काव्यप्रकाशः/चतुर्थः उल्लासः

।। अथ चतुर्थ उल्लासः ।।


यद्यपि शब्दार्थयोर्निर्णये कृते दोषगुणालंकाराणां स्वरूपमभिधानीयम् तथापि धर्मिणि प्रदर्शिते धर्माणां हेर्माणां हेयोपादेयता ज्ञायत इति प्रथमं काव्यभेदान् आह। (सूदृ 39) अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद्ध्वनौ। अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् ।। 24 ।। लक्षणामूलगूढव्यङ्ग्यप्राधान्ये सत्येव, अविवक्षितं वाच्यं यत्र स "ध्वनौ" इत्यनुवादात् ध्वनिरिति ज्ञेयः। तत्र च वाच्यं व्कचिदनुपयुज्यमानत्वादर्थान्तरे परिणमितम्। यथा त्वामस्मि वच्मि विदुषां समवायोऽत्र तिष्ठति। आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत्।।23।। अत्र वचनादि, उपदेशादिरूपतया परिणमति। व्कचिदनुपपद्यमानतया, अत्यन्तं तिरस्कृतम्। यथा उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम्। विदधदीदृशमेव सदा सखे सुखितमास्स्व ततः शरदां शतम्।।24।। एतद् अपकारिणं प्रति विपरीतलक्षणया कश्विद्वक्ति।। (सूदृ 40) विवक्षितं चान्यपरं वच्यं यत्रापरस्तु सः। अन्यपरं व्यङ्ग्यनिष्ठम्।। एष च (सूदृ 41) कोऽप्यलयक्रमव्यङ्ग चो लक्ष्यव्यङ्ग्यक्रमः परः।। 25 ।। अलक्ष्येति। न खलु विभावानुभावव्यभिचारिण एब रसः। अपि तु रसस्तैः, इत्यस्तिक्रमः। स तु लाघवान्न लक्ष्यते।। अत्र (सूदृ 42) रसभावतदाभासभावशान्त्यादिरक्रमः। भिन्नो रसाद्यलंकारादलंकार्यतया स्थितः ।। 26 ।। आदिग्हणाद्भावोदयभावसंधिभावशबलत्वानि। प्रधानतया यत्र स्थितो रसादिस्तत्रालंकार्यः, यथोदाहरिष्यते। अन्यत्र तु प्रधाने वाक्यार्थे यत्राङ्गभूतो रसादिस्तत्र गुणीभूतव्यङ्गये रसवत्प्रेयऊर्जस्विसमाहितादयोऽलंकाराः। ते च गुणीभूतव्यङ्ग्याभिधाने, उदाहरिष्यन्ते।। तत्र रसस्वरूपमाह (सूदृ 43) कारणान्यथ कार्याणि सहकारीणि यानि च। रत्यादेः स्थायिनो लोके तानि चेन्नाठ्यकाव्ययोः ।। 27 ।। विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिणः। व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः ।। 28 ।। उक्तं हि भरतेन ""विभावानुभावव्यमिचारिसंयोगाद् रसनिष्पत्तिः"" इति। एतद्द्विवृण्वते। ""विभावैर्ललनोद्यानादि भिरालम्बनोद्दीपनकारणैः, रत्यादिको भावो जनितः, अनुभावैः कटाक्षभुजाक्षेपप्रभृतिभिः कार्यैः प्रतीतियोग्यः कृतः, व्यभिचारिमिर्निर्वेदादिभिः सहकारिमिरुपच#ितो मुख्यया वृच्या रामादावनुकार्ये तद्रूपतसंधानान्नर्तकेऽपि प्रतीयमानो रसः"" इति भट्टलोल्लटप्रभृतयः। राम एवायम् अयमेव राम इति "न रामोऽयम्" इत्यौत्तरकालिके बाधे रामोऽयमिति रामः स्याद्वा न वायमिति रामसदृशोऽयमिति च सम्यङ्भिथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणया चित्रतुरगादिन्यायेन रामोऽयमिति प्रतिपच्या ग्राह्ये नटे "सेयं ममाङ्गेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दृशोः। मनोरथश्रीर्मनसः शरीरिणी प्राणेश्वरी लोचनगोचरं गता ।।25।। दैवादहमद्य तया चपलायतनेत्रया वियुक्तश्व। अविरलविलोलजलदः कालः समुपागतश्वायम्"।।26।। इत्यादिकाव्यानुसंधानबलाच्छिक्षाभ्यासनिर्वर्तितस्वकार्यप्रकटनेन च नटेनैव प्रकाशितैः कारणकार्यसहकारिभिः कृत्रिमैरपि तथानभिमन्यमानैर्विभावादिशब्दव्यपदेश्यैः "संयोगात्" गम्यगमकभावरूपात् अनुमीयमानोऽपि वस्तुसौन्दर्यबलाद्रसनीयत्वेनान्यानुमीयमानविलक्षणः स्थायित#्वेन संभाव्यमानो रत्यादिर्भावस्तत्रासन्नपि सामाजिकानां वासनया चव्र्यमाणो रस इति श्रीशङ्कुकः। न ताटस्थ्येन नात्मगतत्वेन रसः प्रतीयते नोत्पद्यते नामिव्यज्यते, अपि तु काव्ये नाट्ये चाभिधातो द्वितीयेनन विभावादिसाधारणीकरणात्मना भावकत्वव्यापारेण भाव्यमानः स्थायी सच्वोद्रेकप्रकाशानन्दमयसंविद्विश्रान्तिसतच्वेन भोगेन भुज्यते, इति भट्टनायकः। लोके प्रमदिमिः स्थाय्यनुमानेऽभ्यासपाटववतां काव्ये नाट्ये च तैरेव कारणत्वादिपरिहारेण विभावनादिव्यापारव्च्वादलौकिकविभावादिशब्दव्यवहार्यैर्ममैवैते शत्रोरेवैते तटस्थस्यैवैते न ममैवैते न शत्रोरेवैते न तटस्थस्यैवैते, इति संबन्धविशेषस्वीकारपरिहारनियमानध्यवसायात् साधारण्येन प्रतीतैरभिव्यक्तः सामाजिकानां वासनात्मतया स्थितः स्थायी रत्यादिको नियतप्रमातृगतत्वेन