काव्यालङ्कारसूत्राणि
वामनकृतकाव्यालङ्कारसूत्राणि
तत्र शारीरं नाम प्रथममधिकरणम्
प्रथमोऽध्यायः
1,1,01 काव्यं ग्राह्यमलङ्कारात् ।
काव्यं ग्राह्यं अलङ्कारात्
1,1,02 सौन्दर्यमलङ्कारः ।
सौन्दर्यं अलङ्कारः
1,1,03 स दोषगुणालङ्कारहानादानाभ्याम् ।
सः दोष-गुण-अलङ्कार-हान-आदानाभ्याम्
1,1,04 शास्त्रतस्ते ।
शास्त्रतः ते
1,1,05 काव्यं सद् दृष्टादृष्टार्थं प्रीतिकीर्तिहेतुत्वात् ।
काव्यं सत् प्रीति-कीर्ति-हेतुत्वात्
द्वितीयोऽध्यायः
झ्र्अधिकारिचिन्ताट
1,2,01 अरोचकिनः सतृणाभ्यवहारिणश्च कवयः ।
अरोचकिनः स-तृण-अभ्यवहारिणः च कवयः
1,2,02 पूर्वे शिष्या विवेकित्वात् ।
पूर्वे शिष्याः विवेकित्वात्
1,2,03 नेतरे तद्विपर्ययात् ।
न इतरे तद्-विपर्ययात्
1,2,04 न शास्त्रमद्रव्येष्वर्थवत् ।
न शास्त्रं अद्रव्येषु अर्थवत्
1,2,05 न कतकं पङ्कप्रसादनाय ।
न कतकं पङ्क-प्रसादनाय
झ्र्रीतिनिश्चयःट
1,2,06 रीतिरात्मा काव्यस्य ।
रीतिः आत्मा काव्यस्य
1,2,07 विशिष्टपदरचना रीतिः ।
विशिष्ट-पद-रचना रीतिः
1,2,08 विशेषो गुणात्मा ।
विशेषः गुण-आत्मा
1,2,09 सा त्रेधा वैदर्भी गौडीया पाञ्चाली चेति ।
सा त्रेधा वैदर्भी गौडीया पाञ्चाली च इति
1,2,10 विदर्भादिषु दृष्टत्वात् तत्समाख्या ।
विदर्भ-आदिषु दृष्टत्वात् तत्-समाख्या
1,2,11 समग्रगुणा वैदर्भी ।
समग्र-गुणा वैदर्भी
1,2,12 ओजःकान्तिमती गौडीया ।
ओजः-कान्तिमती गौडीया
1,2,13 माधुर्यसौकुमार्योपपन्ना पाञ्चाली ।
माधुर्य-सौकुमार्य-उपपन्ना पाञ्चाली
1,2,14 तासां पूर्वा ग्राह्या गुणसाकल्यात् ।
तासां पूर्वा ग्राह्या गुण-साकल्यात्
1,2,15 न पुनरितरे स्तोकगुणत्वात् ।
न पुनः इतरे स्तोक-गुणत्वात्
1,2,16 तदारोहणार्थमितराभ्यास इत्येके ।
तद्-आरोहण-अर्थं इतर-अभ्यासः इति एके
1,2,17 तच्च न, अतत्त्वशीलस्य तत्त्वानिष्पत्तेः ।
तत् च न, अ-तत्त्व-शीलस्य तत्त्व-अ-निष्पत्तेः
1,2,18 न शणसूत्रवानाभ्यासे त्रसरसूत्रवानवैचित्य।लाभः (। त्र्य ?)
न शण-सूत्र-वान-अभ्यासे त्रसर-सूत्र-वान-वैचित्र्य-लाभः
1,2,19 सापि समासाभावे शुद्धवैदर्भी ।
सा अपि समास-अभावे शुद्ध-वैदर्भी
1,2,20 तस्यामर्थगुणसम्पदास्वाद्या ।
तस्यां अर्थ-गुण-सम्पत् आस्वाद्या
1,2,21 तदुपारोहादर्थगुणलेशोऽपि ।
तद्-उपारोहात् अर्थ-गुण-लेशः अपि
1,2,22 सापि वैदर्भी तात्स्थ्यात् ।
सा अपि वैदर्भी तात्स्थ्यात्
तृतीयोऽध्यायः
झ्र्काव्याङ्गानिट
1,3,01 लोको विद्या प्रकीर्णंच काव्याङ्गानि ।
लोकः विद्या प्रकीर्णं च काव्य-अङ्गानि
1,3,02 लोकवृत्तं लोकः ।
लोक-वृत्तं लोकः
1,3,03 शब्दस्मृत्यभिधानकोशच्छन्दोविचितिकलाकामशास्त्रदण्डनीतिपूर्वा विद्याः ।
शब्द-स्मृति-अभिधान-कोश-छन्दः-विचिति-कला-काम-शास्त्र-दण्ड-नीति-पूर्वाः विद्याः
1,3,04 शब्दस्मृतेः शब्दशुद्धिः ।
शब्दृस्मृतेः शब्द-शुद्धिः
1,3,05 अभिधानकोशतः पदार्थनिश्चयः ।
अभिधान-कोशतः पद-अर्थ-निश्चयः
1,3,06 छन्दोविचितेर्वृत्तसंशयच्छेदः ।
छन्दः-विचितेः वृत्त-संशय-छेदः
1,3,07 कलाशास्त्रेभ्यः कलातत्त्वस्य संवित् ।
कला-शास्त्रेभ्यः कला-तत्त्वस्य संवित्
1,3,08 कामशास्त्रतः कामोपचारस्य ।
काम-शास्त्रतः काम-उपचारस्य
1,3,09 दण्डनीतेर्नयापनययोः ।
दण्ड-नीतेः नय-अपनययोः
1,3,10 इतिवृत्तकुटिलत्वञ्च ततः ।
इतिवृत्त-कुटिलत्वं च ततः
1,3,11 लक्ष्यज्ञत्वमभियोगो वृद्धसेवाऽवेक्षणं प्रतिभानमवधानञ्च प्रकीर्णम् ।
लक्ष्यज्ञत्वं अभियोगः वृद्ध-सेवा अवेक्षणं प्रतिभानं अवधानं च प्रकीर्णम् 1,3,12 तत्र काव्यपरिचयो लक्ष्यज्ञत्वम् ।
तत्र काव्य-परिचयः लक्ष्यज्ञत्वम्
