काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता)/चतुर्थाधिकरणम्/प्रथमोऽध्यायः

चतुर्थमधिकरणम् ॥

 गुणनिर्वर्त्या काव्यशोभा; तस्याश्चातिशयहेतवोऽलंकाराः। तन्निरूपणार्थमालंकारिकमधिकरणमारभ्यते । तत्र शब्दालंकारौ द्वौ यमकानुप्रासौ क्रमेण दर्शयितुमाह--

 पदमनेकार्थमक्षरं चावृत्तं स्थाननियमे यमकम् ॥१॥

 पदम् अनेकार्थं भिन्नार्थम् एकमनेकं वा तद्वत् अक्षरमावृत्तं स्थाननियमे सति यमकम् । स्ववृत्या सजातीयेन वा कार्त्स्न्यैकदेशाभ्यामनेकपादव्याप्तिः स्थाननियम इति । यानि त्वेकपादभागवृत्तीनि यमकानि दृश्यन्ते, तेषु श्लोकान्तरस्थसंस्थानयमकापेक्षयैव स्थाननियम इति ।



  निजसौन्दर्यनिर्धौतस्फुरन्मौक्तिकभूषणा ।
  प्रसादविशदालोका शारदा वरदास्तु मे ॥

 आलंकारिकं चतुर्थमधिकरणमारभ्यते । अधिकरणद्वयसंघटनामुद्धाटयति-गुणनिर्वर्त्येति । गुणैर्निर्वर्त्या निष्पाद्या । अलंकारः प्रयोजनमस्येति आलंकारिकम् । 'प्रयोजनम्' इति ठक् । अलंकारा द्विविधाः--शाब्दाः, आर्थाश्च । तत्र शब्दप्रतिपत्तिपूर्विका अर्थप्रतिपत्तिरिति प्रथमं शब्दालंकारान् प्रतिपिपादयिषुस्तद्विभागं दर्शयति-तत्रति । यमकं विवरीतुं यतते-क्रमेणेति । पदमनेकार्थमिति । अनेकार्थमिति पदविशेषणम् , न त्वक्षरविशेषणम् । गवादिश्लिष्टपदवन्नानार्थमात्रं न भवति ; किंतु स्वरव्यञ्जनात्मकं भिन्नार्थं पदमिह विवक्षितमित्याह-भिन्नार्थमिति । अनेकमिति । पदमिति जातावेकवचनमिति भावः । 'तुल्यश्रुतीनां भिन्नानामभिधेयैः परस्परम् | वर्णानां यः पुनर्वादो यमकं तन्निगद्यते॥' इति भामहेनोक्तं प्रत्याख्यातुमाह- स्थाननियमे सतीति । नियमनमत्र गुणनम् , आवृत्तिरिति यावत् । यम्यते गुण्यते आवर्त्य॑ते पदमक्षरं वेति यमः । बहुलग्रहणात् कर्मणि घप्रत्ययः । यम एव यमकम् । अयमत्र वाक्यार्थः स्थानकथनार्थमाह-

 पादाः पादस्यैकस्यानेकस्य चादिमध्यान्तभागाः स्थानानि ॥२॥

 पादाः, एकस्य च पादस्यादिमध्यान्तभागाः, अनेकस्य च पादस्य त एव स्थानानि ॥


भिन्नार्थमेकमनेकं वा पदम् , तद्वदेकमनेकं वाक्षरं च स्थाननियमे सत्यावृत्तं यमकं भवतीति । तथा च पदयमकम् , अक्षरयमकमिति च द्वैविध्यं दर्शितं भवति । कीदृगत्र स्थाननियम इति, तत्राह--स्ववृत्त्येति । यदेव पदमक्षरं वा यमकनिबन्धनं तदेव यदि पादान्तरे वर्तते यथा 'भ्रमर द्रुमपुष्पाणि' इत्यादौ, तत्र स्ववृत्त्या आवृत्तिः । 'सजातीयनैरन्तर्ये चास्य प्रकर्षः' इतीहैव वक्ष्यमाणयुक्त्या सजातीयं यत्र पादान्तरे वर्तते यथा 'हन्त हन्तः' इत्यादौ, तत्र सजातीयस्यावृत्तिः । नियतस्थानावृत्तसमानसंख्याकाक्षरसंनिवेशोऽत्र साजात्यम् । कार्त्स्न्येन समस्तपादगतत्वेन । एकदेशेन पादस्यादिमध्यान्तभागगतत्वेनेत्यर्थः । ननु ' अथ समाववृते कुसुमैर्नवैस्तमिव सेवितुमेकनराधिपम् । यमकुबेरजलेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमम्' इत्यादौ पादान्तरव्याप्तिलक्षणस्थाननियमासंभवेन यमकता न स्यात् ; अतो लक्षणस्याव्याप्तिरिति, तत्राह-- यानि त्विति । एकस्यैव पादस्य भागे वृत्तिर्येषां तानि एकपादभागवृत्तीनि, तेषु 'द्रुमवतीमवतीर्य वनस्थलीम्' इत्यादिश्लोकान्तरस्थं संस्थानं यस्य तत्तथाभूतं यमकम् , तदपेक्षया सजातीयेनानेकपादव्याप्तिर्भवतीति भवत्येव स्थाननियमः ।

