काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता)/द्वितीयाधिकरणम्/प्रथमोऽध्यायः

 काव्यशरीरे स्थापिते काव्यसौन्दर्याक्षेपहेतवस्त्यागाय दोषा विज्ञातव्या इति दोषदर्शनं नामाधिकरणमारभ्यते ।

  दोषस्वरूपकथनार्थमाह-

गुणविपर्ययात्मानो दोषाः ॥ १ ॥

गुणानां वक्ष्यमाणानां ये विपर्ययाः, तदात्मानो दोषाः ।

अर्थतस्तदवगमः॥२॥

गुणस्वरूपनिरूपणात्तेषां दोषाणामर्थादवगमोऽर्थात्सिद्धिः।

  निष्कलङ्कनिशाकान्तगर्वसर्वंकषप्रभाम् ।
  कविकामगवीं वन्दे कमलासनकामिनीम् ॥

 दोषदर्शनं द्वितीयमधिकरणमारभ्यते । अधिकरणद्वयसंबन्धमेव बोधयति - काव्यशरीर इति । सौन्दर्यस्य गुणालङ्कारघटितचारुत्वस्य आक्षेपः स्वस्थानात् प्रच्यावनं तस्य हेतवस्तथाविधा दोषाः कविना ज्ञातव्या इत्यनेन दोषज्ञानस्यावश्यकर्तव्यतोक्ता । तेषामज्ञाने परित्यागात्मनः फलस्य दुर्लभत्वादिति भावः । दृश्यन्तेऽस्मिन् दोषा इति दोषदर्शनम् । अधिकरणार्थे ल्युट् ।

 दोषसामान्यलक्षणं वक्तुं सूत्रमवतारयति- दोषस्वरूपेति । गुणानामिति । विपरीयन्त इति विपर्ययाः विपरीताः । कर्मार्थेऽच्प्रत्ययः । त एवात्मानो येषां ते विपर्ययात्मनो विपरीतस्वरूपाः, न त्वभावरूपा इत्यर्थः । अनेन गुणविपरीतस्वरूपत्वं दोषसामान्यलक्षणमुक्तं भवति ।

 ननु गुणेष्ववगतेषु तद्विपर्ययस्वरूपा दोषा विनापि लक्षणोदाहरणाभ्यां सामर्थ्यात् प्रेक्षावद्भिरुत्प्रेक्षितुं शक्यन्ते । किं लक्षणादिप्रपञ्चनेनेत्याशङ्कासूत्रमनुभाषते--- अर्थत इति ।  किमर्थं ते पृथक् प्रपञ्च्यन्त इत्यत्राह-

सौकर्याय प्रपञ्चः ॥ ३॥

 सौकर्यार्थः प्रपञ्चो विस्तरो दोषाणाम् । उद्दिष्टा लक्षणलक्षिता हि दोषाः सुज्ञाना भवन्ति ।

 पददोषान् दर्शयितुमाह-

दुष्टं पदमसाधु कष्टं ग्राम्यमप्रतीतमनर्थकं च ॥४॥

 क्रमेण व्याख्यातुमाह-

शब्दस्मृतिविरुद्धमसाधु ॥ ५ ॥

 शब्दस्मृत्या व्याकरणेन विरुद्धं पदम् असाधु ।

 यथा--' अन्यकारकवैयर्थ्यम्' इति । अत्र हि 'अषष्ठ्यतृतीया-

 आशङ्कामिमामपाकर्तुमनन्तरसूत्रं व्याचष्टे-- सौकर्यार्थ इति । दोषस्वरूपे हि प्रेक्षावतामुत्प्रेक्षितुं शक्येऽपि, व्युत्पित्सूनधिकृत्य प्रवृत्तत्वाच्छास्त्रस्य तैस्तु पदपदार्थवाक्यवाक्यार्थदोषाणां स्थूलसूक्ष्माणामुद्देशलक्षणपरीक्षाभिर्विना दुरवगमत्वात् तेषां दोषविवेकस्य सौकर्याय प्रपञ्च इत्यर्थः । उद्दिष्टा इति । उद्दिष्टाः नामतः परिगणिताः । लक्षिताः परस्परव्यावृत्ततया दर्शिताः । दोषाः, सुज्ञानाः सुखेन ज्ञातव्या भवन्ति । 'आतो युच्' इति खलर्थे युच्प्रत्ययः । अस्मिन्नधिकरणे लक्षणीया दोषाः काव्यस्यासाधुत्वापादकाः स्थूला इत्यवगन्तव्यम् । यद्वक्ष्यति- ये त्वन्ये शब्दार्थदोषाः सूक्ष्मास्ते गुणविवेचने वक्ष्यन्ते' इति ॥

 शब्दार्थशरीरं हि काव्यम् । अत्र शब्दः पदवाक्यात्मकः । अर्थश्च पदार्थवाक्यार्थरूपः । तत्र पदपदार्थप्रतिपत्तिपूर्विका वाक्यवाक्यार्थप्रतिपत्तिरिति क्रममभिसंघाय प्रथमं पददोषान् प्रतिपादयितुमाह-~-पददोषानिति । दुष्टं पदमिति प्रत्येकं संबन्धनीयम् ॥