स्थितोऽपि साधारणोपायबलात् तत्कालविगलितपरिमितप्रमातृभाववशोन्मिषितवेद्यान्तरसंपर्कशून्यापरिमितभावेन प्रमात्रा सकलसहृदयसंवादभाजा साधारण्येन स्वाकार इवाभिन्नोऽपि गोचरीकृतश्वव्र्यमाणतैकप्राणो विभावादिजीवितावधिः पानकरसन्यायेन चव्र्यमाणः पुर इव परिस्फुरन् हृदयमिव प्रविशन् सर्वाङ्गीणमिवालिङ्गन् अन्यत् सर्वमिव तिरोदधत् ब्रढद्धठ्ठड़14;नास्वादमिवानुबावयन् अलौकिकचमत्कारकारी शृङ्गारादिको रसः। स च न कार्यः। विभावादिविनाशेऽपि तस्य संभवप्रसङ्गात्। नापि ज्ञाप्यः सिद्धस्य तस्यासंभवात्। अपि तु विभावादिभिव्र्यज्जितश्वर्वणीयः। कारकज्ञापकाभ्यामन्यत् व्क दृष्टमिति चेत्, न व्कचिद्दृष्टमित्यलौकिकसिद्धेर्भूषणमेतन्न दूषणम्। चर्वणानिष्पच्या तस्य निष्पत्तिरुपचरितेति कार्योऽप्युच्यताम्। लौक#िकप्रत्यक्षादिप्रमाणताटस्थ्यावबोधशालिमितयोगिज्ञानवेद्यान्तरसंस्पर्शरहितस्वात्ममात्रपर्यवसितपरिमितेतरयोगिसंबेदनविलक्षणलोकोत्तरस्वसंवेदनगोचर इति प्रत्येऽप्यभिधीयताम्। तद्ग्राहकं च न निर्विकल्पकं विभावादिपरामर्शप्रधानत्वात्। नापि सविकल्पकं चव्र्यमाणस्यालौकिकानन्दमयस्य स्वसंवेदनसिद्धत्वात्। उभयाभावस्वरूपस्य चो भयात्मकत्वमपि पूर्ववल्लोकोत्तरतामेव गमयति न तु विरोधमिति श्रीमदाचार्याभिनवगुप्तपादाः।। व्याघ्रादयो विभावा भयानकस्येव वीराद्भुतरौद्राणाम् अश्रुपातादयोऽनुभावाः शृङ्गारस्येव करुणभयानकयोः, चिन्तादयो व्यभिचारिणः शृङ्गारस्येव वीरकरुणभयानकानामिति पृथगनैकान्तिकत्वात् सूत्रे मिलिता निर्दिष्टाः। वियदलिमलिनाम्बुगर्भमेघं मधुकरकोकिलकूजितैर्दिशां श्रीः। धरणिरभिनवाङ्कुराङ्कटङ्का प्रणतिपरे दयिते प्रसीद मुग्धे।।27।। इत्यादौ परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः क्रियासु। कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मी- मभिनवकरिदन्तच्छेदकान्तः कपोलः।।28।। दूरादुत्सुकमागते विवलितं संभाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने किंचाञ्जितभ्रूलतम्। मानिन्याश्वरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ।।29।। इत्यादौ च यद्यपि विभावानामनुभावानामौत्सुक्यव्रीडड्डत्ध्;ाहर्षकोपासूयाप्रसादानां च व्यभिचारिणां केवलानामत्र स्थितिः, तथाप्येतेषामसाधारणत्वमित्यन्यतमद्वयाक्षेपकत्वे सति नानैकन्तिकत्वमिति।। तद्विशेषानाह-- (सूदृ 44) शृढद्धठ्ठड़14;गारहास्यकरुणरौद्रवीरभयानकाः। बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः।। 29 ।। तत्र शृढद्धठ्ठड़14;गारस्य द्वौ भेदौ। संभोगो विप्रलम्भश्व। तत्राद्यः परस्परावलोकनालिङ्गनाधरपानपरिचुम्बनाद्यनन्तत्वादपरिच्छेद्य एक एव गण्यते। यथा शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनै- र्निद्राव्याजमुपागतस्य सुचिरं निर्वण्र्य पत्युर्मुंखम्। विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डड्डत्ध्;स्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ।। 30 ।। तथा त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणीं लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकासंस्पृशि। शय्योपान्तनिविष्टसस्मितसखीनेत्रोत्सवानन्दितो निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ।। 31 ।। अपरस्तु, अभिलाषविरहेष्र्याप्रवासशापहेतुक इति पञ्चविधः। क्रमेणोदाहरणम्-- प्रेमाद्र्राः प्रणयस्पृशः परिचयादुद्गाढरागोदया- स्तास्ता मुग्धदृशो निसर्गमधुराश्वेष्टा भवेयुर्मयि। यास्वन्तःकरणस्य वाह्यकरणव्यापाररोधी क्षणा- दाश्सापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ।। 32 ।। अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादृक् सुहद् यो मां नेच्छति नागतश्व हहहा कोऽयं विधेः प्रक्रमः। इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे बाला वृत्तविवर्तनव्यतिकरा नाप्नोति निद्रां निशि ।। 33 ।। एषा विरहोत्कण्ठिता। सा पुत्युः प्रथमापराधसमये सख्योपदेशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम्। स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ।। 