काव्यालङ्कारसूत्र-वृत्ति-काव्यालङ्कारकामधेनुः/पञ्चमाधिकरणम्

पञ्चममधिकरणम् ।।

संप्रति काव्यसमयं शब्दशुदिं्ध च दर्शयितुं प्रायोगिकाख्यमधिकरणमारभ्यते। तयत्र काव्यसमयस्तावदुच्यते-- नैकं पदं द्विः प्रयोज्यं प्रायेण ।। 1 ।। एकं पदं न द्विः प्रयोज्यं प्रायेण बाहुल्येन। यथा--"पयोदपयोद" इति। किंचिद्धि चादिपदं द्विरपि प्रयोक्तव्यमिति। नित्या संहितैकपदवत्पादेष्वर्धान्तवर्जम् ।। 2 ।। नित्या संहिता पादेषु एकपदवत् एकस्मिन्निव पदे। तत्र हि नित्या संहितेत्याम्नायः। यथाहुः--"संहितैकपदे नित्या नित्या धातूपसर्गयोः।" इति। अर्धान्तवर्जम् अर्धान्तं वर्जयित्वा।। न पादान्तलघोर्गुरुत्वं च सर्वत्र ।। 3 ।। पादान्तलघोर्गुरुत्वं प्रयोक्तव्यम्; न सर्वत्र न सर्वस्मिन् वृत्त इति। यथा-- "यासां बलिर्भवति मद्गृहदेहलीनां हंसैश्व सारसगणैश्व विलुप्तपूर्वः। तास्वेव पूर्वबलिरूढयवाङ्कुरासु बीजाञ्जलिः पतति कीटमुखावलीढः।।" एवंप्रायेष्वेव वृत्तेष्विति। न पुनः--"वरूथिनीनां रजसि प्रसर्पति समस्तमासीद्विनिमीलितं जगत्।" इत्यादिषु। चकारोऽर्धान्तवर्जमित्यस्यानुकर्षणार्थः। न गद्ये समाप्तप्रायं वृत्तमन्यत्रोद्गतादिभ्यः संवादात् ।। 4 ।। गद्ये समाप्तप्रायं वृत्तं न विधेयम्, शोभाभ्रंशात्। अन्यत्रोद्घतादिभ्यो विषमवृत्तेभ्यः, संवादाद्घद्येनेति। न पादादौ खल्वादयः ।। 5 ।। पादादौ खल्वादयः शब्दा न प्रयोज्याः। आदिशब्दः प्रकारार्थः। येषामादौ प्रयोगो न श्लिष्यति ते गृह्यन्ते। न पुनर्बतहन्तप्रभृतयः। नार्धे किंचित्समाप्तं वाक्यम् ।। 6 ।। वृत्त स्यार्धे किंचित्समाप्तं वाक्यं न प्रयोक्तव्यम्। यथा-- "जयन्ति ताण्डड्डत्ध्;वे शंभोर्भङ्गुराङ्गुलिकोटयः। कराः कृष्णस्य च भुजाश्वक्रांशुकपिशत्विषः।।" न कर्मधारयो बहुव्रीहिप्रतिपत्तिकरः ।। 7 ।। बहुव्रीहिप्रतिपतिं्त करोति यः कर्मधारयः, स न प्रयोक्तव्यः। यथा-- अध्यासितश्वासौ तरुश्वाध्यसिततरुरिति। तेन विपर्ययो व्याख्यातः ।। 8 ।। बहुव्रीहिरपि कर्मधारयप्रतिपत्तिकरो न प्रयोक्तव्यः। यथा--वीराः पुरुषा यस्य स वीरपुरुषः। कलो रवो यस्य स कलरवः इति। संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ ।। 9 ।। संभाव्यस्य निषेधस्य निवर्तने द्वौ प्रतिषेधौ प्रयोक्तव्यौ। यथा-- "समरमूर्धनि येन तरस्विना न न जितो विजयी त्रिदशेश्वरः। स खलु तापसबाणपरंपराकबलितक्षतजः क्षितिमाश्रितः।।" विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ ।। 10 ।। विशेष्यस्य प्रतिपत्तौ जातायां विशेषणमात्रस्यैव प्रयोगः। यथा--"निधानगर्भामिव सागराम्बराम्।" अत्र हि पृथिव्या विशेषणमात्रमेव प्रयुक्तम्। एतेन-- "क्रुद्धस्य तस्याथ पुरामरातेर्ललाटपट्टादुदगादुदर्चिः।" "गिरेस्तडिड्डत्ध्;त्वानिव तावदुच्चकैर्जवे पीठादुदतिष्ठदच्युतः।" इत्यादयः प्रयोगा व्याख्याताः। सर्वनाम्नानुसंधिर्वृत्तिच्छन्नस्य ।। 11 ।। सर्वनाम्न अनुसंधिः अनुसंधानं प्रत्यवमर्शः कार्यः, वृत्तिच्छन्नस्यवृत्तौ समासे च्छन्नस्य गुणीभूतस्य। यथा--"तवापि नीलोत्पलपत्रचक्षुषो मुखस्य तद्रेणुसमानगन्धिनः।" इति। संबन्धसंबन्धेऽपि षष्ठी क्वचित् ।। 12 ।। संबन्धेन संभन्धः संबन्धसंबन्धः तस्मिन् षष्ठी प्रयोज्या व्कचित्, नसर्वत्रेति। यथा--"कमलस्य कंदः" इति। कमलेन संबद्धा कमलिनी तस्याः कंद इति संबन्धसंबन्धः। तेन कदलीकाण्डड्डत्ध्;ादयो व्याख्याताः। अतिप्रयुक्तं देशभाषापदम् ।। 13 ।। अतीव कविभिः प्रयुक्तं देशभाषापदं प्रयोज्यम्। यथा--"योषिदित्यभिललाष न हालाम्।" इत्यत्र हालेति देशभाषापदम्। अनतिप्रयुक्तं तु न प्रयोज्यम्। यथा--"कङ्केलीकाननालीरविरलविलसत्पल्लवा नर्तयन्तः।" इत्यत्र कङ्केलीपदम्। लिङ्गाध्याहारौ ।। 