प्रमुखा विकल्पसूचिः उद्घाट्यताम्

॥श्रीभगवानुवाच॥
कामाख्यायाश्च माहात्म्यं शृणुतं च वदामि वाम्।
साङ्ग तद् सरहस्यं च शृणु वेताल भैरव॥ ७२.१ ॥

एकदा गरुडेनाशु विष्णुर्विष्णुपरायणौ।
गच्छन् देवीं तु कामाख्यां नीलस्थामाससाद ह॥ ७२.२ ॥

आसाद्य तं गिरिश्रेष्ठमवज्ञाय स केशवः।
गच्छ गच्छेति गरुडं चोदयामास तं गतौ॥ ७२.३ ॥

तं च देवी महामाया कामाख्या जगतां प्रसूः।
गरुडेन समं कृष्णं स्तम्भयामास रोदसी॥ ७२.४ ॥

स तु गन्तुं महामाया-मायया परिमोहितः
न गन्तुमथ वागन्तुमशकद् बद्धवत् स्थितः॥ ७२.५ ॥

अशक्तं गरुडं दृष्ट्वा गमने गरुडध्वजः।
क्रुद्धस्तं पर्वतश्रेष्ठमुत्सारयितुमुद्यतः॥ ७२.६ ॥

ततः कराभ्यां तं शैलं क्रोडीकृत्य जगत्पतिः।
अभूत् क्षमश्चालयितुं मनागपि न केशवः॥ ७२.७ ॥

तं चिचालयिषुं शैलं कामाख्या क्रोधतत्परा।
सिद्धसूत्रेम वैकुण्ठं बबन्ध गरुडेन हि॥ ७२.८ ॥

तं बद्ध्वा सिद्धसूत्रेण ग्राहाग्रे लवणार्णवे।
चिक्षेप हेलया देवी संक्षेपात् प्रापतत् तलम्॥ ७२.९ ॥

तं सागरतलं प्राप्तं पुनरेव स्वमायया।
यन्त्रियित्वा समाक्रम्य जग्राहाब्धितलस्थितम्॥ ७२.१० ॥

स प्रयत्नेन महता नोत्प्लुतिं कर्तुंमिष्टवान्।
महायत्नं प्रकुर्वाणः पुनरुन्मज्जनेहरिः॥ ७२.११ ॥

तस्यासारं प्रसारं च कामाख्या प्रतिषेधयेत्।
ज्ञानोद्गमनमप्यस्य सा देवी प्रतिषेधयेत्॥ ७२.१२ ॥

ततः प्रज्ञानरहितः प्रसारासारवर्जितः।
गरुडेन समं तोयतले शीर्णमभूच्चिरम्॥ ७२.१३ ॥

मार्गमाणस्तु तं स्रष्टा सागरान्तरसंस्थितम्।
हरिमासादयामास विशीर्णं प्राकृतं यथा॥ ७२.१४ ॥

तमासाद्य सतार्क्ष्यं तु स्रष्टा लोकपितामहः।
हस्ताभ्यां त समादाय वोत्प्लावयितुमिष्टवान्॥ ७२.१५ ॥

तमुत्प्लावयितुं शक्तो नाभूल्लोकपितामहः।
स्वयं च देवीमावाभिर्बद्धः सन् विस्मयन् स्थितः॥ ७२.१६ ॥

मार्गमाणास्तु ते सर्वे देवाः शक्रपुरोगमाः।
चिरेम चाथ कालेन समासे दुर्जलान्तरे॥ ७२.१७ ॥

तावासाद्य ततः सर्वे सुराः शक्रपुरोगमाः।
समुत्प्लावयितुं यत्नं चक्रुर्नाशक्नुवंश्च ते॥ ७२.१८ ॥

ततः सर्वेऽपि ते देवा मोहिता मायया भृशम्।
बिधिंविष्ण स्थितौ यद्वत् तद्वत् ते तत्र संस्थिताः॥ ७२.१९ ॥

मार्गमाणोऽथ तान् सर्वान् देवान् देवगुरुस्तदा।
बृहस्पतिंर्महादेवं हिमवत्-सानुसंस्थितम्॥ ७२.२० ॥

समासाद्य स देवानां वृत्तान्तं देवपूजितः।
पृष्टवान् सादरं सम्मक् स्तुत्वा नत्वा यथाविधि॥ ७२.२१ ॥

गुरुरुवाच
महादेव जगद्धाम जगत्प्रशमकारण।
शक्रादीन्मार्गमाणोऽहं देवांस्त्वां समुपस्थितः॥ ७२.२२ ॥

ब्रह्मा विष्णुश्च न ब्रह्मसदने नापि नाकतः।
संस्थितौ नापि कुत्रापि ज्ञायेने ह्यन्यदा यथा॥ ७२.२३ ॥

