कालिकापुराणम्/अध्यायः ९
कालिकापुराणम् नवमोऽध्यायः हरानुनयनम्
अथ कालिका पुराण अध्याय ९
(हर-प्रसादने पार्वती- तपवर्णनम् )
।। मार्कण्डेय उवाच ।।
बाल्यं व्यतीत्य सा प्राप यौवनं शोभनं ततः ।
अतीव रूपेणांगेन सर्वाङ्गसुमनोहरा ।।१।।
तां वीक्ष्य दक्षो लोकेशः प्रोद्भिन्नान्तर्वयः स्थिताम् ।
चिन्तयामास भर्गाय कथं दास्य इमां सुताम् ।।२।।
अथ सापि स्वयं भर्गं प्राप्तुमैच्छत्तदान्वहम् ।
आराधयामास च तं गृहे मातुरनुज्ञया ।। ३॥
आश्विने नन्दकाख्यायां लवणैः सगुडोदनैः ।
पूजयित्वा हरं पश्चाद्ववन्दे सा निनाय तत् ।।४।।
कार्तिकस्य चतुर्दश्यां सापूपैः पायसैर्हरम् ।
समाकीर्णै: समाराध्य सस्मार परमेश्वरम् ॥५॥
कृष्णाष्टम्यां मार्गशीर्षे सतिलैः सयवोदनैः ।
पूजयित्वा हरं नीलैर्निनाय दिवसं पुनः ॥६॥
पौषे तु कृष्णसप्तम्यां कृत्वा जागरणं निशि ।
अपूजयच्छिवं प्रातः कृसरान्नेव सा सती ।।७।।
माघस्य पौर्णमास्यान्तु कृत्वा जागरणं निशि ।
आर्द्रवस्त्रा नदीतीरे ह्यकरोद्धरपूजनम् ।।८।
नानाविधैः फलैः पुष्पैः सम्यक् तत्कालसम्भवैः ।
चकार नियताहारं तं मासं हरमानसा ।।९।।
चतुर्दश्यां कृष्णपक्षे तपस्यस्य विशेषतः ।
कृत्वा जागरणं देवं विल्वपत्रैरपूजयत् ।।१०।।
चैत्रे शुक्लचतुर्दश्यां पलाशैः कुसुमैः शिवम् |
अपूजयद्दिवारात्रौ तं स्मरन्ती निनाय तम् ।।११।।
वैशाखस्य तृतीयायां शुक्लायां सयवोदनैः ।
पूजयित्वा हरं देवं हव्यैर्मासं चरन्त्यनु ।
निनाय सा निराहारा स्मरन्ती वृषवाहनम् ।। १२ ।।
ज्येष्ठस्य पूर्णिमारात्रौ सम्पूज्य वृषवाहनम् ।
वसनैर्वृहतीपुष्पैर्निराहारा निनाय ताम् ।।१३।।
आषाढस्य चतुर्दश्यां शुक्लायां कृत्तिवाससः ।
वृहतीकुसुमैः पूजा देवस्याकारि वै तया ।। १४ ।।
श्रावणस्य सिताष्टम्यां चतुर्दश्याञ्च सा शिवम् ।
यज्ञोपवीतैर्वासोभिः पवित्रैरप्यपूजयत् ।।१५।।
भाद्रे कृष्णत्रयोदश्यां पुष्पैर्नानाविधैः फलैः ।
सम्पूज्याथ चतुर्दश्यां चकार जलभोजनम् ।। १६ ।।
इति व्रतं यदारब्धं पुरा सत्या तदैव तु ।
सावित्रीसहितो ब्रह्मा जगामाथ हरान्तिकम् ।।१७।।
वासुदेवोऽपि भगवान् सह लक्ष्म्या तदन्तिकम् ।
प्रस्थं हिमवतः शम्भुः स्थितो यत्र गणैः सह ।। १८ ।।
तौ तु दृष्ट्वा ब्रह्मकृष्णौ सस्त्रीकौ संगतौ हरः ।
यथोचितं समाभाष्य पप्रच्छागमनं तयोः ।। १९ ।।
तथाविधांस्तु तान् दृष्ट्वा दाम्पत्यभावसंयुतान् ।
