मार्कण्डेय उवाच
वेतालस्य च सन्तानं शृण्वन्तु मुनिसत्तमाः।
यच्छ्रुत्वा सर्वपापेभ्यस्तत्क्षणादेव हीयते।। ९०.१ ।।

दक्षस्य तनया चाभूत् सुरभिर्नाम नामतः।
गवां माता महाभागा सर्वलोकोपकारिणी।। ९०.२ ।।

तस्यां तु तनया जज्ञे कश्यपात् तु प्रजापतेः।
नाम्ना सा रोहिणी शुभ्रा सर्वकामदुघा नृणाम्।। ९०.३ ।।

तस्यां जज्ञे शुनःशेफान्मुनेरतितपोधनात्।
कामधेनुरिति ख्याता सर्वलक्षणसंयुता।। ९०.४ ।।

सा सिताभ्रप्रतीकाशा चतुर्वेदचतुष्पदा।
स्तनैश्चतुर्भिर्धर्मार्थकामप्रसवकारिणी।। ९०.५ ।।

सा सुवर्णशरीरा तु कालेन महता सती।
निर्मलं यौवनं प्राप कामधेनुर्मनोहरम्।। ९०.६ ।।

तां चरन्तीं मेरुपृष्ठे चारुरूपां सुलभणाम्।
ददर्श स तु वेतालः कामुकश्चाभ्यपद्यत।। ९०.७ ।।

तं कामुकं च वेतालं विदित्वा कामधेनुका।
पशुधर्मात् स्वयं भेजे तं पुत्रं शशभृद्भृतः।। ९०.८ ।।

सोऽवाप तस्यां परममामोदं शङ्करात्मजः।
सा चापि परमां तस्मिन् मुदमापातिहर्षिता।। ९०.९ ।।

तयोः प्रवृत्ते सुरते तस्यां गर्भोऽभवत् तदा।
काले प्राप्ते तु सुषुवे कामधेनुर्महावृषम्।। ९०.१० ।।

सोऽचिरेणैव कालेन सुमहान् वृषभोऽभवत्।
महाककुदसंयुक्तश्चारुशृङ्गसमन्वितः।। ९०.११ ।।

उत्क्षिप्य विचलत्-कर्णयुगलो दीर्घबालधिः।
ककुदेन च शृङ्गाभ्यां कर्णाभ्यां स सिताभ्रवत्।। ९०.१२ ।।

विचलन् ददृशे देवैः शृङ्गैरिव सिताचलः।
वेतालस्त्वकरोत् तस्य नाम शृङ्ग इति द्विजाः।। ९०.१३ ।।

स तु शृङ्गो ज्ञानशाली समाराधयदीश्वरम्।
सोऽपि तुष्टो वरं तस्मै ददाविष्टं हरः प्रभुः।। ९०.१४ ।।

तमेव वाहनं चक्रे कृत्वा देवतनुं वृषम्।
सुचिरायुश्च बलवान् पृथिवीधारणे क्षमः।। ९०.१५ ।।

शृङ्गो नाम महातेजाः केतुः सोऽप्यभवत् प्रभोः।
शृङ्गो भूत्वा मतो यस्माच्छङ्करस्य महात्मनः।। ९०.१६ ।।

अतः शृङ्ग इति ख्यातिमथ प्राह महेश्वरः।
स तु शृङ्गो महादेवे ध्यानासक्ते क्वचित् क्वचिद्।। ९०.१७ ।।

वरुणस्य गृहं गत्वा सुरभेस्तनयास्तु याः।
रूपयौवनसम्पन्ना भेजेऽलं सुरतेन ताः।। ९०.१८ ।।

वरुणस्य गृहे गावः सर्वलक्षणसंयुताः।
तिष्ठन्ति सततं विप्रास्तासु तास सुताः पुनः।। ९०.१९ ।।

वह्व्यस्तु च समुत्पन्नास्तेषां सूतिप्रसूतिभिः।
सर्वं जगदिदं व्याप्तं तेभ्यो यज्ञं प्रवर्तते।। ९०.२० ।।

आज्येन देवास्तुष्यन्ति यज्ञा आज्ये प्रतिष्ठिताः।
यज्ञाघीनमिदं सर्वं जगत् स्थावरजङ्गमम्।। ९०.२१ ।।

