31
काशकृत्स्न--व्याकरणम्
युधिष्ठिर--मीमांसक--विरचितया व्याख्यया सहितम्
काशकृत्स्नव्याकरणस्य केवलं धातुपाठ एव समग्र उपलब्धः। तस्य शब्दानुशासनम् , तदीया अन्ये खिलाश्च नाद्य यावद् उपलब्धिं गताः।
काशकृत्स्नशब्दानुशासनस्य द्वे सूत्रे भर्तृहरिणा वाक्यपदीयागमकाण्डस्य स्वोपज्ञविवरण उद्धृते1 । अन्ये द्वे सूत्रे महाभाष्यव्याख्यात्रा कैयटेन स्वीये महाभाष्यप्रदीपे निर्दिष्टे1 । एकं काशकृत्स्नमतं क्षीरस्वामिना क्षीरतरङ्गिण्यां स्मृतमुपलभ्यते1 । चन्नवीरकविकृतकाशकृस्नधातुव्याख्यानस्योपलब्ध्याः प्राक् केवलमेतावन्मात्रमेव काशकृत्स्नव्याकरणसम्बन्धि ज्ञानमस्माकमासीत् , परन्तु चन्नवीरकविकृतधातुव्याख्याने उपत्रिंशदुत्तरशतं सूत्राणि, सूत्रांशाः, सूत्राणामर्थतोऽनुवादरूपाणि वचनानि चोपलब्धानि । तेषां साहाय्येन काशकृत्स्नीयव्याकरणविषयकं विस्तृतं विज्ञानमजायत ।
अधुनाऽस्माभिः सर्वेषामपि काशकृत्स्नीयानां सूत्राणां, सूत्रांशानां, तन्मतनिदर्शकवचनानां च विस्तृतं व्याख्यानमिह प्रस्तूयते । संदिग्धेषु स्थलेषु विशिष्टं विवेचनमपि यथास्थानं विधास्यते । भर्तृहरिणा उद्धृते सूत्रे --
१--धातौ साधने दिशि पुरुषे चिति तदाख्यातम् ।
अर्थः--धातुः = क्रिया भावश्च3 , साधनम् = कर्त्रादयः कारकाः, दिक् = कालः, पुरुषः = युष्मदस्मदादिः, चित् = संख्याः, एष्वर्थेषु यच्छब्दरूपं वर्तते तदाख्यातमित्युच्यते ।
विवरणम्--आख्यातस्य = तिङन्तस्य पदस्योच्चारणे सति क्रियायाः,

टिप्पणी


१. द्रष्टव्यमग्रे सूत्रव्याख्याने तथास्थानं क्रियमाणं निदर्शनम् ।
२. सूत्रमिदं भर्तृहरिणा ब्रह्मकाण्डस्य स्वोपज्ञविवरण उद्धृतम् ( वाक्यपदीय ब्रह्मकाण्ड लाहौर सं०, पृष्ठ ४०)। एतत्सूत्रं काशकृत्स्नाचार्यस्तेत्यत्र टीकाकारो वृषभदेवः प्रमाणम् । (द्र० तस्यैव ग्रन्थस्य ४१ तमे पृष्ठे )।
३. कातन्त्रव्याकरणे 'क्रियाभावो धातुः' (३।३।९) इति धातुलक्षणमुपलभ्यते । कातन्त्रं काशकृत्स्नस्य संक्षिप्तं संस्करणमित्युक्तं पुरस्तात् ।

32
कर्तृकर्मणोः कारकयोः, वर्तमानादिकालानां, युष्मदादिपुरुषाणां, एकत्वादिसंख्यानां च बोधो जायते । यथा 'पचसि' इत्येकस्यैव पदस्य श्रवणेन श्रोता पाकक्रियां, कर्तृकारकम् , युष्मत्पुरुषम् , वर्तमानकालम् , कर्तृगतामेकसंख्यां च प्रतिपद्यते । एवमेवान्येष्वप्याख्यातप्रयोगेषु यथायथं बोध उपजायते । अत आख्यातपदमेतेषां विविधानामर्थानां वाचक इत्युच्यते ।
भरतनाट्यशास्त्रेऽप्याख्यातस्य प्रायेणैतादृगेवलक्षणं निर्दिश्यते । तद्यथा----
................."क्रियाकृतं प्रथितसाध्यम ।1
वचनं नामसमेतं पुरुषविभक्तं तदाख्यातम् ॥2
यद्यप्यत्र नाट्यशास्त्रे पाठभ्रंशः प्रक्षेपादयो दोषाश्चोपलभ्यन्ते ( नामलक्षणमिह नष्टमिति स्पष्टं प्रतिभाति) तथापि यथाऽभिनवगुप्तस्वीकृतः पाठस्तथाऽऽख्यातलक्षणमिह स्पष्टम् । भरतलक्षणस्यायं भावः----
क्रियाकृतम् = भूतादिकालः, प्रथितसाध्यम् = क्रिया = धात्वर्थः, वचनम् = संख्या, नामसमेतम् = कारकसमेतम् = साधनयुतम् , पुरुषविभक्तम् = युष्मदस्मदादिविभागसहितं यत् तदाख्यातं ज्ञेयम् ।
भरतनाट्यशास्त्रस्था अनेके व्याकरणविषयका निर्देशाः कातन्त्रव्याकरणेन सह साम्यं वहन्ति । कातन्त्रं च काशकृत्स्नतन्त्रस्य संक्षिप्तं संस्करणमिति पुरस्ताद् विस्तरेण प्रतिपादितम् , अतः काशकृत्स्नव्याकरणेन सह भरतीयाख्यातलक्षणस्य साम्यं स्वाभाविकमेव ।
पाठविषयिका टिप्पणी--भर्तृहरेः स्वोपज्ञविवरणे सूत्रस्य 'धातुः साधने ...' पाठ उपलभ्यते स प्रामादिकः, एवं वृषभदेवीया व्याख्याऽपि चिन्त्या । उभयोर्विषयेऽग्रिमसूत्रस्य पाठविषयिका टिप्पणी द्रष्टव्या।
२--लिङ्गे किमि [ चि]ति विभक्तौ एतन्नाम ।3
अर्थः--लिङ्गम् = प्रातिपदिकम्4 , किम् = स्त्रीत्वादिकम् , चित् = संख्या,

टिप्पणी


१. द्र० नाट्यशास्त्र बड़ौदा सं०, भाग २, पृ० २३१। अयं पाठोऽभिनवगुप्तकृत टोकानुसारी वर्तते।
२. नाट्यशास्त्र १४।२९ । अत्र पूर्वभागस्यानेन भागेन सह संगतिर्ज्ञेया । बड़ौदासंस्करणे [ ] कोष्ठके पाठ्यमानो भूयान् पाठोऽप्रासङ्गिकः ।
३. इदमपि सूत्रं वाक्यपदीयस्य ब्रह्मकाण्डस्य स्वोपज्ञविवरण उद्धृतम् , वृषभदेववचनानुसारं चैतत् काशकृत्स्नसूत्रम् (द्र०--लाहौर सं० पृष्ठ ४०, ४१)।
४. धातुविभक्तिवर्जमर्थवल्लिङ्गम् (२।१।१) इति कातन्त्रसूत्रम् , अर्थवदधातुरप्रत्ययः प्रातिपदिकमिति ( १।२।४५) इति पाणिनीयं सूत्रम् ।

33
विभक्तिः = कर्मादिकारकम् । एष्वर्थेषु यच्छब्दरूपं वर्तते तन्नाम इत्युच्यते ।
विवरणम्--नामपदस्योच्चारणेन प्रातिपदिकार्थस्य, स्त्रीपुंन्नपुंसकानां, एकत्वादिसख्यायाः कर्मादीनां कारकाणां च बोधो जायते । यथा बालकम् इत्येकस्यैव पदस्योच्चारणेन श्रोता बालकत्वं पुंस्त्वं संख्यैकत्वं कर्मत्वं चावबुध्यते । एवं बालिकाम् इत्यस्योच्चारणेन पुंस्त्वस्थाने स्त्रीत्वस्य विशिष्टो बोधो भवति । एवं सर्वत्र विज्ञेयम् ।
भरतनाट्यशास्त्रे चतुर्दशाध्याये पाठभ्रंशान्नामलक्षणं नष्टमिति प्रतिभाति ।
पाठविषयिका टिप्पणी--भर्तृहरेः स्वोपज्ञविवरणे 'लिङ्गम्' इति मुद्रितः पाठ उपलभ्यते । परन्तु वृषभदेवीयटीकायाम् 'लिङ्गे इति' प्रतीकग्रहणे शुद्धः पाठो दृश्यते । इत्थमेव स्वोपज्ञविवरणे किमिति पाठो मुद्रितः सम्पादकेन । हस्तलेखे तु किति पाठो वर्तते । वृषभदेवीयटीकायां 'किमिति' अशुद्धप्रतीकनिर्देशेन सम्पादकोऽत्र भ्रान्तः । टीकाकारः प्रतिपदमितिना निर्दिशति । यथा----दिशीति चितीति । एवमिहापि किमीति शुद्धेन पाठेन भाव्यम् । तथा सति सूत्रे 'किम्' शब्दस्य सप्तम्यां किमि--रूपेण भाव्यम् । अस्यैव च संकेतः हस्तलेखस्थेन किति इत्यशुद्धेन पाठेनोपलभ्यते । चिति पदम् सूत्रे त्रुटितं वा स्यात् पूर्वसूत्रेणानुवर्त्यमानं वा स्यात् ।
यथात्र सूत्रे वृषभदेवीयटीकानुसारं लिङ्गे इति सप्तम्यन्तः पाठो शुद्धः, एवं पूर्वसूत्रेऽपि धातौ इति सप्तम्यन्तेन शुद्धेन पाठेन भाव्यम् ।
वृषभदेवीया व्याख्याऽशुद्धा--वृषभदेवेनैतत्सूत्रव्याख्याने लिङ्ग--पदेन स्त्रीपुंस्त्वादयः, किम्--पदेन एकत्वादिसंख्या च गृहीता। इदं व्याख्यानं वृषभदेवस्याज्ञानविजृम्भितं ज्ञेयम् । यतः पूर्वाचार्या लिङ्गपदेन तमेवार्थवच्छब्दरूपं निर्दिशन्ति यं पाणिनीयाः प्रातिपदिकनाम्ना स्मरन्ति । काशकृत्स्नस्य संक्षिप्ते संस्करणे कातन्त्रे लिङ्गस्य लक्षणम्--धातुविभक्तिवर्जमर्थवल्लिङ्गम् (२।१।१) इत्युपलभ्यते । इयमेव च लिङ्गसंज्ञा भरतनाट्यशास्त्रेऽप्युपलभ्यते । यथा----
एकस्य बहूनां वा धातोर्लिङ्गस्य वा पदानाम् ।
अस्यैव भरतवचनस्य व्याख्यानेऽभिनवगुप्तेन अर्थवल्लिङ्गमिति कातन्त्रसूत्रस्यैकदेश उद्धृतः ( काशकृत्स्नलक्षणस्य वैकदेशोऽपि संभवति )।
एतेन लिङ्गपदस्य वृषभदेवीयं व्याख्यानं चिन्त्यमिति स्पष्टं भवति । अपि च वृषभदेवेन पूर्वसूत्रव्याख्याने संख्यारूपोऽर्थः चित्पदस्य प्रतिपादितः, इह किम्पदस्य साऽर्थः प्रतिज्ञातः । अयं स्ववचनविरोधोऽपि तस्य दर्शनार्ह एव ।

34
पूर्वाचार्याणां लिङ्गसंज्ञाऽपरिज्ञानादिह वृषभदेवो भ्रान्तः स्यादिति प्रतिभाति । इत्यलमति विस्तरेण ॥
कैयटेनाद्धृते सूत्रे ----
३--प्रत्ययोत्तरपदयोः।1
अर्थः---- [तद्धित ] प्रत्ययविषये उत्तरपदे च परतः संख्यावाचिपदं समानाधिकरणेन पदेन सह समस्यते, स च द्विगुसंज्ञो भवति ।
टिप्पणी----पूर्वनिर्दिष्टोऽर्थः पातञ्जलमहाभाष्यं कैयटविरचितं प्रदीपं चानुसृत्य निदिष्टः। भाष्यकृता कैयटेन च सूत्रमिदं तद्धितार्थोत्तरपदसमाहारे च (२।१।२१) सूत्रस्य भाष्ये समुद्धृतः। तस्मात् काशकृत्स्नं यं प्रत्ययोत्तरपदयोः सूत्रं समासविधायकं, न तु केवलं द्विगुसंज्ञाविधायकम् । अत्रेदमपि सम्भवति यत् पतञ्जलिना कैयटेन च काशकृत्स्नसूत्रस्य तावानेवांशो निर्दिष्टः स्याद् यावद् विचारार्हः स्यात् । तथा सति काशकृत्स्नीयं कृत्स्नं सूत्रम् प्रत्ययोत्तरपदसमाहारेषु इति स्यात् ।
४--शताच्च ठन्यतावग्रन्थे ।2
अर्थः--शतशब्दात् क्रीताद्यर्थेषु ठन् यच्च प्रत्ययौ भवतः, अग्रन्थे वाच्ये ।
उदाहरणम्--शतेन क्रीतं वस्त्रम्--शत्यं शतिकं वा। अग्रन्थ इति किम्--शतमध्यायाः परिमाणमस्य निदानग्रन्थस्य इति शतकं निदानम् । इह ठन्यतौ न भवतः।
विवरणम्--पाणिनेः सूत्रमस्ति--शताच्च ठन्यतावशते (५।१।२१) । अस्यायमर्थः--शतप्रातिपदिकात् क्रीताद्यर्थेष्वर्हपर्यन्तेषु ठन्यतौ प्रत्ययौ भवतः, शतं चेद् वाच्यं न भवति । उदाहरणं पूर्ववत् । अशते ग्रहणात् शतसंख्यायां गम्यमानायां ठन्यतौ न भवतः । शतसंख्या च द्विविधा वाच्या भवति----स्वविषयिका अन्यविषयिका च । स्वविषयिका यथा----शतकं निदानम। इह

टिप्पणी


१. कैयट: 'तद्धितार्थोत्तरपदसमाहारे च' (२।१।५१) सूत्रस्य महाभाष्यप्रदीपे "काशकृत्स्नस्य 'प्रत्ययोत्तरपदयोः' इति सूत्रम्" इत्याह।। ।
२. कैयटः 'शताच्चठन्यतावशते' (५।१।२१) सूत्रस्य महाभाष्यप्रदीपे "आपिशलकाशकृत्स्नयोस्तु 'अग्रन्थे' इति वचनात्" इत्याह । अत्र कैयटेनापिशलकाशकृत्स्नसूत्रस्य तावानेवांश उद्धृतो यावान् पाणिनीयात् सूत्राद् भिद्यते। अतोऽस्माभिः शेषांशेन सह कृत्स्नसूत्रनिर्देशो व्यधायि।

35
निदानग्रन्थान्तर्गतानां शतसंख्यापरिमितानामध्यायानां शतकम् शब्देन बोधो भवति । अन्यविषयिका यथा--शत्यं शतिकं वा शाटकशतम् । इह शत्यम्--शतिकम् इत्येताभ्यां पदाभ्यां शतशाटकानां शतं रूप्याणि मूल्यमित्येतावानर्थो गम्यते, न तु शाटकानां शतं परिमाणं द्योत्यते । अत एव शाटकानां परिमाणद्योतनाय शाटकेन सह 'शतम' इति पदमुच्चार्यते । पाणिनीये सूत्रे 'अशते' इत्ययं प्रतिषेधः स्वविषयिकां शतसंख्यां प्रतिषेधति, अन्यविषयिकां वेति स्पष्टीकरणाय कात्यायनेन वार्तिकमारब्धम्--शतप्रतिषेधेऽन्यशतत्वेऽप्रतिषेधः। एतेन स्वविषयिका शतसंख्या यदा वाच्या भवति तदैवाशते इति प्रतिषेधः प्रवर्तते । यथा----शतकं निदानम् । यदा तु अन्यविषयिका शतसंख्या पदान्तरादिनाऽवगम्यते तदाऽशते इति प्रतिषेधो न प्रवर्तते । यथा----शत्यं शतिकं वा शाटकशतम् ।
सूत्रभेदस्य लक्ष्येषु प्रभावः----यद्यपि यथोपरि व्याख्यातं तथा शतकं निदानम् , शत्यं शतिकं वा शाटकशतम् लक्ष्येषु भेदो न भवति, तथापि यथा पाणिनीयं सूत्रं तथा शतं परिमाणमस्य गोसंघस्य इत्यत्र शत्यः शतिको वा गोसंघः इति प्रयोगो नोपपद्यते । यतः शत्यशतिकशब्दाभ्यां संघनिष्ठा स्वविषयिका शतसंख्यावद् द्योत्यते । यथा तु आपिशलीयं काशकृत्स्नीयं च सूत्रं तथा ग्रन्थे वाच्य एव ठन्यतौ प्रतिषिध्येते, न तु ततोऽन्यत्र । तेन 'शतं परिमाणमस्य गोसंघस्य' इत्यत्रापि शत्यः शतिको वा गोसंघः इति प्रयोग उपपद्यते ।
प्रयोगभेदस्य समाधानम्--वैयाकरणाः नित्याः शब्दा इति संगिरन्त इति सार्वजनीना प्रसिद्धिः। तथा सति न व्याकरणनियमैः शब्दभेदः संभवति, नित्यत्वविरोधात् । तस्मात् यत्र यत्र व्याकरणान्तरनियमैः शब्दभेदप्रतीतिर्भवति तत्र देशभेदात् कालभेदाद् वा व्यवस्था स्वीक्रियते । देशभेदाद् यथा----इञः प्राचाम् (२।४।६० ) इति पाणिनीयसूत्रेण प्राग्गोत्रे इञन्ताद्युवप्रत्ययस्य लोप उच्यते, तेन प्राग्गोत्रे वाच्ये 'पान्नागारिः पिता पानागारिः पुत्रः' इत्यत्र यञञोश्च (४।१।१०१) इत्यनेनोत्पन्नस्य फक्प्रत्ययस्य लुग् भवति, परन्तु उदीच्यगोत्रात् फक् श्रूयत एव । यथा--दाक्षिः पिता दाक्षायणः पुत्रः । यथा वा उदीचां वृद्धादगोत्रात् (४।१।१५७) इत्यनेन उदीच्य देशीयानामाचार्याणां मतेन 'आम्रगुप्तायनिः नापितायनिः' इत्यत्र फिञ् भवति, अन्यदेशीयाणामाचार्याणां मते 'आम्रगुप्तिः नापितिः' इति इञ एव भवति । तत्रोभयत्र देशभेदात् प्रयोगभेदे सत्यपि नैव स्वीक्रियते पारस्परिको विरोधः। एवं कालभेदादपि केचन शब्दा कदाचित् लोके लुप्तप्रचारा भवन्ति, त एव चान्यकाले पुनः प्रचारं लभन्ते । न तेन शब्दभेदः कल्प्यते वैयाकरणैः । एवं शत्यम् शतिकम् शतकम् प्रयोगाणां