1,3,13 काव्यबन्धोद्यमोऽभियोगः ।
काव्य-बन्ध-उद्यमः अभियोगः
1,3,14 काव्योपदेशगुरुशुश्रूषणं वृद्धसेवा ।
काव्य-उपदेश-गुरु-शुश्रूषणं वृद्ध-सेवा
1,3,15 पदाधानोद्धरणमवेक्षणम् ।
पद-आधान-उद्धरणं अवेक्षणम्
1,3,16 कवित्वबीजं प्रतिभानम् ।
कवित्व-बीजं प्रतिभानम्
1,3,17 चित्तैकाग्र्यमवधानम् ।
चित्त-ऐकाग्र्यं अवधानम्
1,3,18 तद्देशकालाभ्याम् ।
तद् देश-कालाभ्याम्
1,3,19 विविक्तो देशः ।
विविक्तः देशः
1,3,20 रात्रियामस्तुरीयः कालः ।
रात्रि-यामः तुरीयः कालः
झ्र्काव्यविशेषःट
1,3,21 काव्यं गद्यं पद्यञ्च ।
काव्यं गद्यं पद्यं च
1,3,22 गद्यं वृत्तगन्धि चूर्णमुत्कलिकाप्रायञ्च ।
गद्यं वृत्त-गन्धि चूर्णं उत्कलिका-प्रायं च
1,3,23 पद्यभागवद् वृत्तगन्धि ।
पद्य-भागवद् वृत्त-गन्धि
1,3,24 अनाविद्धललितपदं चूर्णम् ।
अनाविद्ध-ललित-पदं चूर्णम्
1,3,25 विपरीतमुत्कलिकाप्रायम् ।
विपरीतं उत्कलिका-प्रायम्
1,3,26 पद्यमनेकभेदम् ।
पद्यं अनेक-भेदम्
1,3,27 तदनिबद्धं निबद्धञ्च ।
तद् अनिबद्धं निबद्धं च
1,3,28 क्रमसिद्धिस्तयोः स्रगुत्तंसवत् ।
क्रम-सिद्धिः तयोः स्रग्-उत्तंसवत्
1,3,29 नानिबद्धं चकास्त्येकतेजःपरमाणुवत् ।
न अनिबद्धं चकास्ति एक-तेजः-परमाणुवत्
1,3,30 सन्दर्भेषु दशरूपकं श्रेयः ।
सन्दर्भेषु दश-रूपकं श्रेयः
1,3,31 तद्धि चित्रं चित्रपटवद् विशेषसाकल्यात् ।
तद् हि चित्रं चित्र-पटवद् विशेष-साकल्यात्
1,3,32 ततोऽन्यभेदकिप्तिः ।
ततः अन्य-भेद-किप्तिः
दोशदर्शनं नाम द्वितीयमधिकरणम्
प्रथमोऽध्यायः
झ्र्पद-दोष-विभागःट
2,1,01 गुणविपर्ययात्मानो दोषाः ।
गुण-विपर्यय-आत्मानः दोषाः
2,1,02 अर्थतस्तदवगमः ।
अर्थतः तद्-अवगमः
2,1,03 सौकर्याय प्रपञ्चः ।
सौकर्याय प्रपञ्चः
2,1,04 दुष्टं पदमसाधु कष्टं ग्राम्यमप्रतीतमनर्थकञ्च ।
दुष्टं पदं असाधु कष्टं ग्राम्यं अप्रतीतं अनर्थकं च
2,1,05 शब्दस्मृतिविरुद्धमसाधु ।
शब्द-स्मृति-विरुद्धं असाधु
2,1,06 श्रुतिविरसं कष्टम् ।
श्रुति-विरसं कष्टम्
2,1,07 लोकप्रयुक्तमात्रं ग्राम्यम् ।
लोक-प्रयुक्त-मात्रं ग्राम्यम्
2,1,08 शास्त्रमात्रप्रयुक्तमप्रतीतम् ।
शास्त्र-मात्र-प्रयुक्तं अप्रतीतम्
2,1,09 पूरणार्थमनर्थकम् ।
पूरण-अर्थं अनर्थकम्
झ्र्पदार्थदोषविभागःट
2,1,10 अन्यार्थनेयगूढार्थाश्लीलक्लिष्टानि च ।
अन्यार्थ-नेय-गूढार्थ-अश्लील-क्लिष्टानि च
2,1,11 रूढिच्युतमन्यार्थम् ।
रूढि-च्युतं अन्य-अर्थम्
2,1,12 कल्पितार्थं नेयार्थम् ।
कल्पित-अर्थं नेय-अर्थम्
2,1,13 अप्रसिद्धार्थप्रयुक्तं गूढार्थम् ।
अप्रसिद्ध-अर्थ-प्रयुक्तं गूढ-अर्थम्
2,1,14 असभ्यार्थान्तरमसभ्यस्मृतिहेतुश्चाश्लीलम् ।
असभ्य-अर्थान्तरं असभ्य-स्मृति-हेतुः च अश्लीलम्
2,1,15 न गुप्तलक्षितसंवृतानि ।
न गुप्त-लक्षित-संवृतानि
2,1,16 अप्रसिद्धासभ्यं गुप्तम् ।
अप्रसिद्ध-असभ्यं गुप्तम्
2,1,17 लाक्षणिकासभ्यं लक्षितम् ।
लाक्षणिक-असभ्यं लक्षितम्
2,1,18 लोकसंवीतं संवृतम् ।
लोक-संवीतं संवृतम्
2,1,19 तत्त्रैविध्यं व्रीडाजुगुप्साऽमङ्गलातङ्कदायिभेदात् ।
तत्-त्रैविध्यं व्रीडा-जुगुप्सा-अमङ्गल-आतङ्क-दायि-भेदात्
2,1,20 व्यवहितार्थप्रत्ययं क्लिष्टम् ।
व्यवहित-अर्थ-प्रत्ययं क्लिष्टम्
2,1,21 अरूढार्थत्वात् ।
अरूढार्थत्वात्
2,1,22 अन्त्याभ्यां वाक्यं व्याख्यातम् ।
अन्त्याभ्यां वाक्यं व्याख्यातम्
द्वितीयोऽध्यायः
झ्र्वाक्य-दोष-विभागःट
2,2,01 भिन्नवृत्तयतिभ्रष्टविसन्धीनि वाक्यानि ।
भिन्न-वृत्त-यति-भ्रष्ट-विसन्धीनि वाक्यानि
2,2,02 स्वलक्षणच्युतवृत्तं भिन्नवृत्तम् ।
स्व-लक्षण-च्युत-वृत्तं भिन्न-वृत्तम्