 यथोद्देशं लक्षणं वक्तुमाह-- क्रमेणेति । शब्दस्मृतीति । शब्दशास्त्रमर्यादामुल्लङ्घ्य प्रयुक्तं शब्दस्मृतिविरुद्धम् । तदुदाहरति - अन्यकारकेति । स्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु' इति दुका भवितव्यमिति ।

श्रुतिविरसं कष्टम् ॥ ६॥

 श्रुतिविरसं श्रोत्रकटु पदं कष्टम् । तद्धि रचनागुम्भितमप्युद्वेजयति ।

 यथा- 'अचूचुरच्चण्डि कपोलयोस्ते कान्तिद्रवं द्राग्विशदः शशाङ्कः।'

लोकमात्रप्रयुक्तं ग्राम्यम् ॥ ७॥

 लो एव यत्प्रयुक्तं पदम् , न शास्त्रे; यत् ग्राम्यम् ।

 यथा-- 'कष्टं कथं रोदिति फूत्कृतेयम् ।' अन्यदपि तल्लगल्लादिकं द्रष्टव्यम् ।

शास्त्रमात्रप्रयुक्तमप्रतीतम् ॥ ८॥

'अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु' इति आशीरादिषु परतोऽन्यपदस्य दुगागमेन भवितव्यम् । स तु न कृतः; 'दुगागमोऽविशेषेण वक्तव्यः कारकच्छयोः । षष्ठीतृतीययोर्नेष्ट आशीरादिषु सप्तसु ॥' इति कारकपदे परतो दुगागमो नियत इत्यन्यकारकपदमसाधु ।

 श्रोत्रकट्विति । कर्णोद्वेगकरमित्यर्थः । यदुक्तं भामहेन 'संनिवेशविशेषात्तु तदुक्तमभिशोभते ।' इति, तन्निराचष्टे--- तद्धीति । विशिष्टसंदर्भगर्भगतमपि सहृदयहृदयोद्वेगमाविर्भावयतीत्यर्थः । अचूचुरदिति । अत्र द्रागिति पदं कष्टम् ।

 ग्रामे भवं प्राम्यमिति व्युत्पत्तिः; लोकमात्रसिद्धमित्यर्थः । कष्टामिति । अत्र फूत्कृतेति पदं ग्राम्यम् , तस्य काव्ये प्राचुर्येण प्रयोगादर्शनात् । [१] ताम्बूल-


 शास्त्र एव प्रयुक्तं यत् , न लोके ; तत् अप्रतीतम् ।

यथा--

  'किं भाषितेन बहुना रूपस्कन्धस्य सन्ति मे न गुणाः।
  गुणनान्तरीयकं च प्रेमेति न तेऽस्त्युपालम्भः ॥'

  अत्र रूपस्कन्धनान्तरीयकपदे न लोक इत्यप्रतीतम् ॥

पूरणार्थमनर्थकम् ॥ ९॥

 पूरणमात्रप्रयोजनमव्ययपदमनर्थकम् । दण्डापूपन्यायेन पदमन्यदप्यनर्थकमेव ।

भृतगल्लोऽयं तलं जल्पति मानवः' इत्यादौ यत् तल्लगल्लादिपदं प्रयुज्यते, तदपि ग्राम्यं द्रष्टव्यम् ।

 किं भाषितेनेति । इयं हि कस्याश्चिद्विप्रलब्धायाः शठनायकं प्रत्युक्तिः। [२] रूपविज्ञानवेदनासंज्ञासंस्कारलक्षणाः पञ्च स्कन्धाः सौगतमते प्रसिद्धाः । अत्र विषयेन्द्रियलक्षणस्य रूपस्कन्धस्य गुणा मे न सन्ति । गुणनान्तरीयकम् , अन्तरशब्दोऽत्र विनार्थः । 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च' इत्यमरः । न अन्तरं नान्तरम् । ततो भवार्थे छप्रत्यये स्वार्थिके च कप्रत्यये सति नान्तरीयकमिति रूपं सिद्धम् । अविनाभूतमित्यर्थः । प्रेम च गुणनान्तरीयकमिति हेतोः, उपालम्भो निन्दावचनम् , ते तव नास्ति । व्यापकपरावृत्तौ व्याप्यपरावृत्तिरुचितेति भावः । अत्र रूपस्कन्धनान्तरीयकपदे अप्रतीते।

 पूरणार्थमिति। पूरणं पादपूरणम् अर्थः प्रयोजनं यस्येति विग्रहः। दण्डापूपेति । दण्डप्रोता अपूपा दण्डापूपाः । तथा च दण्डानयनप्रेरणायां दण्डानयनेनैवापूपानयने सिद्धे पुनरपूपानयनप्रेरणं व्यर्थमिति दण्डापूपन्यायः । अथवा, अपूपदण्डो मूषकैर्भक्षित इत्युक्ते पुनरपूपभक्षणप्रश्नवचनं व्यर्थमिति दण्डापूपन्यायः । तन्न्यायेन चादीनामसत्त्ववचनानामसत्यपि प्रयोगे तदर्थस्यान्यतोऽवग यथा-- 'उदितस्तु हास्तिकविनीलमयं तिमिरं निपीय किरणः सविता।