36
निदानग्रन्थान्तर्गतानां शतसंख्यापरिमितानामध्यायानां शतकम् शब्देन बोधो भवति । अन्यविषयिका यथा----शत्यं शतिक वा शाटकशतम् । इह शत्यम्--शतिकम् इत्येताभ्या पदाभ्यां शतशाटकानां शतं रूप्याणि मूल्यमित्येतावानर्थो गम्यते. न तु शाटकानां शतं परिमाणं द्योत्यते । अत एव शाटकानां परिमाणद्योतनाय शाटकेन सह 'शतम' इति पदमुच्चार्यते । पाणिनीये सूत्रे 'अशते' इत्ययं प्रतिषेधः स्वविषयिकां शतसंख्यां प्रतिषेधति, अन्यविषयिकां वेति स्पष्टीकरणाय कात्यायनेन वार्तिकमारब्धम्----शतप्रतिषेधेऽन्यशतत्वेऽप्रतिषेधः। एतेन स्वविषयिका शतसंख्या यदा वाच्या भवति तदैवाशते इति प्रतिषेधः प्रवर्तते । यथा----शतकं निदानम् । यदा तु अन्यविषयिका शतसंख्या पदान्तरादिनाऽवगम्यते तदाऽशते इति प्रतिषेधो न प्रवर्तते । यथा----शत्यं शतिकं वा शाटकशतम् ।
सूत्रभेदस्य लक्ष्येषु प्रभावः----यद्यपि यथोपरि व्याख्यातं तथा शतकं निदानम् , शत्यं शतिकं वा शाटकशतम् लक्ष्येषु भेदो न भवति, तथापि यथा पाणिनीयं सूत्रं तथा शतं परिमाणमस्य गोसंघस्य इत्यत्र शत्यः शतिको वा गोसंघः इति प्रयोगो नोपपद्यते । यतः शत्यशतिकशब्दाभ्यां संघनिष्ठा स्वविषयिका शतसंख्यावद्द्योत्यते । यथा तु आपिशलीयं काशकृत्स्नीयं च सूत्रं तथा ग्रन्थे वाच्य एव ठन्यतौ प्रतिषिध्येते, न तु ततोऽन्यत्र । तेन 'शतं परिमाणमस्य गोसंघस्य' इत्यत्रापि शत्यः शतिको वा गोसंघः इति प्रयोग उपपद्यते ।
प्रयोगभेदस्य समाधानम्--वैयाकरणाः नित्याः शब्दा इति संगिरन्त इति सार्वजनीना प्रसिद्धिः। तथा सति न व्याकरणनियमैः शब्दभेदः संभवति, नित्यत्वविरोधात् । तस्मात् यत्र यत्र व्याकरणान्तरनियमैः शब्दभेदप्रतीतिर्भवति तत्र देशभेदात् कालभेदाद् वा व्यवस्था स्वीक्रियते । देशभेदाद् यथा---- इञः प्राचाम् (२।४।६० ) इति पाणिनीयसूत्रेण प्राग्गोत्रे इञन्ताद्युवप्रत्ययस्य लोप उच्यते, तेन प्राग्गोत्रे वाच्ये 'पान्नागारिः पिता पान्नागारिः पुत्रः' इत्यत्र यञञोश्च (४।१।१०१) इत्यनेनोत्पन्नस्य फक्प्रत्ययस्य लुग् भवति, परन्तु उदीच्यगोत्रात् फक् श्रूयत एव । यथा----दाक्षिः पिता दाक्षायणः पुत्रः । यथा वा उदीचां वृद्धादगोत्रात् (४।१।१५७) इत्यनेन उदीच्य देशीयानामाचार्याणां मतेन 'आम्रगुप्तायनिः नापितायनिः' इत्यत्र फिञ् भवति, अन्यदेशीयाणामाचार्याणां मते 'आम्रगुप्तिः नापितिः' इति इञ् एव भवति । तत्रोभयत्र देशभेदात् प्रयोगभेदे सत्यपि नैव स्वीक्रियते पारस्परिको विरोधः। एवं कालभेदादपि केचन शब्दा कदाचित् लोके लुप्तप्रचारा भवन्ति, त एव चान्यकाले पुनः प्रचारं लभन्ते । न तेन शब्दभेदः कल्प्यते वैयाकरणैः । एवं शत्यम् शतिकम् शतकम् प्रयोगाणां

37
टिप्पणी--(१) पूर्वनिर्दिष्टयोः सूत्रपाठयोर्मध्येऽन्तिमः सूत्रस्य पाठः, प्रथमस्तस्यैवैकदेशो ज्ञेयः ।
(२) पञ्चपाद्युणादिसूत्राणां प्राच्यपाठे1 ये प्रत्ययाः सर्वधातुभ्य इष्यन्ते तद्विधायकेषु सूत्रेषु 'सर्वधातुभ्यः' पदमुपादीयते । यथा--सर्वधातुभ्यष्ट्रन् ,2 सर्वधातुभ्योऽसुन्3; सर्वधातुभ्य इन4 इति ।
(३) क्विब्विणौ सर्वधातुभ्यः--इत्यनुष्टभ एकं चरणम् । पद्यानुरोधेनैव प्रत्यययोः पूर्वनिर्देशः । एवमन्यत्रापि ज्ञेयम् ।
(४) 'सोः' रूपमिदं षो अन्तकर्मणि (का० धा० ३।२१) इत्यस्य क्विप्प्युद्धृतम् । पाणिनीयनियमानुसारं त्वत्र आदेच उपदेशेऽशिति ( अष्टा० ६।१।४५ ) इत्यनेनात्त्वेन भाव्यम् । परन्तु काशकृत्स्नधातुपाठस्य कर्नाटकवृत्तौ शो तनूकरणे ( का० धा० ३।१९) इत्यस्य क्विपि शोः, छो छेदने ( का० धा० ३।२० ) इत्यस्य छोः, षो अन्तकर्मणि ( का० धा० ३।२१ ) इत्यस्य च सोः रूपं स्पष्टमुल्लिख्यते । तेन ज्ञायते काशकृत्स्नमते ओकारान्तानां धातूनां क्विपि आकारादेशो न भवति । काशकृत्स्नस्य सन्ध्यक्षराणामाकारः (क्रमिक संख्या २६) इति सूत्रम् अग्रे व्याख्यास्यते, तद्विकरणपर आत्त्वं शास्ति । यथा----ग्लायति म्लायति । विशेषस्तत्रैव द्रष्टव्यः। ।
(५) 'वाक् भाक् वात् गात्' एते विण्--प्रत्ययान्ताः । णित्त्वाद् वृद्धिरादौ सणे ( क्रमिक संख्या १२६ ) इत्यनेन वृद्धिः । 'वाक्' शब्दः पाणिनीयव्याकरणानुसारं किब्वचिप्रच्छि ( ३।२।१०८ ) इत्यनेन वार्तिकेन क्विपि धात्वचो दीर्घत्वे निष्पद्यते । 'भाक्' प्रयोगस्तु भजो ण्विः (३।२।६२) इत्यनेन ण्विप्रत्यये णित्त्वादुपधावृद्धौ संपद्यते । 'वात् गात्' उदाहरणे काशकृत्स्नमते वद--गदधात्वोर्ज्ञेये । पाणिनीयमतेऽपि 'ण्विः' इति योगविभागेनाञ्जसा साधयितुं शक्येते ।
७--अनुनासिकोऽनुषङ्गः।1
अर्थः--धातुप्रत्यययोरनुनासिकोऽर्थात् पञ्चमो वर्णोऽनुषङ्गसंज्ञो भवति ।

टिप्पणी


१. उणादिसूत्राणां प्राच्योदीच्यदाक्षिणात्यपाठानां विषयेऽस्मत्कृते 'सं० व्या० शास्त्र का इतिहास' नाम्नि ग्रन्थे २४ तमेऽध्याये ( भाग २, पृष्ठ १७८, १७९ ) द्रष्टव्यम् ।
२. उज्ज्वलदत्तीयोणादिवृत्ति ४।१५८॥ ।।
३. उज्ज्वलदत्तीयोणादिवृत्तिः ४।१८८॥
४. उज्ज्वलदत्तीयोणादिवृत्ति ४।११७॥ अमरटीकासर्वस्वे (भाग १, पृष्ठ ४२) 'इन् सर्वधातुभ्यः' इत्येवं प्रकारेणोद्धृतः ।
५. का० धा० व्या० १।६; ५ मे पृष्ठे, ५।४; १५६ तमे पृष्ठे चोद्धृतम् ।


38
टिप्पणी--(१) अनुनासिकसंज्ञा वर्गीयपञ्चमवर्णानां ज्ञेया। तथा च कातन्त्रीयं सूत्रम्--अनुनासिका ङञणनमाः (१।१।१३)।
(२) अनुषङ्गसंज्ञायाः फलमग्रिमसूत्रे वक्ष्यते । इयमनुषङ्गसंज्ञा कातन्त्रेऽपि व्यवह्रियते । यथा--अनिदनुबन्धानामगुणेऽनुषङ्गलोपः ( ३।८।१ ) ।
८--अनुषङ्गस्य लोपः।1
अर्थः--अनुषङ्गसंज्ञकस्य लोपः--अदर्शनं भवति । यथा--मन्थ--मथ्यते ।
टिप्पणी--(१) सूत्रमिदं चन्नवीरकविना भ्रस्जो पाके ( का० धा० ५।४) इति धातुसूत्रव्याख्यानेऽप्युद्धृतम्, परन्तु भ्रस्जधातौ न कश्चित् पञ्चमो वर्णः, यस्य लोपः स्यात् । चन्नवीरकविना त्विदं सूत्रमुपन्यस्य भ्रजति भ्रजनम् भ्रजनीयम् इत्यादयः प्रयोगा निर्दिष्टाः, तेन सकारस्य लोप इष्ट इति प्रतीयते । परन्तु सकारस्यानुषङ्गसंज्ञाविधायकं वचनं नोपन्यस्यते । एतेन काशकृत्स्नधातुपाठे भञ्जो पाके इति पाठः शक्यते कल्पयितुम् , परन्तु तथा सति भ्रष्टः भ्रष्टवान् इत्यादयस्तत्रैव निर्दिष्टाः प्रयोगा नोपपद्येरन् । किमत्र तत्त्वमिति देवा एव ज्ञातुमर्हन्ति ।
(२) अत्र अनुषङ्गलोपोऽनुनासिकानाम् ( क्रमिक संख्या ४४ ) इति सूत्रमप्यवलोकनीयम् ।
(३) कातन्त्रेऽप्यनुषङ्गस्य लोप उच्यते । तथा च सूत्रम्--अनिदनुबन्धानामगुणेऽनुषङ्गलोपः ( कात० ३।८।१)।
९--इदनुबन्धान्नुः।1
अर्थः--इकारानुबन्धाद् धातोः 'नुः' भवति । यथा--कुथि--कुन्थति, इदि--इन्दति ।
टिप्पणी-- (१) 'नु' इत्यत्र उकारोऽनुबन्धः, आगमस्तु नकारमात्रः । अयं नु--आगमः कुत्र स्याद् इत्यस्य निर्देशकं सूत्रं कर्नाटकवृत्तौ नोपलभ्यते । परन्तु काशकृत्स्नसंक्षेपरूपे कातन्त्रे आगम उदनुबन्धः स्वरान्त्यात् परः (२।१।६ ) इत्यनेनान्त्यात् स्वरात् परो विधीयते । तथैव चोदाह्रियते कर्नाटकवृत्तौ।

टिप्पणी


१. का० धा० व्या० १।६; ५ मे पृष्ठ उद्धृतम् ।
१. का० धा० व्या० १।७; ५ मे पृष्ठ उद्धृतम् ।


39
(२) कातन्त्रेऽप्यनुबन्धसंज्ञा प्रयुज्यते । तस्या अप्रयोगो (= लोपो) विधीयते । तथा च सूत्रम्----योऽनुबन्धोऽप्रयोगी (३।८।३१)। पाणिनीयैस्तु इत्संज्ञा विधीयते तस्य च लोपः (द्र० अष्टा० १।३।२,९)।
१०--धात्वादेः षः सः।2
अर्थः--धातोरादिर्यः षकारस्तस्य सकारो भवति । यथा--षिधु--सेधति ।
टिप्पणी--सूत्रमिदं कातन्त्रे (३।१०।२४) पाणिनीये (६।१।६४) चानयैवानुपूर्व्या पठ्यते ।
११--नो णः।2
अर्थः--धात्वादेरित्यनुवर्तते । धातोरादिर्यो णकारस्तस्य नकारो भवति । यथा--णमु--नमति ।
टिप्पणो--सूत्रमिदं कातन्त्रे (३।१०।२५) पाणिनीये (६।१।६५ ) च तन्त्रेऽनयैवानुपूर्व्या पठ्यते ।
१२--गमां वः।3
गमो गच्छ ।4
गमादेश्छः।5
टिप्पणी--(१) त्रयाणामप्येषां मूलपाठः सन्दिग्धः ।
(२) प्रथमं वचनं यम उपरमे ( का० धा० १।२२२) धातुव्याख्याने पठ्यते, 'गमादीनां मकारस्य वकारो भवति' इत्येवं व्याख्याय यवति इत्युदाह्रियते (पृष्ठ २९)। द्वितीयं वचनं गम्लृ धातुव्याख्याने (द्र० धातुसूत्र १।३३५ ) उद्ध्रियते, गच्छति इति चोदाह्रियते । (पृष्ठ ५७ ) । तृतीयं वचनम् इषु इच्छायाम् ( का० धा० ५।७१ ) धातुव्याख्याने निर्दिश्यते, इच्छति इति चोदाह्रियते ।
(३) त्रयाणां वचनानां तुलनया प्रथमवचने वः इत्यपाठ इति स्पष्टम् :

टिप्पणी


१. का० धा० व्या० १।१०, ६ ष्ठे पृष्ठे, १।२२३, २९ तमे पृष्ठे चोद्धृतम् ।
२. का० धा० व्या० १।२२२, २९ तमे पृष्ठ उद्धृतम् ।
३. का० धा० व्या० १।३५५, ५७ तमे पृष्ठ उद्धृतम् ।
४. का० धा० व्या० ५।७१, १६५ तमे पृष्ठ उद्धृतम् ।


40
नहि गमेः गवति इतीष्यते ग्रन्थकर्त्रा । तस्मात् गमां छः इति पाठेन भाव्यम् यवति स्थाने च यच्छति पाठेन । तथैव च तत्रास्माभिः शोधनं प्रदर्शितम् ।
(४) काशकृत्स्नवचनेषु प्रायेण बहुवचनेनैव निर्देश उपलभ्यते । यथा----दानादीनां सन् सार्वधातुके (क्रमिक संख्या ६५), यजां यवराणाम (क्रमिक संख्या ९९) तथैवेह गमां छः इत्येव मूलपाठ इति निश्चीयते । द्वितीयः पाठो ऋ ऋच्छः (क्रमिक संख्या ३७) दृशेः पश्यः (क्रमिक संख्या ३९) इत्यादिवद् ऊहितः स्यात् । तृतीयः पाठोऽर्थतोऽनुवादरूपो द्रष्टव्यः।
(५) कातन्त्रीयाः गमिष्यमां छ: (३।८।६९) इत्यत्र, पाणिनीयाः इषुगमियमां छः ( अ० ७।३।७७) इत्यत्र च विस्पष्टं त्रीनपि घातून् पठन्ति ।
१३--लोपोऽनुनासिकानां कानुबन्धे ।1
अर्थः--धातूनां येऽनुनासिका ( = ङ ञ ण न म ) वर्णास्तेषां ककारानुबन्धवति प्रत्यये लोपो भवति । यया--नम् क्त = नतम् , अवगतम् ।
१४--उदनुबन्धाद् इड् वा ।2
अर्थः--उकारानुबन्धवद्भ्यो धातुभ्यो वा इडागमो भवति । यथा--णमु--नतम् नमितम् ।
टिप्पणी--(१) पाणिनीयेन उदितो वा (अष्टा० ७।२।५६ ) इत्यनेन लक्षणेन क्त्वाप्रत्यय एव इड्विकल्प उच्यते, न तु निष्ठायाम् । तेन पाणिनीयमते नतम् इत्येव भवति । यदि नमितमपीष्यते चेत् स्वार्थिके इनि ( णिचि ) द्रष्टव्यः ।
(२) कातन्त्रे पाणिनीये च 'णम' इत्येव पठ्यते, नोदनुबन्धः ।
१५--दिवादेर्यन् ।3
अर्थः--दिवादिगणस्थेभ्यो धातुभ्यो यन् विकरणो भवति । यथा--दीव्यति ।
टिप्पणी--चन्नवीरकविना भ्वादिगणस्थे शुची शूची चुची चूची अभिषवे (१।२३०) इति धातुसूत्रव्याख्याने दिवादेर्यन् सूत्रमुद्धत्य शुच्यति शूच्यति

टिप्पणी


१. का० धा० व्या० १।२२३, २९ तमे पृष्ठे, १।३५५; ५७ तमे पृष्ठे चोद्धृतम् ।
२. का धा० व्या० १।२२३, ३० तमे पृष्ठ उद्धृतम् ।
३. का० धा० व्या० १।२३०, ३१ तमे पृष्ठे, ३।१; १३४ तमे च पृष्ठ उद्धृतम् ।

41
चुच्यति चूच्यति रूपाणि निर्दिष्टानि । दिवादिभ्यो यन् विधायकस्य भ्वादिगणे कथं प्रवृत्तिरिति नोक्तं कविना । पाणिनीयास्तु शुच्यी चुच्यी अभिषवे (तु०क्षीरत० १।३४१) इति यकारवन्तौ पठन्ति, तेषां शुच्यति चुच्यति आदीनि रूपाण्यञ्जसैव सिद्ध्यन्ति । कातन्त्रीया अपि शुच्यी चुच्यी ( कात० धातु० १।१६४ ) यकारवन्तावेवाधीयते।
इत्थमेव च उर्णुञ् आच्छादने ( २।६२) धातुसूत्रव्याख्याने अन्त्यमुकारमनुबन्धं मत्वा चन्नवीरकविः तनादेरुः ( क्रमिक संख्या ७३) इति सूत्रेण उविकरणं विदधाति । तत्रापि कथं तनादेरुः सूत्रस्य प्रवृत्तिरिति न स्पष्टीकृता कविना।
अत्रानुमानद्वयं शक्यते कर्तुम् । कदाचित् काशकृत्स्ने तन्त्रे शुचीप्रभृतीनां दिवादिवतिदेशकं किञ्चिद् वचनं स्यात् (एवमूर्णोतेरपि तनादित्वातिदेशकम्) यत् चन्नवीरकविना नोद्धृतम् । यद्वा यथा वैदिकप्रयोगेषु क्वचिद् द्विविकरणता दृश्यते1 तद्वदिहापि द्विविकरणता ज्ञेया ।
दिवादिवदतिदेशे 'वन्निर्देशात् स्वाश्रयमपि कार्ये भवति' इति नियमादिह दिवादिवदतिदेशेन यन्विकरणे शुच्यतिप्रभृतीनि रूपाणि, भ्वादिगणपाठाच्च2 शोचति चोचति प्रभृतीनि रूपाणि ज्ञेयानि । एवं छन्दोवद् द्विविकरणतायामपि एकविकरणप्रयोग उपपद्यत एव ।
१६--चजयोः कगौ कानुबन्धे ।3
अर्थः----धातोश्चकारजकारयोः स्थाने ककारगकारौ भवतः कानुबन्धवति प्रत्यये परतः। यथा-- शुच्+क्ति = शुच्+ति = शुक्तिः।। [ भज् + क्ति = भज् + ति = भग्+ति = भक्तिः ]
टिप्पणी--भक्तिः' इत्यत्र जकारस्य गकारादेशे ककारः केन भवतीति नोक्तं वृत्तिकृता ।

टिप्पणी


१. यथा 'नेषतु' इत्यत्र नयतेर्लोटि सिप्शपौ। द्र० काशिका तथा पदमजरी ३।१।८५ ॥
२. तुलना कार्या--पाणिनिः श्रुधातुं भ्वादिषु पठित्वा 'श्रुवः शृ च' (३।१।७४) सूत्रेण श्नुविकरणं तत्सन्नियोगेन शृ --आदेशं च विधाय शृणोति रूपं निदर्श्यति । तथा सति श्रुधातोर्भ्वादिषु पाठो व्यर्थो भवति । व्यर्थः सन् ज्ञापयति भ्वादिपाठात् शपाऽपि भाव्यम् । तथा सति 'श्रवति' आदीनि रूपाणि सिद्ध्यन्ति । श्रवत्यादीनि वेदेषु बहुत्र प्रयुज्यन्ते । काशकृत्स्नटीकायां ( १।३५४, पृष्ठ ५६ ) श्रुधातोः 'श्रवति' इत्येव रूपं निर्दिश्यते ।
३. का० धा० व्या० १।२३०, ३१ तमे पृष्ठ उद्धृतम् ।