 यमकस्थानानि दर्शयितुं सूत्रमवतारयति-- स्थानकथनार्थमिति । व्याचष्टे-पाद इति । अत्रायं विभागः-- प्रथमपादो द्वितीये तृतीये चतुर्थे क्रमेण यम्यते । एवं द्वितीयस्तृतीये चतुर्थे च । तृतीयश्चतुर्थे । तथा प्रथमो द्वितीयादिषु त्रिषु युगपद्यम्यत इति सप्तधा भवति । प्रथमो द्वितीये तृतीयश्चतुर्थे, प्रथमश्चतुर्थे द्वितीयस्तृतीये, इति द्वौ भेदाविति पादयमकं नवधा । पादस्य त्रेधा विभागपक्षे प्रथमादिपादादिभागः पूर्ववत् द्वितीयादिपादादिभागेषु, प्रथमादिपादमध्यभागो द्वितीयादिपादमध्यभागेषु, प्रथमादिपादान्तभागो द्वितीयादिपादा पादयमकं यथा--

  'असज्जनवचो यस्य कलिकामधुगर्हितम् ।
  तस्य न स्याद्विषतरोः कलिकामधु गर्हितम् ॥'

  एकपादस्यादिमध्यान्तयमकानि यथा---

  'हन्त हन्तररातीनां धीर धीरर्चिता तव ।
  काम कामन्दकी नीतिरस्या रस्या दिवानिशम् ॥'

  'वसुपरासु परासुमिवोज्झतीष्वविकलं विकलङ्कशशिप्रभम् ।
  प्रियतमं यतमन्तुमनीश्वरं रसिकता सिकतास्विव तासु का ॥'

न्तभागेषु यम्यत इति सप्तविंशतिधा । खण्डभेदकल्पनया परिगणनायां भूयसी भेदसंख्येत्युपरम्यते । तत्र दिङ्मात्रं दर्शयितुं पादयमकं तावदुदाहरति-- पादयमकमिति । कलेः कामं दोग्धीति कलिकामधुक् । तथाविधम् असज्जनस्य खलस्य वचो यस्य अर्हितं पूजितं भवति, तस्य पुंसः, विषतरोः कलिकामधु कोरकमकरन्दः गर्हितं न स्यात् तदप्युपादेयं स्यादित्यर्थः ।

 अथैकस्य पादस्यादिमध्यान्तेषु यमकं क्रमेणोदाहरति- एकपादस्येति । हन्तेति । अरातीनां हन्तः, धीर प्राज्ञ । 'धीरो मनीषी ज्ञः प्राज्ञः' इत्यमरः । तव धीः अर्चिता । हन्तेति हर्षे । अतः कामन्दकसंबन्धिनी नीतिः कामन्दकप्रणीता दण्डनीतिरित्यर्थः। अस्यास्तव धियः काममत्यर्थं रस्या अस्वादनीया । नन्वत्र पदयमके द्वयोरपि पदत्वाभावे कथं पदयमकमिति न चोदनीयम् , यमकनिबन्धनयोर्द्वयोरेकस्य पदत्वे सति तदन्यस्य संहिताकाले तदाकारानुकारितया पदावभासजनकत्वाद्भवत्येव पदयमकमिति ।

 वसुपरास्विति । अविकलं संपूर्णमित्यर्थः । विकलङ्कशशिप्रभम् । यतः उपरतः मन्तुः अपराधो यस्य तथाविधं निरागसमित्यर्थः । 'आगोऽपराधो मन्तुश्च' इत्यमरः । अनीश्वरम् ऐश्वर्यरहितम् । प्रियतमं परासुं मृतमिव उज्झतीषु त्यक्तवतीषु वसुपरासु वेश्यासु । सिकतास्विव । रसिकता रसः आसामस्तीति रसिकाः । 'अत इनिठनौ' इति ठन्प्रत्ययः । तासां भावो रसिकता, का न का 'सुदृशो रसरेचकितं चकितं भवतीक्षितमस्ति मितं स्तिमितम् ।

