प्रमुखा विकल्पसूचिः उद्घाट्यताम्


।।और्व उवाच।।
ज्येष्ठ दशहरायां तु विष्णोरिष्टिं नृप शृणु।
येन वा विधिना कुर्यादिष्टिं विष्णोर्नृपः सदा।। ८८.१ ।।

प्रत्यब्दं पार्थिवः कुर्यात् प्रतिमां काञ्चनीं हरेः।
अन्यतेजीमयीं वापि दारवीं वा शिलामयीम्।। ८८.२ ।।

तां प्रतिष्ठाप्य विधिना मानोन्मानैस्तु सिल्पिभिः।
प्रतिष्ठां विधिवत् तस्याः कुर्याद् विप्रैः पुरोहितैः।। ८८.३ ।।

तां संस्थाप्य सुरागारे स्वयं वा यत्नतः कृते।
वासुदेवस्य बीजेन पूर्वोक्तविधिना तथा।। ८८.४ ।।

सर्वोपचारैर्भक्त्या नु वासुदेवं प्रपूजयेत्।
पूजान्ते संस्कृते वह्नौ कुण्डमध्ये स्थितो द्विजः।। ८८.५ ।।

आज्यैः सहस्रं जुहुयादाहुतीनां हरेः प्रियम्।
संपूज्य वासुदेवं तु होमं कृत्वा ततो द्विजः।। ८८.६ ।।

नृपस्यानुमते तां तु प्रतिमां मण्डलं नयेत्।
प्रतिमायाः कपोलौ द्वौ स्पृष्ट्वा दक्षिणपाणिना।। ८८.७ ।।

प्राणप्रतिष्ठां कुर्वीत तस्यां देवस्य वै हरेः।
कृतायां तु प्रतिष्ठायां प्राणानां नृपसत्तम।। ८८.८ ।।

विष्णुप्राणास्तां प्रतिमामायान्ति नियतं स्वयम्।
प्राणेष्वथागतेष्वस्यां देवत्वं नियतं भवेत्।। ८८.९ ।।

अकृतायां प्रतिष्ठायां प्राणानां प्रतिमासु च।
यथापूर्वं तथाभावः स्वर्णादीनां न विष्णुता।। ८८.१० ।।

अन्येषामपि देवानां प्रतिमास्वपि पार्थिव।
प्राणप्रतिष्ठा कर्तव्या तस्या देवत्वसिद्धये।। ८८.११ ।।

सुवर्णं तु सुवर्णं स्याच्छिला दारु तथा शिला।
अन्यच्च स्वस्वरूपं स्यात् प्राणस्थानमृते सदा।। ८८.१२ ।।

वासुदेवस्य बीजेन तद् विष्णोरित्यनेन च।
तथैवाङ्गाङ्गिमन्त्राभ्यां प्रतिष्ठामाचरेद्धरेः।। ८८.१३ ।।

तथैव हृदयेऽङ्गुष्ठं दत्त्वा शश्वच्च मन्त्रवित्।
एभिर्मन्त्रैः प्रतिष्ठाप्य हृदयेऽपि समाचरेत्।। ८८.१४ ।।

अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु यत्।
असौ देवत्वसंख्यायै स्वाहेति यजुरुच्चरन्।। ८८.१५ ।।

अङ्गमन्त्रैरङ्गिमन्त्रैर्वैदिकैरित्यनेन च।
प्राणप्रतिष्ठां सर्वत्र प्रतिमासु समाचरेत्।। ८८.१६ ।।

प्रतिमापूजने कुर्यादात्मन्यपि च मन्त्रवित्।
प्राणप्रतिष्ठां प्रथमं पूजाभागविशुद्धये।। ८८.१७ ।।

अस्मिन् प्राणप्रतिष्ठां तु प्रतिमापूजनादृते।
न कश्चित् तु बुधः कुर्यात् कृत्वा मृत्युमवाप्नुयात्।। ८८.१८ ।।

विष्णोरिष्टिमिमां कृत्वा दशम्यां पार्थिवोत्तमः।
तस्यामेव तु पूर्णायां प्रतिमां स्थापयेत् ततः।। ८८.१९ ।।

एवं दशहरायां तु कृत्वेष्टिं पार्थिवो हरेः।
सर्वान् कामानवाप्नोति निर्विघ्नोऽपि स जायते।। ८८.२० ।।

श्रीपंचम्यां श्रियं देवीं कुन्दैः संपूजयेत्सदा।
वासवं गजराजस्थमुपहारैस्तथोत्तमैः।। ८८.२१ ।।

लक्ष्म्यास्तन्त्रं महामन्त्रं वासवस्य पुरोदितम्।
अत्रापि पूजने ग्राह्यं मण्डलादि यथाक्रमम्।। ८८.२२ ।।

एवं कृते पूजने तु श्रीपंचम्यां विशेषतः।
श्रीयुतो नृपतिर्भूयान्न श्रीहानिमवाप्नुयात्।। ८८.२३ ।।

