काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता)/तृतीयाधिकरणम्/द्वितीयोऽध्यायः

द्वितीयोऽध्यायः ॥

 शब्दगुणविवेके कृते संप्रत्यर्थगुणविवेचनार्थमाह--

त एवार्थगुणाः ॥ १॥

 त एव ओजःप्रभृतयः अर्थगुणाः ।

 वाच्यवाचकद्वारेण शब्दार्थगुणानां भेदं दर्शयति--

अर्थस्य प्रौढिरोजः ॥२॥

 अर्थस्याभिधेयस्य प्रौढिः प्रौढत्वं यत् तत् ओजः ।

  पदार्थे वाक्यवचनं वाक्यार्थे च पदाभिधा ।

  प्रौढिर्व्याससमासौ च साभिप्रायत्वमस्य च ॥

 पदार्थे वाक्यवचनं यथा--- 'अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः।'


  कारुण्यसंपदुत्कूललावण्यगुणशालिनीम् ।
  स्वच्छस्वच्छन्दवाचालां भावये हृदि भारतीम् ॥ १ ॥

 शब्दगुणविवेचने कृते लब्धावसरमर्थगुणविवेचनमिति संगतिमुल्लिङ्गयन्ननन्तरसूत्रमवतारयति-- शब्दगुणविवेक इति ।

 शब्दगुणा एव चेदर्थगुणाः, किमनेन विधान्तरविधानव्यसनेन, लक्षितत्वात्तेषामित्याशङ्क्य, शब्दार्थगुणानां नामतो भेदाभावेऽपि शब्दार्थोपश्लेषवशादस्ति भेद इत्याह---

 वाच्येति । प्रागुद्देशपरिपाट्या प्रथमप्राप्तमोजः प्रतिपादयितुमाह-- अर्थस्येति । वृत्तिः स्पष्टार्था ।

 प्रौढिं पद्येन पञ्चधा प्रपञ्चयति- पदार्थ इति । तत्राद्यमुदाहरति-- अत्र चन्द्रपदवाच्येऽर्थे ‘नयनसमुत्थं ज्योतिरत्रेः' इति वाक्यं प्रयुक्तम् । पदसमूहश्च वाक्यमभिप्रेतम् ।

 अनया दिशा अन्यदपि द्रष्टव्यम् । तद्यथा---

  'पुरः पाण्डुच्छायं तदनु कपिलिम्ना कृतपदं
   ततः पाकोत्सेधादरुणगुणसंसर्गितवपुः।
  शनैः शोषारम्भे स्थपुटनिजविष्कम्भविषमं
   वने वीतामोदं बदरमरसत्वं कलयति ॥'

 न चैवमतिप्रसङ्गः, काव्यशोभाकरत्वस्य गुणसामान्यलक्षणस्यावस्थितत्वात् ।

 वाक्यार्थे पदाभिधानं यथा-'दिव्येयं न भवति, किंतु मानुषी' इति वक्तव्ये 'निमिषति' इत्याहेति ।


पदार्थ इति । लक्ष्यलक्षणयोरानुकूल्यमुन्मीलयति-चन्द्रपदेति । 'तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता' इत्युक्तलक्षणं वाक्यं न विवक्षितम् , किंतु पदसमुदायमात्रमभिमतमित्याह-- पदसमूहश्चेति

 अयं न्यायोऽन्यत्रापि संचारणीय इत्याह- अनयेति । अन्यदपि दर्शयति-पुरः पाण्डुच्छायमिति । स्थपुटो निम्नोन्नतः । विष्कम्भ आभोगः। अत्र कपिलमिति वक्तव्ये ‘कपिलिम्ना कृतपदम्' इति, शुष्कमिति वक्तव्ये 'शनैः शोषारम्भे' इत्यादि च वाक्यं प्रयुक्तमिति पदार्थे वाक्यरचना । 'दक्षात्मजादयितवल्लभवेदिकासु' इत्यादावतिप्रसङ्गं परिहरति- न चैवमिति । तत्र हेतुः- काव्यशोभाकरत्वस्येति । तत्र गुणसामान्यलक्षणाभावान्नातिप्रसङ्ग इत्यर्थः ।

 द्वितीयां प्रौढिं द्रढयति--- वाक्यार्थ इति । किमियं देव्युत मानुषीति पृष्टः कश्चिदुत्तरमाह-निमिषतीति । अनेन मानुषधर्मवाचिना पदेन- देवीयं न भवति, किं तर्हि, मानुषी-- इति वाक्यार्थः प्रतिपादितो भवति ।