34 ।। प्रस्थानं वलयैः कृतं प्रियसखैरस्रैरजस्रं गतं धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः। यातुं निश्वितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवित प्रियसुहृत्सार्थः किमु त्यज्यते ।। 35 ।। त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया- मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम्। अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ।। 36 ।। हास्यादीनां क्रमेणोदारहणम्-- आकुञ्व्य पाणिमशुचिं मम मूÐध्न वेश्या मन्त्राम्भसां प्रतिपदं पृषतैः पवित्रे। तारस्वनं प्रथितथूत्कमदात्प्रहारं हाहा हतोऽहमिति रोदिति विष्णुशर्मा ।। 37 ।। हा मातस्त्वरितासि कुत्र किमिदं हा देवताः क्काशिषः धिक् प्राणान् पतितोऽशनिर्हुतवहस्तेऽङ्गेषु दग्धे दृशौ। इत्थं घर्घरमध्यरुद्धकरुणाः पौराङ्गनानां गिर- श्वित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ।। 38 ।। कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः। नरकरिपुणा सार्धं तेषां सभीमकिरीटिना- मयमहमसृङ्मेदोमांसैः करोमि दिशां बलिम् ।। 39 ।। क्षुद्राः संत्रासमेते विजहत हरयः क्षुण्णशक्रेभकुम्भा युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः।। सौमित्रे तिष्ठ पात्रं त्वमसि न हि रुषां नन्वहं मेघनादः किंचिद्भ्रूभढद्धठ्ठड़14;गलीलानियमितजलधिं राममन्वेषयामि ।। 40 ।। ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः पश्वार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम्। दभैंरर्धावलीढैः श्रमविवृतमुखभ्रंशिमिः कीर्णवत्र्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुव्र्या प्रयाति ।। 41 ।। उत्कृत्योत्कृत्य कृतिं्त प्रथममथ पृथूत्सेधभूयांसि मांसा- न्यंसस्फिक्पृष्ठपिण्डड्डत्ध्;्याद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा। आत्र्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का- दढद्धठ्ठड़14;कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ।। 42 ।। चित्रं महानेष बतावतारः व्क कान्तिरेषाभिनवैव भङ्गिः। लोकोत्तरं धैर्यमहो प्रबावः काप्याकृतिर्नूतन एष सर्गः ।। 43 ।। एषां स्थायिभावानाह-- (सूदृ 33) रतिर्हासश्व सोकश्व क्रोधोत्साहौ भयं तथा। जुगुप्सा विस्मयश्वेति स्थायिभावाः प्रकीर्तिताः ।।30।। स्पष्टम्। व्यभिचारिणो ब्रूते-- (सूदृ 46) निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः। आलस्यं चैव दैन्य च चिन्ता मोहः स्मृतिर्धृतिः ।।31।। व्रीडड्डत्ध्;ा चपलता हर्ष आवेगो जडड्डत्ध्;ता तथा। गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ।।32।। सुप्तं प्रबोधोऽमर्षश्वाप्यवहित्थमथोग्रता। मतिव्र्याधिस्तथोन्मादस्तथा मरणमेव च ।।33।। त्रासश्वैव वितर्कश्व विज्ञेया व्यभिचारिणः। 6यÏस्त्रशदमी भावाः समाख्यातास्तु नामतः ।।34।। निर्वेदस्यामङ्गलप्रायस्य प्रथममनुपादेयत्वेऽप्युपादानं व्यमिचारित्वेऽपि स्थायिताभि धानार्थम्। तेन (सुदृ 47) निर्वेदस्थायिभङावोऽस्ति शान्तोऽपि नवमो रसः। यथा अहौ वा हारे वा कुसुमशयने वा दृषदि वा मणौ वा लोष्टे वा बलवति रिपौ वा सुदृदि वा। तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः व्कचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ।। 44 ।। (सूदृ 48) रतिर्देवादिविषया व्यभिचारी तथाञ्जितः ।।35।। भावः प्रोक्तः आदिशब्दान्मुनिगुरुनृपपुत्रादिविषया। कान्ताविषया तु व्यक्ता शृङ्गारः। उदाहरणम् कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम्। अप्युपात्तममृतं भवद्वपुर्भेदवृत्ति यदि मे न रोचते ।। 45 ।। हरत्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः। शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् ।। 46 ।। एवमन्यदप्युदाहार्यम्। अञ्जितव्यभिचारी यथा जाने कोपपराढद्धठ्ठड़14;भुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया मा मां संस्पृस पाणिनेति रुदती गन्तुं प्रवृत्ता पुरः। नो यावत्परिरभ्य चाटुशतकैराश्वासयामि प्रियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ।। 