काव्यालङ्कारः/द्वितीयपरिच्छेदः

← प्रथमपरिच्छेदः काव्यालङ्कारः
द्वितोयपरिच्छेदः
भामहः
तृतोयः परिच्छदः →

माधुर्यमभिवाञ्छन्तः प्रसादं च सुमेधसः ।
समासवन्ति भूयांसि न पदानि प्रयुञ्जते ।। २.१ ।।

केचिदोजोऽभिधित्सन्तः समस्यन्ति बहून्यपि ।
यथा मन्दारकुसुम- रेणुपिञ्जरितालका ।। २.२ ।।

श्रव्यं नातिसमस्तार्थं काव्यं मधुरमिष्यते ।
आविद्वदङ्गनाबाल- प्रतीतार्थं प्रसादवत् ।। २.३ ।।

अनुप्रासः सयमको रूपकं दीपकोपमे ।
इति वाचामलंकाराः पञ्चैवान्यैरुदाहृताः ।। २.४ ।।

सरूपवर्णविन्यासं अनुप्रासं प्रचक्षते ।
किं तया चिन्तया कान्ते नितान्तेति यथोदितम् ।। २.५ ।।

ग्राम्यानुप्रासमन्यत्तु मन्यन्ते सुधियोऽपरे ।
स लोलमालानीलालि- कुलाकुलगलो बलः ।। २.६ ।।

नानार्थवन्तोऽनुप्रासा न चाप्यसदृशाक्षराः ।
युक्त्यानया मध्यमया जायन्ते चारवो गिरः ।। २.७ ।।

लाटीयमप्यनुप्रासं इहेच्छन्त्यपरे यथा ।
दृष्टिं दृष्टिसुखां धेहि चन्द्रश्चन्द्रमुखोदितः ।। २.८ ।।

आदिमध्यान्तयमकं पादाभ्यासं तथावली ।
समस्तपादयमकं इत्येतत्पञ्चधोच्यते ।। २.९ ।।

सन्दष्टकसमुद्गादेरत्रैवान्तर्गतिर्मता ।
आदौ मध्यान्तयोर्वा स्यादिति पञ्चैव तद्यथा ।। २.१० ।।

साधुना साधुना तेन राजता राजता भृता ।
सहितं सहितं कर्तुं संगतं संगतं जनम् ।। २.११ ।।

साधुः संसाराद्बिभ्यदस्मादसारात्कृत्वा क्लेशान्तं याति वर्त्म प्रशान्तम् ।
जातिं व्याधीनां दुर्दमानामधीनां वाञ्छञ्ज्यायस्त्वं छिन्धि मुक्तानयस्त्वम् ।। २.१२ ।।

न ते धिर्धीर भोगेषु रमणीयेषु संगता ।
मुनीनपि हरन्त्येते रमणी येषु संगता ।। २.१३ ।।

सितासिताक्षीं सुपयोधराधरां सुसंमदां व्यक्तमदां ललामदाम् ।
घनाघना नीलघना घनालकां प्रियामिमामुत्सुकयन्ति यन्ति च ।। २.१४ ।।

अमी नृपा दत्तसमग्रशासनाः कदाचिदप्यप्रतिबद्धशासनाः ।
कृतागसां मार्गभिदां च शासनाः पितृक्रमाध्यासिततादृशासनाः ।। २.१५ ।।

अनन्तरैकान्तरयोरेवं पादान्तयोरपि ।
कृत्स्नं च सर्वपादेषु दुष्करं साधु तादृशम् ।। २.१६ ।।

तुल्यश्रुतीनां भिन्नानां अभिधेयैः परस्परम् ।
वर्णानां यः पुनर्वादो यमकं तन्निगद्यते ।। २.१७ ।।

प्रतीतशब्दमोजस्वि सुश्लिष्टपदसन्धि च ।
प्रसादि स्वभिधानं च यमकं कृतिनां मतम् ।। २.१८ ।।