 पदार्थे वाक्यम् , वाक्यार्थे पदमिति प्रौढेर्भेदाभ्यां व्याससमासौ पुनरुक्तौ ख्यातामिति न शङ्कनीयम् । तत्र हि पदार्थो वाक्यार्थताम् , वाक्यार्थश्च पदार्थतां  अस्य वाक्यार्थस्य व्याससमासौ ।

व्यासो यथा-

  'अयं नानाकारो भवति सुखदुःखव्यतिकरः
   सुखं वा दुःखं वा न भवति भवत्येव च ततः।
  पुनस्तस्मादूर्ध्वं भवति सुखदुःखं किमपि त-
   त्पुनस्तस्मादूर्ध्वं भवति न च दुःखं न च सुखम् ॥'

समासो यथा-

  'ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् ।
  सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः स्वमुद्ययुः ॥"

साभिप्रायत्वं यथा-

  'सोऽयं संप्रति चन्द्रगुप्ततनयश्चन्द्रप्रकाशो युवा
  जातो भूपतिराश्रयः कृतधियां दिष्ट्या कृतार्थश्रमः ।'

 आश्रयः कृतधियामित्यस्य वसुबन्धुसाचिव्योपक्षेपपरत्वात्साभिप्रायत्वम् । एतेन ‘रतिविगलितबन्धे केशपाशे सुकेश्याः' इत्यत्र सुकेश्या इत्यस्य च साभिप्रायत्वं व्याख्यातम् ।


प्रतिपद्यते । इह तु वाक्यार्थस्यैव व्यासो विस्तरः, समासश्च संक्षेपो वाक्येनैवेति भेदादित्याह- अस्य वाक्यार्थस्येति । व्यासमुदाहरति- अयं नानाकार इति। अयम् अविसंवादितया अनुभूयमानः सुखदुःखव्यतिकरः, नानाकारो विचित्ररूपो भवतीति वाक्यार्थः । अस्यैव विस्तरः ‘सुखं वा दुःखं वा' इत्यादिना कृत इति व्यासः। समासं समुन्मेषयति-- ते हिमालयमिति । अत्र संक्षेपः स्फुटः ।

 पञ्चमीं प्रौढिं प्रपञ्चयति- साभिप्रायत्वमिति । पदान्तरप्रयोगमन्तरेण तदर्थप्रत्यायनप्रागल्भ्यं साभिप्रायत्वम् । लक्ष्यलक्षणयोरानुरूप्यं निरूपयति-आश्रयः कृतधियामिति । एतेनेति । न्यायेनेति शेषः। सुकेश्या इत्यत्र कवेरभिप्रेतं केशसौष्ठवं कलापिकलापकदर्थनसामर्थ्यं केशहस्तस्य समर्पयतीति

अर्थवैमल्यं प्रसादः ॥ ३॥

 अर्थस्य वैमल्यं प्रयोजकमात्रपदपरिग्रहे प्रसादः ।

 यथा-- 'सवर्णा कन्यका रूपयौवनारम्भशालिनी'

 विपर्ययस्तु----'उपास्तां हस्तो मे विमलमणिकाञ्चीपदमिदम् ।'

 काञ्चीपदमित्यनेनैव नितम्बस्य लक्षितत्वात् विशेषणस्याप्रयोजकत्वमिति ।

घटना श्लेषः ॥ ४ ॥

 क्रमकौटिल्यानुल्बणत्वोपपत्तियोगो घटना । स श्लेषः ।


साभिप्रायत्वम् । अस्य च विपर्ययः-- व्यर्थमपुष्टार्थं च । अपुष्टार्थस्य दोषत्वम् 'नापुष्टार्थत्वात्' इति सूत्रे वक्ष्यते । व्यर्थं यथा- 'श्यामां श्यामलिमानमानयत भोः' इत्यत्र श्यामाशब्दः कृष्णत्वमपि प्रतिपादयतीति श्यामलिमानमानयतेति श्यामलिम्नः करणं व्याहतमिति व्यर्थम् । 'चापाचार्यस्त्रिपुरविजयी' इत्यादौ 'तारकारिः' इत्यस्य स्थानेऽनुप्रासानुरोधात्प्रयुक्तम् ‘कार्तिकेयः' इति पदमपुष्टार्थम् ।