2,2,03 विरसविरामं यतिभ्रष्टम् ।
विरस-विरामं यति-भ्रष्टम्
2,2,04 तद्धातुनामभागभेदे स्वरसन्ध्यकृते प्रायेण ।
तद् धातु-नाम-भाग-भेदे स्वर-सन्धि-अकृते प्रायेण
2,2,05 न वृत्तदोषात् पृथग्यतिदोषो वृत्तस्य यत्यात्मकत्वात् ।
न वृत्त-दोषात् पृथक् यति-दोषः वृत्तस्य यति-आत्मकत्वात्
2,2,06 न, लक्ष्मणः पृथक्त्वात् ।
न, लक्ष्मणः पृथक्त्वात्
2,2,07 विरूपपदसन्धिर्विसन्धिः ।
विरूप-पद-सन्धिः विसन्धिः
2,2,08 पदसन्धिवैरूप्यं विश्लेषोऽश्लीलत्वं कष्टत्वञ्च ।
पद-सन्धि-वैरूप्यं विश्लेषः अश्लीलत्वं कष्टत्वं च
झ्र्वाक्यार्थदोषविभागःट
2,2,09 व्यर्थैकार्थसन्दिग्धाप्रयुक्तापक्रमलोकविद्याविरुद्धानि च ।
व्यर्थ-एकार्थ-सन्दिग्ध-अप्रयुक्त-अपक्रम-लोक-विद्या-विरुद्धानि च
2,2,10 व्याहतपूर्वोत्तरार्थं व्यर्थम् ।
व्याहत-पूर्व-उत्तर-अर्थं व्यर्थम्
2,2,11 उक्तार्थपदमेकार्थम् ।
उक्त-अर्थ-पदं एक-अर्थम्
2,2,12 न विशेषश्चेत् ।
न विशेषः चेत्
2,2,13 धनुज्र्याध्वनौ धनुःश्रुतिरारूढेः प्रतिपत्त्यै ।
धनुः-ज्या-ध्वनौ धनुः-श्रुतिः आरूढेः प्रतिपत्त्यै
2,2,14 कर्णावतंसश्रवणकुण्डलशिरःशेखरेषु कर्णादिनिर्देशः सन्निधेः ।
कर्ण-अवतंस-श्रवण-कुण्डल-शिरः-शेखरेषु कर्ण-आदि-निर्देशः सन्निधेः
2,2,15 मुक्ताहारशब्दे मुक्ताशब्दः शुद्धेः ।
मुक्ता-हार-शब्दे मुक्ता-शब्दः शुद्धेः
2,2,16 पुष्पमालाशब्दे पुष्पपदमुत्कर्षस्य ।
पुष्प-माला-शब्दे पुष्प-पदं उत्कर्षस्य
2,2,17 करिकलभशब्दे करिशब्दस्ताद्रूप्यस्य ।
करि-कलभ-शब्दे करि-शब्दः ताद्रूप्यस्य
2,2,18 विशेषणस्य च ।
विशेषणस्य च
2,2,19 तदिदं प्रयुक्तेषु ।
तद् इदं प्रयुक्तेषु
2,2,20 संशयकृत् सन्दिग्धम् ।
संशय-कृत् सन्दिग्धम्
2,2,21 मायादिकल्पितार्थमप्रयुक्तम् ।
माया-आदि-कल्पित-अर्थं अप्रयुक्तम्
2,2,22 क्रमहीनार्थमपक्रमम् ।
क्रम-हीन-अर्थं अपक्रमम्
2,2,23 देशकालस्वभावविरुद्धार्थानि लोकविरुद्धानि ।
देश-काल-स्वभाव-विरुद्ध-अर्थानि लोक-विरुद्धानि
2,2,24 कलाचतुर्वर्गशास्त्रविरुद्धार्थानि विद्याविरुद्धानि ।
कला-चतुः-वर्ग-शास्त्र-विरुद्ध-अर्थानि विद्या-विरुद्धानि
गुणविवेचनं नाम तृतीयमधिकरणम्
प्रथमोऽध्यायः
झ्र्गुणालङ्कार-विवेकःट
3,1,01 काव्यशोभायाः कर्तारो धर्मा गुणाः ।
काव्य-शोभायाः कर्तारः धर्माः गुणाः
3,1,02 तदतिशयहेतवस्त्वलङ्काराः ।
तद्-अतिशय-हेतवः तु अलङ्काराः
3,1,03 पूर्वे नित्याः ।
पूर्वे नित्याः
झ्र्शब्द-गुण-निरूपणम्ट
3,1,04 ओजःप्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्तिकान्तयो बन्धगुणाः ओजः-प्रसाद-श्लेष-समता-समाधि-माधुर्य-सौकुमार्य-उदारता-अर्थ-व्यक्ति-
कान्तयः बन्ध-गुणाः
3,1,05 गाढबन्धत्वमोजः ।
गाढ-बन्धत्वं ओजः
3,1,06 शैथिल्यं प्रसादः ।
शैथिल्यं प्रसादः
3,1,07 गुणः सम्प्लवात् ।
गुणः सम्प्लवात्
3,1,08 न शुद्धः ।
न शुद्धः
3,1,09 स त्वनुभवसिद्धः ।
सः तु अनुभव-सिद्धः
3,1,10 साम्योत्कर्षौ च ।
साम्य-उत्कर्षौ च
3,1,11 मसृणत्वं श्लेषः ।
मसृणत्वं श्लेषः
3,1,12 मार्गाभेदः समता ।
मार्ग-अभेदः समता
3,1,13 आरोहावरोहक्रमः समाधिः ।
आरोह-अवरोह-क्रमः समाधिः
3,1,14 न पृथगारोहावरोहयोरोजःप्रसादरूपत्वात् ।
न पृथक् आरोह-अवरोहयोः ओजः-प्रसाद-रूपत्वात्
3,1,15 न सम्पृक्तत्वात् ।
न सम्पृक्तत्वात्
3,1,16 अनैकान्त्याच्च ।
अनैकान्त्यात् च
3,1,17 ओजःप्रसादयोः क्वचिद्भागे तीव्रावस्थायां ताविति चेदभ्युपगमः ।
ओजः-प्रसादयोः क्वचित् भागे तीव्र-अवस्थायां तौ इति चेत् अभ्युपगमः
3,1,18 विशेषापेक्षित्वात् तयोः ।
विशेष-अपेक्षित्वात् तयोः
