।।श्रीभगवानुवाच।।
प्रसाय दक्षिणं हस्तं स्वयं नम्रशिराः पुनः।
दक्षिणं दर्शयत् पार्श्वं मनसापि च दक्षिणः ।। ७१.१ ।।

सकृत् त्रिर्वा वेष्टयेयुर्दैव्याः प्रीतिः प्रजायते।
स च प्रदक्षिणो ज्ञेयः सर्वदेवौघतुष्टिदः।। ७१.२ ।।

अष्टोत्तरशतं यस्तु देव्याः कुर्यात् प्रदक्षिणम्।
स सर्वकाममासाद्य पश्चान्मोक्षमवाप्नुयात्।। ७१.३ ।।

मनसापि च यो दद्याद् देव्यै भक्त्या प्रदक्षिणम्।
प्रदक्षिणाद् यमगृहे नरकाणि न पश्यति।। ७१.४ ।।

कायिको वाग्भवश्चैव मानसस्त्रिविधिः स्मृतः।
नमस्कारः श्रुतस्तज्ज्ञैरुत्तमाधममध्यमः।। ७१.५ ।।

प्रसार्य पादौ हस्तो च पतित्वा दण्डवत् क्षितौ।
जानुभ्यामवर्नि गत्वा शिरसास्पृश्य मेदिनीम्।। ७१.६ ।।

क्रियते यो नमस्कार उत्तमः कायिकस्तु सः।
जानुभ्यां च क्षितिं स्पृष्ट्वा शिरसास्पृश्य मेदिनीम्।। ७१.७ ।।

क्रियते यो नमस्कारो मध्यमः कायिकः स्मृतः।
पुटीकृत्य करौ शीर्षे दीयते यद् यथा तथा।

अस्पृष्ट्वा जानुशीर्षाभ्यां क्षितिं सोऽधम उच्यते।। ७१.८ ।।
या स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिः।

क्रियते भक्तियुक्तेन वाचिकस्तूत्तमस्तु सः।। ७१.९ ।।
पौराणिकैर्वैदिकैर्वा मन्त्रैर्वा क्रियते नतिः।

स मध्यमो नमस्कारो भवेद् वाचनिकः सदा।। ७१.१० ।।
यत् तु मानुष्यवाक्येन नमनं क्रियते सदा।

स वाचिकोऽधमो ज्ञेयो नमस्कारेषु पुत्रकौ।। ७१.११ ।।
इष्टमध्यानिष्टगतैर्मनोभिस्त्रिविधं पुनः।

नमनं मानसं प्रोक्तमुत्तमाधममध्यमम्।। ७१.१२ ।।
त्रिविधे च नमस्कारे कायिकश्चोत्तमः स्मृतः।

कायिकैस्तु नमस्कारैर्देवास्तुष्यन्ति नित्यशः।। ७१.१३ ।।
अयमेव नमस्कारो दण्डादिप्रतिनामभिः ।

प्रणाम इति विज्ञेयः स पूर्वं प्रतिपादितः।। ७१.१४ ।।
नैवेद्येन भवेत् सर्वं नैवेद्यनामृतं भवेत्।

धर्मार्थकाममोक्षाश्च नैवेद्यषु प्रतिष्ठिताः।। ७१.१५ ।।
सर्वयज्ञमयं नित्यं नैवेद्यं सर्वतुष्टिदम्।

ज्ञानदं कामदं पुण्यं सर्वभोग्यमयं तथा।। ७१.१६ ।।
मनसापि महादेव्यै नैवेद्यं दातुमिच्छति।

यो नरो भक्तियुक्तः सन् स दीर्घायुः सुखी भवेत्।। ७१.१७ ।।
महामायां सदा देवीमर्चंयिष्यामि भक्तितः ।

नानाविधैस्तु नेवेद्यौरिति चिन्ताकुलस्तु यः।
स सर्वकामान् सम्प्राप्य मम लोके महीयते।। ७१.१८ ।।

मनसापि च यो दद्याद् देव्यै भक्त्या प्रदक्षिणम्।
स दक्षिणे यमगृहे नरकाणि न पश्यति।। ७१.१९ ।।

देवमानुषगन्धर्वा यक्षराक्षसपन्नगाः।
नमस्कारेण तुष्यन्ति महात्मानः समन्ततः।। ७१.२० ।।

नमस्कारेण लभते चतुर्वर्गं महामत्तिः।
सर्वत्र सर्वसिद्ध्यर्थं नतिरेव प्रशस्यते।। ७१.२१ ।।

नत्या विजयते लोकान्नत्यायुरपि वर्धते।
नमस्कारेण दीर्घायुच्छिन्ना लभते प्रजाः।। ७१.२२ ।।

नमस्कुरु महादेव्यै प्रदक्षिणमथो कुरु।
नैवेद्यं देहि नितरामिति यो भाषते मुहुः।
सोऽपि कामानवाप्येह मम लोके प्रमोदते।। ७१.२३ ।।

विदधाति च नैवेद्यं महादेव्यै सुभक्तिमान्।
दातुं प्रति नरः सोऽपि देवीलोकमवाप्नुयात्।। ७१.२४ ।।

इति वां कथिताः सम्यगुपचारास्तु षोडश।
किमन्यद्रुचितं वां तत् कथयिष्यामि पृच्छतोः।। ७१.२५ ।।

इति श्रीकालिकापुराणे षोडशोपचारनिर्णये एकसप्ततितमोऽध्यायः।।