 प्रसादं प्रसञ्जयितुमाह-- अर्थवैमल्यमिति । प्रयोजकमात्रपदपरिग्रह इति । विवक्षितार्थसमर्पकपदमात्रप्रयोगेऽर्थस्य यद्वैमल्यं स प्रसादः । न च पञ्चमप्रौढिप्रसादयोः को भेद इति वाच्यम् । तयोः परस्परपरिहारेण दर्शनात् । यथा--- 'रतिविगलितबन्धे केशहस्ते' इत्यादौ ‘कृशाङ्ग्याः' इति पाठे वैमल्येऽपि न साभिप्रायत्वम् । 'अवन्ध्यकोपस्य विहन्तुरापदाम्' इत्यादौ साभिप्रायत्वेऽपि नार्थवैमल्यम् । सवर्णेत्यादि । स्पष्टम् । अस्य विपर्ययोऽपुष्टार्थमनर्थकं च । तत्राद्यमुदाहरति- विपर्ययस्त्विति । विशेषणस्याप्रयोजकत्वमिति । अपुष्टार्थत्वमित्यर्थः । अनर्थकं तु प्रागुदाहृतम् ।

 श्लेषमुन्मेषयितुमाह- घटनेति । मणिपुत्रिकादिषु मुखाद्यवयवयोजनेऽपि श्लेषणं घटना भवति, सा मा भूदित्याह- क्रमेति । नेत्रनिमीलनादीनां यः क्रमः परिपाटी, कौटिल्यं च, तयोरनुल्बणत्वेनोपपत्त्या युक्ततया पृच्छाक्षेपरूपतया बाधाभावस्वभावतया च योजनं घटना विवक्षिता । उदाहरति- यथा---

  'दृष्ट्वैकासनसंगते प्रियतमे पश्चादुपेत्यादरा-
   देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।
  ईषद्वक्रितकंधरः सपुलकः प्रेमोल्लसन्मानसा-
   मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥'

 शूद्रकादिरचितेषु प्रबन्धेष्वस्य भूयान् प्रपञ्चो दृश्यते ।

अवैषम्यं समता ॥ ५॥

 अवैषम्यं प्रक्रमाभेदः समता । क्वचिद्धि प्रक्रमोऽपि भिद्यते ।

 यथा-

  'च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा
   मलयमरुतः सर्पन्तीमे वियुक्तधृतिच्छिदः।
  अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो
   न च जरठतामालम्बन्ते क्लमोदयदायिनीम् ॥'


दृष्ट्वेति । प्रियतमयोरेका स्वकीया, अपरा तत्सखी प्रच्छन्नानुरागा । अन्यथा नास्त्येकासनसंगतिः । निमील्यमाननयना च न द्वेष्या; तथात्वे हि ‘प्रियतमे' इति कथम् । क्रीडामनुबध्नातीति क्रीडानुबन्धं तच्च तत् छलं च । विहितं क्रीडानुबन्धच्छलं नेत्रनिमीलनकापट्यं येन स तथोक्तः । अस्य विपर्ययो लोकविरुद्धत्वम् । यथा हि मधुरायाः सौवीरेषु सत्ता, यथा मधुरायां म्लोषणसत्ता, तथैव एकासने प्रसिद्धसपत्न्योरवस्थितिः । यथा मधौ कदम्बविकासः, तथा सपत्नीसंनिधावेकस्याः क्रीडा | यथा कलिकामकरन्दो गोष्पदपूरः, तथा क्रमेण युगपद्वा, द्वयोरेकस्या वा निधुवनमिति देशकालस्वभावैर्विरुद्धम् । प्रबन्धान्तरेषु भूयिष्ठमुदाहरणमस्ति, तदूहनीयमित्याह- शूद्रकेति

 समतां समुन्मीलयितुमाह- अवैषम्यमिति । अवैषम्यं नाम प्रक्रमाभेदः, सुगमत्वं वा भवतीत्यभिसंधाय प्राथमिकं पक्षमुपक्षिपति-- अवैषम्यं प्रक्रमाभेद इति । प्रक्रमस्याभेदो भेदाभाव ; तत्प्रतिपत्तेः प्रक्रमभेदप्रतिपत्तिपूर्वकत्वात् प्रक्रमभेदं दर्शयितुं प्रथमतः प्रत्युदाहरणं दर्शयति--- क्वचिद्धि प्रक्रम  ऋतुसंधिप्रतिपादनपरेऽत्र द्वितीये पादे प्रक्रमभेदः, मलयमरुतामसाधारणत्वात् । एवं द्वितीयः पादः पठितव्यः- 'मनसि च गिरं बध्नन्तीमे किरन्ति न कोकिलाः' इति । सुगमत्वं वा अवैषम्यमिति ।

यथा---

  'का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या ।

  मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥'

 प्रत्युदाहरणं सुलभम् ।

अर्थदृष्टिः समाधिः ॥ ६॥

 अर्थस्य दर्शनं दृष्टिः । समाधिकारणत्वात् समाधिः। अवहितं हि चित्तमर्थान् पश्यतीत्युक्तं पुरस्तात् ।