3,1,19 आरोहावरोहनिमित्तं समाधिराख्यायते ।
आरोह-अवरोह-निमित्तं समाधिः आख्यायते
3,1,20 क्रमविधानार्थत्वाद्वा ।
क्रम-विधान-अर्थत्वात् वा
3,1,21 पृथक्पदत्वं माधुर्यम् ।
पृथक्-पदत्वं माधुर्यम्
3,1,22 अजरठत्वं सोकुमार्यम् ।
अजरठत्वं सोकुमार्यम्
3,1,23 विकटत्वमुदारता ।
विकटत्वं उदारता
3,1,24 अर्थव्यक्तिहेतुत्वमर्थव्यक्तिः ।
अर्थ-व्यक्ति-हेतुत्वं अर्थ-व्यक्तिः
3,1,25 औज्ज्वल्यं कान्तिः ।
औज्ज्वल्यं कान्तिः
3,1,26 नासन्तः सद्वे।द्यत्वात् । (। संवे)
न असन्तः ।सद्-वेद्यत्वात् (। संवे)
3,1,27 न भ्रान्ता निष्कम्पत्वात् ।
न भ्रान्ताः निष्कम्पत्वात्
3,1,28 न पाठधर्माः सर्वत्रादृष्टेः ।
न पाठ-धर्माः सर्वत्र अदृष्टेः ।
द्वितीयोऽध्यायः
झ्र्अर्थगुणविवेचनम्ट
3,2,01 त एवार्थगुणाः ।
ते एव अर्थ-गुणाः
3,2,02 अर्थस्य प्रौढिरोजः ।
अर्थस्य प्रौढिः ओजः
3,2,03 अर्थवैमल्यं प्रसादः ।
अर्थ-वैमल्यं प्रसादः
3,2,04 घटना श्लेषः ।
घटना श्लेषः
3,2,05 अवैषम्यं समता ।
अवैषम्यं समता
3,2,06 सुगमत्वं वाऽवैषम्यमिति ।
सुगमत्वं वा अवैषम्यं इति
3,2,07 अर्थदृष्टिः समाधिः ।
अर्थ-दृष्टिः समाधिः
3,2,08 अर्थो द्विविधोऽयोनिरन्यच्छायायोनिर्वा ।
अर्थः द्वि-विधः अयोनिः अन्य-च्छाया-योनिः वा
3,2,09 अर्थो व्यक्तः सूक्ष्मश्च ।
अर्थः व्यक्तः सूक्ष्मः च
3,2,10 सूक्ष्मो भाव्यो वासनीयश्च ।
सूक्ष्मः भाव्यः वासनीयः च
3,2,11 उक्तिवैचित्र्यं माधुर्यम् ।
उक्ति-वैचित्र्यं माधुर्यम्
3,2,12 अपारुष्यं सौकुमार्यम् ।
अ-पारुष्यं सौकुमार्यम्
3,2,13 अग्राम्यत्वमुदारता ।
अ-ग्राम्यत्वम् उदारता
3,2,14 वस्तुस्वभावावस्फुटत्वमर्थव्यक्तिः ।
वस्तु-स्व-भाव-अवस्फुटत्वम् अर्थ-व्यक्तिः
3,2,15 दीप्तरसत्वं कान्तिः ।
दीप्त-रसत्वं कान्तिः
आलङ्कारिकं नाम चतुर्थमधिकरणम्
प्रथमोऽध्यायः
झ्र्शब्दालङ्कारविचारःट
4,1,01 पदमनेकार्थमक्षरं वाऽऽवृतं स्थाननियमे यमकम् ।
पदम् अनेक-अर्थम् अक्षरं वा आवृतं स्थान-नियमे यमकम्
4,1,02 पादः पादस्यैकस्यानेकस्य चादिमध्यान्तभागाः स्थानानि ।
पादः पादस्य एकस्य अनेकस्य च आदि-मध्य-अन्त-भागाः स्थानानि
4,1,03 भङ्गादुत्कर्षः ।
भङ्गात् उत्कर्षः
4,1,04 शृङ्खला परिवर्तकश्चूर्णमिति भङ्गमार्गः ।
शृङ्खला परिवर्तकः चूर्णम् इति भङ्ग-मार्गः
4,1,05 वर्णविच्छेदचलनं शृङ्खला ।
वर्ण-विच्छेद-चलनं शृङ्खला
4,1,06 सङ्गविनिवृत्तौ स्वरूपापत्तिः परिवर्तकः ।
सङ्ग-विनिवृत्तौ स्वरूप-आपत्तिः परिवर्तकः
4,1,07 पिण्डाक्षरभेदे स्वरूपलोपश्चूर्णम् ।
पिण्ड-अक्षर-भेदे स्वरूप-लोपः चूर्णम्
4,1,08 शेषः सरूपोऽनुप्रासः ।
शेषः स-रूपः अनुप्रासः
4,1,09 अनुल्वणो वर्णानुप्रासः श्रेयान् ।
अनुल्वणः वर्ण-अनुप्रासः श्रेयान्
4,1,10 पादानुप्रासः पादयमकवत् ।
पाद-अनुप्रासः पाद-यमकवत्
द्वितीयोऽध्यायः
झ्र्उपमाविचारःट
4,2,01 उपमानेनोपमेयस्य गुणलेशतः साम्यमुपमा ।
उपमानेन उपमेयस्य गुण-लेशतः साम्यम् उपमा
4,2,02 गुणबाहुल्यतश्च कल्पिता ।
गुण-बाहुल्यतः च कल्पिता
4,2,03 तद्द्वैविध्यं पदवाक्यार्थवृत्तिभेदात् ।
तद्-द्वैविध्यं पद-वाक्य-अर्थ-वृत्ति-भेदात्
4,2,04 सा पूर्णा लुप्ता च ।
सा पूर्णा लुप्ता च
4,2,05 गुणद्योतकोपमानोपमेयशब्दानां सामग्र्ये पूर्णा ।
गुण-द्योतक-उपमान-उपमेय-शब्दानां सामग्र्ये पूर्णा
4,2,06 लोपे लुप्ता ।
लोपे लुप्ता
4,2,07 स्तुतिनिन्दातत्त्वाख्यानेषु ।
स्तुति-निन्दा-तत्त्व-आख्यानेषु
4,2,08 हीनत्वाधिकत्वलिङ्गवचनभेदासादृश्यासम्भवास्तद्दोषाः ।
हीनत्व-अधिकत्व-लिङ्ग-वचन-भेद-असादृश्य-असम्भवाः तद्-दोषाः