14 ।। लिङ्गं च अध्याहारस्व लिङ्गाध्याहारौ अतिप्रयुक्तौ प्रयोज्याविति। लिङ्गं यथा-- "वत्से मा बहु निःश्वसीः कुरु सुरागण्ढूषमेकं शनैः।" इत्यादिषु गण्ढूषश्ब्दः पुंसि भूयसा प्रयुक्तः न स्त्रियाम्, आम्नातोऽपि स्त्रीत्वे। अध्याहारो यथा-- "मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा। वाहिनीजलभरः कुलिशं वास्वस्ति तेऽस्तु लतया सह वृक्ष।।" अत्र हि धाक्षीदित्यादीनामध्याहारोऽन्वयप्रयुक्त इति। लक्षणाशब्दाश्व ।। 15 ।। लक्षणाशब्दाश्व अतिप्रयुक्ताः प्रयोज्याः। यथा--द्विरेफरोदरशब्दौ भ्रमरचक्रवाकार्थौ लक्षणापरौ। अनतिप्रयुक्ताश्व न प्रयोज्याः। यथा--द्विकः काक इति। न तद्बाहुल्यमेकत्र ।। 16 ।। तेषां लक्षणाशब्दानां बाहुल्यमेकस्मिन् वाक्ये न प्रयोज्यम्। शक्यते ह्येकस्यावाचकस्य वाचकवद्भावः कर्तुम्, न बहूनामिति। स्तनादीनां द्वित्वाविष्टा जातिः प्रायेण ।। 17 ।। स्तनादीनां द्वित्वाविष्टा द्वित्वाध्यासिता जातिः प्रायेण बाहुल्येनेति। यथा--"स्तनयोस्तरुणीजनस्य" इति। प्रायेणैति वचनात् व्कचिन्न भवति, यथा--"स्त्रीणां चक्षुः" इति। अथ कथं द्वित्वाविष्टत्वं जातेः? तद्धि द्रव्ये, न जातौ; अतद्रूपत्वात्तस्याः। न दोषः; तद्रूपत्वाज्जातेः। कथं तद्रूपत्वं जातेः? तद्दि जैना जानन्ति। वयं तु लक्ष्यसिद्धौ सिद्धपरमतानुवादिनः। न चैवमतिप्रसङ्गः, लक्ष्यानुसारित्नान्न्यायस्येति। एवमन्यापि व्यवस्थोह्या। इति काव्यालंकारसूत्रवृत्तौ प्रायोगिके पञ्चमेऽधिकरणे प्रथमोऽध्यायः।। द्वितीयोऽध्यायः ।। सांप्रतं शब्दशुद्धिरुच्यते-- रुद्रावित्येकशेषोऽन्वेष्यः ।। 1 ।। रुद्रावित्यत्र प्रयोगे एकशेषः अन्वेष्यः अन्वेषणीयः। रुद्रश्व रुद्राणी चेति "पुमान् स्त्रिया" इत्येकशेषः; स च न प्राप्नोति। तत्र हि "तल्लक्षणश्वेदेव विशेषः" इत्यनुवर्तते इति तत्रैवकारकरणात् स्त्रीपुंसकृत एव यदि विशेषो भवतीति व्यवस्थितम्। अत्र तु "पुंयोगादाख्यायाम्" इति विशेषान्तरमप्यस्तीति। एतेनेन्द्रौ भवौ शर्वावित्यादयः प्रयोगाः प्रत्युक्ताः। मिलिक्लबिक्षपिप्रभृतीनां धातुत्वं धातुगणस्यापरिसमाप्तेः ।। 2 ।। मिलति विक्लबति क्षपयतीत्यादयः प्रयोगा दृश्यन्ते। तत्र मिलिक्लबिक्षपिप्रभृतीनां कथं धातुत्वम्, गणपठितानामेव धातुसंज्ञाविधानात्? तत्राह--धातुगणस्यापरिसमाप्तेः।"पर्धते धातुगणः" इति हि शब्दविद आचक्षते। तेनैषां गणपाठेऽनुमतिः, शिष्टप्रयोगादिति। वलेरात्मनेपदमनित्यं ज्ञापकात् ।। 3 ।। वलेरनुदात्तेत्त्वादात्मनेपदं यत्, तदनित्यं दृश्यते--"लज्जालोलं वलन्ती" इत्यादिप्रयोगेषु; त्त कथमित्याह--ज्ञापकात्। किं पुनस्तज्ज्ञापकम्? चक्षिङो द्व्यनुबन्धकरणम्। चक्षिङ इकारेणैवानुदात्तेन सिद्धमात्मनेपदम्; किमर्थं ङित्करणम्? तत्क्रियते अनुदात्तनिमित्तस#्यात्मनेपदस्यानित्यत्वज्ञापनार्थम्। एतेन वेदिभÐत्सतर्जिप्रभृतयो व्याख्याताः। आवेदयति, भत्र्सयति, तर्जयतीत्यादीनां प्रयोगाणां दर्शनात्। अन्यत्राप्यनुदात्तनिबन्धनस्यात्मनेपदस्यानित्यत्वं ज्ञापकेन द्रष्टव्यमिति। क्षीयत इति कर्मकर्तरि ।। 4 ।। क्षीयत इति प्रयोगो दृश्यते; स कर्मकर्तरि द्रष्टव्यः। क्षीयतेरनात्मनेपदित्वात्। खिद्यत इति च ।। 5 ।। खिद्यत इति च प्रयोगो दृश्यते, सोऽपि कर्मकर्तर्येव द्रष्टव्यः, न कर्तरि, अदैवादिकत्वात् खिदेः। मार्गेरात्मनेपदमलक्ष्म ।। 6 ।। चुरादौ "मार्ग अन्वषणे" इति पठ्यते "आ धृषाद्वा" इति विकल्पितणिच्कः। तस्माद्यदात्मनेपदं दृस्यते--मार्गन्तां देहभारमिति; तत् अलक्ष्म अलक्षणम्, परस्मैपदित्वान्मार्गेः। तथा च शिष्टप्रयोगः--"करकिसलयं धूत्वा धूत्वा विमार्गति वाससी।" लोलमानादयश्वानशि ।। 7 ।। लोलमानो वेल्लमान इत्यादश्वानशि द्रष्टव्याः शानचस्त्वाभावः, परस्मैपदित्वाद्धातूनामिति। लभेर्गत्यर्थत्वाण्णिच्यणौ कर्तुः कर्मत्वाकर्मत्वे ।। 