 अपि हासलवस्तवकस्तव कस्तुलयेन्ननु कामधुरां मधुराम् ॥'

 पादयोरादिमध्यान्तयमकानि यथा--

  'भ्रमर द्रुमपुष्पाणि भ्रम रत्यै पिबन् मधु ।
  का कुन्दकुसुमे प्रीतिः काकुं दत्त्वा विरौषि किम् ॥'

  'अप्यशक्यं त्वया दत्तं दुःखं शक्यन्तरात्मनि ।
  बाष्पो वाहीकनारीणां वेगवाही कपोलयोः॥"

चित् तासु रसिकतेत्यर्थः । अत्र प्रियतममित्यक्षरयमकत्वेन पदावृत्त्यसंभवान्नेदमुदाहरणम् ।

{{gap}}सुदृश इति । रसेन रागविशेषेण रेचकितं भ्रमितम् । चकितं भयसंभ्रान्तम् । 'चकितं भयसंभ्रमः' इत्यमरः । मितं स्तोकं स्तिमितं निभृतं सुदृश ईक्षणं भवति त्वयि अस्ति । अपि किंच, हासस्य लवो लेशः । 'लवलेशकणाणवः' इत्यमरः । स्तबक इव हासलवो हासलवस्तबकः । 'उपमितं व्याघ्रादिभिः' इति समासः । वबयोरभेदः । सोऽपि त्वय्यस्तीत्यनुषज्यते । अतः कः पुमान् तव | मधुरां मनोज्ञां कामस्य धूः कामधुरा ताम् । 'ऋक्पूरब्धूःपथामानक्षे' इत्यकारः समासान्तः । ननु तुलयेत् न कोऽपि तुलयेत् , तव कामधुरां परिच्छेत्तुं न शक्नुयादित्यर्थः ।

 अथ पादयोरादिमध्यान्तभागेषु यमकं क्रमेणोदाहरति---पादयोरिति । हे भ्रमर, मधु पिबन्, रत्यै सुखाय, द्रुमपुष्पाण्युद्दिश्य भ्रम संचर । कुन्दकुसुमे का प्रीतिः'। काकुं ध्वनिविकारं दत्त्वा 'काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः' इत्यमरः । किं विरौषि । 'रु शब्दे' इति धातुः।

 अप्यशक्यमिति । अशक्यम् असह्यम् , दुःखं शकीनां शकाख्यजनपदस्त्रीणाम् अन्तरात्मनि । त्वया दत्तम् । त्वयेति कर्तृपदम् ; तदर्थस्तु प्रकरणानुसारेण द्रष्टव्यः । अपि किंच, वाहीकनारीणां कपोलयोः, वेगवाही वेगेन वहति प्रवहतीति वेगवाही बाष्प. दत्त इत्यनुषज्यते ।

  'सपदि कृतपदस्त्वदीक्षितेन
   स्मितशुचिना स्मरतत्त्वदीक्षितेन ।
  भवति बत जनः सचित्तदाहो
   न खलु मृषा कुत एव चित्तदाहो ।'

 एकान्तरपादान्तयमकं यथा-

  'उद्वेजयति भूतानि यस्य राज्ञः कुशासनम् ।
  सिंहासनवियुक्तस्य तस्य क्षिप्रं कुशासनम् ॥'

 एवमेकान्तरपादादिमध्ययमकान्यूह्यानि ।

 समस्तपादान्तयमकं यथा

  'नतोन्नतभ्रूगतिबद्धलास्यां
   विलोक्य तन्वीं शशिपेशलास्याम् ।
  मनः किमुत्ताम्यसि चञ्चलास्यां
   कृती स्मराज्ञा यदि पुष्कला स्याम् ॥'


 सपदीति । स्मितशुचिना कामतत्त्वदीक्षितेन त्वदीक्षितेन सपदि कृतपदो जनस्तदैव सचित्तदाहो भवति । न कुतश्चित् कुतोऽपि न मृषा खलु । अहो ।

 एकान्तरितपादान्तयमकमाह-- एकान्तरेति । यस्य राज्ञः कुशासनं कुत्सितं शासनं भूतानि प्राणिन उद्वेजयति । सिंहासनवियुक्तस्य तस्य कुशासनं कुशमयमासनं भवति ।