 अत्र तुशब्दस्य पादपूरणार्थमेव प्रयोगः ।

न वाक्यालङ्कारार्थम् ॥ १०॥

 अपवादार्थमिदम् ।

 वाक्यालङ्कारप्रयोजनं तु नानर्थकम् ।

 यथा-- 'न खल्विह गतागता नयनगोचरं मे गता' इति । तथा हि खलु हन्तेति ।

 संप्रति पदार्थदोषानाह--

  अन्यनेयगूढार्थाश्लीलक्लिष्टानि च ॥ ११ ॥

 दुष्टं पदमित्यनुवर्तते । अर्थाच्च विभक्तिविपरिणामः । अन्यार्थादीनि पदानि दुष्टानीति सूत्रार्थः ।

 तत्त्वान्नैराकाङ्क्ष्येण वाक्यार्थविश्रान्तिसिद्धाविह प्रयुज्यमानानां तेषामव्ययानां द्योत्यराहित्येनानर्थकत्वं भवति ; किमु वक्तव्यमात्मोपजीव्यवाच्यार्थविरहे वाचकानां पदानामनर्थकत्वमिति भावः । उदित इति । हस्तिनां समूहो हास्तिकम् । 'अचित्तहस्तिधेनोष्ठक्' इति ठक्प्रत्ययः । हास्तिकं गजता बृन्दे' इत्यमरः । तद्वद्विनीलम् । अत्र तुशब्दस्येति । भेदावधारणादेर्द्योत्यस्यानाकाङ्क्षितत्वादित्यर्थः ।

 वाक्येति । पूरणं तु प्रतिभादौर्बल्यसूचकतया काव्यविद्भिः प्रयोजनत्वेन नाङ्गीकृतम् ।

 पदार्थदोषान् प्रपञ्चयितुमाह– संप्रतीति । अन्यादिभिस्त्रिभिरर्थशब्दः प्रत्येकमभिसंबन्धनीयः । तेषामश्लीलक्लिष्टशब्दयोरिवार्थपदप्रयोगमन्तरेण न हठादर्थप्रतिपत्तिहेतुत्वमित्यर्थपदं प्रत्युक्तम् । विभक्तीति । अत्र प्रथमाया विभक्तेरभेदेन विपरिणामासंभवात् वचनविपरिणाम इति व्याख्येयम् । अन्यार्थादीनीति । अर्थदौष्ट्यात् पदान्यपि दुष्टानीत्यर्थः ।  एषां क्रमेण लक्षणान्याह-

रूढिच्युतमन्यार्थम् ॥ १२ ॥

 रूढेः च्युतं रूढिच्युतं रूढिमनपेक्ष्य यौगिकार्थमात्रोपादानात् , अन्यार्थं पदम् । स्थूलत्वात् सामान्येन घटशब्दः पटशब्दार्थ इत्यादिक- मन्यार्थे नोक्तम् ।

 यथा--'ते दुःखमुच्चावचमावहन्ति ये प्रस्मरन्ति प्रियसंगतानाम् ।'

 अत्र आवहतिः करोत्यर्थो धारणार्थे प्रयुक्तः, प्रस्मरतिर्विस्मरणार्थः प्रकृष्टस्मरणे इति[३]

 रूढिः प्रसिद्धिः, ततः च्युतं रूढिच्युतम् । रूढेषु पदेषु रूढिमनादृत्य यौगिकार्थे यत् प्रयुज्यते, तदन्यार्थं पदम् । ननु यत् घटादिपदं पटादिषु प्रयुज्यते, तत् अन्यार्थं पदं दुष्टमिति किमिति नोच्यत इत्याशङ्क्याह- स्थूलत्वादिति । पटादिषु प्रयुज्यमानं घटादिपदमन्यार्थमिति सामान्येन नोक्तम् । कुतः ? स्थूलत्वात् उत्तानबुद्धिभिरुपलब्धुं शक्यत्वात् । ये केचित् स्थूलमपि दोषमविज्ञाय तथा प्रयुञ्जते, ते पुनरविवेकिनः शासनयोग्या न भवन्तीति प्राक् प्रतिपादितम् । उदाहरणमुपदर्शयितुमाह --- यथेति । ये प्रियसंगतानां प्रणयप्रयुक्तसंबन्धानां प्रस्मरन्ति प्रकर्षेण स्मरन्ति । 'अधीगर्थदयेशां कर्मणि' इति कर्मणि षष्ठी । ते जनाः उच्चावचमनेकभेदम् । ' उच्चावचं नैकभेदम्' इत्यमरः । दुःखम् आवहन्ति धारयन्तीति कवेर्विवक्षितोऽर्थः । अन्यार्थत्वमुपपादयति- अत्रेति । आङ्पूर्वो वहिधातुः करोत्यर्थे रूढः । तथा च प्रयोगः, 'व्रीडमावहति मे स संप्रति व्यस्तवृत्तिरुदयोन्मुखे त्वयि ।' इति । स च रूढिमनादृत्य धारणे यौगिकार्थे प्रयुक्त इत्यन्यार्थत्वम् । प्रपूर्वः स्मरतिरपि विस्मरणार्थे रूढः । तथाच प्रयोगः,, 'नाक्षराणि पठता किमपाठि प्रस्मृतः किमथवा पठितोऽपि ।' इति । स च रूढिमगणयित्वा प्रकृष्टस्मरणे यौगिकार्थे प्रयुक्त इत्यन्यार्थत्वम् । किंच रूढिच्युतम्' इत्यत्र रूढीति सामान्येनोपात्तत्वाद्योगरूढिरपि परिगृह्यते । तेन पङ्कजादयः शब्दाः कुमुदादिषु न प्रयोज्याः ।

