222
अथ णिजन्ताः
प्रयोज्यकर्तरि णिच-प्रयोजके कर्तरि वाच्ये णिज् आगमो भवति, आख्यातप्रत्यये कृत्प्रत्यये च परतः।1 णकारो वृद्ध्यर्थः ।
वृद्धिरादौ सणे-धातोः प्रथमे नामिनि ( अकारवर्जे स्वरे ) वृद्धिर्भवति ।2
[भू-] भावयति-कारयति । भावयन् , भावयिता, भावकः-त्रयः कारयितरि । भावितम्-पुटादिना घटितं वस्तु (विभिन्न द्रव्यों से पुट देकर बनाई गई ओषधि )। भावनम् , भावनीयम् (?), भावः-सत्ता । भावी-भविष्यकाले भवः , भाविनी-भविष्यत्काले भवा । भावुकम्-उत्कृष्टम् (?)। भाव्यम् , भावनीयम्-घटितुं योग्यम् ।
[कृञ्-] कारयति-क्रियार्थं प्रेरयति । कारयन् , कारयिता-द्वौ क्रियार्थप्रेरके । कारणम् , कारकम्-कारयिता। कारणीयम् , कारकम्-कारयितुं योग्यम् । कारितम्-प्रेरणया कृतम् । कारी-कारकः । कारिणी-कारिका । कारयित्री-कारिका।
[पच-] पाचयति-पाकक्रियां कारयति । पाचयन् , पाचयिता, पाचकः-त्रयः पाचयितरि । पाचिनी, पाचकी (?), पाचयित्री-त्रयः पाककारयित्र्याम् ।
इत्यादयो [प्रयोज्य ] कर्तरि ज्ञेयाः।
नाम्न उपमानादाचारे आयङीयौ-उपमानवाचकात् नाम्नः आयङ् ईय3 आगमौ भवतः, आख्यातप्रत्यये परतः, आचरणेऽर्थे । ङकार आत्मनेपदार्थः । [ यथा-]
वृषभः शिवायते-वृषभः शिव इवाचरति । शिवो वृषभायते-शिवो वृषभ इवाचरति ।

टिप्पणी


१. पाणिनीयास्तु णिच् प्रत्ययं विदधति । ततः तिङ्-प्रत्ययाः कृत्प्रत्ययाश्चोत्पद्यन्ते । २. सूत्रमिदं पूर्वत्राप्युद्धृतम् ( पृष्ठ २१९ ) तत्रास्मदीया टिप्पणी द्रष्टव्या ।
३. कर्नाटकवृत्तौ 'ईया' इति रूपम् , तच्चिन्त्यम् ।

223
[आयङः- ] भागवाटीवृषेन्द्राय मेरुः क्रीडाचलायते ।
कूपायते देवगङ्गा चरायन्ते शिवा भृशम् ।।
1भागवाटी वृषभाय मेरुः क्रीडापर्वत इवाचरति, देवनदी कूप इवाचरति । रुद्रा चरा जङ्गमा इवाचरन्ते भृशं निश्चयेन ।
[ईयस्य-] कल्याणपत्तनावासा वृषभीयन्ति लिङ्गिनः ।
शङ्करा अल्लमीयन्ति कैलासीयति तत्पुरम् ॥
1कल्याणपत्तने येषां वासस्ते लिङ्गिनो वृषभ इवाचरन्ति । शङ्करा अल्लमप्रभुरिवाचरन्ति । तत् कल्याणपुरं कैलास इवाचरति ।
आयङईययोर्लुक-आयङ्-ईय-प्रत्यययोर्लोपो भवति नाम्नः परस्य आख्याते प्रत्यये । [ यथा-]
कुलिशं कुसुमति दहनस्तुहिनति वारान्निधिर्ध्रुवं स्थलति ।
शत्रुर्मित्रति विषमप्यमृतति शिवशिवेति प्रलपतो भक्त्या ।।
भक्तिपूर्वक शिव-शिव-इति जपतो मानवस्य वज्रं ( विद्युत् ) पुष्प इवाचरति, अग्निर्हिम इवाचरति, समुद्रः पृथिवीव निश्चयेनाचरति, शत्रुर्मित्रम् इवाचरति, विषं च अमृतं क्षीरमिवाचरति ।
अकर्मकेभ्यो धातुभ्यो भावे कर्मणि यङ् स्मृतः-कर्मरहितेभ्यो धातुभ्यो भावे [ सकर्मकेभ्यः ] कर्मणि च वाच्ये यङ् आगमो भवति, आख्याते प्रत्यये परतः । ङकार आत्मनेपदार्थः । [ यथा--]
भूयते प्रभुणा भक्तो भक्तेन स्तूयते प्रभुः ।
उभाभ्यां तृप्यते वस्तु षट्स्थल2 ब्रह्म शाश्वतम् ।।
प्रभुणा अल्लमनाम्ना भक्तः वसवेश्वरः भूयते । भक्तेन प्रभुः स्तूयते । उभाभ्यां भगवद्-भक्ताभ्यां शाश्वतं निरञ्जनं ब्रह्म सर्वान्तर्यामि तृप्यते ।
अस्त्यल्लमो वृषस्वान्ते पूजयत्यल्लमं वृषा ।
वृषभं याचते भिक्षां भुङ्क्ते दत्तां गुहेश्वरः ।।

टिप्पणी


१. कर्नाटकवृत्तेहिँन्दीभाषानुवादोऽत्रास्पष्टः । अस्माभिर्यथाप्रकरणं व्याख्या विहिता ।
२. द्रष्टव्याऽत्र चन्नवीर कविकृत टीकायाः पुष्पिका ( अधस्तादियं मुद्रिता)।

224
तनुर्मनो धनं भक्त्या दीयते वृषभेण वै।
भुज्यते प्रभुलिङ्गेण पुनर्भवनिवृत्तये1 ॥
इति इन - विकरणश्चुरादिः समाप्तः ।।
इति श्रीगौरीलालाचार्याद् यमुनादेव्यां लब्धजनुषा श्रीपदवाक्यप्रमाणज्ञपण्डितब्रह्मदत्तान्तेवासिना युधिष्ठिरमीमांसकेन कृतं काशकृत्स्नधातुपाठस्य चन्नवीरकविकृतकर्नाटकटीकायाः2 संस्कृतरूपान्तरं समाप्तिमगात् ।

टिप्पणी


१. चन्नवीर कवि कृता इमे श्लोकाः ।
२. चन्नवीर कविकृत कर्नाटक टीकाया अन्ते इयं पुष्पिका दृश्यते -
इति श्री यागण्टिशरभलिङ्गप्रसादिनस्तित्तिरयजुश्शाखाध्ययनस्य वामदेवमुखोद्भूतस्य गजकर्णपुत्रस्य अत्रिगोत्रस्य वीरमाहेश्वरतन्त्रसूत्रस्य शिवलङ्कमञ्चन पण्डिताराध्यप्रवरस्य कोकिलाकुण्डपुरस्य महामठस्य सङ्गनगुरुलिङ्गनन्द्यम्बाकुमारस्य तुमुपूरमहामठकन्थाचार्यपितृव्यनम्ब्यण्णगुरुकरजातस्य सह्याद्रिकटककेळदिनगरसमीपस्य षट्देशस्य कुन्तिकापुरस्य काशीकाण्ड चन्नवीरकविकृतौ काशकृत्स्नशब्दकलापस्य द्वादशसहस्रधातुपाठस्य कर्नाटकटीकायाम् इन् विकरणश्चुरादिः समाप्तम् ।
मङ्गळम्
महा श्री केलदि वीरेश्वराय नमः
शुभमस्तु शोभनमस्तु
निर्विघ्नमस्तु
आयुरारोग्यैश्वर्यमस्तु श्री गुरवे नमः