 एवमिति । एकान्तरितपादादियमकं यथा--- 'करोऽतिताम्रो रामाणां तन्त्रीताडनविभ्रमम् । करोति सेर्ष्ये कान्ते च श्रवणोत्पलताडनम् ॥ एकान्तरितपादमध्ययमकं यथा--'यान्ति यस्यान्तिके सर्वेऽप्यन्तकान्तमुपाधयः । तं शान्तचित्तवृत्तान्तं कालीकान्तमुपास्महे ॥' इति ।

 चतुर्ष्वपि पादेषु अन्तयमकमुदाहरति-- नतोन्नतेति । हे चञ्चल मनः, नते उन्नते च भ्रुवौ तयोर्गतिभिर्वलनभङ्गीभिर्बद्धं लास्यं शृङ्गारनटनं यया ताम् । शशीव पेशलं मनोज्ञमास्यं यस्यास्तां तन्वीं विलोक्य किमुत्ताम्यसि । अस्यां तन्व्यां स्मराज्ञा यदि पुष्कला भवेत् , तर्हि कृती स्यामिति संबन्धः ।  एवं समस्तपादादिमध्ययमकानि व्याख्यातव्यानि । अन्ये च संकरजातिभेदाः सुधियोत्प्रेक्ष्याः ।

 अक्षरयमकं त्वेकाक्षरमनेकाक्षरं च ।

 एकाक्षरं यथा-

  'नानाकारेण कान्ताभ्रूराराधितमनोभुवा ।
  विविक्तेन विलासेन ततक्ष हृदयं नृणाम् ॥'

 एवं स्थानान्तरयोगेऽपि द्रष्टव्यः ।

 सजातीयनैरन्तर्यादस्य प्रकर्षो भवति ।

 स चायं हरिप्रबोधे दृश्यते; यथा---


 एवमिति । समस्तपादादियमकं यथा---'सारसालंकृताकारा सारसामोदनिर्भरा । सारसालवृतप्रान्ता सा रसाढ्या सरोजिनी ॥' समस्तपादमध्ययमकं यथा--'स्थिरायते यतेन्द्रियो न हीयते यतेर्भवान् । अमायते यतेऽप्यभूत्सुस्वाय ते यते क्षयम् ॥

 अन्ये चेति । 'सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर्नदैर्वृतममुम् । मता फणवतोऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥' इत्यादि ।

 अक्षरयमकम् अध्यक्षयितुं तद्विभागमाह-- अक्षरयमकमिति । तत्राद्यमुदाहरति--- नानेति । नानाकारेण विविक्तेन शुद्धेन आराधितमनोभुवा विलासेन । कान्ताभ्रूः, नृणां हृदयं ततक्ष । 'अडादीनां व्यवस्थार्थं पृथक्त्वेन प्रकल्पनम् । धातूपसर्गयोः शास्त्रे धातुरेव हि तादृशः ॥' इति वचनात् विशब्दस्य धात्वंशत्वेनाक्षरावृत्तिरेवेति न पदावृत्तिशङ्कावकाशः ।

 एवमिति । स्थानान्तरयोगे यथा-'सभासु राजन्नसुराहतैर्मुखैर्महीसुराणां वसुराजितैः स्तुताः । न भासुरा यान्ति सुरान्न ते गुणाः प्रजासु रागात्मसु राशितां गताः' ॥ इति, · अकलङ्कशशाङ्काङ्कामिन्दुमौलेर्मतिर्मम' इत्यादि ।

 इत्थमक्षरयमकमुदाहृत्य तदेव नैरन्तर्येणावृत्तमुदाहर्तुमुपश्लोकयति-- सजातीयेति।

  'विविधधववना नागगर्द्धर्द्धनाना-
   विविततगगनानाममज्जज्जनाना।
  रुरुशशललना नाववन्धुं धुनाना।
   मम हि हिततनानाननस्वस्वनाना ॥'