नानाधात्वर्थगम्भीरा यमकव्यपदेशिनी ।
प्रहेलिका सा ह्युदिता रामशर्माच्युतोत्तरे ।। २.१९ ।।

काव्यान्यपि यदीमानि व्याख्यागम्यानि शास्त्रवत् ।
उत्सवः सुधियामेव हन्त दुर्मेधसो हताः ।। २.२० ।।

उपमानेन यत्तत्त्वं उपमेयस्य रूप्यते ।
गुणानां समतां दृष्ट्वा रूपकं नाम तद्विदुः ।। २.२१ ।।

समस्तवस्तुविषयं एकदेशविवर्ति च ।
द्विधा रूपकमुद्दिष्टं एतत्तच्चोच्यते यथा ।। २.२२ ।।

शीकराम्भोमदसृजस्तुङ्गा जलददन्तिनः ।
निर्यान्तो मदयन्तीमे शक्रकार्मुकवारणाः ।। २.२३ ।।

तडिद्वलयकक्ष्याणां बलाकामालभारिणाम् ।
पयोमुचां ध्वनिर्धीरो दुनोति मम तां प्रियाम् ।। २.२४ ।।

आदिमध्यान्तविषयं त्रिधा दीपकमिष्यते ।
एकस्यैव त्र्यवस्थत्वादिति तद्भिद्यते त्रिधा ।। २.२५ ।।

अमूनि कुर्वतेऽन्वर्थां अस्याख्यामर्थदीपनात् ।
त्रिभिर्निदर्शनैश्चेदं त्रिधा निर्दिश्यते यथा ।। २.२६ ।।

मदो जनयति प्रीतिं सानङ्गं मानभङ्गुरम् ।
स प्रियासंगमोत्कण्ठां सासह्यां मनसः शुचम् ।। २.२७ ।।

मालिनीरंशुकभृतः स्त्रियोऽलंकुरुते मधुः ।
हारीतशुकवाचश्च भूधराणामुपत्यकाः ।। २.२८ ।।

चीरीमवतीररण्यानीः सरितः शुष्यदम्भसः ।
प्रवासिनां च चेतांसि शुचिरन्तं निनीषति ।। २.२९ ।।

विरुद्धेनोपमानेन देशकालक्रियादिभिः ।
उपमेयस्य यत्साम्यं गुणलेशेन सोपमा ।। २.३० ।।

यथेवशब्दौ सादृश्यं आहतुर्व्यतिरेकिणोः ।
दूर्वाकाण्डमिव श्यामं तन्वी श्यामालता यथा ।। २.३१ ।।

विना यथेवशब्दाभ्यां समासाभिहिता परा ।
यथा कमलपत्राक्षी शशाङ्कवदनेति च ।। २.३२ ।।

वतिनापि क्रियासाम्यं तद्वदेवाभिधीयते ।
द्विजातिवदधीतेऽसौ गुरुवच्चानुशास्ति नः ।। २.३३ ।।

समानवस्तुन्यासेन प्रतिवस्तूपमोच्यते ।
यथेवानभिधानेऽपि गुणसाम्यप्रतीतितः ।। २.३४ ।।

साधुसाधारणत्वादिर्गुणोऽत्र व्यतिरिच्यते ।
स साम्यमापादयति विरोधेऽपि तयोर्यथा ।। २.३५ ।।

कियन्तः सन्ति गुणिनः साधुसाधारणश्रियः ।
स्वादुपाकफलानम्राः कियन्तो वाध्वशाखिनः ।। २.३६ ।।

यदुक्तं त्रिप्रकारत्वं तस्याः कैश्चिन्महात्मभिः ।
निन्दाप्रशंसाचिख्यासा- भेदादत्राभिधीयते ।। २.३७ ।।

सामान्यगुणनिर्देशात्त्रयमप्युदितं ननु ।
मालोपमादिः सर्वोऽपि न ज्यायान्विस्तरो मुधा ।। २.३८ ।।