42
१७--चुषादेर्दीर्घः ।4
अर्थः--चुषादीनां धातूनां दीर्घो भवति सार्वधातुके परतः । यथा -- चुष -- चूषति, तुष -- तूषति ।
टिप्पणी--(१) चन्नवीरकविना एतत्सूत्रार्थे 'सार्वधातुके' इत्युक्तम्, तत् कुतः संगृहीतमिति न ज्ञायते, किं कस्माच्चिद् पूर्वनिर्दिष्टसूत्रादनुवर्तत इति ? काशकृत्स्नव्याकरणे अन्--विकरण उत्सर्गः। तस्य चन्नवीरकविना भूधातौ निर्देशो नाकारि। कातन्त्रे तु अन्--विकरणः कर्तरि (३।४।३३) इति सूत्रं पठ्यते । अनः केन सार्वधातुकसंज्ञेति न ज्ञायते ।
(२) कातन्त्रे ( १।२१५--२१९) पाणिनीये ( १।४४८--४५३) चूषादयो दीर्घोपधा एव पठ्यन्ते । ह्रस्वपाठात् काशकृत्स्नमते ण्वुलि चोषकः तोषक: इत्यादीनि रूपाणि भवन्ति, कातन्त्रे पाणिनीये च दीर्घपाठात् चूषकः, तूषकः इत्येवमादीनि । एवमन्यकृदन्तेष्वपि भेदो ज्ञेयः । अस्मन्मते तु द्विविधा इमे धातवः ह्रस्वोकारवन्तो दीर्घोकारवन्तश्च ।
१८--हो ढः।5
अर्थः--हकारस्य ढकारो भवति । यथा -- मिह +तृ = मिढ् + तृ ।
टिप्पणो--चन्नवीरकविनेह मेढृ--शब्दसाधुत्वं प्रदर्श्यते। हो ढः सूत्रप्रवृत्त्यनन्तर मिढ् तृ रूपे सम्पन्ने तकारस्य धकारविधायकं सूत्रं टीकाकृता नोदाहृतम् । तच्च कार्यमग्रे व्याख्यास्यमानेन चतुर्थात् तथयोर्धः (क्रमिक संख्या १०८) सूत्रेण सम्पद्यते । तेन मिढ् धृ इत्यवस्थायाम् अग्रे निर्दिष्टानि सूत्राणि यथाक्रमं प्रवर्तन्ते ।
१९--सतवर्गयोः शचवर्गयोगे शचवर्गौ ।1
अर्थः--शकारचवर्गयोगे सकारतवर्गयोः [यथासंख्यं ] शकारचवर्गौ भवतः।
टिप्पणी--यद्यप्यस्य सूत्रस्य प्रकृते मेढृशब्दे नास्ति किंचित् प्रयोजनम् , तथाप्युत्तरसूत्रसाहचर्यप्रसङ्गेन सतवर्गयोः पदस्यानुवृत्तिनिदर्शनायेहोपन्यस्तम् । यथा काशकृत्स्नस्य १।२२३ धातुसूत्रव्याख्याने ( पृष्ठ २९) नो णः सूत्रप्रसंगेन धात्वादेः षः सः (द्र० क्रमिक संख्या १०, ११) सूत्रमप्युपस्थापितम् ।

टिप्पणी


१. का० धा० व्या० १।२८४, ४१ तमे पृष्ठ उद्धृतम् ।
२. का० धा० व्या० १।३१२; ४७ तमे पृष्ठ उद्धृतम् ।
३. का० धा. व्या० १।३१२; ४७ तमे पृष्ठ उद्धृतम् ।

43
२०--षटवर्गयोगे षटवर्गौ ।2
अर्थः--षकारटवर्गयोर्योगे सकारतवर्गयोः [ यथासंख्यं] षकारटवर्गौ भवतः। यथा -- मिढ् + धृ = मिढ् ढृ।
टिप्पणी--सूत्रमिदं कर्नाटकवृत्तौ त्रुटितं वर्तते । विनाऽनेन सूत्रेण न कथंचित् मेढृ प्रयोगसिद्धिः संभवति । ढृ--आदेशाभावे उत्तरसूत्रप्रवृत्तिरपि न भविष्यति । अतोऽस्माभिरूहितमिदं सूत्रं प्रकरणानुसारम् ।।
२१--ढो ढे लोपः पूर्वस्य समानस्य दीर्घः ।3
अर्थः--ढकारपरे ढकारस्य लोपो भवति पूर्वस्य च समानसंज्ञकस्य (= अ इ उ ऋ लृ) वर्णस्य दीर्घो भवति । यथा -- मिढ् ढृ = मिढृ = मीढृ ।
टिप्पणी--(१) कातन्त्रव्याकरणे दश समानाः (१।१।३ ) सूत्रेण अ आ इ ई उ ऊ ऋ ऋ लृ लॄ इत्येतेषां स्वराणां समानसंज्ञा विधीयते । इह दीर्घाणां दीर्घवचने प्रयोजनाभावात् 'अ इ उ ऋ लृ' एते पञ्चैवास्माभिर्निर्दिष्टाः।
(२) इयं समानसंज्ञा प्रतिशाख्यग्रन्थेष्वपि व्यवह्रियते। तत्र क्वचित् दशानां समानसंज्ञा विधीयते । क्वचित् लॄवर्णस्य दीर्घ परिहाप्य नवानाम् । अन्यत्र ऋकारस्यापि दीर्घभेदमनाश्रित्याष्टानामेव ।
(३) आपिशलपाणिनीयाः लॄकारस्य दीर्घभेदं नेच्छन्ति (द्र० आपिशल शिक्षा प्रकरण ६, पाणिनीया सूत्रात्मिका शिक्षा प्रक० ६)।
(४) कातन्त्रे ढे ढो लोपो दीर्घश्चोपधायाः (३।१०।६) इत्येवं पाठः ।
२२--नामिनो गुणः सार्वधातुकार्धधातुकयोः ।1
अर्थः--सार्वधातुकार्धधातुकसंज्ञकेषु प्रत्ययेषु परतः नामि--संज्ञकस्य (= इ ई उ ऊ ऋ ऋ लृ लॄ) स्वरस्य गुणो भवति । यथा--मीढृ = मेढृ ।
टिप्पणी--(१) अस्मद्देवनागरीप्रतिलिप्यां नामनो गुणः इति पाठः । स कदाचिल्लेखकप्रमादजः स्यात् । अग्रे व्याख्यास्यमाने १३६ तमे नामिनां इति शुद्ध एव पाठ उपलभ्यते ।

टिप्पणी


१. सूत्रमिदं कर्नाटकटीकायां नोपलभ्यते । द्रष्टव्या एतत्सूत्रस्था टिप्पणी ।
२. का० धा० व्या. १।३१२; ४७ तमे पृष्ठ उद्धृतम् ।।
३. का० धा० व्या० १।३१२, ४७ तमे पृष्ठ उद्धृतम् ।

44
(२) कातन्त्रे स्वरोऽवर्णवर्जो नामी ( १।१।१७ ) इत्यनेन अ--आवर्जितानामष्टानां (= इ ई उ ऊ ऋ ऋ लॄ) स्वराणां नामिसंज्ञा विधीयते ।
(३) इह नामिनां सामान्येन गुणविधानात् मीढृ इत्यत्र दीर्घस्य ईकारस्य गुणो विहितः। कर्नाटकवृत्तावन्यत्रापि अनन्त्ययोर्दीर्घेकारोकारयोर्गुणो विधीयते । यथा ईट--एटति, कूट--कोटति (धा० सू० १।११३, पृष्ठ १५)। एवमन्यत्रापि । पाणिनीयाः गुणं नेच्छन्ति ।
. २३--सेर्डा ।1
अर्थः--सेः प्रथमैकवचनस्य स्थाने डा--आदेशो भवति । मेढृसि = मेढृ + डा = मेढृ आ ।
२४--अनुबन्धे स्तनादेर्लोपः ।2
पाठशोधनम्--कर्नाटकवृत्तौ सूत्रस्य तद्वृत्तेश्च पाठो भ्रष्टो वर्तते । इह प्रकरणानुसारं--डानुबन्धे ऽन्त्यादेर्लोपः इति सूत्रपाठो द्रष्टव्यः। तथा सति अयं तस्यार्थो ज्ञेयः--डकारानुबन्धवति प्रत्यये परतोऽन्त्यः स्वर आदिर्यस्य, तत्समुदायस्य लोपो भवति । तेन मेढृ आ इत्यत्र ऋकारस्य लोपे मेढ्आ = मेढा इति रूपं सिद्धम् ।
टिप्पणी--तुलना कार्या--अचोऽन्त्यादि टि (अष्टा० १।१।६४) डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् (परिभाषा)। कातन्त्रे तु आ च न सम्बुद्धौ ( २।१।७० ) इति सूत्रेण ऋकारस्य आकारादेशः, सिप्रत्ययस्य च लोप उच्यते ।
२५--बहेरू रो मनि ।3
अर्थ:--बृहधातो ऋकारस्य 'र' आदेशो भवति मनि प्रत्यये परतः । यथा-- बृह् मन् = ब्रह्--मन् = ब्रह्मन् ।
टिप्पणी-- चन्नवीरकविना पुरुषसूक्तस्य कर्नाटकवृत्तौ बृहो ममन्मीन्मणिष्व4 इति सूत्रमुद्धृतम् । तदनुसारं ब्रह्म ब्रह्मन् ब्रह्मी ब्राह्मि शब्दाः सिद्ध्यन्ति ।

टिप्पणी


१. का० धा० व्या १।३१२; ४७ तमे पृष्ठ उद्धृतम् ।
२. का० धा० व्या० १।३१२, ४७ तमे पृष्ठ उद्धृतम् । सूत्रस्य पाठो भ्रष्टः प्रतीयते । अत्र पाठशोधनं द्रष्टव्यम्।
३. का० धा० व्या० १।३२० ; ५० तमे पृष्ठ उद्धृतम्
४. अत्र निर्दिष्टः सूत्रपाठो भ्रष्टः प्रतिभाति ।

45
२६-- सन्ध्यक्षराणामाकारः।1
अर्थः--सन्ध्यक्षराणाम् [ अन्ते वर्तमानानाम् ] आकारादेशो भवति । यथा--ग्लै अ ति = ग्ला अ ति । [ शिष्टं कार्यमुत्तरसूत्रेण ] ।
टिप्पणी--कातन्त्र सन्ध्यक्षराणामाकारोऽविकरणे (३।६।२०) इति पठ्यते । तेन अनादिविकरणाभावे आत्त्वं भवति । पाणिनीया अपि आदेच उपदेशेऽशिति (६।१।४५) इत्यनेन शप्श्यन्श्नाशश्नुश्नम्--विकरणातिरिक्तेषु स्थलेष्वात्त्वं विदधति ।
२७--आतो युः।2
अर्थ:--आकारान्तानां धातूनां 'यु' आगमो भवति अनि विकरणे । यथा--ग्ला अ ति = ग्ला य् अ ति = ग्लायति ।।
टिप्पणी--'अनि विकरणे' इत्यंशश्चन्नवीरकविना वृत्तौ कुतः संगृहीत इति न ज्ञायते । इह ५४ चतुःपञ्चाशत्तमं सूत्रमप्यनुसन्धेयम् । कातन्त्रपाणिनीया आकारादेशमविधाय ऐकारस्यायादेशेन रूपं साधयन्ति ।
 २८--ईद् आतः कानुबन्धे ।3
अर्थः--ककारानुबन्धवति प्रत्यये परत आकारान्तस्य धातोरीकारादेशो भवति । यथा--रै+क्ति = रा ति = रीतिः, रीतम् ।
२९--धेटो धयः।4
अर्थः--धेट्धातोर्धय--आदेशो भवति [ अविकरणे परतः ] यथा--धयति।
टिप्पणी--कर्नाटकवृत्यनुवादे धेटोयः इत्यपपाठः। अर्थे कोष्ठान्तर्गतः पाठोऽस्माभिः संयोजितः, कर्नाटकवृत्तौ नोपलभ्यते । एवमुत्तरसूत्रार्थेष्वपि तत्र तत्र ज्ञेयः ।
३०--पः पिबः।5
अर्थः--पाधातोः पिब--आदेशो भवति [ अन्विकरणे परतः] । यथा--पिबति ।

टिप्पणी


१. का० धा० व्या० व्या० १।३२४; ५० तमे पृष्ठे उद्धृतम् ।
२. का० धा० व्या० १।३२४, ५० तमे पृष्ठ उद्धृतम् ।
३. का० धा० व्या० १।३३१; ५१ तमे पृष्ठ उद्धृतम् ।
४. का० धा० व्या० १।३३९, ५३ तमे पृष्ठ उद्धृतम् ।
५. का० धा० व्या० १।३३९; ५३ तमे पृष्ठ उद्धृतम् ।

46
टिप्पणी--सूत्रमिदमनयैवानुपूर्व्या कातन्त्रे ( ३।८।१७० ) ऽपि पठ्यते ।
३१--घ्रो जिघ्रः।1
अर्थः--प्राधातोर्जिघ्र--आदेशो भवति [अन्विकरणे परतः ] । यथा--जिघ्रति ।
टिप्पणी--सूत्रमिदं कातन्त्रे ( ३।८।७१ ) ऽपीत्थमेव पाठ्यते ।
३२--ध्मो धमः।2
अर्थः-- ध्माधातोर्धम आदेशो भवति [ अन्विकरणे परतः ] । यथा--धमति ।
टिप्पणी--इदमपि सूत्रं कातन्त्रे (३।८७२ ) अनयैवानुपूर्व्या पठ्यते ।
३३--स्थः तिष्ठः।3
अर्थः--स्थाधातोस्तिष्ठ--आदेशो भवति [अन्विकरणे परतः ] । यथा--तिष्ठति । टिप्पणी--इदमपि सूत्रं कातन्त्रे ( ३।८।७३ ) इत्थमेव पठ्यते ।
३४--म्नो मनः ।4
अर्थः--नाधातोर्मन--आदेशो भवति [अन्विकरणे परतः]। यथा--मनति ।
टिप्पणी--इदमपि सूत्रं कातन्त्रे ( ३।८।७४ ) अनयैवानुपूर्व्या पठ्यते ।
३५--दाणो यच्छुः।5
अर्थः--दाण्धातोर्यच्छु--आदेशो भवति [अन्विकरणे परतः] यथा--यच्छति।
टिप्पणी--'यच्छुः' इत्यत्रोकारानुबन्धः किमर्थं इति न ज्ञायते । कातन्त्रे --दाणो यच्छः ( ३।८।७५ ) इत्येव पाठः।

टिप्पणी


१. का० धा० व्या० १।३४०, ५३ तमे पृष्ठ उद्धृतम् ।
२. का० धा० व्या० १।३४०, ५३ तमे पृष्ठ उद्धृतम् ।
३. का० धा० व्या० १।३४२, ५३ तमे पृष्ठ उद्धृतम् ।
४. का० धा० व्या० १।३४३, ५३ तमे पृष्ठ उद्धृतम् ।
५. का० धा० व्या० १।३४४, ५३ तमे पृष्ठ उद्धृतम् ।

47
३६--ह्रस्वस्य तोऽन्तः पानुबन्थे ।1
अर्थः--ह्रस्वस्वरान्तस्य धातोरन्ते तकारागमो भवति पकारानुबन्धवति प्रत्यये परतः । यथा--सृ + क्विप् = सृत् ।
विवरणम्--चन्नवीरकविना सूत्रार्थनिर्देशानन्तरं सृत् सृ इति द्वे रूपे निर्दिष्टे । इत्थमेव ऋ गृ घृ धातूनां (धातुसूत्र १।३५०, ३५१, ३५२; पृष्ठ ५५) कृदन्तेषु ऋ गृ घृ रूपाणि निर्दिष्टानि । एतैः सह यान्यान्यानि कृदन्तानि तानि नपुंसकलिङ्गानि पठ्यन्ते, अतः साहचर्यात् ऋ गृ घृ रूपाण्यपि नपुंसकलिङ्गान्येव ज्ञेयानि । सृत् सृ प्रयोगाभ्याम् ऋ गृ घृ प्रयोगैश्चैतत् सन्दिह्यते यत् काशकृत्स्नस्योक्तसूत्रे कस्माच्चित् पूर्वसूत्रात् वा पदमनुवर्तते । वानुवृत्तेश्चन्नवीरकविना सूत्रार्थे निर्देशो नाकारि, यद्वा विकल्पेन तकारलोपविधायकं सूत्रं कर्नाटकवृत्तौ त्रुटितम् । यथा पूर्वनिर्दिष्टं षटवर्गयोगे षटवर्गौ ( क्रमिक संख्या २०) सूत्रं वृत्तौ नष्टम् । अस्तु किमपि कारणम्, एतावत्तु निश्चितमेव यत् काशकृत्स्नमते ह्रस्वस्वरान्तधातोः क्विपि तकारयुक्ताः तकाररहिताश्च द्विविधाः शब्दा निष्पद्यन्ते इति ।
पाणिनीयास्तु ह्रस्वस्य पिति कृति तुक् (अ० ६।१।७१) इति सूत्रेण तकारान्तानामेव साधुत्वमाचक्षते । यदि तु पाणिनीये तुगागमविधायके सूत्रे शेश्छन्दसि बहुलम् (अ० ६।१।७०) इति सूत्राद् बहुलपदानुवृत्तिः स्यात्तर्हि पाणिनीयेऽपि मते द्विविधानां शब्दानां साधुत्वं शक्यते वक्तुम् ।
वस्तुतः पाणिनेः कः सूत्रार्थोऽभिमत इति नेदानीं शक्यते निश्चयेन वक्तुम्, यतः सम्प्रति यावत्या अष्टाध्याय्या वृत्तयः समुपलभ्यन्ते ताः सर्वा एव प्रायेण महाभाष्यस्य प्रभावेण प्रभाविताः सन्ति । महाभाष्यस्य रचनातः पूर्वमष्टाध्याया या वृत्तय आसन् तासु सूत्रार्थविषये महदन्तरमासीत् । उदाहरणरूपेण गाङ्कटादि (१।२।१) सूत्रस्य महाभाष्यं द्रष्टुं शक्यते, यत्रतत्सूत्रविषयकाश्चत्वारोऽर्था उपन्यस्ता दृश्यन्ते,2 परन्तु सम्प्रत्युपलभ्यमानासु वृत्तिषु तेषामेकतम3 एव महाभाष्यसिद्धान्तरूपेण स्वीकृतोऽतिदेशरूपोऽर्थ उपलभ्यते ।

टिप्पणी


१. का० धा० व्या० १।३४९; ५४ तमे पृष्ठ उद्धृतम् ।
२. द्र० ओरियन्टल कालेज मैगजीन लाहौर, नवम्बर १९३९ ई० प्रकाशितेऽङ्केऽस्मदीयः 'अष्टाध्यायी की महाभाष्य से प्राचीन वृत्तियों का स्वरूप' नामा लेखः ।
३. दशपाद्युणादिवृत्तौ यत्र यत्र प्रत्ययस्य ङित्त्वं कित्त्वं चित्त्वं च विधीयते तत्र सर्वत्र तत्तत्संज्ञाविधानरूपोऽन्योऽप्यर्थो दृश्यते । तेन महाभाष्ये (१।२।१) संकेतितानां चतुर्णामर्थानां सद्भावो ज्ञाप्यते ।

48
३७--ऋ ऋच्छः ।1
अर्थः--ऋधातोः स्थाने ऋच्छ--आदेशो भवति [ अन्विकरणे परतः] । यथा--ऋच्छति ।
टिप्पणी--काशकृत्स्नीये धातुपाठे ऋ प्रापणे च (१।३५०) ऋ गतौ ( १।३५१) इति द्वौ धातू पठ्येते । तत्र कर्नाटकवृत्तौ पूर्वस्य प्रापणार्थस्य ऋच्छादेशमुक्त्वा ऋच्छति रूपं निर्दिश्यते, अपरस्य तु अरति रूपम् । किमत्र कारणमिति न ज्ञायते । अपि च ऋ प्रापणे च इत्यत्र चाद् गत्यर्थः समुच्चीयत एव, पुनर्गतौ पाठस्य प्रयोजनं मृग्यम् । मन्ये पुनः पाठसामर्थ्यादेव प्रापणार्थस्य ऋच्छतिरूपं गत्यर्थस्य च अरतिरूपमिति वैशिष्ट्यं ध्वन्यत इति ।
पाणिनीये धातुपाठे द्वयोरप्यर्थयोः समुच्चयं कृत्वा ऋ गतिप्रापणयोः (क्षीरत० १।५६८) इत्येवं पठ्यते । यद्यपि कातन्त्रकृद् काशकृत्स्नपाठमेवानुकरोति तथापीह कातन्त्रे ऋ प्रापणे च इत्येव पठ्यते तस्यैव च अर्तेर्ऋच्छः (३।१।१७७) इति ऋच्छादेशो विधीयते ।
३८--चजोः कगौ।2
अर्थः--चकारजकारयोः स्थाने ककारगकारादेशौ भवतः। यथा--सञ्ज अ= सङ्गः, ष्वञ्ज अ = स्वङ्गः।
टिप्पणी--पाणिनीयतन्त्रानुसारं सङ्गस्वङ्गयोर्घञि चजोः कु घिण्ण्यतोः (अ० ७।३।५२ ) सूत्रेण कुत्वं भाति । प्रकृतसूत्रसरूप एव चजयोः कगौ कानुबन्धे ( क्रमिक संख्या १६) इति सूत्रं पूर्वं व्याख्यातम् । किमिमे पृथक सूत्रे उताहो एकस्यैव द्विधारूपेण पाठ इति विचारणीयम् । पूर्वसूत्रोदाहरणे शुक्तौ पाणिनीयमते चोः कुः (८।२।३०) इत्यनेन कुत्वं भवति, सङ्गस्वङ्गयोः चजोः कु घिण्ण्यतोः ( ७।३।५२) इत्यपरेण । तथा काशकृत्स्ने तन्त्रेऽपि इमे पृथक् सूत्रे संभवतः।
३९--दृशेः पश्यः।3
अर्थः--दृशधातोः स्थाने पश्य--आदेशो भवति [ अविकरणे परतः ] । यथा--पश्यति ।