 अनया च वर्णयमकमालया पदयमकमाला व्याख्याता ।

भङ्गादुत्कर्षः ॥३॥

 उत्कृष्टं खलु यमकं भङ्गाद्भवति ।

 शृङ्खला परिवर्तकश्चूर्णमिति भङ्गमार्गः ॥ ४ ॥

 विविधेति । अत्र पारावारपरिसरभुवमभिलक्ष्य हलधरं हरिराह । विविधानि बहुविधानि धवानामर्जुनानां वनानि यस्यां सा विविधधववना 'धवो वृक्षे नरे पत्यावर्जुने च द्रुमान्तरे' इति वैजयन्ती। नागाः कुञ्जराः सर्पा वा तान् गृध्यन्ति अभिलषन्तीति नागगर्द्धाः; तथाविधा ऋद्धाः समृद्धा ये नानाविधा वयः पक्षिणः, तैर्विततं व्याप्तं गगनं यस्याः सा नागगर्द्धर्द्धनानाविविततगगना । न विद्यते नामो नमनं यस्मिन् कर्मणि तत्तथा मज्जन्तो जना यस्यां सा अनाममज्जज्जना । अनिति प्राणितीति अना, स्फुरन्तीति यावत् । अथवा न विद्यन्ते नरो यस्यां सा अना । समासान्तविधेरनित्यत्वात् कबभावः । रुरूणां शशानां च ललनं विलसनं यस्यां सा रुरुशशललना । नौ आवयोः, अबन्धुं शत्रुं धुनाना । हि यस्मात् कारणात् । मम हितं तनोतीति हिततना । न विद्यते आननं यस्यासौ अनाननः, स्व आत्मीयः स्वन एव अनः प्राणनं यस्याः सा अनाननस्वस्वनाना । एवंविधा समुद्रभूमिरिति वाक्यार्थः ।

 पदयमकमालेति । 'स्वभुवे स्वभुवे भयोभयोर्भवतां भवताम्भसि ते भसिते' इत्यादि द्रष्टव्यम् ।

 अथ यमकगोचरमेव किंचद्वैचित्र्यमासूत्रयितुमाह-- भङ्गादुत्कर्ष इति । व्याचष्टे-- उत्कृष्टमिति । भङ्गो नाम वर्णविच्छेदः ।

 भङ्गभेदान् भणितुमनुभाषते---- शृङ्खलेति । वृत्तिः स्पष्टार्था ।  एते खलु शृङ्खलादयो यमकभङ्गानां प्रकारा भवन्ति ।

 तान् क्रमेण व्याचष्टे--

 वर्णविच्छेदचलनं श्रृङ्खला ॥ ५॥

 वर्णानां विच्छेदो वर्णविच्छेदः, तस्य चलनं यत् , सा श्रृङ्खला ।

 यथा- कलिकामधुशब्दे कामशब्दविच्छेदे च तस्य चलनम् । लिमवर्णयोर्विच्छेदात् ।

 सङ्गविनिवृत्तौ स्वरूपापत्तिः परिवर्तकः ॥ ६ ॥

 अन्यवर्णसंसर्गः सङ्गः, तद्विनिवृत्तौ स्वरूपस्य अन्यवर्णतिरस्कृतस्य आपत्तिः प्राप्तिः परिवर्तकः । यथा---'कलिकामधुगर्हितम्' इत्यत्र अर्हितमिति पदं गकारस्य व्यञ्जनस्य सङ्गात् गर्हितमित्यन्यस्य रूप-


 शृङ्खलादीन् संकथयितुं सूत्रमवतारयति-- तानिति । विग्रहं विवृण्वन् व्याचष्टे--वर्णानामिति । लक्ष्यलक्षणयोरानुकूल्यमुन्मीलयति-यथेति । कलिकामधुशब्दे कामशब्दविच्छेदे च तस्य चलनम्' इति पाठः । अत्र चस्त्वर्थे । पदद्वयात्मके कलिकामधुशब्दे, कामशब्दस्य तु विच्छेदे पृथक्कारे तस्य कलिकामधुशब्दस्य चलनं भवति । कुत इत्यत आह-- लिमवर्णयोरिति । यद्वा, 'कलिकामधुशब्दे कामशब्दविच्छेदे मधुशब्दविच्छेदे च तस्य चलनम्' इति पाठान्तरम् । अत्र चः समुच्चये । अत्र कामशब्दस्य विच्छेदे पृथक्कारे कलिकाविच्छेदस्य चलनं भवति, लिवर्णस्य विच्छेदात् । मधुशब्दस्य विच्छेदे पृथक्कारे कामविच्छेदस्य चलनं भवति, मवर्णस्य विच्छेदादित्यर्थः । एवं शृङ्खलारूपेण वर्णविच्छेदप्रतीतेरयं भङ्गमार्गः शृङ्खलेति व्यपदिश्यते ।

 परिवर्तकं कीर्तयितुमाह- सङ्गेति । तद्विनिवृत्तौ अन्यवर्णसाङ्गत्यविनिवृत्तौ । अन्यवर्णो व्यञ्जनम् , तेन तिरस्कृतस्य तिरोहितस्य स्वरूपस्यापत्तिः । अर्थान्तरभ्रमं निवारयति-- प्राप्तिरिति । लक्ष्ये लक्षणं योजयति-- यथेतिमापन्नम् । तत्र व्यञ्जनसङ्गे विनिवृत्ते स्वरूपमापद्यते-- अर्हितमिति । अन्यवर्णसंक्रमेण भिन्नरूपस्य पदस्य ताद्रूप्यविधिरयमिति तात्पर्यार्थः । एतेनेतरावपि व्याख्यातौ ।