4,2,09 जातिप्रमाणधर्मन्यूनतोपमानस्य हीनत्वम् ।
जाति-प्रमाण-धर्म-न्यूनता उपमानस्य हीनत्वम्
4,2,10 धर्मयोरेकनिर्देशेऽन्यस्य संवित् साहचर्यात् ।
धर्मयोः एक-निर्देशे अन्यस्य संवित् साहचर्यात्
4,2,11 तेनाधिकत्वं व्याख्यातम् ।
तेन अधिकत्वं व्याख्यातम्
4,2,12 उपमानोपमेययोर्लिङ्गव्यत्यासो लिङ्गभेदः ।
उपमान-उपमेययोः लिङ्ग-व्यत्यासः लिङ्ग-भेदः
4,2,13 दृष्टः पुन्नपुंसकयोः प्रायेण ।
दृष्टः पुम्-नपुंसकयोः प्रायेण
4,2,14 लौकिक्यां समासाभिहितायामुपमाप्रपञ्चे ।
लौकिक्यां समास-अभिहितायाम् उपमा-प्रपञ्चे
4,2,15 तेन वचनभेदो व्याख्यातः ।
तेन वचन-भेदः व्याख्यातः
4,2,16 अप्रतीतगुणसादृश्यमसादृश्यम् ।
अप्रतीत-गुण-सादृश्यम् असादृश्यम्
4,2,17 असादृश्यहता ह्युपमा तन्निष्ठाश्च कवयः ।
असादृश्य-हता हि उपमा तत्-निष्ठाः च कवयः
4,2,18 उपमानाधिक्यात् तदपोह इत्येके ।
उपमान-आधिक्यात् तद्-अपोहः इति एके
4,2,19 नापुष्टार्थत्वात् ।
न अ-पुष्ट-अर्थत्वात्
4,2,20 अनुपपत्तिरसम्भवः ।
अनुपपत्तिः असम्भवः
4,2,21 न विरुद्धोऽतिशयः ।
न विरुद्धः अतिशयः
तृतीयोऽध्यायः
झ्र्उपमा-प्रपञ्च-विचारःट
4,3,01 प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः ।
प्रतिवस्तु-प्रभृतिः उपमा-प्रपञ्चः
4,3,02 उपमेयस्योक्तौ समानवस्तुन्यासः प्रतिवस्तु ।
उपमेयस्य उक्तौ समान-वस्तु-न्यासः प्रतिवस्तु
4,3,03 अनुक्तौ समासोक्तिः ।
अनुक्तौ समासोक्तिः
4,3,04 किञ्चिदुक्तावप्रस्तुतप्रशंसा ।
किञ्चिद्-उक्तौ अप्रस्तुत-प्रशंसा
4,3,05 समेन वस्तुनाऽन्यापलापोऽपह्नुतिः ।
समेन वस्तुना अन्य-अपलापः अपह्नुतिः
4,3,06 उपमानोपमेयस्य गुणसाम्यात् तत्त्वारोपो रूपकम् ।
उपमान-उपमेयस्य गुण-साम्यात् तत्त्व-आरोपः रूपकम्
4,3,07 स धर्मेषु तन्त्रप्रयोगे श्लेषः ।
सः धर्मेषु तन्त्र-प्रयोगे श्लेषः
4,3,08 सादृश्याल्लक्षणा वक्रोक्तिः ।
सादृश्यात् लक्षणा वक्रोक्तिः
4,3,09 अतद्रूपस्यान्यथाध्यवसानमतिशयार्थमुत्प्रेक्षा ।
अ-तद्-रूपस्य अन्यथा अध्यवसानम् अतिशय-अर्थम् उत्प्रेक्षा
4,3,10 सम्भाव्यधर्मतदुत्कर्षकल्पनाऽतिशयोक्तिः ।
सम्भाव्य-धर्म-तद्-उत्कर्ष-कल्पना अतिशयोक्तिः
4,3,11 उपमानोपमेयसंशयः सन्देहः ।
उपमान-उपमेय-संशयः सन्देहः
4,3,12 विरुद्धाभासत्वं विरोधः ।
विरुद्ध-आभासत्वं विरोधः
4,3,13 क्रियाप्रतिषेधे प्रसिद्धतत्फलव्यक्तिर्विभावना ।
क्रिया-प्रतिषेधे प्रसिद्ध-तत्-फल-व्यक्तिः विभावना
4,3,14 एकस्योपमेयोपमानत्वेऽनन्वयः ।
एकस्य उपमेय-उपमानत्वे अनन्वयः
4,3,15 क्रमेणोपमेयोपमा ।
क्रमेण उपमेयोपमा
4,3,16 समविसदृशाभ्यां परिवर्तनं परिवृत्तिः ।
सम-विसदृशाभ्यां परिवर्तनं परिवृत्तिः
4,3,17 उपमेयोपमानानां क्रमसम्बन्धः क्रमः ।
उपमेय-उपमानानां क्रम-सम्बन्धः क्रमः
4,3,18 उपमानोपमेयवाक्येष्वेका क्रिया दीपकम् ।
उपमान-उपमेय-वाक्येषु एका क्रिया दीपकम्
4,3,19 तत्त्रैविध्यं, आदिमध्यान्तवाक्यवृत्तिभेदात् ।
तत्-त्रैविध्यं, आदि-मध्य-अन्त-वाक्य-वृत्ति-भेदात्
4,3,20 क्रिययैव स्वतदर्थान्वयख्यापनं निदर्शनम् ।
क्रियया एव स्व-तद्-अर्थ-अन्वय-ख्यापनं निदर्शनम्
4,3,21 उक्तसिद्ध्यै वस्तुनोऽर्थान्तरस्यैव न्यसनमर्थान्तरन्यासः ।
उक्त-सिद्ध्यै वस्तुनः अर्थान्तरस्य एव न्यसनम् अर्थान्तरन्यासः
4,3,22 उपमेयस्य गुणातिरेकित्वं व्यतिरेकः ।
उपमेयस्य गुण-अतिरेकित्वं व्यतिरेकः
4,3,23 एकगुणहानिकल्पनायां साम्यदाढ्र्यं विशेषोक्तिः ।
एक-गुण-हानि-कल्पनायां साम्य-दाढ्र्यं विशेषोक्तिः
4,3,24 सम्भाव्यविशिष्टकर्माकरणान्निन्दा स्तोत्रार्था व्याजस्तुतिः ।
