← तुदादिगणः(५) काशकृत्स्न-धातुपाठः
रुधादिगणः (६)
[[लेखकः :|]]
तनादिगणः (७) →

172
अथ रुधादि--गणः
[ नम्--विकरणः]
१. रुधिर् आवरणे--अवरोधे। रुधादेर्नम्--रुधि--प्रभृतीनां धातूनां 'नम्' विकरणो भवति सार्वधातुके परतः। चतुर्थात् तथयोर्धः--वर्गाणां चतुर्थादक्षरात् परे तकारथकारयोर्धकारादेशो भवति ।1 रुनम् ध् ति अस्यामवस्थायाम् अनुबन्धलोपे नकारस्य णकारादेशे धकारस्य दकारादेशे 'ति' इत्यस्य 'घि रूपे 'रुणद्धि' इति रूपं निष्पद्यते । रुणद्धि, रुन्धे--आवृणोति । रुन्धन् , रोधकः--द्वौ आवरके । रोधस्--अवरोधकं वस्तु । रोधनम् , रोधनीयम्--अवरोधनम् ।
२. भिदिर् विदारणे--विकर्तने (चीरने में )। भिनत्ति, भिन्ते--विदारयति । भिन्दन् , भेदकः, भेदी, भेत्ता--चत्वारो विदारके । भित् , भिदा, भेदनम् , भेदनीयम् , भेदः, भेद्यम् , भेत्तव्यम्--नव विदारणे । भित्तिः--कुड्यम् । भित्तम्--खण्डम् ।
३. छिदिर् द्विधाकरणे--एकस्य भागद्वयकरणे । छिनत्ति, छिन्ते--द्विधाकरोति । छित् , छेत्ता, छेदकः, छेदी, छिन्दन्--पञ्च द्विधाकारके । छित्तिः, छित्तम् , छेत्तव्यम् , छेदनम् , छेदनीयम् , छिदा, छेद्यम्--सप्त द्विधाकरणे ।
४.रिचिर् विरेचने--रिक्तीकरणे । रिणक्ति, रिङ्क्ते2--रिक्तं करोति । रिञ्चन् , रेचकः, रेक्ता, रेचः, रेची--पञ्च रेचके । रेचनम् , रेचनीयम् , रेच्यम् , रिक्तिः, रिक्तम् , रेक्तव्यम्--षट्--विरेचने ।
५. विचिर् पृथग्भावे--पार्थक्ये । विनक्ति, विङ्क्ते3--पृथग्भवति । विञ्चन् वेचकः, वेची, वेक्ता, विक्तिः, विक्तवान् , वेकी--सप्त पृथग्भवितरि । विक्तम् , विक्तिः, वेचनम् , वेचनीयम् , वेच्यम् , वेकः--[ षट् ] पृथग्भावे ।
६. क्षुदिर् सम्पेषणे--चूर्णने । क्षुणत्ति, क्षुन्ते--चूर्णयति । क्षुन्दन् ,

टिप्पणी


१. इतोऽग्रे कर्नाटकटीकायां 'सार्वधातुके परतः' इत्यर्थकः पाठो वर्तते, स चिन्त्यः असार्वधातुकेऽपि धकारादेशस्योपलम्भात् ।
२. 'रिङ्ते' इत्यपपाठः कर्नाटकटीकायाम् ।
३. 'विङ्ते' इत्यपपाठः कर्नाटकटीकायाम् ।