पिण्डाक्षरभेदे स्वरूपलोपश्चूर्णम् ॥७॥

पिण्डाक्षरस्य भेदे सति पदस्य स्वरूपलोपः चूर्णम् ।

यथा--

  'योऽचलकुलमवति चलं दूरसमुन्मुक्तशुक्तिमीनां कान्तः ।
  साग्नि बिभर्ति च सलिलं दूरसमुन्मुक्तशुक्तिमीनाङ्कान्तः ॥'

 अत्र शुक्तिपदे क्तीति पिण्डाक्षरम् , तस्य भेदे शुक्तिपदं लुप्यते, ककारतिकारयोरन्यत्र संक्रमात् । दूरसमुन्मुक्तशुक् अचलकुलम् , तिमीनां कान्तः समुद्रः।


स्पष्टमन्यत् । नन्वन्यवर्णसंयोगे हि यमकत्वं संगच्छते, कथं तन्निवृत्तिरुपयुज्यत इत्याशङ्क्य तात्पर्यमाविष्करोति--- अन्यवर्णसंक्रमेणेति । एतेनेति । नानाविच्छेदशालिपदमेलने स्वरूपलाभः, भिन्नयोर्हलोः पिण्डीकरणे च स्वरूपलाभ इति द्वौ भेदौ द्रष्टव्यौ।

 चूर्णकं वर्णयितुयाह----पिण्डाक्षरस्येति । पिण्डाक्षरस्य संयुक्ताक्षरस्य । उदाहरति-योऽचलकुलमिति । दूरे समुन्मुक्ता शुक् शोको येन । तिमीनां मत्स्यानां कान्तः प्रियः । उन्मुक्ता उद्गतमुक्ताः शुक्तय उन्मुक्तशुक्तयः मीनाश्च अङ्का यस्य स तादृक् अन्तः पर्यन्तो यस्य तादृशो यः समुद्रः । चलं भयचञ्चलं दूरसमुन्मुक्तशुक् अचलकुलमवति । दूरसं दुष्टरसं साग्नि सलिलं बिभ्रर्ति च । लक्ष्ये लक्षणानुगममभिलक्षयति-अत्रेति । पिण्डाक्षरं दर्शयति-शुक्तिपदे क्तीति । तस्य पिण्डाक्षरस्य वर्णयोः शुगित्यत्र ककारस्य तिमीत्यत्र तिकारस्य च भेदे शुक्तिपदस्वरूपं लुप्यते; तत्र हेतुमाह- ककारेति । ककारतिकारयोः अन्यत्र शुक्तिपदे तिमिपदे च संक्रमादित्यर्थः । संक्रममेव दर्शयति- दूरसमुन्मुक्तशुगिति, तिमीनामिति च । विशेषणद्वयस्य यथासङ्ख्यं विशेष्यद्वयं दर्शयति--- अचलकुलमिति, कान्तः समुद्र इति च ।  अत्र श्लोकाः-

  अखण्डवर्णविन्यासचलनं श्रृङ्खलामला ।
  अनेन खलु भङ्गेन यमकानां विचित्रता ।

  यदन्यसङ्गमुत्सृज्य नेपथ्यमिव नर्तकः।
  शब्दः स्वरूपमारोहेत्स ज्ञेयः परिवर्तकः ॥

  पिण्डाक्षरस्य भेदेन पूर्वापरपदाश्रयात् ।
  वर्णयोः पदलोपो यः स भङ्गश्चूर्णसंज्ञकः॥

  अप्राप्तचूर्णभङ्गानि यथास्थानस्थितान्यपि ।
  अलकानीव नात्यर्थं यमकानि चकासति ।

  विभक्तिपरिणामेन यत्र भङ्गः क्वचिद्भवेत् ।
  न तदिच्छन्ति यमकं यमकोत्कर्षकोविदाः ॥

  आरूढं भूयसा यत्तु पदं यमकभूमिकाम् ।
  दुष्येच्चेन्न पुनस्तस्य युक्तानुप्रासकल्पना ॥

  विभक्तीनां विभक्तत्वं संख्यायाः कारकस्य च ।
  आवृत्तिः सुप्तिङन्तानां मिथश्च यमकाद्भुतम् ॥