इति । अत्र प्रक्रमभेदं प्रतिपादयति-- ऋतुसंधीति । ऋत्वोः शिशिरवसन्तयोः संधिः । असाधारणत्वात्- वसन्तैकधर्मत्वादित्यर्थः । इदमेवोदाहरणयितुं पाठान्तरं प्रकल्पयति- एवं द्वितीय इति । 'मनसि च गिरं बघ्नन्तीमे किरन्ति न कोकिलाः' इति पाठे प्रक्रमाभेदः स्फुटः। विवेकिनोऽत्र शिष्या इति कथमवैषम्यं प्रक्रमाभेद इति तत्रारुच्या पक्षान्तरमुपक्षिपति--- सुगमत्वं वेति । उदाहरति-का स्विदिति । अत्र सुगमत्वं सुगमम् । प्रत्युदाहरणं सुलभमिति । अस्य विपर्ययः क्रमादपक्रमं क्लिष्टत्वं च । तदुभयमपि पूर्वमुदाहृतं द्रष्टव्यम् ।

 समाधिं संप्रधारयितुमाह--- अर्थदृष्टिरिति । ननु समाधिरवधानम् , दर्शनं तु ज्ञानविशेषः । कथमुभयोः सामानाधिकरण्यमित्यत आह-- समाधिकारणत्वादिति । समाधिः कारणं यस्येति बहुव्रीहिः। कार्यकारणयोरुभयोरभेदमुपचर्योक्तमित्यर्थः । कार्यकारणभावमेव ज्ञापयति-- अवहितं हीति । 'चित्तैकाग्र्यमवधानम्' इति सूत्रे प्रागुक्तमित्यर्थः । 'सद्यःकृत्तद्विरदरदनच्छेदगौरैः' इत्यादौ यथा च्छेदश्छिद्यमाने दन्तादौ पर्यवस्यति, तथा दर्शनमत्र दृश्यमानेऽर्थे पर्यवस्यतीति भवत्ययमर्थगुणः ॥

12

अर्थो द्विविधोऽयोनिरन्यच्छायायोनिश्च ॥७॥

 योऽसावर्थः प्रस्तुतः, सोऽर्थो द्विविधः-- अयोनिरन्यच्छायायोनिश्चेति । अयोनिः अकारणः, अवधानमात्रकारण इत्यर्थः । अन्यस्य काव्यस्य च्छाया अन्यच्छाया, तद्योनिः।

 तद्यथा-

 'आश्वपेहि मम शीधुभाजनाद्यावदग्रदशनैर्न दश्यसे ।  चन्द्र मद्दशनमण्डलाङ्कितः खं न यास्यसि हि रोहिणीभयात् ॥'

  'मा भैः शशाङ्क मम शीधुनि नास्ति राहुः
   खे रोहिणी वसति कातर किं बिभेषि ।
  प्रायो विदग्धवनितानवसंगमेषु
   पुंसां मनः प्रचलतीति किमत्र चित्रम् ॥'

 अत्र पूर्वस्य श्लोकस्यार्थोऽयोनिः । द्वितीयस्य च अन्यच्छायायोनिरिति ।

व्यक्तः सूक्ष्मश्च ॥ ८ ॥

 द्वैविध्यमर्थस्य दर्शयितुमाह--- अर्थो द्विविध इति । व्याख्यातुं पूर्वसूत्रार्थमनुवदति- योऽसाविति । अयोनिरिति न विद्यते योनिः कारणं यस्येति विग्रहमभिसंधायाभिधत्ते-अयोनिरकारण इति । कथमसति कारणमात्रे कार्योत्पत्तिरित्याशङ्क्य कवित्वबीजप्रतिभोन्मेषप्रयोजकमवधानमेवात्र कारणमित्यवगमयितुं ना प्रसिद्धकारणं प्रतिषिध्यत इत्याह-- अवधानेति,। विधान्तरं व्याकरोति-अन्यस्य काव्यस्येति । तद्योनिरित्यत्र सा च्छाया योनिर्यस्येति बहुव्रीहिः। प्रथमं भेदं दर्शयति-- आश्वपेहीति । स्पष्ठमुदाहरणम् । विधान्तरं व्युत्पादयति-मा भैरिति । बिभेषीत्यत्र मत्त इत्यध्याहार्यम् । स्त्रीणां प्रियस्य पुरतः स्ववैदग्ध्यप्रकटनमुचितमेवेर्त्यवगन्तव्यम् । लक्ष्ये लक्षण- मवगमयति- अत्र पूर्वस्योति । पूर्वभाविना कविना कृतत्वात् ।