टिप्पणी


१. का धा० व्या० १।३५०, ५५ तमे पृष्ठ उद्धृतम् ।
२. का धा० व्या० १।३६८, ५८ तमे पृष्ठ उद्धृतम् ।
३. का० धा० व्या० १।३६९; ५९ तमे पृष्ठ उद्धृतम् ।

49
टिप्पणी--सूत्रमिदं कातन्त्रे ( ३।८।७८) अनयैव वर्णानुपूर्व्या पठ्यते ।
४०--दृशादीनां य्वृणां यवरा अकानुबन्धे ।1
अर्थः-- दृशप्रभृतीनां धातूनाम् इ उ ऋ इत्येतेषां स्थाने यथासंख्यं य व र आदेश भवन्ति ककारानुबन्धरहिते प्रत्यये परतः। यथा--दृश् तृ= द्रश् तृ [ शिष्टं कार्यमग्रे द्रष्टव्यम् ] ।
टिप्पणी--(१) इह सूत्रपाठे अकानुबन्धे इत्यस्य स्थाने अनुबन्धे इत्येवोपलभ्यते । कर्नाटकवृत्तौ तु सम्यग्व्याख्यायते तेन प्रतीयतेऽस्मदीयेऽनुवाद एव लेखकप्रमादात् पाठभ्रंशः समजायत इति ।
(२) एतेन सूत्रे य व र आदेशा अकारविशिष्टा जायन्ते, अन्यथा द्रष्टा इत्यत्र रेफमात्रादेशे तत् पदं न सिध्येत । पाणिनीये मते तु सृजदृशोर्ऋकारात् परोऽकारागमो भवति ( अ० ६।१।५८ ) ततश्च ऋकारस्य स्थाने यणादेशे स्रष्टा द्रष्टा इति पदे निष्पद्यते।
(३) इहाग्रे निर्दिश्यमानौ य्वृणां यवरास्तृचि, य्वृणां यवराः ( क्रमिक संख्या १०० ) पाठावप्यनुसन्धेयौ। अस्मन्मते तौ पाठावस्यैव सूत्रस्यैकदेशौ स्तः।
४१--छशषराजादीनां षोऽघोषे ।2
अर्थः--छकारशकारषकाराणामन्ते वर्तमानानां राजधातोश्चान्त्यवर्णस्य षकारादेशो भवति अघोषसंज्ञकेषु (वर्गाणां प्रथमद्वितीयेषु ) वर्णेषु परतः । यथा--दृश् तृ= द्रश् तृ = द्रष् तृ= द्रष् टृ = द्रष्टृ = द्रष्टा ।।
टिप्पणी--तुलना कार्या भृजादीनां षः, छशोश्च (का० ३।८।५९,६०) इति कातन्त्रीयसूत्राभ्यां सह ।
४२--दिशादीनां कः।3
अर्थः--दिशप्रभृतीनां धातूनां शकारस्य ककारादेशो भवति । यथा--दृश् क्विप् = दृश् = दृक्।
टिप्पणी--चन्नवीरकविनेह स्वटीकायाम् 'अघोषे घोषे च वर्णे परतः' इत्युक्तम् , तत्कुतः संगृहीतमिति न ज्ञायते । वस्तुतो वृत्तौ 'अघोषे घोषे च

टिप्पणी


१. का० धा० व्या० १।३६९. ५९ तमे पृष्ठ उद्धृतम् ।
२. का० धा० व्या० १।३६९, ५९ तमे पृष्ठ उद्धृतम् ।
३. का० धा० व्या० १।३६९; ५९ तमे पृष्ठ उद्धृतम् ।

50
परतः' इत्यंशो लक्ष्यविरोधाच्चिन्त्य एव, यतो ह्यनेन पदान्त एव कुत्वं भवतीत्युदाहृतेन दृक्पदेन विज्ञायते । तुलनीयं 'क्विन्प्रत्ययस्य कुः' ( ८।२।६२ ) इति पाणिनीयं सूत्रम् ।
४३------कशेर्यप इपुश्च ।1
अर्थ--कशधातोर्यप इपुश्च प्रत्ययौ भवतः । यथा----कश्यपः, हिरण्यकशिपुः।
टिप्पणी----(१) अस्मन्नागरीप्रतिलिप्यां कशेर्यपदयुश्च पाठो वर्तते । स लेखक प्रमादाद् भ्रष्टः प्रतीयते । अस्माभिस्तु यथालक्ष्यं पाठः संशोधितः ।
(२) तैत्तिरीयारण्यके कश्यपः पश्यको भवति यत्परिपश्यति सौक्ष्म्यात् ( १।८।८) पाठ उपलभ्यते स खल्वर्थनिर्देशपरो न वर्णव्यत्ययेन पश्यक एव कश्यपः संवृत्त इति निदर्शनपरः । एवं सिंहतर्कुशब्दयोः पतञ्जलिना ( महा० ३।१।१२३) यास्केन (निरु० ३।१८) च यो वर्णविपर्ययः प्रदर्शितः सोऽप्यर्थनिदर्शनपर एव ज्ञेयः । एतच्चानेन काशकृत्स्नधातुपाठेन विस्पष्टं भवति । अत्र हि कश्यपपदं स्पष्टमेव यपप्रत्ययान्तं व्युत्पाद्यते, एवं सिंहशब्दस्य मूलभूता षिहि प्रकृतिरिह ( का० धातुसूत्र १।३१६, पृष्ठ ४८,४९) पठ्यते ।
४४--अनुषङ्गलोपोऽनुनासिकानाम् । 2
अर्थः--अनुनासिकानामनुषङ्गस्य लोपो भवति । यथा--दंश--दशति ।
टिप्पणी--(१) चन्नवीरकवेरस्य सूत्रस्य व्याख्याऽस्पष्टा वर्तते । सूत्रार्थोऽपि यथामुद्रित पाठानुसारं न विज्ञायते । अनुनासिकानामेवानुषङ्गसंज्ञा पूर्वम् अनुनासिकोऽनुषङ्गः (क्रमिक संख्या ७) सूत्रेण प्रतिपाद्यते, अनुषङ्गस्य लोपः (क्रमिक संख्या ८) इत्यनेन च तस्य लोपो विधीयते ।
(२) यदीह अनुनासिकानाम् इत्यस्यानुनासिकवतां धातूनामित्यर्थः क्रियेत, तस्य चानुषङ्गस्य लोप उच्येत, तथापि न पूर्वनिर्दिष्टाभ्यां सप्तमाष्टमसूत्राभ्यां किञ्चिद् विशिष्यते।
(३) पाणिनीयास्तु मथ्यते ( सप्तमाष्टम--सूत्रयोरुदाहरणे) इत्यत्र अनिदितां हल उपधायाः ङ्किति (६।४।२४ ) सूत्रेण, दशति इत्यत्र दंशसञ्जस्वञ्जां शपि ( ६।४।२५) इत्यनेन च नकारस्य लोपं विदधति । कातन्त्रीया

टिप्पणी


१. का० धा० व्या० १।३७०, ५९ तमे पृष्ठ उद्धृतम् ।
२. का० धा० व्या० १।३७१, ५९ तमे पृष्ठ उद्धृतम् ।

51
अपि उक्तोदाहरणयोर्यथासंख्यम् अनिदनुबन्धानामगुणेऽनुषङ्गलोपः (३।८।१ ) इत्यनेन दन्शिसन्जिस्वन्जिरन्जीनामनि (३।८।४) इत्यनेन चानुषङ्गस्य लोपं प्रतिपादयन्ति ।
४५--भूते भव्ये वर्तमाने भावे कर्तरि कर्मणि ।
प्रयोजके गुणे योग्ये धातुभ्यः स्युः क्विबादयः॥1
अर्थः--भूते भविष्यति वर्तमाने च काले, भावे = धात्वर्थे, कर्तरि, कर्मणि, प्रयोजके च कारके [ = हेतौ], गुणे = गौणे कर्मणि, योग्येऽर्हार्थे धातुभ्यः क्विबादयो भवन्ति ।
टिप्पणी--इह सूत्रे 'कर्मणि' पदेन प्रधानं कर्मोच्यते, 'गुणे' इत्यनेन गौणं कर्म । अत्रार्थे गुणशब्दस्य प्रयोगः 'कथिते लादयश्चेत् स्युः षष्ठीं कुर्यात् तदा गुणे2 इति महाभाष्यनिर्दिष्टायां करिकायामप्युपलभ्यते । कैयटेनात्र गुणे तव गुणकर्मत्वेनाभिमते2 इत्येवं व्याख्यातम् । उत्तरवचने तु कथितेऽभिहिते त्वविधिस्त्वमतिर्गुणकर्मणि लादिविधिः सपरे2 इति स्पष्टमेव गुणकर्मणि पदं पठ्यते । यत्तु ब्रुविशासिगुणेन च यत्सचते2 इत्यत्र गुणपदं तत्तु क्रियापेक्षया गुणरूपसाधनपरम् , तच्चात्रप्रधानं कर्म, तेन प्रधानकर्मणा यत्सचते संबद्ध्यते तदकीर्तितम् तच्च गुणकर्म ।
४६--पुल्यगिभ्यामस्त्योऽस्तिश्च ।2
अर्थः--पुल अग इत्येताभ्यां धातुभ्याम् अस्त्योऽस्तिश्च प्रत्ययो भवति । यथा--पुलस्त्यः, पुलस्तिः; अगस्त्यः, अगस्तिः।
टिप्पणी--(१) अत्र यथासंख्यं नेष्यते, तच्च धात्वोः समासनिर्देशेन प्रत्ययोश्वासमस्तनिर्देशेन ज्ञायते । अन्यथा प्रत्ययावपि समस्तौ पठ्येताम् । कर्नाटकवृत्तिकृताऽपि चेह अगस्त्यः अगस्तिः इत्युभे रूपे निर्दिष्टे3 , तेनाऽपि यथासंख्याभावो विज्ञायत एव ।
(२) एतेन अगस्त्य अगस्ति द्विरूपशब्दसाधनेन विज्ञायते यत् पाणिनीये आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् ( २।४।७७) लक्षणे यस्य 'अगस्तयः' पदस्य साधनाय अगस्त्यस्थाने 'अगस्ति आदेशो विधीयते, स अगस्ति--प्रकृत्यन्तर

टिप्पणी


१. का० धा० व्या० १।३७२ तमे सूत्र उद्धृतम् ।।
२. महाभाष्य १।४।५१॥
२. का० धा० व्या० १।४१० तमे सूत्र उद्धृतम्।
३. पुल--धातुव्याख्याने तु पुलस्त्य इत्यैवोच्यते ।

52
समुद्भव इति निदर्शनाय । तेन अगस्त्य--शब्दस्य बहुषु प्रयोगो न भवति, अगस्तिप्रकृत्यन्तरस्यैव भवतीति सूत्रस्य भावो व्याख्येयः ।
४७--स्फायः स्फी।1
अर्थ--स्फायी--धातोः स्फी आदेशो भवति । यथा--स्फीतम् ।
टिप्पणी--कातन्त्रस्य वररुचिप्रोक्ते कृदन्तभागे2 (४२ ) सूत्रमिदमनयैव वर्णानुपूर्व्या पठ्यते । उत्तरसूत्रस्था टिप्पण्यत्राप्यनुसंधेया ।
४८--प्यायः पी।1
अर्थ--प्यायी--धातोः पी आदेशो भवति । यथा--पीतम् , पीतिः।
टिप्पणी--इदमपि सूत्रं कातन्त्रस्य कृदन्तभागे (४३) इत्थमेव पठ्यते ।
विवरणम्--पाणिनिः ( अष्टा० ६।१।२२,२८) वररुचिश्च ( कातन्त्रकृद्भागप्रवक्ता ) इमावादेशौ निष्ठायामेव विदधाति । परन्तु कर्नाटकवृत्तौ प्यायः पी सूत्रानन्तरं पीतिः इत्युदाहरणमपि पठ्यते । तेन ज्ञायते क्तिन्प्रत्ययेऽपि स्फीपी आदेशौ भवत इति । तथा सति तकारादौ किति प्रत्यये सामान्येनेमावादेशौ काशकृत्स्ने विहिताविति विज्ञायते । यद्वा कर्नाटकवृत्तौ पीतिः पदं प्रमादपठितं स्वीकार्यम् ।
४९--नान्तः क्षुण्णादीनाम् ।3
पाठशोधनम्--इह कर्नाटकवृत्तौ सूत्रस्य तद्वृत्तेश्च पाठः सन्दिग्धो वर्तते । यथापठितस्य न कश्चनार्थो विज्ञायते । प्रकरणानुरोधेन च ज्ञायते क्षोभनम् क्षोभनीयम् इत्युदाहृतयोरुदाहरणयोर्णत्वं निराकर्तुं सूत्रमिदमुपन्यस्यते वृत्तिकृता। एवं च सति सूत्रस्य नातः क्षुभादीनाम् इत्येवं पाठेन भाव्यम् ।
सूत्रार्थः--नातः क्षुभादीनाम् इत्यस्यायमर्थो ज्ञेयः--क्षुभादीनां धातूनां सम्बन्धिनि कृत्प्रत्ययेऽकारादुत्तरस्य नकारस्य णकारादेशो न भवति ।
विशेषः--पाणिनीयमते त्वत्र क्षोभणम् क्षोभणीयम् इति णत्वं भवत्येव ।

टिप्पणी


१. का० धा० व्या० १।४९२ तमे सूत्र उद्धृतम् ।
२. एतद्विषयेऽस्मदीयः 'सं० व्या० शास्त्र का इतिहास' नामा ग्रन्थो (भाग १,पृष्ठ ५११, द्वि० सं०) द्रष्टव्यः।
३. का० धा० व्या० १।५७१ तमे सूत्र उद्धृतम् ।।

53
५०--इक्तिपौ धातुस्वरूपे ।1
अर्थः--धातोः स्वरूपे [ = क्रियायां भावे च ] इक् तिप् इत्येतौ प्रत्ययौ भवतः । यथा--वृतिः = वर्तनम् ; वर्तिः = दीपाङ्गम् (बत्ती इति भाषायाम् )।
टिप्पणी--महाभाष्ये ( ३।३।१०८ ) तु इक्श्तिपौ धातुनिर्देशे इति वार्तिकं पठ्यते । तस्यायमर्थः--धातुनिर्देशे धातोरिक् श्तिप् इत्येतौ प्रत्ययौ भवतः। यथा पाणिनीये--स्तम्बकणयोरमिजपोः (३।२।१३ ) इत्यत्र रमि इतीका, अधिकरणे शेतेः ( ३।२।१५) इत्यत्र च शेतेः इति श्तिपा निर्देश उपलभ्यते । यदि काशकृत्स्नस्य सूत्रस्याप्ययमेवार्थः स्यात् तर्हि पुल्यगिभ्याम् (क्रमिक संख्या ४६) इत्यत्रोभयोर्धात्वोरिका निर्देशो ज्ञेयः । तिप्प्रत्ययेन च धातुनिर्देशः काशकृत्स्नस्योपलब्धेषु सूत्रेषु न दृश्यते । कातन्त्रे तु तिपानिर्देशो बहुत्रोपलभ्यते । एतेन कर्नाटकवृत्युक्तोऽर्थः प्रामादिक इति विज्ञायते ।
५१--कृपो रो लः।2
अर्थ--कृपधातो रेफस्य लकारो भवति । यथा--कल्पते ।।
५२--मानुबन्धाद् इन्मा ।3
अर्थ--मानुबन्धेभ्यो धातुभ्यो इन् प्रत्ययो णानुबन्धवन्न भवति । यथा--ज्वरयति ।
टिप्पणी--अस्मिन् सूत्रे ‘णानुबन्धवत्' पदं न दृश्यते । तच्चाग्रे व्याख्यास्यमानेन ( क्रमिक संख्या १२५) इन् णानुबन्धवत् सूत्रेण पूर्यते, अर्थात् इन् प्रत्ययस्य यत् णानुबन्धवत्त्वं विहितं तन्मानुबन्धाद् धातोर्न भवति । णानुबन्धवदतिदेशाभावे वृद्धिरादौ सणे । (क्रमिक संख्या १२६ ) सूत्रेणोच्यमाना वृद्धिर्नंभवति । काशकृत्स्ने धातुपाठे घटादयो मानुबन्धाः इति गणसूत्रेण (१।६१९) घटादीनां मानुबन्धवत्त्वमतिदिश्यते । तेन इनो णानुबन्धवत्त्वकार्यं यत्प्राप्यते तदनेन प्रतिषिध्यते ।
पाणिनिकातन्त्रकारौ तु घटादीनां वृद्धिं विधाय पुनर्ह्रस्वत्वमनुशिष्टः । तथाहि--मितां ह्रस्वः (अष्टा० ६।४।९२) मानुबन्धानां ह्रस्वः (का० ३।६।६५) इत्युभयोर्यथासंख्यं सूत्रम् ।।

टिप्पणी


१. का० धा० व्या० १।५७६ तमे सूत्र उद्धृतम् ।
२. का० धा० व्या० १।५८० तमे सूत्र उद्धृतम् । पाणिनिरपीत्थमेव पपाठ (८।२।१८)। 'कृपे रो लः' इति कातन्त्रीयः पाठः ।
३. का० धा० व्या० १।५१२ तमे सूत्र उद्धृतम् ।

54
५३--दाराः पुंसि भूम्नि ।1
अर्थः--दारशब्दः (भार्यावाचकः) पुँल्लिङ्गे भूम्नि = बहुवचने च प्रयुज्यते । यथा दाराः = भार्या । ।
टिप्पणी--दारशब्दस्य बहुत्वं प्रायिकम् , एकवचनान्तस्यापि दर्शनात् । तद्यथा--श्रोत्रियस्य दारेण (बृ० उ० ६।४।१२), आचार्यदारे (आप० धर्म १।२।७।२७), दारे (तन्त्राख्यायिका, पृष्ठ ६७, श्लोक १५७) इत्यादयो बहवः प्रयोगा उपलभ्यन्ते ।
५४--आतो युरनि ( ?. रिनि)।2
अर्थः--आकारान्तस्य धातो 'यु' आगमो भवति अनि परतः ।
टिप्पणी--अत्र अनि इनि वेति संदेहः । अनि श्रायति इत्युदाहरणम् । तथा सति पूर्वनिर्दिष्टः आतो युः (संख्या ३७) सूत्रमस्यैवैकदेशः संभवति । इनि श्राययति इत्युदाहरणम् । अनि पाठे श्राययतीत्यत्र 'यु' आगमो न सिद्धयति । तस्मात् इनि इति पाठ एव ज्यायान् प्रतिभाति । उत्तरसूत्रे, 'पु' आगमविधायके इनि इत्येवोपलभ्यते । उत्तरसूत्रस्था टिप्पण्यप्यवलोकदीया।
५५--आतो पुरिनि ।3
अर्थः--आकारान्तस्य धातोः 'पु' आगमो भवति इनि परतः । यथा--श्रापयति ।
टिप्पणी--इनि परे यु--पु--उभयोरप्यागमयोर्विधानात् श्राययति श्रापयति इत्युभयोरुदाहरणयोर्निर्देशाद् आकारान्तेभ्यो धातुभ्यः सामान्येन यु--पु--आगमौ काशकृत्स्नमते द्रष्टव्यौ । कातन्त्रे (३।८।२१,२२) तु पाणिनीयशास्त्रवत् (७।३।३६,३७ ) व्यवस्थया युक्पुगागमौ विधीयेते ।
अपि च श्रा पाके ( १।६१५) इत्यस्य घटादिषु पाठात् , घटादीनां च मानुबन्धत्वात् पाणिनीमते पाके श्रपयति, अन्यत्र श्रापयति इति भवति । परन्तु काशकृत्स्नव्याकरणे मानुबन्धानां ह्रस्वत्वविधानस्याभावात् (तत्र णानुबन्धत्वम् एव प्रतिषिध्यते--द्र० क्रमिक संख्या ५२)श्रपयति इति न भवति ।

टिप्पणी


१. का० धा० व्या० १।६१३ तमे; ९ । ३०८ तमे च सूत्र उद्धृतम् ।
२. का० धा० व्या० १।६१५ तमे सूत्र उद्धृतम् ।
३. का० घा० व्या १।६१५ तमे सूत्र उद्धृतम् ।