47 ।। अत्र विधिं प्रत्यसूया। (सूदृ 49) तदाभासा अनौचित्यप्रवर्तिताः। तदाभासा रसाभासा भावाभासाश्व। तत्र रसाभासो यथा स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेभे कः प्राणान् रणमखमुखे यं मृगयसे। सुलग्ने को जातः शशिमुखि यमालिढद्धठ्ठड़14;गसि बलात् तपःश्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ।। 48 । अत्रानेककामुकविषयमभिलाषं तस्याः स्तुम इत्याद्यनुगतं बहुव्यापारोपादानं व्यनक्ति। भावाभासो यथा राकासुधाकरमुखी तरलायताक्षी सा स्मेरयौवनतरङ्गिविभ्रमाङ्गी। तत् किं करोमि विदधे कथमत्र मैत्रीं तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः।। 49 ।। अत्र चिन्ता, अनौचित्यप्रवर्तिता। एवमन्येऽप्युदाहार्याः।। (सुदृ 50) भावस्य शान्तिरुदयः संधिः शबलता तथा ।।36।। क्रमेणोदाहरणम् तस्याः सान्द्रविलेपनस्तनतटप्र श्लेषमुद्राङ्कितं किं वक्षश्वरणानतिव्यतिकरव्याजेन गोपाय्यते। इत्युक्ते व्क तदित्युदीर्य सहसा तत् संप्रमाष्र्टुं मया साश्लिष्टा रभसेन तत्सुखवशात्तन्व्या च तद्विस्मृतम् ।। 50 ।। अत्र कोपस्य। एकस्मिञ् शयने विपक्षरमणीनामग्रहे मुग्धया सद्यो मानपरिग्रहग्लपितया चाटूनि कुर्वन्नपि। आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं माभूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ।। 51 ।। अत्रौत्सुक्यस्य। उत्सिक्तस्य तपःपराक्रमनिधेरब्यागमादेकतः सत्संगप्रियता च वीररभसोत्फालश्व मां कर्षतः। वैदैहीपरिरम्भ एष च मुहुश्वैतन्यमामीलयन् आनन्दी हरिचन्दनेन्दुशिशिरस्निग्धो रुणद्ध्यन्यतः ।। 52 ।। अत्रावेगहर्षयोः। व्काकार्यं शशलक्ष्मणः व्क च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय नःश्रुतमहो कोपेऽपि कान्तं मुखम्। किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थयमुपैहि कः खलु युवा धन्योऽधरं धास्यति ।। 53 ।। अत्र वितर्कौत्सुक्यमतिस्मरणशढद्धठ्ठड़14;कादैन्यधृतिचिन्तानां शबलता। भावस्थितिस्तूक्ता उदाहृता च।। (सूदृ 51) मुख्ये रसेऽपि तेऽङ्गित्वं प्राप्नुवन्ति कदाचन। ते भावशान्त्यादयः। अङ्गित्वं राजानुगतविवाहप्रवृत्तभृत्यवत्।। (सूदृ 52) अनुस्वानाभसंलक्ष्यक्रमव्यङ्ग्यस्थितिस्तु यः ।।37।। शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः। शब्दशक्तिमूलानुरणनरूपव्यङ्ग्यःष अर्थशक्तिमूलानुरणनरूपव्यङ्गयः उभयशक्तिमूलानुरणनरूपव्यङ्ग्यश्वेति त्रिविधः।। तत्र अलंकारोऽथ वस्त्वेव शब्दाद्यत्रावभासते ।।38।। (सूदृ 53) प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भ वो द्विधा। वस्त्वेवेति, अनलंकारं वस्तुमात्रम्। आद्यो यथा उल्लास्य कालकरवालमहाम्बुवाहं देवेन येन जरठोर्जितगर्जितेन। निर्वापितः सकल एव रणे रिपूणां धाराजलैस्त्रिजगति ज्वलितः प्रतापः ।। 54 ।। अत्र वाक्यस्यासंबद्धार्थाबिधायकत्वं मा प्रसाङ्क्षीदिति प्राकरणिकाप्राकरणिकयोरुपमानोपमेयभावः कल्पनीय इत्यत्रोपमालंकारो व्यङ्ग्यः। तिरमरुचिरप्रतापो विधुरनिशाकृद्विभो मधुरलीलः। मतिमानतच्ववृत्तिः प्रतिपदपक्षाग्रणीर्विभाति भवान् ।। 55 ।। अत्रैकैकस्य पदस्य द्विपदत्वे विरोधाभासः। अमितः समितः प्राप्तैरुत्कर्षैर्हर्षद प्रभो। अहितः सहितः साधुयशोभिरसतामसि ।। 56 ।। अत्रापि विरोधाभासः। निरुपादानसंभारमभित्तावेव तन्वते। जगच्चित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने ।। 57 ।। अत्र व्यतिरेकः। अलंकार्यस्यापि ब्राढद्धठ्ठड़14;नणश्रणणन्यायेनालंकारता। वस्तुमात्रं यथा पंथिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे। उण्णअपओहरं पेख्खिऊण जइ वससि ता वससु ।। 58 ।। अत्र यद्युपभोगक्षमोऽसि तदा, आस्स्वेति व्यज्यते। शनिरशनिश्व तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र यस्मै त्वम्। यत्र प्रसीदसि पुनः स भात्युदारोऽनुदारश्व ।। 59 ।। त्र अविरुद्धावपि त्वदनुवर्तनार्थमेकं कार्यं कुरुत इति ध्वन्यते। (सूदृ 54) अर्थशक्त्युद्भवोऽप्यर्थो व्यञ्जकः संभवी स्वतः ।।39।। प्रौढोक्तिमात्रात्सिद्धो वा कवेस्तेनोम्भितस्य वा। वस्तु वालंकृतिर्वेति षड्ड्डत्ध्;भेदोऽसौ व्यनक्ति यत् ।।40।। वस्त्वलंकारमथ वा तेनायं द्वादशात्मकः। स्वतःसंभवी न केवलं भणितिमात्रनिष्पन्नो यावब्दहिरप्यौचित्येन संभाव्यमानः। कविना प्रतिभाणमात्रेण बहिरसन्नपि निर्मितः कविनिबद्धेन वक्त्रेति वा द्विविधोऽपर इति त्रिविधः। वस्तु वालंकारो वासाविति षोढा व्यञ्जकः। तस्य वस्तु वालंकारो वा ब्यङ्ग्य इति द्वादशभङेदो।#़र्थशक्त्युद्भवो ध्वनिः। क्रमेणोदाहरणम्-- अलसशिरोपणि धुत्ताणं अग्गिमो पुत्ति धणसमिद्धिमओ। इअ भणिएण णअङ्गी पप्फुल्लविलोअणा जाआ ।। 60 ।। अत्र ममैवोपभोग्य इति वस्तुना वस्तु व्यज्यते। धन्यासि या कथयसि प्रियसंगमेऽरि विस्रब्धचाटुकशतानि रतान्तरेषु। नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदपि स्मरामि ।। 61 ।। अत्र त्वमधन्या, अहं तु धन्येति व्यतिरेकालंकारः। दर्पान्धगन्धगजकुम्भकपाटकूटसंक्रान्तिनिघ्नघनशोणितशोणशोचिः। वीरैव्र्यलोकि युधि कोपकषायकान्तिः कालीकटाक्ष इव यस्य करे कृपाणः ।। 62 ।। अत्रोपमालंकारेण सकलरिपुबलक्षयः क्षणात् करिष्यते, इति वस्तु। गाढकान्तदशनक्षतव्यथासंकटादरिवधूजनस्य यः। ओष्ठविद्रुमदलान्यमोचयन्निर्दशन् युधि रुषा निजाधरम् ।। 63 ।। अत्र विरोधालंकारेणाधरनिर्दशनसमकालमेव शत्रवो व्यापादिता इति तुल्ययोगिता मम क्षत्याप्यन्यस्य क्षतिर्निवर्ततामिति तद्बुद्धिरुत्प्रेक्ष्यते, इत्युत्प्रेक्षा च। एषूदाहरणेषु स्वतऋसंभवी व्यञ्जकः। कैलासस्य प्रथमशिखरे वेणुसंमूर्छनाभिः श्रुत्वा कीर्तिं विबुधरमणीगीयमानां यदीयाम्। स्रस्तापाङ्गाः सरसबिसिनीकाण्डड्डत्ध्;संजातशङ्का दिङ्मातङ्गाः श्रवणपुलिने हस्तमावर्तयन्ति ।। 64 ।। अत्र वस्तुना येषामप्यर्थाधिगमो नास्ति तेषामप्येवमादिबुद्धिजननेन चमत्कारं करोति त्वत्कीर्तिरिति वस्तु ध्वन्यते। केसेसु बलामोडिड्डत्ध्;अ तेण अ समरम्मि जअसिरी गहिआ। जह कन्दराहिं विहुरा तस्स दढं कंठअम्मि संठविआ ।। 65 ।। अत्र केशग्रहणावलोकनोद्दीपितमदना इव कन्दरास्तद्विधुरान् कण्ठे गृढद्धठ्ठड़14;णन्ति, इत्युत्प्रेक्षा। एकत्र संग्रामे विजयदर्शनात्तस्यारयः पलाय्य गुहासु तिष्ठन्तीति काव्यहेतुरलंकारः। न पराय्य गतास्तद्वैरिणोऽपि तु ततः पराभवं संभाव्य तान् कन्दरा न त्यजन्तीत्यपढद्धठ्ठड़14;नुतिश्व।गाढालिंगणरहसुज्जुअम्मि दइए लहुं समोसरइ। माणंसिणीण माणो पीलणभीअ व्व हिअआहिं ।। 66 ।। अत्रोत्प्रेक्षया प्रत्यालिङ्गनादि तत्र विजृम्भते, इति वस्तु। जा ठेरं व हसन्ता कइवअणंबुरुहबद्धविणिवेसा। दावेइ भुअणमंडड्डत्ध्;लमण्णं विअ जअइ सा वाणी ।। 67 ।। अत्रोत्प्रेक्षया चमत्कारैककारणं नवं नवं जगत् अजडड्डत्ध्;ासनस्था निर्मिमीते, इति व्यतिरेकः। एषु कव्प्रौढोक्तिमात्रनिष्पन्नो व्यञ्जकः। जे लंकागिरिमेहलासु खलिआ संभोगखिण्णोरई-- फारुप्फुल्लफणावलीकवलणे पत्ता दरिद्दत्तणम्। ते एÏङ्ण मलआनिला विरहिणीणीसाससंपक्किणो जादा झत्ति सिसुत्तणे वि बहला तारुण्णपुण्णा विअ ।। 68 ।। अत्र निःश्वासैः प्राप्तैश्वर्या वायवः किं किं न कुर्वन्तीति वस्तुना वस्तु व्यज्यते। सहि विरइऊण माणस्स मज्झ धीरत्तणेण आसासम्। पिअदंसणविहलंखलखणम्मि सहसत्ति तेण ओसरिअम् ।। 69 ।। अत्र वस्तुनाकृतेऽपि प्रार्थने प्रसन्नेति विभावना प्रियदर्शनस्य सौभाग्यबलं धैर्येण सोढुं न शक्यते, इत्युत्प्रेक्षा वा। ओल्लोल्लकरअरअख्खएहि तुह लोअणेसु मह दिण्णम्। रत्तंसुअं पआओ कोवेण पुणो इमे ण अक्कमिआ ।। 70 ।। अत्र किमिति लोचने कुपिते वहसि, इति, उत्तरालंकारेण न केवलमाद्र्रनखक्षतानि गोपायसि यावत्तेषामहं प्रसादपात्रं जातेति वस्तु। महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती। अणुदिणमणण्णकम्मा अङ्गं तणुअं वि तणुएइ ।। 71 ।। अत्र हेत्वलंकारेण "तनोस्तनूकरणेऽपि तव हृदये न वर्तते" इति विशेषोक्तिः। एषु कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो व्यञ्जकः। एवं द्वादश भेदाः।। (सूदृ 55) शब्दार्थो भयभूरेकः यथा अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा। तारकातरला श्यामा सानन्दं न करोति कम् ।। 72 ।। अत्रोपमा व्यङ्ग्या।। (सूदृ 56) भेदा अष्टादशास्य तत् ।।41।। अस्येति ध्वनेः।। ननु रसादीनां बहुभेदत्वेन कथमष्टादशेत्यत आह। (सूदृ 57) रसादीनामनन्तत्वाद्भेद एको हि गण्यते। अनन्तत्वादिति। तथाहि-नव रसाः। तत्र शृढद्धठ्ठड़14;गारस्य द्वौ भेदौ। संभोगो विप्रलम्भश्व। संभोगस्यापि परस्परावलोकनालिङ्गनपरिचुम्बनादिकुसुमोच्चयजलकेलिसूर्यांस्तमयचन्द्रोदयषड्ड्डत्ध्;ऋतुवर्णनादयो बहवो भेदाः। विप्रलम्भस्याभिलाषादय उक्ताः। तयोरपि विभावानुभावव्यभिचारिवैचित्र्यम#्। तत्रापि नायकयोरुत्तममध्यमाधमप्रकृतित्वम्। तत्रापि देशकालावस्थादिभेदा इत्येकस्यैव रसस्यानन्त्यम्। का गणना त्वन्येषाम्। असंलक्ष्यक्रमत्वं तु सामान्यमाश्रित्य रसादिध्वनिभेद एक एव गण्यते।। (सूदृ 58) वाक्ये द्वचुत्थः द्वयुत्थ इति शब्दार्थोभयशक्तिमूलः।। (सूदृ 59) पदेऽप्यन्ये अपिशब्दाद्वाक्येऽपि। एकावयवस्थितेन भूषणेन कामिनीव पदद्योत्येन व्यङ्ग्येन वाक्यव्यङ्ग्यापि भारती भासते। तत्र पदप्रकाश्यत्वे क्रमेणोदाहरणानि-- यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा। अनुकम्प्योऽनुकम्प्यश्व स जातः स च जीवति ।। 73 ।। (1) अत्र द्वितीयमित्रादिशब्दा आश्वस्तत्वनियन्त्रणीयत्वस्नेहपात्रत्वादिसंक्रमितवाच्याः। खलववहारा दीसन्ति दारुणा जहवि तहवि धीराणम्। हिअअवअस्सवहुमआ ण हु ववसाआ विमुज्झन्ति ।। 74 ।। (2) अत्र विमुह्यन्तीति। लावण्यं तदसौ कान्तिस्तुद्रूपं स वचःक्रमः। तदा सुधास्पदमभूदधुना तु ज्वरो महान् ।। 75 ।। अत्र तदादिपदैरनुभवैकगौचरा अर्थाः प्रकाश्यन्ते। यथा वा मुग्धे मुग्धतयैव नेतुमखिलः कालः किमारभ्यते मानं धत्स्व धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि। सख्यैवं शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ।। 76 ।। (3) अत्र भीताननेति। एतेन हि नीचैःशंसनविधानस्य युक्तता गम्यते। भावादीनां पदप्रकाश्यत्वेऽधिकं न वैचित्र्यमिति न तदुदाह्रियते। रुधिरविसरप्रसाधितकरवालकरालरुचिरभुजपरिघः। झटिति भ्रुकुटिविटङ्कितललाटपट्टो विभासि नृप भीम ।। 77 ।। (4) अत्र भीषणीयस्य भीमसेन उपमानम्। भूक्तिमुक्तिकृदेकान्तसमादेशनतत्परः। कस्य नानन्दनिस्यन्दं विदधाति सदागमः ।। 78 ।। (5) काचित् संकेतदायिनमेवं मुख्यया वृच्या शंसति। सायं स्नानमुपासितं महयजेनाङ्गं समालेपितं यातोऽस्ताचलमौलिमम्बरमणिर्विस्रब्धमत्रागतिः। आश्वर्यं तव सौकुमार्यमभितः क्लान्तासि येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्रोति ते नासितुम् ।। 79 ।। (6) अत्र वस्तुना कृतपुरुषपरिचया क्लान्तासीति वस्तु, अधुनापदद्योत्यं व्यज्यते। तदप्राप्तिमहादुःखविलीनाशेषपातका। तच्चिन्ताविपुलाढद्धठ्ठड़14;लादक्षीणपुण्यचया तथा ।। 80 ।। चिन्तयन्ती जगत्सूतिं परब्रढद्धठ्ठड़14;नस्वरुपिणम्। निरुच्छ्वासतया मुकिं्त गतान्या गोपकन्यका ।। 81 ।। (7) अत्र जन्मसहस्रैरुपभोक्तव्यानि दुष्कृतसुकृतफलानि वियोगदुःखचिन्तनाढद्धठ्ठड़14;लादाभ्यामनुभूतानीत्युक्तम्। एवं चाशेषचयपदद्योत्ये, अतिशयोक्ती। क्षणदासावक्षणदा वनमवनं व्यसनमव्यसनम्। बत वीर तव द्विषतां पराढद्धठ्ठड़14;नुखे त्वयि परङ्भुखं सर्वम् ।। 82 ।। (8) अत्र शब्दशक्तिमूलविरोधाङ्गेनार्थान्तरन्यासेन "विधिरपि त्वामनुवर्तते" इति सर्वपदद्योत्यं वस्तु। तुह वल्लहस्स गोसम्मि आसि अहरो मिलाणकमलदलो। इअ णववहुआ सोऊण कुणइ वअणं महिसँमुहम् ।। 83 ।। (9) अत्र रूपकेण त्वयास्य मुहुर्मुहुः परिचुम्बनं तथा कृतम् येन म्लानत्वमिति मिलाणादिपदद्योत्यं काव्यलिङ्गम्। एपु स्वतःसंभवी व्यञ्जकः। राईसु चंदधवलासु ललिअमप्फालिऊण जो चावम्। एकच्छत्तं विअ कुणइ भुअणरज्जं विजंभंतो ।। 84 ।। (10) अत्र वस्तुना येषां कामिनामसौ राजा स्मरस्तेभ्यो न कश्विदपि तदादेशपराङ्भुख इति जाग्रद्भिरुपभोगपरैरेव तैर्निशातिवाह्यते, इति भुअणरज्जपदद्योत्यं वस्तु प्रकाश्यते। निशितशरधियार्पयत्यनङ्गो दृशि सुदृ-शः स्वबलं वयस्यराले। दिशि निपतति यत्र सा च तत्र व्यतिकरमेत्य समुन्मिषन्त्यवस्थाः ।। 85 ।। (11) अत्रवस्तुना युगपदवस्थाः परस्परविरुद्धा अपि प्रभवन्तीति व्यतिकरपदद्योत्यो विरोधः। वारिज्जंतो वि पुणो संदावकदत्थिएण हिअएण। थणहरवअस्सएण विसुद्धजाई ण चलइ से हारो ।। 86 ।। (12) अत्र विशुद्धजातित्वलक्षणहेत्वलंकारेण हारोऽनवरतं अम्पमान एवास्ते, इति ण चलइपदद्योत्यं वस्तु। सो मुद्धसामलंगो धम्मिल्लो कलिअललिअणिअदेहो। तीए खंधाहि बलं गहिअ सरो सुरअसंगरे जअइ ।। 87 ।। (13) अत्र रूपकेण मुद्दुर्मुहुराकर्षणेन तथा केशपाशः स्कन्धयोः प्राप्तः, यथा रतिविरतावप्यनिवृत्ताभिलाषः कामुकोऽभूदिति खंधपदद्योत्या विभावना। एषु कविप्रौढोक्तिममात्रनिष्पन्नशरीरः। णवपुण्णिमामिअंकस्स सुहअ को त्तं सि भणसु मह सच्चम्। का सोहग्गसमग्ग पओसरअणि व्व तुह अज्ज ।। 88 ।। (14) अत्र वस्तुना मयीवान्यस्यामपि प्रथममनुक्तस्त्वं न तत इति णवेत्यादिपओसेत्यादिपदद्योत्यं वस्तु व्यज्यते। सहिं णवणिहुवमसमपम्मि अंकवालीसहीए णिबिडड्डत्ध्;ाए। हारो णिवारिओ विअ उच्छेरन्तो तदो कहं रमिअम् ।। 89 ।। (15) अत्र वस्तुना हारच्छेदानन्तरमन्यदेव रतमवश्यमभूत् तत्कथय कीदृगिति व्यतिरेकः कहंपदगम्यः। प्रविसंती घरवारं विवलिअवअणा विलोइऊण पहम्। खंधे घेत्तूण घडंड्डत्ध्; हा हा णठ्ठोत्ति रुअसि सहि किं ति ।। 90 ।। अत्र हेत्वलंकारेण संकेतनिकेतनं गच्छन्तं दृष्ट्वा यदि तत्र गन्तुमिच्छसि तदा, अपरं घटं गृहीत्वा गच्छेति वस्तु किंतिपदद्योत्यम्। यथा वा विहलंखलं तुमं सहि दट्ठूण कुढेण तरलतरदिट्ठिम्। वारप्फंसमिसेण अ अप्पा गुरुओत्ति पाडिड्डत्ध्;अ विहिण्णो ।। 91 ।। (16) अत्र नदीकूले लतागहने कृतसंकेतमप्राप्तं गृहप्रवेशावसरे पस्वादागतं दृष्ट्वा पुनर्नदीगमनाय द्वारोपघातव्याजेन बुद्धिपूर्वं व्याकुलतया त्वया घटः स्फोटित इति मया चिन्तितम् तत्किमिति नाश्वसिषि तत्समीहितसिद्धये व्रज, अहं ते श्वश्रूनिकटे सर्वं समर्थयिष्ये, इति द्वारस्पर्शनव्याजेनेत्यपढद्धठ्ठड़14;नुत्या वस्तु। जोङ्णाइ महुरसेण अ विवण्णतारुण्णउत्सुअमणा सा। बुड्ड्डत्ध्;ढा वि णवोढव्विअ परवहुआ अहह हरइ तुह हिअअम् ।। 92 ।। (17) अत्र काव्यलिङ्गेन वृद्धां परवधूं त्वमस्मानुज्झित्वाभितषसीति त्वदीयमाचरितं वक्तुं न शक्यमित्याक्षेपः परवहूपदप्रकाश्यः। एषु कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरः। वाक्यप्रकाश्ये तु पूर्वमुदाहृतम् शब्दार्थोभयशक्त्युद्भवस्तु पदप्रकाश्यो न भवतीति पञ्चतिं्रशद्भेदाः। (सूदृ 60) प्रबन्धेऽप्यर्थशस्तिभूः ।।42।। यथा गृद्रगोमायुसंवादादौ। अलं स्थित्वा श्मसानेऽस्मिन् गृध्रगोमायुसंकुले। कङ्कालबहले घोरे सर्वप्राणिभयंकरे ।। 93 ।। न चेह जीवितः कश्वित् कालधर्ममुपागतः। प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ।। 94 ।। इति दिवा प्रभवतो गृध्रस्य पुरुषविसर्जनपरमिदं वचनम्। आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत सांप्रतम्। बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन ।। 95 ।। अमुं कनकवर्णाभं बालमप्राप्तयौवनम्। गृध्रवाक्यात्कर्थ मूढास्त्यजध्वमविशङ्किताः ।। 96 ।। इति निशि विजृम्भमाणस्य गोमायोर्जनव्यावर्तननिष्ठं च वचनमिति प्रबन्ध एव प्रथते। अन्ये त्वेकादश भेदा ग्रन्धविस्तरभयान्नोदाहृताः स्वयं तु लक्षणतोऽनुसर्तव्याः। अपिशब्दात्पदवाक्ययोः।। (सूदृ 61) पदैकदेशरचनावर्णेष्वपि रसादयः।। तत्र प्रकृत्या यथा रइकेलिहिअणिअसणकरकिसलअरुद्धणअणजुअलस्स। रुद्दस्स तइअणअणं पव्वईपरिचुंबिअं जअइ ।। 97 ।। अथ जयतीति न तु शोभते, इत्यादि। समानेऽपि हि स्थगनव्यापारे लोकोत्तरेणैव व्यापारेणास्य पिधानमिति तदेवोत्कृष्टम्। यथा वा प्रेयान् सोऽयमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्युन्मनाः। तावत्प्रत्युत पाणिसंपुटगलन्नीवीनिबन्धं धृतो धावित्वेव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ।। 98 ।। अत्र पदानीति न तु द्वाराणीति। तिङ्सुपोर्यथा पथि पथि शुकचञ्चूचारुपाभाङ्कुराणां दिशि दिशि पवमानो वीरुधां लासकश्व। नरि नरि किरति द्राक् सायकान् पुष्पधन्बा पुरि पुरि विनिवृत्ता मानिनीमानचर्चा ।। 99 ।। अत्र किरतीति किरणस्य साध्यमानत्वम् निवृत्तेति निवर्तनस्य सिद्धत्वं तिङा सुपा च तत्रापि क्तप्रत्ययेनातीतत्वं द्योत्यते। यथा वा लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितः निराहाराः सख्यः सततरुदितोच्छूननयनाः। परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैः तवावस्था चेयं विसृज कठिने मानमधुना ।। 100 ।। अत्र लिखन्निति न तु लिखतीति तथा, आस्ते, इति न तु, आसित इति, अपि तु प्रसादपर्यन्तमास्ते, इति, भूमिमिति न तु भूमाविति न हि बुद्धिपूर्वकमपरं किंचिल्लिखतीति तिङ्सुब्विभक्तीनां व्यङ्ग्यम्। संबन्धस्य यथा गामारुहम्मि गामे वसामि णअरठ्ठिइं ण जाणामि। णाअरिआणं पइणो हरेमि जा होमि सा होमि ।। 