काञ्चिदीहाञ्च मनसा चक्रे दारपरिग्रहे ॥२०॥
अथागमनहेतुं नः कथयध्वञ्च तत्त्वतः ।
किमर्थमागता यूयं किं कार्यं वोऽत्र विद्यते ।।२१।।
इति पृष्टो त्र्यम्बकेण ब्रह्मा लोकपितामहः ।
उवाच च महादेवं विष्णुना परिचोदितः ।। २२ ।।
।। ब्रह्मोवाच ।।
यदर्थमागतावावां तच्छृणुस्व त्रिलोचन ।
विशेषतश्च देवार्थं विश्वार्थञ्च वृषध्वज ॥२३॥
अहं सृष्टिरतः शम्भो स्थितिहेतुस्तथा हरिः ।
अन्तहेतुर्भवानस्य जगत: प्रतिसर्गकम् ।। २४ ।।
तत्कर्मणि सदैवाहं भवद्भ्यां सहितो ह्यलम् ।
हरिः स्थितावपि तथा मयालं भवता सह ।
त्वमन्तकरणे शक्तो विना नावां भविष्यसि ।। २५ ।।
तस्मादन्योन्यकृत्येषु सर्वेषां वृषभध्वज ।
साहाय्यं नः सदा योग्यमन्यथा न जगद्भवेत् ।। २६ ।।
केचिद्भविष्यन्त्यसुरा मम वध्या महेश्वर ।
अपरे तु हरेर्वध्या भवतोऽपि तथापरे ।। २७ ।।
केचित्तद्वीर्यजातस्य केचिन्मेंऽशभवस्य वै ।
मायायाः केचिदपरे वध्याः स्युर्देववैरिणः ।। २८ ।।
योगयुक्ते त्वयि सदा रागद्वेषादिवर्जिते ।
दयामात्रैकनिरते न वध्या असुरास्तव ।। २९ ।।
अबाधितेषु तेष्वीश कथं सृष्टिस्तथा स्थितिः ।
अन्तश्च भविता युक्तं नित्यं नित्यं वृषध्वज ।। ३० ।।
सृष्टिस्थित्यन्तकर्माणि न कार्याणि यदा हर ।
शरीरभेदमस्माकं मायायाश्च न युज्यते ।। ३१ ।।
एकस्वरूपा हि वयं भिन्ना कार्यस्य भेदतः ।
कार्यभेदो न सिद्धश्चेद्रूपभेदोऽप्रयोजनः ।। ३२ ।।
एक एव त्रिधा भूत्वा वयं भिन्नस्वरूपिणः ।
भूता महेश्वर इति तत्त्वं विद्धि सनातनम् ।।३३।।
मायापि भिन्नरूपेण कमलाख्या सरस्वती ।
सावित्री चाथ सन्ध्या च भूता कार्यस्य भेदतः ।। ३४ ।।
प्रवृत्तेरनुरागस्य नारी मूलं महेश्वर ।
रामापरिग्रहात् पश्चात् कामक्रोधादिकोद्भवः ।।३५।।
अनुरागे तु सञ्जाते कामक्रोधादिकारणे ।
विरागहेतुं यत्नेन सान्त्वयन्तीह जन्तवः ।। ३६ ।
संग: प्रथम एव स्याद्रागवृक्षात् फलं महत् ।
तस्मात् संजायते कामः कामात् क्रोधस्ततो भवेत् ।। ३७ ।।
वैराग्यञ्च निवृत्तिश्च शोकात् स्वाभाविकादपि ।
संसारविमुखे हेतुरसंगश्च सदातनः ।। ३८ ।।
दया तत्र भवेन्नित्यं शान्तिश्चापि महेश्वर ।
अहिंसा च तपः शान्तिर्ज्ञानमार्गानुसाधनम् ।। ३९ ।।
त्वयि तावत्तपोनिष्ठे विसंगिनि दयायुते ।
अहिंसा च तथा शान्तिः सदा तव भविष्यति ।। ४० ।।
ततो सुखविधौ यत्नस्तव कस्माद्भविष्यति ।