55
५६--ज्ञाजनोर्जा ।1
अर्थ:--ज्ञा जन इत्येतयोर्धात्वोः स्थाने जा--आदेशो भवति । यथा--जानाति, जायते।
टिप्पणी--कातन्त्रे जा जनेर्विकरणे, ज्ञश्च ( ३।८।८१,८२ ) इति पाठो दृश्यते । पाणिनीये तु काशकृत्स्नवदेव पाठः ।
५७--क्र्यादेर्ना ।2
अर्थः--क्रीप्रभृतिभ्यो धातुभ्यो ना --विकरणो भवति सार्वधातुके परतः । यथा--क्रीणाति जानाति ।
५८--शमादर्शने मानुबन्धः।3
टिप्पणी----कर्नाटकवृत्तावस्य सूत्रस्येह (१।६१३ धातुसूत्रे ) पाठः प्रमादजः । वस्तुतो नैतत् स्वतन्त्रं सूत्रमपि तु शमोऽदर्शने इत्यस्य धातुगणसूत्रस्य (द्र० १।६२५) प्रमादजं पाठान्तरम् । अस्य कर्नाटकव्याख्याऽपि चिन्त्या प्रमादजा च । इहास्मदीयस्य काशकृत्स्नधातुव्याख्यानस्य १०३ तमे पृष्ठेऽधस्तात् द्वितीया टिप्पण्यवलोकनीया ।
५९--स्वार्थे यिन् ।4
टिप्पणी--अस्य सूत्रस्य पाठः सन्दिग्धो वर्तते । चन्नवीरकविना च यथासूत्रमेव व्याख्या विहिता। सूत्रमिदम् ऊर्जेने छदिः ( १।६१८ ) इति धातुसूत्रस्य व्याख्यान उद्धृतं वर्तते । एतेन प्रतीयते यदिह घटादौ चौरादिकस्य छद संवरणे ( धातुसूत्र ९।२९) इत्येवं पठितस्य ऊर्जने बलेऽर्थे मानुबन्धत्वं विहितम् । तथा सति इन् इत्यस्य स्थाने यिन् इति पाठो लेखक प्रमादज एव । एवं च नैतत् स्वतन्त्रमिदं सूत्रमपितु अग्रे व्याख्यायमानस्य चुरादेरिन् स्वार्थ ( क्रमिक संख्या ११८) सूत्रस्यार्थतोऽनुवादो ज्ञेयः। यिन इति पाठस्य तु प्रकृते 'छदयति' प्रयोगे न कश्चिदुपयोगः ।

टिप्पणी


१. का० धा० व्या० १।६१६ तमे सूत्र उद्धृतम् ।
२. का० धा० व्या० १।६१६ तमे सूत्र उद्धृतम् ।
३. का० धा० व्या० १।६१६ तमे सूत्र उद्धृतम् ।
४. का० धा० व्या० १।६१८ तमे सूत्र उद्धृतम् ।

56
६०--सदेः सीदः।1
अर्थः--सद्लॄ--धातोः सीद--आदेशो भवति [ अन्विकरणे परतः ] । यथा--सीदति । टिप्पणी--सूत्रमिदमनयैवानुपूर्व्या कातन्त्रे ( ३।८।८० )ऽपि पठ्यते ।
६१--शदेः शीयः ।2
अर्थः--शद्लृ --धातो शीय--आदेशो भवति [अन्विकरणे परतः] । यथा--शीयति।
टिप्पणी--पाणिनीयाः शदेः शितः ( अष्टा० १।३।६०) इति नियमेन शिद्विकरणेष्वात्मनेपदमामनन्ति । चन्नवीरकृतायां कर्नाटकव्याख्यायां तु परस्मैपदं निर्दिश्यते। कातन्त्रेऽपि शदधातोरन्विकरण आत्मनेपदविधायकं सूत्रं नोपालभ्यते। तुदादौ ( ५।६० ) त्वस्य धातोः कर्नाटकव्याख्याने शीयति शीयते इत्युभयपदं निर्दिश्यते, तत्कथमिति न ज्ञायते ।
६२--गतौ न लोपः।3
अर्थः--गत्यर्थेऽञ्चुधातोर्नकारस्य लोपो भवति । यथा--अचति अचते । गतेरन्यत्र--अञ्चति अञ्चते ।
६३--खनेः खाः।4
अर्थः--खन--धातोः खा--आदेशो भवति । यथा--परिखा, खेयम् , खातः।
टिप्पणी--कर्नाटकवृत्त्या नेदं विज्ञायते यत् खा--आदेशः केषु प्रत्ययेषु परतो भवति । पाणिनीयास्तु जनसनखनां सञ्झलोः (६।४।४२) इति नियमानुसारं झलादौ सनि झलादौ च ङ्किति प्रत्यये नकारस्याकारादेशं विदधति । यकरादौ च क्ङिति विकल्पेन आकारादेशमामनन्ति (द्र० ये विभाषा ६।४।४३ )।
परिखा--शब्दे तु पाणिनीयमतानुसारं खन धातोर्डप्रत्ययो भवति (द्र० काशिका ३।२।१०१ वृत्त्यन्ते) डिति टेर्लोपे स्त्रियां टापि च परिखापदं सिद्ध्यति,

टिप्पणी


१. का० धा० व्या० १।६५३ तमे सूत्र उद्धृतम् ।
२. का० धा० व्या० १।६५४ तमे सूत्र उद्धृतम् ।
३. का० धा० व्या० १।६६२ तमे सूत्र उद्धृतम् ।
४. का० धा० व्या० १।६७५ तमे सूत्रे उद्धृतम् ।

57
एवमाखादयोऽपि । खेयम् इत्यत्र तु ई च खनः ( ३।१।१११) सूत्रेण क्यप्सन्नियोगेन नकारस्य ईकारादेशो भवति--ख ई य, ततः आद् गुणः (६।१।८७ ) इत्यनेन गुणे खेयम् इति निष्पद्यते । काशकृत्स्नमतानुसारं तु खनः खा--आदेशो भवति । तदनन्तरं खेय--शब्द एत्वं कथमिति न ज्ञायते ।
६४--गुहो दीर्घः ।1
अर्थः--गुहधातोरुकारस्य दीर्घो भवति । यथा--गूहति ।
टिप्पणी--कर्नाटकटीकया नैतद् व्यज्यते यदयं दीर्घत्वं केषु प्रत्ययेषु परतो भवति । पाणिनीयास्तु येष्वजादिषु प्रत्ययेषु परत उकारस्य गुणादेशेन गोह इति रूपं निष्पद्यते, तत्रैव ऊद् उपधाया गोहः (६।४।८९) इति सूत्रेण ओकारस्य ऊद् आदेशं विदधति । कातन्त्रीया अप्येवमेवामनन्ति (द्र० ३।६।६३)।
६५--दानादीनां सन् सार्वधातुके।2
अर्थः--दानादीनां धातूनां सन्--आगमो भवति सार्वधातुके परतः। यथा--दीदांसति, दीदांसते; शीशांसति, शीशांसते ।
टिप्पणी--(१) पाणिनीयानां मते सन्--प्रत्ययो भवति नागमः ।
(२) पाणिनीयाः सामान्येन सनं विधाय, धातुसंज्ञां कृत्वा सार्वधातुकान् आर्धधातुकांश्च सर्वानेव प्रत्ययान् विदधति ।
(३) इमं सन्प्रत्ययं पाणिनीयाः दानेरार्जवे, शानेर्निशाने, बधेर्वैरूप्ये, मानेर्जिज्ञासायाम् इत्येवमर्थविशेषेष्वामनन्ति (द्र० काशिका २।१।६)।
६६--द्विः सनि ।3
अर्थः--दानादीनां द्वित्वं भवति सनि परतः। उदाहरणानि पूर्वसूत्रवदेव ।
टिप्पणी--कर्नाटकटीकायाम् अभ्यासस्येत्त्वं दीर्घत्वं च कथमिति नोक्तम् , अर्थात् एतयोः कार्ययोर्विधायके सूत्रे तत्र नोद्धृते ।।
६७--अदादीनामनो लुक् ।4
अर्थः--अदिप्रभृतीनां धातूनाम् अनो विकरणस्य लुग्भवति । यथा--अत्ति, हन्ति ।

टिप्पणी


१. का. धा. व्या० १।६८६ तमे सूत्र उद्धृतम् ।
२. का० धा. व्या० १।६९२ तमे सूत्र उद्धृतम् ।
३. का० धा० व्या० १।६९२ तमे सूत्र उद्धृतम् ।
४. का० धा० व्या० २।१ प्रथमे सूत्र उद्धृतम् ।

58
६८--हनो घाः।1
अर्थः-- हनधातोर्घाऽऽदेशो भवति । यथा--घातः, घातकः, घाः, घायकः।
टिप्पणी--(१) घातः इति प्रयोगो घञ्प्रत्यये उत क्तप्रत्यय इति नैव स्पष्टं भवति । यदि घञन्तस्य तर्हि घाऽऽदेशः किं हकारमात्रस्य उत सर्वस्य स्थाने भवति । यदि हकारमात्रस्य तर्हि घाः घायक इत्युदाहरणे न सिद्ध्यतः, अथ सर्वादेशस्तर्हि घातः घातकः इत्यत्र तकारश्रुतिः कुतः ?। यदि घातः इति प्रयोगः क्तान्तस्य स्वीक्रियेत तथा सति तत्सिद्धावपि घातकः इत्यत्र कथं तकारश्रुतिरिति न ज्ञायते । पाणिनीयास्तु हकारमात्रस्य कुत्वम् (७।३।५४) आमनन्ति, नकारस्य च तकारादेशम् (७।३।३२)।
(२) घाः पदमिदं पाणिनीयमतानुसारं न सिध्यति । अस्य तुलना खनेः खाः ( क्रमिक संख्या ६३ ) सूत्रेण तदुदाहरणेन परिखा--पदेन कार्या ।
(३) घायकः इदमपि पदं पाणिनीयमतानुसारं न सिद्ध्यति । अस्मिन् पदे घादेशे आतो युरिनि ( क्रमिक संख्या ५४ ) सूत्रेण स्वार्थे इनि ( णिचि ) प्रत्यये यु--आगमो भवति । पाणिनीयमतानुसारं तु घातकः इत्येव निष्पद्यते ।
६९--द्य्वादीनां वृद्धिस्तिसिमिषु ।2
अर्थः--द्यु--प्रभृतीनां धातूनां ति--सि--मि--प्रत्ययेषु वृद्धिर्भवति । यथा--द्यौति, द्यौषि, द्यौमि ।
७०--रुदादेरिः सार्वधातुके ।3
अर्थः--रुदादीनाम् इकारो भवति सार्वधातुके परतः । यथा--रोदिति ।
टिप्पणी--(१) काशकृत्स्नसूत्रे सार्वधातुके सामान्येन इकार उक्तः । परन्तु पाणिनीयमतानुसारमिडागमो वलादिसार्वधातुक एव भवति (द्र० आ० ७।२।७६)।
(२) रुदादिषु कियन्तो धातवो गृह्यन्त इति न ज्ञायते । पाणिनीयास्तु रुदादिभ्यः पञ्चभ्यः (७।३।७६) इत्यत्र 'पञ्चभ्यः' इति स्पष्टमाहुः ।

टिप्पणी


१. का० धा० व्या० २।४ र्थे सूत्र उद्धृतम् ।
२. का० धा० व्या० २।५ मे सूत्र उद्धृतम् ।
३. का० धा० व्या० २।३१ तत्रे सूत्र उद्धृतम् ।

59
(३) आदिशब्द इह प्रकारवाची उत व्यवस्थावाचीत्यपि सन्दिह्यते । अन्यत्र सर्वत्र प्रकारवाच्येवादिशब्दः श्रूयते, इहापि तथैव भवितुर्महति ।1
( ४ ) कातन्त्रे रुदादेः सार्वधातुके ( ३।९।३) इति पठ्यते ।
७१ --स्वरवद् यः कृत् ।2
अर्थः--कृत्संज्ञको य--प्रत्ययः स्वरवद् भवति । यथा--दीधय्यम्, दीधाय्यम् ; वेवय्यम्, वेवाय्यम् ।।
टिप्पणी--(१) पाणिनीयमतानुसार दीधय्यम् वेवय्यम् इत्यत्र यत्प्रत्ययः, दीधाय्यम्, वेवाय्यम् इत्यत्र च ण्यत् प्रत्ययो ज्ञेयः । यति गुणे दीधे य, वेवे य इत्यवस्थायां स्वरवदतिदेशेन अयादेशे उक्तरूपसिद्धिः, ण्यति तु वृद्धौ दीधै य वेवै य इत्यवस्थायां स्वरवतिदेशेन आयादेशे उक्तरूपसिद्धिर्ज्ञेया ।
(२) पाणिनीयमतानुसारं तु यञि यति ण्यति च अय् आय् अव् आव् आदेशाः केषुचिदेव प्रयोगेषु विधीयन्ते । यथा--
वान्तो यि प्रत्यये (६।१।७९)--बाभ्रव्यः माण्डव्यः । धातोस्तन्निमित्तस्यैव (६।१।८०)--लव्यम् , पव्यम् , अवश्यलाव्यम् , अवश्यपाव्यम् । क्षय्यजयौ शक्यार्थे (६।१।८१)--शक्यार्थादन्यत्र क्षेयम् जेयम् । क्रय्यस्तदर्थं (६।१।८२ ) तदर्थादन्यत्र--क्रेयम् । भय्यप्रवय्ये च च्छन्दसि (६।१।८३)--लोके भेयम् , प्रवेयम् ।
एषु क्वचित् नित्या आदेशा विधीयन्ते, क्वचिच्चर्थान्तरे तदभावः प्रतिपाद्यते ।
(३ ) स्वरवद् इत्यत्र वद्ग्रहणं स्वाश्रयकार्यप्रतिपत्यर्थम्3 इति न्यायेन यदा स्वरवदतिदेशस्तदा सामान्येन सर्वत्र अयादय आदेशाः, यदा तु स्वाश्रयकार्यमर्थात् व्यञ्जनवत्वमाश्रीयते तदा अयाद्यादेशाभावे क्षेय--जेय--क्रेय--आदयः शब्दा उपपद्यन्ते । तदेवमेतेन काशकृत्स्नमतेन सर्वत्रैव द्विरूपा प्रयोगा उपपद्यन्ते इतीदं महद् वैशिष्ट्यं प्राक्पाणिनीयस्य काशकृत्स्नतन्त्रस्य ।4

टिप्पणी

{{{1}}}

60
(४) अस्त्यन्यदपि महद् वैशिष्ट्यं काशकृत्स्नतन्त्रे । अत्र हि यत् ण्यत् उभावपि प्रत्ययौ सामान्येन सर्वेभ्यो धातुभ्यो भवन्ति, न पाणिनीयवद् अजन्तेभ्यो विहितेभ्यो हलन्तेभ्यश्च यत्, अन्येभ्यो ण्यदिति । इदं च वैशिष्ट्यं चन्नवीरकविना तत्र--तत्रोदाहृतेभ्यः कृदन्तेभ्यः पदेभ्यः स्पष्टं विज्ञायते । तद्यथा--मेद्यम् मैद्यम् (१।५६८, पृष्ठ ९५ ); दोह्यम दौह्यम् ( १।५९, पृष्ठ १२८ ): भय्यम भाय्यम (२।६६, पृष्ठ १२८); तर्ष्यम् तार्ष्यम् (२।६४, पृष्ठ १४३ ); कोप्यम् कौप्यम् (३।६६, पृष्ठ १४४); योप्यम् यौप्यम् ( ३।७०, पृष्ठ १४४); डेप्यम् डैप्यम् (३।६७, पृष्ठ १४४ ) इत्याद्युदाहृतानि पदानि द्रष्टव्यानि । एषूदाहरणेषु पाणिनीयमतानुसारम् उपधायां विद्यमानानाम् इ उ ऋ वर्णानां (ण्यत्पक्षे) वृद्धिर्न प्राप्नोति, इत्यपि वैशिष्ट्यं काशकृत्स्नतन्त्रे । एवमेवानेकत्र कनार्टकटीकायां यत्ण्यत्प्रत्ययाभ्यां सह क्यप्प्रत्ययान्ताः शब्दा अप्युदाह्रियन्ते । तद्यथा--द्युत्यम् द्यौत्यम् (१।५६४, पृष्ठ ९४); घुट्यम् घोट्यम् घौट्यम् ( १।५६९, पृष्ठ ९५ ) । अत्र द्युत्यम् घुट्यम् इति क्यपः, घोट्यम् इति यतः, द्यौत्यम् घौट्यम् इति ण्यतो यथाक्रमं ज्ञेयाः । एतेन काशकृत्स्नमते क्यप् यत् ण्यत् त्रयोऽप्यौत्सर्गिकाः प्रत्ययाः प्रतीयन्ते, न पाणिनीयतन्त्रवद् व्यवस्थया विहिता इति ।
७२--ह्रस्वपूर्वयोर्हकारचवर्गयोः कवर्गः ।1
अर्थः--ह्रस्वं पूर्वं यस्मात् तादृशस्य हकारस्य चवर्गस्य च कवर्गो भवति । यथा--दुह + लि = दुग् + ति = दुग् + धि = दोग्धि, वच् + ति = वक्ति ।
७३--तनादेरुः।4
तनादेरुविकरणः ।3
अर्थः--तनुप्रभृतिभ्यो धातुभ्य उ--विकरणो भवति सार्वधातुके परतः यथा--तनोति ।
टिप्पणी--(१) उपरि निर्दिष्टौ द्वावपि पाठावेकस्यैव सूत्रस्य । अस्माकं मते तनादेरुः इति मूलपाठः । यथा दिवादेर्यन् ( क्रमिक संख्या १५ ), क्यादेर्ना (क्रमिक संख्या ५७ ) इति । द्वितीयपाठे विकरणशब्दोऽर्थतः प्रविष्टः । विकरणपदसहितान्यपि कानिचित् सूत्राणि दृश्यन्ते । यथा--स्वादेर्नु विकरणः ( क्रमिक संख्या ९१) तुदादेरग् विकरणः ( क्रमिक संख्या ९३) इति ।

टिप्पणी


१. का० धा० व्या० २।५९ तमे सूत्र उद्धृतम् ।
२. का० धा० व्या० २।६२ तमे सूत्र उद्धृतम् ।
३. का० धा० व्या० ७।१ तमे सूत्र उद्धृतम् ।

61
विकरणपदस्य पौनःपुन्येन पाठ एव ज्ञापको यदिदं न सूत्रांश इति । कातन्त्रेऽपि तनादेरुः (३।४।३७) इत्येव पठ्यते ।
(२) तनादेरुः--इदं सूत्रम् आदादिकस्य ऊर्णुञ्--धातुप्रसङ्गे कर्नाटकटीकायामुद्धृतं दृश्यते । एतद्विषये--
(क) काशकृत्स्नमते ऊर्णुञ् ( २।६२) धातोरुकारोऽनुबन्धः, अथवा धातोः स्वरूपम् ऊर्णञ् वाऽऽसीत् , लेखकप्रमादाद् ऊर्णुञ् सम्पन्न इति सन्दिह्यते। द्वितीयपक्षस्य पोषका इहैव निर्दिष्टा ऊर्णन् ऊर्णकः ऊर्णिता ऊर्णानः प्रभृतयः कृदन्ताः प्रयोगा उपलभ्यन्ते । पाणिनीये मते उकारो नानुबन्धः ।
(ख ) णु--भागस्य उकारस्य लोपे ऊर्णञ् पाठे वा ऊर्णोति ऊर्णुतः ऊर्णुते आदिप्रयोगाणां सिद्धये उविकरणनिर्देश आवश्यकः। कर्नाटकटीकाकारेण तदर्थं तनादेरुः इति सूत्रमुद्धृतम्, परन्तु धातुरयं तनादौ न पठ्यते, अतोऽस्य धातोस्तनादिवदतिदेशविधायकेन नियमेनावश्यं भाव्यम् , नहि तदृते उविकरणः प्राप्नोति । टीकाकारेण न तादृग् वचनं किञ्चिदुद्धृतम् । अत्र पूर्वव्याख्यातस्य दिवादेर्यन् ( क्रमिक संख्या १५) इति सूत्रस्य टिप्पण्योऽपि द्रष्टव्याः। एतद्विषयेऽग्रिमसूत्रटिप्पण्यपीह द्रष्टव्या ।
७४--ब्रुवादेरी तिसिमिषु ।4
अर्थः--ब्रूञप्रभृतीनां धातूनाम् ईकारागमो भवति ति--सि--मि--प्रत्ययेषु परतः । यथा--ब्रवीति ब्रवीषि ब्रवीमि ।
टिप्पणी--(१) धातोः पूर्ववर्तिनोः ऊर्णुञ ष्टूञ् ( २।६२,६३) धात्वोर्व्याख्याने चन्नवीरकविना ऊर्णोति ऊर्णुते ऊर्णीते स्तौति स्तवीते स्तुते प्रयोगाः प्रदर्शिताः। तत्र ऊर्णीते स्तवीते इत्यनयोरीकारागमः कथमिति न तेन कविना प्रत्यपादि । पाणिनेमते तुरुस्तुशम्यमः सार्वधातुके (७।३।९५) नियमेन स्तवीते इत्यत्र ईकारागमः संभवति, परन्तु सूत्रपठितयोः शम्यमोर्धात्वोरीकारागमश्छन्दस्येव संभवति, यतो लोके विकरणसद्भावात् धातोरव्यवहितस्य सार्वधातुकप्रत्ययस्य सम्भव एव नास्ति । अतो व्याख्याकाराणामते पाणिनीयं सूत्रं छन्दोविषयकमेव, तेन तवीति स्तवीति प्रयोगावपि छान्दसौ। अत एव आपिशलाः तुरुस्तुशम्यमः सावधातुकासु छन्दसि1 (काशिकायाम् ७।३।९५ उद्धृतम्) स्पष्टमेव