हीनतासम्भवो लिङ्ग- वचोभेदो विपर्ययः ।
उपमानाधिकत्वं च तेनासदृशतापि च ।। २.३९ ।।

त एत उपमादोषाः सप्त मेधाविनोदिताः ।
सोदाहरणलक्ष्माणो वर्ण्यन्तेऽत्र च ते पृथक् ।। २.४० ।।

स मारुताकम्पितपीतवासा बिभ्रत्सलीलं शशिभासमब्जम् ।
यदुप्रवीरः प्रगृहीतशार्ङ्गः सेन्द्रायुधो मेघ इवाबभासे ।। २.४१ ।।

शक्रचापग्रहादत्र दर्शितं किल कार्मुकम् ।
वासःशङ्खानुपादानाद्धीनमित्यभिधीयते ।। २.४२ ।।

सर्वं सर्वेण सारूप्यं नास्ति भावस्य कस्यचित् ।
यथोपपत्ति कृतिभिरुपमासु प्रयुज्यते ।। २.४३ ।।

अखण्डमण्डलः क्वेन्दुः क्व कान्ताननमद्युति ।
यत्किंचित्कान्तिसामान्याच्छशिनैवोपमीयते ।। २.४४ ।।

किं च काव्यानि नेयानि लक्षणेन महात्मनाम् ।
दृष्टं वा सर्वसारूप्यं राजमित्रे यथोदितम् ।। २.४५ ।।

सूर्यांशसंमीलितलोचनेषु दीनेषु पद्मानिलनिर्मदेषु ।
साध्व्यः स्वगेहेष्विव भर्तृहीनाः केका विनेशुः शिखिनां मुखेषु ।। २.४६ ।।

निष्पेतुरास्यादिव तस्य दीप्ताः शरा धनुर्मण्डलमध्यभाजः ।
जाज्वल्यमाना इव वारिधारा दिनार्धभाजः परिवेषिणोऽर्कात् ।। २.४७ ।।

शाकवर्धनस्य
कथं पातोऽम्बुधाराणां ज्वलन्तीनां विवस्वतः ।
असम्भवादयं युक्त्या तेनासम्भव उच्यते ।। २.४८ ।।

तत्रासम्भविनार्थेन कः कुर्यादुपमां कृती ।
को नाम वह्निनौपम्यं कुर्वीत शशलक्ष्मणः ।। २.४९ ।।

यस्यातिशयवानर्थः कथं सोऽसम्भवो मतः ।
इष्टं चातिशयार्थत्वं उपमोत्प्रेक्षयोर्यथा ।। २.५० ।।

पुञ्जीभूतमिव ध्वान्तं एष भाति मतङ्गजः ।
सरः शरत्प्रसन्नाम्भो नभःखण्डमिवोज्झितम् ।। २.५१ ।।

अथ लिङ्गवचोभेदावुच्येते सविपर्ययौ ।
हीनाधिकत्वात्स द्वेधा त्रयमप्युच्यते यथा ।। २.५२ ।।

अविगाह्योऽसि नारीणां अनन्यमनसामपि ।
विषमोपलभिन्नोर्मिरापगेवोत्तितीर्षतः ।। २.५३ ।।

क्वचिदग्रे प्रसरता क्वचिदापत्य निघ्नता ।
शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ।। २.५४ ।।

अयं पद्मासनासीनश्चक्रवाको विराजते ।
युगादौ भगवान्ब्रह्मा विनिर्मित्सुरिव प्रजाः ।। २.५५ ।।

ननूपमीयते पाणिः कमलेन विकासिना ।
अधरो विद्रुमच्छेद- भासा बिम्बफलेन च ।। २.५६ ।।

उच्यते काममस्तीदं किं तु स्त्रीपुंसयोरयम् ।
विधिर्नाभिमतोऽन्यैस्तु त्रयाणामपि नेष्यते ।। २.५७ ।।