 प्रतिपादितेऽर्थे परसंवादं प्रकटयति- अत्र श्लोका इति । पद्यत्रयं स्पष्टार्थम् । भङ्गादुत्कर्ष इत्युपक्रम्य भङ्गमार्गेषु प्रकर्षं प्रतिपाद्य अन्यत्रापकर्षमवगमयितुमाह--- अप्राप्तेति । अप्राप्तचूर्णभङ्गानीति विशेषणमलकेष्वपि योजनीयम् , विभक्तीति । विभक्तीनां परिणामो विपरिणामः, अन्यथाभाव इति यावत् । उदाहरणं तु 'शिवमात्मनि सत्त्वस्थान् पश्यतः पश्यतः शिवौ' इत्यादि द्रष्टव्यम् । आरूढमिति । यत्पदं भूयसा भूम्ना, यमकभूमिकां यमकवदवभासमानत्वम् , आरूढम्., तत् दुष्येत् दुष्टं भवेत् । ननु न चेत्तद्यमकम् , तर्ह्यनुप्रासोऽस्त्विति शङ्कां शकलीकरोति-- न पुनरिति । यथा दण्डिनोक्तम् , 'कालकाल गलकाल कालमुख-' इत्यादि । विभक्तीनामिति । प्रथमादीनां विभक्तीनां विभक्तत्वं विविधत्वम् , एकवचनादिलक्षणायाः संख्यायाः कर्तृकर्मादेः

शेषः सरूपोऽनुप्रासः ॥ ८॥

 पदमेकार्थमनेकार्थं च स्थानानियतं तद्विधमक्षरं च शेषः। सरूपः अन्येन प्रयुक्तेन तुल्यरूपः अनुप्रासः ।

 ननु ‘शेषोऽनुप्रासः' इत्येतावदेव सूत्रं कस्मान्न कृतम् ? आवृत्तिशेषोऽनुप्रास इत्येव हि व्याख्यास्यते ; सत्यम् । सिध्यत्येवावृत्तिशेषे; किंत्वव्याप्तिप्रसङ्गः, विशेषार्थं च सरूपग्रहणम्-कार्त्स्न्येनैवावृत्तिः, कार्त्स्न्यैकदेशाभ्यां च सारूप्यमिति ।


कारकस्य विभक्तत्वम् , सुबन्तानां तिङन्तानां च पदानामावृत्तिर्यत्र, तत् यमकाद्भुतम् अतिशयितं यमकमित्यर्थः । क्रमेणोदाहरणानि 'विश्वप्रमात्रा भवता जगन्ति व्याप्तानि मात्रापि न मुञ्चति त्वाम्' इति, 'एताः सन्नाभयो बाला यासां सन्नाभयः प्रियः' इति, 'यतस्ततः प्राप्तगुणः प्रभावे यतस्ततश्चेतसि भासतेऽयम्' इति, 'सरति स रतिकान्तस्ते ललामो ललामः' इत्यादीनि । अत्र विभक्तिविपरिणाममात्रे यमकत्वहानिः । प्रकृत्यर्थस्यापि भेदे यमकाद्भुतत्वमिति विवेकः ।

 इत्थं यमकं लक्षयित्वा अनुप्रासं लक्षयितुमाह- शेष इति । शेषशब्दार्थमाह--- पदमिति । स्थानानियतं प्रागुक्तस्थाननियमरहितमित्यर्थः । एकार्थं पदम् , स्थानानियतमनेकार्थं च, तद्विधं तथाविधमस्थाननियममक्षरं शेषः । सरूपपदार्थमाह-सरूप इति । अन्येन अक्षरेन प्रयुक्तेन पदान्तरेण वा तुल्यरूपः शेषोऽनुप्रासो भवति । अत्र सूत्रे सरूपपदवैयर्थ्यमाशङ्कते---- नन्विति । शेषोऽनुप्रास इत्येव कृते सूत्रे आवृत्तपदानुषङ्गादस्थाननियमं पदमक्षरं च आवृत्तमनुप्रासो भवतीति सूत्रार्थे संपन्ने सारूप्यमर्थात् संपत्स्यते ; किं सरूपग्रहणेनेति शङ्कार्थः । अर्धाङ्गीकारेण परिहरति-सत्यमिति । अङ्गीकृतमंशमाह-सिध्यत्येवेति । सारूप्यमिति शेषः । तथाप्यावृत्तेरविशेषत्वेन सामान्येन यत् व्याप्तं कार्त्स्न्येनावृत्तत्वम् , तन्मात्रप्रसङ्गः स्यात् ; विशेषस्तु न सिध्येदित्यर्थः । तमेव विशेषं दर्शयितुमाह-विशेषार्थं चेति । यद्यपि सामान्येन कार्त्स्न्येनावृत्तिर्भवति, तथापि कार्त्स्न्यैकदेशाभ्यां सारूप्यमत्र वक्तव्यमिति सरूपग्रहणं कृतमित्यर्थः ।