 द्विविधस्याप्यर्थस्य द्वैविध्यं दर्शयितुमाह- व्यक्तः सूक्ष्मश्चेति अयोनिरन्यच्छायायोनिश्च योऽयमर्थः, स द्वेधा-- व्यक्तः सूक्ष्मश्च । व्यक्तः स्फुट उदाहृत एव ।

 सूक्ष्मं व्याख्यातुमाह--

सूक्ष्मो भाव्यो वासनीयश्च ॥९॥

 सूक्ष्मः खलु द्वेधा भवति-भाव्यः, वासनीयश्च । शीघ्रनिरूपणागम्यो भाव्यः । एकाग्रताप्रकर्षगम्यो वासनीय इति ।

 भाव्यो यथा--

  'अन्योन्यसंवलितमांसलदन्तकान्ति
   सोल्लासमाविरलसंवलितार्धतारम् ।
  लीलागृहे प्रतिकलं किलिकिञ्चितेषु
   व्यावर्तमाननयनं मिथुनं चकास्ति ।'


व्याचष्टे- अयोनिरिति । व्यक्तार्थद्वयस्य प्रागुक्तमुदाहरणद्वयं प्रत्येतव्यमित्याह---- उदाहृत एवेति

 सूक्ष्मविभागं दर्शयितुं सूत्रमवतारयति—सूक्ष्ममिति । विभागं व्युत्पादयति--- सूक्ष्मः खल्विति । भावुकानामवधानमात्रेण विमर्शो भावना, तद्योग्यो भाव्यः । सहृदयसद्व्यवहारसमुल्लसितसंस्कारसंपन्नो योऽवधानप्रकर्षस्तेन गम्यो वासनीयः । तदिदमभिसंधायाह- शीघ्रेति । आद्यमुदाहरति--- भाव्यो यथेति । लीलागृहे मिथुनमुक्तविधं चकास्तीति वाक्यार्थः । अन्योन्यसंवलितमांसलदन्तकान्तीत्यनेन स्मितसंलापाधरास्वादादयः, सोल्लासमित्यनेन हर्षौत्सुक्यादयः, अलसमित्यनेन श्रमाङ्गदौर्बल्यादयः, किलिकिञ्चितेषु व्यावर्तमाननयनमित्यनेन प्रणयकलहगर्वभयकम्पादयश्च व्यज्यन्ते; 'क्रोधाश्रुहर्षभीत्यादेः संकरः किलिकिञ्चितम्' इति दशरूपके तल्लक्षणकथनात् । अत्र मिथुनमालम्बनविभावः । लीलागृहमुद्दीपनविभावः। अधरास्वादाङ्गक्लमस्मितकम्पनयनव्यावर्तनभ्रूभेदादयोऽनुभावाः। उल्लासोन्मीलितहर्षौत्सुक्यादयः किलिकिञ्चिताक्षिप्तक्रोधशोकभयगर्वाश्च संचारिणः । इत्थं विभावानुभावसंचारिभिरास्वादनीयतामापाद्यमानो रतिलक्षणः स्थायी भावः  वासनीयो यथा-

  'अवहित्थवलितजघनं विवर्तिताभिमुखकुचतटे स्थित्वा ।
  अवलोकितोऽहमनया दक्षिणकरकलितहारलतम् ॥'

उक्तिवैचित्र्यं माधुर्यम् ॥ १० ॥

 उक्तेर्वैचित्र्यं यत् , तन्माधुर्यमिति ।

 यथा-

  'रसवदमृतं कः संदेहो मधून्यपि नान्यथा
   मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् ।
  सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो
   वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ॥'


साधारण्येन चर्व्यमाणतैकप्राणः संभोगशृङ्गारो रसः । तदुक्तं दशरूपके, 'विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः ॥' इति । वासनीयमुद्भासयति-वासनीय इति। अवहित्थेति । अवहित्थमाकारगोपनम् । दुर्लभस्त्वत्संभोगः, त्वय्येव लग्नमिदं मदीयं मनः, दुरन्तसंतापशान्तये हारलतिकेयमेका मयि दाक्षिण्यमवलम्बत इत्येवं स्वाभिप्रायप्रकाशनमवधानप्रकर्षेणात्र सहृदयहृदयसंवेद्यम् । अत्र विप्रलम्भशृङ्गारः । विभावादयः स्वयमूह्याः । अस्य गुणस्य विपर्ययो ग्राम्यत्वम् ‘स्वपिति यावत्' इत्यादौ द्रष्टव्यम् ।