कल्पितार्थं नेयार्थम् ॥ १३ ॥

 अश्रौतस्याप्युन्नेयस्य पदार्थस्य कल्पनात् कल्पितार्थं नेयार्थम् ।

यथा---

 'सपदि पङ्क्तिविहङ्गमनामभृत्तनयसंवलिनं बलशालिना ।

 विपुलपर्वतवर्षि शितैः शरैः प्लवगसैन्यमुलूकजिता जितम् ॥'

 अत्र विहङ्गमश्चक्रवाकोऽभिप्रेतः, तन्नामानि चक्राणि, तानि बिभ्रतीति विहङ्गमनामभृतो रथाः, पङ्क्तिः दश विहङ्गमनामभृतो रथा यस्य स पतिविहङ्गमनामभृत् दशरथः, तत्तनयाभ्यां रामलक्ष्मणाभ्यां संवलितं प्लवगसैन्यं जितम् । उलूकजिता इन्द्रजिता । कौशिकशब्देनेन्द्रोलूकयो- रभिधानमिति कौशिकशब्दवाच्यत्वेनेन्द्र उलूक उक्तः । ननु चैवं रथाङ्ग-

 नेयार्थं लक्षयति-- कल्पितार्थमिति । अश्रौतस्येति । संकेतसहायः शब्दव्यापारः, तद्विशिष्टः शब्दो वा श्रुतिः । तत आगतोऽर्थः श्रौतः, स न भवतीति अश्रौतः अनभिधेय इत्यर्थः । नन्विदमश्रौतत्वमर्थस्य किं लाक्षणिकत्वम् ? नेत्याह--- उन्नेयस्येति । 'अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते' इत्येवंलक्षणलक्षणाकक्ष्यामधिक्षिप्य कस्यचिदर्थस्य कल्पने कल्पितार्थम् , न तु लाक्षणिकार्थमित्यर्थः । उदाहरणमाह- यथेति । उदाहरणवाक्यार्थं विवृणोति---अत्रेति । पक्षिसामान्यवाचिना विहङ्गमपदेन तद्विशेषश्चक्रापरनामा चक्रवाको लक्ष्यते । 'कोकश्चक्रश्चक्रवाकः' इत्यमरः। तस्य नामेव नाम येषां तानि तन्नामानि चक्राणीत्यर्थः । पङ्क्तिरिति । पङ्क्तिच्छन्दसः पादस्य दशाक्षरात्मकत्वात् पङ्क्तिपदेन दशसंख्या लक्ष्यते । विपुलपर्वतवर्षीति प्लवगसैन्यविशेषणम् । कौशिकशब्देनेति । 'महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः ।' इत्यमरः । कौशिकशब्देनेन्द्रोलकयोरभिधानादित्यर्थः । उलूकशब्देन कौशिकशब्द उन्नीयते, तेनेन्द्रोऽभिधीयत इति उलूकजित्पदेन इन्द्रजिदुन्नीयत इत्यभिप्रायः । एवं तर्हि प्राचीनकविप्रयोगः पर्याकुलः स्यादिति शङ्कते-नन्विति । रथाङ्गनामादीनामित्यादिपदेन रथाङ्गपाणिप्रभृतीनां परिग्रहः । रथाङ्गनामादिपदानां चक्रवाकादौ नामादीनामपि प्रयोगोऽनुपपन्नः; न ; तेषां निरूढलक्षणत्वात् [४]

अप्रसिद्धार्थप्रयुक्तं गूढार्थम् ॥ १४ ॥

 यस्य पदस्य लोके अर्थः प्रसिद्धश्चाप्रसिद्धश्च, तत् अप्रसिद्धेऽर्थे प्रयुक्तं गूढार्थम् [५]। निरूढत्वेन रूढ्या योगस्य निगीर्णत्वान्न काचिदनुपपत्तिरिति परिहरति-नेति । निरूढा लक्षणा येषामिति बहुव्रीहिः । लक्षणा हि रूढिप्रयोजनवशात् द्विविधा भवति । तत्र रूढलक्षणाः कुशलादयः शब्दाः प्रयोगप्राचुर्यबलेन वाचकशब्दवत्प्रयुज्यन्ते । प्रयोजनलक्षणास्तु 'मुखं विकसितस्मितं वशितवक्रिम प्रेक्षणम्' इत्यादौ विकसितादयः शब्दाः स्मितविलासादिलक्षकतयाद्यापि प्रयुज्यन्ते । तदुक्तम् , [६] निरूढा लक्षणाः काश्चित् सामर्थ्यादभिधानवत् । क्रियन्ते सांप्रतं काश्चित्काश्चिन्नैव त्वशक्तितः ॥' इति ।