अनुल्बणो वर्णानुप्रासः श्रेयान् ॥ ९ ॥

 यो वर्णानुप्रासः, स खलु अनुल्बणः अपीनः श्रेयान् ।

 उल्बणस्तु न श्रेयान् । यथा- 'वल्लीबद्धोर्ध्वजूटोद्भटमटति रटत्कोटिकोदण्डदण्डः' इति ।

पादानुप्रासः पादयमकवत् ॥ १० ॥

 ये पादयमकस्य भेदाः, ते पादानुप्रासस्येत्यर्थः ।

 तेषामुदाहरणानि यथा-

  'कविराजमविज्ञाय कुतः काव्यक्रियादरः।
  कविराजं च विज्ञाय कुतः काव्यक्रियादरः॥'

  'आखण्डयन्ति मुहुरामलकीफलानि
   बालानि बालकपिलोचनपिङ्गलानि ।'

  'वस्त्रायन्ते नदीनां सितकुसुमधराः श्रीशसंकाश काशाः
   काशाभा भान्ति तासां नवपुलिनगताः श्रीनदीहंस हंसाः ।

 अनुप्रासो द्विविधः--- उल्बणः अनुल्बणश्च । तत्रोल्बणादनुल्बण उत्कृष्ट इत्युपपादयितुमाह--- अनुल्बण इति । व्याचष्टे--- यो वर्णानुप्रास इति । अनुल्बणपदव्याख्यानम्-- अपीन इति । मसृण इत्यर्थः । उदाहरणं तु 'अपसारय घनसारं कुरु हारं दूर एव किं कमलैः। अलमलमालि मृणालैरिति वदति दिवानिशं बाला ॥' इत्यादि प्रसिद्धमिति मत्वा उल्बणमुदाहरति-- यथा वल्लीबद्धेति ।

 ‘पादानुप्रासः पादयमकवत्' इत्यत्रातिदेशप्राप्तमर्थमावेदयति--- ये पादयमकस्येति । कविराजमिति । एकत्र आदरः, अन्यत्र दरः । 'दरत्नासौ भीतिर्भीः साध्वसं भयम्' इत्यमरः । उभयत्र आदर इति वा व्याख्येयम् । आखण्डयन्तीति । अत्र ‘लानि' इत्यक्षरानुप्रासः । वस्त्रायन्त इति । हे श्रीशसंकाश, सितकुसुमधराः काशाः नदीनां वस्त्रायन्ते दुकूलवदाचरन्तीत्यर्थः ।

  हंसाभाम्भोदमुक्तः स्फुरदमलरुचिर्मेदिनीचन्द्र चन्द्र-
   श्चन्द्राङ्कः शारदस्ते जयकृदुपगतो विद्विषां कालं कालः ॥'

  'कुवलयदलश्यामा मेघा विहाय दिवं गताः
   कुवलयदलश्यामो निद्रां बिमुञ्चति केशवः ।
  कुवलयदलश्यामा श्यामालताद्य विजृम्भते
   कुवलयदलश्यामं चन्द्रो नभः प्रविगाहते ॥'

 एवमन्येऽपि द्रष्टव्याः।

इति काव्यालंकारसूत्रवृत्तौ आलंकारिके

चतुर्थेऽधिकरणे प्रथमोऽध्यायः ॥

हे श्रीनदीहंस श्री राज्यलक्ष्मीरेव नदी तत्र हंस, तासां नदीनां नवपुलिनगताः काशाभा हंसा भान्ति । हे मेदिनीचन्द्र, चन्द्रः हंसाभैरम्भोदैर्मुक्तः, अत एव स्फुरदमलरुचिर्भवति । हे विद्विषां काल, चन्द्राङ्कः शारदः कालः, ते जयकृदुपगत इति । अत्र समस्तपादान्तपदानुप्रासः । पादान्तपदानामुपरि पादादिषु पुनर्ग्रहणान्मुक्तपदग्रहाख्यमन्यदपि वैचित्र्यं द्रष्टव्यम् । कुवलयदलेति । अत्र सर्वपादादिपदानुप्रासः । एवमन्येऽपीति । ‘सितकरकररुचिरविभा विभाकराकार धरणिधर कीर्तिः । पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ।' इत्यादयः प्रत्येतव्याः ॥

इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत्ति-

व्याख्यायां काव्यालकारकामधेनौ आलकारिके नाम

चतुर्थेऽधिकरणे प्रथमोऽध्यायः॥