स पीतवासाः प्रगृहीतशार्ङ्गो मनोज्ञभीमं वपुराप कृष्णः ।
शतह्रदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः ।। २.५८ ।।

रामशर्मणः
शशिनो ग्रहणादेतदाधिक्यं किल न ह्ययम् ।
निर्दिष्ट उपमेयेऽर्थे वाच्यो वा जलजोऽत्र तु ।। २.५९ ।।

न सर्वसारूप्यमिति विस्तरेणोदितो विधिः ।
अभिप्रायात्कवेर्नात्र विधेया जलजे मतिः ।। २.६० ।।

आधिक्यमुपमानानां न्याय्यं नाधिकता भवेत् ।
गोक्षीरकुन्दहलिनां विशुद्ध्या सदृशं यशः ।। २.६१ ।।

एकेनैवोपमानेन ननु सादृश्यमुच्यते ।
उक्तार्थस्य प्रयोगो हि गुरुमर्थं न पुष्यति ।। २.६२ ।।

वनेऽथ तस्मिन्वनितानुयायिनः प्रवृत्तदानार्द्रकटा मतङ्गजाः ।
विचित्रबर्हाभरणाश्च बर्हिणो बभुर्दिवीवामलविग्रहा ग्रहाः ।। २.६३ ।।

ग्रहैरपि गजादीनां यदि सादृश्यमुच्यते ।
तथापि तेषां तैरस्ति कान्तिर्वाप्युग्रतापि वा ।। २.६४ ।।

इत्युक्त उपमाभेदो वक्ष्यते चापरः पुनः ।
उपमादेरलंकाराद्विशेषोऽन्योऽभिधीयते ।। २.६५ ।।

आक्षेपोऽर्थान्तरन्यासो व्यतिरेको विभावना ।
समासातिशयोक्ती च षडलंकृतयोऽपराः ।। २.६६ ।।

वक्ष्यमाणोक्तविषयस्तत्राक्षेपो द्विधा मतः ।
एकरूपतया शेषा निर्देक्ष्यन्ते यथाक्रमम् ।। २.६७ ।।

प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ।
आक्षेप इति तं सन्तः शंसन्ति द्विविधं यथा ।। २.६८ ।।

अहं त्वां यदि नेक्षेय क्षणमप्युत्सुका ततः ।
इयदेवास्त्वतोऽन्येन किमुक्तेनाप्रियेण ते ।। २.६९ ।।

स्वविक्रमाक्रान्तभुवश्चित्रं यन्न तवोद्धतिः ।
को वा हेतुरलं सिन्धोर्विकारकरणं प्रति ।। २.७० ।।

उपन्यसनमन्यस्य यदर्थस्योदितादृते ।
ज्ञेयः सोऽर्थान्तरन्यासः पूर्वार्थानुगतो यथा ।। २.७१ ।।

परानीकानि भीमानि विविक्षोर्न तव व्यथा ।
साधु वासाधु वागामि पुंसामात्मैव शंसति ।। २.७२ ।।

हिशब्देनापि हेत्वर्थ- प्रथनादुक्तसिद्धये ।
अयमर्थान्तरन्यासः सुतरां व्यज्यते यथा ।। २.७३ ।।

वहन्ति गिरयो मेघानभ्युपेतान्गुरूनपि ।
गरीयानेव हि गुरून्बिभर्ति प्रणयागतान् ।। २.७४ ।।

उपमानवतोऽर्थस्य यद्विशेषनिदर्शनम् ।
व्यतिरेकं तमिच्छन्ति विशेषापादनाद्यथा ।। २.७५ ।।

सितासिते पक्ष्मवती नेत्रे ते ताम्रराजिनी ।
एकान्तशुभ्रश्यामे तु पुण्डरीकासितोत्पले ।। २.७६ ।।

क्रियायाः प्रतिषेधे या तत्फलस्य विभावना ।
ज्ञेया विभावनैवासौ समाधौ सुलभे सति ।। २.७७ ।।