 गूढार्थं लक्षयितुमाह---- अप्रसिद्धेति । अभिमतमनेकत्वमर्थस्य दर्श यथा- 'सहस्रगोरिवानीकं दुःसहं भवतः परैः।' इति ।

 सहस्रं गावोऽक्षीणि यस्य स सहस्रगुरिन्द्रः, तस्येवेति गोशब्दस्याक्षिवाचित्वं कविष्वप्रसिद्धमिति ।

असभ्यार्थान्तरमसभ्यस्मृतिहेतुश्चाश्लीलम् [७] ॥ १५ ॥

 यस्य पदस्यानेकार्थस्यैकोऽर्थोऽसभ्यः स्यात् , तत् असभ्यार्थान्तरम्।

 यथा- 'वर्चः' इति पदं तेजसि विष्ठायां च ।

 यत्तु पदं सभ्यार्थवाचकमप्येकदेशद्वारेणासभ्यार्थं स्मारयति, तत् असभ्यस्मृतिहेतुः।

 यथा--- 'कृकाटिका' इति ।

यति- प्रसिद्धश्चेति । उदाहरणमुपदर्शयितुमाह-- यथेति । गोशब्दस्येति । 'गौर्नाके वृषभे चन्द्रे वारभूदिग्धेनुषु स्त्रियाम् । द्वयोस्तु रश्मिग्बाणस्वर्गवज्राम्बुलोमसु' इत्यभिधाने सत्यपि गोशब्दस्य प्राचुर्येणाक्ष्णि प्रयोगादर्शनादक्षिवाचकत्वमप्रसिद्धमित्यर्थः । एतेन [८] तीर्थान्तरेषु स्नानेन समुपार्जितसत्पथः । सुरस्रोतस्विनीमेष हन्ति सम्प्रति सादरम्' इत्यादिषु हन्तीत्यादीनां गमनाद्यर्थेषु प्रयोगाः प्रत्युक्ताः ।

 अश्लीलं लक्षयितुमाह-- असभ्येति । सूत्रार्थं विवृण्वन् क्रमेण लक्षणोदाहरणे दर्शयति--- यस्येति । यस्यानेकार्थवाचकस्य पदस्यैकोऽर्थोऽसभ्यः स्यात् , तदसभ्यार्थान्तरं पदमश्लीलम् । वर्च इति । 'वर्चांसि ज्वालविड्भासः' इत्यभिधानाज्ज्वालप्रभावाचकत्वेऽपि विड्वाचितया वर्च इति पदमसभ्यार्थान्तरम् । यत्त्विति । सभायां साधुः सभ्यः । ‘सभाया यः' इति यप्रत्ययः । यत्तु पदं

सभ्यार्थवाचकमप्येकदेशेन यद्यसभ्यार्थस्मृतिं जनयेत्, तदप्यश्लीलम् । कृकाटिकेति । 'प्रेतयानं खटिः काटिः' इति वैजयन्त्यां शवयानपर्यायत्वेनाभिधानात्

न गुप्तलक्षितसंवृतानि [९] ॥१६॥

अपवादार्थमिदम् । गुप्तं लक्षितं संवृतं च नाश्लीलम् ॥

एषां लक्षणान्याह----

अप्रसिद्धासभ्यं गुप्तम् ॥ १७ ॥

अप्रसिद्धासभ्यार्थान्तरं पदमप्रसिद्धासभ्यं यत् , तत् गुप्तम् ।

 यथा-- 'संबाधः' इति पदम् । तद्धि संकटार्थं प्रसिद्धम् , न गुह्यार्थमिति ।

लाक्षणिकासभ्यं लक्षितम् ॥ १८॥

तदेवासभ्यार्थान्तरं लाक्षणिकासभ्यान्वितं पदं लक्षितम् ।

कण्ठापरभागवाचकमपि कृकाटिकापदं काटीत्येकदेशेनासभ्यार्थस्मृतिहेतुरित्यश्लीलमित्यभिप्रायः ।

 अश्लीलस्य क्वचिदपवादं वक्तुमाह- न गुप्तेति । वृत्तिः स्पष्टार्था ।

 अप्रसिद्धेति । यस्यानेकार्थस्य पदस्यैकोऽर्थोऽसभ्योऽपि यद्यप्रसिद्धो भवति, तदप्रसिद्धासभ्यं पदं गुप्तमित्यर्थः । तदिदमभिसंधायाह -- असभ्यार्थान्तरमिति । संबाध इति । 'लेशेऽपि गन्धः संबाधो गुह्यसंकटयोर्द्वयोः।' इत्यभिधाने सत्यपि · संबाधे सुरभीणाम्' 'आसने मित्रसंबाधे' इत्यादिषु प्रयोगप्राचुर्यात् संबाधशब्दः संकटार्थः प्रसिद्धः; तदभावात् गुह्यार्थोऽप्रसिद्ध इत्यर्थः ।