टिप्पणी


४. का० धा० व्या० २।६४ तमे सूत्र उद्धृतम् ।
१. आपिशलव्याकरणस्य विषये तदुपलब्धसूत्राणां मतानां वा विषयेऽस्माकं 'सं० व्या० शास्त्र का इतिहास' नामा ग्रन्थो ( भाग १, पृष्ठ १३२--१४४ द्वि० सं० ) द्रष्टव्यः ।

62
छन्दसि पदमामनन्ति । पाणिनिस्तु लोके केवलं ब्रुञ्--धातोरेव ईडागमं विदधाति (द्र० ७।३।९३), परन्तु काशकृत्स्न आचार्यो ब्रुञादेरी इत्यत्र प्रकारवाचिनमादिपदं पठति । एतेनैतावत् स्पष्टं यत्काशकृत्स्नमते ईकारागमोऽन्येभ्योऽपि धातुभ्यो भवति । एतस्य पुष्टिश्चन्नवीरकविना उद्धृताभ्याम् ऊर्णीते स्तवीते प्रयोगाभ्यामपि जायते ।
(२) अपरमप्येकमस्ति विचारणीयम्--ऊर्णीते इत्यत्र तनादेरुः इति सूत्रेण उविकरणः कस्मान्न भवतीति टीकाकारेण नेह किञ्चित् कारणमुपन्यस्तम् । वयन्त्वनुमिनुमो यत्तनादिवत् कार्यातिदेशात् वद्ग्रहणेन स्वाश्रयकार्यम् अर्थात् अन्विकरणस्य लुक्कार्यमपि भवति । अथवादादौ पाठसामर्थ्यात् विकरणस्य लुगपि द्रष्टव्यः। एतद्विषये दिवादेर्यन् (क्रमिक संख्या १५) सूत्रव्याख्यानमपि द्रष्टव्यम् ।
(३) काशकृत्स्नस्य रुदादेरिः सार्वधातुके (क्रमिक संख्या ७०) ब्रवादेरी तिसिमिषु (क्रमिक संख्या ७४) सूत्रयोः पाणिनेः तुरुस्तुशम्यमः सार्वधातुके (७।३।९५) अस्तिसिचोऽपृक्ते (७।३।९६) बहुलं छन्दसि (७।३।९७ ) रुदश्च पञ्चभ्यः ( ७।३।९८ ) रुदादिभ्यः सार्वधातुके ( ७।२। ७६) ईशः से (७/२।७७ ) ईडजनोर्ध्वे च ( ७।२।७८) इत्येतैः सूत्रैः सहैकवाक्यतया प्रतीयते यद्विकरणस्य लुकि वलादिसार्वधातुके परतः इङ्ईडागगमौ सामान्येन भवत इति । एतस्य पोषणं माध्यन्दिनीयपदपाठेनापि भवति । तद्यथा--माध्यन्दिनसंहितायां शमीष्व (१।१५) इति पदं ईडागमयुतं श्रूयते । अस्य पदपाठे शमीष्व । शमीष्वेति शमिष्व इत्येवं पठ्यते । पदकाराणां चैष सामान्येन नियमो यत्र ते सांहतिकं दीर्घत्वं मन्यन्ते तत्र पदपाठे तं ह्रस्वीकृत्य अर्थात् लौकिकं सम्पाद्य1 पठन्ति । एतन्नियमानुसारं पदकारमते शमीष्व इति छान्दसं दीर्घत्वम् , शमिष्व इति लौकिकं रूपमिति । सत्येवं भवति विचारणीयम् , यत्पदकारमते लौकिकत्वेनाभ्युपगते शमिष्व--प्रयोगे विकरणस्य लुक् इडागमश्च कथमजायतेति ।
अस्मन्मतानुसारं तु दैवयुगीनायामादिसंस्कृतभाषायाम् , या वैदिकपदबहुलत्वादतिभाषापदवाच्याऽभूत्2 तस्यां प्रत्येकधातोर्विभिन्नगणकार्याण्यभूवन् ,

टिप्पणी


१. तुलना कार्या--यद्यत्तु छान्दसं वाक्यं तत्तत् कुर्यात्तु लौकिकम् । बृहद्देवता।
२. द्र० आर्यभाषाऽतिभाषा च, अतिभाषा तु देवानाम् । भरत नाट्यशास्त्र १७।२७, २८ (बड़ोदा सं०) ॥ अत्राहाभिनवगुप्तः--वैदिकपदबाहुल्यादार्यभाषातो विलक्षणत्वमस्याः । अग्रिमपृष्ठस्था प्रथमा टिप्पण्यपीह द्रष्टव्या।

63
प्रत्येकं च धातुः सेडनिड्भेदेन द्विधाऽऽसीत् , प्रत्येकधातोश्च वलादिरार्धधातुके इड्--ईडागावभूताम् , एवं विकरणलुक्पक्षे वलादौ सार्वधातुकेऽपि इड्--ईडागमावजायेताम् इति । पाणिनिनाऽडागमरूपेण निर्दिष्टा अरुदत् आदत् ( अष्टा० ७।३।९९, १०० ) प्रभृतयः प्रयोगा भ्वौदादिक--विकरणपक्षीया द्रष्टव्याः । वस्तुतः प्राचीनाया अतिभाषा नाम्ना1 आदिभाषा नाम्ना1 वा स्मृतायाः संस्कृतभाषायाः स्वरूपपरिज्ञानान्तरम् अद्ययावत् कृतं भाषाविज्ञानानुशीलनं पुनरनुशीलनीयं भविष्यति । तेन च सुरभारतीरेव संसारस्यादिभाषा सर्वभाषाणां जननीति भारतीयं मतमञ्जस्यैव पुष्टिं गमिष्यति । साम्प्रतिकं भाषाविज्ञानं त्वत्यन्तं ह्रासं प्राप्ताया संस्कृतभाषाया स्वरूपस्याप्येकदेशमधिगत्यैव प्रवृत्तम् । तत्रैकस्य परमभाषाविज्ञत्वेन प्रसिद्धस्य बाँपनाम्नो विदुष एकमेवोदाहरणमधस्तान्निर्दिश्यते । बॉपनामा विद्वान् लिखति----
कतिपयशब्दानां तुलनयैतज्ज्ञायते यद् योरोपीयभाषाणामपेक्षयासाम्प्रतिका वङ्गभाषा संस्कृतभाषातोऽधिकदूरा वर्तते । वङ्गभाषाया 'बाप' 'बोहिनी' शब्दयोः संस्कृतभाषायाः पितृस्वसृशब्दाभ्यां सह नास्ति दूरतोऽपि संबध इति ।2
परमभाषाविज्ञत्वेन प्रसिद्धस्य बॉपनाम्नो विदुषः संस्कृतभाषायाः परिज्ञानं कियान् आसीदिति अनेनोदाहरणेन विस्पष्टम् । भारतीया बालाः, येषां संस्कृतभाषायां चञ्चुप्रवेश एव भवति तेऽपि जानन्ति यत् संस्कृतभाषायां पितृसमानार्थकः वापशब्दः स्वसृपर्यायो भगिनीशब्दश्च विद्यत इति ( अभ्यामेव सह वङ्गभाषायाः 'बाप--बोहिनी' शब्दयोः साक्षात् सम्बन्धो वर्तते) अत एवाशेषशेमुषीसम्पन्नेन वेदविद्योद्धारकेन स्वामिदयानन्देन पाश्चात्यानां संस्कृतभाषाज्ञानविषये निरस्तपादपे देशे एरण्डोऽपि द्रुमायते इति न्याय उद्धृतः ।3
७५--ह्वादेर्द्विः ।4
अर्थः--हुप्रभृतीनां द्विः = द्विर्वचनं भवति । यथा------जुहोति बिभेति ।

टिप्पणी


१. भरतनाट्यशास्त्र १७।२.८ (बड़ोदा सं ०), अत्रैव 'आदिभाषा' इति पाठान्तरमप्यवलोकनीयम् ।
२. एतद्विषये पण्डितभगवद्दत्तकृते 'वैदिकवाङ्मय का इतिहास' नाम्नो ग्रन्थस्य प्रथमे भागे (पृष्ठ ६६, ६७, द्वि० सं०) विशेषतोऽवलोकनीयम् ।
३. सत्यार्थप्रकाश एकादश समुल्लास, पृष्ठ २९२, सं० १४ ।
४. का० धा० व्या० २।६५ तमे सूत्र उद्धृतम् ।

64
टिप्पणी--(१) काशकृत्स्नीये धातुपाठे जुहोत्यादिर्न पृथग्गणत्वेन पठ्यते, अदादिगण एव ह्वादीनामप्यन्तर्भावः। अत एव ह्वादिष्वपि विकरणस्य लुकं विधाय द्वित्वमुच्यते । कातन्त्रकारोऽपि काशकृत्स्नतन्त्रमेवानुसार, वोपदेवश्च कातन्त्रम् । अत एवैषां धातुपाठे नवगणा एवोपलभ्यन्ते ।
(२) लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणमिति परिभाषाऽपि ह्वादीनां लुग्विकरणत्वमेव द्योतयति । इह का० धा० व्या० २।१ सूत्रस्था टिप्पण्यवलोकनीया ।
७६--कवर्गहकारयोश्चवर्गः।1
अर्थः--अभ्यासस्य कवर्गस्य हकारस्य च चवर्गो भवति । यथा--जुहोति ।
७७--पूर्वोऽभ्यासः।2
अर्थः--द्विर्भावे पूर्वोऽभ्याससंज्ञो भवति ।
टिप्पणी--सूत्रमिदं कातन्त्रे (३।५।४) ऽपीत्थमेव पठ्यते ।
७८--द्वयमभ्यस्तम् ।3
अर्थः--द्वयं द्वितीयम्4 अभ्यस्तसंज्ञं भवति ।
टिप्पणी--(१) कातन्त्रेऽपीदं सूत्रमित्थमेव पठ्यते (द्र० ३।५।५)
( २ ) अस्मिन् काशकृत्स्नीये सूत्रे द्वयं पदं द्वितीयार्थे प्रयुज्यते । पाणिनिमते उभेऽभ्यस्तम् (६।१।१।५) इत्यनेनोभयोरपि भागयोरभ्यस्तसंज्ञा भवति । यद्यपि काशकृत्स्नमते द्वयमित्यनेन उभयार्थो ग्रहीतुं शक्यते, तथापि अभ्यस्ताद् यु अभ्यस्ते ( क्रमिकसंख्या ८३ ) इति सूत्रे अभ्यासात् परेऽभ्यस्ते परतः 'यु' इत्ययमागमो विधीयते, तेन ज्ञायते काशकृत्स्नमते द्वितीयस्यैव भागस्याभ्यस्तसंज्ञा भवतीति ।
७९.--अभ्यासस्य धुटां तृतीयाः प्रथमाः।4
अर्थः--अभ्यासस्य धुटां (= वर्गाणां प्रथम--द्वितीय--तृतीय--चतुर्थाणां) स्थाने

टिप्पणी


१. का० धा० व्या० २।६५ तमे सूत्र उद्धृतम् ।
२. का० धा० व्या० २।६५ तमे सूत्र उद्धृतम् ।
३. का० धा० व्या० २।६५ तमे सूत्र उद्धृतम् ।
४. द्वयमित्यस्य द्वितीयमित्यर्थो यद्यप्यञ्जसा न सम्भवति, तथापीहायमेवार्थोऽभिप्रेतः । द्रष्टव्या एतत्सूत्रस्था द्वितीया टिप्पणी
४. का० धा० व्या० २।६५ तमे सूत्र उद्धृतम् ।

65
तृतीयाः प्रथमाश्च भवन्ति । (प्रथम द्वितीयानां स्थाने प्रथमाः, तृतीयचतुर्थाणां स्थाने तृतीयाः भवन्ति ) यथा -- हुहोति = झुहोति = जुहोति ।
टिप्पणी--(१) काशकृत्स्ने तन्त्रे 'धुट्' इतीयं पारिभाषिकी संज्ञा । काशकृत्स्नस्य संक्षिप्ते संस्करणे कातन्त्रे धुट्संज्ञा एवं परिभाष्यते--धुट् व्यञ्जनमनन्तस्थानुनासिकम् ( २।१।१३ )।
(ख) यद्यपि धुट्--ग्रहणेन वर्गाणां प्रथमतृतीयाणामपि ग्रहणं भवति तथापि प्रथम-- तृतीयाणां स्थाने प्रथमतृतीयाणां विधाने प्रयोजनं नास्तीति कृत्वा द्वितीयानां स्थाने प्रथमाः, चतुर्थाणां स्थाने तृतीया इत्येवाऽभिप्रायोऽत्र ज्ञेयः। अत एव कातन्त्रे द्वितीयचतुर्थयोः प्रथमतृतीयौ (३।५।११) इति स्पष्टमेवोच्यते ।
(ग) पाणिनीयाः कुहोश्चु ( ७।४।६२ ) सूत्रेण हकारस्य झत्वं विदधते, ततश्च अभ्यासे चर्च ( ८।४।५४ ) इत्यनेन जश्त्वं च । काशकृत्स्नीयतन्त्रेऽप्ययमेव क्रमः स्यादिति सम्भाव्यते । कातन्त्रे तु हो जः ( ३।५।१२) इत्यनेन जत्वमेव विधीयते ।
८०--ह्रस्वोऽभ्यासस्य ।1
अर्थः--अभ्यासस्य ह्रस्वो भवति । भीभेति = बीभेति = बिभेति ।
टिप्पणी--कातन्त्रे ह्रस्वः ( ३।५।१५ ) इति सूत्रेण ह्रस्वत्वं विधीयते ।
८१--अभ्यासस्य ऋवर्णस्य इकारम् ।2
अर्थः--अभ्यासस्य ऋवर्णस्य (= ऋ ॠ वर्णयोः) स्थाने इकारादेशो भवति । यथा--पृपर्ति = पिपर्ति; ऋऋति = इअर्ति = इयर्ति (द्र० अग्रिम ८३ सूत्रम् )।
८२----ऋतेरीरूरौ ।3
अर्थः--ऋकारस्य ईर् ऊर् आदेशौ भवतः । यथा--कॄति = कीर्तिः; पॄतिः = पूर्तिः।
टिप्पणी--(१) अत्र सूत्रे क्व ऋकारस्य स्थाने ईर् ‘भवति क्व च ऊर् इति न स्पष्टमुच्यते । पाणिनीयानुशासने ऋत इद् धातोः, उदोष्ठ्यपूर्वस्य (७।१।१००,

टिप्पणी


१. का० धा० व्या० २।६६ तमे सूत्र उद्धृतम् ।
२. का० धा० व्या० २।६८ तमे सूत्र उद्धृतम् ।
३. का० धा० व्या० २।६८ तमे सूत्र उद्धृतम् ।

66
१०२) इत्याभ्यां व्यवस्थया इत्त्वमुत्त्वं चोच्यते । ततश्च दीर्घत्वम् । कातन्त्रेऽपि ऋदन्तस्येरगुणे उरोष्ठ्योपधस्य च ( ३।७।४२, ४३) इत्याभ्यां व्यवस्थयैव इरुरौ उच्येते।
(२) अत्र अग्रे व्याख्यायमाने ऋ इर् , इरुरो रीरूरौ (क्रमिक संख्या १०२, १०३ ) सूत्रे, ऋत ईर् , ऋत ऊर् ( क्रमिक संख्या १०४, १०५) इति च सूत्रे अपि द्रष्टव्ये ।
८३--अभ्यासाद् यु अभ्यस्ते ।1
अर्थः--अभ्यासात् परो यु इत्यागमो भवति अभ्यस्ते परतः । यथा--इअर्ति = इ य् अर्ति = इयर्ति ।
८४--यनि दीर्घश्च ।2
अर्थः-- [ दिवादिनां ] यनि परे दीर्घो भवति । यथा--दिव्यति दीव्यति ।
टिप्पणी--पूर्वनिर्दिष्टः कर्नाटकटीकानुसारी सूत्रार्थोऽपूर्ण इव प्रतिभाति । उक्ते सामान्येऽर्थे शमादेर्दीर्घो यनि (क्रमिक संख्या ८७) इत्यग्रे व्याख्यायमानं सूत्रं व्यर्थं स्यात् । 'शाम्यति' इत्यत्राप्यनेनैव दीर्घत्वं सेत्स्यति किमन्येन सूत्रेण प्रयोजनमिति । अपि च सूत्रे पठ्यमानश्चकारोऽपि कस्यचित् पदस्यानुवृत्तिं द्योतयति तच्च कर्नाटकटीकायाम् नैव निर्दिश्यते । पाणिनीयलक्षणानुसारं तु हलि च (८।२।७७) इति सूत्रेण रेफान्तस्य वकारान्तस्य च धातोरुपधायां वर्तमानयोरिकारोकारयोर्दीर्घत्वं भवति ।
८५--ऋ ईर यनि कृति च ।3
अर्थः--ऋकारस्य स्थाने ईर् आदेशो भवति यनि कृति च परतः । यथा--जीर्यति, जीर्णः।
टिप्पणी--(१) यस्मिन् कृति गुणो न भवति तत्रैव ईर् आदेशो भवति । यथा--जीर्यति, जीर्णः ।
(२) इह ऋतेरीरूरौ (क्रमिक संख्या ८२ ) इति सूत्रस्य टिप्पण्यपि द्रष्टव्या ।

टिप्पणी


१. का० धा. व्या० २।७२ तमे सूत्र उद्धृतम् ।
२. का० धा० व्या० ३।१ मे सूत्र उद्धृतम् ।
३. का० धा० व्या० ३।१८ तमे सूत्र उद्धृतम् ।

67
८६--ओ लोपो यनि ।1
अर्थः--ओकारान्तस्य धातोरोकारस्य लोपो भवति यनि परतः। यथा--शो यति = श्यति = श्यति, स्यति, छ्यति ।
८७--शमादेर्दीर्घो यनि ।2
अर्थः--शमप्रभृतीनां धातूनां दीर्घो भवति यनि परे । यथा--शाम्यति ।
टिप्पणी--कातन्त्रे शमादीनां दीर्घ यनि ( ३।८।६६) इत्येवं सूत्रमिदं पठ्यते।
८८--अनुदात्तङानुबन्ध आत्मनेपदम् ।3
अर्थः--अनुदात्तानुबन्धाद् धातोर्ङानुबन्धाच्चात्मनेपदं भवति । यथा--एधते, शेते ।
८९--स्वरितञानुबन्ध उभयपदम् ।4
अर्थः----स्वरितानुबन्धाद् धातोर्ञानुबन्धाच्चोभयपदं भवति । यथा--पचते, पचति । कुरुते, करोति ।
टिप्पणी--पाणिनीयाः स्वरितञानुबन्धेभ्यो धातुभ्यः कर्त्रभिप्राये क्रियाफल एवात्मनेपदं विदधते । एवं तदनुयायिनश्चान्द्रादयोऽपि । परन्तु काशकृत्स्ने कातन्त्रे च न तथा वैशिष्ट्यमुपलभते । तथा चोक्तं वर्धमानेन--
विशेषः पाणिनेरिष्टः सामान्यं सर्ववर्मणः ।
सामान्यमनुगृह्णन्ति तत्राचार्यपरम्परा ॥ इति ।
अत्र विशेषो वोपदेवविरचितस्य कविकल्पद्रुमस्य दुर्गादासविद्यावागीशकृतायां धातुदीपिकायां ( पृष्टे ८) द्रष्टव्यः।
विशेषे नोक्तेऽप्यात्मनेपदपरस्मैपदसंज्ञयोरन्वर्थलाभात् कर्र्कभिप्राय आत्मनेपदम्, पराभिप्राये च परस्मैपदं स्वतः सिद्धमिति कृत्वा काशकृत्स्नेन शर्ववर्मणा च नोक्तं स्यात् । उत्तरवर्तिभिराचार्यैरनुक्त्यभिप्रायमविज्ञायानुक्तिमात्रेणात्मनेपदपरस्मैपदयोरुभयोरपि सामान्येन विधानं विज्ञातं स्यात् ।

