वं चराचरमोहिनी ।
त्वं सन्धिनी सर्वयोग-साङ्गोपाङ्गविभाविनी ॥३२॥
चिन्ता कीर्तिर्यतीनां त्वं त्वं तदष्टाङ्गसंयुता ।
त्वं खड्गिनी शूलिनी च चक्रिणी घोररूपिणी ।।३३।।
त्वमीश्वरी जनानां त्वं सर्वानुग्रहकारिणी ।
विश्वादिस्त्वमनादिस्त्वं विश्वयोनिरयोनिजा ।
अनन्ता सर्वजगतस्त्वमेवैकान्तकारिणी ।।३४।।
नितान्तनिर्मला त्वं हि तामसीति च गीयसे ।
त्वं हिंसा त्वमहिंसा च त्वं काली चतुरानना ।।३५।।
त्वं परा सर्वजननी दमनी दामिनी तथा ।
त्वय्येव लीयते विश्वं भाति तत्त्वं बिभर्षि च ।।३६।।
त्वं सृष्टिहीना त्वं सृष्टिस्त्वमकर्णापि सश्रुतिः ।
तपस्विनी पाणिपादहीना त्वं नितरां ग्रहा ।। ३७ ।।
त्वं द्यौस्त्वमापस्त्वं ज्योतिर्वायुस्त्वं च नभो मनः ।
अहङ्कारोऽपि जगतामष्टधा प्रकृतिः कृतिः ॥३८॥
जगन्नाभिर्मेरुरूपधारिणी नालिकापरा ।
परापरात्मिका शुद्धा माया मोहातिकारिणी ।। ३९ ।।
कारणं कार्यभूतञ्च सत्यं शान्तं शिवाशिवे ।
रूपाणि तव विश्वार्थे रागवृक्षफलानि च ।। ४० ।।
नितान्त हस्वा दीर्घा च नितान्ताणुबृहत्तनुः ।
सूक्ष्माप्यखिललोकस्य व्यापिनी त्वं जगन्मयी ।।४१।।
मानहीना विमानाति - विमानोन्मानसम्भवा ।
यदष्टिव्यष्टिसम्भोगरागादिगलिताशया ।
तत्ते महिम्नि तद्रूपं तव भ्रान्त्यादिकं च यत् ।।४२।।
इष्टनिष्ठाविपाकज्ञा यथेष्टानिष्टकारणम् ।
सर्गादिमध्यान्तमयं निम्नं रूपं तथैव च ।। ४३ ।।
विचाराष्टाङ्गयोगेन सम्पाद्यैवं मुहुर्मुहुः ।
यत् स्थिरीक्रियते तत्त्वं तत्ते रूपं सनातनम् ।।४४।।
वाह्यावाह्ये सुखं दुःखं ज्ञानाज्ञाने लयालयौ ।
उपतापस्तथा शान्तिर्भूतिस्त्वं जगतः पतेः ।। ४५ ।।
यस्याः प्रभावं नो वक्तुं शक्नोति भुवनत्रये ।
तस्यैव सन्मोहकरी सा त्वं किं स्तूयसे मया ।। ४६ ।।
योगनिद्रा महानिद्रा मोहनिद्रा जगन्मयी ।
विष्णुमाया च प्रकृतिः कस्त्वां स्तुत्या विभावयेत् ।।४७।।
मम विष्णोः शङ्करस्य या वपुर्वहनात्मिका ।
तस्याः प्रभावं को वक्तुं गुणान् वेत्तुं च कः क्षमः ।।४८ ।।
प्रकाश करणज्योति: स्वरूपान्तरगोचरा ।
त्वमेव जङ्गमस्थेयरूपैका बाह्यगोचरा ।। ४९ ।।
प्रसीद सर्वजगतां जननी स्त्रीस्वरूपिणी ।
विश्वरूपिणि विश्वेशे प्रसीद त्वं सनातनि ।।५० ।।
।। मार्कण्डेय उवाच ।।
एवं संस्तूयमाना सा योगनिद्रा विरिञ्चिना ।
आविर्बभूव प्रत्यक्षं ब्रह्मण: परमात्मनः ।।५१॥
स्त्रिग्धाञ्जनद्युतिश्चारुरूपोत्तुङगा चतुर्भुजा ।
सिंहस्था खड्गनीलाब्जहस्ता मुक्तकचोत्करा ।। ५२ ।।
समक्षमथ तां वीक्ष्य स्रष्टा सर्वजगद्गुरुः ।