अपीतमत्ताः शिखिनो दिशोऽनुत्कण्ठिताकुलाः ।
नीपोऽविलिप्तसुरभिरभ्रष्टकलुषं जलम् ।। २.७८ ।।

यत्रोक्ते गम्यतेऽन्योऽर्थस्तत्समानविशेषणः ।
सा समासोक्तिरुद्दिष्टा संक्षिप्तार्थतया यथा ।। २.७९ ।।

स्कन्धवानृजुरव्यालः स्थिरोऽनेकमहाफलः ।
जातस्तरुरयं चोच्चैः पातितश्च नभस्वता ।। २.८० ।।

निमित्ततो वचो यत्तु लोकातिक्रान्तगोचरम् ।
मन्यन्तेऽतिशयोक्तिं तां अलङ्कारतया यथा ।। २.८१ ।।

स्वपुष्पच्छविहारिण्या चन्द्रभासा तिरोहिताः ।
अन्वमीयन्त भृङ्गालि- वाचा सप्तच्छदद्रुमाः ।। २.८२ ।।

अपां यदि त्वक्छिथिला च्युता स्यात्फणिनामिव ।
तदा शुक्लांशुकानि स्युरङ्गेष्वम्भसि योषिताम् ।। २.८३ ।।

इत्येवमादिरुदिता गुणातिशययोगतः ।
सर्वैवातिशयोक्तिस्तु तर्कयेत्तां यथागमम् ।। २.८४ ।।

सैष सर्वैव वक्रोक्तिरनयार्थो विभाव्यते ।
यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ।। २.८५ ।।

हेतुश्च सूक्ष्मो लेशोऽथ नालंकारतया मतः ।
समुदायाभिधानस्य वक्रोक्त्यनभिधानतः ।। २.८६ ।।

गतोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः ।
इत्येवमादि किं काव्यं वार्तामेनां प्रचक्षते ।। २.८७ ।।

यथासंख्यमथोत्प्रेक्षां अलङ्कारद्वयं विदुः ।
संख्यानमिति मेधाविन्- ओत्प्रेक्षाभिहिता क्वचित् ।। २.८८ ।।

भूयसामुपदिष्टानां अर्थानामसधर्मणाम् ।
क्रमशो योऽनुनिर्देशो यथासंख्यं तदुच्यते ।। २.८९ ।।

पद्मेन्दुभृङ्गमातङ्ग- पुंस्कोकिलकलापिनः ।
वक्त्रकान्तीक्षणगति- वाणीवालैस्त्वया जिताः ।। २.९० ।।

अविवक्षितसामान्या किंचिच्चोपमया सह ।
अतद्गुणक्रियायोगादुत्प्रेक्षातिशयान्विता ।। २.९१ ।।

किंशुकव्यपदेशेन तरुमारुह्य सर्वतः ।
दग्धादग्धमरण्यान्याः पश्यतीव विभावसुः ।। २.९२ ।।

स्वभावोक्तिरलङ्कार इति केचित्प्रचक्षते ।
अर्थस्य तदवस्थत्वं स्वभावोऽभिहितो यथा ।। २.९३ ।।

आक्रोशन्नाह्वयन्नन्यानाधावन्मण्डलै रुदन् ।
गा वारयति दण्डेन डिम्भः सस्यावतारणीः ।। २.९४ ।।

समासेनोदितमिदं धीखेदायैव विस्तरः ।
असंगृहीतमप्यन्यदभ्यूह्यमनया दिशा ।। २.९५ ।।

स्वयं कृतैरेव निदर्शनैरियं मया प्रक्ल्प्ता खलु वागलङ्कृतिः ।
अतः परं चारुरनेकधापरो गिरामलङ्कारविधिर्विधास्यते ।। २.९६ ।।


इति भामहालङ्कारे द्वितीयः परिच्छेदः