8 ।। अस्त्ययं लभिः, यः प्राप्त्युपसर्जनां गतिमाह; अस्ति च यो गत्युपसर्जनां प्राप्तिमाहेति। अत्र पूर्वस्मिन् पक्षे गत्यर्थत्वाल्लभेर्णिचि अणौ यः कर्ता, तस्य गत्यादिसूत्रेण कर्मसंज्ञा। यथा--"दीर्घिकासु कुमुदानि विकासं लम्भयन्ति शिशिराः शशिभासः।" द्वितीये तु पक्षे गत्यर्थत्वाभावाल्लभेर्णिच्यणौ कर्तुर्न कर्मसंज्ञा। यथा-- "सितं सितिम्ना सुतरां मुनेर्वपु- र्विसारिभिः सौधमिवाथ लम्भयम्। द्विजावलिव्याजनिशाकरांशुभइः शुचिस्मितां वाचमवोचदच्युतः।।" तेमेशब्दौ निपातेषु ।। 9 ।। त्वया मयेत्यस्मिन्नर्थे ते-मे-शब्दौ निपातेषु द्रष्टव्यौ। यथा--"श्रुतं ते वचनं तस्य" "वेदानधीत इति नाधिगतं पुरा मे।" तिरस्कृत इति परिभूतेऽन्तध्र्युपचारात् ।। 10 ।। तिरस्कृतशब्दः परिभूते दृश्यते-- "राज्ञा तिरस्कृतः" इति; स च न प्राप्नोति। तिरःशब्दस्य हि "तिरोऽन्तर्धौ" इत्यन्तर्धौ गतिसंज्ञा। तस्यां च सत्याम् "तिरसोऽन्यतरस्याम्" इति सकारः। तत्कथं तिरस्कृत इति परिभूते? आह--अन्तध्र्युपचारादिति। परिभूतो ह्यन्तर्हितवद्भवति। मुख्यस्तु प्रयोगो यथा-- "लावण्यप्रसरतिरस्कृताङ्गलेखाम्।" नैकशब्दः सुप्सुपेति समासात् ।। 11 ।। "अरण्यानीस्थानं फलनमितनैकद्रुममिदम्" इत्यादिषु नैकशब्दो दृश्यते; स च न सिध्यति। नञ्समासे हि "नलोपो नञः" इति नलोपे "तस्मान्नुडड्डत्ध्;चि" इति नुडड्डत्ध्;ागमे सति अनेकमिति रूपं स्यात्। निरनुबन्धकस्य नशब्दस्य समासे लक्षणं नास्ति। तत् कथं नैकशब्द इत्यत्राह--सुप्सुपेति समास#ात्। मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पाठात् ।। 12 ।। "मधुपिपासुमधुव्रतसेवितं मुकुलजालमजृम्भत वीरुधाम्" इत्यादिषु मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पिपासुप्रभृतीनां पाठात्। "श्रितादिषु गमिगाम्यादीनामुपसंख्यानम्" इति द्वितीयासमासलक्षणं दर्शयति। त्रिवलीशव्दः सिद्धःसंज्ञा चेत् ।। 13 ।। त्रिवलीशब्दः सिद्धो यदि संज्ञा, "दिक्संख्ये संज्ञायाम्" इति संज्ञायामेव समासविधानात्। बिम्बाधर इति वृत्तौ मध्यमपदलोपिन्याम् ।। 14 ।। "बिम्बाधरः पीयते" इति प्रयोगो दृश्यते; स च न युक्तः। अधरबिम्ब इति भवितव्यम्, "उपमितं व्याघ्रादिभिः--" इति समासे सति। तत् कथं बिम्बाधर इति? आह--वृत्तौ मध्यमपदलोपिन्याम्। शाकपार्थिवादित्वात् समासे मध्यमपदलोपिनि सति बिम्बाकारोऽधरो बिम्बाधर इति। तेन बिम्बोष्ठशब्दोऽपि व्याख्यातः। अत्रापि पूर्ववद्वृत्तिः। शिष्टप्रयोगेषु चैष विधिः। तेन नातिप्कसङ्गः। आमुललोलादिषु वृत्तिर्विस्पष्टपटुवत् ।। 16 ।। "आमूललोलम्" "आमूलसरसम्" इत्यादिषु वृत्तिर्विस्पष्टपटुवत् मयूरव्यंसकादित्वात्। न धान्यषष्ठादिषु षष्ठीसमासप्रतिषेधः पूरणेन तद्धितान्तत्वात् ।। 17 ।। "धान्यषष्ठम्" "तान्युञ्छषष्टाङ्कितसैकतानि" इत्यादिषु न षष्टीसमासप्रतिषेधः पूरणेन पूरणप्रत्ययान्तेन तद्धितान्तत्वात् षष्ठो भागः षष्ठ इति; "पूरणाद्भागो तीयादन्" "षष्ठाष्टमाभ्यां ञ च" इत्यन्विधानात्। पत्रपीतिमादिषु गुणवचनेन ।। 18 ।। "पत्रपीतिमा," "पक्ष्मालीपिढद्धठ्ठड़14;गलिम्नः" इत्यादिषु षष्ठीसमासप्रतिषेधो गुणवचनेन प्राप्तः, बालिस्यात्तु न कृतः। अवज्र्यो बहुव्रीहिव्र्यधिकरणो जम्नाद्युत्तरपदः ।। 19 ।। अवज्र्यो न वर्जनीयो व्यधिकरणो बहुव्रीहिः। जन्मादि उत्तरपदं यस्य स जन्माद्युत्तरपदः। यथा--"सच्छास्त्रजन्मो हि विवेकलाभः" "कान्तवृत्तयः प्राणाः" इति। हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदात् ।। 20 ।। हस्ताग्रम्, अग्रहस्तः, पुष्पाग्रम्, अग्रपुष्पम्, इत्यादयः प्रयोगाः कथम्; आहिताग्न्यादिष्वपाठात्, पाठे वा तदनियमः स्यात्? आह--गुणगुणिनोर्भेदाभेदात्। तत्र भेदात् हस्ताग्रादयः। अभेदात् अग्रहस्तादयः। पूर्वनिपातेऽपभ्रंशो रक्ष्यः ।। 21 ।। काष्ठतृणं तृणकाष्ठमिति यदृच्छया पूर्वनिपातं कुर्वन्ति। तत्रापभ्रंसो रक्ष्यः परिहरणीयः। अनित्यत्वज्ञापनं तु न सर्वविषयमिति। निपातेनाप्यमभिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात् ।। 