सम्भाव्य-विशिष्ट-कर्म-अकरणात् निन्दा स्तोत्र-अर्था व्याजस्तुतिः
4,3,25 व्याजस्य सत्यसारूप्यं व्याजोक्तिः ।
व्याजस्य सत्य-सारूप्यं व्याजोक्तिः
4,3,26 विशिष्टेन साम्यार्थमेककालक्रियायोगस्तुल्ययोगिता ।
विशिष्टेन साम्यार्थम् एक-काल-क्रिया-योगः तुल्ययोगिता
4,3,27 उपमानाक्षेपश्चाक्षेपः ।
उपमान-आक्षेपः च आक्षेपः
4,3,28 वस्तुद्वयक्रिययोस्तुल्यकालयोरेकपदाभिधानं सहोक्तिः ।
वस्तु-द्वय-क्रिययोः तुल्य-कालयोः एक-पद-अभिधानं सहोक्तिः
4,3,29 यत्सादृश्यं तत्सम्पत्तिः समाहितम् ।
यत्-सादृश्यं तत्-सम्पत्तिः समाहितम्
4,3,30 अलङ्कारस्यालङ्कारयोनित्वं संसृष्टिः ।
अलङ्कारस्य अलङ्कार-योनित्वं संसृष्टिः
4,3,31 तद्भेदावुपमारूपकोत्प्रेक्षावयवौ ।
तद्-भेदौ उपमा-रूपक-उत्प्रेक्षा-अवयवौ
4,3,32 उपमाजन्यं रूपकमुपमारूपकम् ।
उपमा-जन्यं रूपकम् उपमा-रूपकम्
4,3,33 उत्प्रेक्षाहेतुरुत्प्रेक्षावयवः ।
उत्प्रेक्षा-हेतुः उत्प्रेक्षा-अवयवः
प्रायोगिकं नाम पञ्चममधिकरणम्
प्रथमोऽध्यायः
झ्र्काव्य-समयःट
5,1,01 नैकं पदं द्विः प्रयोज्यं प्रायेण ।
न एकं पदं द्विः प्रयोज्यं प्रायेण
5,1,02 नित्यं संहितैकपदवत् पादेष्वर्धान्तवर्जम् ।
नित्यं संहिता एक-पदवत् पादेषु अर्ध-अन्त-वर्जम्
5,1,03 न पादान्तलघोर्गुरुत्वञ्च सर्वत्र ।
न पाद-अन्त-लघोः गुरुत्वं च सर्वत्र
5,1,04 न गद्ये समाप्तप्रायं वृत्तमन्यत्रोद्गतादिभ्यः संवादात् ।
न गद्ये समाप्त-प्रायं वृत्तम् अन्यत्र उद्गत-आदिभ्यः संवादात्
5,1,05 न पादादौ खल्वादयः ।
न पाद-आदौ खलु-आदयः
5,1,06 नार्धे किञ्चिदसमाप्तप्रायं वाक्यम् ।
न अर्धे किञ्चिद् असमाप्त-प्रायं वाक्यम्
5,1,07 न कर्मधारयो बहुव्रीहिप्रतिपत्तिकरः ।
न कर्मधारयः बहुव्रीहि-प्रतिपत्ति-करः
5,1,08 तेन विपर्ययो व्याख्यातः ।
तेन विपर्ययः व्याख्यातः
5,1,09 सम्भाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ ।
सम्भाव्य-निषेध-निवर्तने द्वौ प्रतिषेधौ
5,1,10 विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ ।
विशेषण-मात्र-प्रयोगः विशेष्य-प्रतिपत्तौ
5,1,11 सर्वनाम्नाऽनुसन्धिर्वृत्तिच्छन्नस्य ।
सर्वनाम्ना अनुसन्धिः वृत्ति-च्छन्नस्य
5,1,12 सम्बन्धसम्बन्धेऽपि षष्ठी क्वचित् ।
सम्बन्ध-सम्बन्धे अपि षष्ठी क्वचित्
5,1,13 अतिप्रयुक्तं देशभाषापदम् ।
अति-प्रयुक्तं देश-भाषा-पदम्
5,1,14 लिङ्गाध्याहारौ ।
लिङ्ग-अध्याहारौ
5,1,15 लक्षणाशब्दाश्च ।
लक्षणा-शब्दाः च
5,1,16 न तद्बाहुल्यमेकत्र ।
न तद्-बाहुल्यम् एकत्र
5,1,17 स्तनादीनां द्वित्वाविष्टा जातिः प्रायेण ।
स्तन-आदीनां द्वित्व-आविष्टा जातिः प्रायेण
द्वितीयोऽध्यायः
झ्र्शब्द-शुद्धिःट
5,2,01 रुद्रावित्येकशेषोऽन्वेष्यः ।
रुद्रौ इति एक-शेषः अन्वेष्यः
5,2,02 मिलिक्लबिक्षपिप्रभृतीनां धातुत्वं, धातुगणस्यासमाप्तेः ।
मिलि-क्लबि-क्षपि-प्रभृतीनां धातुत्वं, धातु-गणस्य अ-समाप्तेः
5,2,03 वलेरात्मनेपदमनित्यं ज्ञापकात् ।
वलेः आत्मनेपदम् अ-नित्यं ज्ञापकात्
5,2,04 चक्षिङो द्व्यनुबन्धकरणम् ।
चक्षिङः द्वि-अनुबन्ध-करणम्
5,2,05 क्षीयते इति कर्मकर्तरि ।
क्षीयते इति कर्म-कर्तरि
5,2,06 खिद्यते इति च ।
खिद्यते इति च
5,2,07 मार्गेरात्मनेपदमलक्ष्म ।
मार्गेः आत्मनेपदम् अलक्ष्म
5,2,08 लोलमानादयश्चानशि ।
लोलमान-आदयः चानशि
5,2,09 लभेर्गत्यर्थत्वाण्णिच्यणौ कर्तुः कर्मत्वाकर्मत्वे ।
लभेः गति-अर्थत्वात् णिचि अ-णौ कर्तुः कर्मत्व-अ-कर्मत्वे
5,2,10 ते मे शब्दौ निपातेषु ।
ते मे शब्दौ निपातेषु
5,2,11 तिरस्कृत इति परिभूतेऽन्तध्र्युपचारात् ।