173
क्षुदानः, क्षोत्ता, क्षोदकः, क्षुत्तः, क्षुत्तवान्--षट् चूर्णके । क्षुत् , क्षोदनम् , क्षोदनीयम् , क्षोत्तव्यम् , क्षुत्तम् , क्षुत्तिः, क्षोद्यम्--सप्त चूर्णने ।
७. युजिर् योगे--मेलने । युनक्ति, युङ्क्ते--मिलति । युञ्जन् , योक्ता, योजकः, योजी (?, योगी), युक्तः, युक्तवान्--षट् मेलके । युक्तम् , युक्तिः, योगः, योग्यम् , यौगिकम् , योज्यम् , योजनीयम्--सप्त मेलने । योजनम्--क्रोशचतुष्टयम् ।
८. उछृदिर् दीप्तिदेवनयोः--प्रकाशे क्रीडने च । छृणत्ति, छृन्ते--प्रकाशयति, क्रीडति । छृत्तः, छृत्तवान् , छर्दन , छर्दानः, छर्त्ता, छर्त्तकः--षट् प्रकाशके क्रीडके च । छृत्तिः, छृत्तम् , छर्दनम् , छर्दनीयम् , छर्दिः--पञ्च प्रकाशे । छर्दिः--वमनम् ।
९. उतृदिर् हिंसानादरयोः----हिंसनेऽनादरे च । तृणत्ति, तृन्ते--हिनस्ति, अनादरं करोति । तर्दन् , तर्दानः, तर्दकः--त्रयो घातके अनादरके । तर्दुः--[ हिंसकः] । तर्दनम् , तर्दनीयम् , तृद्, तृत्तम् , तृत्तिः, तर्त्तव्यम्--षट् मारणे प्रीत्यभावे ।
१०. कृती वेष्टने--कृणत्ति कृन्ते--वेष्टयति, कृन्तति । कृत्तः, कृत्तवान् , कर्त्ता, कृतकः, कृत्--पञ्च विकर्तके। कृत्तिः, कर्तनम, कर्त्तनीयम्--चत्वारो छेदने । कर्त्तरी--वस्त्रछेदनी ( 'कैंची' इति भाषायाम् )।
११. शिषृ1 विशेषणे--असर्वोपयोगे2 (बचाने में)। शिनष्टि--शेषयति । शिष्टः, शिष्टवान् , शिष्यः--त्रयः क्रिमिविशेषे (?)। शिष्टिः, शिष्टम् , शेषणम्, चत्वारः शेषणे । शेषः--सर्पः।
१२. पिषृ3 संचूर्णने--सम्यक् चूर्णने । पिनष्टि--सम्यक् चूर्णयति । पिष्टः, पिष्टवान् , पेशकः--त्रयः संचूर्णके। पिष्टम् , पिष्टिः, पेषणम् , पेषणीयम् , पेष्यम्--पञ्च संचूर्णने।
१३. भञ्जो आमर्दने--भनक्ति--मर्दयति । भक्तः, भक्तवान् , भाक्4 ,

टिप्पणी


१. 'शिष्लृ' इति कातन्त्रा अन्यै च वैयाकरणाः।
२. विशेषणं गुणान्तराधानमुच्यते । कर्नाटकवृत्तिकारस्तु 'विशेषेण शेषणम्' इत्यर्थं स्वीकृतवानिति प्रतिभाति । गुणान्तराधाने तु विपूर्वोऽयं धातुर्द्रष्टव्यः । अर्थनिर्देशादेव च उपसर्गविशेषस्य योगोऽवगन्तव्यः । यथा--इङ् अध्ययने--अधीते ।
३. 'पिष्लृ' इति कातन्त्रा अन्ये च ।
४. भाक् प्रभृतिषु अनुषङ्गलोपः कथमिति न ज्ञायते ।

174
भजकः, भाजकः--पञ्च मर्दितरि । भञ्जिका, भञ्जा--द्वे मूर्तौ । भङ्गः--कष्टम् । भङ्गी--क्रमः, सिद्धपत्रम् (?)।
१४. भुज पालनाभ्यवहारयोः--रक्षणे भोजने च । भुनक्ति, भुङ्क्ते1--रक्षति, खादति । भुक् , भोक्ता, भोजकः, भुक्तः, भुक्तवान् , भोगी--षड् उपभोक्तरि । भुक्तिः, भुक्तम् , भोगः, भोग्यम् , भोक्तव्यम् , भोजनम् , भोजनीयम्--सप्त रक्षणे भोजने च । काम्भोजः--एतन्नाम नगरम् । भोजः--एतन्नामा राजा । भुजम्--स्कन्धः। (?)।
१५. तृह् हिसि हिंसायाम्--तृणेढि--हिनस्ति । तृट् , तृढः, तृढवान्--त्रयो हिंसके। तर्हणम् , तर्हणीयम्--द्वौ हिंसने । हिनस्ति--ताडयति । हिंसकः--घातकः । हिंसम् , हिंसनीयम् , हिंसा--त्रयो मारणे ।
१६. उन्दी क्लेदने--कष्टे । उनत्ति--कष्टं भुङ्क्ते । उत्तः, उत्तिः--कष्टभोक्ता। ओदनम्--आहारविशेषः ( तण्डुलविकारः)। उदकम्--जलम् ।
१७. अञ्जु व्यक्तिम्रक्षणकान्तिगतिषु--स्पष्टीभावे, कोमले, कान्तौ, गतौ च । अनक्ति--स्पष्टीभवति । अक्तः, अक्तवान् , अञ्जकः--त्रयः स्पष्टभवितरि। अक्तिः, अक्तम् अक्तव्यम्--त्रयः स्पष्टीभवने । अञ्जनः--पर्वतः, दिग्गजः। अञ्जनम्--'अञ्जन' इत्येव प्रसिद्ध द्रव्यम् । अञ्जना--दिग्गजः (?), माया । अञ्जनावती--दिग्गजः (?), ज्योतिष्मती लता। निरञ्जनः--भगवान् (ब्रह्म )।
१८. तञ्चु2 संकोचने--म्लाने । तनक्ति तङ्क्ते3--म्लायति । तक्तः, तक्तवान् , तक्ता, तञ्चन्, तञ्चानः, तञ्चकः, ताक्तः--सस मायके । तक्तिः, तक्तम् , तञ्चनम् , तञ्चनीयम् , तञ्चम्--पञ्च म्लाने संकोचने।
१९. ओविजी भयचलनयोः--भये कम्पने च । विनक्ति, विङ्क्ते4 --बिभेति, कम्पते । विक्तः, विक्तवान् , वेक्ता--त्रयो भीरौ । वेजनम् , वेजनीयम् , वेज्यम् , वेगम् (?), विक्तिः , विक्तम्--षट् भये कम्पने च ।
२०. वृजी वर्जने--त्यागे । वृणक्ति, वृङ्क्ते5 --त्यजति । वृक्तः, वृक्तवान् , वर्जकः, वर्क्ता--चत्वारस्त्यक्तरि । वर्जनम् , वर्जनीयम् , वर्ज्यम् , वृक्तम् , वृक्तिः, वर्क्तव्यम्--षट् त्यागे । वृजिनम्--पापम् । वर्गः--वर्गः ( पक्षः)।

टिप्पणी


१. इहात्मनेपदं कथमिति न व्यक्तीकृतं वृत्तिकारेण । पाणिनीयास्तु 'भुजोऽनवने' ( १।३।६६) इत्यनेन पालनातिरिक्तेऽर्थे आत्मनेपदं विदधति ।
२. 'तन्चू' इति कातन्त्राः ।
३. इत आरभ्य पृचीपर्यन्तम् आत्मनेपदरूपाण्यप्युदाह्रियन्ते कर्नाटकवृत्तौ । तदुदाहरणं कथमिति न ज्ञायते।
४. 'विङ्त्ते' इत्यपपाठः कर्नाटकलिप्यां मुद्रिते।
५. 'वृङ्त्ते' इत्यपपाठः कर्नाटकलिप्यां मुद्रिते ।

175
२१. वृची हिंसायाम्--वृणक्ति, वृङ्क्ते1--हिनस्ति । वृक्तः, वृक्तवान् , वर्चनीयम् , वर्च्यम्--पञ्च मारणे । वृकः--श्वापदः ('भेड़िया' इति भाषायाम् )। वर्चस्वी--तेजस्वी।
२२. पृची सम्पर्के--मेलने । पृणक्ति, पृङ्क्ते2--मिलति । पृक्तः, पृक्तवान् , पर्क्ता, पर्चकः--चत्वारो मेलके । पृक्तिः, पृक्तम् , पर्चनम् , पर्चनीयम् , पर्च्यम् , पर्क्तव्यम्--षट् मेलने । अपृक्त एकवर्णः प्रत्ययः--एकवर्णः प्रत्ययः धातोरुत्पन्नः स्वार्थं प्रदाय लुप्यते3 । क्विब्विणौ सर्वधातुभ्यः--सर्वधातुभ्यः क्विप् विण् इत्येतौ प्रत्ययौ भवतः । पाः, दाः, धाः, सोः, हृत् , कृत् , जित्4 , वाक्, भाक, वात् , गात् ।।
२३. ञिइन्धी दीप्तौ--प्रकाशे | इन्धे (?, इन्द्धे )--प्रकाशते । अग्नीत्--अग्निप्रज्वालकः। आग्नीध्रम्5,--अग्नीधः कार्यम् । इद्धः, इद्धवान्, इन्धकः--प्रकाशकः । इन्धनम्, इन्धनीयम्--प्रकाशनम् । इन्धनम्--प्रज्वालनीयं द्रव्यम् ('ईन्धन' इति प्रसिद्धम् )।
२४. खिदि दैन्ये--खिन्ते6 --दीनो भवति ( दुःखी भवति)। खेदानः, खेत्ता, खेदकः--त्रयो दुःखिनि। खेदः, खेदनम् , खेदनीयम् , खित्तम् , खित्तिः--षट् दुःखे ।
२५. विद विचारणे--विन्ते7 --विचारयति । वित्तः, वित्तवान् , वेदकः, वेदी, वेत्ता--पञ्च विचारके । वित्तम्--धनम् । वित्तिः, वेदनम् , वेदनीयम् , वेद्यम्--चत्वारो विचारणे । वेदः--विचारः।

[इति नम्--विकरणो रुधादिगणः समाप्तः ]

टिप्पणी


१. 'विङ्त्ते' इत्यपपाठः कर्नाटकलिप्यां मुद्रिते ।
२. 'पृङ्त्ते' इत्वपपाठः कर्नाटकलिप्यां मुद्रिते ।
३. इयं वृत्तिः कर्नाटकवृत्त्यनुसारिणी वर्तते । सूत्रमिदमपृक्तसंज्ञाया विधायकम् , अपृक्तसंज्ञकस्य लोपविधायकं वेति सन्दिग्धम् । वयन्त्वनुमिनुमो यत् 'अपृक्त एकवर्णः प्रत्ययः' इत्यपृक्तसंज्ञाविधायकम् । यथा 'अपृक्त एकाल्प्रत्ययः' ( अष्टा० १।२।२१) इति पाणिनीयं सूत्रम् । अपृक्तस्य लोपविधायकं सूत्रं वृत्तौ नष्टम् । कर्नाटकवृत्तिस्तु लुप्तसूत्रस्य स्यात् ।
४. जित्पर्यन्तानि क्विप उदाहरणानि, उत्तराणि तु विणः । वात् गात् उदाहरणे वद् गद् धात्वोर्ज्ञेये ।
५. 'अग्नीध्रम्' इत्यपाठः कर्नाटकवृत्तौ। द्र० 'अग्नीधः शरणे रप् भं च' इति वार्तिकम् (४।३।१२०)।
६. 'खिङ्ते' अपपाठः कर्नाटकवृत्तौ।
७. विङ्ते' अपपाठः कर्नाटकवृत्तौ।