22 ।। "अनभिहिते" इत्यत्र सूत्रे "तिङ्कृत्तद्धितसमासैः" इति परिगणनं कृतम्। तस्य प्रायिकत्वान्निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिर्भवति। यथा--"विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्" "पण्डितं मूर्ख इति मन्यते" इति। शक्यमिति रूपं कर्माभिधायां वि लिङ्गवचनस्यापि सामान्योपक्रमात् ।। 23 ।। शकेः "शकिसहोश्व" इति कर्मणि यति सति शक्यमिति रूपं भवति कर्माभिधायां कर्मवचने। लिङ्गवचनस्यापि सामान्योपक्रमात् निशेषानपेक्षायामिति। यथा-- "शक्यमोषधिपतेर्नवोदयाः कर्णपूररचनाकृते तव। अप्रगल्भयवसूचिकोमलास्छेत्तुमग्रनखसंपुटैः कराः।।" न चैकान्तिकः सामान्योपक्रमः। तेन "शक्या भङ्क्तुं झटितिबिसिनीकंदवच्चन्द्रपादाः" इत्यपि भवति। हानिवदाधिक्यमप्यङ्गानां विकारः ।। 24 ।। "येनाङ्गविकारः" इत्यत्र सूत्रे यथा अङ्गानां हानिः, तथा आधिक्यमपि विकारः। चथा "अक्ष्णा काणः" इति भवति, तथा "मुखेन त्रिलोचनः" इत्यपि भवति। न कृमिकीटानामित्येकवद्भावप्रसङ्गात् ।। 25 ।। "आयुषः कृमिकीटानामलंकरणमल्पता" इत्यत्र कृमिकीटानामिति प्रयोगो न युक्तः, "क्षुद्रजन्तवः" इत्येकबद्भावप्रसङ्गात्। न च मध्यमपदलोपी समासो युक्तः, तस्य असर्वविषयत्वात्। न खरोष्ट्रावुष्ट्रखरमिति पाठात् ।। 26 ।। "खरोष्ट्रौ वाहनं येषाम्" इत्यत्र खरोष्ट्राविति प्रयोगो न युक्तः, गवाश्वप्रभृतिषु "उष्ट्रखरम्" इति पाठात्। आसेत्यसतेः ।। 27 ।। "लावण्यमुत्पाद्य इवास यत्नः" इत्यत्र आस इत्यसतेर्धातोः "असगतिदीप्त्यादानेषु" इत्यस्य प्रयोगः; न अस्तेः, भूभावविधानात्। युध्येदिति युधः क्यचि ।। 28 ।। "यो भर्तृपिण्डड्डत्ध्;स्य कृते न युध्येत्" इति प्रयोगः; स चायुक्तः, युधेरात्मनेपदित्वात्। तत् कथं युध्येदित्यत्राह--युधः क्यचि। युधमात्मन इच्छेत् युध्येदिति। विरलायमानादिषु क्यङ् निरूप्यः ।। 29 ।। "विरलायमाने मलयमारुते" इत्यादिषु क्यङ् निरूप्यः, भृशादिष्वपाठात्। नापि स्यष्, लोहितादिष्वपाठात्। अहेतौ हन्तेर्णिच् चुरादिपाठात् ।। 30 ।। "घातयित्वा दशास्यम्" इत्यत्राहेतौ णिच् दृश्यते; स कथमित्यत आह-- चुरादिपाठात्, चुरादिषु "चट स्फुट भेदे" "घट संघाते" "हन्त्यर्थाश्व" इति पाठात्। अनुचरीति चरेष्टित्त्वात् ।। 31 ।। "अनुचरी प्रियतमा मदालसा" इत्यत्र अनुचरीति न युक्तः, ईकाराभावात्। तत् कथम्? आह--चरेष्टित्त्वात्। पचादिषु चरडिड्डत्ध्;ति पठ्यते। केसरालमित्यलतेरणि ।। 32 ।। "केसरालं शिलीध्रम्" इत्यत्र केसरालमिति कथम्? आह--अलतेरणि। "अल भूषणपर्याप्तिवारणेषु" इत्यस्माद्धातोः केसरशब्दे कर्मण्युपपदे "कर्मण्यण्" "इत्यनेन अणि सति केसरालमिति सिध्यति। पत्रलमिति लातेः के ।। 33 ।। "पत्रलं वनमिदं विराजते" इत्यत्र पत्रलमिति कथम्? आह--लातेः के। "ला आदाने"इत्येतस्माद्धातोरादानार्थात् पत्रशब्दे कर्मण्युपपदे, "आतोऽनुपसर्गे कः" इति कप्रत्यये सतीति। महीध्रादयो मूलविभुजादिदर्शनात् ।। 34 ।। महीध्रधरणीध्रादयः शब्दाः, मूलविभुजादिदर्शनात् कप्रत्यये सतीति। महीं धरतीति महीध्र इति। एवमादयोऽन्येऽपि द्रष्टव्याः। ब्रढद्धठ्ठड़14;नादिषु हन्तेर्नियमादरिहाद्यसिद्धिः ।। 35 ।। ब्रढद्धठ्ठड़14;नादिषूपपदेषु हन्तेः व्किब्विधौ "ब्रढद्धठ्ठड़14;नभ्रूणवृत्रेषु--" इत्यत्र नियमात् ब्रढद्धठ्ठड़14;नादिष्वेव, हन्तेरेव, व्किबेव, भूतकार एवेति चतुर्विधश्वात्र नियम इति नियमात् अरिहा रिपुहा इत्येवमादीनामसिद्धिः। ब्रढद्धठ्ठड़14;नविदादयः कृदन्तवृत्त्या ।। 36 ।। ब्रढद्धठ्ठड़14;नवित्, वृत्रभिदित्यादयः प्रयोगा न युक्ताः। "ब्रढद्धठ्ठड़14;नभ्रूण--" इत्यत्र ब्रढद्धठ्ठड़14;नादिषु हन्तेरेव इति नियमात्। आह--कृदन्तवृत्त्या। वेत्तीति वित्। भिनत्तीति भिनत्तीति भित्। "व्किप् च" इति व्किप्। ततः कृदन्तैर्विदादिभिः सह ब्रढद्धठ्ठड़14;नादीनां षष्ठीसमास इति। तैर्महीधरादयो व्याख्याताः ।। 37 ।। तैः ब्रढद्धठ्ठड़14;नविदादिभिर्महीधरादयो व्याख्याताः। धरतीति धरः, पचाद्यच, मह्या धरो महीधरः। एवं एङ्गाधरादयः। भिदुरादयः कर्मकर्तरि कर्तरि च ।। 38 ।। "भिदुरं काष्ठम्" "भिदुरं तमः" "तिमिरभिदुरं व्योम्नः श्रृढद्धठ्ठड़14;गम्" इति, "छिदुरातपो दिवसः" "मत्सरच्छिदुरं प्रेम" "भङ्गुरा प्रीतिः" "मातङ्गं मानभङ्गुरम्" इत्यादयोऽपि प्रयोगा दृश्यन्ते; ते कथमित्यत्राह--कर्मकर्तरि कर्तरि च। "कर्मकर्तरि चायमिष्यते" इत्यत्र चकारः "कर्तरिच" इत्यस्य समुच्चयार्थः। गुणविस्तरादयश्विनत्याः ।। 39 ।। गुणविस्तरः, व्याक्षेपविस्तर इत्यादयः प्रयोगाश्विन्त्याः, "प्रथने वावशब्दे" इति घञ्प्रसङ्गात्। अवतरापचायशब्दयोर्दीर्घव्यत्यासो बालानाम् ।। 40 ।। अवतरशब्दस्य, अपचायशब्दस्य च दीर्घत्वढद्धठ्ठड़14;वस्वत्वव्यत्यासो बालानां बालिशानां प्रयोगेष्विति। ते ह्यवतरणमवतार इति प्रयुञ्जते--मारुतावतार इति; स ह्ययुक्तः, भावे तरतेरब्विधानात्। अपचायमपचय इति प्रयुञ्जते--पुष्पापचय इति। अत्र "हस्तादाने चेरस्तेये" इति घञ् प्राप्त इति। शोभेति निपातनात् ।। 41 ।। शोभेत्ययं शब्दः साधुः निपातनात् "श्भ शुम्भ शोभार्थौ" इति। शुभेर्भिदादेराकृतिगणत्वादङ् सिद्ध एव। गुणप्रतिषेधाभावस्तु निपात्यत इति। शोभार्थावित्यत्रैकदेशे किं शोभा, आहोस्विच्छोभ इति विशेषावगतिराजार्यपरम्परोपदेशादिति। अविधौ गुरोः स्त्रियां बहुलं विवक्षा ।। 42 ।। अविधौ "गुरोश्व हलः" इति अविधाने स्त्रियां बहुलं विवक्षा क्वचिद्विवक्षा, क्वचिदविवक्षा, व्कचिदुभयमिति। विवक्षा यथा--ईहा लज्जेति। अविवक्षा यथा -- आतङ्क इति। विवक्षाविवक्षे यथा-- बाधा बाधः, ऊहा ऊहः, व्रीडड्डत्ध्;ा व्रीडड्डत्ध्; इति। व्यवसितादिषु क्तः कर्तरि चकारात् ।। 43 ।। व्यवसितः प्रतिपन्न इत्यादिषु भावकर्मविहितोऽपि क्तः कर्तरि। गत्यादिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात्। भावकर्मानुकर्षणार्थत्वं चकारस्येति चेत्, आवृत्तिः कर्तव्या। आहेति भूतेऽन्यणलन्तभ्रमाद्ब्रुवो लटि ।। 44 ।। "ब्रुवः पञ्चानाम्" इत्यादिना आहेति लट् व्युत्पादितः; स भूते प्रयुक्तः "इत्याह भगवान् प्रभुः" इति। अन्यस्य भूतकालाभिधायिनो लिटि णलन्तस्य भ्रमात्। निपुणाश्वैवं प्रयुञ्जते--"आह स्म स्मितमधुराक्षरां गिरम्" इति। "अनुकरोति भगवतो नारायणस्य" इत्यत्रापि, मन्ये,स्मशब्दः कविना प्रयुक्तो लेखकैस्तु प्रमादान्न लिखित इति। शबलादिभ्यः स्त्रियां टापोऽपिराप्तिः ।। 45 ।। "उपस्रोतःस्वस्थस्थितमहिषश्रृङ्गाग्रशबलाः स्रवन्तीनां जाताः प्रमु दितविहङ्गास्तटभुवः" "ब्रमरोत्करकल्माषाः कुसुमानां समृद्धयः" इत्यादिषु स्त्रियां टापोऽप्राप्तिः "अन्यतो ङीषु" इति ङीष्विधानात्। तेन शबली कल्माषीति भवति। प्रणिनि नीलेति चिन्त्यम् ।। 46 ।। "कुवलयदलनीला कोकिलसा बालचूते" इत्यादिषु नीलेति चिन्त्यम्। कोकिला नीलीति भवितव्यम्, नीलशब्दात् "जानपद--" इत्यादिसूत्रेण "प्राणिनि च" इति ङीष्विधानात्। मनुष्यजातेर्विवक्षाविवक्षे ।। 47 ।। "इतो मनुष्यजातेः" "उङ्तः" इत्यत्र च मनुष्यजातेर्विवक्षा, अविवक्षा च लक्ष्यानुसारतः। "मन्दरस्य मदिराक्षि पाश्र्वतो निम्ननाभि न भवन्ति तिम्नगाः। वासु वासुकिविकर्षणोद्भवा भामिनीह पदवी विभाव्यते।।" अत्र मनुष्यजातेर्विवक्षायाम् "इतो मनुष्यजातेः" इति ङीषि सति "अम्बार्थनद्योह्र्रस्वः" इति संबुद्धौ ढद्धठ्ठड़14;वस्वत्वं सिध्यति। नाबिशब्दात्पुनः "इतश्व प्राण्यङ्गात्" इतीकारे कृते निम्ननाभीके इति स्यात्। "हृतोष्ठारागैर्नयनोदबिन्दुभिर्निमग्ननाभेर्निपतद्भिरङ्कितम्। च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्याममिदं स्तनांशुकम्।।" अत्र निमग्ननाभेरिति मनुष्यजातेरविवक्षेति ङीष् न कृतः। "सुतनु जहिहि मानं पश्य पादानतं माम्" इत्यत्र मनुष्यजातेर्विवक्षेति सुतनुशब्दात् "ऊङुतः" इत्यूहि सति ढद्धठ्ठड़14;वस्वत्बे सुतन्विति सिध्यति। "वरतनुरथ वास्मिन्नैव दृष्टा त्वया मे।" अत्र मनुष्यजातेरविवक्षेत्यूङ् न कृतः। उकारान्तादप्यूङ् प्रवृत्तेः ।। 48 ।। उत ऊङ् विहित ऊकारान्तादपि व्कचित् भवति। आचार्यप्रवृत्तेः। व्कासौ प्रवृत्तिः? "अप्राणिजातेश्वारज्ज्वादीनाम्" इति। अलाबूः, कर्कन्धूरित्युदाहणम्। तेन "सुभ्रु किं संभ्रमेण"। अत्र सुभ्रुशब्दः ऊङि सिद्धो भवति। ऊङि त्वसति सुभ्रूरिति स्यात्। कार्तिकीय इति ठञ् दुर्धरः ।। 49 ।। "कार्तिकीयो नभस्वान्" इत्यत्र "कालाट्ठञ्" इति ठञ् दुर्धरः। ठञ् भवन् दुःखेन ध्रियत इति। शार्वरमिति च ।। 50 ।। शार्वरं तम इत्यत्र च "कालाट्ठञ्" इति ठञ् दुर्धरः। शा श्वतमिति प्रयुक्तेः ।। 51 ।। शाश्वतं ज्योतिरित्यत्र शाश्वतमिति न सिध्यति, "कालाट्ठञ्" इति ठञ्प्रसङ्गात्। "येषां च विरोधः शाश्वतिकः" इति सूत्रकारस्यापि प्रयोगः। आह--प्रयुक्तेः। "शाश्वते प्रतिषेधः" इति प्रयोगात् शाश्वतमिति भवति। राजवंश्यादयः साध्वर्थे यति भवन्ति ।। 52 ।। राजवंश्याः, सूर्यवंश्या इत्यादयः शब्दाः "तत्र सुधुः" इत्यनेन साध्वर्थे यति प्रत्यये सति साधवो भवन्ति । भवार्थे पुनर्दिगादिपाठेऽपि वंशशब्दस्य वंशशब्दान्तान्न यत्प्रत्ययः, तदन्तविधेः प्रतिषेधान्। दारवशब्दो दुष्प्रयुक्तः ।। 53 ।। दारवं पात्रमिति दारवशब्दो दुष्प्रयुक्तः। "नित्यं वृद्धशरादिभ्यः" इति मयटा भवितव्यम्। ननु विकारावयवयोरर्थयोर्मयट् विधीयते; अत्र तु इदमिति विवक्षायां दारवमिति भाविष्यति? नैतदेवम्; "वृद्धाच्छः" इति च्छविधानात्। मुग्धिमादिष्विमनिझ्मृग्यः ।। 54 ।। मुग्धिमा, प्रौढिमा इत्यादिषु इमनिच् मृग्यः अन्वेषणीय इति। औपम्यादयश्वातुर्वण्र्यवत् ।। 55 ।। औपम्यं सांनिध्यमित्यादयः चातुर्वण्र्यवत् "गुणवचन--" इत्यत्र "चातुर्वण्र्यादीनामुपसंख्यानम्" इति वार्तिकात् स्वार्थिकष्यञन्ताः। ष्यञः षित्करणादीकारो बहुलम् ।। 56 ।। "गुणवचनब्राढद्धठ्ठड़14;नणादिभ्यः--" इति यः ष्यञ्, तस्य षित्करणादीकारो भवति बहुलम्। ब्राढद्धठ्ठड़14;नण्यमित्यादिषु न भवति। सामग्र्यमित्यादिषु विकल्पितः--सामग्र्यं सामग्री, वैदग्ध्यं वैदग्धीति। धन्वीति व्रीह्यादिपाठात् ।। 57 ।। व्रीह्यादिषु धन्वन्शब्दस्य पाठाद्धन्वीति इनौ सति सिद्धो भवति। चतुरश्रशोभीति णिनौ ।। 58 ।। "बभूत वस्याश्वतुरश्रशोभि वपुर्विभक्तं नावयौवनेन" इत्यत्र चतुरश्रशोभीति न युक्तम्; व्रीह्यादिपु शोभाशब्दस्य पाठेऽपि इनिरत्र न मिध्यति "ग्रहणवता प्रातिपदिकेन" इति तदन्तविधिप्रतिषेधात्। भवतु वा तदन्तविधिः। कर्मधारयान्मत्वर्थीयानुपपत्तिर्लघुत्वात् क्लमस्येति बहुव्रीहिणैव भवितव्यम्। तत्कथं मत्वर्थीयस्याप्राप्तौ चतुरश्रशोभीति प्रयोगः? आह--णिनौ चतुरश्रं शोभत इति ताच्छीलिके णिनावयं प्रयोगः। अथ "अनुमेयशोभि" इति कथम्? नह्यत्र पूर्ववद्वृत्तिः शक्या कर्तुमिति; शुभेः साधुकारिण्यावश्यके वा णिनिं कृत्वा तदन्ताच्च भावप्रत्यये पश्वात् बहुव्रीहिः कर्तव्यः--अनुमेयं शोभित्वं यस्येति। भावप्रत्ययस्तु गतार्थत्वान्न प्रयुक्तः, यथा--निराकुलं तिष्ठति, सधीरम#ुवाचेति। कञ्चुकीया इति क्यचि ।। 59 ।। "जीवन्ति राजमहिषीमनु कञ्चुकीयाः" इति कथम्? मत्वर्थीयस्य च्छप्रत्ययस्याभावात्। अत आह--क्यचि। क्यचि अच्प्रत्यये सति कञ्चुकीया इति भवति; कञ्चुकमात्मन इच्छन्ति कञ्चुकीयाः। बौद्धप्रतियोग्यपेक्षायामप्यातिशायनिकाः ।। 60 ।। बौद्धस्य प्रतियोगिनोऽपेक्षायामपि आतिशायनिकास्तरबादयो भवन्ति--घनतरं तमः, बहुलतरं प्रेमेति। कौशिलादय इलचि वर्णलोपात् ।। 61 ।। कौशिलः, वासिल इत्यादयः कथम्? आह--इलचि वर्णलोपात् कौशिकवासिष्ठादभ्यः शब्देभ्यो नीतावनुकम्पायां वा "घनिलचौ च" इतीलचि कृते "ठाजादावूध्र्वं द्वितीयादचः" इति वर्णलोपात् सिध्यति। मौक्तिकमिति वनयादिपाठात् ।। 62 ।। मुक्तैव मौक्तिकमिति विनयादिपाठात् द्रष्टव्यम्। "स्वार्थिकास्व प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते" इति नपुंसकत्वम्। प्रातिभादयः प्रज्ञादिषु ।। 63 ।। प्रातिभादयः शब्दाः प्रज्ञादिषु द्रष्टव्याः। प्रतिभाविकृतिद्वितादिभ्यः शब्देभ्यः प्रज्ञादिपाठादणि स्वार्थिके कृते प्रातिभम्, वैकृतम्, द्वैतमित्यादयः प्रयोगाः सिध्यन्तीति। न सरजसमित्यनव्ययीभावे ।। 64 ।। "मधु सरजसं मध्येपझं पिबन्ति शिलीमुखाः" इत्यादिषु सरजसमिति न युक्तः प्रयोगोऽनव्ययीभावे, अव्ययीभाव एव सरजसशब्दस्येष्टत्वात्। न धृतधनुषीत्यसंज्ञायाम् ।। 65 ।। "धृतधनुषि शौर्यशालिनि" इत्यत्र धृतधनुषीति असंज्ञायां न युक्तः प्रयोगः, "धनुषश्व" इत्यनङ्विधानात्। संज्ञायां ह्यनङ् विकल्पितः "वा संज्ञायाम्" इति। दुर्गन्धिपद इद्दुर्लभः ।। 66 ।। "दुर्गन्धिः कायः" इत्यादिषु दुर्गन्धिपदे इत् समासान्तो दुर्लभः, उत्पूत्यादिषु दुःशब्दस्यापाठात्। सुदत्यादयः प्रतिविधेयाः ।। 67 ।। "सा दक्षरोषात्सुदती ससर्ज" इति, "शिखरदति पतति रशना" इत्यादिषु सुदत्यादयः शब्दाः प्रतिविधेयाः, दत्रादेशलक्षणाभावात्। तत्र प्रतिविधानम्--अग्रान्तादिशूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् सुदत्यादिषु दत्रादेश इत्येके। अन्ये तु वर्णयन्ति--सुदत्यादयः स्त्र्यभ#िधायिनो योगरूढशब्दाः; तेषु "स्त्रियां संज्ञायाम्" इति दत्रादेशो विकल्पेन सिद्ध एवेति । क्षतदृढोरस इति न कप्तदन्तविधिप्रतिषेधात् ।। 68 ।। "प्लवंगनखकोटिभिः क्षतदृढोरसो राक्षसाः" इत्यत्र दृढोरःशब्दात्, "उरःप्रभृतिभ्यः कप्" इति कप् न कृतः, "प्रहणवता प्रातिपदिकेन" इति तदन्तविधेः प्रतिषेधात्। समासवाक्यं त्वेवं कर्तव्यम्--क्षतं दृढोरो येषामिति। अवैहीति वृद्धिरवद्या ।। 69 ।। अवैहीत्य6 वृद्धिरवद्या; गुण एव युक्त इति। अपाङ्गनेत्रेति लुगलभ्यः ।। 70 ।। अपाङ्गे नेत्रं यस्याः सेयमपाढद्धठ्ठड़14;गनेत्रेत्यत्र लुक् अलभ्यः, "अमूर्धमस्तकात्स्वाङ्गादकामे" इति सप्तम्या अलुग्विधानात्। नेष्टाः श्लिष्टप्रियादयः पुंवद्भावप्रतिषेधात् ।। 71 ।। श्लिष्टप्रियः, विश्लिष्टकान्त इत्यादयो नेष्टाः, "स्त्रियाः पुंवत्--" इति पुंवद्भावस्य प्रियादिषु निषेधात्। दृढभक्तिरिति सर्वत्र ।। 72 ।। "दृढभक्तिरसौ ज्येष्ठे" अत्र पूर्वपदस्य अस्त्रियां विवक्षितत्वात्। जम्बुलतादयो ह्रस्वविधेः ।। 73 ।। जम्बुलतादयः प्रयोगाः कथम्? आह--हस्वविधेः। "इको ह्रस्वोऽङ्यो गालवस्य" इति हस्वविधानात्। तिलकादयोऽजिरादिषु ।। 74 ।। तिलकादयः शब्दा अजिरादिषु द्रष्टव्याः अन्यथा तिलकवती कनकवतीत्यादिषु मतुपि "मतौ बढद्धठ्ठड़14;वचोऽनजिरादीनाम्" इति दीर्घत्वं स्यात्। अन्ये तु वर्णयन्ति--"नद्यां मतुप्" इति यो मतुप् तत्रायं विधिः; तेषां मतं न, अमरावतीत्यादीनामसिद्धेः। निशम्यनिशमय्यशब्दौ प्रकृतिभेदात् ।। 75 ।। निशम्य निसमय्येत्येतौ शब्दौ श्रुत्वेत्येतस्मिन्नर्थे। शमेः ल्यपि "ल्यपि लघुपूर्वात्" इत्ययादेशे सति निशमय्येति भवितव्यम्; न निशम्येति। आह--प्रकृतिभेदात्। शमेर्दैवादिकस्य निशम्येति रूपम्। "शमो दर्शने" इति चुरादौ णिचि मित्संज्ञकस्य निशमय्येति रूपम्। संयम्यनियम्यशब्दावणिजन्तत्वात् ।। 76 ।। कथं संयम्यनियम्यशब्दौ? ल्यपि "ल्यपि लघुपूर्वात्" इति णेरयादेशेन भवितव्यम्। आह-- अणिजन्तत्वात्। धातोर्णिच् तु न, गता र्थत्वात्; यथा--वाचं नियच्छति इति। णिजर्थानवगतौ णिच् प्रयुज्यते एव; मथा--संयमयितुमारब्ध इति। प्रपीयेति पीङः ।। 77 ।। प्रपीयेत्ययं शब्दः "पीङ् पाने" इत्येतस्य। पिभतेर्हि "नल्यपि" इतीत्वप्रतिषेधात् प्रपायेति भवति। दूरयतीति बहुलग्रहणात् ।। 78 ।। "दूरयत्यवनते विवस्वति" इत्यत्र दूरयतीति कथम्? "णाविष्ठवद्भावे "स्थूलदूर--" इत्यादिना गुणलोपयोः कृतयोर्दवयतीति भवितव्यम्। आह--बहुलग्रहणात्। "प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च" इत्यत्र बहुलग्रहणात् स्थूलदूरादिसूत्रेण यद्विहितं तन्न भविष्यतीति। गच्छतीप्रभृतिष्वनिषेध्यो नुम् ।। 79 ।। "हरति हि वनराजिर्गच्छती श्यामभावम्" इत्यादिषु गच्छतीप्रभृतिषु शब्देषु "शप्श्यनोर्नित्यम्" इति नुम् अनिषेध्यो निषेद्धुमशक्यः। मित्रेण गोप्त्रेति पुंवद्भावात् ।। 80 ।। मित्रेण गोप्त्रेति कथम्? 8गोप्तृणा इति भवितव्यम्, "इकोऽचिविभक्तौ" इति नुम्विधानात्। आह--पुंवद्भावात् "तृतीयादिषु भापि तपुंस्कं पुंवद्गालवस्य" इति पुंवद्भावेन गोप्त्रेति भवति। वेत्स्यसीति पदभङ्गात् ।। 81 ।। "पतितं वेत्स्यति क्षितौ" इत्यत्र वेत्स्यसीति न सिध्यति, इट्प्रसङ्गात्। आह--पदभङ्गात्। वेत्स्यसीति पदं भज्यते--वेत्सि, असि। असीत्ययं निपातस्त्वमित्यस्मिन्नर्थे। व्कचिद्वाक्यालंकारे प्रयुज्यते। यथा--"पार्थिवस्त्वमसि सत्यमभ्यधाः" इति। कामयानशब्दः सिद्धोऽनादिश्वेत् ।। 82 ।। कामयानशब्दः सिद्धः "आगमानुशासनमनित्यम्" इति मुक्यक-ते; यद्यनादिः स्यात्। सौहृददौर्हृदशब्दावणि हृद्भवात् ।। 83 ।। सुहृदयदुर्हृदयशब्दाभ्यां युवादिपाठादणि कृते हृदयस्य हृद्भावे आदिवृद्धौ सौहृददौर्हृदशब्दौ भवतः। सुहृद्दुर्हृच्छब्दाभ्यां युवादिपाठादेवाणि कृते "हृद्भगसिन्ध्वन्ते--" इति हृदन्तस्य तद्धितेऽणि सत्युभयपदवृद्धौ सत्यां सौहार्दं दौर्हार्दमिति भवति। विरम इति निपातनात् ।। 84 ।। रमेरनुदात्तोपदेशत्वात् "नोदात्तोपदेशस्य--" इत्यादिना वृद्धिप्रतिषेधस्याबावात् कथं विरम इति? आह--निपातन्त् "यम उपरमे" इत्यत्र उपरमे इति। एतत्तु उपलक्षणम्, अतन्त्रं च उपोपसर्ग इति। उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया ।। 85 ।। उपर्यादिषु शब्देषु सामीप्ये द्विरुक्तेषु "उपर्यध्यधसः सामीप्ये"इत्यनेन "उपर्यादिषु त्रिषु द्वितीयाम्रोडिड्डत्ध्;तान्तेषु" इति द्वितीया। वीप्सायां तु द्विरुक्तेषु षष्ठ्येव भवति--"उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः।" मन्दं मन्दमित्यप्रकारार्थत्वे ।। 86 ।। "मन्दं मन्दं नुदति पवनः" इत्यत्र मन्दं मन्दमिति अप्रकारार्थत्वे भवति। प्रकारार्थत्वे तु "प्रकारे गुणवचनस्य" इति द्विर्वचने कृते कर्मधारयवद्भावे च मन्दमन्दमिति प्रयोगः। मन्दं मन्दमित्यत्र तु "नित्यवीप्सयोः" इति द्विर्वचनम्। अनेकभावात्मकस्य नुदेर्यदा सर्व#े बावा मन्दत्वेन व्याप्तुमिष्टा भवन्ति तदा वीप्सेति। न निद्राद्रुगिति भष्भावप्राप्तेः ।। 87 ।। "निद्राद्रुव्काद्रवेयच्छविरुपरिलसद्धर्घरो वारिवाहः" इत्यत्र निद्रा दुगिति न युक्तः,"एकाचो बशो भषु--" इति भष्भावप्राप्तेः। अनुप्रासप्रियैस्त्वपभ्रंशः कृतः। निष्पन्द इति षत्वं चिन्त्यम् ।। 88 ।। न ह्यत्र षत्वलक्षणमस्ति। सुषामादिपाठोऽप्यस्य न निश्वितः। नाङ्गुलिसढद्धठ्ठड़14;ग इति मूर्धन्यविधेः ।। 89 ।। "म्लायन्त्यङ्गुलिसङ्गेऽपि कोमलाः कुसुमस्रजः" इत्यत्राङ्गुलिसङ्ग इति न युक्तः "समासेऽङ्गुलेः सङ्गः" इति मूर्धन्यविधानात्। तेनावन्तिसेनादयः प्रत्युक्ताः ।। 90 ।। तेन अढद्धठ्ठड़14;गलिसङ्ग इत्यनेन अवन्तिसेनः, इन्दुसेन एवमादयः शब्दाः प्रत्युक्ताः प्रत्याख्याताः, "सुषामादिषु च" "एति संज्ञायामगात्" इति मूर्धन्यविधानात् । नेन्द्रवाहने णत्वमाहितत्वस्याविवक्षितत्वात् ।। 91 ।। "कुथेन नागेन्द्रमिवेन्द्रवाहनम्" इत्यत्रेन्द्रवाहनशब्दे "वाहनमाहितात्" इति णत्वं न भवति, आहितत्वस्य अविवक्षितत्वात्। स्वस्वामि भावमात्रं ह्यत्र विविक्षितम्; तेन सिद्धमिन्द्रवाहनमिति। सदसन्तो मया शब्दा विविच्यैवं निदर्शिताः। अनयैव दिशा कार्यं शेषणामप्यवेक्षणम्।। इति काव्यालंकारसूत्रवृत्तौ प्रायोगिके पञ्चमेऽधिकरणे द्वितीयोऽध्यायः ।। समाप्तं चेदं प्रायोगिकं पञ्चममधिकरण्ः