तमिमं संशयं देव च्छिन्धि त्वं देवदेवताः।
कुत्र तिष्ठन्ति कस्माद् वा तथा भूत्वा ह्यवस्थिताः॥ ७२.२४ ॥

अनुयास्यामि तान् सर्वानुपदेशात् तव प्रभो।
तेषां स्थितिं त्वं कथय यदि ते वर्तते दया॥ ७२.२५ ॥

तस्य तद् वचनं श्रुत्वा तदुद्देशमहं पुनः।
तत् सर्वमुक्तवान् कर्म यथा बद्धाश्च मायया॥ ७२.२६ ॥

अवज्ञाता महादेवी महामाया जगन्मयी।
तेन तन्मायया बद्धो विष्णुस्तिष्ठति सागरे॥ ७२.२७ ॥

तं मार्गमाणास्त्रिदशा ब्रह्माद्या मायया पुनः।
निबद्धा निकटे तस्य स्थिताश्चात्यर्थसंयताः॥ ७२.२८ ॥

तांस्तुमार्गयितुं यासियदिह त्वं मया विना।
बद्धस्तथैव त्वं चापि नायातुं भविता प्रभुः॥ ७२.२९ ॥

तस्माद् गच्छाम्यहं तत्र यत्रास्ते गरुडध्वजः।
ब्रह्मेन्द्राद्यास्तथा गुप्तान्मोचयिष्ये च तान् क्रमात्॥ ७२.३० ॥

इत्युक्त्वा गरुणा सार्धं सम्भूय स वृषध्वजः।
देवौघा यत्र तिष्ठन्ति गतस्तत्र महेश्वरः॥ ७२.३१ ॥

तत्र गत्वा महादेवो विष्णुमाभाष्य वेधसम्।
सर्वास्तान् परिपप्रच्छ किमर्थं संस्थितास्त्विह॥ ७२.३२ ॥

गतागतविहीनाश्च जजवज्ज्ञानवर्जिताः।
किमर्थमभवन् देवास्तन्मे भाषन्तु सम्प्रति॥ ७२.३३ ॥

तस्य तद्वचनं श्रुत्वा महादेवस्य केशवः।
शनैर्भर्गमुवाचेदं ब्रह्मादीनां पुरस्तदा॥ ७२.३४ ॥

नीलकूटस्य शिखरादूर्ध्वभागेन गच्छता।
वियता गरुडस्थेन मया नीलो महागिरिः॥ ७२.३५ ॥

धृतः करेण चोद्धर्तुं गरुडागतिवारणे।
तत्र मां सा महामाया कामाख्या कामरूपिणी॥ ७२.३६ ॥

योगनिद्रां स्वयं धृत्वा चिक्षेपाम्बुधिपुष्करे।
ततोऽहं तलमासाद्य तोयराशेः सवाहनः॥ ७२.३७ ॥

पतितो निवसाम्यत्र चिरमन्धकसूदन।
निवसानि चिरं चाहमत्र सागरतोयके॥ ७२.३८ ॥

नाद्यापि सा महामाया नुदते मां महेश्वर।
मदर्थमागता देवा ब्रह्मेन्द्राद्याः समन्ततः॥ ७२.३९ ॥

तेऽपि बद्धा महादेव्या मायापाशेन वै हठात्।
तस्मान्नो ह्यनुगृह्णीष्व नयेदार्नी शिवालये॥ ७२.४० ॥

तां च प्रसादयिष्यामः सम्यग्बन्धविहिंसया।
हरेस्तद्वचनं श्रुत्वा ह्यहं च करुणायुतः॥ ७२.४१ ॥

उवाच परमप्रीत्या विधिविष्णू प्रति स्वयम्।
ईश्वर्याः कामपूर्वायाः कवचं सुमनोहरम्॥ ७२.४२ ॥

बद्ध्वा शरीरे चाप्लाव्य पश्चाद् गच्छन्तु तां प्रति।
अहं निबद्धकवचस्तेनाहं मायया त्विह॥ ७२.४३ ॥

न बद्धो मम संसर्गात् तथा चेह बृहस्पतिः।
तस्माद् यूयं तु कवचं शृणुध्व वचनान्मम॥ ७२.४४ ॥

येन सौख्यात् समुत्प्लुत्य द्रक्ष्यामः परमेश्वरीम्।
ॐ कामाख्याकावचस्य ऋषिर्बृहस्पतिः स्मृतः॥ ७२.४५ ॥

देवी कामेश्वरी तस्य अनुष्टुप्छन्द इष्यते।
विनियोगः सर्वसिद्धौ तं च शृण्वन्तु देवताः॥ ७२.४६ ॥

शिरः कामेश्वरी देवी कामाख्या चक्षुषी मम।
सारदा कर्णयुगलं त्रिपुरावदनं तथा॥ ७२.४७ ॥