टिप्पणी


१. का० धा० व्या० ३।१९ तमे सूत्र उद्धृतम् ।
२. का० धा० व्या० ३।४१ तमे सूत्र उद्धृतम् ।
३. का०धा० व्या० ३।७८ तमे सूत्र उद्धृतम् ।
४. का० धा० व्या० ३।७८ तमे सूत्र उद्धृतम् ।

68
९०----उदात्तानुबन्धः परस्मैपदम् ।1
अर्थः--उदात्तानुबन्धाद् धातोः परस्मैपदं भवति । यथा--अतति ।
टिप्पणी--यस्मिन् धातौ न कश्चिदनुबन्ध आसज्यते यथा--भू सत्तायाम, तस्मात् परस्मैपदविधायकं न किञ्चित् सूत्रं कर्नाटकवृत्तावुपलभ्यते, परन्तु काशकृत्स्ने तन्त्रे तस्य सद्भाव अवश्यम्भावी विज्ञायते । यतः कातन्त्रे तु पाणिनीयतन्त्रवत् शेषात् कर्तरि परस्मैपदम् ( ३।४।४७) इति पठ्यत एव ।
९१-- स्वादेर्नुविकरणः।2
अर्थः--षुञ्--प्रभृतिभ्यो धातुभ्यो नु--विकरणो भवति । यथा--सुनोति ।
टिप्पणी--अत्र त्रिसप्ततितमस्य सूत्रस्य प्रथमा टिप्पण्यप्यवलोकनीया ।
९२--ऋननुबन्धाद् ईः।3
अर्थः--ऋकारानुबन्धाद् नकारानुबन्धाच्च ईः प्रत्ययो भवति । यथा--कर्तृ--कर्त्री, स्तृ--स्त्री, दण्डिन्--दण्डिनी ।
टिप्पणी--(१) सूत्रेऽनुबन्धशब्दः सन्दिग्धो वर्तते, तथैव कर्नाटकवृत्तिरपि सन्दिग्धा । यतः कर्नाटकवृत्तौ स्तृञ् आच्छादने (४।९) इत्यस्मात् क्विबन्तात् स्तृरूपात् स्त्री--शब्दनिष्पत्तिः प्रदर्शिता, तस्मात् ऋकारान्तान्नकारान्ताच्च ईप्रत्ययविधानं युक्तम् , ऋकारानुबन्धस्य तत्राभावात् । पाणिनीयाः ऋन्नेभ्यो ङीप् (४।१।५ ) इत्यत्र ऋकारान्तान्नकारान्ताच्चैव प्रातिपदिकात् स्त्रियां ङीपं विदधति । तस्मात् शुद्धः पाठः ऋनन्ताद् ईः स्यात् ।
(२) उणादौ तु स्त्रीपदं स्त्यायतेर्ड्रट्प्रत्ययेन साध्यते (स्त्यायतेर्ड्रट्--उणादिकोशः ४।१६६ ) तत्र टित्त्वान्ङीब् भवति ( अ० ४।१।१५ ) । वार्तिककारोऽपि संस्त्याने स्त्यायतेर्ड्रट् ( महा० ४।१।३) इत्युक्त्वोणादिक्रममेव पुष्णाति ।
९३--तुदादेरग्विकरणः।4
अर्थः--तुदप्रभृतिभ्यो धातुभ्योऽविकरणो भवति । यथा--तुदति ।
टिप्पणी--अत्र ७३ त्रिसप्ततितमस्य सूत्रस्य प्रथमा टिप्पण्यपि द्रष्टव्या ।

टिप्पणी


१. का० धा० व्या० ३।७८ मे सूत्र उद्धृतम् ।
२. का. धा० व्या० ४।१ मे सूत्र उद्धृतम् ।
३. का० धा० व्या० ४।९ मे सूत्र उद्धृतम् ।
४. का० धा० व्या० ५।१ मे सूत्र उद्धृतम् ।

69
काशकृत्स्ने तन्त्रे स्वरविवेचना--पाणिनिप्रभृतय आचार्याः प्रत्ययविशेषेषु अनुबन्धविशेषान् आसजन्तः शब्दस्वराणां सूक्ष्मभेदानपि दृष्ट्या नोज्झितवन्तः। अत एव वृत्तिकृता जयादित्येन दात्तः गौप्तः, स्वरे विशेषः1 । महती सूक्ष्मेक्षिका वर्तते सूत्रकारस्य (४।२।७४) इति महता कण्ठेनोक्तम् । काशकृत्स्निराचार्योऽपि स्वव्याकरणे शब्दस्वरान् यथायथं प्रदर्शयामासेति तत्प्रयुक्तैर्विविधैरनुबन्धैः स्पष्टं प्रतीयते । तद्यथा--
यद्यपि कर्नाटकवृत्तौ अन्विकरणविधायकं सूत्रं साक्षान्नोद्धृतम् , तथापि भ्वादिगणान्ते अन्विकरणो भ्वादिः समाप्तः इति लेखेन, अदाद्यारम्भे च अदादीनामनो लुक् ( क्रमिक संख्या ६७ ) इत्युद्धृतेन सूत्रेण च स्पष्टं प्रतीयेत यत् काशकृत्स्ने तन्त्रे अन्विकरण उत्सर्गरूप आसीत् । कातन्त्रेऽपि अन्विकरणः कर्तरि (३।४।३२) इत्येव पठ्यते। काशकृत्स्निना तुदादिभ्यो धातुभ्यः अन्विकरणस्थाने अग्विकरण उच्यते । अकि ककारानुबन्धस्य यदि गुणप्रतिषेध2 एव प्रयोजनमभविष्यत्तर्हि अनः किदतिदेशेनैव तद् असेत्स्यत् , किं पृथग् अग्विधानेन । तेन विज्ञायते काशकृत्स्ने तन्त्रे शब्दस्वराणामपि यथायथं विधानमासीत् । तेन भवति पचति इत्यत्र अनो नित्त्वादाद्युदात्तत्वं भवति, तुदति नुदति इत्यत्र च अकः प्रत्ययस्वरेण मध्योदात्तत्वम् । पाणिनीया अपि भ्वादौ शपः पित्त्वमुक्त्वा धातुस्वरमेवामनन्ति, तुदतिप्रभृतिषु च विकरणप्रत्ययस्वरम् । एवमेव काशकृत्स्ने तन्त्रे यन्विकरणस्य सन्प्रत्ययस्य च नित्त्वविधानं पाणिनीयस्वरविधानेन तुल्यं भवति । कातन्त्रे तु न स्वरविधानमाद्रियते, तेन तुदादिभ्योऽपि उत्सर्गः 'अन्' विकरण एवोच्यते, तत्परे च तुदादेरनि (३।७।२५) सूत्रेण गुणाभावो विधीयते । सत्यप्येवम् अनि श्यनि सनि च नित्त्वं कातन्त्रे कस्मादुच्यते इति विचारणीयमेव ।
९४--सकृद् बाधितो विधिर्बाधित एव ।3
अर्थः--एकवारं यो विधिर्येन केनापि बाधितः, स बाधित एव भवति,

टिप्पणी


१. विपाश उत्तरकूले निर्मितेषु कूपेषु 'दात्ताः, गौप्ताः' आद्युदात्ताः प्रयुज्यन्ते, दक्षिणकूले निर्मितेषु त एवान्तोदात्ता इत्यभिप्रायः ।
२. कर्नाटकटीकायां 'ककारं वृद्धिनिषेधार्थम्' इति पठ्यते । तदशुद्धम्, नहि कस्मादपि तुदादिगणस्थादकि वृद्धिः प्रसङ्गो वर्तते।।
३. का० धा० व्या० ५।१ प्रथमे सूत्र उद्धृतम्। सम्भवतः काशकृत्स्नीयपरिभाषापाठस्थेयं परिभाषा स्यात् ।

70
न पुनः प्रवर्तते । यथा--'तुदति' इत्यत्र विकरणस्य कित्त्वाद् गुणः प्रबाधितः, स पुनर्न प्रवर्तते।
टिप्पणी--तुलना कार्या--सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव (परिभाषावृत्तिः सीरदेवीया २०, परिभाषेन्दुशेखरः ४०)।
लृदनुबन्धान्नुः ।2
अर्थः--लृकारानुबन्धाद् [ तुदादिगणस्थाद् ] धातोः 'नु' आगमो भवति । यथा--मुच्लॄ--मुञ्चति ।
टिप्पणी--(१) कर्नाटकवृत्तौ लृदनुबन्धानुः इत्येवं पठ्यते स चापपाठः। पूर्वत्र इदनुबन्धान्नुः ( क्रमिक संख्या ९) इत्यत्र पञ्चम्यन्तः पाठ उपलभ्यते, स एवास्माभिरत्रापि स्वीकृतः। एवमुत्तरत्र ९६, ९७, ९८ सूत्राणां पाठविषयेऽपि विज्ञेयम् ।
(२) इह कर्नाटकटीकायां सूत्रवृत्तौ 'नु स्थाने 'नुम्' इत्येवं पठ्यते । स सूत्रविरोधाच्चिन्त्यः । एवमुत्तरत्र ९६, ९७, ९८ सूत्रवृत्तिष्वपि ज्ञेयम् । पाणिनीयास्तु 'नुम्' इत्येव विदधति । यद्वा वृत्त्यनुरोधात् सर्वत्र सूत्रपाठे 'नुः' स्थाने 'नुम्' पाठो द्रष्टव्यः, एवं इदनुबन्धान्नुः ( क्रमिक संख्या ९) सूत्रपाठेऽपि । परन्तु तत्र कर्नाटकटीकायां सूत्रवृत्तावपि 'नु' इत्येव पठ्यते । तेन 'नु' पाठ एव ज्यायान् इत्यस्माकं मतम् ।
(३) वृत्तौ 'तुदादिगणस्थाद्' इति पदमस्माभिः परिवर्धितम् । तत्रैवास्य सूत्रस्य प्रवर्तनात् , एवमग्रेऽपि सूत्रवृत्तौ द्रष्टव्यम् ।
९६--इरनुबन्धान्नुः ।3
अर्थः-- इर्--अनुबन्धाद् [ तुदादिगणस्थाद् ] धातोः 'नु' आगमो भवति । यथा--षिचिर्--सिञ्चति ।
टिप्पणी--इह ९५ तमस्य सूत्रस्य सर्वा अपि १--२--३ संकेतिताष्टिप्पण्यो द्रष्टव्याः ।
९७--ईदनुबन्धान्नुः ।1
अर्थः-- ईकारानुबन्धाद् [ तुदादिगणस्थाद् ] धातोः 'नु' आगमो भवति । यथा--कृती--कृन्तति ।

टिप्पणी


१. का० धा० व्या० ५।७ मे सूत्र उद्धृतम् ।
२. का० धा० व्या० ५।११ शे सूत्र उद्धृतम् ।
३. का० धा० व्या० ५।१२ शे सूत्र उद्धृतम् ।

71
टिप्पणी--इह ९५ तमस्य सूत्रस्य सर्वा अपि टिप्पण्योऽवलोकनीयाः ।
 ९८--स्वरितानुबन्धान्नुः ।1
अर्थः--स्वरितानुबन्धाद् [ तुदादिगणस्थाद् ] धातोः 'नु' आगमो भवति । यथा--खिद--खिन्दति, खिन्दते ।
टिप्पणी--इहापि ९५ तमस्य सूत्रस्य सर्वाष्टिप्पण्यो द्रष्टव्याः ।
काशकृत्स्नतन्त्रे स्वरचिन्तासद्भावेऽन्यत् प्रमाणम्--काशकृत्स्ने तन्त्रे शब्दानां स्वरविषयिकी मीमांसाऽऽसीदिति विषये पूर्वं ९३ तमस्य सूत्रस्य विवरण उक्तम्2 । इहान्यत् प्रमाणं प्रस्तूयते । प्रकृतसूत्रे पूर्वतनेषु च ८८,८९, ९० सूत्रेषु अनुदात्तस्वरितोदात्तादीन् स्वरानधिकृत्यात्मनेपदादिकार्यं विहितम् । तत् काशकृत्स्ने तन्त्रे स्वरविवेचनायामेव सम्भवति नान्यथा । कातन्त्रे स्वरविवेचनाभावाद् आत्मनेपदादिविधायकेषु अनुदात्तादि--स्वरविशेषाणां निर्देशो नाकारि । काशकृत्स्नेन तु पाणिनिवत् स्वरविशेषानुरोधेनात्मनेपदादिविधानमुक्तम् , तेन ज्ञायते काशकृत्स्नीये तन्त्रे पाणिनीयतन्त्रवत् स्वरचिन्तनमासीदिति ।
९९--यजां यवराणां य्वृतः सम्प्रसारणं कानुबन्धे ।3
यवराणां य्वृतः।4
अर्थः--यजादिधातूनां यवराणां [ यथाक्रमम् ] इ उ ऋ सम्प्रसारणं भवति, ककारानुबन्धवति प्रत्यये परतः । यथा--वृश्चति, गृह्णाति ।
टिप्पणी--यवराणां य्वृतः इति सूत्रं यजां यवराणामित्यादिसूत्रस्यैकदेश एव प्रतिभाति । गृह्णाति पदे नाविकरणस्य किदतिदेशविधायकं सूत्रं कन्नडवृत्तौ नोद्ध्रियते।
१००----य्वृणां यवरास्तृचि ।5
य्वृणां यवराः।6
अर्थः--इ उ ऋ इत्येतेषां स्थाने [ यथाक्रमं ] य व र आदेशा भवन्ति तृचि परतः । यथा--सृज् तृ = स्रष्टृ = स्रष्टा ।

टिप्पणी


१. का० धा० व्या० ५।१३ शे सूत्र उद्धृतम् ।
२. द्र०--पृष्ठ ६९ ।
३. का० धा० व्या० ५।१९ तमे सूत्र उद्धृतम् ।
४. का० धा० व्या० ८।१४ शे सूत्र उद्धृतम् ।
५. का धा० व्या० ५।५१ तमे सूत्र उद्धृतम् ।
६. का० धा० व्या० ८।१२ शे सूत्र उद्धृतम् ।

72
टिप्पणी--(१) पूर्वसूत्रपाठे 'तृचि' इति न सूत्रपदं सम्भवति तृचोऽन्यत्रापि यवरादेशानां दर्शनात् । उत्तरसूत्रपाठो वॄञ् धातोर्व्रातः इत्युदाहरणे निर्दिष्टस्तेनापि पूर्वमतमेव दृढीभवति ।
(२) अस्मन्मते उभावपि पूर्वनिर्दिष्टौ पाठौ पूर्वनिर्दिष्टस्य ४० तमस्य दृशादीनां य्वृणां यवरा अकानुबन्धे सूत्रस्यैवैकदेशा अनुवादौ वा स्त इति । तथा सति पूर्वपाठे 'तृचि' ग्रहणमनुवादमात्रमेव ।
१०१--ऊदनुबन्धाद् इड् वा ।1
अर्थः--ऊकारानुबन्धाद् धातोरिड् वा भवति। [यथा--षिधू--सेधिता, सेद्धा।]
टिप्पणी--कर्नाटकटीकाकृता सूत्रमिदम् ओव्रश्चू छेदने (५।१९) धातावुद्धृतः, परं तत्रास्योदाहरणं न प्रदत्तम् । षिधूधातोरुदाहरणं त्वस्माभिः कल्पितमिति ज्ञेयम् ।
१०२--ऋ इर् ।2
अर्थः--धातोर्ऋकारस्य 'इर् आदेशो भवति । यथा--कॄ--किरति ।
टिप्पणी--अत्र १०५ तमस्य सूत्रस्य टिप्पणी द्रष्टव्या ।
१०३--इरुरोरीरूरौ ।3
अर्थः--इर् उर् इत्येतयोर् ईर् ऊर् इत्येतौ भवतः। यथा--कॄत = किर् त = कीर्तः कीर्तवान् ।
टिप्पणी--(१) सूत्रमिदं कातन्त्रेऽपीत्थमेव पठ्यते (द्र० २।३।५२ )।
(२) कर्नाटकटीकाकारेण सूत्रस्यापूर्ण एवार्थो निर्दिष्टः । कातन्त्रे तु पूर्वसूत्रात् (२।३।४४) विरामव्यञ्जनादिषु इत्यनुवर्तते । तेन विरामे कॄधातोः क्विपि किर् = कीः, पॄधातोः पुर् = पू:1, व्यञ्जनादौ कीर्तः पूर्तः इति ।
१०४--ऋत ईर् ।4
१०५--ऋत ऊर् ।5
अर्थः--ऋत स्थाने ईर् भवति । ऋतः स्थाने ऊर् भवति । यथा--शीर्णम् , पूर्तम् ।

टिप्पणी


१. का० धा० व्या० ५।१९ तमे सूत्र उद्धृतम् ।
२. का० धा० व्या० ५।२१ तमे सूत्र उद्धृतम् ।
३. का० धा० व्या० ५।२१ तमे सूत्र उद्धृतम् ।
४. का० धा० व्या० ८।१५ सूत्र उद्धृतम् ।
५. का० धा० व्या० ५।१६ सूत्र उद्धृतम् ।

73
टिप्पणी--(१) १०४,१०५ संख्यकयोः सूत्रयोः पाठः सन्दिग्धः । अस्मन्मते १०२ तमे सूत्रे इर् आदेशेन सह उर् आदेशोऽप्यपेक्षते, पुर्--पूः इत्यादौ उर् आदेशस्य दर्शनात् । तेन ऋ इरुरौ इति पूर्णं सूत्रं स्यात् । तयोरेव इर् उर् आदेशयोः १०३ संख्यकेन सूत्रेण यद्दीर्घत्वमुच्यते तस्यैवानयोः (१०४,१०५ ) सूत्रयोरनुवादो ज्ञेयः।।
(२) पाणिनीयाः कातन्त्राश्चागुणप्रसङ्गे ऋकारान्तस्य इर् ,ओष्ठ्यपूर्वस्य च उर् आदेशं प्रशासति, एवमुपधाया अपि यथासंख्यम् (द्र० 'ऋत इद् धातोः उपधायाश्च, उदोष्ठ्यपूर्वस्य च--अष्टा० ७।१।१००--१०२, ऋत इरगुणे, उरोष्ठ्योपधस्य च--कातन्त्र ३।७।४२,४३ ) तयोश्च दीर्घत्वं ब्रुवते ।
(३) पाणिनीया कातन्त्राश्च इर् उर् भावं व्यवस्थया ब्रुवते, परन्तु काशकृत्स्नीये तन्त्रे सामान्येन इर् उर् विधानमासीदिति प्रतीयते । यथा--ओष्ठ्यपूर्वाभावेऽपि दूर्तः दूर्तवान् जूर्तम् जूर्तिः ( का० धा० व्या० ८।१९२०, पृ० १८३) इत्यत्र उरादेशो विधीयते । एवं गीर्णम् गूर्णम् ( का० धा० व्या० ८।२२, पृ० १८३ ) इत्यत्र उभयोरपि इरुरोर्विधानमुपलभ्यते।
(४) एवं काशकृत्स्ने तन्त्रे पाणिनीयकातन्त्रवद् अगुणे इत्यपि नियमो नोपलभ्यते, तथाहि गुणप्रसङ्गेऽपीह इरुर् भावावुदाह्रियेते । यथा--बॄ--बूरणम् बूरणीयम् (८।१७ ); भॄ--भूरणम् भूरणीयम् (८।१८); दॄ--दूरणम् दूरणीयम् (८।१९); जॄ--जूरणम् जूरणीयम् (८।२०); गॄ--गूरणीयम् (८।२२ ) इति ।
(५) इह प्रसङ्गे ऋ ईर् यनि कृति च ( क्रमिक संख्या ८५ ) सूत्रमपि द्रष्टव्यम् ।
१०६----य्वोर्धातोरियुवौ स्वरे ।1
अर्थः--धातोरीकार--ऊकारयोरिय् उवौ भवतः स्वरे परतः। यथा--नू--अति = नुवति । टिप्पणी--काशकृत्स्नसूत्रपाठे य्वोः पदेन ह्रस्वदीर्घयोर्भेदो न व्यज्यते । परन्तु टीकाकारेण दीर्घयोरीकारोकारयोरेव निर्देशः कृतः। कातन्त्रकारेण तु स्पष्टमेव ईदूतोरियुवौ स्वरे ( २।२।५६ ) इति दीर्घयोरीदूतोरेव ग्रहणं क्रियते । पाणिनिना तु अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६।४।७७) इति सामान्येनैव निर्देशः कृतः। तदनुसारं ह्रस्वान्तयोः क्षि--रु--धात्वोः चिक्षियतुः रुरुवतुः प्रयोगयोरियुवौ भवतः। एतत्कार्यसिद्ध्यर्थं कातन्त्रे स्वरादाविवर्णोवर्णान्तस्य