 माधुर्यं पर्यालोचयितुमाह-उक्तिवैचित्र्यमिति । वर्ण्यमानस्यार्थस्य प्रकर्षे प्रतिपाद्ये भङ्ग्यन्तरेणोक्तिरुक्तिवैचित्र्यम् । रसवदमृतमिति। 'कस्यचिन्नागरिकस्येयमुक्तिः । अमृतं रसवद्भवत्येव । मधून्यपि नान्यथा, रसवन्त्येव । प्रसन्नरसं चूतस्यापि फलमधिकं मधुरमेव । कः संदेह इति सर्वत्रानुषज्ज्यते । तथापि रसान्तरवित् सकृदपि रसविशेषाभिज्ञो जनो मध्यस्थः सन् वदतु । इह लोके प्रियादशनच्छदादन्यत् यद्वस्तु स्वादु स्यात् , तत् वदतु । रसज्ञोऽपक्षपाती चेत् अन्यत्स्वादु भवतीति न वदेत् , तादृशवस्त्वन्तरासंभवादित्यर्थः । नानाविधोप

अपारुष्यं सौकुमार्यम् ॥ ११ ॥

 परुषेऽर्थे अपारुष्यं सौकुमार्यमिति ।

 यथा- मृतं यशःशेषमित्याहुः, एकाकिनं देवताद्वितीयमिति, गच्छेति साधयेति च।

अग्राम्यत्वमुदारता ॥ १२ ॥

 ग्राम्यत्वप्रसङ्गे अग्राम्यत्वमुदारता ।

 यथा-

  'त्वमेवंसौन्दर्या स च रुचिरतायां परिचितः
   कलानां सीमानं परमिह युवामेव भजथः ।
  अयि द्वंद्वं दिष्ट्या तद्विति सुभगे संवदति वा-
   मतः शेषं चेत्स्याज्जितमिह तदानीं गुणितया ॥'


मानातिशायि दशनच्छदमाधुर्यमिति वक्तव्ये, रसवदमृतमित्यादिभङ्ग्यन्तरेण प्रतिपादनादत्र माधुर्यम् । अस्य गुणस्य विपर्ययो ह्येकस्यैवार्थस्य पुनः पुनः कथनमित्येकार्थत्वम् , प्राय एकार्थश्रुतेर्वैरस्यात् कष्टत्वं वा ।

 सौकुमार्यं समाख्यातुमाह--- अपारुष्यमिति । परुषे अमङ्गलातङ्कदायिन्यर्थे वर्णनीये यदपारुष्यम् , तत् सौकुमार्यमिति लक्षणार्थः । उदाहरणानि स्पष्टानि । अस्य गुणस्य विपर्ययोऽश्लीलत्वम् ।

 उदारतामुदीरयितुमाह---- अग्राम्यत्वमिति । अत्र कन्ये कामयमानं कान्तं कामयस्वेति वक्तव्ये ग्राम्यार्थे, यदौचित्येन प्रतिपादनं सा उदारता । त्वमेवमिति । एवं वर्णनापथोत्तीर्णतयानुभूयमानं सौन्दर्यं यस्याः सा तथोक्ता । स च माधवो रुचिरतायां सौन्दर्यविषये, परिचितः संस्तुतः, प्रसिद्ध इति यावत् । युवां स च त्वं च । युवामेव परमिह लोके कलानां सीमानं भजथः । अयि हे मालति । वां युवयोः द्वंद्वं मिथुनं दिष्ट्या भाग्येन संवदति सदृशं भवतीत्यर्थः । अतः शेषं पाणिग्रहणरूपं मङ्गलं कर्म स्याच्चेत् , तदानीं गुणितया गुणवत्त्वेन जितम् ,  विपर्ययस्तु-

  'स्वपिति यावदयं निकटे जनः
   स्वपिमि तावदहं किमपैति ते ।
  इति निगद्य शनैरनुमेखलं
   मम करं स्वकरेण रुरोध सा ॥'

वस्तुस्वभावस्फुटत्वमर्थव्यक्तिः ॥ १३ ॥

 वस्तूनां भावानां स्वभावस्य स्फुटत्वं यत् , असौ अर्थव्यक्तिः ।

 यथा-

  "पृष्ठेषु शंखशकलच्छविषु च्छदानां
   राजीभिरङ्कितमलक्तकलोहिनीभिः ।
  गोरोचनाहरितबभ्रुबहिःपलाश-
   मामोदते कुमुदमम्भसि पल्वलस्य ॥'