तिरस्कृतः इति परिभूते अन्तर्धि-उपचारात्
5,2,12 नैकशब्दः सुप्सुपेति समासात् ।
नैक-शब्दः सुप्-सुपा इति समासात्
5,2,13 मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पाठात् ।
मधु-पिपासु-प्रभृतीनां समासः गमि-गामि-आदिषु पाठात्
5,2,14 त्रिवलीशब्दः सिद्धः संज्ञा चेत् ।
त्रि-वली-शब्दः सिद्धः संज्ञा चेत्
5,2,15 बिम्बाधर इति वृत्तौ मध्यमपदलोपिन्याम् ।
बिम्ब-अधरः इति वृत्तौ मध्यम-पद-लोपिन्याम्
5,2,16 आमूललोलादिषु वृत्तिर्विस्पष्टपटुवत् ।
आमूललोल-आदिषु वृत्तिः विस्पष्ट-पटुवत्
5,2,17 न धान्यषष्ठादिषु षष्ठीसमासप्रतिषेधः पूरणेनान्यतद्धितत्वात् ।
न धान्य-षष्ठ-आदिषु षष्ठी-समास-प्रतिषेधः पूरणेन अन्य-तद्धितत्वात्
5,2,18 पत्रपीतिमादिषु गुणवचनेन ।
पत्र-पीतिमा-आदिषु गुण-वचनेन
5,2,19 अवज्र्यो बहुव्रीहिव्र्यधिकरणो जन्माद्युत्तरपदः ।
अ-वज्र्यः बहुव्रीहिः व्यधिकरणः जन्म-आदि-उत्तर-पदः
5,2,20 हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदात् ।
हस्त-अग्र-अग्र-हस्त-आदयः गुण-गुणिनोः भेद-अभेदात्
5,2,21 पूर्वनिपातेऽपभ्रंशो लक्ष्यः ।
पूर्व-निपाते अपभ्रंशः लक्ष्यः
5,2,22 निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात् ।
निपातेन अपि अभिहिते कर्मणि न कर्म-विभक्तिः परिगणनस्य प्रायिकत्वात्
5,2,23 शक्यमिति रूपं विलिङ्गवचनस्यापि कर्माभिधायां सामान्योपक्रमात् ।
शक्यम् इति रूपं विलिङ्ग-वचनस्य अपि कर्म(न्)-अभिधायां सामान्य-उपक्रमात्
5,2,24 हानिवदाधिक्यमप्यङ्गानां विकारः ।
हानिवत् आधिक्यम् अपि अङ्गानां विकारः
5,2,25 न कृमिकीटानामित्येकवद्भावप्रसङ्गात् ।
न कृमि-कीटानाम् इति एकवद्-भाव-प्रसङ्गात्
5,2,26 न खरोष्ट्रावुष्ट्रखरमिति पाठात् ।
न खर-उष्ट्रौ उष्ट्र-खरम् इति पाठात्
5,2,27 आसेत्यसतेः ।
आस इति असतेः
5,2,28 युध्येदिति युधः क्यचि ।
युध्येत् इति युधः क्यचि
5,2,29 विरलायमानादिषु क्यङ्निरूप्यः ।
विरलायमान-आदिषु क्यङ् निरूप्यः
5,2,30 अहेतौ हन्तेर्णिच् चुरादिपाठात् ।
अ-हेतौ हन्तेः णिच् चुर-आदि-पाठात्
5,2,31 अनुचरीति चरेष्टित्त्वात् ।
अनुचरी इति चरेः टित्त्वात्
5,2,32 केसरालमित्यलतेरणि ।
केसरालम् इति अलतेः अणि
5,2,33 पत्रलमिति लातेः के ।
पत्रलम् इति लातेः के
5,2,34 महीध्रादयो मूलविभुजादिदर्शनात् ।
महीध्र-आदयः मूल-विभुज-आदि-दर्शनात्
5,2,35 ब्रह्मादिषु हन्तेर्नियमादरिहाद्यसिद्धिः ।
ब्रह्म(न्)-आदिषु हन्तेः नियमात् अरि-ह(न्)-आदि-अ-सिद्धिः
5,2,36 ब्रह्मविदादयः कृदन्तवृत्त्या ।
ब्रह्म(न्)-विद्-आदयः कृदन्त-वृत्त्या
5,2,37 तैर्महीधरादयो व्याख्याताः ।
तैः मही-धर-आदयः व्याख्याताः
5,2,38 भिदुरादयः कर्मकर्तरि कर्तरि च ।
भिदुर-आदयः कर्म-कर्तरि कर्तरि च
5,2,39 गुणविस्तरादयश्चिन्त्याः ।
गुण-विस्तर-आदयः चिन्त्याः
5,2,40 अवतरापचायशब्दयोर्दीर्घह्रस्वत्वव्यत्यासो बालानाम् ।
अवतर-अपचाय-शब्दयोः दीर्घ-ह्रस्वत्व-व्यत्यासः बालानाम्
5,2,41 शोभेति निपातनात् ।
शोभा इति निपातनात्
5,2,42 अविधौ गुरोः स्त्रियां बहुलं विवक्षा ।
अ-विधौ गुरोः स्त्रियां बहुलं विवक्षा
5,2,43 व्यवसितादिषु क्तः कर्तरि चकारात् ।
व्यवसित-आदिषु क्तः कर्तरि चकारात्
5,2,44 आहेति भूतेऽन्यणलन्तभ्रमाद् ब्रुवो लटि ।
आह इति भूते अन्य-णल्-अन्त-भ्रमात् ब्रुवः लटि
5,2,45 शबलादिभ्यः स्त्रियां टापोऽप्राप्तिः ।
शबल-आदिभ्यः स्त्रियां टापः अ-प्राप्तिः
5,2,46 प्राणिनि नीलेति चिन्त्यम् ।
प्राणिनि नीला इति चिन्त्यम्
5,2,47 मनुष्यजातेर्विवक्षाविवक्षे ।
मनुष्य-जातेः विवक्षा-अविवक्षे
