।। त्रिसप्ततितमोऽध्यायः ।।
।।श्रीभगवानुवाच।।
मातृकान्यासमधुना शृणु वेताल भैरव।
येन देवत्वमायाति नरोऽपि विहितेन वै ।। ७३.१ ।।

वाग् ब्रह्माणीमुखा देव्यो मातृकाः परिकीर्तिताः।
तासां मन्त्राणि सर्वामि व्यञ्जनानि स्वरास्तथा।। ७३.२ ।।

चन्द्रबिन्दुप्रयुक्तानि सर्वकामप्रदानि च।
ऋषिस्तु मातृमन्त्राणां ब्रह्मैव परिकीर्तितः।। ७३.३ ।।

प्रोक्तश्छन्दश्च गायत्री देवता त सरस्वती।
शरीरशुद्धिमुख्ये तु सर्वकामार्थसाधने।। ७३.४ ।।

विनियोगः समुद्दिष्टो मन्त्राणां न्यूनपूरणे।
अकारेण समं कादिर्वर्गो यः प्रथमः स्मृतः।। २.७४.५ ।।

तैश्चन्द्रबिन्दुसंयुक्तैस्तत्रस्थैरक्षरैर्बहिः।
आकारं च तथोच्चार्य अङ्गुष्ठाभ्यां नमस्तथा।
प्रथमं मातृकामन्त्रमङ्गुष्ठद्वयतो न्यसेत्।। ७३.६ ।।

परे वर्गाः स्वरैः सार्धं ये वान्ये न्यासकर्मणि।
ते सर्वे चन्द्रबिन्दुभ्यां युक्ताः कार्यास्तु सर्वतः।। ७३.७ ।।

ह्रस्वेकारश्चवर्गेण दीर्घेकारान्तकेन तु।। ७३.८ ।।

तर्जन्योर्विन्यसेत् सम्यक् स्वाहान्तेन तु पूर्ववत्।
ह्रस्वोकारष्टवर्गेण दीर्घोकारान्तकेन तु।। ७३.९ ।।

मध्यमायुगले सम्यग्वषडन्तेन् विन्यसेत्।
एकारादितवर्गन्तु ऐकारान्तेन चैव हुम्।। ७३.१० ।।

न्यसेदनामिकायुग्मे नियतं तत्र भैरव।
ओकारादिपवर्गं तु औकारान्तमशेषतः।। ७३.११ ।।

वौष़न्तं कनिष्ठायां विन्यसेत् कार्यसिद्धये।
अंकारादियकारादिवर्गेण क्षान्तकेन तु।। ७३.१२ ।।

अइत्यन्तेन वलयोर्बिन्यसेत् पाणिपृष्ठयोः।
वषट्कारं शेषभागे अंगत्रन्यासे नियोजयेत्।। ७३.१३ ।।

हृदयादिषडङ्गेषु पूर्ववत् क्रमतो न्यसेत्।
अङ्गुष्ठाद्युक्तवर्गैस्तु क्रमात् षड्भिस्तथाविधैः।। ७३.१४ ।।

पुनस्तथा पादजानुसक्थिगुह्येषु पार्श्वयोः।
वस्तौ च विन्यसेन्मन्त्रान् क्रमात् पूर्ववदक्षरैः।। ७३.१५ ।।

बाह्वोः पाण्योस्तथा कट्यां नाभौ च जठरे तथा।
स्तनयोरपि विन्यासं तथा षड्भिः समाचरेत्।। ७३.१६ ।।

वक्त्रे च चिवुके गण्डे कर्णयोश्च ललाटके।
अंसे कक्षे च षड्वर्गैः पूर्ववन्न्यासमाचरेत।। ७३.१७ ।।

रोमकूपे ब्रह्मरन्ध्रे गुदे जङ्घायुगे तथा।
नखेषु पादपार्ष्ण्योश्च तथा पूर्ववदाचरेत्।। ७३.१८ ।।

एवं तु मातृकान्यासं यः कुर्यान्नरसत्तमः।
स सर्वयज्ञपूजासु पूतो योग्यस्तु जायते।। ७३.१९ ।।

नातः परतरं मन्त्रं विद्यते क्वचिदेव हि।
यत्सर्वकामदं पुण्यं चतुर्वर्गप्रदं परम्।। ७३.२० ।।

वाग्देवतां हृदि ध्यात्वा मूर्तिसर्वाक्षराणि च।
त्रिधा च मातृकामन्त्रैः सक्रमैश्च पिबेज्जलम्।। ७३.२१ ।।

स वाग्मी पणिडितो धीमान् जायते च वरः कविः।
चन्द्रबिन्दुसमायुक्तान् स्वरान् पूर्वं पठेद् बुधः।। ७३.२२ ।।

व्यञ्जनानि तु सर्वाणि केवलानि पठेत् ततः।
अकारादिक्षकारान्तान्येवं श्वासैश्च पूरकैः।। ७३.२३ ।।

जलं करतले गृह्य पठित्वाक्षरसंख्यकम्।
अभिमन्त्र्य तु तत् तोयं प्रथमं पूरकैः पिबेत्।। ७३.२४ ।।

कुम्भकेन द्वितीयं तु तृतीयन्त्वथ रेचकैः।
एवं सकृत् त्रिवारं तु पीत्वा तोयं विचक्षणः।। ७३.२५ ।।

दढाङ्गः पण्डितो भूयात् पुत्रपौत्रसमन्वितः।
त्रिसन्ध्यमथ पीत्वैव मातृकामन्त्रमन्त्रितम्।। ७३.२६ ।।

तोयं कवित्वमाप्नोति सर्वान् कामांस्तथैव च।
सततं कुरुते यस्तु मातृकामन्त्रमन्त्रितम्।। ७३.२७ ।।

तोयपानं महाभाग पूरकुम्भकरेचकैः।
स सर्वकामान् संप्राप्य पुत्रपौत्रसमृद्धिमान्।। ७३.२८ ।।

भूत्वा महाकविर्लोके बलवान् सत्यविक्रमः।
सर्वत्र वल्लभो भूत्वा चान्ते मोक्षमवाप्नुयात्।। ७३.२९ ।।

राजानमथवा राजपुत्रं भार्यामथापि वा।
वशीकरोति नचिरान्मातृकामन्त्रपानतः।। ७३.३० ।।

न्यासक्रमे क्रमः प्रोक्तो वर्गक्रम इहैव तु।
अक्षराणां क्रमेणाथ तोयपानं समाचरेत्।। ७३.३१ ।।

ये ये मन्त्रा देवतानामृषीणामथ रक्षसाम्।
ते मन्त्रा मातृकामन्त्रै नित्यमेव प्रतिष्ठिताः।। ७३.३२ ।।

सर्वमन्त्रमयश्चायं सर्ववेदमयस्तथा।
चतुर्वर्गप्रदश्चायं मातृकामन्त्र उच्यते।। ७३.३३ ।।

इति ते कथितं पुत्र मातृकान्यासमद्भुतम्।
विभागमथ मुद्राणां शृणु वेताल भैरव।। ७३.३४ ।।

।। इति श्रीकालिकापुराणे मातृकान्यासवर्णने त्रिसप्ततितमोऽध्यायः।। ७३ ।।