सदाचारविशेषोऽयं कथितस्तव पार्थिव।
निषेधे तु विशेषांश्च शृणु येन श्रियेष्यते।। ८८.२४ ।।

असंपूज्य तथा विष्णुँ शिवमग्निं पुरन्दरम्।
अदत्त्वा च तथा दानं न भुञ्जीत नृपः क्वचित्।। ८८.२५ ।।

हावयेदग्निहोत्रं तु नित्यमेव पुरोहितैः।
अकृत्वा चाग्निहोत्रं तु भुञ्जन्नरकमाप्नुयात्।। ८८.२६ ।।

नारक्षिते गृहे राजा रत्नदीपविवर्जिते।
स्वपेत् तथा स्त्रिया सार्धं न कदाचन् संविशेत्।। ८८.२७ ।।

भुक्त्वान्नं श्रीफलं नाद्यात् तथा धात्रीफलं नृपः।
बुद्धिक्षयकरा ह्योता माष आसवमृत्तिकाः।। ८८.२८ ।।

निम्बाटरूषच्युताश्च बुद्धिवृद्धिकरा मताः।
बुद्धिक्षयकरान् नित्यं त्वजेद्राजा च भोजने।। ८८.२९ ।।

भक्षयेदन्वहं बुद्धिवृद्धिहेतुं नृपोत्तमः।
न पर्यायविहीनं तु प्रारोहेदासनं नृपः।। ८८.३० ।।

न यानं न गजं नाश्वमारोहेद्धीनमासनैः।
नैकस्तु विचरेद्राजा कदाचिदपि निर्जने।। ८८.३१ ।।

मदहेतुं न भुंजीयात् कदाचिदपि भोजने।
कदाचिन्नापि सेवेत ह्यष्टम्यां मांसमैथुने।। ८८.३२ ।।

दर्शश्राद्धं गयाश्राद्धं तिलैस्तर्पणमेव च।
न जीवत्पितृको भूप कुर्यात् कृत्वाघमाप्नुयात्।। ८८.३३ ।।

न क्षेत्रजादींस्तनयान् राज्ये राजाभिषेचयेत्।
पितृणां शूद्धये नित्यमौरसे तनये सति।। ८८.३४ ।।

औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च।
गूढोत्पन्नोऽपविद्धश्च भागार्हास्तनया इमे।। ८८.३५ ।।

कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा।
स्वयंदत्तश्च दासश्च षडते पुत्रपांसुलाः।। ८८.३६ ।।

अभावे पूर्वपूर्वोषां परान् समभिषेचये।
पौनर्भवं स्वयंदत्तं दासं राज्ये न योजयेत्।। ८८.३७ ।।

दत्ताद्याश्चापि तनया निजगोत्रेण संस्कृताः।
आयान्ति पुत्रतां सम्यगन्यबीजसमुद्भवाः।। ८८.३८ ।।

पितुर्गोत्रेण यः पुत्रः संस्कृतः पृथिवीपतेः।
आचूडान्तं स पुत्रः न पुत्रतां याति चान्यतः।। ८८.३९ ।।

चूडाद्या यदि संस्कारा निजगोत्रेण संस्थिताः।
दत्ताद्यास्तनयास्ते स्युरन्यथा दास उच्यते।। ८८.४० ।।

ऊर्ध्वं तु पंचमाद् वर्षाद् दत्ताद्यांश्च सुतान्नृप।
गृहीत्वा पंचवर्षीयं पुत्रेष्टिं प्रथमं चरेत्।। ८८.४१ ।।

पौनर्भवं तु तनयं जातमात्रं समानयेत्।
कृत्वा पौनर्भवष्टोमं जातमात्रस्य तस्य वै।। ८८.४२ ।।

सर्वांस्तु कुर्यात् संस्कारान् जातकर्मादिकान्नरः।
कृते पौनर्भवष्टोमे सुतः पौनर्भवः स्मृतः।। ८८.४३ ।।

एकोद्दिष्टं पितुः कुर्यान्न श्राद्धं पार्वणादिकम्।
क्रीता या वनिता मूल्यैः सा दासीति निगद्यते।। ८८.४४ ।।

तस्यां यो जायते पुत्रो दासः पुत्रस्तु स स्मृतः।
न राज्ञो राज्यभाक् स स्याद् विप्राणां नापि श्राद्धकृत्।। ८८.४५ ।।

अधमः सर्वपुत्रेभ्यस्तं तस्मात् परिवर्जयेत्।
पुराणं धर्मशास्त्राणि संहिताश्च मुनीरिताः।। ८८.४६ ।।

नाध्यापयेन्नृपः शूद्रैर्विहितानि यदृच्छया।
यस्य राज्ये सदा शूद्राः पुराणं संहितां तथा।। ८८.४७ ।।

पठन्ति स्यात् स हीनायुः राजा राष्ट्रेण सान्वयः।
मोहाद् वा कामतः शूद्रः पुराणं संहितां स्मृतिम्।। ८८.४८ ।।

पठन्नरकमाप्नेति पितृभिः सह पापकृत्।
शूद्रेभ्यो विहितं यत् तु यश्च मन्त्र उराहृतः।। ८८.४९ ।।