 लाक्षणिकासभ्यमिति। लक्षणया सान्तरार्थनिष्ठशब्दव्यापारेण प्रतिपाद्यं लाक्षणिकम् । अध्यात्मादित्वात् भवार्थे ठञ् । तथाविधमसभ्यमर्थान्तरं यस्य, तत् लक्षितमिति सूत्रार्थः । अमुमर्थमभिसंधायाह-- तदेवेति । लाक्षणिकं  यथा-- 'जन्मभूः' इति । तद्धि लक्षणया गुह्यार्थम् , न स्वशक्त्येति।

लोकसंवीतं संवृतम् ॥ १९ ॥

 लोकेन संवीतं लोकसंवीतं यत् , तत् संवृतम् ।

 यथा-- 'सुभगा, भगिनी, उपस्थानम् , अभिप्रेतम् , कुमारी, दोहदः' इति ।

 अत्र श्लोकः--

  'संवीतस्य हि लोकेन न दोषान्वेषणं क्षमम् ।

  शिवलिङ्गस्य संस्थाने कस्यासभ्यत्वभावना ॥

 तत्त्रैविध्यं व्रीडाजुगुप्सामङ्गलातङ्कदायिभेदात् ॥ २०॥

 तस्याश्लीलस्य त्रैविध्यं भवति, व्रीडाजुगुप्सामङ्गलातङ्कदायिनां भेदात् ।

च तत् असभ्यं चेति कर्मधारयः । अर्थविशेषणम् । तेनार्थेनान्वितं तादृशार्थप्रतिपादकमित्यर्थः । जन्मभूशब्देन जननस्थानसामान्यमभिधया प्रतिपाद्यते । तद्विशेषस्तु लक्षणयेति व्याचष्टे--तद्धीति। न स्वशक्त्येति । मुख्यव्यापारेणेत्यर्थः ।

 लोकेन संवीतम् आवृतं परिगृहीतमित्यर्थः । सुभगादिपदान्येकदेशेन असभ्यार्थस्मृतिहेतुत्वेऽपि लोकपरिगृहीतत्वात्प्रयोज्यानि । तदुक्तं दण्डिना, भगिनीभगवत्यादि सर्वत्रैवानुमन्यते ।' इत्यादि । दोहद इति । 'हद पुरीषोत्सर्गे' इति धातुं स्मारयन्नेकदेशेन असभ्यार्थस्मृतिहेतुः ॥

 अत्र प्राचीनाचार्यसंवादं प्रकटयति--- अत्र श्लोक इति । स्पष्टोऽर्थः ।

 द्विविधमश्लीलं त्रेधा विभजते--- तत्त्रैविध्यमिति । तिस्रो विधाः प्रकारा यस्य तत् त्रिविधम् । 'विधा विधौ प्रकारे च' इत्यमरः । तस्य भावस्त्रैविध्यम् । ब्राह्मणादेराकृतिगणत्वात् ष्यञ् । तस्याश्लीलस्य त्रैविध्यम् । अमङ्गलस्यातङ्कः शङ्का । 'रुक्तापशङ्कास्वातङ्कः' इत्यमरः । दायिशब्दः प्रत्ये किंचित् व्रीडादायि । यथा--- ' वाक्काटवम्' इति ।

 किंचित् जुगुप्सादायि । यथा-- · कपर्दकः' इति ।

 किंचित् अमङ्गलातङ्कदायि । यथा- 'संस्थितः' इति ।

व्यवहितार्थप्रत्ययं क्लिष्टम् ॥ २१ ॥

 अर्थस्य प्रतीतिः अर्थप्रत्ययः । स व्यवहितो यस्मात् भवति, तत् व्यवहितार्थप्रत्ययं क्लिष्टम् ।

 यथा--'दक्षात्मजादयितवल्लभवेदिकानां ज्योत्स्नाजुषां जललवास्तरलं पतन्ति ।

 दक्षात्मजाः ताराः, तासां दयितो दक्षात्मजादयितश्चन्द्रः, तस्य वल्लभाश्चन्द्रकान्ताः. तद्वेदिकानामिति । अत्र हि व्यवधानेनार्थप्रत्ययः, अन्यत्र अरूढत्वात् । अरूढावपि यतोऽर्थप्रत्ययो झटिति, न

 कमभिसंबध्यते । तत्राद्यमुदाहर्तुमाह-- किंचिदिति वाक्काटवमिति । कटोर्भावः काटवम् , वाचः काटवं वचस्तैक्ष्ण्यमित्यर्थः । अत्र काट इत्येकदेशेन लिङ्गप्रतीतेर्व्रीडादायि, काटश्चार्णवश्च इत्यत्र मन्त्रभाष्ये तथा दर्शनात् । द्वितीयं दर्शयितुमाह---- किंचिदिति । पर्दः पायवीयपवनध्वनिः। पर्दस्तु गुदजेशब्दे कुर्दः कुक्षिजनिःस्वने' इति वैजयन्ती । अवशिष्टमश्लीलं स्पष्टयति किंचिदिति । ' प्रमीतः संस्थितो मृतः इत्यमरः ।