कण्ठे पातु महामाया हृदि कामेश्वरी पुनः।
कामाख्या जठरे पातु शारदा मां तु नाभितः॥ ७२.४८ ॥

त्रिपुरा पार्श्वयोः पातु महामाया तु मेहने।
गुदे कामेश्वरी पातु कामाख्योरुद्वये तु माम्॥ ७२.४९ ॥

जानुनोः शारदा पातु त्रिपुरा पातु जङ्घयोः।
महामाया पादयुगे नित्यं रक्षतु कामदा॥ ७२.५० ॥

केशे कोटेश्वरी पातु नासायां पातु दीर्घिका।
भैरवी दन्तसंघाते मातंग्यवतु चाङ्गयोः॥ ७२.५१ ॥

बाह्वोर्मां ललिता पातु पाण्योस्तु वनवासिनी।
विन्ध्यवासिन्यङ्गुलिषु श्रीकामा नखकोटिषु॥ ७२.५२ ॥

रोमकूपेषु सर्वेषु गुप्तकामा सदावतु।
पादाङ्गुलिपार्ष्णिभागे पातु मां भुवनेश्वरी॥ ७२.५३ ॥

जिह्वायां पातु मां सेतुः कः कण्ठाभ्यन्तरेऽवतु।
लः पातु चान्तरे वक्ष हः पातु जठरान्तरे॥ ७२.५४ ॥

सामीन्दुः पातु मां वस्ताविन्दुबिन्द्वन्तरेऽवतु।
तकारस्त्वचि मां पातु रकारोऽस्थिषु सर्वदा॥ ७२.५५ ॥

लकारः सर्वनाडीषु ईकारः सर्वसन्धिषु।
चन्द्रः स्नायुषु मां पातु विन्दुमज्जासु सन्ततम्॥ ७२.५६ ॥

पूर्वस्यां दिशि चाग्नेय्यां दक्षिणे नैर्ऋते तथा।
वारुणे चैव वायव्यां कौबेरे हरमन्दिरे॥ ७२.५७ ॥

अकाराद्यास्तु वैष्णव्या अष्टौ वर्णास्तु मन्त्रगाः।
पान्तु तिष्ठन्तु सततं समुद्भवविवृद्धये॥ ७२.५८ ॥

ऊद्र्ध्वाधः पातु सततं मां तु सेतुद्वयं सदा।
नवाक्षराणि मन्त्रेषु शारदामन्त्रगोचरे॥ ७२.५९ ॥

नवस्वरं तु मां नित्यं नासादिषु समन्ततः।
वातपित्तकफेभ्यस्तु त्रिपुरायास्तु त्र्यक्षरम्॥ ७२.६० ॥

नित्यं रक्षतु भूतेभ्यः पिशाचेभ्यस्तथैव च।
तत्सेतू सततांपातां क्रव्याद्भ्यो मान्निवारकौ॥ ७२.६१ ॥

नमः कामेश्वरी देवीं महामायां जगन्मयीम्।
या भूत्वा प्रकृतिर्नित्यं तनोति जगदाद्यताम्॥ ७२.६२ ॥

कामाख्यामक्षमालाभयवरदकरां सिद्धसूत्रैकहस्तांश्वेतप्रेतोपरिस्थां मणिकनकयुतां कुङ्कुमापीतवर्णाम्।
ज्ञानध्यानप्रतिष्ठामतिशयविनयांब्रह्मशक्रादिवन्द्यामग्नौ बिन्द्वन्तमन्त्रप्रियतमविषयां नौमि सिद्ध्यै रतिस्थाम्॥ ७२.६३ ॥

मध्ये मध्यस्य भागे सततविनमिता भावहावावलीयालीला लोकस्य कोष्ठे सकलगुणयुता व्यक्तरूपैकनम्रा।
विद्याविद्यैकशान्ता समनशमकरी क्षेमकर्त्री वरास्या नित्यं पातात् पवित्रप्रणववरकरा कामपूर्वैस्वरी नः॥ ७२.६४ ॥

इति हरकवचंतनुस्थितं शमयति वै शमनं तथा यदि।
इह गृहाण यतस्व विमोक्षणे सहित एष विधिः सह चामरैः॥ ७२.६५ ॥

इत्ययं कवचं यस्तु कामाख्यायाः पठेद् बुधः।
सकृत् तं तु महादेवी त्वनुव्रजति नित्यदा॥ ७२.६६ ॥

नाधिव्याधिभयं तस्य न क्रव्याद्भ्यो भयं तथा।
नाग्नितो नापितोयेभ्यो न रिपुभ्यो न राजतः॥ ७२.६७ ॥

दीर्घायुर्बहुभोगी च पुत्रपौत्रसमन्वितः।
आवर्तयञ्छतं देवी-मन्दिरे मोदते परे॥ ७२.६८ ॥