युवयोर्गुणसंपत्तिविश्वातिशायिनी भवेदित्यर्थः । अत्र प्रथमं त्वं स चेति पृथक्तयोक्तेः, ततो युवामिति मिश्रीकरणेन, तदनन्तरं द्वन्द्वमिति, ततः शेषमिति च विवक्षितार्थव्यञ्जनमुखेन फलपर्यवसायित्वमित्यौचित्यशालिना क्रमेण कामन्दक्या मालतीमुद्दिश्योक्तमिति स्पष्टमुदाहरणत्वम् । प्रत्युदाहरणं प्रत्याययितुमाह-विपर्ययस्त्विति। स्वपितीति । अत्र कश्चित् कामी वयस्याय रहस्यं कथयति । अयं निकटे जनः परिसरसंचारी जनो यावत् स्वपिति यावता कालेन नियतं कर्म निर्वर्त्य निद्राति । तावत् तावन्तं कालं स्वपिमि । ते किमपैति तावता कालविलम्बेन तव का हानिर्भवति । इति उक्तप्रकारेण, शनैरुपांशु, निगद्य कथयित्वा, अनुमेखलं मेखलासमीपे, प्रसारितं मम मे करं स्वकरेण रुरोध निरुद्धवती । स्पष्टं ग्राम्यत्वम् ।

 अर्थव्यक्तिं समर्थयितुमाह-वस्त्विति। व्याचष्टे- वस्तूनामिति । अशेषविशेषैर्वर्णने पुर इव प्रतिभासमानत्वमर्थस्य स्फुटत्वम् । उदाहरति-पृष्ठेष्विति । शङ्खशकलच्छविषु पृष्ठेषु चरमभागेषु, अलक्तकलोहिनीभी रेखाभिरङ्कितम् , गोरोचनावद्धरितानि बभ्रूणि कपिशानि बहिःपलाशानि यस्य तत् , कुमुदम् , पल्वलस्य  यथा वा---

  'प्रथममलसैः पर्यस्ताग्रं स्थितं पृथुकेसरै-
   र्विरलविरलैरन्तःपत्रैर्मनाङ्मिलितं ततः ।
  तदनु वलनामात्रं किंचिद्व्यधायि बहिर्दलै-
   र्मुकुलनविधौ वृद्धाब्जानां बभूव कदर्थना ॥'

दीप्तरसत्वं कान्तिः ॥ १४ ॥

 दीप्ताः रसाः शृङ्गारादयो यस्य स दीप्तरसः । तस्य भावो दीप्तरसत्वं कान्तिः ।

 यथा-

  'प्रेयान्सायमपाकृतः सशपथं पादानतः कान्तया
   द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्युन्मनाः ।
  तावत्प्रच्युतपाणिसंपुटलसन्नीवीनितम्बं धृतो
   धावित्वैव कृतप्रणाममहहा प्रेम्णो विचित्रा गतिः ॥'

 एवं रसान्तरेष्वप्युदाहार्यम् ।


वेशन्तस्याम्भसि, आमोदते आमोदमुद्गिरतीति योजना । उदाहरणान्तरमाह-प्रथममिति । प्रथममलसैः पृथुकेसरैः पर्यस्ताग्रं शैथिल्यशालिशिखरं स्थितम् । ततः परं विरलविरलैरत्यन्तशिथिलैरन्तःपत्रैर्मनागीषन्मिलितम् । तदनु बहिर्दलैर्वलनामात्रं संकोचक्रियारम्भमात्रं किंचित् व्यधायि । इत्थं वृद्धाब्जानां कदर्थना क्लेशदशा बभूवेति योजना । अस्य विर्यययः संदिग्धत्वं क्लिष्टत्वं च ।

 कान्तिं कथयितुमाह-दीप्तरसत्वमिति व्याचष्टे-दीप्ता इति । दीप्ताः विभावानुभावव्यभिचारिभिरभिव्यक्ताः । प्रेयानिति । अत्र विप्रलम्भपूर्वकः संभोगशृङ्गारः । एवं रसान्तरेष्विति । शृङ्गारो द्विविधः--संभोगो विप्रलम्भश्च । तत्राद्यः परस्परावलोकनपरिचुम्बनाद्यनन्तभेदादपरिच्छेद्यः । तत्रैको भेद उदाहृतः । विप्रलम्भस्तु परस्पराभिलाषविरहेर्ष्याप्रवासशापहेतुक इति पञ्चविधः । तत्राद्यो यथा---'प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदयास्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि । यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी  अत्र श्लोकाः-