तदाज्यं तु गवाधीनं ततः सर्वं गवि स्थितम्।
तदिदं सकलं विश्वं गवाधीनं द्विजोत्तमाः।। ९०.२२ ।।

वेतालस्य च ता गावो वंश्याः सर्वप्रियाः सदा।
य इदं शृणुयान्नित्यं वेतालस्य महात्मनः।। ९०.२३ ।।

वंशानां जन्म विप्रेन्द्राः स सुखी बलवान् भवेत्।
न गावो नापि विभवास्तस्यं नश्यन्ति वै क्वचित्।। ९०.२४ ।।

न च भूतपिशाचाद्यास्तं पश्यन्ति कदाचन।
वेतालः सततं तस्य रक्षामाचरति स्वयम्।। ९०.२५ ।।

इति वः कथितं विप्रा यथा वेतालभैरवौ।
जनयामासतुः पुत्रान् विच्छिन्नाः संशयाश्च वः।। ९०.२६ ।।

यथा च कालिका देवी मोहयामास शंकरम्।
यथोत्पन्ना शरीरार्धं कृतं शम्भोर्यथा तथा।। ९०.२७ ।।

कालिकायै नमस्तुभ्यमिति यो भाषते स्वयम्।
तस्य हस्ते स्थिता मुक्तिस्त्रिवर्गस्तु वशानुगः।। ९०.२८ ।।

इति वः कथितं पुण्यं पुराणं कालिकाह्वयम्।
मन्त्रयन्त्रमयं शुद्धं ज्ञानदं कामदं परम्।। ९०.२९ ।।

इति गुह्यतमं लोके वेदेषु च तथा द्विजाः।
देवगन्धर्वसिद्धाद्यैः स्पृहणीयमिदं सदा।। ९०.३० ।।

अधीतं च श्रुतं मत्तो वसिष्ठेन महात्मना।
इदं पुराणममृतं कालिकाह्वयमुत्तमम्।। ९०.३१ ।।

तेन गुप्तमिदं सर्वं कामरूपे सुरालये।
तमिदानीं समाख्यातं व्यक्तीकत्य महर्षयः।। ९०.३२ ।।

युस्माभिरपि नो देय गोप्यं लोकेषु सर्वदा।
शठाय चलचिंत्ताय नास्तिकायाजितात्मने।। ९०.३३ ।।

भक्तिश्रद्धाविहीनाय न दातव्यं कदाचन।
इदं सकृत् पठेद् यस्तु पुराणं कालिकाह्वयम्।। ९०.३४ ।।

स कामानखिलान् प्राप्य शेषेऽमृतमवाप्नुयात्।
मन्दिरे लिखितं यस्य पुराणमिदमुत्तमम्।। ९०.३५ ।।

सदा तिष्ठति नो तस्य विघ्नः संजायते द्विजाः।
योऽधीतेऽहन्यहन्येतद् गुह्यं तन्त्रमिदं परम्।। ९०.३६ ।।

अधीताः सकला वेदास्तेनेह द्विजसत्तमाः।
तस्मान्नैवाधिकोऽन्योऽस्ति कृतकृत्यो विचक्षणः।। ९०.३७ ।।


स सुखी बल्लवाँल्लोके दीर्घायुरपि जायते।। ९०.३८ ।।

यो लोकमीशःसततं बिभर्ति यः पालयत्यन्तकर स्तथान्ते।
इदं समस्तं भ्रममभ्रमं वायदीयरूपं च नमोस्तु तस्मै।। ९०.३९ ।।

प्रधानपुरुषो यस्य प्रपञ्चो योगिनां हृदि।
यः पुराणाधिपो विष्णुः प्रसीदतु स वः शिवः।। ९०.४० ।।

यो हेतुरुग्रः पुरुषः पुराणः सनातनः शाश्वत ईश्वरः परः।
पुराणकृद् वेदपुराणवेद्यः प्रस्तौमि तन्नौमि पुराणशेषे।। ९०.४१ ।।

इति सकलजगद् बिभर्ति यासां मधुरिपुमोहकरी रमास्वरूपा।
रमयति च हरं शिवास्वरूपा वितरतु वो विभवं शुभानि माया।। ९०.४२ ।।


।। इति श्रीकालिकापुराणे नवतितमोऽध्याय।। ९० ।।


।। इति श्रीकालिकापुराणं समाप्तम् ।।