 क्लिष्टमाचष्टे-- व्यवहितेति । समासार्थं विग्रहेण दर्शयति- अर्थस्य प्रतीतिरिति । प्रत्ययोऽत्र ज्ञानम् । ' प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः । उदाहरति- दक्षात्मजेति । ननु नेयार्थे क्लिष्टमिदं किमिति नान्तर्भवति, व्यवहितार्थप्रत्ययहेतुस्वाविशेषादित्याशङ्कय ततो वैषम्यं दर्शयन् लक्ष्ये लक्षणमनुगमयति--- अत्र हि व्यवधानेनेति । व्यवधानमर्थप्रतिपत्तेर्विलम्बः । विलम्बेनार्थाभिधायकं क्लिष्टम् . नेयार्थं तु कल्पितार्थमिति ततो भेदः । अन्या- र्थेऽपि चेदं नान्तर्भवतीत्याह--अन्यत्रेति । प्रकृतादर्थादर्थान्तरे क्वचिदप्यरूढत्वात् अप्रसिद्धत्वात् विलम्बेनापि योगवशात् प्रकृतमर्थमभिधत्त इत्यर्थः । अप्रसितत् क्लिष्टम् | यथा-- 'काञ्चीगुणस्थानमनिन्दितायाः' इति ।

अन्त्याभ्यां वाक्यं व्याख्यातम् ॥ २२ ॥

 अश्लीलं क्लिष्टं चैत्यन्त्ये पदे, ताभ्यां वाक्यं व्याख्यातम् । तदप्यश्लीलं क्लिष्टं च भवति ।

अश्लीलं यथा-

  'न सा धनोन्नतिर्या स्यात्कलत्ररतिदायिनी ।
  परार्थबद्धकक्ष्याणां यत्सत्यं पेलवं धनम् ॥'

  'सोपानपथमुत्सृज्य वायुवेगः समुद्यतः ।
  महापथेन गतवान्कीर्त्यमानगुणो जनैः ॥'

द्धमप्यविलम्बेनार्थाभिधायकं चेन्न तत् क्लिष्टमित्याह---- अरूढावपीति

उदाहरति- यथेति

 अथ अश्लीलक्लिष्टाख्यदुष्टपदद्वयलक्षणसाम्यात् अश्लीलक्लिष्टवाक्यद्वयमपि लक्षितप्रायमेवेत्युपपादयितुं सूत्रमुपादत्ते--- अन्त्याभ्यामिति । प्रतिपत्तिलाघवार्थमप्रकरणेऽप्यभिधानमित्यवगन्तव्यम् । अश्लीलं वाक्यमपि त्रिविधम्; तत्र व्रीडादायि अश्लीलमुदाहरति- यथेति । सा तादृशी । धनोन्नतिः अर्थसंपत्तिः । न भवति । या कलत्ररतिदायिनी कलत्रस्य रतिं प्रीतिं दातुं शीलमस्या इति कलत्ररतिदायिनी, न तु परप्रीतिदायिनी यस्मात्; तस्मात् परार्थबद्धकक्ष्याणां परेषामर्थे प्रयोजने बद्धा कक्ष्या कच्छो यैस्तेषां परोपकारबद्धप्रतिज्ञानामित्यर्थः । 'कक्ष्या कच्छे वरत्रायाम्' इति वैजयन्ती । धनम् अर्थः । यत्सत्यं परमार्थतः । पेलवं मनोज्ञमिति प्रकृतार्थः । अर्थान्तरं तु- साधनस्य शेफस उन्नतिः । 'साधनमुपगमनत्योः शेफसि सिद्धौ निवृत्तिदापनयोः' इति नानार्थमाला । यस्मात् कलत्रस्य रतिं सुरतं दातुं शीलमस्या इति तादृशी न भवति; तस्मात् परासामर्थे बद्धकक्ष्याणां परस्त्रीवशंवदचित्तानामित्यर्थः । धनं पेलवं विरलं भवति । 'पेलवं विरलं तनु' इत्यमरः । अत्र व्रीडादायित्वमतिरोहितम् । अवशिष्टमश्लीलद्वयमुदाहरति-- सोपानेति । सोपानपथमुत्सृज्य ! वायुवेगः वायोर्वेग इव क्लिष्ट यथा-

  धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः ।
  रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ॥'

 एतान् पदपदार्थदोषान् ज्ञात्वा कविस्त्यजेदिति तात्पर्यार्थः ॥

इति काव्यालंकारसूत्रवृत्तौ दोषदर्शने

द्वितीयेऽधिकरणे प्रथमोऽध्यायः ।

वेगो यस्य स तादृशः, समुद्यतः सन्, जनैः स्तूयमानगुणः सन्, महापथेन राजमार्गेण गतवानिति प्रकृतार्थः । वायुवेगः अपानपथमुत्सृज्य समुद्यत इति जुगुप्सादायि । महापथेन परलोकमार्गेण गतवानित्यमङ्गलातङ्कदायि ।