  गुणस्फुटत्वसाकल्ये काव्यपाकं प्रचक्षते ।
  चूतस्य परिणामेन स चायमुपमीयते ॥


क्षणादाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ॥' एवमन्येऽपि विप्रलम्भभेदा ज्ञातव्याः । वीरो यथा- 'क्षुद्राः संत्रासमेते विजहित हरयो भिन्नशक्रेभकुम्भा युष्मद्गात्रेषु लज्जां दधति परममी सायकाः संपतन्तः । सौमित्रे तिष्ठ पात्रं त्वमसि न हि रुषो नन्वहं मेघनादः किंचिद्भूभङ्गलीलानियमितजलधिं राममन्वेषयामि ॥' करुणो यथा---'हा मातस्त्वरितासि कुत्र किमिदं हा देवताः क्वाशिषो धिक् प्राणान्परितोऽशनिर्हुतवहो गात्रेषु दग्धे दृशौ। इत्थं गद्गदकण्ठरुद्धकरुणाः पौराङ्गनानां गिरश्चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ॥' अद्भुतो यथा---- 'चित्रं महानेष बतावतारः क्व कान्तिरेषाभिनवैव भङ्गी। लोकोत्तरं धैर्यमहो प्रभावः काप्याकृतिर्नूतन एष सर्गः ॥' हास्यो यथा--- 'आकुञ्च्य पाणिमशुचिं मम मूर्ध्नि वेश्या मन्त्राम्भसां प्रतिपदं पृषतैः पवित्रे । तारस्वनं प्रहितसीत्कमदात्प्रहारं हा हा हतोऽहमिति रोदिति विष्णुशर्मा ॥' भयानको यथा-'ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभिया भूयसा पूर्वकायम् । दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥' रौद्रो यथा---'एतत्करालकरवालनिकृत्तकण्ठनालोच्चलद्बहुलबुद्बुदफेनिलौघैः । सार्घं डमड्डमरुडात्कृतिहूतभूतवर्गेण भर्गगृहिणीं रुधिरैर्धिनोमि ॥' बीभत्सो यथा-'उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधभूयांसि मांसान्यंसस्फिक्पृष्ठपीठाद्यवयवजटिलान्युग्रपूतीनि जग्ध्वा । आत्तस्नाय्वान्त्रनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्कादङ्कस्थादस्थिसंधिस्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥' शान्तो यथा-'अहौ वा हारे वा कुसुमशयने वा दृषदि वा मणौ या लोष्टे वा बलवति रिपौ वा सुहृदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः क्वचित्पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥'

 एवं भावा अप्युदाहार्याः ।

 इत्थमर्थगुणान् समर्थ्य काव्यस्य गुणस्फुटत्वसाकल्याभ्यां तदभावेन चोपादेयत्वानुपादेत्वे सदृष्टान्तमाचष्टे--गुणस्फुटत्वेति । गुणानां स्फुटत्वं सा

  सुप्तिङ्संस्कारसारं यत् क्लिष्टवस्तुगुणं भवेत् ।
  काव्यं वृन्ताकपाकं स्याज्जुगुप्सन्ते जनास्ततः ॥

  गुणानां दशता त्यक्तो यस्यार्थस्तदपार्थकम् ।
  दाडिमानि दशेत्यादि न विचारक्षमं वचः ॥ इति ।

इति काव्यालंकारसूत्रवृत्तौ गुणविवेचने तृतीयेऽधिकरणे द्वितीयोऽध्यायः॥

समाप्तं चेदं गुणविवेचनं तृतीयमधिकरणम् ॥


कल्यं च यत् , स चायं काव्यपाकः । सुप्तिङां संस्कारो यथाशास्त्रं प्रकृतिषु प्रत्यययोजनमेव सारः स्थिरांशो यस्य । क्लिष्टा अस्फुटा वस्तुनोऽर्थस्य गुणाः यस्य । अनेन स्फुटगुणव्यावृत्तिः सूचिता । वृन्ताकस्य पाक इव पाको यस्य । तत् काव्यम् । ततो जना जुगुप्सन्ते, किमुत कवय इति भावः । गुणानामिति । दशता दशसंख्यापरिमितेन वर्गेणेत्यर्थः । गुणदशकेन त्यक्त इत्यर्थः । ‘पञ्चद्दशतौ वर्गे वा' इति निपातितो दशच्छब्दः । अपार्थकं वाक्यमुदाहरति-दाडिमानीति । 'दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः' इति वाक्यं विचारयोग्यं न भवति । अतोऽलंकारशास्त्राद्दोषगुणस्वरूपं विज्ञाय कविर्दोषाञ्जह्यात् , गुणानाददीतेत्युपदेशः ॥

  इति कृतरचनायांमिन्दुवंशोद्वहेन
   त्रिपुरहरधरित्रीमण्डलाखण्डलेन ।
  ललितवचसि काव्यालंक्रियाकामधेना-
   वधिकरणमयासीत्पूर्तिमेतत्तृतीयम् ॥

इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालंकारसूत्रवृत्ति-

व्याख्यायां काव्यालंकारकामधेनौ गुणविवेचनं नाम

तृतीयमधिकरणम् ॥