यथा तथा भवेद् बद्धः संग्रामेऽन्यत्र वा बुधः।
तत् क्षणादेव मुक्तः स्यात् स्मरणात् कवचस्य तु॥ ७२.६९ ॥

ईश्वर उवाच
इति श्रुत्वा तु कवचं हरिर्ब्रह्मा सुरास्तथा।
शक्रोऽपि कवच देहे न्यासं चक्रुः पृथक् पृथक्॥ ७२.७० ॥

ते तु विन्यस्तकवचा महामायाप्रभावतः।
उत्प्लुप्य सागरस्याम्भ आसेदुः क्षितिमञ्जसा॥ ७२.७१ ॥

आसाद्य पृथिवीं सर्वे ब्रह्मविष्णवादयः सुराः।
नीलकूटं समासाद्यकामाख्यां द्रष्टुमागताः॥ ७२.७२ ॥

दृष्ट्वा कामेश्वरीं देवी केशवस्तां जगन्मयीम्।
इदमाह स्वयं ज्ञात्वा प्रभावं तत् प्रतिष्ठितम्॥ ७२.७३ ॥

त्वमेव प्रकृतिर्देवी त्वमेव पृथिवी जलम्।
त्वमेव जगतां माता त्वमेव च जगन्मयी॥ ७२.७४ ॥

त्वं कर्त्री सर्वजगतां विद्या त्वं मुक्तिदायिनी।
परापरात्मिका देवी स्थूलसूक्ष्मात्मिका तथा॥ ७२.७५ ॥

प्रसीद त्वं महादेवी प्रसन्नायां शुभे त्वयि।
देवाः सर्वे प्रसीदन्ति चतुर्वर्गप्रदेऽनघे॥ ७२.७६ ॥

प्रत्यक्षरूपा कामाख्या केशवस्य महात्मनः।
प्रत्यक्षरूपा कामाख्या हरिमाभाष्य चाब्रवीत्॥ ७२.७७ ॥

देव्युवाच
केशव ब्रह्मणा सार्धं सर्वैर्देवैस्तथा गणैः।
मद्योनिसलिलेष्वद्य स्नानं पानं कुरु द्रुतम्॥ ७२.७८ ॥

ततस्त्वं निरहङ्कारः परवीर्यसमन्वितः।
आरुह्य गरुडं याहि त्रिदिवं सह वेधसा॥ ७२.७९ ॥

एवमुक्तो महादेव्या केशवः सह वेधसा।
योनिमण्डलतोयेषु स्नानं पानं चकार ह॥ ७२.८० ॥

कृतप्लावास्ततो देवाः कृतस्नानश्च केशवः।
गता देव्याश्च सम्मत्या त्रिदिवं प्रति हर्षिताः॥ ७२.८१ ॥

गच्छन्तस्ते देवगणाः सहिताः केशवेन च।
ब्रह्मणा च तदाद्राक्षुः कामाख्यां तां वियद्गताम्॥ ७२.८२ ॥

नीलकूटसहस्राणि योनिभिः सह तद्गतै।
ऊर्ध्वाधोभागयोगेन ददृशुः संस्थितानि च॥ ७२.८३ ॥

तानि प्रत्येकतो देवा आरुह्यारुह्य तत्क्षणात्।
पपुः सस्नुः पूर्ववत् ते प्रीतिमापुस्तथातुलाम्॥ ७२.८४ ॥

निरामयास्तथा जग्मुर्विस्मयाक्लिष्टचेतनाः।
स्तुवन्तः प्रस्तुवन्तश्च कामाख्यायोनिमण्डलम्॥ ७२.८५ ॥

ततो देवगुरुं नत्वा मां स्तुत्वा च मया पुनः।
विसृष्टास्त्रिदिवं याता हर्षोत्फुल्लविलोचनाः॥ ७२.८६ ॥

माहात्म्यमीदृशं देव्याः कामाख्यायास्तु भैरव।
कवचं चेदृशं प्रोक्तं तत्त्वमासाद्य पुत्रक॥ ७२.८७ ॥

यथेष्टविनियोगेन तमासाद्य सुखी भव।
कामाख्यायाश्च माहात्म्यं किमन्यत् कथयामि ते।
यस्या योनिशिलायोगाल्लोहाद्या यान्ति स्वर्णताम्॥ ७२.८८ ॥

यद्योनिमण्डले स्नात्वा सकृत् पीत्वा च मानवः।
नेहोत्पत्तिमवाप्नोति परं निर्वाणमाप्नुयात्॥ ७२.८९ ॥


॥ इति श्रीकालिकापुराणे कामाख्याकवचमाहात्म्यवर्णनं नाम द्विसप्ततितमोऽध्यायः॥ ७२ ॥