तद्विप्रवचनाद् ग्राह्यं द्वयं शूद्रैः सदैव हि।
य योजयेन्नृपः शूद्रं व्यवहारस्य दर्शने।। ८८.५० ।।

नियोज्य तत्र तं भूपस्तामिस्रे तेन पच्यते।
हीनायुश्च भवेल्लोको राजा वापि सहायजः।। ८८.५१ ।।

काणं व्यङ्गमपुत्रं या नाभिज्ञमजितेन्द्रियम्।
न ह्रस्व व्याधितं वापि नृपः कुर्यात् पुरोहितम्।। ८८.५२ ।।

कृपणस्य घनं राजा न गृह्णीयात् कदाचन।
न द्विजानं तथा दद्याद् धनानि विपुलान्यपि।। ८८.५३ ।।

नारोहेत् कामुकोन्मत्तगजं राजा कदाचन।
आरुह्या कामुकस्तं तु परत्रेह विषीदति।। ८८.५४ ।।

अनायुष्यं न कुर्यात् तु कर्म भूपः कदाचन।
सततं चायुषो वृद्ध्यै यतेत सकलैर्धनैः।। ८८.५५ ।।

न क्रूरवारे नाष्टम्यां न षष्ठ्यां च नृपोत्तमः।
अञ्जनाभ्यञ्जने कुर्यात् ताम्बूलस्यापि भोजनम्।। ८८.५६ ।।

अतिसूक्ष्मं तथा पूर्णं ग्रहणं चन्द्रसूर्ययोः।
नालोकयेत् स्वयं राजा रक्तं सूर्यं तथैव च।। ८८.५७ ।।

उत्पातं जायते यत्तु दिव्यं भौमं च नाभसम्।
नेक्षेत यत्नान्नृपतिर्दृष्ट्वा नाद्यात् त्र्यहं पुनः।। ८८.५८ ।।

सर्वदा मङ्गलं रत्नं धारयेत् सह दूर्वया।
अवस्त्राच्छादितं गात्रं न विप्रेभ्यः प्रदर्शयेत्।। ८८.५९ ।।

न तोयेषु मखं पश्येन्नाद्यान्मांसानि पर्वसु।
नारोहयेत् खरं चोष्ट्रं न वामामपि गुर्विणीम्।। ८८.६० ।।

एवं नययुतो राजा चतुरङ्गं विवर्धयन्।
आत्मानं सततं रक्षन् सदा वीर्यं विवर्धयेत्।। ८८.६१ ।।

वीजक्षयकरन्नित्यं भक्ष्यं भोज्यं च पानकम्।
वर्जयेत् क्षारशाकाद्यान् बह्वम्लं बहुतिक्तकम्।। ८८.६२ ।।

कांस्य-राजतपात्रस्थं तोयं नद्याश्च वर्धनम्।
मूत्रवृद्धिकरं वीर्यक्षयकारि विवर्जयेत्।। ८८.६३ ।।

ताम्रायःस्वर्णशीसानां पात्रस्थं फलचर्मणोः।
शुक्रवृद्धिकरं तोयं तदुपासीत यत्नतः।। ८८.६४ ।।

सर्वमूलेषु कृत्येषु सदाचारेषु तिष्ठतः।
भुक्त्वेह विविधान् भोगानैन्द्रं स्थानं व्रजेत् परम्।। ८८.६५ ।।

।।मार्कण्डेय उवाच।।
एवमौर्वस्तु सगरं शशास मुनिपुङ्गवः।
शास्त्राणि चैव सर्वाणि सदाचारांश्च गृह्यकान्।। ८८.६६ ।।

बहुशः कथयामास सगराय महात्मने।
तन्नास्ति यत् पुरौर्वेण कथितं सगराय न।। ८८.६७ ।।

राजनितिः सतां नीतिर्यच्चान्यच्छास्त्रसम्भवम्।
संहितासु पुराणेषु यच्चागमचये स्थितम्।। ८८.६८ ।।

सर्वं शुश्राव सगरो मुखादौर्वस्य धीमतः।
तेषां तु कथितं किंचिदुद्धृत्य द्विजसत्तमाः।। ८८.६९ ।।

विष्णुधर्मोत्तरे पूर्वं मया रहसि भाषितम्।
राजनीति सदाचारं वेदवेदाङ्गसङ्गतम्।। ८८.७० ।।

रहस्यं सततं विष्णोर्विक्ष्ध्वं द्विजसत्तमाः।
यच्चान्नदितमन्यत्र गदितं वा ससंशयम्।। ८८.७१ ।।

संशयच्छेदनं तेषु युष्मभ्यं कथितं द्विजाः।
अनुक्तसंशयच्छेदि पुराणं कालिकाह्वयम्।
योऽभ्यसेत् सततं विप्रः स वेदानां फलं लभेत्।। ८८.७२ ।।

।। इति श्रीकालिकापुराणे अष्टाशीतितमोऽध्यायः।। ८८ ।।