भक्त्या विनम्रतुङ्गा सस्तुष्टाव च ननाम च ।।५३।।
।। ब्रह्मोवाच ।।
नमो नमस्ते जगतः प्रवृत्तिनिवृत्तिरूपे स्थितिसर्गरूपे ।
चराचराणां भवती च शक्तिः सनातनी सर्वविमोहनीति ।।५४।।
या श्रीः सदा केशवमूर्त्तिमाया विश्वम्भरा या सकलं विभर्त्ति ।
हीर्योगिनी या महिता मनोज्ञा सा त्वं नमस्ते परमात्मसारे ।। ५५।।
यामादिपूर्वे हृदि योगिनो यां विभावयन्ति प्रमितिप्रतीताम् ।
प्रकाशशुद्धादियुतां विरागां सा त्वं हि विद्या विविधावलम्बा ।।५६।।
कूटस्थमव्यक्तमचिन्त्य रूपं त्वं विभ्रती कालमयं जगन्ति ।
विकारबीजं प्रकरोषि नित्यं प्रत्नानि न्यूलान्यथ मध्यमानि ।। ५७ ।।
सत्त्वं रजोऽथो तम इत्यमीषां विकारहीना समवस्थितिर्या ।
सा त्वं गुणानां जगदेकहेतुर्वाह्यान्तरालं भवतीव याति ।।५८॥
अशेषजगतां बीजे ज्ञेयज्ञानस्वरूपिणि ।
जगद्धिताय जगतां विष्णुमाये नमोऽस्तुते ।। ५९ ।।
।। मार्कण्डेय उवाच ।।
इत्याकर्ण्य वचस्तस्य काली लोकविमोहिनी ।
ब्रह्माणमूचे जगतां स्रष्टारं घनशब्दवत् ।। ६० ।।
।। देव्युवाच ।।
ब्रह्मन् किमर्थं भवता स्तुताहमवधारय ।
उच्यतां यदधृष्योऽस्ति तच्छीघ्रं पुरतो मम ।। ६१ ।।
प्रत्यक्षं मयि जातायां सिद्धिः कार्यस्य निश्चिता ।
तस्मात्ते वाञ्छितं ब्रूहि यत् करिष्यामि भाविता ।। ६२ ।।
।। ब्रह्मोवाच ।।
एकश्चरति भूतेशो न द्वितीयां समीहते ।
तं मोहय यथा दारान् स्वयं स च जिघृक्षति ।। ६३ ।।
त्वदृते तस्य नो काचिद् भविष्यति मनोहरा ।
तस्मात्त्वमेकरूपेण भवस्य भव मोहनी ।। ६४ ।।
यथा धृतशरीरा त्वं लक्ष्मीरूपेण केशवम् ।
आमोदयसि विश्वस्य हितायैतं तथा कुरु ।। ६५ ।।
कान्ताभिलाषमात्रं मे निनिन्द वृषभध्वजः ।
कथं पुनः स वनितां स्वेच्छया संग्रहीष्यति ।। ६६ ।।
हरेऽगृहीतकान्ते तु कथं सृष्टिः प्रवर्तते ।
आद्यन्तमध्यहेतौ च तस्मिञ्छम्भौ विरागिणि ।।६७ ।।
इति चिन्तापरो नाहं त्वदन्यं शरणन्त्विह ।
लव्धवांस्तेन विश्वस्य हितायैतत् कुरुस्व मे ।। ६८ ।।
न विष्णुरस्य मोहाय न लक्ष्मीर्न मनोभवः ।
न चाप्यहं जगन्मातस्तस्मात् त्वं मोहयेश्वरम् ।।६९।।
कीर्तिस्त्वं सर्वभूतानां यथा त्वं ह्रीर्यतात्मनाम् ।
यथा विष्णोः प्रियैका त्वं तथा सन्मोहयेश्वरम् ।।७० ।।
।। मार्कण्डेय उवाच ।।
अथ ब्रह्माणमाभाष्य काली योगमयी पुनः।
यदुवाच महाभागास्तच्छृण्वन्तु द्विजोत्तमाः ।।७१ ।।
॥ श्रीकालिकापुराणे कालीस्तुतिर्नाम पञ्चमोऽध्यायः ॥ ५ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand