काशकृत्स्न-धातुपाठः/क्र्यादिगणः (८)
← तनादिगणः (७) | काशकृत्स्न--धातुपाठः क्र्यादिगणः (८) [[लेखकः :|]] |
चुरादिगणः (९) → |
180
अथ क्र्यादि--गणः
[ना--विकरणः]
१. डुक्रीञ् द्रव्यविनिमये--मूल्ये । क्रीणाति--मूल्येन गृह्णाति । न आ ई आत्मनेपदे1--नाविकरणस्य आकारस्य ईकारो भवति आत्मनेपदे परतः। क्रीणीते--गृह्णाति । क्रीतः, क्रीतवान् , क्रयन् , क्रयमाणः, क्रेता--पञ्च विक्रेतरि2 । क्रयः, क्रय्यः, क्रेयम् , क्रेतव्यम् , क्रयणम् , क्रयणीयम् , क्रीतम् , क्रीतिः--अष्टौ मूल्ये। ।
२. प्रीञ् तर्पणे कान्तौ च--प्रीते प्रकाशे च । प्रीणाति, प्रीणीते--तर्पयति, प्रकाशते । प्रीतः, पीतवान्--द्वौ तर्पयितरि । प्रीतिः, प्रेमन्--द्वौ प्रेम्णि ।
३. श्रीञ् पाके--श्रीणाति, श्रीणीते--पचति । श्रीतः, श्रीतवान्--द्वौ पाकज्ञे । श्रीः, श्रीतम् , श्रीतिः, श्रयणम् , श्रयणीयम्--पञ्च पाके।
४. स्कूञ् आच्छादने --आवरणे । स्कूनाति, स्कूनीते--आच्छादयति । स्कूतः स्कूतवान्--द्वौ आच्छादके । स्कूतम् , स्कूतिः--द्वौ आच्छादनसाधने ।
५.षिञ् युञ् बन्धने--सिनाति, सिनीते--बध्नाति । सितः, सितवान्--द्वौ बन्धके । सितम् , सितिः--द्वौ बन्धने । युनाति, युनीते--अवरुणद्धि । युतः, युतवान्--द्वाववरोधके । युतम् , युतिः--अवरोधनम् ।
६. क्नूञ् शब्दे--ध्वनौ। क्नूनाति, क्नूनीते--शब्दं करोति । क्नूतः, क्नूतवान्--द्वौ शब्दकर्तरि । क्नूतम् , क्नूतिः--द्वौ शब्दने ।
७. मीञ् द्रूञ् हिंसायाम्------मीनाति, मीनीते हिनस्ति । क्तक्तवतू निष्ठा--क्तक्तवतू प्रत्ययौ निष्ठासंज्ञकौ भवतः । निष्ठायास्तो नः--निष्ठासंज्ञकयोः क्तक्तवतु--
टिप्पणी
१. इह 'क्रयादेर्ना' इत्येवं नाविकरणविधायकं सूत्रं न निर्दिष्टं कर्नाटकवृत्तिकृता, यद्वा कोशे लुप्तं स्यात् । 'आत्मनेपदे' इति न सूत्रांशः प्रतीयते । तथा सति 'क्रीणीतः' इत्यादिषु परस्मैपदेषु कथमीकारादेशः स्यात् । तस्मात् सूत्रस्य अर्थतोऽयं निर्देशः प्रतिभाति ।
सूत्रे 'नः' षष्ठ्येकवचनम् , 'आ' प्रथमैकवचनम् (स्थानी प्रथमया निर्दिश्यते)।
२. अत्र पाठः भ्रष्टः स्यात् । नैव पूर्वोदाहृता विक्रेतरि प्रयुज्यन्तेऽपि तु क्रेतरि । विक्रयेऽर्थे विपूर्वोऽयं धातुः प्रयुज्यते।
३. 'स्कुञ् आप्लवने' इति कातन्त्राः । 'आप्रवणे' इति पाणिनीयाः।
181
प्रत्यययोः तकारस्य नकारो भवति । मीनः1--मत्स्यः। मीनवान्--हिंसकः। मीनम् , मयनम् , मयनीयम्--त्रयो हिंसने । द्रूणाति, द्रूणीते--ताडयति । द्रूणः, द्रूणवान्--द्वौ ताडयितरि । द्रोणः--पर्वतः, मुनिः, सस्यविशेषः।
८. पूञ् पवने--उत्पवने प्वादेर्ह्रस्वः--पूञ् प्रभृतीनां ह्रस्वो भवति । पुनाति, पुनीते--पवित्रो भवति । पूतः, पुनीतः, पूतवान्--त्रयो ब्राह्मणे, पवित्रे । पवमानः--वायुः। पविः--वज्रायुधम् । पवित्रम् , पावनम्--द्वौ पावने । पूतिः--पवित्रम् । पवनः--वायुः। पविता--शोभनः, शुद्धः। पवित्री--शोभना, शुद्धा । पावकः--अग्निः ।
९. लूञ् छेदने--विकर्तने । लुनाति लुनीते--कृन्तति । लूनः, लूनवान्--द्वौ छेत्तरि । लूतः--ऊर्णनाभिः (मकड़ी इति भाषायाम् )। लावकः--छेदकः। लवित्रम्--कर्तनसाधनम् । लवनम् , लवनीयम् , लव्यम् , लाव्यम्--चत्वारो विकर्तने । लवः--अल्पम् । लावलिः, लवली--लताविशेषः । लवणम्--क्षारम् ('नमक' इति भाषायाम् )। लावणकम्--लावणी (?)।
१०. स्तृञ् (?) आप्रवणे--पूरणे । स्तृणाति, स्तृणीते--पूरयति । स्तृणः, स्तृणवान्--द्वौ पूरयितरि । आस्तरणम् , आस्तरणीयम् , आस्तीर्णम्--त्रयो विष्टरे । स्त्री--नारी।
११. कॄञ् हिंसायाम्--कृणाति, कृणीते3--हिनस्ति । कॄणः, कॄणवान् --द्वौ हिंसके । खरीरम् (?, करीरम् )--( ?) [ वृक्षविशेषः ] । करमः--हस्तस्य मूलप्रदेशः।
१२. वृञ् वरणे----आवरणे । वृणाति, वृणीते5--आवरयति । वॄणः, वॄणवान्6 --द्वौ आवृते । य्वृणां यवराः----इ ई उ ऊ ऋ ऋ लृ लॄ7 एतेषां स्थाने य व र इत्येते भवन्ति । व्रातः समूहः
टिप्पणी
१. न मत्स्यार्थको मीनशब्दः क्तप्रत्ययान्तः, अपि त्वौणादिको नक्प्रत्ययान्तः । वृत्तिकृदत्र भ्रान्तः।
२. कातन्त्रे धातुपाठेऽन्यत्र च 'स्तॄञ् आच्छादने' इति पाठः। परन्त्विहोदाहणेऽपि 'स्तृणः स्तृणवान्' इत्यैव पठ्यते । दीर्घान्तस्य 'स्तीर्णः स्तीर्णवान्' पाठेन भाव्यम् । यद्वोभयत्र पाठाशुद्धिः स्यात् ।
३. कन्नडवृत्तौ 'कॄणाति कॄणीते' इत्यपपाठौ।
४. 'कीर्णः कीर्णवान्' इति शुद्धौ पाठाविहोह्यौ।
५. कन्नडवृत्तौ 'वॄणाति वॄणीते' इत्यपपाठौ।
६. इहापि पूर्ववत् 'वीर्णः वीर्णवान्' इति शुद्धौ पाठावूह्यौ।
७. इह 'लृ लॄ' इत्यनयोः ग्रहणं चिन्त्यम् , सूत्रे तयोरनिर्देशात् ।
182
१३. धूञ् कम्पने--धुनाति धुनीते--कम्पते। धूतः, धूतवान् , धवः, धावकः, धवन् , धवानः, धविता--सप्त कम्पितरि । धवनम्, धवनीयम्--कम्पनम् । अवधूतः--वर्णाश्रमविवर्जितः संन्यासी।
१४. ग्रह उपादने--स्वीकारे ( ग्रहणे )। यवराणां य्वृतः य व र एतेषां स्थाने इ उ ऋ इत्येते भवन्ति । गृह्णाति, गृह्णीते--स्वीकरोति (पकड़ता है)। ग्रहादेरीट--ग्रहप्रभृतीनाम् ईट् आगमो भवति । गृह्णन् , गृहीता (?, ग्रहीता), ग्राहकः6--स्वीकर्ता । ग्रहः--नक्रः, भूतः (विषम् ), ग्रहणम् । ग्रहणम्--ग्रहणनाम्ना प्रसिद्धम् (सूर्यचन्द्रयोर्बिम्बाच्छादनम् ), स्वीकरणम् । गृहाः पुंसि च भूम्न्येव--गृहशब्दः [ दारार्थकः] पुँल्लिङ्गो बहुवचन एव भवति [--गृहाः--दाराः ] । गृहीतम् , गृह्यम् , ग्राह्यम् , गृहीतव्यम् (?, ग्रहीतव्यम् ), ग्रहणीयम्--पञ्च ग्रहणे ।
१५. शॄ सॄ हिंसायाम्----मारणे शृणाति, शृणीते--मारयति । शरभः-- अष्टपात् प्राणिविशेषः, वीरभद्रावतारः । (शृणाति मारयति1) शर्वः--अपांपतिः शिवः । शरम्--दर्भः, इषुः । शर्वाणी--हिंसिका, शङ्करी। ऋत ईर्--ऋकारस्य 'ईर्' भवति । शीर्णम् -- विकर्तनम् । शरीरम्--देहः । शीर्यम्--विकर्तितुं योग्यम् । शरणम्--ग्रहः (?, गृहः), आश्रयः। शरण्यम् , शरणीयम्--द्वौ रक्षणयोग्ये। श्रादेर्वः-- शृ(?, शॄ) प्रभृतिभ्यो 'व' प्रत्ययो भवति--शर्वः।। सृणाति, सृणीते--अत्ति । सरभः मृगविशेषः ( 'गैंडा' इति भाषायां प्रसिद्धः)। सर्वः--भक्षकः । सरणम् , सरणीयम् , सर्यम् , सार्यम् , सरीरम्--षट खाद्ये ।
१६. पॄ पालनपूरणयोः--रक्षणे भरणे च । पृणाति, पृणीते--पालयति, पूरयति । ऋत ऊर्2--ऋकारस्य 'ऊर्' भवति । पूर्तम् , पूर्तिः, पूरणम् , पूरणीयम् , पूर्तव्यम् , पूर्वम् , पूर्णम्--सप्त भरणे ( पूरणे)। पूर्तः, पूर्तवान् , पूरः, पूरकः, परः, पराणः--षट् पूरके । परीतः--रक्षकः । विपरीतः--निर्दयः ।
टिप्पणी
१. कोष्ठान्तर्गतः पाठो निरर्थकः, पूर्वत्र पठितत्वात् ।
२. पूर्वत्र (९।१५ धातुसूत्रव्याख्याने ) 'ऋत ईर्' सूत्रं पठ्यते, इह 'ऋत ऊर्' इति । क्व 'ईर्' भवति क्व च 'ऊर्' इति नाभ्यां सूत्राभ्यां ज्ञायते । अन्ये वैयाकरणास्त्विह यथायोग्यमादेशविधानार्थम् 'ऋत ऊर्' आदेशविधायके सूत्रे 'ओष्ठ्यपूर्वस्य' इत्यनेन विशेषयन्ति ऋकारम् , अर्थात् ओष्ठ्यपूर्वकस्य ऋकारस्य 'ऊर्' आदेशो भवति, अन्यत्र च 'ईर्' इति । काशकृत्स्नसूत्रेऽपि तादृशविशेषणेनावश्यं भाव्यम् , वृत्तिकृता सोंऽशः परित्यक्तः स्यात् । इह १।२१ सूत्रव्याख्याने उद्धृते सूत्रे अपि द्रष्टव्ये ।।
183
१७. ब्ली बॄ1 बरणे--आवरणे । ब्लिनाति2--आवरयति । ब्लीतः, ब्लीतवान् , ब्लयन् , ब्लयः, ब्लायः, ब्लायी--षट् आवरके । ब्लयनम् , ब्लयनीयम् , ब्लीतम् , ब्लीतः--पञ्च आवरणे । बृणाति--आवेष्टयति । बृतः, बृतवान्3 , बूरः, बूरकः, बरन्--पञ्च आवेष्टके । बूरणम् , बूरणीयम् , बूर्यम् , बूर्तम् , बूर्तिः, बूर्णम्--षट् आवेष्टने ।
१८. भॄ भर्त्सने--निन्दायाम् । भृणाति--निन्दति । भूर्तः, भूर्तवान् , भूः, भोरकः--चत्वारो निन्दके । भतम्4 , भॄतिः, भूर्णम् , भूरणम् , भूरणीयम् , भूर्यम्--षड् निन्दायाम् । भूरी (? भूरि)--वृद्धम् अधिकम् ।
१९. दॄ विदारणे--विकर्तने ( चीरने में )। दृणाति--विदारयति । दूर्तः दूर्तवान्5 --द्वौ विदारके । दूरम्--विप्रकृष्टम् । दूर्तम् , दूर्तिः, दूरणम् , दूरणीयम् , दूर्यम्6 --पञ्च विदारणे ।
२०.जॄ वयोहानौ--वृद्धत्वे । जृणाति--जीर्णो भवति । जीर्णः, जीर्णवान् , जरणः--जरिता ! जूर्तम् , जूर्तिः, जूरणम् , जूरणीयम् , जूर्यम्7 , जरा, जरस्--सप्त जीर्णीभावे ।
२१. नॄ नये--चलने गतौ। नृणाति--चलति । नरन् , नर्ता, नॄ, नरः--चत्वारो गन्तरि । नरी, नारी--गन्त्री । नर्तव्यम् , नरणम् , नरणीयम् , नर्यम् , नार्यम् , नारम्--षट् गमने।
२२. गॄ शब्दे--ध्वनौ । गृणाति--शब्दयति । गर्णन् (?), गर्ता--शब्दयिता । गरम्--विषम् । गीर्णम् , गूर्णम् , गूरणीयम् , गूर्यम् , गूरम्--पञ्च शब्दने । आगरम्--सार्वत्रिकः शब्दः।
टिप्पणी
१. 'व्ली वॄ' इति कातन्त्रीया अन्यै च वैयाकरणाः। उत्तरत्रापि सर्वत्रोदाहरणेषु 'ब' ओष्ठयस्थाने दन्त्योष्ठ्यो वकारो द्रष्टव्यः। माधवीयधातुवृत्तौ 'ब्ली' इति पवर्गवान् पाठ मुद्रणदोषजः।
२. श्रौतसूत्रेषु 'ब्लीनाति' इति दीर्घपाठोऽपि दृश्यते ( आप० १४, १२, ६; हिर० १०, ६, ६)। एवं चोभयथा पाठदर्शनात् ब्लि, ब्ली इति द्वौ धातू इह द्रष्टव्यौ। यद्वा पूञ् पवने इत्यादि धातूनां दीर्घस्वरनिर्देशाद् दीर्घवन्ति रूपाणि ह्रस्वविधानाद् ह्रस्ववन्ति चोभयथा रूपाणि द्रष्टव्यानि।
३. पूर्ववदिमावपपाठौ।
४. 'भॄतम्' आदि रूपाणां साधुत्वं विचारणीयम् ।
५. ऊत्वं कथम् ? दीर्णः दीर्णवान् इति पाणिनीयाः ।
६. एतेषामपि साधुत्वं चिन्त्यम् ।
७. अनयोः साधुत्वं चिन्त्यम् ।
184
२३. ज्या वयोहानौ--वृद्धत्वे । ज्यानाति--जीर्णो भवति । ज्यायान् , ज्येष्ठः--द्वौ वृद्धे । ज्या--रज्जुः, प्रत्यञ्चा ('चिल्ला' इति भाषायाम् ) । ज्यानम् , ज्यानीयम्--द्वौ प्राचीने जीणे ।
२४. ऋ गतौ--ऋणाति--गच्छति । ऋतः, ऋतवान्--द्वौ गन्तरि । ऋतम् , ऋतिः--द्वौ गमने । निऋतिः--दिक्पालकः ।
२५. री रेषणे--आदाने । रीणाति--आदत्ते । रीतिः (?, रीतः), रीतवान् -- द्वौ आदातरि । रीतम् , रीतः--द्वौ आदाने । ____
२६. ली श्लेषणे--कष्टे । लीनाति--कष्टयते । लीतः, लीतवान्--द्वौ परिश्रमिणि । लीतम् , लीतिः--द्वौ कष्टे ।
२७. व्री वरणे--आवरणे वीणाति--आच्छादयति । व्रीतः, व्रीतवान् = द्वौ आवारके । व्रीतम् ,व्रीतिः--द्वौ आवरणे ।
२८. भ्री भरणे--रक्षणे । भ्रीणाति--रक्षति । भ्रीतः, भ्रीतवान्--द्वौ रक्षके । भ्रीतम् , भ्रीतिः--द्वौ रक्षणे ।
२९. णभ तुभ क्षिप हिंसायाम्--मारणे । नभ्नाति, नभ्नीते--मारयति । नभस् --आकाशः। नभस्वान्--मेघः । नभोलिप्सुः--शतरुद्रेष्वेकतमः । तुभ्नाति, तुभ्नीते--ताडयति । तुब्धः, तुब्धवान्--द्वौ ताडयितरि। तुब्धम् , तुब्धिः--द्वौ ताडने । क्षिप्नादीनां1 न नो ण:--क्षिप्ना--प्रभृतीनां नकारस्य णकारो न भवति । क्षिप्नाति, क्षिप्नीते--कम्पते चलति । क्षिप्तः, क्षिप्तवान्--द्वौ कम्पके । क्षिप्तम् , क्षिप्तिः--द्वौ कम्पने।
३०. क्षुप गर्वे--क्षुप्नाति, क्षुप्नीते--गर्वति । क्षुपः--सूर्यवंशस्थ एको राजा ।
३१. ज्ञा अवबोधने--ज्ञाने । ज्ञाजनोर्जा--ज्ञा जन इत्येतयोः 'जा' [आदेशो] भवति । जानाति, जानीते--अवबुध्यति । जातः, जायमानः--अवबोधकः, उत्पन्नः । ज्ञाता--अवबोद्धा । ज्ञानम् , ज्ञेयम्--द्वौ ज्ञातुं योग्ये । ज्ञातव्यम् -- ज्ञातुं योग्यम् ।
३२. बन्ध बन्धने--बध्नाति बध्नीते--निगृह्णाति । बद्धः, बद्धवान् , बन्धकः--त्रयो निग्रहीतरि । बन्धनम्, बन्धनीयम् , बद्धम् , बद्धिः, बन्धनम् , बन्धः--सप्त निग्रहणे।
टिप्पणी
१.श्नाविकरणेन निर्देशः । तुलना कार्या 'क्षुम्नादिषु च' (८।४।३९ ) इति पाणिनीयेन सूत्रेण सह ।
185
३३. श्रन्थ विमोचनप्रतिहर्षणयोः------मुक्तौ दुःखे (?) च। श्रथ्नानि श्रथ्नीते--मुञ्चति दुःख्यति । श्रन्थकः, श्रन्थानः--द्वौ बन्धके, दुःखिनि । श्रन्थम् , श्रन्थनीयम्--द्वौ बन्धने ।
३४. मन्थ विलोडने--मन्थने । प्रकर्षेण मथ्यतीति प्रमथः1--शिवगणः । मदा मथ्नातीति मन्मथः--कामः । मथनम् मथनीयम्--मन्थनकर्मणि ।
३५. ग्रन्थ सन्दर्भ--संयोजने । ग्रथ्नाति--संयोजयति । ग्रन्थिकः2--संयोगः। ग्रन्थः--पद्यम् । ग्रन्थिः--संयोजिका ('गाँठ' इति भाषायां प्रसिद्धा)।
३६. कुथ संक्लेषे--दुःखे। कुथ्नाति--दुःख्यति । कुथः, कोथम्, कोथकः--दुःखी । कोथनम् , कोथनीयम्--द्वौ दुःखे ।
३७. मृद क्षोदे--मर्दने । मृद्नाति--क्षोदयति । मर्दन् , मर्दकः द्वौ क्षोदके। मृत् , मर्दनम् , मर्दनीयम्--त्रयो क्षोदने (मर्दने )।
३८. गुध रोषे--कोपे। गुध्नाति--रुष्यति, कुप्यति । गोधन् , गोधकः--द्वौ कोपके। गोधनम् , गोधनीयम्--द्वौ कोपने । गोधा, गोधिका--द्वौ सरटि । गौधेरः--सरट् ।
३९. कुष निष्कर्ष--बहिष्कारे । कुष्यति--बहिः करोति (पृथक् करोति)। कोषन् , कोषकः, कुष्टः, कुष्टवान्--चत्वारो बहिष्कर्तरि । कुष्ठम्--[ रोगविशेषः । कुष्ठी--] कुष्ठरोगवान् । कोष्ठम्--गृहाभ्यन्तरभागः ( कमरा इति भाषायाम् )। प्रकोष्ठः--हस्तावयवः ( कोहनी इति प्रसिद्धः)।
४०. क्षुभ संचलने--कम्पने । क्षुभ्नाति--कम्पते । क्षोभन् , क्षोभकः -- द्वौ कम्पितरि । क्षोभः, क्षोभा, क्षुब्धम् , क्षुब्धिः --चत्वारो कम्पने ।
४१. क्लिश विबाधने--कष्टे । क्लिश्नाति--दुःख्यति । क्लेशन् , क्लेशकः--कष्टं प्राप्तः । क्लिष्टम् , क्लिष्टिः, क्लेशः, क्लेशनम् , क्लेशनीयम्--पञ्च कष्टे ।
४२. अश भोजने--अदने । अश्नाति--अत्ति । अश्यन् , अशकः द्वौ भोजके । अशनम् , अशनीयम् , अष्टम् , अष्टिः--चत्वारो भक्षणे । समष्टिः--शोभनं भोजनम् । अष्टन् , अष्टकम्--अष्ट संख्या ।
४३. उध्रशु उञ्छे--एकैकश आदाने निर्धारणे । ध्रश्नाति--निर्धारयति ।
टिप्पणी
१. सर्वत्र नकारलोपः कथमिति नोक्तं वृत्तिकृता ।
२. ग्रन्थमधीते वेद वा सोऽपि ग्रन्थिकः ।
186
ध्रश्नन् , ध्रशकः--निर्धारयिता । ध्रष्टिः, ध्रशनम् , ध्रशनीयम्--त्रयः निर्धारणे । ध्रष्टतण्डुलमारः--निर्धारिततण्डुलविक्रेता (?)।
४४. इष आभीक्ष्ण्ये--निरन्तरं दर्शने । इष्णाति--निरन्तरं पश्यति । इष्टः, इष्टवान् , एषकः--निरन्तरं द्रष्टा । इष्टम् , इष्टिः, एषणम् , एषणीयम्--नैरन्तर्येण दर्शने।
४५. विष विप्रयोगे----पार्थक्ये । विष्णाति--पृथग् भवति । विष्टः, विष्टवान् वेषकः--त्रयः पृथक्कर्तरि । विषम्--गरलम् , जलम् । वेषः, वेषणम् , वेषणीयम्--त्रयः पृथग्भावे ।
४६. प्रुष प्लुष स्नेहसेचनपूरणेषु--तैलक्रियायां, संघर्षे, भरणे च । प्रुष्णाति--स्निग्धो भवति, सङ्घर्षति, भरति । प्रोषकः, प्रुष्टः, प्रुष्टवान्--त्रयः स्नेहके, संघर्षके, भारके च । प्रुष्टम्1--प्रुष्टभागः1 । प्रुष्टिः, प्रोषणम् , प्रोषणीयम्--स्नेहने । प्लुष्णाति--संघर्षति । प्लुष्टः, प्लुष्टवान् , प्लोषकः--त्रयः संघर्षके । प्लुष्टम् , प्लुष्टिः, प्लोषणम् , प्लोषणीयम्--चत्वारः संघर्षणे ।
४७. पुष पुष्टौ--रक्षणे । पुष्णाति--रक्षति । पुष्टः, पुष्टवान् , पोषकः--चत्वारः रक्षके। पुष्टम् , पुष्टिः, पोषणम् , पोषणीयम्--चत्वारो रक्षणे । पूषन्--सूर्यः ।
४८. मुष स्तेये--चौर्ये । मुष्णाति--चोरयति । मूषिकः--ऊंदरः2 । मूषा--(?) (सुवर्णादीनां द्रवीकरणपात्रम् )। मुष्टिः--बद्धाङ्गुलिहस्तः । मुष्टम् , मोषः, मोषणम् , मोषणीयम्--चत्वारश्चौर्ये । मुष्णतां पतये नमः ( यजुः० १६।२१) चोराणां नायकाय नमस्कारः। ।
४९. खव पूतिप्रादुर्भावे--दुर्गन्धे । खव्नाति--दुर्गन्धयुक्तो भवति । खौनीतः (द्विवचनम् ), खौनन्ति (बहुवचनम् ) । खौनन् , खवकः-- द्वौ दुर्गन्धयुक्ते । खवनम् , खवनीयम्--द्वौ दुर्गन्धीभावे ।
[इति ना--विकरणः क्र्यादिः समाप्तः ]
टिप्पणी
१. दाक्षिणात्याः पृष्ठशब्दं प्रुष्टध्वनिसदृशमुच्चारयन्ति किं तन्निमित्तकोऽयमपशब्द उत साधुशब्दः स्वतन्त्र इति विचारणीयम् ।
२. साधुशब्दोऽयं कोशेषु निदर्शितत्वात् ।