अकृते दूषणं यद्यत्तत् सर्वं कथितं तव ।।४१ ।।
तस्माद्विश्वहिताय त्वं देवानाञ्च जगत्पते ।
परिगृह्णीष्व भार्यार्थे वामामेकां सुशोभनाम् ।।४२।।
यथा पद्मालया विष्णोः सावित्री च यथा मम ।
तथा सहचरी शम्भोर्या स्यात्त्वं गृह्ण सम्प्रति ।। ४३ ।।
।। मार्कण्डेय उवाच ।।
इति श्रुत्वा वचस्तस्य ब्रह्मणः पुरतो हरेः ।
तदा जगाद लोकेशं स्मितार्द्दितमुखो हरः ।।४४।।
।। ईश्वर उवाच ।।
एवमेव यथात्थ त्वं ब्रह्मन् विश्वनिमित्ततः ।
न स्वार्थतः प्रवृत्तिर्मे सम्यग् ब्रह्मविचिन्तनात् ।। ४५ ।।
तथापि यत्करिष्यामि तत्ते वक्ष्ये जगद्धितम् ।
तच्छृणुष्व महाभाग युक्तमेव वचो मम ।। ४६ ।।
या मे तेजः समर्था स्याद् ग्रहीतुमिह भागशः ।
तां निदेशय भार्यार्थे योगिनीं कामरूपिणीम् ।।४७।।
योगयुक्ते मयि तथा योगिन्येव भविष्यति ।
कामासक्ते मयि पुनर्मोहिन्येव भविष्यति ।
तां मे निदेशय ब्रह्मन् भार्यार्थे वरवर्णिनीम् ।।४८ ।।
यदक्षरं वेदविदो निगदन्ति मनीषिणः ।
ज्योतिः स्वरूपं परमं चिन्तयिष्ये सनातनम् ।। ४९ ।।
तच्चिन्तायां सदा शक्तो ब्रह्मन् गच्छामि भावनाम् ।
तत्र या विघ्नजननी न भवित्रीह सास्तु मे ।।५०।।
त्वं वा विष्णुरहं वापि परब्रह्मस्वरूपिणः ।
अङ्गभूता महाभाग योग्यं तदनुचिन्तनम् ।। ५१ ।।
तच्चिन्तया विना नाहं स्थास्यामि कमलासन ।
तस्माज्जायां प्रादिशस्व मत्कर्मानुगतां सदा ।। ५२ ।।
।। मार्कण्डेय उवाच ॥
इति तस्य वचः श्रुत्वा ब्रह्मा सर्वजगत्पतिः ।
सस्मितं मोदितमना इदं वचनमब्रवीत् ।। ५३ ।।
।। ब्रह्मोवाच ।।
अस्तीदृशी महादेव मार्गिता यादृशी त्वया ।।५४।।
दक्षस्य तनया याभूत् सती नाम्नी सुशोभना ।
सैवेदृशी भवद्भार्या भविष्यति सुधीमती ।। ५५ ।।
तां त्वदर्थे तपस्यन्तीं तत्प्राप्तिं प्रतिकामिनीम् ।
विद्धि त्वं देवदेवेश सर्वेष्वात्मसु वर्तसे ।।५६।।
।। मार्कण्डेय उवाच ।।
अथ ब्रह्मवच: शेषे भगवान् मधुसूदनः ।
यदुक्तं ब्रह्मणा सर्वं तत् कुरुष्वेत्युवाच सः ।।५७।।
करिष्ये इति तेनोक्ते स्वेष्टं देशं प्रजग्मतुः ।
हरिब्रह्मा च मुदितौ सावित्री कमला- युतौ ।।५८।।
कामोऽपि वाक्यानि हरस्य श्रुत्वा चामोदयुक्तो रतिना समित्रः ।
शम्भुं समासाद्य विविक्तरूपी तस्थौ वसन्तं विनियोज्य शश्वत् ।। ५९ ।।
॥ श्रीकालिकापुराणे हरानुनयनो नाम नवमोऽध्यायः ॥ ९ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand