काव्यरत्नम्
अर्हदासः

॥ श्रीः॥

ॐ नमः सिद्धेभ्यः ।

अर्हद्दासविरचितं

श्रीमुनिसुव्रतकाव्यं नाम

काव्यरत्नम्।


प्रथमः सर्गः।

श्रियं स वः श्रीवृषभो विशिष्याद्
 यस्यालिमालावृतवत् सभायाम् ।
बभौ नतेन्द्रोत्करमौलिनील-
 प्रभावलीलालितमब्जपीठम् ॥ १ ॥

चन्द्रप्रभं नौमि यदङ्गकान्तिं
 ज्योत्स्नेति मत्वा द्रवतीन्दुकान्तः।
चकोरयूथं पिबति स्फुटन्ति
 कृष्णेऽपि पक्षे किल कैरवाणि ॥ २ ॥

तमांसि हत्वा जगतः पदार्थान्
 प्रकाशयन्तं यमिव प्रदीपम्
ननाश मोहादभिपत्य कामः
 पतङ्गवच्छान्तिजिनं भजे तम् ॥ ३ ॥

अबोधकालोरगलीढमूढ-
 मबूबुधद् गारुडरत्नवद् यः ।

जगत् कृपाकोमलदृष्टिपातैः
 प्रभुः प्रसद्यान्मुनिसुव्रतो नः ॥ ४॥

त्रासादिदोषोज्झितमुद्धजातिं
 गुणान्वितं मौलिमणिं यथैव ।
वृत्तात्मकं भावलयाभिरामं
 कृतक्रियं मूर्ध्नि दधामि वीरम् ॥ ५ ॥

स्वार्थप्रकाशिद्युतयोऽशरीरा
 रत्नप्रदीपा इव मे वसन्तु ।
तमःप्रहाण्यै हृदि दीप्यमानाः
 कृताधिवासाः पवनान्तरेऽपि ॥ ६ ॥

निराकृतान्तस्तमसो निषेव्या
 दिगम्बरैः सन्ततवृत्तदेहाः ।
सुनिर्मलाः साधुसुधांशवो मे
 हरन्तु सन्तापमदृष्टपूर्वाः ॥ ७ ॥

रत्नत्रयात्मा सुचिराय धर्मः
 सार्थेन नाम्ना महितः स जीयात् ।
यो धारयत्यच्युतधाम्नि मग्ना-
 नुद्धृत्य सत्त्वान् भववारिराशेः ॥ ८॥

वीरादिव क्षीरनिधेः प्रवृत्ता
 सुधेव वाणी सुधिया कलश्या ।
विधृत्य नीता विबुधाधिपैर्मे
 निषेविता नित्यसुखाय भूयात् ॥ ९ ॥

भट्टाकलङ्काद् गुणभद्रसूरेः
 समन्तभद्रादपि पूज्यपादात् ।
वचोऽकलङ्कं गुणभद्रमस्तु
 समन्तभद्रं मम पूज्यपादम् ॥ १० ॥

वीराकरोत्थं मुनिसार्थनीतं
 कथामणिं श्रीमुनिसुव्रतस्य ।
सुवर्णदीप्रं नवयुक्तिरम्यं
 विदग्धकर्णाभरणं विधास्ये ॥ ११ ॥

सरस्वतीकल्पलतां स को वा
 संवर्धयिष्यन् जिनपारिजातम् ।
विमुच्य काञ्जीरतरूपमेषु
 व्यारोपयेत् प्राकृतनायकेषु ॥ १२ ॥

गणाधिपस्यैव गणेयमेतद्
 भवामि चोद्यन् भगवच्चरित्रे ।
भक्तीरितो नन्वगचालनेऽपि
 शक्तो न लोके ग्रहिलो न लोकः ॥ १३ ॥

मनः परं क्रीडयितुं ममैतत्
 काव्यं करिष्ये खलु बाल एषः ।
न लाभपूजादिरतः परेषां
 न लालनेच्छाः कलभा रमन्ते ॥ १४ ॥

श्रव्यं करोत्येष किल प्रबन्धं
 पौरस्त्यवन्नेति हसन्तु सन्तः ।

किं शुक्तयोऽद्यापि महापरार्ध्यं
 मुक्ताफलं नो सुवते विमुग्धाः ॥ १५ ॥

प्रबन्धमाकर्ण्य महाकवीनां
 प्रमोदमायाति महानिहैकः ।
विधूदयं वीक्ष्य नदीन एव
 विवृद्धिमायाति जडाशया न ॥ १६ ॥

उपेक्षितारोऽपि फलन्त्यनिष्टा-
 भीष्टानि यद् दुर्जनसज्जनास्तत् ।
वृथा कृता विश्वसृजा श्रमाय
 विषद्रुकल्पद्रुमयोर्हि सृष्टिः ॥ १७ ॥

सन्तः स्वभावाद् गुणरत्नमन्ये
 गृह्णन्ति दोषोपलमात्मकीयम् (?)।
यथा पयोऽस्रं शिशवो जलूका
 जनो वृथा रज्यति कुप्यतीह ॥ १८ ॥

तिक्तोऽस्ति निम्बो मधुरोऽस्ति चेक्षुः
 स्वं निन्दतोऽपि स्तुवतोऽपि तद्वत् ।
दुष्टोऽप्यदुष्टोऽपि ततोऽनयोर्मे
 निन्दास्तवाभ्यामधिकं न साध्यम् ॥ १९ ॥

यद् वर्ण्यते जैनचरित्रमत्र
 चिन्तामणिर्भव्यजनस्य यच्च ।
हृद्यार्थरत्नैकनिधिः स्वयं मे
 तत् काव्यरत्नाभिधमेतदस्तु ॥२०॥

यत् स्थापनां नाम भुवं च कालं
 द्रव्यं च भावं प्रति षट्प्रकारा ।
स्तुतिर्जिनस्य क्रियतेऽत्र तस्मात्
 काव्यं ममैतत् स्तुतिरेव भूयात् ॥ २१ ॥

अथास्ति जम्बूविटपिच्छलेन
 द्वीपेषु ग[]र्वोन्नतमस्तकस्य ।
द्वीपस्य भर्माभरणेऽत्र खण्डे
 रत्नायमानो मगधाख्यदेशः ॥ २२ ॥

यद्भूधरा भूतलसेव्यपादा
 भूपा इवाक्रान्तदिगन्तरालाः ।
इन्दन्ति मत्तद्विपकैरवाक्षि-
 कस्तूरिकाकाञ्चनरत्नखड्गैः ॥ २३ ॥

नगेषु यस्योन्नतवंशजाताः
 सुनिर्मला विश्रुतवृत्तरू[]पाः ।
भव्या भवन्त्याप्तगुणाभिरामा
 मुक्ताः सदा लोकशिरोविभूषाः ॥ २४ ॥

उत्तुङ्गगोत्रप्रभवा भवत्यो
 भजन्तु भूचक्रबहिष्कृतं किम् ।
इति स्रवन्तीरुदधिं सरन्ती-
 रवैमि यत्रालिगणो रुणद्धि ॥ २५ ॥

तरङ्गिणीनां तरुणान्विताना-
 मतुच्छपद्मच्छदलाञ्छितानि ।

पृथूनि यस्मिन् पुलिनानि रेजुः
 काञ्चीपदानीव नखाश्चितानि ॥ २६ ॥

तमोनिवासेषु वनेषु यस्य[]
 मरन्दसा(र्द्रा ? न्द्रा)स्तरणेर्मयूखाः ।
स्फुरन्ति शाखान्तरलब्धमार्गाः
 कुन्ताः प्रयुक्ता इव शोणितार्द्र: ॥ २७ ॥

अभ्रंलिहाग्राणि वनानि यस्मि-
 न्नीयुर्ध्रुवं नाकतरुं निकर्तुम् ।
को दानवारिप्रतिपन्नवृत्तेः
 क्षमेत सङ्कल्पितदानगर्वम् ॥ २८ ॥

पाकावनम्राः कलमा यदीयाः
 पदावनम्रा इव मातृभक्त्या ।
आघ्रायमाणाः स्वशिरस्सु भान्ति
 विकासिपद्माननया धरित्र्या ॥ २९ ॥

विभान्ति सस्यान्तरितानि यस्मिन्
 हेमारविन्दानि मधूल्बणानि ।
आपाययन्त्या इव शालिपुत्रा-
 नात्तानि धात्र्या: करसेचनानि ॥ ३० ॥

यत्रेक्षुदण्डाः कुसुमाभिरामा
 वितन्वते पर्वचयाञ्चि[]ताङ्गाः ।
मनोजराजस्य जगज्जिगीषो-
 रुच्चामरोड्डामरकुन्तलीलाम् ॥ ३१ ॥

भूदेवता यद्विभवं विलोक्य
 भूयोऽवधूतत्रिदिवं दधाति ।
निलीनभृङ्गस्थलपद्मदम्भा-
 न्निष्पन्दताराणि विलोचनानि ॥ ३२ ॥

यस्योर्वरासारगुणस्य मूर्ताः
 पुञ्जा इवाभान्ति समन्ततोऽपि ।
तिलातसीकोद्रवमु[]द्गमाष-
 गोधूमवल्लक्षवशालिशैलाः ॥ ३३ ॥

यत्रार्तवत्त्वं फलिताटवीषु
 पलाशिताद्रौ कुसुमे परागः ।
निमित्तमात्रे पिशुनत्वमासी-
 न्निरोष्ठ्यकाव्येष्वपवादिता च ॥ ३४ ॥

स्त्रीणां कचे माल्यमुरोजभारे
 श्यामाननत्वं जघने जडत्वम् ।
अपाङ्गता केवलमक्षिसीम्नो-
 र्मध्यप्रदेशेषु च नास्तिवादः ॥ ३५॥

भुजङ्गमेष्वागमवक्रभावो
 भुजङ्गहारेऽप्यजिनानुरागः ।
ध्रुवं प्रदोषानुगमो रजन्याम्
 (दि ? इ)नक्षयः सोऽपि दिना[]वसाने ॥ ३६ ॥

तत्रास्ति सा राजगृहाभिधाना
 पुरी वनैः पृष्ठगतैरुदग्रै: ।

पुरारिवैरप्रतिकारहेतो-
 र्या मुक्तकेशव्रतमादितेव ॥ ३७ ॥

बहिर्वणे[] यत्र विधाय वृक्षा-
 रोहं परिष्वज्य समर्पितास्याः ।
कृताधिकारा इव कामतन्त्रे
 कुर्वन्ति सङ्गं विटपैर्व्रतत्यः ॥ ३८ ॥

आरामरामाशिरसीव केली-
 शैले लताकुन्तलभासि यत्र ।
सकुङ्कुमा निर्झरवारिधारा
 सीमन्तसिन्दूरनिभा विभाति ॥ ३९ ॥

कण्डूतिशान्त्यै निजकर्णमूलं
 सङ्घर्षयन्तः सरसीषु मीनाः ।
अम्भोजदण्डेषु विभान्ति यस्या-
 मालानद[]ण्डोष्विव हस्तिपोताः ॥ ४० ॥

वीथ्या हयानां दशया गजानां
 श्रमैर्भटानां करणैर्नटानाम् ।
भुजाहतैर्मल्लगणस्य यस्या
 जयन्ति बाह्यालिभुवो विशालाः ॥ ४१ ॥

अहो नु तीरद्रुमराजिराज-
 द्विचित्रपुष्पोद्गमबिम्बितानि ।
उतोल्लसत्पन्नगभोगरत्न-
 द्युतीनि यस्याः परिखाजलानि ॥ ४२ ॥

माणिक्यकुम्भोज्ज्वलगोपुराणां
 रूपेण यां मूर्तिचतुष्टयाप्तः ।
आप्तः समालक्ष्य विलक्षमास्ते
 पूर्वाचलः कूटविभासिभास्वान् ॥ ४३ ॥

सुरापगापूरकृतान्तराणि
 शृङ्गाणि सालाग्रगतानि यस्याः ।
हैमानि हेमाम्बुरुहाणि बुद्ध्वा
 मुग्धा जिहीर्षन्ति सुरर्षिकान्ताः ॥ ४४ ॥

प्रतप्तचामीकरवैकृतानि
 प्राकारशीर्षाणि पुनर्न यस्याः ।
पत्या दिशां भित्तिषु लिप्तशेषाः
 प्रतापपिण्डा वियदङ्गणे ते ॥ ४५ ॥

उत्तोरणानां किल मन्दिराणा-
 मुद्यद्ध्वजानामसमेषु यस्याः ।
धनुष्मतो वारिभृतः सशम्पान्
 निर्माय निर्भाय नमः प्रमार्ष्टि ॥ ४६ ॥

यच्चन्द्रकान्तोपलमन्दिराणां
 ज्योत्स्नाप्रवाहैः परिवाहिता द्यौः ।
क्रीडाधियामप्सरसां विधत्ते
 दिवा दिवा दिव्यसरःप्रमोषम् ॥ ४७ ॥

ताराफलायां वियदामलक्यां
 क्षेप्तुं व्रजन्तं नतदारुबुद्ध्या ।

यच्चन्द्रशालागतबालचन्द्रं
 बालं हसन्ति स्फुटमीशदाराः ॥ ४८ ॥
नैतानि ताराणि नभस्सरस्याः
 सूनानि तान्याददते सुकेश्यः ।
यदुच्चसौधाग्रजुषो मृषा चेत्
 प्रगे प्रगे कुत्र निलीनमेभिः ॥ ४९ ॥
विकासिनेत्राशुभिरङ्गनानां
 विषक्तगात्रैरवसक्तगात्राः।
विलासिनां सूचिगृहान्धकारा
 वितन्वते यत्र सदा नियुद्धम् ॥ ५० ॥
सदा पठत्कोकिलनन्दनाढ्या:
 समुल्लसत्पाण्डुकभद्रशालाः
जिनालयाः सौमनसालयास्ते
 जयन्ति मेरूनपि यत्र चित्रम् ॥ ५१ ॥
यत्राश्मगर्भार्कजिनालयत्विट् -
 छन्नेऽभ्रमध्ये तपनो हठेन ।
दूर्वाम्बुबुद्ध्या द्रवदश्वरोध-
 क्लेशासहः किं कुरुतेऽयने द्वे । ॥ ५२ ॥
चित्रं जिनेन्द्रावसथस्थलेषु
 प्रमोदबाष्पोदकपिच्छिलेषु ।

भव्यैः किलोप्ताः सिततण्डुलौघाः
 फलन्ति यस्यां बहुशः फलानि ॥ ५३ ॥

देवीनां मणिगृहमध्यवर्त्तिहैम-
 प्रासादे सदलसकर्णिकाम्बुजाभे ।
आवासे यदधिभुवः कृताधिवासा
 श्रीरासीद् ध्रुवमरविन्दमन्दिरा सा ॥ ५४॥

इत्यर्हद्दासकृतौ काव्यरत्ने भगवदभिजनवर्णनो नाम
  प्रथमः सर्गः ।।

  अथ द्वितीयः सर्गः।
अथाभवत् तस्य पुरस्य राजा
 सुमित्र इत्यन्वितनामधेयः।
क्रियार्थयोः क्षेपणपालनार्थ-
 द्वयादसत्सद्विषयात् सुपूर्वात् ॥ १॥
यं राजशब्दासहमन्यपुंसि
 श्रुत्वा भयाढ्य: सुखरोचिरासीत् ।
स्तुतिप्रसक्ताः कवयो बभूवु-
 र्यक्षोऽपि सत्यं धनदो बभूव ॥ २ ॥
कोपारुणेऽप्यक्षणि यस्य चित्रं
 सकञ्चुकैः कुण्डलिभिः सनाथम् ।
शिवास्पदं काञ्चनवज्रपूर्णं
 बभूव सर्वं नगरं रिपूणाम् ॥ ३ ॥

प्रयाणभेरीश्रवणेन यस्य
 पलायमानानरिभूमिपालान् ।
पदाभिघाताक्षमयेव सद्यः
 प्रकाशयामास समीरकेतुः ॥ ४॥

येनासिना युद्धशिरस्यरीणां
 साङ्ग(च्छि ? च्छ)दे चर्मणि रक्तधारा ।
विनिर्यती तेन पथा व्यराजी-
 दुद्भूतकोपाग्निशिखेव तेषाम् ॥५॥

रणेषु खड्गः करिकुम्भमुक्ता-
 संपृक्तधारोऽनुचकार यस्य ।
विदारिते वक्रबिले विधातु-
 र्विधुन्तुदस्येन्दुकुटुम्बकानाम् ॥ ६ ॥

कृपाणभिन्नैर्युधि वैरिवीरै-
 र्विभिन्नबिम्बे सति यस्य भानौ ।
स्वयं भयेनैव बभूव भिन्नः
 शशी नचेदद्य बिली किमेषः ॥ ७ ॥

बाहौ यदीयेऽर्थिसुरद्रुमेऽपि
 मन्येऽसियष्टिं विषवल्लिमन्याम् ।
नो चेत् तया वैरिणि वेष्टयमाने
 किं तेपिरे तस्य कुटुम्बकानि ॥ ८ ॥

यस्य प्रतापाग्निशिखावलीढं
सर्वं जगत् सत्यमिदं वदामि ।

नेदं द्विषो यं यमगुः प्रदेशं
 तप्ता बभूवुः किमु तत्र तत्र ॥ ९ ॥

 यस्यासिधाराविनिपातभीता-
स्त्यजन्तु पद्माकरसङ्गमानि ।
 विमुक्तवन्तः किल राजहंसाः
स्वमुत्तराशाश्रितमानसं च ॥१०॥

 तेजोनले व्याप्तसमस्तकाष्ठे
तत्र स्थितिं कर्तुमशक्नुवानाः ।
 यस्यारयो वारिधिवासमापु-
र्नचेत् तथा के किल वारिमर्त्या: ॥ ११ ॥

उपायनाश्वेभखुरप्रहार-
 मदाम्बुनिम्नीकृतपूर्णमध्यम् ।
रत्नाङ्कणं यत्सदसो विशालं
 क्रीडासरोवद् विरराज लक्ष्म्याः ॥ १२ ॥

 प्राणेश्वरी तस्य बभूव राज्ञः
पद्मावती नाम नरेन्द्रकन्या ।
 ययाधिविन्नाजनि भूतधात्री
या चाधिविन्नाजनि भूरिलक्ष्म्या ॥ १३ ॥

लावण्यवाराशितराङ्गकल्प-
 लतां नृपस्त्रीमवलोक्य शङ्के ।

तत्काम्ययाद्यापि करोति लक्ष्मी-
 स्तपोऽम्बुमध्ये कमलासनस्था ॥ १४ ॥

निशाकरस्फेटनिभानि तन्व्या
 नखानि पादाङ्गुलिसङ्गतानि ।
जगज्जिगीषोर्मकरध्वजस्य
 प्रपेदिरे खेटकभल्लकत्वम् ॥ १५ ॥

स्वर्गापगारक्तसरोरुहाणां
 सजातमेतद्द्वयमित्यवैमि।
सुराङ्गनानां कथमन्यथा स्तां
 चिराय सेव्यौ चरणौ मृगाक्ष्याः ॥ १६ ॥

सपर्वरम्भासदृशोस्तदूर्वो:
 सजङ्घयोरङ्गजकाहला का ।
कियांश्व पञ्चायुधपृष्ठतूणः
 कियत्तरौ मन्मथदन्तिदन्तौ ।। १७ ।।

परिस्फुरत्काञ्चनकाञ्चिबन्धं
 निबद्धनीवीविलसद्दुकूलम् ।
कलत्रभारं कलिकायुधोऽस्या-
 श्चकार वास्त्रं किल चक्रयानम् ॥ १८ ॥

वलित्रयत्रासतरङ्गितेऽस्या
 विलग्नसौन्दर्यमहाम्बुराशौ ।
उपर्युदस्तस्तनशैलतर्क्यो
 रराज सेतुर्नवरोमराजिः॥ १९ ॥

भुजायता चम्पकमालिका स्यात्
 कुचोन्नतः पङ्कजकुड्मलश्च ।
मृदुत्वकाठिन्यगुणौ मृगाक्ष्याः
 कथं दधीतोभयमप्युभय्याः ॥ २० ॥

शुभेन रेखात्रितयेन तन्व्याः
 कण्ठः स्फुटं कम्बुसमान एव ।
सुधासदार्द्रेण पुनः स्वरेण
 विपञ्चिकाप्यञ्चत एव तस्य ॥ २१ ॥

यदब्जसौन्दर्यसखं मुखं च
 यदम्बके मीनविडम्बके च ।
नमःश्रियः साम्यमुपागता या
 सरःश्रियः साम्यमतो गता सा ॥ २२ ॥

त्रिलोकनारीतिलकस्य तस्याः
 क्व केशपाशस्य पुरो भवामः ।
इतीदमद्याप्याभिनेतुमेते
 सधूतयश्चामरवालहस्ताः ॥ २३ ॥

मनोजसंमोहनमन्त्रचिन्ता-
 फलं नु भूपालतपःफलं नु ।
जनेक्षणादृष्टफलं नु किञ्चि-
 न्न वेद्मि सृष्टेः कलशाकृतिः सा ॥ २४

निर्मुलिताशेषविपक्षकक्षो
 निराकुलीभूतसमस्तभूतः।

युवा स पुष्पायुधबाणकोण-
व्यधात् परं व्याकुलमानसोऽभूत् ॥ २५ ॥

कुलागते वर्ष्मणि दृष्टशौचे
 स मन्त्रिवर्गेऽर्पितराज्यभारः।
तया समं मन्मथशासनानि
 बभार भावातिमनोहराणि ॥ २६ ॥

अगायदेषा स ततान तान-
 मनृत्यदेषा स तताड तालम् ।
अवादयद् बल्लकिकामथैषा
 स वल्लकीवानुजगौ द्वितीया ॥ २७ ॥

सह प्रयातौ दयितौ वनान्तं
 सह प्रियौ केलिसरः प्रविष्टौ ।
सहाधिरूढौ रमणौ च दोलां
 सह स्थितौ सौधशिरस्सु कान्तौ ॥ २८ ॥

उरोजयोरणमदेन तन्व्याः
 कुतूहली यं मकरं लिलेख ।
विभावयामास स भावयोनेः
 स्थूलाग्रजाग्रन्मकरध्वजस्य ॥ २९ ॥

सखीसभायां चतुरङ्गकेलौ
 चुचुम्ब संरक्षितुमादृतस्य ।
हयस्य याच्ञाकपटेन कामी
 मुहुर्मुहुः स्मेरमुखीं कपोले ॥ ३० ॥

मुक्तागुणच्छायाभिषेण तन्व्या
 रसेन लावण्यमयेन पूर्णे ।
नाभिह्रदे नाथनिवेशितेन
 विलोचनेनालिभिषेण जज्ञे ॥ ३१ ॥

अमर्षणायाः श्रवणावतंस-
 मपाङ्गविद्युद्धिनिवर्तनेन ।
स्मरेण कोशादवकृष्यमाणं
 रथाङ्गमुर्वीपतिराशशङ्के ॥ ३२ ॥

रहस्सु वस्त्राहरणे प्रवृत्ता:
 सहासगर्जाः क्षितिपालवध्वाः ।
सकोपकन्दर्पधनुःप्रमुक्त्त -
 शरौघहुङ्काररवा इवाभु: ॥ ३३ ॥

इति किलाभिमतौ सुरदम्पति-.
 प्रतिमरूपकलागुणशालिनौ ।
विविधकेलिरसैः कृतसम्पदै:
 सफलतां युवताप्तुपनिन्यतु: ।। ३४ ॥

 इत्यर्हद्दासकृतौ काव्यरत्ने भगवत्पितृवर्णनो नाम
  द्वितीयः सर्ग:॥

  अथ तृतीया सर्गः

एषैकदा तु नवकल्पलतेव भूयो
 भूयः प्रपन्नऋतुकापि फलेन हीना !

आलोक्य केलिकलहंसवधूं सगर्भां
 दध्यौ धराधिपवधूरिति दीनचेताः ॥ १ ॥

आः पुष्पितापि विफलेव रसालयष्टिः
 सेनेव नायकगतापि जयेन शून्या ।
काले स्थितापि धनराजिरवर्षणेव
 मिथ्या दधामि हतकुक्षिमदृष्टतोका ॥ २ ॥

चिन्ताभरादिति वहन्नयनोदकां तां
 कान्तोऽनुसद्य करपल्लवदत्तगण्डाम् ।
व्यग्रीभवत्परिजनादवगम्य सर्व-
 माश्वासयत्युचितसूक्तिरसेन यावत् ॥ ३ ॥

तावत् तमम्बरतलादवतीर्य देव्यो
 मित्रं दिने नमितया रमया समेतम् ।
मुक्त्वा श्रिया सततसङ्गतया सनाथं
 भक्तुं सुमित्रामिव दीधितयोऽधिजग्मुः ॥४।

भूपोऽथ जीवजयनन्दपदास्पदास्या-
 स्ताः प्राञ्जलीरभिनिरीक्ष्य विलक्षचक्षुः ।
प्राप्तासनेषु विनिवेश्य मुदेदमूचे
 प्राप्ताः किमत्र सुरलोकसुखैकसाराः ॥५॥

आकर्ण्य वाचमिति तस्य सुराङ्गनाभिः
 श्रीरीरिताकथयदागमहेतुमेवम् ।
मन्दस्मितद्विगुणमञ्जुलवाक्प्रसूनै-
 र्वर्त्स्यत् फलं क्षितिपतेरिव सूचयन्ती ॥६॥

भूपार्यखण्ड इह भूविदितेऽङ्गदेशे
 चम्पापुरे नृपवरो हरिवर्मनामा ।
आसीद् यशःकवचितावनिरस्रधारा-
 संप्लावितारिनृपतद्वनितावितानः ॥ ७ ॥

ज्ञात्वा जिनाज्जननदुःखमनन्तवीर्या-
 देषोऽवगीतभवभोगशरीररोगः।
मत्वा तृणाय निजराज्यपदं मनीषी
 तत्पादयोः किल बभार जिनेन्द्रमुद्राम् ॥८॥

सन्त्यक्त्तसर्वविषयोऽप्यवरोधमुक्त्तो-
 ऽप्येकाक्षरक्षणपरोऽप्यनिशं यतीशः ।
संभक्त्तसर्वविषयोऽजनि सावरोधः
 पञ्चाक्षनिग्रहपरः परमेष चित्रम् ॥ ९॥

कुर्वस्तपो जिननिरूपितलक्ष्मलक्ष्मी-
 भूतं प्रभूतविनयो विविधं मुनीन्द्रः ।
एकादशाङ्गकुशलोऽजनि हेतुयुग्म-
 सामग्र्यसञ्जनिततीर्थकरत्वपुण्यः ॥ १०॥

अन्ते समाधिविधिसात्कृतदेहभारः
 स्वः प्राणते तदभिधानविमानमध्ये ।
स प्राणतेन्द्र इति सेन्द्रपतिर्बभूव
 लोकेषु तप्ततपसां किमसाध्यमस्ति ॥११॥

मासानतीत्य षडयं गुडनिर्विशेषी-
 भूतेतविंशतिनदीपतिसम्मितायुः ।

सूनुर्भविष्यति च तेऽतुलपुण्यराशे-
 स्तीर्थस्य विंशतितमो भाविता च कर्ता ॥१२॥

तस्माद् वयं जिनपतेर्भुवनैकवन्द्य-
 पादारविन्दयुगलस्य भविष्यतोऽग्रे।
दास्यं विपुण्यजनदुर्लभमद्य याता
 मातुर्विधातुममरेश्वरशासनेन ।। १३ ।।

इत्थं तदीयमुखचन्द्रमसः समुद्यद्-
 वाक्चन्द्रिकां श्रुतिपुटेन निपीय सद्यः ।
चेतस्यवाप चपलेक्षाणयाः सनेतो
 भूपश्चकोर इव भूरितरप्रमोदम् ॥ १४ ॥

भूमीपतेरनुमताभिरथामराणां
 भ्रूवल्लरीविलसनेन विलासिकाभिः ।
भूपालमौलिदयिता भृतसंमदाभि-
 र्भूलोकसेव्यचरणाम्बुरुहा सिषेवे ।। १५ ॥

साधः कयापि विधृतस्य सुरेन्द्रनील-
 च्छत्रस्य चारुवलयस्थ महौषधीव ।
रेजे प्रकाण्डरुचिरस्य सुरद्रुमस्य
 धारान्तरस्य च धनस्थ तटिल्लतेव ।। १६ ॥

दिव्याङ्गनावधुतचामरलालिताङ्गा
 तिष्ठन्त्यसावरुचदुन्नतरत्नपीठे ।
लक्ष्मीः सुधाब्धिचटुलोर्मिहतेव शेषे
 चान्द्री कलेव शरदभ्रचितोदयाद्रौ ॥१७॥

सा कुङ्कुमेन परया कुचयोर्विलिप्ता
 कर्पूरक्लृप्ततिलका निटिले चकाशे ।
संबद्धकुन्तलभरा शिरसि द्विरेफ
 व्याप्तेव पल्लवितपुष्पितकल्यवल्ली ॥ १८ ॥

तस्याः शिरोरुहमरे विनियोज्यमानं
 कृष्णं कयापि वमरीरुहमावभासे ।
तापिञ्छकच्छमुपसर्वदिवान्धकार
 नीलाब्जकुञ्जमुपदन्निव भृङ्गराशि: ।। १९ ।।

कर्पूरमौक्त्तिकखगेन्द्रमणिप्रक्लृप्तै-
 स्ताटङ्कहारवलयैरपरोपनीतै:।
डिण्डीरितः कवचन बुद्बुदित: परत्र
 शैवालितः क्वचिदहो सुवमाब्धिरस्याः॥२०॥

वामे फलव्यवहिते व्यरुचत कुचोऽन्य-
 स्तन्त्रीविवादनचलस्त्रिदशाङ्गनायाः ।
वक्रेन्दुना सहचरीमभिशङ्कय याता-
 मुत्कम्पमान इव कान्तिझरीरथाङ्गः ॥ २१ ॥

ताभिर्यथावसरमित्थमुपास्थमाना
 सानीततुर्यवसना किल तीर्थतोयैः ।
शुभ्राम्बराभरणमाल्यविलेपना च
 शिश्ये सुखेन रमणेन समानतल्पा ॥ २२

नागं वृषाधिपगजारिरमाश्च माले
 चन्द्रार्कमीनयुगकुम्भयुगानि वापीम् ।

अम्भोनिधिं च हरिपीठविमानभोगि.
 स्थानानि रत्ननिकरं च विधूममग्निम् ॥ २३ ॥

स्वप्नेऽथ सा सदृशताप्रणयादिवेता-
 नेतान् गजेन्द्रगतिरात्तवृषाधिपत्वा ।
शातोदरी सविभवा सुकुमारगात्री
 चन्द्रानना सकलविष्टपसेव्यपादा ॥ २४ ॥

मीनेक्षणा घटकुचा ह्रदनिम्ननाभि-
 र्गाम्भीर्यपर्यवसितिः सुनितम्बपीठा।
मानोन्नता च कृतभोगिपतिप्रमोदा
 चेतस्विरत्नममला क्रमशो ददर्श ॥ २५॥

राज्ञी विबुध्य सुरवल्डभिकासुगीतैः
 कादम्बिनीकलकलैरिव केकिकान्ता ।
उत्थाय तल्पतलतः सुसमाप्य कृत्यं
 प्राभातिकं सपदि वल्लभमाससाद ॥ २६ ॥

अर्धासने प्रियनिवेशितवल्लभायै
 स्थित्वा क्षणं श्रुतिसुखं विनिवेदितायाः।
स्वप्नावलेरिति जगाद फलं कुचान्ते
 दन्तार्चिषा विरचयन्निव चर्चिकां सः ॥ २७ ॥

नागेन तुङ्गचरितो वृषतो वृषात्मा
 सिंहेन विक्रमधनो रमयाधिकश्रीः।
स्रग्भ्यां धृतश्च शिरसा शशिना क्लमच्छित्
 सूर्येण दीप्तिमहितो झषतः सुरूपः ॥ २८ ॥

कल्याणभाक् कलशतः सरसः सरस्तो
 गम्भीरधीरुदधिनासनतस्तदीशः ।

देवाहिवासमणिराश्यनलैः प्रतीत-
 देवोरगागमगुणोद्गमकर्मदाहः ॥ २९ ॥

एवंविधस्तव भविष्यति तीर्थकर्ता
 पुत्रो जगच्चयविनेयजनैकमित्रम् ।
मर्त्यामरोरगखगप्रमदातिशायि-
 पुण्यातिशायनघनायितचारुमूर्ते ! ॥ ३०॥

एतन्निशम्य वचनं रुचितस्य देवी
 रोमाञ्चकञ्चुकितचञ्चुरगात्रयष्टिः ।
आकर्णितान्यभृतमञ्जुरवा वनान्ते
 माकन्दवल्लिरिव कोरकिता बभूव ॥ ३१ ॥

देवोऽथ पूर्वगदितस्त्रिदिवादुपेतो
 देव्या वपुः करिवपुर्वदनादविक्षत् ।
पक्षेऽपरे नभसि मासि तिथौ द्वितीये
 योगे शिवे श्रवसि भे विरतौ रजन्याः॥ ३२ ॥

विज्ञायासनकम्पतः सुरपतिस्तस्यावतारं प्रभोः
 स्वर्गादेत्य चतुर्विधैः सह सुरैरस्याम्बिकां कल्पजैः ।
आकल्पाम्बरगन्धमाल्यनिवहैरभ्यर्च्य नामं स्तबं
 गानं नर्तनमारचय्य जनकं चाहत्य भूयो गतः॥३३॥

इत्यर्हद्दासकृतौ काव्यरत्ने भगवद्गर्भावतरणवर्णनो नाम

   तृतीयः सर्गः ॥

न्यग्रोधशाखेव रराज सान्द्र-
 च्छायां दघाना पुरुषोत्तमं तम् ।
पत्रोदरेऽथार्तवमुष्णशीत-
 मुच्चैःस्तनीयं नुदती प्रियस्य ॥ १ ॥

सा गर्भिणी सिंहकिशोरगर्भा
 गुहेव मेरोरमृतांशुगरभा ।
वेलेव सिन्धोः स्मृतिरत्नगर्भा
 रेजेतरां हेमकरण्डिकेन । २ ॥

वल्ली वसन्तात सरसी धनान्तात्
 सम्पन्नयाच्चन्द्रजसोऽब्विवेला।
यथा तथाजावत सा कृशाङ्गी
 गर्भार्भकादुज्ज्वलरूप्सम्पत् ।। ३ ॥

जिनस्य माहात्म्यपदेन ह्यष्टौ
 सामीप्यलाभेन कुचौ तदीयौ ।
न बभ्रतुः श्यामलतां मुखेऽल्या-
 मप्येष जो हर्षयतीह कास्कान् ॥ ४ ॥

सुतस्य गम्भीरतरस्य सङ्गात्
 तस्योदरिण्या अपि राजपत्न्या: ।
नाभिर्न तत्याज गभीरभावं
 गुणं त्यजेत् को गुणिसङ्गमेन ॥ ५ ॥

गर्भेऽपि बोधत्रयनायकोऽय-
 मितीदमावेदयितुं किलास्याः ।
वलिप्रभावाद् वलयो न नष्टाः
 सनाभिनाशं भुवि के सहन्ते ॥ ६ ॥

तत्सङ्गमे सर्वसमृद्धिहेतौ
 निरन्तरं सत्यपि कुक्षिरस्याः ।
समृद्धिमल्पामपि न प्रपेदे
 भाग्यानुसारीणि फलानि कामम् ॥ ७ ॥

स्मरज्जनानामपि नाशयन्त-
 मन्तस्तमो नूतनरत्नदीपम् ।
साक्षाद् दधत्या जिनमन्तरस्या:
 स्प्रष्टुं तमो नैष्ट भियेव जातु ॥ ८ ॥

गर्भस्य लिङ्गं परमाणुकल्प-
 मप्येतदङ्गेष्वनवेक्ष्य रक्षी।
जगत्त्रयोद्धारणदोहदेन
 परं नराणां बुबुधे ससत्त्वाम् ॥ ९ ॥

सम्बन्धदुःखाखिलजीवमुक्त्ते-
 र्हेतुं तमक्षार्थगतस्पृहं च ।
प्रसोष्यती तेन समाभवत् सा-
 प्युपाधिवत् स्वच्छतरं हि वस्तु ॥ १० ॥

गुणान्वितोऽपास्ततमःप्रपञ्चः
 प्रकाशितात्मेतरवस्तुरेषः ।

बभौ जिनेन्द्रो जठरे जनन्या
 दीपो यथा स्फाटिकपात्रमध्ये ॥११॥

तद्गर्भवासे निवसन्नपीशः
 स भास्वराङ्गो निहतान्धकारः ।
तत्याज बोधत्रितयं न तेज-
 स्त्यजेत् करण्डेऽपि मणिर्महार्घः ॥ १२ ॥

मासान् पुरे पञ्चदशानुसन्ध्यं
 बन्धुर्महेशस्य वसून्यवर्षत् ।
सौधा यदंशुच्छुरिता विरेजुः
 शैला यथा कर्बुरिताभ्रलिप्ताः॥ १३ ॥

स्वनामसार्थीकरणाय भक्त्ति-
 च्छलेन गत्वातिबलेन राज्ञा ।
विधित्सितं पुंसवनादिकर्म
 पुरैव शक्रः स्वयमस्य चक्रे ॥ १४ ॥

मुग्धामरीगानसुधानिपान-
 मुदश्छलान्मीलितचक्षुरेषा ।
विचिन्वती क्षेमवतोऽपि सूनोः
 क्षेमित्वमायात् समयं प्रसूतेः ॥ १५ ॥

अवाप्य चैत्रासितपक्षपूर्णा-
 मथो तिथिं सश्रवणामसूत ।
असावहम्पूर्विकयेव सूनुं
 भानुं यदैवेन्द्रदिशा तदैव ॥ १६ ॥

बभुः स्त्रियस्तं निहतान्धकारं
नवोदितं विश्वजनैकमित्रम् ।
विलोकयन्त्यः सरसीव सौधे
फुल्लाक्षिपद्मा इव पुष्करिण्यः ।। १७ ॥

गृहान्तराले शशिकान्तभित्ति-
 विषैव निर्वान्ततमःप्रपञ्चे ।
सुराङ्गना कापि तदा प्रदीपा-
 नबोधयत् केवलमङ्गलार्थम् ॥ १८ ॥

हतान्धकारेऽपि शिशुप्रभावाद्
 गृहोदरे तद्द्युतिपूर्णमेतत्
अजानती काचन रत्नदीपा-
 नतिष्ठिपद् भक्तिभरेण मुग्धा ॥ १९ ।।

अरिष्टहर्म्यस्य सवज्रवेदे-
 बालाङ्गनीलद्युतिपूरितस्य ।
मध्ये विरेजुर्नवदीपमाला
 माला मणीनामिव वारिराशेः ॥ २०॥

कुमारजन्मादिमवार्तकर्त्रे
 कृताङ्गभूषो ह्यषितः क्षितीन्द्रः ।
विधूतपत्रोद्गतकोरकस्य
 विधामधान्नीपतरोर्मुहूर्तम् ॥ २१ ॥

गन्धाम्बुसिक्त्ता विरजाः पुरश्रीः
 श्रीखण्डपङ्केन विलिप्तदेहा ।

दुकूलमुक्तावलिमाल्यरम्या
 भृशं बभूवात्मपतेः प्रियाय ॥ २२ ॥

प्रत्यङ्गणं कल्पितपञ्चरत्न-
 रङ्गालयश्चक्रुरनेकभङ्गाः।
जिनेन्द्रजन्मावसरप्रणश्य-
 त्पयोधरस्रस्तधनुर्विशङ्काम् ॥ २३ ॥

उत्क्षिप्तचित्रध्वजपङ्क्तयोऽपि
 समीरमार्गे जिनजन्मह्यष्टाः।
चञ्चत्पताकाग्रमिवाभ्यनृत्यन्
 परस्परं गाढमिवालिलिङ्गुः ॥ २४ ॥

मृदङ्गमन्द्रध्वनिमांसलेन
 गीतेन नृत्यद्गणिकानिकायः।
उद्वेलमुज्जृम्भितरागवार्द्धे-
 स्तरङ्गमालाकृतिमाललम्बे ॥ २५ ॥

भव्याश्चिरं दुस्सहगन्धबन्ध-
 मुक्त्यर्थिनोऽस्मिन्नुदिते विमुक्तिम् ।
यास्यन्ति यत्तन्न ययुस्तदेव
 क्षितीन्द्रबन्द्यो यदिदं हि चित्रम् ॥ २६ ॥

श्रीखण्डषण्डेन जिनस्य गात्रे
 सौरभ्यमिभ्यं प्रहितोऽवगन्तुम् ।
प्रभूतभीतेरिव कम्पमान-
 श्च(का ? चा)र चारुर्मलयाद्रिवातः ॥ २७ ॥

प्रकाशते भानुसहस्रतुल्यं
 तथाप्यहो नेत्रसुखैकहेतुः ।
कुमारकोऽसाविति लज्जितः किं
 बभूव मन्दोष्णरुचिर्विवस्वान् ॥ २८ ॥

शुचित्ववृद्धेरसपत्नहेतो-
 र्जिनस्थ भक्त्या शुचयः कुरुध्वम् ।
प्रदक्षिणं यूयमितीव वक्तुं
 प्रदक्षिणत्वेन शुचिर्दिदीपे ॥ २९ ॥

रजांसि धर्मामृतवर्षणेन
 जिनाम्बुवाहः शमयिष्यतीति ।
न्यवेदयन्नम्बुधरा नितान्तं
 रजोहरैर्गन्धजलाभिवषैः ॥ ३० ॥

जिनस्य कालारिरिति प्रसिद्धिं
 विबुध्य भीता इव सेवनाय ।
वनाय सर्वे सहसावतेरु-
 र्वसन्तमुख्याः सममेव कालाः ॥ ३१ ॥

अहो विभुङ्क्ते सवितारमेषा
 तमीश्वरं द्वेष्टि च पश्यतेति ।
द्विरेफवृत्तिं जिनजन्मदम्भा-
 दम्भोजिनीमुत्पलिनी जहास ॥ ३२ ॥

अप्यद्ययावन्मधुपाननिष्ठाः
 सम्प्रत्यपाप इति गानभङ्ग्या ।

भृङ्गा वदन्तो विविशुः प्रतीत्यै
 पद्माभिकुण्डेषु परीत्य विद्मः ॥ ३३ ॥

मुक्ता रजोभिर्बहुकण्टकैश्च
 जिनप्रभावेन समुज्ज्वलात्मा ।
वसुन्धरापि प्रमदेन जाता
 सस्यच्छलाङ्कूरितरोमराजिः ॥ ३४ ॥

स्वभावशुद्धा अपि सर्वजीवा-
 श्चिरं रजोभिः परिभूयमानाः ।
न केवलं निर्गलितेषु तेषु
 दधुः प्रसादं ककुभोऽपि सद्यः ॥ ३५ ॥

गृहेषु शङ्खा भवनामराणां
 वनामराणां पटहाः पदेषु ।
ज्योतिस्सुराणां सदनेषु सिंहाः
 कल्पेषु घण्टाः स्वयमेव नेदुः॥ ३६ ।।

पुष्पाः पतन्तो नभसः सुधांशो-
 रेणस्य सिंहध्वनिजातभीतेः।
पदप्रहारैः पततामुडूनां
 शङ्कां तदा विद्रवतो वितेनुः ।। ३७ ।।

अभ्रात् पतन्तो मणयस्तदानी-
 मुच्चण्डघण्टाध्वनिताडनेन ।
भिन्नेन्द्रकोशालयतो जनानां
 मतिं वितेनुर्गलतां मणीनाम् ॥ ३८ ॥

जाते जिने मा जनि भूजनानां
 विपत्कणोऽपीति विभुत्वशक्त्या।
बन्दीकृतानीव भुवि ग्रहाणां
 बलानि रेजुर्मणयो विकीर्णाः ॥ ३९ ॥

देवोत्तमाङ्गान्यखिलोत्तमाना-
 मानम्यपादस्य विभोः प्रणामैः
सार्थं स्वनामेव विधातुकामा-
 न्यानेमुरत्यद्भुतमात्मनैव ॥ ४०॥

जिनामृतांशोरुदितात् त्रिलोक्या-
 मुत्कूलितस्य प्रमदाम्बुराशेः ।
प्रत्युज्ज्वलद्वीचिवशेन सत्यं
 भद्रासनानि द्युसदां विचेलुः ॥ ४१ ॥

विज्ञाय तेनाधिपजन्म पीठा-
 दुत्थाय सप्तेत्य पदानि नत्वा ।
प्रादापयन्मेघहयोऽतिमेघां
 प्रस्थानभेरीमभिषेक्तुकामः ॥ ४२ ॥

शङ्खादयोऽर्हज्जननं प्रणादै-
 रेकैकलोकं स्वमबूबुधंस्ते ।
तत् सर्वलोकानभिषेकयात्रां
 सा बोधयामीति मदादिवाप ॥ ४३ ॥

ज्योतिष्कवन्योरगकल्पनाथा
 भेरीप्रणादादवगम्य यात्राम् ।

विभूषिताङ्गाः सपरिच्छदाः खे
 विलोकयन्तः शतमन्युमस्थुः ॥ ४४ ॥

सामानिकैर्दिक्पतिभिः पदाति-
 गन्धर्वहस्त्यश्वरथाद्यनीकैः ।
शरीररक्षश्च समन्वितोऽयं
 शच्या सहास्थाय गजं प्रतस्थे ॥ ४५ ॥

सार्थैः सुरेन्द्रैस्तरिभिर्विमानैः
 सांयात्रिकोऽयं जलधिं विहायः ।
सन्तीर्य चिन्तामणिमीशितारं
 सञ्चेतुमेयाय खनिं कुशाग्रम् ॥ ४६ ॥

इन्द्रोऽथ रुद्रविभवं गणिकानिकाय-
 सङ्गीतकेलिरुचिरं रचिताष्टशोभम् ।
भक्त्या परीत्य पुरवन्नृपवासमीश-
 मानेतुमन्तरचिरेण ससर्ज कान्ताम् ॥ ४७ ॥

इत्यर्हद्दासकृतौ काव्यरत्ने भगवज्जन्मोत्सववर्णनो नाम

  चतुर्थः सर्गः

  अथ पञ्चमः सर्गः।

अदृश्यरूपाथ गृहे प्रविश्य
 ददर्श बालामृतभानुमारात् ।
शची जनन्याः स्थितमम्बरान्ते
 सुधारसस्यन्दिनमीक्षणानाम् ॥ १॥
वहन्त्यसौ भक्त्तिरसप्रवाहे
 दिदृक्षमाणेव दृढावलम्बम् ।

समर्प्य मायाशिशुमम्बिकायाः
 पुरो जहारोन्नतवंशमेनम् ॥२॥

पाण्योर्जिनं न्यस्य निरित्य हार्म्याद्
 व्रजन्त्यसौ वल्लभमाभिमुख्यात् ।
द्विरेफमध्याम्बुरुहेव रेजे
 सरोजिनी भानुमभिस्फुरन्ती ॥ ३ ॥

जिनास्थचन्द्रेक्षणमात्रतोऽभू-
 चतुर्निकायामररागसिन्धुः ।
विशृङ्खलो यत्र मुखस्मितानि
 वितेनिरे फेनविभङ्गलीलाम् ॥ ४ ॥

दिवौकसां बालसुधामरीचि-
 र्जयस्वनापूरितदिक्त्तटानाम् ।
हृदक्षिहस्तान् कुमुदेन्दुकान्त-
 कुशेशयार्थान् कुरुते स्म सद्यः ॥ ५ ॥

जिनाङ्गलावण्यरसप्रपूर्णे
 निश्शेषमस्मिञ् जगदन्तराले ।
विभासुरं तन्नगरं सुराणा-
 मजीजनत् पाशिपुराभिशङ्काम् ॥ ६ ॥

जिगाय शच्या शतमन्युहस्त-
 द्वये कृतस्तन्नयनाचिताङ्गः।
जिनार्भको भृङ्गकुलाभिरामं
 दामोत्पलानां मणिभाजनस्थम् ॥ ७ ॥

विभूषिताङ्गाः सपरिच्छदाः खे
 विलोकयन्तः शतमन्युमस्थुः ॥ ४४ ॥

सामानिकैर्दिक्पतिभिः पदाति-
 गन्धर्वहस्त्यश्वरथाद्यनीकैः।
शरीररक्षैश्च समन्वितोऽयं
 शच्या सहास्थाय गजं प्रतस्थे ॥ ४५ ॥

सार्थैः सुरेन्द्रैस्तरिभिर्विमानैः
 सांयात्रिकोऽयं जलधिं विहायः ।
सन्तीर्य चिन्तामणिमीशितारं
 सञ्चेतुमेयाय खनिं कुशाग्रम् ॥ ४६॥

इन्द्रोऽथ रुद्रविभवं गणिकानिकाय-
 सङ्गीतकेलिरुचिरं रचिताष्टशोभम् ।
भक्त्या परीत्य पुरवन्नृपवासमीश-
 मानेतुमन्तरचिरेण ससर्ज कान्ताम् ॥ ४७ ॥

इत्यर्हद्दासकृतौ काव्यरत्ने भगवज्जन्मोत्सववर्णनो नाम

  चतुर्थः सर्गः ॥

  अथ पञ्चमः सर्गः।

अदृश्यरूपाथ गृहे प्रविश्य
 ददर्श बालामृतभानुमारात् ।
शची जनन्याः स्थितमम्बरान्ते
 सुधारसस्यन्दिनमीक्षणानाम् ॥ १ ॥
वहन्त्यसौ भक्तिरसप्रवाहे
 दिदृक्षमाणेव दृढावलम्बम् ।

समर्प्य मायाशिशुमम्बिकायाः
 पुरो जहारोन्नतवंशमेनम् ॥२॥

पाण्योर्जिनं न्यस्य निरित्य हार्म्याद्
 व्रजन्त्यसौ वल्लभमाभिमुख्यात् ।
द्विरेफमध्याम्बुरुहेव रेजे
 सरोजिनी भानुमभिस्फुरन्ती ॥ ३ ॥

जिनास्यचन्द्रेक्षणमात्रतोऽभू -
 च्चतुर्निकायामररागसिन्धुः ।
विशृङ्खलो यत्र मुखस्मितानि
 वितेनिरे फेनविभङ्गलीलाम् ॥ ४ ॥

दिवौकसां बालसुधामरीचि-
 र्जयस्वनापूरितदिक्त्तटानाम् ।
हृदक्षिहस्तान् कुमुदेन्दुकान्त-
 कुशेशयार्थान् कुरुते स्म सद्यः ॥ ५ ॥

जिनाङ्गलावण्यरसनपूर्णे
 निश्शेषमस्मिञ् जगदन्तराले ।
विभासुरं तन्नगरं सुराणा-
 मजीजनत् पाशिपुराभिशङ्काम् ॥ ६ ॥

जिगाय शच्या शतमन्युहस्त-
 द्वये कृतस्तन्नयनाचिताङ्गः।
जिनार्भको भृङ्गकुलाभिरामं
 दामोत्पलानां मणिभाजनस्थम् ॥ ७ ॥

जिनाङ्गदीप्त्या पिहितस्वकान्ति-
 र्विकस्वरस्फारसहस्रनेत्रः ।
सुराधिनाथः शुशुभेऽञ्जनाद्रि-
 यथैव फुल्लस्थलपुण्डरीकः ॥ ८॥

करारविन्दद्वयभृङ्गराशिं
 जिनं पदाब्जद्वितये प्रणम्य ।
चकार देवाधिपतिर्द्वितीय-
 मनर्घ्यचूडामणिमुत्तमाङ्गे ॥ ९॥

अथैष संसारमहाम्बुराशिं
 समुत्तितीर्षुर्जिनपोतमेनम् ।
दधत् कराभ्यां दृढमुत्सवेन
 स्वसिन्धुरस्कन्धतटं निनाय ॥ १० ॥

द्वात्रिंशदास्यानि मुखेऽष्ट दन्ता
 दन्तेऽब्धिरब्धौ बिसिनी बिसिन्याम् ।
द्वात्रिंशदब्जानि दलानि चाब्जे
 द्वात्रिंशदिन्द्रद्विरदस्य रेजुः ॥ ११ ॥

अस्पृष्टनीरेजदलं नटन्त्यो
 नट्यः सुराणामभितो नृसिंहम् ।
रंहो वितेनुर्निजवल्लभाशा-
 प्रकाशमानाब्जनिवेशनानाम् ॥ १२ ॥

ईशाननाथः स्वयमातपत्रं
 दधौ तदूर्ध्वोभयकल्पनाथौ ।
प्रकीर्णके प्राक्षिपतां परेऽपि
 यथावमासन् करणीयभाजः ॥ १३ ॥

संसारगर्तापतिताखिलैक-
 हस्तावलम्बं जिनराजमिन्द्रः ।
हृदा च दोर्भ्यामवलम्बमानः
 पथा सुराणामथ संप्रतस्थे ॥ १४ ॥

आकारमात्रेण तुषारशैल!
 का कूटराशेस्तव तुल्यतेति ।
आकर्णयिष्यन्निव विप्रलापा-
 नाकाशमार्रोऽक्रमताभ्रनागः॥ १५ ॥

आरुह्य नानाविधवाहनानि
 जिनाग्रवामेतरपृष्ठदिक्षु ।
क्रमेण वन्योरगकल्पवासि-
 ज्योतिष्कनाथा व्यचलन् ससैन्याः॥ १६ ॥

नभोन्तरे नाथतनुप्रभाभिः
 प्रपूरिते प्रोज्ज्वलरत्नकूटाः।
बभुर्विमानाः कुलिशास्त्रभीतेः
 समुद्रमग्ना इव सानुमन्तः ॥ १७ ॥

जिनाङ्गदीप्त्या दधुरभ्रवीथ्यां
 तरङ्गितायां सितचामराणि ।
सुरावधूतानि कलिन्दकन्या-
 तरङ्गदोलारतहंसलीलाम् ॥ १८ ॥

चला न्यलीयन्त जिनाङ्गरोचि-
 र्वीचीप्रपञ्चेऽगरुधूमलेखाः ।
हरेर्विभीताः फणिराजपत्न्य-
 स्तरङ्गकुञ्जेष्विव यामुनेषु ॥ १९ ॥

नभस्थलेनागरुधूमलेखाः
 स्फुरत्स्फुलिङ्गाः शशिशङ्कयामी ।
सितातपत्रग्रसनाय धाव-
 द्विधुन्तुदा वान्तविषस्फुलिङ्गाः ॥ २० ॥

अङ्गारविक्षिप्तदशाङ्गधूपः
 सङ्क्रान्तसन्ताप इव क्षणेन ।
आश्लिष्यदुत्थाय पटीरहार-
 कर्पूरकल्हारपयोरुहाणि ॥ २१ ॥

गद्येन पद्येन च दण्डकेन
 शशंस गीतेन च गाथया च ।
मरुद्गणोऽयं न परं परोऽपि
 गुहामुखोद्यत्प्रतिशब्ददम्भात् ॥ २२ ॥

वियत्तलं वीतघनाधनौघ-
 मपि प्रपूर्णं जिनदेहभासा ।
विभिन्ननीलाञ्जनसन्निभेन
 पुनर्घनापूर्णमिवाबभासे ॥ २३ ।।

जिनाम्बुदोऽसाविभदानवृष्टि-
 र्नटीतटिद् वाद्यनिनादगर्जः।
विमानमालारुचिकार्मुको दि-
 व्याकालिकीं प्रावृषमाततान ॥ २४ ॥

अभ्राण्यदभ्राणि सुरेभदन्त-
 प्रोतानि रेजुः परितो जिनेन्द्रम् ।
उत्क्षिप्यमाणानि मुदामुनेव
 चन्द्राश्मदण्डातपवारणानि ॥ २५ ॥

सेनापदामर्दितपाण्डुमेघान्
 मुक्त्तागुरूनभ्रतले बिडालाः ।
हठेन दध्यन्नधिया व्रजन्तः
 स्कन्धाधिरूढाननयन्त मन्युम् ॥ २६ ॥

प्रयाणवेगानिलनीयमानाः
 पयोधराः श्यामतनूनिभेन्द्रान् ।
सगर्जितानूर्जितदानवर्षान्
 स्वबन्धुबुद्ध्या ध्रुवमन्वरुन्धन् ॥ २७ ।।

सदाभियुक्त्तापि तदामरौघै:
 सहोत्पला भानुसुता प्रतीये।
जिनाङ्गरोचिर्निचयेन दिग्धा
 विबुद्धहेमाम्बुरुहा द्युसिन्धुः ॥ २८ ॥

विशालमाकाशतलं चकाशे
 विभुप्रभाश्यामलतारकौघम् ।
विपाकनीलैर्विपुलैः फलौघै-
 र्विलम्बमानामभिभूय जम्बूम् ॥ २९ ।।

स्वशून्यवादे परमागमेन
 सद्यो निरस्ते विशदान्तरस्य ।
व्योम्नो विरेजुः पुलकोपमानि
 जिनप्रभाश्यामलतारकाणि ॥ ३० ॥

मुग्धाप्सरा कापि चकार सर्वा-
 नुत्फुल्लवक्रान् किल धूपचूर्णम् ।

रथाग्रवासिन्य रुणे क्षिपन्ती
 हसन्तिकाङ्गारचयस्य बुद्धया ॥ ३१ ॥

मन्दाकिनीसालिसितारविन्द-
 धियान्यया मूर्ध्नि कृतो मृगाङ्कः ।
अमन्यतापूर्णसुधं तमन्या
 सनीलनीरेरुहदुग्धकुम्भम् ॥ ३२ ॥

अगच्छिदर्हद्द्युतिभानुजायां
 सुरद्विपद्युत्सुरसिन्धुसख्याम् ।
मज्जत् प्रतीहारसुरासुराणा-
 मनीकमाद्रिं कथमप्यनैष्ट ॥ ३३ ॥

 गिरीशमुद्यद्द्विपदन्तवृत्तिं
रवीन्दुतारामरसेव्यपादम् ।
 दिगम्बरैरावृतमेनमारा-
दपश्यदग्रे प्रभुतुल्यमिन्द्रः ॥ ३४ ॥

सजातरूपोऽपि गिरिः प्रवृत्त-
 दिगम्बराक्रान्तिरुदग्रकूटः ।
अघान्तकं पापभियाभ्ययासीत्
 किमित्यमर्यैर्भणितः क्षणाप्तः ॥ ३५ ॥

द्युमण्डलं मध्यगतस्य मेरो-
 र्मणिप्रभापञ्जरभासमानम् ।
विभोरमुष्योपरि हेमदण्डां
 बभार नीलातपवारणाभाम् ॥ ३६ ।।

अगाह्यतः पाण्डुवनं समन्ता-
 दुपर्यटन्त्या सुरसेनयाद्रेः ।
सजीवचित्राङ्कितमन्दवायु-
 चलोत्तरीयश्रियमावहन्त्या ॥ ३७ ॥

अनीकिनीमत्र वने समस्तां
 सुरद्रुमच्छायसुखे यथार्हम् ।
निवेशयन् पाण्डुशिलामवाप
 पूर्वोत्तरस्यां दिशि तस्य जिष्णुः ॥ ३८ ॥

शतार्धमष्टौ शतमुज्ज्वलाया
 विशालतामुन्नतिमायतिं च ।
क्रमेण यस्याः खलु योजनानि
 वदन्ति सर्वज्ञजिनेन्द्रपादाः ॥ ३९ ।।

आद्यद्विकल्पेशपरार्ध्यपीठ-
 मध्यस्थजैनासनरम्यमध्या ।
सतोरणा रत्नमयाञ्चला या
 समङ्गला शुक्त्तिसमाकृतिश्च ॥ ४० ॥

या चाबभासेऽमरकल्पितेन
 महाभिषेकोत्सवमण्डपेन ।
ज्वलन्मणिस्तम्भसहस्रमुक्त्ता-
 वितानचित्रध्वजभूषितेन ॥४१॥

अभ्रेऽवलम्बरहिते सुचिरं सुमेरु-
 क्ष्माभृत्प्रदक्षिणकृतिश्रमभारशान्त्यै ।

प्राप्तोऽष्टमीन्दुरिव पाण्डुवनं शिलैषा
 प्रादात् सुरेन्द्रनयनोत्पलषण्डहर्षम् ॥ ४२ ॥

इत्यर्हद्दासकृतौ काव्यरत्ने भगवन्मन्दरानयनवर्णनो नाम

  पञ्चमः सर्गः

  अथ षष्ठः सर्गः।

अथामरेन्द्रेण गजेन्द्रतो जिनः
 संनीयमानः प्रति पाण्डुकं महत् ।
निराकृतोग्रो मधुनेव मन्मथो
 नितम्बमुच्चैः शुशुभे हराचलात् ॥ १॥

 नगेन्द्रफालस्थलबहपट्टिका-
शिलोपरि स्थापित एष जिष्णुना ।
 जिनार्भकः प्रोतपुरन्दरोपल-
स्फुरन्मनीषामपुषद् दिवौकसाम् ॥ २ ॥

 तरङ्गितज्योतिषि तच्छिलातले
सरोजरागद्विपवैरिविष्टरे ।
 तरङ्गिताम्बौ त्रिदिवौकसां सर-
स्यलिर्यथा कोकनदेऽशुभद् विभुः॥ ३ ॥

 जिनेश्वरः पाण्डुशिलाप्रमान्तरे
रराज माणिक्यमयासने स्थितः ।
 हरिर्यथा विद्रुमरागरञ्जिते
फणीन्द्रभोगे कलशार्णवान्तरे ॥४॥

 जिनेन्द्रपाड्डोर्मणिपीठरश्मिभिः
प्रवेणितः कान्तिरयो व्यराजत ।

यथा निमज्जद्वनिताङ्गकुङ्कुम-
 द्रवैर्जलौधो यमुनात्रिमार्गयोः ॥५॥

बभौ नगेन्द्रः प्रभुपीठपाण्डुक-
 प्रभावितानैः परितस्तिरोहितः ।
यथैव तापात्ययसान्ध्यशारदै-
 र्घनाघनौधैर्युगपत् समावृतः ॥ ६ ॥

अथेन्द्रवाचा मणिदण्डभृद् विभुं
 देद्दक्षयोपव्रजतो मुहुर्मुहुः ।
धनी दिगीशान् सपरिच्छदान् हठा-
 निजे निजेऽस्थापयदाशु धामनि ॥ ७ ॥

जिनाभिषेकाय सुराङ्गनाजनं
 सुरप्रतानं सुरनायकानपि ।
अशेषकृत्यं जिनभक्त्तिभात्रितान्
 यथाईमग्राहयदेष कृत्यवित् ॥ ८ ॥

अनन्तरं दक्षिणवामभागयो-
 र्जिनस्य पूर्वाभिमुखस्य सुस्थिते ।
शचीपतीशानपती ससम्भ्रमौ
 निजासने सम्मुखमध्यरोहताम् ॥ ९ ॥

अनेकतीर्थोपहतैरथाम्बुभि-
 र्घटोद्धृतैः स्नापयितुं जिनार्भकम् ।
यदारभेते स्म मुदा सुरानक-
 स्तदाप्सरोगीतरवाप्तदिक्तटम्॥१०॥

तदा ऋभूणामुभयी घटा घटैः
 पयांसि नेतुं घटिता प्रयत्नतः ।
सुमेरुचूलादि सुधार्णवावधि
 प्रबद्धनीलो(त्प? प) लतीर्थपद्धतिः॥ ११ ॥

बभुर्व्रजन्तो मणिकुम्भधारिणः
 सुधाशिनः पाण्डुवनात् पयोवनम् ।
जिनेन्द्रभक्त्या जलनीतये स्वयं
 प्रवृत्तपत्राङ्गसुरद्रुमा इव ॥ १२ ॥

भुवा च भीत्या भिदुरात्मकं सुराः
 स्वभावतो व्द्यक्षमुखैर्विवर्जितम् ।
विशालमाद्यन्तविदूरमद्भुतं
 गभीरमापुरत्वरया पयोनिधिम् ॥ १३ ॥

निपीड्य लक्ष्मीमपहृत्य चक्रिरे
 ठकाः स्वकं जीवनमात्रशेषकम् ।
अपीदमायान्त्यपहर्तुमित्यगा-
 दपांनिधिर्वेपथुमूर्मिभिर्न तु ॥ १४ ।।

मरुत्सु कुम्भान् युगपत् क्षिपत्स्वलं
 जलाय संक्षोभामिषेण सागरः ।
जिनोत्सवार्होऽहमभूवमित्यभू-
 न्मुदा समुन्मेषित एष केवलम् ॥ १५ ॥

विनिन्युरेकं मुखयोजनं घटै-
 र्दधद्भिरष्टादश योजनानि च ।

जलानि सर्वाण्यपि दुग्धवारिधेः
 स्वकेन मार्गेण धराधरं सुराः ॥ १६ ॥

जिनोऽयमक्षीणमहानसर्द्धिभाग्
 भविष्यतीत्यस्य विवक्षया स्फुटम् ।
वितीर्णमप्यम्बुधिना पयोऽखिलं
 जिनाधिपायाक्षयतामयात् पुनः॥ १७ ॥

अथामरेन्द्रौ सुरवृन्दढौकितान्
 भुजैरनेकैर्विकृतैः पयोघटान् ।
विधृत्य जन्माभिषवं विधीच्छया
 सुनिर्मलस्यापि जिनस्य चक्रतुः ॥ १८ ॥

सुवर्णगारुत्मतरूप्यकुम्भिभि-
 र्भुजासहस्रैरमराधिपावुभौ ।
व्यराजतां पाकशलाटुपुष्पिभि-
 र्लतासहस्रैरिव कल्पशाखिनौ ॥१९॥

शिशुश्च शैलश्च धृतिं परीक्षितुं
 ध्रुवं सुरेन्द्रद्वितयेन वारिधेः ।
निपीड्यमानौ युगपत् सुधाजलै-
 रुभावभूतां समधैर्यसम्पदौ ॥२०॥

वहत्पयःपूरशतानि पाण्डुकाद्
 बभुस्त्रिलोकैकगुरोर्जिनेशिनः ।
भरेण भिन्नादभितो विनिस्सरत्-
 प्रभूतनिर्यासरसप्रवाहवत् ॥ २१ ॥

नगेन्द्रसम्पत्तिदिदृक्षया ध्रुवं
 पयःप्रवाहाः परितोऽपि सम्भ्रमात् ।
हटत्तटीशृङ्गशिलागुहासरो-
 वनेषु पर्याटुरनेकधा चिरम् ॥ २२ ॥

वहत्पयःपूरशतोऽभितो बभौ
 सुमेरुराच्छिद्य पतत्रयोर्द्वयम् ।
पुनश्च केनापि चलिष्यतीत्ययं
 गिरिद्विषा राजतरज्जुबद्धवत् ॥ २३ ॥

विरेजुरुन्मग्ननिमग्नमूर्तयो
 मुहुर्मुहुर्ज्योतिषलोकसंश्रिते ।
पयःप्रवाहे परितोऽपि तारका
 यथैव विस्पष्टविनष्टबुद्बुदाः ॥ २४ ॥

निशाकराहस्करभार्गवासितै-
 रलक्ष्यत क्षीरतरङ्गिणी क्षणम् ।
सिताब्जरक्ताम्बुजकैरवोत्पलै-
 र्विराजमानेव वियत्तरङ्गिणी ॥ २५ ॥

वहन्ति नानामणिमेदिनीप्रभा-
 प्रबद्धदुग्धाम्बुधुनीशतान्यभुः।
सुरेन्द्रभीताचलपालिनेऽब्धये
 नगाधिपक्षितविचित्रवस्त्रवत् ॥ २६ ॥

महीभृता तेन तदोपदीकृताः
 पयस्तटिन्यो भुवनैकपालकम् ।

सुगोत्रलावण्यनिवासमर्णवं
 समेत्य वर्याः स्वमयं व्यधुः क्षणात् ॥ २७ ॥

अथामरास्तीर्थजलैः सुरेश्वर-
 द्वयेन सृष्टे जिनगन्धवारिणि ।
पटीरकर्पूरनिषद्वराविले-
 ऽप्यहो ममन्जुर्हतपापकर्दमे ॥ २८ ॥

बभौतरां पाण्डुकसंज्ञिता शिला
 समीपकीर्णैः स्नपनोदबिन्दुभिः ।
यथा शरच्चन्द्रकलोडुभिः श्रितै-
 र्यथाच शुक्तिर्नवमौक्तिकैश्च्युतैः ॥ २९ ॥

प्रमार्ज्य निर्मज्जनशीकरांस्तनौ
 दुकूलचेलाञ्चलपल्लवेन तम् ।
शची विमुग्धा जगदेकवृद्धम-
 प्यलंचकाराखिलबालभूषणैः ॥ ३० ॥

निसर्गरन्ध्रश्रुतिसंश्रयाभ्यां
 रराज रक्तोत्पलकुण्डलाभ्याम् ।
जिनाधिपः पल्लवितद्विपार्श्वो
 यथा रसालः शिशिरात्ययस्य ॥ ३१ ॥

हारस्य मुक्ता गलशङ्खमुक्ता
 इव प्रभोरङ्गमरीचिवश्याः ।
उरःकपाटीयमुनादान्त-
 र्वितेनिरे बुबुदपङ्क्तिलीलाम् ॥ ३२ ॥

महीधरे तत्र निषेदिवांसं
 तमालनीलाकृतिमुद्वहन्तम् ।
पयोदबुद्धया श्रितमिन्द्रचाप-
 म(सि?स)स्मरद् रत्नमयः कलापः ॥ ३३ ॥

बालामृतांशोर्ध्रुवमस्य पाद-
 मेकान्ततः पङ्कजरुक्मशान्तेः ।
निबन्धनं बन्धुहिताय भानु-
 र्भेजे ज्वलन्नूपुरवेषधारी ॥ ३४ ॥

कलङ्कमुक्त्यै सकुटुम्बमिन्दु-
 नखच्छलेनाभजदस्य पादौ।
सदाश्रयं सोऽपि न मोचयेति-
 च्छलेन नीलोपलकिङ्किणीनाम् ॥ ३५ ॥

मुहुर्विलिप्तोऽपि जिनेन्द्रगात्रे
 शचीशरत्नोज्ज्वलभासि शच्या ।
सितानविभ्राजिपटीरपङ्क:
 स्फुटोऽभवत् केवलसौरभेण ॥ ३६॥

अथाखिलेन्द्रैः सहितोऽमरेन्द्रः
 समर्चनाभिः स्तवनैश्च नाट्यैः ।
समाप्य जन्माभिषवं समग्रं
 कुशाग्रमेनं पुनरानिनाय ॥ ३७ ॥

ऋभुक्षिचक्षुर्द्युतिसिच्यमानो
 जिनो बभौ देवगजे निषण्णः ।

तदापि पाण्डूपरि रत्नकुम्भ-
 शतक्षरत्क्षीरनिषिच्यमानः ॥ ३८ ॥

पुरं नृपागारमपि प्रवेश्य
 पुरैव यक्षेन्द्रकृते सुरेन्द्रः।
निवेशयामास स हेमपीठे
 सभागृहे रत्नमये जिनेन्द्रम् ॥ ३९ ॥

ततः सुतास्येन्दुविलोकमात्र-
 प्रवृद्धहर्षामृतसिन्धुमग्नौ।
विलोक्य मातापितरौ स्मितास्यो
 निवेदयामास समस्तमिन्द्रः॥४०॥

माता स्वयं च परिरम्भमिषेण देवं
 रोमाञ्चनीपकलिकानिकरैः कृतार्ध्या ।
प्रीत्याभ्यषिञ्चदमितप्रमदाश्रुनीरैः
 स्वच्छैरतुच्छकुचकुम्भपयोद्वितीयैः ॥ ४१ ॥

मणिकाञ्चनदिव्यवस्त्रदानैः
 पटुभेरीपटहोत्थितारवैश्च ।
युगपत् परिपूरिताखिलाशं
 विदधे स्वःपतिरस्य जातकर्म ॥ ४२ ॥

करिष्यते मुनिमखिलं च सुव्रतं
 भविष्यति स्वयमपि सुव्रतो मुनिः ।
विवेचनादिति विभुरभ्यधाय्यसौ
 बिडोजसा किल मुनिसुव्रताक्षरैः ॥ ४३ ।।

देवर्मिज्जनमण्डनादिकरणे प्रौढाः प्रहृष्टाशया
 देवांश्चापि विनोदकर्मणि समानाकृत्यवस्थां गतान् ।
देवस्यास्य नियुज्य निर्जरपतिः प्रत्युद्ययौ स्वं जगत्
 प्रीत्यानुव्रजतो विसृज्य विबुधान् फालाग्रबद्धाञ्जलीन् ।

इत्यर्हद्दासकृतौ काव्यरत्ने भगवज्जन्माभिषेकवर्णनो नाम

   षष्ठः सर्गः॥


   अथ सप्तमः सर्गः।

 न निर्जरैर्वर्जितसेवनोऽयं
न कान्तिसम्भावितशुक्लपक्षः।
 नच प्रदोषावसरं प्रपन्नः
क्व विद्म बालेन्दुरियाय वृद्धिम् ॥ १ ॥

 कराङ्गुलिं लिप्तसुधां स लीढ्वा
बबन्ध मातुः स्तनयोर्न बुद्धिम्।
 सुरेन्द्रवन्द्यः सुरदेहतायां
चिरानुभूतामृततृष्णयेव ॥ २ ॥

जिनार्भकस्येन्द्रियतृप्तिहेतुः
 करे बभूवामृतमित्यचित्रम् ।
चित्रं पुनः स्वार्थसुखैकहेतु-
 स्तच्चामृतं तस्य करे यदासीत् ॥ ३॥

उल्लोकितैरुत्पललोचनायाः
ससम्भ्रमोत्क्षेपणकौतुकेषु ।

रराज राजाङ्गभवोऽन्तरिक्षे
 तटिल्लताश्लिष्ट इवाम्बुवाहः ॥ ४ ॥

नराधिपेनोरसि नीयमानो
 बभार हारान्तरनायकत्वम् ।
भेजे चलत्कुण्डलतां भुजाग्रे
 चूडामणित्वं शिरसि प्रपन्नः ॥ ५ ॥

करात् करं बन्धुजनस्य गच्छन्
 रराज विभ्राजितहेमसूत्रः ।
स लेखवन्द्यः कृतहेमलेखो
 वणिग्जनस्येव निकाषपट्टः ॥ ६ ॥

स जानुचारी मणिमेदिनीषु
 स्वपाणिभिः स्वप्रतिबिम्बितानि ।
पुरः प्रधावत्सुरसूनुबुद्धया
 प्रताडयन् नाटयति स्म बाल्यम् ॥ ७ ॥

शनैः समुत्थाय गृहाङ्कणेषु
 सुराङ्गनादत्तकरः कुमारः ।
पदानि कुर्वन् किल पञ्चषाणि
 पपात तद्वीक्षणदीनचक्षुः ॥ ८॥

स पांसुकेलौ सुरतर्णकानां
 करावकीर्णैर्नवरत्नचूर्णैः ।
कृतोपवीतो व्यरुचत् कुमारः
 सदिव्यधन्वेव नवाम्बुवाहः ॥ ९ ॥

अशेषविज्ञोऽनिमिषैः परीक्षा-
 प्रदित्सयेवैष विधीयमानान् ।
नियुद्धमुख्याखिलबालकेलीन्
 निरूपयामास नरेन्द्रसूनुः ॥१०॥

गतोनपादायुतवत्सरस्य
 श्रितं ततो यौवनमस्य गात्रम् ।
मधुर्यथा नन्दनपारिजातं
 शरद् यथा सान्ध्यसुधामयूखम् ॥ ११ ॥

अधर्मता निर्मलता च नित्यं
 पयः सुधा वङ्निकरो हितत्वम् ।
समाकृतिः संहननं च पूर्वं
 सुगन्धिता निन्दितकैणनाभिः ॥१२॥

परश्शतैरम्बुजकम्बुमत्स्य-
 श्रीवत्समुख्यैर्वरलक्षणैश्च ।
सद्व्यञ्जनैश्चोनसहस्रको१ण-
 मसूरिकाद्यैरुपलक्षितत्वम् ॥ १३ ॥

विलोचनासेचनकं स्वरूपं
 वचांसि पीयूषरसालघट्टाः ।
जगत्त्रयीमप्यतथाविधातुं
 पटीयसी काचन दिव्यशक्तिः ॥ १४ ॥

युतः स्वभावातिशयैरमीभिः
 कृतोन्नतिर्विंशतिचापदण्डैः।

विषाग्निशस्त्रादिविघातदूर-
 स्त्रिदोषवैषम्यभवामयारिः ॥ १५ ॥

त्रिंशत्सहस्रीमितवत्सरायुः
 स्फुटातसीसूनसमानवर्णः ।
तदायमुत्सृष्टधनुःशरस्य
 स्मरस्य शङ्कां जनयाम्बभूव ॥ १६ ॥

पित्रापि निर्वर्तितदारकर्मा
 ततः स यूनामधिपोऽपि वृद्धाम् ।
अग्राह्यत स्वामधिराजलक्ष्मीं
 पुरैव राजा जगतां त्रयाणाम् ॥ १७ ॥

पुण्यैकलभ्योऽधिकसौख्यहेतु-
 र्विचित्रवर्णो विशदान्तरङ्गः ।
नृपासनस्थोऽनमयत् त्रिलोकीं
 सदीपवर्तीन् निधिवत् पदाग्रे ॥ १८ ॥

आस्थानलक्ष्म्याः सगुणोरुकान्ति-
 नृपावलीमौक्तिकहारमध्ये ।
स्थितो दधौ नायकरत्नशोभा-
 मसौ महानीलरुचिर्नृपेन्द्रः ॥ १९ ॥

स चन्द्रपाषाणसभापयोधौ
 सचामरोल्लोलतरङ्गमाले ।
शेषोपमस्फाटिकविष्टरस्थः
 श्रिया सनाथो हरिवञ्चकाशे ॥ २० ॥

चकम्पिरे हेममयाः किरीटा
 मुहुः सभासौधसदां नृपाणाम् ।
जिनोक्तिपीयूषजुषां यथामी
 मरुद्वशाज्जाह्नवपद्मकोशाः ॥ २१ ॥

जिनाम्बुदः पीठनगाधिरूढो
 दिवौकसामेष धिनोतु वृन्दम् ।
प्रवर्षणैर्वागमृतस्य चित्रं
 प्रमोदयामास च राजहंसान् ॥ २२ ॥

स्वस्थैरदुस्थोऽतनुसौख्यकृष्टै-
 र्जुष्टामृतैरष्टगुणाभिरामैः।
वृतोऽजरैः सिद्ध इवैष रेजे
 विलोकयल्लोँकगतिं समस्ताम् ॥ २३ ॥

नरोरगस्वर्गिमनोरमाभि-
 रुपास्यमानः स बभौ सभायाम् ।
जयार्थमुन्मुद्रितशस्त्रकोशो
 जगत्रयाणामिव पुष्पकेतुः ॥ २४ ॥

उपायनीकृत्य गजाश्वरत्ना-
 न्युपागतानामधिपं नृपाणाम् ।
न केवलं मार्गरुधो नगेन्द्रा
 निपेतुरेषां दुरिताद्रयश्च ॥ २५ ॥

भक्तुं जिनेन्द्रं व्रजतां नृपाणां
 चमूपदोधूतपरागपाल्या ।
विहाय चेतांसि पलायमान-
 कपोतलेश्याकृतिरन्वकारि ॥ २६ ॥

चित्रं कृपालोर्जिनपस्य राज्यं
 यत् प्राप्तबन्धानपि पापदस्यून् ।
बाधां दुरन्तां ददतो नितान्तं
 विमोचयामास जगज्जनानाम् ॥ २७ ॥

जिनेऽवनिं रक्षति सागरान्तां
 नयप्रतापद्वयदीर्घनेत्रे ।
कस्यापि नासीदपमृत्युरीति-
 पीडा च नाल्पापि बभूव लोके ॥ २८ ॥

अधर्मता खड्गिनि तस्य राज्ये
 पयोधरे सत्पथरोध आसीत् ।
वधूकटाक्षे श्रवणातिपातो
 गजे कदाचिद् यदि दानलोपः ॥ २९ ॥

रतिक्रियायां विपरीतवृत्ती
 रतावसाने किल पारवश्यम् ।
बभूव मल्लेषु गदाभिघातो
 भयाकुलत्वं रविचन्द्रयोश्च ॥ ३० ॥

इति निरुपमभक्त्या सानुरक्तयावनम्र-
 त्रिभुवनपरिचूडाचित्ररत्नांशुवर्त्या ।
विलिखितपदपीठे राजपीठे स तस्थौ
 दश दश शतसङ्ख्यान् वत्सरान् पञ्च चैव ॥ ३१ ।

इत्यर्हद्दासकृतौ काव्यरत्ने भगवत्कौमारयौवनदारकर्मसाम्राज्यवर्णनो

   नाम सप्तमः सर्गः ॥

अत्रान्तरे श्रुतधरः श्रुतधर्मतत्त्वै-
 र्भव्योत्तमैर्दमवराख्यमुमुक्षुमुख्यः ।
आलोक्य यागक१रिपुङ्गवह२स्तहर्ष-
 मापृष्ट इत्यचकथद् गजराजवृत्तम् ॥ १ ॥

राजाभवन्नरपतिः पुरि पूर्वताले
 दानं ददौ निकृतनिर्मलजैनधर्मः ।
स्वैरं कुपात्रनिवहाय ततोऽजनिष्ट
 सोऽयं गजः स्मृतवतः कबलं निरुन्धे४ ॥ २ ॥

आकर्ण्य तद्वचनमाप्तभवस्मृतिः सन्
 सद्यः सदृग्विकलसंयममग्रहीत् सः ।
श्रृत्या जगत्त्रयगुरुस्तदिदं सभास्थो
 निर्वेदमात्महृदये विभराम्बभूव ॥ ३ ॥

हन्ताशुभाशरणदुःखचले भवेऽस्मिन्
 बीभत्सके वपुषि चेतननेययन्त्रे ।
प्रारम्भमृष्टपरिणामकटौ च भोगे
 लोलो बसाम्यलमलं स्वहिते यतिष्ये ॥ ४ ॥

तं निश्चितात्मकरणीयतया बसन्तं
 स्वान्तर्नितान्तमवधार्य विमुक्तिनार्या ।
सम्पर्कलालसधियेव चरा विसृष्टाः
 सम्प्राप्य साधु जगदुर्जगदन्तदेवाः ॥ ५॥

अस्मात् तृतीयजनने जननान्धकूपा-
 दभ्युद्धरेयमखिलं जगदित्युदीर्णा ।
चित्तस्थले तव कृपाच्छलकल्पवल्ली
 या साद्य देव ! फलिता जगदेकबन्धोः ॥६॥

सांयात्रिकस्त्वमसि बोधनकर्णधारो
 यस्मात् तपःप्रवहणो गुणरत्नवाही ।
तस्माद् विनेयवरसार्थयुतो विमुक्ति-
 द्वीपं गमिष्यसि भवाम्बुनिधेरवश्यम् ॥७॥

स्वं लोकमित्थमभिवन्द्य गतेषु तेषु
 देवोऽपवर्गपुरसाधननिर्गमं तम् ।
बन्धून् निवेद्य जननीजनको परांश्च
 प्राज्यं नियोज्य तनये विजये स्वराज्यम् ॥ ८ ॥

तीर्थाम्बुनाथदिविजप्रभुणाभिषिक्तो
 दिव्याङ्गरागवसनाभरणैः प्रसिद्धः ।
अग्रेभवां ग्रहविवर्तमिव स्फुरन्ती-
 मध्यारुरोह शिबिकामपराजिताख्याम् ॥ ९॥

भूमीभृतामभृत सप्त पदानि भूमौ
 विद्याधृतां वियति सप्त पदानि वृन्दम् ।
आरभ्य पाण्डुवनमप्यृतुभिः प्रपन्नै-
 रानिन्यिरे तदनु नीलवनं निलिम्पाः ॥ १० ॥

रेजे नभःस्थलविराजिविमानराजि-
 रश्मिप्रतानविततापविभागमेतत् ।

अत्तुं फलप्रकरमापततो विहङ्गा-
 नानायविस्तृतमिवोपरि निग्रहीतुम् ॥ ११ ॥

रेजे बहिर्घटितरत्नविमानमेत-
 दन्तश्चरामरगलन्मकरन्दधारम् ।
सेन्द्रायुधं सचपलं च २सवारिधार-
 मभ्रच्युतं मिथ इवाहतमभ्रजालम् ॥ १२ ॥

यानादथायमवतीर्य वनस्य मध्ये
 श्रीदेन दिव्यपदमण्डपिकां प्रक्लृप्त
आविश्य देवपतिदत्तकरावलम्बः
 श्रीदृब्धमौक्तिकचतुष्कमलञ्चकार ॥ १३ ॥

षष्ठोपवासनियमी सुरदिङ्मुखस्थः
 पल्यङ्कवान् परिहृताम्बरमाल्यवेषः ।
त्यक्ताखिलोपधिरुपेतसहस्रभूभृ-
 दुच्चार्यमाणवरसिद्धनमस्कृतिश्च ॥ १४ ॥

उत्खाय पञ्चभिरुञ्चितमुष्टिबन्धैः
 कैश्यं स पञ्चभवमूलचयं यथैव ।
वैशाखकृष्णदशमीदिवसेऽपराह्णे
 दीक्षामुपादित युतश्रवणे सिताशौ ॥ १५ ॥

लोकत्रयैकगुरुरेष पुरैव पूर्ण-
 चारित्रशीलगुणसंयमभारवाही ।
प्राप्ताखिलर्द्धिरुपजातचतुर्थबोधि-
 रत्यन्तगौरवपदं पुनरास देवः ॥ १६ ॥

रेजेतरां दशशतैः श्रमणैरुपेतो
 नेत्रैरिवामरपतिः किरणैरिवार्क: ।
परिवाम्बुलमरैरिव चक्ररत्नं
 शेषः फणैरिव निधानमिवैष यक्षैः ॥ १७ ॥

यस्माद् बभूव लवनं नियमेन तस्मि-
 न्ने: पुष्पधन्व धुनतः पुरतो जिनेन ।
तस्मात् तदादि किल नीलवनाभिधानं
 तस्याभवत् त्रिभुवनप्रथितं वनस्य ॥ १८ ॥

पश्चाज्जिनालकभरं मणिभाजनस्थं
 रक्तोत्पलस्थमिव भृङ्गकदम्बमिन्द्रः।
चिक्षेप दुग्धजलधौ जयघोषघूर्णद्-
 बम्भाप्रणादबधिरीकृत्तसर्वलोकम् ॥ १९ ॥

यो यत्र यत्र जिनकुन्तलकर्बुरोऽभू-
 च्छैवालमञ्जरितवत् स हि तत्र तत्र ।
क्षीराम्बुधिस्त्रिदशलोकमनांसि कर्षन्
 वातावधूर्णितघनावृतवद् बभासे ॥२०॥

तं पारणां वृषभसेन इति प्रतीतो
 राजाथ राजगृहनामनि राजधान्याम् ।
श्रद्धादिसप्तगुणवान् नवभेदभिन्नैः
 पुण्यैरकारयदुपस्थितपूर्वपुण्यः ॥ २१ ॥

आश्चर्यपञ्चकमभूदथ रत्नवृष्टि-
 राच्छादिताम्बरतला च लतान्तवृष्टिः ।

व्याप्तश्रुती विबुधदुन्दुभिनिस्वनाहो-
 दानस्वनौ सुरभिशीतलमन्दवायुः ॥ २२ ॥

मुनिपरिवृढो निर्वर्त्यैवं तनुस्थितिमुत्तमां
 मृदुमधुरया वाचाशास्यं विधाय यथोचितम् ।
मुनिसमुदयै रक्षिव्रातैश्च पौरनृणामनु-
 व्रजितचरमः पुण्यारण्यं गजेन्द्रगतिर्ययौ ।। २३ ॥

इत्यर्हद्दासकृतौ काव्यरत्ने भगवत्परिनिष्क्रमणवर्णनो

   नामाष्टमः सर्गः

  अथ नवमः सर्गः।

आलोक्य देवमथ पाटितपञ्चबाणं
 प्रायेण नश्यति मधौ मधुरा(स्र१ ? स्त्र)बन्धौ ।
वेलामुपेत्य किल विस्फुरितप्रतापः
 सद्योऽग्रहीदरिपदं विपिनं निदाघः ॥ १॥

वाताश्ववेगजरजःपिहिताभ्रभाग-
 मागत्य सर्वमपहाय २मधोर्द्रुतस्य ।
ग्रीष्मस्तुतोद पिकभृङ्गबलान्यधाक्षीत्
 केलीवनानि रुजति स्म च पुण्डरीकम् ॥ ३ ॥

तद्भावि दुःखमिव वीक्षितुमक्षमत्वात्
 क्षिप्रं मधौ ब्रजति तीव्रनिदाघयोगात् ।
संतप्यमानमखिलं तरुवल्लिजातं
 तापज्वरीव ददृशे मधुविप्रयोगात् ॥ ३ ॥

ग्रीष्मे विदीर्णवनभूमिविशालदर्यो
 रेजुः कनत्कनकशेवधिदीप्रगर्भाः ।
मान्याभिरुग्रकरपादहतेः प्रवेष्टुं
 क्लृप्ताग्निकुण्डशतवद् वनदेवताभिः ॥ ४ ॥

मिथ्यात्वकर्मकृतयाशुभयेव दृष्टया
 जन्तुप्रजापरमतत्त्वधियाप्यतत्त्वम् ।
ग्रैष्म्या तृषा मृगगणा मृगतृष्णकाम्भः
 सेदुर्नदीरयधिया बत धावमानाः ।। ५ ॥

तृष्णातुरः स्वयमपि द्युमणिर्बभूव
 सन्तापवांश्च समयेऽत्र न चेत् कराग्रैः ।
पङ्काविलान्यपि जलान्यपिबत् किमर्थं
 प्रालेयशैलतटमध्युषितश्च कस्मात् ॥ ६॥

शङ्कामयं जनितवान् जगतो वनान्तः
 किं पाटलाः कुसुमिता दवपावकाः किम् ।
किं वल्लिकाः स्तिमित२भृङ्गगणाः किमेते
 शान्तोल्मुका विशदभस्मचया इतीत्थम् ॥७॥

सन्तप्तरेणुनिकरं कृपयेव वाता
 निन्युः सुशीतलजलां द्युनदीं निदाघे ।
एकान्ततप्तवसुधास्थितिभीतभीता
 द्रागद्रवन्निव तदा मृगतृष्णिकौघाः ॥ ८॥

हा हन्त तृड्भरविदीर्णगला मृगाली
 पङ्काविलोष्णसलिलं वनपल्वलानाम् ।

अल्पं कथञ्चिदपिबत् कृपयावगम्य
 केनाप्युपाहृतमिवोद्धकषायतोयम् ॥ ९ ॥

धात्री दरीमुखगतैर्विपिनस्थलीनां
 व्यादीर्णवेणुगलितैर्मणिभिर्विरेजे ।
मा लोकमित्र ! शिखिनो मम पीडयेति
 दीनं प्रकाशितरदेव दिनाधिपाय ।। १०॥

सन्तापिताः स्वरिपुराहुमहारुषेव
 चण्डांशुना सशराहुकुलाः फणीन्द्राः ।
शङ्कगतान्यशरणा व्यलुठंस्तदीये
 पादाग्र एव कृतवक्रपुटप्रमोकाः ॥ ११ ॥

इत्येष तीव्रतरभावनिपीड्यमान-
 निश्शेषजीवनिवहोऽपि निदाघकालः ।
निन्येऽत्र जीवनिवहै: सुखमात्तयोगः
 पुण्ये जगद्गुरुरवास्थित यत्र शैले ॥ १२ ॥

गम्भीरगर्जितभरादथ कम्पमान-
 चक्राङ्गबालविरहिव्रजमब्दकालः ।
छिद्राविशत्फणि समृत्यमयूरयूथ-
 मुन्मीलदोष्ठपुटचातकमुद्बभूव ॥ १३ ॥

प्राजीजनन् प्रसृतसर्वसमुद्रदेशाः
 शक्रेण सिन्धुजलमग्ननगग्रहाय ।
क्षिप्तोरुजालधिषणां पुनरुत्पतन्तः
 खं नीयमाननगशेमुषिकां नवाब्दाः ॥ १४ ॥

नो विद्म साभ्रमपराम्बुनिधेरटन्ती
 विद्युत्वतां किमु ततिर्बडवानलार्ता ।
बार्दन्तिसन्ततिरुत द्युनदीक्षणार्थं
 व्यारूढपाशिवनितामकरीततिर्वा ॥ १५॥

नीरन्ध्रमभ्रपटलं पिहिताखिला
 भ्रेजेतरां विधृतदीर्घतराम्बुधारम् ।
देव्याः क्षितेरुपरिलम्बितदीर्घमुक्ता-
 मालं विशालमिव धातृकृतं वितानम् ॥ १६ ॥

 रेजुः प्रसृत्य जलधि परितोऽप्यशेषं
मेघा मुहुर्मुहुरमिप्रसृताभ्रभागा ।
 आदानवर्षणमिषात् पयसां पयोधिं
व्योमापि मान्त इव संशयिनाशयेन१ ॥ १७ ॥

 कान्तारभूमिषु विदीर्णदनिधान-
देदीप्यमानमणिराशिमुपोपविष्टाः ।
 अङ्गारपुञ्जमनसा किल सेवमानाः
शाखामृगाः शुशुभिरे नववृष्टिशीर्णाः ॥ १८ ॥

नीलोपलोर्ध्वनिलयैर्मणितोरणाग्रै-
 रन्तर्बहिः परिमुहुर्विचरद्वधूकैः ।
किर्मीरिता जलधराः सुरचापरम्या
 विद्युद्युता विविदिरे२ नगरेषु वर्षै: ॥ १९ ॥

उन्मार्गवर्त्यपि जगज्जनमान्यवृत्ति-
 रुल्लासभासुरकुजोऽप्युरुबाष्पसीतः।

अम्भोमुचामशमयत् प्रचयो रजांसि
 प्रत्याहतामलदिगम्बरदर्शनोऽपि ॥२०॥

किं केतकी कुसुमिता किमयं तडित्वान्
 सम्बाधतो जलमुचां पतितः पृथिव्याम् ।
किं वा धृतेन्दुशकलस्तमसां समूहः
 किं शाकिनी शिंतरदा तरुणादनाय ॥ २१॥

गोत्रारिगोपकरका व्यरुचन् धरायां
 मेघागमेन दयितेन कृताङ्कपाल्याः ।
व्योमश्रियः स्तनतटत्रुटितोरुहार-
 स्रस्तावकीर्णनवविद्रुममौक्तिकाभाः ॥ २२ ॥

आलप्य खल्वतितरां चतुरैरमुष्मि-
 न्नारूढधन्वनि सतामवमानहेतौ ।
काले हि राजविकले कलुषात्मनीति(:)
 कामं पिकोऽभवदुरीकृतमूकभावः ॥ २३ ॥

प्रत्युन्मिषन्नवकदम्बरजोभिरुच्चै-
 श्चक्रे दिगम्बरहृदप्यनुरक्तमाशु ।
चित्तान्यरञ्जयत रागिजनस्य तस्ये-
 त्याश्चर्यमत्र किमु पश्चिमगन्धवाहः ॥ २४ ॥

इत्यम्बुवाहसमयोऽपि विजृम्भमाणो
 । वज्रानलं जनपदेषु ससर्ज नेषत् ।
चकेऽतिवृष्टिमितरां नच दुर्दिनानि
 तस्य द्रुमूलगतलोकमतेः प्रभावात् ॥ २५ ॥

सुश्लिष्टकान्तमथ सीत्कृतगर्भकण्ठं
 निःस्वेददीर्घसुरतं स्वदमानवह्नि ।
कर्पूरखण्डविकलक्रमुकोपभोगं
 कश्चिद् बभूव विषयः समयो जनानाम् ॥२६॥

उच्चाटनाय शरदः सितसर्षपौघो
 निर्दग्धुमब्जनिलयानिलयं तुषाग्निः ।
आलम्भचूर्णमसहायजनस्य कामं
 प्रालेयशीकरमिषेण कुतोऽप्यपप्तत् ॥ २७ ॥

रेजुः प्रभातसमयेषु लतावनद्धाः
 क्षोणीरुहस्तुहिनवारिकणैर्विकीर्णैः ।
आलिङ्गितस्तबकचारुकुचा रतान्त-
 प्रादुर्भवद्भिरिव घर्मलवैर्युवानः ॥ २८ ॥

कालेऽत्र तीव्रहिमभाजि न वासरेन्द्रः
 सान्द्रांशुकोऽपि सहते स्म हिमाद्रिवासम् ।
दूरस्थमप्यथ ययौ मलयाचलेन्द्रं
 गोशीर्षकोटरफणिश्वसितैः कवोष्णम् ॥ २९ ॥

लौध्रेण सौरभसनद्रितदिङ्मुखेन
 रेणूत्करेण पिहितानि वनानि रेजुः ।
लोकातिदुःसहसहस्यभयादिवात्त-
 पत्राचारुतरभूरिनिवारकाणिः ॥ ३० ॥

सन्तापिता १रतिपतस्त्रिजगज्जयार्थं
 नाराधिकाः सुनिशिता इव निर्विचारम् ।

कातर्यमम्बुजदृशो दिदिशुर्जनामां
 काश्मीररेणुकलिताङ्गलता हिमर्त्तौ ॥ ३१ ॥

कान्तावियोगदहनेन नितान्तदग्धाः
 पान्थास्तुषारपतनेन विशीर्यदङ्गाः ।
ऊष्मायमाणवदनाः श्वसितैरशङ्कं
 चूर्णोपलाः समभवन् सलिलोपसिक्ताः ॥ ३२ ॥

सत्यं तुषारपटलैः शमिनो न रुहा:
 सिद्धे: पुनः परिचयाय हिमर्त्तुलक्ष्म्या ।
छन्ना दुकूलवसनैर्नु पटीरपङ्कै-
 र्लिप्ता नु मौक्तिकगुणैर्यदि भूषिता नु ॥ ३३ ॥

इत्थं सुदुःसहतुषारतुषावपातै-
 निर्दग्धनीरजकुले समयेऽपि तस्मिन् ।
म्लानानि नैव कमलानि महानुभावो
 यस्याः स्थितः स भगवान् सरितः प्रतीरे ॥३४॥

कायक्लेशाभिधाने तपसि जिनपतिर्निष्ठितो वर्षमेकं
 बाह्यान्तर्विग्रहद्वादशविधतपसां मध्यमेऽप्यग्रय इत्थम् ।
दीक्षाकल्याणमादौ समभवदभवद् यत्र तत्रैव भूयो
 नीलारण्ये शरण्ये भवचकितधियामात्तपुण्ये वरेण्ये ॥३५॥

इत्यर्हद्दासकृतौ काव्यरत्ने भगवत्तपोवर्णनो नाम

   नवमः सर्गः॥

श्रीमन्तमेनमखिलार्चितमात्मधाम
 प्राप्तं स्वयं सपदि तद्वनभूजषण्डम् ।
शाखाकरेषु धृतपुष्पफलप्रतान-
 मासीदिवार्चयितुमुद्यतमादरेण ॥ १॥

तस्यैव कीलकलनाः किमु पल्लवानि
 तस्य स्फुलिङ्गनिकरो ननु कुड्मलानि ।
तस्यैव धूमविततिर्न पुनर्द्विरेफा
 दत्त्वा वने यमनलं मदनो निमग्न: ॥ २ ॥

अस्मिन्नमूनि न पलाशदलान्यघारे-
 रुद्वेलशान्तरससागरविद्रुमा नु ।
वान्ता मृगैश्चिरबिरोधलवा मिथो नु
 वन्यैस्ततार्चनमणिप्रकरा तु रेजुः ॥ ३ ॥

अध्यास्य चम्पकतरोस्तलमात्तपृष्ठो
 धर्म्याणि बिभ्रदवलम्बितशुभ्रलेश्यः ।
शुद्धात्मतत्त्वमिव जातविवर्तमीशो
 ध्यानं दधे दुरितधूननचुञ्चु शुक्लम् ॥ ४ ॥

स्त्यानत्रयं जिनपतिः क्रमशो रजांसि
 साम्नि त्रयोदश पुरा हतसप्तमोहः ।
मोहैकविंशतिमपि क्षपयन् ददाह
 क्षीणेऽथ षोडशचिदीक्षणरोधविघ्नान् ॥ ५॥

घातीन्यपि प्रबलशक्त्यतिगर्वितानि
 देवस्य योगकरवालदितान्यभूवन् ।
वर्त्मात्मनः किमिति चिन्तनयेव दग्ध-
 रज्जूपमं सममघातिबलं बभूव ॥ ६ ॥

इत्यस्तपापरिपुराप सहैव लब्धि-
 र्वैशाखकृष्णदशमीश्रवणेऽपराहे ।
साक्षायिकीनवदशातिशयान २पदं च
 प्राप्तोदयं नभसि पञ्चसहस्रदण्डैः ॥ ७ ॥

अत्रान्तरे सकललोकपतेरमुष्य
 शक्राज्ञयाचरितवान् धनदः सभां ताम् ।
तस्याः प्रमाणमुदितं मुनिभिः पुराणै-
 रथ्यर्घयोजनयुगं बहुरत्नमय्याः ॥ ८॥

रेजेतरां दिविजराजदृषत्प्रतिष्ठा
 ३संसन्मही विनयसङ्कुचिताखिलाङ्गा ।
व्योमस्थलीव भुवि यः समवाप्य सेव्यः
 सोऽयं स्वयं गुणनिधिः समगच्छतेति ॥९॥

प्रासादचैत्यपरिखालतिकाद्रुमक्ष्मा
 जाता ध्वजधुकुजहर्म्यगणक्षमाश्च४ ।
पीठानि चेति हरसङ्ख्यभुवस्तदन्त-
 रेकान्तकेलिसदनं जिनबोधलक्ष्म्याः ॥ १० ॥

प्रासादचैत्यनिकरः परिखा व्रतत्यो
 वृक्षा ध्वजः सुरकुजाः क्रमशोऽष्टभूषु ।

आसन् गृहाणि च गणास्त्रिषु विष्टरेषु
 श्रीधर्मचक्रविविधध्वजमङ्गलानि ॥ ११ ॥

सालैश्चतुर्भिरपि पञ्चभिरप्युदार-
 वेदीभिरुन्नतिरवापि चतुर्गुणैव ।
लोकोन्नतादपि जिनाधिपतेरमुष्मा-
 ज्जैनप्रदक्षिणकृतेः फलमीदृशं हि ॥ १२ ॥

आवेष्ट्य संसदवनीतलवारिवाहं
 प्रारभ्यमाणसुकृतामृतपूरवर्षम् ।
सालेन सर्वमणिचूर्णमयेन तेने
 तेनापि तानसुरकार्मुकसम्पुटश्रीः ॥ १३ ॥

लोकेषु कूटरहितेषु महामहिम्नो
 देवस्य तस्य निकटेऽपि कृताधिवासाः ।
प्रासादचैत्यनिलया: प्रथयांबभूवुः
 कूटान् दिगम्बरपथप्रतिरोधिनो धिक् ॥१४॥

मार्गेष्वपि त्रिषु चिरभ्रमणेन खिन्ना
 भिन्ना पुरैव भवलालनया द्युसिन्धुः ।
शङ्के जिनेन्द्रचरणं शरणं प्रवेष्टुं
 सम्प्राप सम्प्रति सभां जलखातकात्मा ॥१५॥

वल्लीक्षितौ सुमनसो रतिवल्लभस्य
 भल्लक्रियागतजगल्लयपातकानि ।
संलप्य भृङ्गरणितेन विशुद्धिहेतोः
 किं लोकनाथमभजन् सुमनोनिषेव्यम् ॥१६॥

कङ्केलिसप्तदलचम्पकचूतषण्डाः
 कामारिसन्निधिवशादिव शान्तकामाः ।
पुष्पाणि वामचरणाहतिचाटुवाद-
 च्छायाकटाक्षनिरपेक्षमधुर्वधूनाम् ॥ १७ ॥

अर्चा जिनस्य वनचैत्यमहीरुहाणा-
 मच्छिन्नधारमकरन्दमुचां तलेषु ।
चक्रुर्निरत्ययतपात्यययोगनिष्ठा-
 निष्कम्पगात्रजिनयोगिवराभिशङ्काम् ॥ १८ ॥

ज्ञानोदये जिनपतेः स्थिरभावमाप्ते
 लोके स्वयं च तडितः स्थिरभावमाप्ताः।
प्रायः प्रलम्बितघनास्तमुपासते स्म
 प्रेङ्ख़त्पताककनकध्वजदण्डदम्भात् ॥ १९ ॥

भव्यावलेर्दशविधामरभूजकृत्यं१
 वाञ्छां विनैव विदधात्ययमेक एव ।
यत्ते तदेनममितोऽप्यभजन् जिनेन्द्रं
 २रुद्रान् गुणैर्विगुणिनः समुपाश्रयन्ते ॥ २० ॥

आकीर्णकेतुचमरीरुइतालवृन्त-
 कालाचिकाब्द३कलशातपवारणादिः ।
हर्म्यावनी जिनजितद्रुतपुष्पकेतोः
 सेनानिवेश इव चेलकुटीचितोऽभीत् ॥ २१ ॥

देवेन्द्रनेत्रकुमुदोत्सवचन्द्रिकाया
 देदीप्यमानमणिवैकृतगन्धकुट्याः ।

उच्चैर्ऋतोरिव विदिक्षु भृशं विरेजुः
 कोष्ठाः प्रकीर्णकवदुज्ज्वलरूपभाजः ॥ २२ ॥

तेषु प्रदक्षिणमनुक्रमतो मुनीन्द्राः
 कल्पाङ्गनाश्च नृवधूसहितार्यिकाश्च१ ।
ज्योतिष्कभौमभवनामरिकाश्च भोगि
 भौमोडुकल्पसुरमर्त्यमृगाश्च तस्थुः ।। २३ ।।

वीथीषु नाथचतुरानननिर्यदुक्ति-
 पीयूषनद्युभयचारुतटानुकाराः ।
अष्टायतस्फटिकभित्तय आवितेनु-
 र्वृद्धेशभूतिविनिवेशितयष्टिशङ्काम् ॥ २४ ॥

यच्छ्रूयते सुरपथात् सुमनस्स्रवन्ती
 स्रस्ता तरङ्गिततनूरिति पुस्तकेषु ।
तत्त्वेतदित्यनुमिमे भगवत्सभाया
 यत् तीर्थपद्धतिचतुष्टयमर्कशिल्पम् ॥ २५ ।।

वाराशितीर्थकरवारणसंख्यरूपा
 देवादिरुद्रनगकज्जलभूधरास्तम् ।
दैर्घ्यस्पृहो निखिलदिग्गतहेमरूप्य-
 नीलाश्मगोपुरनिभादभजन्त दैवम् ॥ २६ ॥

सम्प्राप्य चारुगुणरत्ननिधिं जिनेन्द्रं
 लोकैकमङ्गलममुं समपक्षरागात् ।
शतानि मोक्तुमथ नो निधिमङ्गलानि
 द्वारेषु तस्थुरखिलेष्विह को वितर्कः ॥ २७ ॥

ज्योतिष्कयक्षफणिकल्पसदः क्रमेण
 तेजस्विनः प्रतिदिशं मणिदण्डहस्ताः ।
द्वारत्रयद्वितययुग्मयुगेषु तेनु-
 र्द्वा:पालकृत्यमपि जन्मशतैरलभ्यम् ॥ २८ ॥

नुन्नाम्बरं प्रतिदिशं नवगोपुराणा-
 मष्टान्तरेषु बहिरादिमगोपुराच्च ।
नानाविधाभिनवशिल्पमनोभिरामं
 माणिक्यतोरणशतं पृथगाविरासीत् ॥ २९ ॥

आद्यन्तरे निहतदुर्मतिमानगुम्फाः
 स्तम्भाश्चतुर्थ इह राजतनाट्यशालाः ।
षष्ठेऽपि नाट्यनिलयाः किल सप्तमेऽस्मिन्
 स्तूपाश्च तोरणशतान्तरिता बभूवुः ॥ ३ ॥

दुःखौघसर्जनपटूंस्त्रिजगत्यजेयान्
 साक्षान्निहत्य चतुरोऽपि च घातिशत्रून् ।
स्तम्भा जयादय इव प्रभुणा निखाताः
 स्तम्भा बभुः प्रतिदिशं किल मानपूर्वाः ॥३१॥

संसारदुस्तरमहार्णवमग्नजन्तू-
 त्तारकनावि सदसीश्वरकर्णधारे ।
स्तम्भश्रियं विदधुरुज्ज्वलरत्नमान-
 स्तम्भाः समीरचलकेतुपटाभिरामाः ॥ ३२ ॥

मानाधिकौ१ कनकगोपुररूप्यसाल-
 व्याजैन मानमवितुं बहुरूपभाजौ ।

मन्ये सुमेरुविजयार्धनगौ स्म मान-
स्तम्भानुपेत्य भजतश्चतुरोऽपि भीत्या ॥ ३३ ॥

 मज्जत्पुरन्ध्रिकुचकुङ्कुमलालितानि
पर्यन्तखातसलिलानि वितेनुरेषाम् ।
 आलोकनेन सुचिरोपचिताभिमानै-
र्लोकैर्विवान्तदृढमानरसाभिशङ्काम् ॥ ३४ ॥

विश्रामसुन्दरमृदङ्गनिनादगर्जा
 विद्युल्लतायितनिलिम्पनटीसनाथाः ।
नाट्यालया विजितशारदवारिवाहा-
 श्चित्तक्षितौ नवरसान् ववृषुर्जनानाम् ॥ ३५ ॥

सौवर्णधूपघटनिर्गतधूमजालं
 सौरभ्यशालि ददृशे जिनपूजनाय ।
आयज्जनस्य सुचिरं हृदयारविन्द-
 गन्धाधिवासितमिव द्रवदन्धकारम् ॥ ३६ ॥

जैनी सभा जिनपदाम्बुजसेवयैव
 सेत्स्यन्ति मङ्क्षु नव केवललब्धयो वः।
इत्येवमुन्नतनवाङ्गुलिसंज्ञयो(च्चैः ? चे)
 स्तूपच्छलादुपयतां जिनसेवनार्थम् ॥ ३७ ॥

रेजे विशालगणभूतलवेष्टितस्य
 पीठत्रयस्य शिरसि द्विपवैरिपीठम् ।
धर्तुं जिनेश्वरमुपागतभद्रसाल-
 रुद्धत्रिसानुकनकाचलचूलिकेव ॥ ३८॥

तत्र त्रिकालविषयाखिल वस्तुवृत्ति-
 १साक्षी प्रबोधमहसा सकलं स जानन् ।
जिज्ञासयोपगतसङ्घचतुष्टयस्य
 तज्ज्ञापनोत्सुकतयेव चतुर्मुखोऽस्थात् ॥ ३९ ॥

भामण्डलेन निकटोच्चलचामरेण
 संवेष्टितो दिवि जिनाधिपतिश्चकाशे ।
हंसान्वितेन शरदम्बुदमण्डलेन२
 नीलाम्बुवाह इव कोऽपि कृतोपवीतिः३ ॥ ४॥

अस्याशरीरपदलिप्सुतया शरीरं
 बोधासिना हतवतो भुवनैकमल्लम् ।
वीरस्य पार्श्वमुपयन्ति तदा तदीय-
 दिव्यायुधान्यनुचकार लतान्तवृष्टिः ॥४१॥

दिव्यध्वनिश्च सुरदुन्दुभिनिस्वनश्च
 सन्त्यक्तशासनतदीयफलाभिलाषम् ।
उत्पद्यमानमुभयं४ युगपज्जहार
 श्रोत्रं मनश्च सुतरां परिषज्जनानाम् ॥ ४२ ॥

सर्वज्ञपादरतयो वयमप्यशोका
 मुग्धाङ्घ्रिजातरतयः किल तेऽप्यशोकाः ।
इत्यालपन्नलिनिनादपदादशोकः
 प्रत्युन्मिषत्कुसुमकैतवतो जहास ॥ ४३ ॥

छायां तिरस्कृतवतो जगदेकभर्तु-
 श्छायां प्रदातुमितमेतदलं ललज्जे ।

छत्रत्रयं न यदि शारदनीरदाभं
 श्यामं जिनाङ्गरुचिसङ्गनिभात् कुतोऽभूत् ।।

स्त्रीबालवृद्धनिवहोऽपि सुखं सभां ता-
 मन्तर्मुहूर्तसमयान्तरतः प्रयाति ।
निर्याति च प्रभुमहात्मतयाश्रितानां
 निद्रामृतिप्रसवशोकरुजादयो न ॥ ४५ ॥

मिथ्यादृशः सदसि तत्र न सन्ति मिश्राः
 सासादनाः१ पुनरसंज्ञिवदप्यभव्याः ।
भव्याः परं विरचिताञ्जलयः सुचित्ता-
 स्तिष्ठन्ति देववदनाभिमुखं गणोार्व्याम् ॥ ४६ ॥

इत्यद्भुतां त्रिभुवनैकंपतेः सभां ता-
 मागत्य वीक्ष्य निखिलं हरिणा जिनेन्द्रम् ।
आकीर्णपुष्पमवनम्य पुनर्ममज्जे
 हर्षाम्बुधौ भवसमुद्रतितीर्षुणापि ॥ १७ ॥

साक्षायिकाचलदृशोज्ज्वलसंयमेन
 सप्तर्द्धिसम्यगवबोधचतुष्कभाजा ।
श्रीमल्लिनाथगणिनाथ तदीरितेन
 पृष्टः समस्तविदसौ निजगाद तत्त्वम् ॥ ४८ ॥

अथ समयविदिन्द्रादेशतो वाद्यदेवै-
 र्विनिहतजिनसंख्योदारभेरीप्रणादः ।
विघटितगिरिसन्धिर्विश्वविश्वैकभर्तुः
 स्त्रिभुवनमपि यात्रारम्भमावेदयत् तम् ॥ १९॥

समवसरणमभ्रे भव्यपुण्यैश्चचाल
 स्फुटकनकसरोजश्रेणिना लोकवन्द्य: ।
सुरपतिरपि सर्वाञ् जैनसेवानुरक्तान्१
 कलितकनकदण्डोऽयोजयत् २स्वस्वकृत्ये ।। ५.॥

सितचमररुहाली पार्श्वयोश्चिक्षिपाते
 सुधिय ३उपरि शुभ्राण्यातपत्राणि देवैः ।
उदधृषत तथाष्टौ मङ्गलान्यप्सरोभि-
 र्दिशि दिशि धृतमग्रे धर्मचक्रं च यक्षैः ॥५१॥

सपदि पवनदेवाः शर्करालोष्टधूली-
 कृमितृणमपनिन्युर्भूतलान्मेघदेवाः ।
सुरभिसलिलसेकं चक्रुरत्रेदमासी-
 न्मुकुरतलवदच्छाकाशदिक्स्पर्धयेव ॥ ५२ ॥

धरणिरमरवृष्टैरुद्गमैः सोपहारा
 सुरमणिमकुटार्चिःशक्रचापार्चितं खम् ।
सुरनरजयशब्दस्तोत्रकिम्मीरभेरी-
 मुखरवमुखरं चाप्यास दिक्चक्रवालम् ॥ ५३ ॥

गलितचिरविरोधाः प्राप्तवन्तश्च मैत्रीं
 मिथ इव जिनसेवालम्पटाः संपदिद्धा: ।
षडपि च ऋतबस्ते तत्र तत्रान्वगच्छन्
 व्यवहरदयमीशा यत्र यत्रैव देशे ॥ ५४ ।।

न परमखिललोकः प्रातिकूल्यं विहाय
 त्रिभुवमतिलकं तं वायुरप्यन्वियाय ।
दिविजसरसि मग्नः पुष्पगन्धोपवाही
 मधुकरकुलशब्दच्छद्मना संस्तुवानः ॥ ५५ ॥

अपिच सदसि भर्तुः कच्छपाङ्कस्य रेजुः
 सवरुणबहुरूपिण्यन्वहाराधितस्य ।
गणधरपदभाजोऽष्टादशैतच्छताङ्का
 न परमवधिनेत्राः केवलज्ञानिनोऽपि ॥ ५६ ॥

शतविगलितमाना वादिनस्तुर्यबोधा-
 स्त्रिशतगलितसंख्या विक्रियार्द्धि प्रसिद्धाः।
अधिकशतचतुष्काः केवलिभ्यो बभूवु-
 स्त्वधिगतदशपूर्वास्तुर्यबोधत्रिभागाः ।। ५७ ।।

त्रिहतहयसहस्राण्यर्धलक्षं च लक्षं
 त्रिगुणितमपि लक्षं शिक्षकाचार्यकाश्च ।
उपगतगृहमेधाः श्राविकाश्चाप्यसंख्याः
 सुरसुरसुकुमार्यः प्राप्तसङ्ख्या मृगाश्च ।। ५८ ॥

इति विषयमशेषं विश्ववन्द्यो विहृत्य
 त्रिचरणपरिशिष्टं नूनमब्दायुतं सः ।
सुजनहृदयवप्रेषूप्ततत्त्वार्थसस्यः
 प्रविशदमाणिचूलं प्राप सम्मेदशैलम् ॥ ५९ ॥

तत्र स्थित्वैकमासं व्यपगतविहृतिः फाल्गुने कृष्णपक्षे
 द्वादश्यामर्धरात्रौ सदशशतमुनिर्जन्मभे घात्यरातीन् ।
आरूढा योगिधामाद्विचरमसमये सप्ततिं द्विःप्रयुक्तां
 शुक्लध्यानासियष्ट्या स चरमसमये वृत्तसङ्ख्याञ् जधान ॥

ईषत्प्राग्भारसंज्ञेऽष्टमधरणितलेऽमर्त्यलोकप्रमाणे
 सिद्धक्षेत्रे विशुद्धः स जयति तनुपातान्त्यभागे कृतौकाः ।

किञ्चिन्न्यूनान्त्यदेहप्रमितिघननिजाकारभाक् क्षायिकैः स्वैः
 सम्यक्त्वाद्यैरुपेतोऽष्टभिरमितसुखापादकैरस्तकर्मा ॥ ६१ ॥

आस्ते तत्र स निर्वृतः सुखसुधां चर्वन् सदात्यन्तिकीं
 स्वस्थः संसृतिनाटकं स्फुटरसं पश्यन् विभावादिभिः ।
सम्पन्नः सकलैर्गुणैरनुपमैः स्थानं सिताभ्राकृतेः
 कीर्तेरात्मसमैः सहैव पुरुषैः शुद्धैश्च बुद्धै: परम् ॥ ६२ ॥

अर्हद्दासः स भक्त्युल्लसितमवसितं भूधरे तत्र कृत्वा
 कल्याणं तीर्थकर्तुः सुरकुलमहितः प्रापदारमीयलोकम् ।

अर्हद्दासोऽयमित्थं१ जिनपतिचरितं गौतमस्वाम्युपज्ञं
 गुम्फित्वा काव्यबन्धं कविकुलमहितः प्रापदुच्चैः प्रमोदम् ।।

धावन् कापथसम्भृते भववने सन्मार्गमेकं परं
 त्यक्त्वा श्रान्ततरश्चिराय कथमप्यासाद्य कालादमुम् ।
सद्धर्मामृतमुद्धृतं जिनवचःक्षीरोदधेरादरात्
 पायंपायमितश्रमः सुखपदं दासो २भवत्यर्हतः॥ ६४ ॥

  मिथ्यात्वकर्मपटलैश्चिरमावृते मे
   युग्मे दृशोः कुपथयाननिदानभूते३ ।
  आशाधरोक्तिलसदञ्जनसम्प्रयोगै-
   रच्छीकृतेऽद्य पृथुसत्पथमाश्रितोऽस्मि ॥ ६५ ॥

   इत्यर्हद्दासकृतौ काव्यरत्ने भगवदुभयमुक्तिवर्णनो नाम

      दशमः सर्गः ॥

 

    मुनिसुव्रतकाव्यं सम्पूर्णम् ।

  

शुभमस्तु।

  1. 'वर्गोन्न' क. पाठः
  2. 'देहाः ।' ख. पाठः.
  3. 'स्मिन् म',
  4. 'चि' ख. पाठः.
  5. 'माषमुद्गगो’
  6. 'वा' ख. पाठः
  7. 'ने’
  8. 'बन्धेष्वि' क. पाठः.
"https://sa.wikisource.org/w/index.php?title=काव्यरत्नम्&oldid=309226" इत्यस्माद् प्रतिप्राप्तम्