101 ।। अत्र नागरिकाणामिति षष्ठ्याः। "रमणीयः क्षत्रियकुमार आसीत्" इति कालस्य। एषा हि भग्नमहेश्वरकार्मुकं दाशरथिं प्रति कुपितस्य भार्गवस्योक्तिः। वचनस्य यथा ताणँ गुणग्गहणाणं ताणुक्कंठाणं तस्स पेम्मस्स। ताणँ भणिआणं सुंदर एरिसिअँ जाअमवसाणम् ।। 102 ।। अत्र गुणग्रहणादीनां बहुत्वम् प्रेम्णश्वैकत्वं द्योत्यते.। पुरुषव्यत्ययस्य यथा रे रे चञ्चललोचनाञ्चितरुचे चेतः प्रमुच्य स्थिर- प्रेमाणं महिमानमेणनयमानालोक्य किं नृत्यसि। किं मन्ये विहरिष्यसे बत हतां मुञ्चान्तराशामिमाम् एषा कण्ठतटे कृता खलु शिला संसारवारांनिधौ ।। 103 ।। अत्र प्रहासः। पूर्वनिपातस्य यथा येषां दोर्बलमेव दुर्बलतया ते संमतास्तैरपि प्रायः केवलनीतिरीतिशरणैः कार्यं किमुर्वीश्वरैः। ये क्ष्याशक्र पुनः पराक्रमनयस्वीकारकान्तक्रमा- स्ते स्युर्नैव भवादृशास्त्रिजगति द्वित्राः पवित्राः परम् ।। 104 ।। अत्र पराक्रमस्य प्राधान्यमवगम्यते। विभक्तिविशेषस्य यथा प्रधनाध्वनि धीरधनुध्र्वनिभृति विधुररैयोधि तव दिवसम्। दिवसेन तु नरप भवानयुद्ध विधिसिद्धसाधुवादपदम् ।। 105 ।। अत्र दिवसेनेत्यपवर्गतृतीया फलप्राÏप्त द्योतयति। भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था। साक्षात्कामं नवमिव रतिर्मालती माधवं यत् गाढोत्कण्ठालुलितलुलितैरङ्गकैस्ताम्यतीति ।। 106 ।। अत्रानुकम्पावृत्तेः करूपतद्धितस्य। परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान्। निवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडड्डत्ध्;यति च तापं च कुरुते ।। 107 ।। अत्र प्रशब्दस्योसर्गस्य। कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्व नो द्विषः। तमांसि तिष्ठन्ति हि तावदंशुमान् न यावदायात्युदयाद्रिमौलिताम् ।। 108 ।। अत्र तुल्ययोगिताद्योतकस्य "च" इति निपातस्य। रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिदिं्ध परा- मस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम्। बन्दीवैष यशांसि गायति सरुद्यस्यैकबाणाहति- श्रेणीभूतविशालतालविवरोद्गीर्णैः स्वरैः सप्तभिः ।। 109 ।। अत्रासाविति भुवनेष्विति गुणैरिति सर्वनामप्रातिपदिकवचनानां न त्वदिति न मदिति, अपि, अस्मदित्यस्य सर्वाक्षेपिणः, भाग्यविपर्ययादित्यन्यथासंपत्तिमुखेन न त्वभावमुखेनाभिधानस्य। तरुणिमनि कलयति कलामनुमदनधनुभ्र्रुवोः पठत्यग्रे। अधिवसति सकलललनामौलिमियं चकितहरिणचलनयना ।। 110 ।। अत्र, इमनिजव्ययीभावकर्मभूताधाराणां स्वरूपस्य तरुणत्वे, इति धनुषः समीपे, इति मौलौ बसतीति त्वादिभिस्तुल्ये, एषां वाचकत्वे, अस्ति कश्वित् स्वरूपस्य विशेषी यश्वमत्कारकारी स एव व्यञ्जकत्वं प्राप्नोति। एवमन्येषामपि बोद्धव्यम्। वर्णरचनानां व्यञ्जकत्वं गुणस्वरूपनिरूपणे उदाहरिष्यते। अपिशब्दात् प्रबन्धेषु वाजकादिषु। एवं रसादीनां पूर्वगणितभेदाभ्यां सह षड्ड्डत्ध्;भेदाः। (सूदृ 62) भेदास्तदेकपञ्चाशत् व्याख्याताः।। (सूदृ 63) तेषां चान्योन्ययोजने ।।43।। संकरेण त्रिरूपेण संसृष्ठ्या चैकरूपया। न केवलं शुद्धा एवैकपञ्चाशद्भेदा भवन्ति यावत्तेषां स्वप्रभेदैरेकपञ्चाशता संशयास्पदत्वेनानुग्राह्यानुग्राहकतयैकव्यञ्जकानुप्रवेशेन चेति त्रिविधेन संकरेण परस्परनिरपेक्षरूपयैकप्रकारया संसृष्ट्या चेति चतुर्भिर्गुणने। (सूदृ 64) वेदखाब्धिवियच्चन्द्राः (10404) शुद्धबेदैः सह (सूदृ 65) शरेषुयुगखेन्दवः (10455) ।।44।। तत्र दिङ्भात्रमुदाह्रियते। खणपाहुणिआ देअर जाआए सुहअ किंपि दे भणिआ। रुअइ पडड्डत्ध्;ोहरवलहीघरम्मि अणुणिज्जउ वराई ।। 111 ।। अत्रानुनयः किमुपभोगलक्षणेऽर्थान्तरे संक्रमितः किमनुरणनन्यायेनोपभेगे, एव व्यङ्गये व्यञ्जकः, इति संदेहः। स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घनाः वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः। कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति ह हा हा देवि धीरा भव ।। 112 ।। अत्र लिप्तेति पयोदसुहृदामिति च, अत्यन्ततिरस्कृतवाच्ययोः संसृष्टिः। ताभ्यां सह रामोऽस्मीत्यर्थान्तरसंक्रमितवाच्यस्यानुग्राह्यानुग्राहकभावेन रामपदलक्षणैकव्यञ्जकानुप्रवेशेन चार्थान्तरसंक्रमितवाच्यरसध्वन्योः संकरः। एवमन्यदप्युदाहार्यम्।। इति काव्यप्रकाशे ध्वनिनिर्णयो नाम चतुर्थ उल्लासः ।।4।।