5,2,48 ऊकारान्तादप्यूङ्प्रवृत्तेः ।
ऊकार-अन्तात् अपि ऊङ्-प्रवृत्तेः
5,2,49 कार्तिकीय इति ठञ् दुर्धरः ।
कार्तिकीयः इति ठञ् दुर्धरः
5,2,50 शार्वरमिति च ।
शार्वरम् इति च
5,2,51 शाश्वतमिति प्रयुक्तेः ।
शाश्वतम् इति प्रयुक्तेः
5,2,52 राजवंश्यादयः साध्वर्थे यति भवन्ति ।
राज-वंश्या-आदयः साधु-अर्थे यति भवन्ति
5,2,53 दारवशब्दो दुष्प्रयुक्तः ।
दारव-शब्दः दुष्-प्रयुक्तः
5,2,54 मुग्धिमादिषु इमनिज्मृग्यः ।
मुग्धिमा-आदिषु इमनिज् मृग्यः
5,2,55 औपम्यादयश्चातुर्वण्र्यवत् ।
औपम्य-आदयः चातुर्-वण्र्यवत्
5,2,56 ष्यञः षित्करणादीकारो बहुलम् ।
ष्यञः षित्-करणात् ईकारः बहुलम्
5,2,57 धन्वीति व्रीह्यादिपाठात् ।
धन्वी इति व्रीहि-आदि-पाठात्
5,2,58 चतुरस्रशोभीति णिनौ ।
चतुरस्र-शोभि(अ) इति णिनौ
5,2,59 कञ्चुकीया इति क्यचि ।
कञ्चुकीयाः इति क्यचि
5,2,60 बौद्धप्रतियोग्यपेक्षायामपि आतिशायनिकाः ।
बौद्ध-प्रतियोगि(न्)-अपेक्षायाम् अपि आतिशायनिकाः
5,2,61 कौशिलादय इलचि वर्णलोपात् ।
कौशिल-आदयः इलचि वर्ण-लोपात्
5,2,62 मौक्तिकमिति विनयादिपाठात् ।
मौक्तिकम् इति विनय-आदि-पाठात्
5,2,63 प्रातिभादयः प्रज्ञादिषु ।
प्रातिभ-आदयः प्रज्ञा-आदिषु
5,2,64 न सरजसमित्यनव्ययीभावे ।
न सरजसम् इति अन्-अव्ययीभावे
5,2,65 न धृतधनुषीत्यसंज्ञायाम् ।
न धृत-धनुषि इति अ-संज्ञायाम्
5,2,66 दुर्गन्धि पदे इद्दुर्लभः ।
दुर्गन्धि पदे इद् दुर्लभः
5,2,67 सुदत्यादयः प्रतिविधेयाः ।
सुदति-आदयः प्रतिविधेयाः
5,2,68 क्षतदृढोरस इति न कप्तदन्तविधिप्रतिषेधात् ।
क्षत-दृढ-उरसः इति न कप् तद्-अन्त-विधि-प्रतिषेधात्
5,2,69 अवैहीति वृद्धिरवद्या ।
अवैहि इति वृद्धिः अवद्या
5,2,70 अपाङ्गनेत्रेति लुगलभ्यः ।
अपाङ्ग-नेत्रा इति लुक् अलभ्यः
5,2,71 नेष्टाः श्लिष्टप्रियादयः पुंवद्भावप्रतिषेधात् ।
न इष्टाः श्लिष्ट-प्रिय-आदयः पुंवद्-भाव-प्रतिषेधात्
5,2,72 दृढभक्तिरसौ सर्वत्र ।
दृढ-भक्तिः असौ सर्वत्र
5,2,73 जम्बुलतादयो ह्रस्वविधेः ।
जम्बु-लता-आदयः ह्रस्व-विधेः
5,2,74 तिलकादयोऽजिरादिषु ।
तिलक-आदयः अजिर-आदिषु
5,2,75 निशम्य निशमय्यशब्दौ प्रकृतिभेदात् ।
निशम्य निशमय्य-शब्दौ प्रकृति-भेदात्
5,2,76 संयम्यनियम्यशब्दावणिजन्तत्वात् ।
संयम्य-नियम्य-शब्दौ अणिजन्तत्वात्
5,2,77 प्रपीयेति पीङः ।
प्रपीय इति पीङः
5,2,78 दूरयतीति बहुलग्रहणात् ।
दूरयति इति बहुल-ग्रहणात्
5,2,79 गच्छतीप्रभृतिष्वनिषेध्यो नुम् ।
गच्छती-प्रभृतिषु अ-निषेध्यः नुम्
5,2,80 मित्रण गोप्त्रेति पुंवद्भावात् ।
मित्रेण गोप्त्रा इति पुंवद्-भावात्
5,2,81 वेत्स्यसीति पदभङ्गात् ।
वेत्स्यसि इति पद-भङ्गात्
5,2,82 कामयानशब्दः सिद्धोऽनादिश्चेत् ।
कामयान-शब्दः सिद्धः अनादिः चेत्
5,2,83 सौहृददौहृदावणि हृद्भावात् ।
सौहृद-दौहृदौ अणि हृद्-भावात्
5,2,84 विरम इति निपातनात् ।
विरमः इति निपातनात्
5,2,85 उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया ।
उपरि-आदिषु सामीप्ये द्विः-उक्तेषु द्वितीया
5,2,86 मन्दं मन्दमित्यप्रकारार्थत्वे ।
मन्दं मन्दम् इति अप्रकार-अर्थत्वे
5,2,87 न निद्राद्रुगिति भष्भावप्राप्तेः ।
न निद्रा-द्रुक् इति भष्-भाव-प्राप्तेः
5,2,88 निष्यन्द इति षत्वं चिन्त्यम् ।
निष्यन्दः इति षत्वं चिन्त्यम्
5,2,89 नांगुलिसंग इति मूर्धन्यविधेः ।
न अंगुलि-संगः इति मूर्धन्य-विधेः
5,2,90 तेनावन्तिसेनादयः प्रत्युक्ताः ।
तेन अवन्ति-सेन-आदयः प्रत्युक्ताः
5,2,91 नेन्द्रवाहने णत्वमाहितत्वस्याविवक्षितत्वात् ।
न इन्द्र-वाहने णत्वम् आहितत्वस्य अविवक्षितत्वात्