 क्लिष्टमुदाहरति--- धम्मिल्लस्येति । कुरङ्गशावाक्ष्याः धम्मिल्लस्य संयतकनिचयस्य । अपूर्वोऽदृष्टचरो बन्धो ग्रथनं तस्य व्युत्पत्तेश्चातुर्यस्य । शोभां प्रेक्ष्य । कस्य मानसं निकामं न रज्यति सर्वस्यापि मानस रज्यतीत्यर्थः । रज्यतीति कर्मकर्तरि रूपम् । कुषिरजोः प्राचां श्यन् परस्मैपदं च' इति परस्मैपदम् । अपूर्वबन्धव्युत्पत्तेरिति धम्मिल्लविशेषणं वा । अत्रान्वयव्यवधानान्न हाठिकी वाक्यार्थप्रतिपत्तिरिति स्पष्टमेव क्लिष्टत्वम् । ननु किं फलममीषां दोषाणामवबोधनेनेत्याशङ्क्य, परित्याग एव फलमित्याह- एतानिति

इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालंकारसूत्रवृत्ति

व्याख्यायां काव्यालंकारकामधेनौ दोषदर्शने

द्वितीयेऽधिकरणे प्रथमोऽध्यायः॥

  1. गल्लपदं कपोलार्थकम् । तल्ल अल्पमिति केचित् । तल्लशब्दस्तडागवाचीति कश्चित् । 'भल्लम्' इति भूयसां पाठः । 'भल्ल भद्रम्' इति, 'भल्लं समीचीनम्' इति च प्रकाशव्यख्यातार:।
  2. 'विज्ञान वेदना सज्ञा सस्कारा रूपमेव च । भिक्षूणां शाक्यसिंहेन स्कन्धा पञ्च प्रकीर्तिताः।’
  3. इदं च नेयार्थ प्रकाशोक्तेषु अवाचकप्रभेदेषु अन्यतमम् । प्रकारान्तराणि तु तत एवावसेयानि।
  4. अय भाव:--'निरूढा लक्षणा काचित्' इत्युक्तरीत्या रूढिप्रयोजनाभ्यां विना यत्र निषिद्धा लक्षणा स्वीक्रियते, तत्रैव नेयार्थत्वम् । सपदीत्युदाहरणे च विहङ्गमादिपदानां तत्र तत्र लक्षणोपासने न रूढिः, नवा प्रयोजन किमपि, मुख्यशब्दार्थातिरेकेण कस्याप्यर्थस्याप्रतीतिः । अतश्च तत्र भवति नेयार्थत्व दोषः । रथाङ्गनामादिषु तु रूढिरिति न दोषः । दूषकताबीज च अशक्तवक्तृकत्वज्ञानाद्रसप्रकर्षबोधविधान । वृत्त्यभावेन अर्थानुपस्थितिस्तदिति केचित् । एतेन 'न तु लाक्षणिकार्थमित्यर्थः' इति कामाधेनुरपि व्याख्याता । समस्तमेक पदमिति वैयाकरणरीतिमाश्रित्य पदार्थदोषावसरे अस्योपन्यासः । हेमचन्द्रस्तु विशिष्टाभिप्रायेण मतान्तरानुसारेण वा इदमेव पद्य वाक्यदोषप्रकरणे निरूपितवान् ।
  5. 'अस्य दूषकताबीज च प्रसिद्धस्यैव द्रागुपस्थित्या विवक्षितस्य विलम्बेनोपस्थितिः । अत एव यमकादावदोषत्वम् , तत्रोपस्थितिविलम्बस्यापि सहृदयसंमतत्वेनाविलम्बानुद्देश्यत्वात् । इति प्रदीपकारः । ननु प्रसिद्धस्यापि अविवक्षितार्थस्य कथमुपस्थितिः, 'शब्दार्थस्यानवच्छेदे' इति प्रकरणादेर्नियामकस्य सत्त्वादिति चेत्, न तुल्यप्रसिद्धिकानेकार्थेष्वेव तथा नियमस्य तदर्थत्वादिति दिक् ।
  6. काश्चिल्लक्षणाः निरूढाः प्रसिद्धाः । ताश्च बोधकत्वरूपसामर्थ्यात् अभिधासमकक्ष्याः । काश्चिच्च प्रयोजनवशात् सांप्रत क्रियन्ते । काश्चिदपि रूढिप्रयोजनाभावेऽपि वक्तुरशक्तिमात्रेण नैव क्रियन्ते इति कारिकार्थः । निरूढलक्षणा तु शक्तितो नाममात्रेण भिद्यते इति भट्टः।
  7. अश्रीरस्थास्तीत्यर्थे सिध्मादित्वाल्लच्प्रत्ययः । कपिलादित्वाद्रेफस्य लत्वम् ।
  8. इद च पद्यसमर्थोदाहरणतया प्रकाशे उपात्तम्।
  9. 'दूषकताबीज त्वनुभवसिद्धरसापकर्षकतादृशार्थोपस्थितिः । नीरसे तु चमत्कारापकर्षकत्व तस्याः । अथवा तादृशार्थोपस्थित्या श्रोतुर्वैमुख्य तद्बीजम् । अत शमकथायां दोषत्वाभावः, तादृशोपस्थितेः शमपोषकत्वात् । भाव्यमङ्गलादिसूचने कामशास्त्रस्थितौ च न दोषत्वम् , श्रोतुर्वैमुख्याभावात् । शिवलिङ्गभगिनीब्रह्माण्डादिशब्देषु तु सवीतगुप्तलक्षितेषु असभ्यार्थानुपस्थितिः' इति प्रदीपः ।