टिप्पणी


१. का० धा० व्या० ५।१०५ तमे सूत्र उद्धृतम् ।

74
धातोरियुवौ ( ३।६।५५ ) इति पृथक् सूत्रमुपलभ्यते । कातन्त्रस्य पूर्वनिर्दिष्टः ईदूतोरियुवौ स्वरे ( २।२।५६ ) सूत्रं नामिकप्रकरणस्य विद्यते । काशकृत्स्नधातुपाठस्य कर्नाटकटीकाकृता कातन्त्रीये नामिकप्रकरणे पठितेन समानाक्षरेण सूत्रेण नुवतिपद उवादेशो विधीयते । एतेन विज्ञायते काशकृत्स्नीयं सूत्रं पाणिनि--सूत्रवत् सामान्यविषयकमेव । कातन्त्रकारेण काशकृत्स्नीयमेव सामान्यविधायकं सूत्रं यत्किञ्चिद्भेदेन नामिक प्रकरणे पठितम् , धातोरियुवौ विधातुं च सूत्रान्तरं विहितम् ।
विशेषः--पूर्वविवरणेनैतदपि विस्पष्टं भवति यत्काशकृत्स्नीयं तन्त्रं पाणिनीयतन्त्रवत् प्रकरणानुसार्येवासीत् , न तु कातन्त्रवत् प्रक्रियानुसारीति ।
१०७--रुधादेर्नुम् ।1
अर्थः--रुधप्रभृतिभ्यो धातुभ्यो नुम् ------विकरणो भवति सार्वधातुके परतः । यथा--रुध्ति = रुणध्ति । धकारात् पूर्वं नुम् कथमिति नोक्तं वृत्तिकृता।
१०८--चतुर्थात् तथयोर्धः।2
अर्थः--वर्गस्य चतुर्थाक्षरात् परे तकारथकारयोर्धकारादेशो भवति । यथा--रुणध्ति =रुणध्धि = रुणद्धि ।
टिप्पणी--(१) कर्नाटकटीकाकारेण धकारादेशः सार्वधातुके परत इत्युक्तम् , तच्चिन्त्यम् । इह तु सार्वधातुकस्यैव तिपः तकारस्य धकारत्वमिष्टम् ।
(२) कातन्त्रे घढधमभ्यस्तथोर्धोऽधः (३।१०।३ ) इति, पाणिनीये च झषस्तथोर्धोऽधः ( ८।२।४०) इति सूत्रं पठ्यते । तयोस्तुलनया विज्ञायते यत् काशकृत्स्नीये सूत्रे अधः इत्यंशस्त्रुटित इति ।
१०९----अपृक्त एकवर्णः प्रत्ययः।3
अर्थः--धातोः पर एकवर्णोऽपृक्तप्रत्ययः स्वार्थं प्रदाय लुप्यते ।
टिप्पणी--उक्तः सूत्रार्थः कर्नाटकवृत्त्यनुसारी वर्तते । सूत्रमिदमपृक्तसंज्ञाविधायकमथवाऽपृक्तस्य लोपविधायकमिति सन्दिग्धम् । अस्मन्मते तु सूत्रमिदम् अपृक्तसंज्ञा विधायकम् । अपृक्तस्य लोपविधायकं तु सूत्रं टीकायां त्रुटितम् । तुलना कार्या -- अपृक्त एकाल् प्रत्ययः ( अष्टा० १।२।४१), वेरपृक्तस्य (अष्टा०

टिप्पणी


१. का० धा० व्या० ६।१ प्रथमे सूत्र उद्धृतम्
२. का० धा० व्या ६।१ प्रथमे सूत्र उद्धृतम् ।
३. का० धा० व्या० ६।२२ तमे सूत्र उद्धृतम् ।

75
६।१।६७) इति । अनयोरपि प्रथममपृक्तसंज्ञाविधायकम् अपरमपृक्तस्य लोपविधायकमिति ।
मन्ये इह कर्नाटकवृत्तौ अपृक्त एकवर्णः प्रत्ययः इत्यपृक्तसंज्ञाविधायकस्य वृत्तिभागो नष्टः, तदनन्तरं च अपृक्तस्य लोपविधायकं सूत्रं नष्टम् । तेन लुप्तसूत्रवृत्तिग्रन्थेन सह पूर्वसूत्रस्य सम्बधः समजनि । लेखकप्रमादाद् एतादृशाः पाठदोषा उपपद्यन्त इति विज्ञा विजानन्त्येव, इत्यलमधिकवर्णनेन ।
११०--न आ ई आत्मनेपदे।1
अर्थः--नाविकरणस्य आकारस्य ईकारादेशो भवति आत्मनेपदे परतः । यथा--क्रीणीते।
टिप्पणी--(१) इह क्र्यादिभ्यो नाविकरणविधायकं सूत्रं कर्नाटकवृत्तिकृता नोदाह्रियते, यद्वा ग्रन्थान्नष्टं स्यात् ।
(२) सूत्रे पठितः 'आत्मनेपदे' इति न सूत्रांशः सम्भवति, तथा सति क्रीणीतः इत्यत्र परस्मैपदे केन ईत्त्वं स्यात् । तस्मात् क्रीणीते इत्यत्र ईत्वं विधातुं सूत्रस्यार्थतोऽनुवादो ज्ञेयः।
१११----क्तक्तवतू निष्ठा ।2
अर्थः--क्तः क्तवतुश्च प्रत्ययौ निष्ठा संज्ञौ भवतः ।
टिप्पणी--सूत्रमिदं पाणिनीये ( अष्टा० १।१।२६ ) कातन्त्रे (कृदन्ते ८४) चेत्थमेव पठ्यते।
११२--निष्ठायास्तो नः।3
अर्थः--निष्ठासंज्ञकस्य क्तस्य क्तवतोश्च तकारस्य नकारो भवति । यथा--मीत--मीनः, मीनवान् ।
टिप्पणी--(१) अस्मन्मते सूत्रमिदं कस्यचित्सूत्रस्यैकदेशो वा स्याद् अर्थतोऽनुवादो वा । तुलनीयम्--पा० अ० ८।२।४२, कातन्त्र कृदन्त ५३१ सूत्रेण
(२) कर्नाटकटीकायां मत्स्यार्थकोऽपि मीनशब्दः क्तान्त इत्युक्तम् (द्र० ८।७, पृ० १८१) तच्चिन्त्यम् । वस्तुतस्तदौणादिको नक् प्रत्ययान्तः ( उणा० ३।३) संज्ञाभूतो शब्दोऽन्य एव ।

टिप्पणी


१. का० धा० व्या० ८।१ प्रथमे सूत्र उद्धृतम् ।
२. का० धा० व्या० ८।७ मे सूत्र उद्धृतम् ।
३. का० धा० व्या० ८।७ मे सूत्र उद्धृतम् ।

76
११३--प्वादेर्ह्रस्वः ।
अर्थः--पूञ् इत्येवमादीनां धातूनां ह्रस्वो भवति । यथा--पूञ् = पुनाति ।
११४--ग्रहादेरीट् ।2
अर्थः--ग्रहप्रभृतिभ्यो धातुभ्य ईडागमो भवति । यथा--ग्रहीता।
११५–गृहाः पुंसि च भूम्न्येव ।3
अर्थः----गृहशब्दः पुँल्लिङ्गे बहुत्व एव च प्रयुज्यते ।
टिप्पणी--(१) अस्मन्मत इह निर्दिष्टो गृहशब्दो भार्यावाचकः । न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते इति सुभाषितेऽपि तथैव निर्देश उपलभ्यते । तथा सत्येव दारशब्दवदेतस्य पुंस्त्वं बहुत्वं च युक्तं भवति । द्र०--दाराः पुंसि भूम्नि ( क्रमिक संख्या ५३ ) इति काशकृत्स्नीयं सूत्रम् ।
(१) गृहाः पुंसि भूम्न्येव इत्यनुष्टुभ एकं चरणम् । पूर्वनिर्दिष्टेन भूते भव्ये वर्तमाने (क्रमिक संख्या ६) इत्यनेनानुष्टुप्छन्दोबद्धेन सूत्रेण, गृहाः पुंसि भूम्न्येव इत्यनेन किब्विणी सर्वधातुभ्यः (क्रमिक संख्या ६) इत्यनेन चानुष्टुप्चरणेन विज्ञायते यत्काशकृत्स्नीये तन्त्रे छन्दोबद्धान्यपि सूत्राण्यासन् । काशकृत्स्नस्य संक्षेपभूते कातन्त्रेऽपि छन्दोबद्धानि सूत्राण्युपलभ्यन्ते ।
(३) पूर्वनिर्दिष्टेन दाराः पुंसि भूम्नि ( क्रमिक संख्या ५३) इति सूत्रेण गृहाः पुंसि च भूम्येव इत्यनेन च विज्ञायते काशकृत्स्नीये तन्त्रे लिङ्गानुशासनमप्यासीत् । तच्च शब्दानुशासनान्तर्गतमपि संभवति, पाणिनीयतन्त्रवत् खिलरूपेणापि ।
११६--श्रादेर्वः।4
अर्थः--शृप्रभृतिभ्यो धातुभ्यो वः प्रत्ययो भवति । [ यथा--शर्वः।]
टिप्पणी--(१) अस्मत्प्रतिलिप्यामुदाहरणं नास्ति, तत् किं प्रतिलिपिकर्तृप्रमादान्नष्टं मूलग्रन्थ एव वा तन्नासीदिति न ज्ञायते । अत्र शर्वः इत्युदाहरणमपेक्षते।

टिप्पणी


१. का० धा० व्या० ८।८ मे सूत्र उद्धृतम् ।
२. का० धा० व्या० ८।१४ शे सूत्र उद्धृतम् ।
३. का० धा० व्या० ८।१४ शे सूत्र उद्धृतम् ।
४. का० धा० व्या० ८।१५ शे सूत्र उद्धृतम् ।

77
(२) पाणिनीये सम्प्रदाये 'शर्व' शब्द औणादिकत्वेन प्रसिद्धः (उणादिकोश १।१५५)। काशकृत्स्नीये तन्त्रेऽपि किमेतत्सूत्रं शब्दानुशासनस्योत तदीयोणादिप्रकरणस्येति विचारार्हम् । अत्र १३१ तमस्य सूत्रस्य तृतीया टिप्पण्यवलोकनीया।
११७--क्षिप्नादीनां न नो णः।'
अर्थः--क्षिप्नाप्रभृतीनां शब्दानां नकारस्य णकारो न भवति । यथा--क्षिप्नाति । टिप्पणी--तुलनीयं क्षुभ्नादिषु च ( ८।४।३९ ) इति पाणिनीयेन सूत्रेण ।
११८--चुरादेरिन् स्वार्थे ।2
अर्थः--चुरप्रभृतिभ्यो धातुभ्य इन् विकरणो भवति स्वार्थे। यथा--चोरयति ।
टिप्पणी--तुलना कार्या चुरादेश्च ( का० ३।४।११) इति कातन्त्रीयेण
सूत्रेण ।
११९--लक्षेर्मीमन्मनाः।3
अर्थः--लक्षधातोर्मी मन् मन इत्येते प्रत्यया भवन्ति । यथा--लक्ष्मीः, लक्ष्म, लक्ष्मणः। टिप्पणी--पाणिनीये सम्प्रदाय एतेऽप्यौणादिकाः शब्दाः।
१२०--नथादेरिनि दीर्घः ।4
अर्थः--नथप्रभृतीनां धातूनाम् इनि परे दीर्घो भवति । यथा--नाथयति ।
टिप्पणी--वक्ष्यमाणेन इन् णानुबन्धवत् (क्रमिक संख्या १२५) सूत्रेण णानुबन्धवदतिदेशे वृद्धिरादौ सणे (क्रमिक संख्या १२६) सूत्रेण वृद्धिर्भविष्यत्येव किं नथादेरिनि दीर्घः इति सूत्रेण प्रयोजनम् । सम्भवत्येतत् सूत्रं न स्यात् , कार्यस्यानुवादमात्रमत्रोल्लिखितं कर्नाटकव्याख्यात्रा।
१२१--चरादन्तिन् ।5
अर्थः--चरधातोरन्तिन् प्रत्ययो भवति । यथा--चरन्ती = देशान्तरवासी।

टिप्पणी


१. का० धा० व्या० ८।२९ तमे सूत्र उद्धृतम् ।
२. का० धा० व्या० ९।१ प्रथमे सूत्र उद्धृतम् ।
३.का० धा० व्या० ९।१० मे सूत्र उद्धृतत् ।
४. का० धा० व्या० ९।१९ तमे सूत्र उद्धृतम् ।
५. का० धा० व्या० ९।१७५ तमे सूत्र उद्धृतम् ।

78
काशकृत्स्न--व्याकरणम्
१२२--नादन्तात् सन् ।1
अर्थः--अदन्ताद् धातोः सन् न भवति ।
टिप्पणी--अयं नियमो नान्यतन्त्रे क्वचिदुपलभ्यते ।
१२३--महादेरन्तः।2
अर्थः--महप्रभृतिभ्यो धातुभ्योऽन्तः प्रत्ययो भवति । यथा--महन्तः = पूज्यः
१२४--अनाकौ णानुबन्धवत् ।3
अर्थः--अन--अकप्रत्ययौ णकारानुबन्धप्रत्ययवद् भवतः (णिद्वद् भवत इत्यर्थः) । यथा--मायनम् , मायकम् ।
टिप्पणी--इह मायनम् मायकम् उदाहरणयोः सन्देहो वर्तते मायनं मापनं वा, मायकं मापकं वा । यत आकारान्तात् यु पु उभावागमौ विधीयते । द्रष्टव्ये ५४,५५ क्रमसंख्याके सूत्रे ।
१२५--इन् णानुबन्धवत् ।4
अर्थः--इन् प्रत्ययो णानुबन्धवद् भवति (णिद्वद् भवतीत्यर्थः)।
टिप्पणी--अस्मत्प्रतिलिप्यां सूत्रवृत्तिपाठौ सन्दिग्धौ स्तः । प्रकरणानुसार सूत्रपाठो वृत्तिपाठश्च शोधितः।
१२६--वृद्धिरादौ सणे ।5
अर्थः--धातोर्नामिसंज्ञकानां स्वराणां वृद्धिर्भवति णकारसहिते प्रत्यये परतः । यथा--भू इन् = भावयति ।
टिप्पणी--(१) नामिसंज्ञा इ ई उ ऊ ऋ ऋ लृ लॄ स्वराणां भवति । तथा चोक्तं कातन्त्रे--स्वरोऽवर्णवों नामी (१।१।७)।

टिप्पणी


१. का० धा० व्या० १९३ तमे सूत्र उद्धृतम् ।
२. का० धा० व्या० २०६ तमे सूत्र उद्धृतम् ।
३. का० धा० व्या० २९४ तमे सूत्र उद्धृतम् ।
४. का० धा० व्या० ३०४ तमे सूत्र उद्धृतम् ।
५. का० धा० व्या० ३०३ तमे सूत्रे चुरादिगणान्ते (पृष्ठ २२२) चोद्धृतम् । तथा चन्नवीरकविना पुरुषसूक्तस्य कर्नाटकटीकायामपि 'ब्राह्मयै' पदनिर्वचन उद्धृतम् । (द्र० का० धा० कर्नाटकटीकायाः भूमिका)।

79
(२) इह नामिपदस्यानुवृत्तिः कुतो वर्तत इति न ज्ञायते । सति च तदनुवृत्तौ पाचयति इत्यादिषु वृद्धिर्न स्यात् । तेन नामिपदं न कुतश्चनानुवर्तत इत्येव ज्ञेयम् , वृत्तौ तद्ग्रहणमनुवादमात्रम् ।।
(ग) सूत्रमिदं कातन्त्रे ( ३।२।४९ )ऽपीत्थमेव श्रूयते।
१२७--प्रयोज्यकर्तरि णिच् ।1
अर्थः--प्रयोज्यकर्तरि = हेतुकर्तरि धातोर्णिज् भवति ।
टिप्पणी--पाणिनीया अपि णिच्प्रत्ययमेवाहुः । कातन्त्रास्तु--धातोश्च हेतौ ( ३।४।१०) सूत्रेण इन् प्रत्ययमेवाहुः। ।
१२८--नाम्न उपमानादाचारे आयङीयौ ।2
अर्थ:--उपमानवाचकात् नाम्न आचारे आयङ् ईय प्रत्ययौ भवत आख्याते परतः । यथा--वृषभः शिवायते, वृषभीयन्ती।
टिप्पणी--पाणिनीयास्तु आयङ् = क्यङ्, ईय = क्यच् प्रत्ययान्तयोर्धातुसंज्ञां विधाय तदनन्तरं तिबादीनुत्पादयन्ति ।
१२९--आयङीययोर्लुक् ।
अर्थः--आयङ्--ईय--प्रत्यययोर्लोपो भवति नाम्नः परस्य आख्याते प्रत्यये परतः।
टिप्पणी--(१) आयङ्ईययोर्विधानसामर्थ्यात् लोपविधानाच्च विकल्पेन लोपो ज्ञेयः । तेन लुगभावे--कुसुमायते कुसुमीयति, लुकपक्षे--कुसुमति इत्युभयं भवति ।
(१) पाणिनीयव्याकरणानुसारं सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः ( ३।१।११ वा० ) इति वार्तिकेन क्विब्भवति, तस्य च सर्वस्य लोपः । तेन 'कुसुमति' प्रयोग उपपद्यते । यदा तु क्यङ् तदा कुसुमायते, यदा क्यच् तदा कुसुमीयति इति भवति ।
१३०--------अकर्मकेभ्यो धातुभ्यो भावे कर्मणि यङ् स्मृतः ।4
अर्थः--अकर्मकेभ्यो धातुभ्यो भावे, तथा सकर्मकेभ्यः कर्मणि यङ् प्रत्ययो भवति । यथा--भूयते प्रभुणा, भुज्यते प्रभुः।

टिप्पणी


६. का० धा० व्या० चुरादिगणानन्तरमुद्धृतम् ( पृष्ठ २२२)।
७. का० धा० व्या० चुरादिगणानन्तरमुद्धृतम् (पृष्ठ २१२)।
१. का० धा० व्या० चुरादिगणान्ते (पृष्ठ २२३) उद्ध्रियते ।
२. का० धा० व्या० चुरादिगणान्ते ( पृष्ठ २२३) उद्ध्रियते।

80
टिप्पणी--कातन्त्रे यङः स्थाने यण विधीयते ( ३।४।३१), पाणिनीये तु यग् उच्यते ( ३।१।६७)।
१३१--बृहो ममन्मीनमणिष्व ( ? )।1
अर्थः--बृहधातोर्म मन् मीन् मणिष्व (? मिणd ) इत्येते प्रत्यया भवन्ति । यथा--ब्रह्म, ब्रह्मन् , ब्रह्मी (?), ब्राह्मिः। ___
टिप्पणी--(१) सूत्रमिदं चन्नवीरकविना पुरुषसूक्तस्य कर्नाटकटीकायां ब्राह्मये पदव्याख्यान उद्धृतम् । द्र० का० धा० कर्नाटकटीकाया भूमिका ।
(२) पुरुषसूक्त कर्नाटकटीकायामुद्धृतः सूत्रपाठोऽशुद्धो वर्तते ।
(३) पुरुषसूक्त कर्नाटकटीकायां चन्नवीरकविना सूत्रमिदमुद्धृत्य कौशिकृत्स्नदशपादियणादौ उक्तमिदम् इत्युक्तम् । अत्र काशकृत्स्नीयदशपाद्युणादौ इति शुद्धः पाठो द्रष्टव्यः ।।
(४) किं काशकृत्स्नेन दशपाद्युणादेः प्रवचनमकारि ? सम्प्रत्युपलभ्यमानो दशपाद्युणादिसूत्रपाठस्तु पाणिनीयः प्रतीयत इत्युक्तमस्माभिः संस्कृतव्याकरणैतिह्ये (द्र० भाग २, पृष्ठ १७४--१७७)।
(ङ) बर्हरु रो मनि इति ब्रह्मन्शब्दसाधकं सूत्र पूर्वं व्याख्यातम् (द्र० क्रमिक संख्या २५) तेन सहास्य तुलना कार्या ।
अन्यानि सूत्राणि
सन्ति कर्नाटकवृत्तावन्यान्यपि कानिचित् सूत्राणि व्याख्यातानि । तत्र येषां विषये 'धातुगणसूत्राणीति निश्चयेन शक्यते वक्तुं, तानि नेह व्याख्यातानि । सन्ति कानिचिद् एवं भूतानि येषां विषये सन्देहो जायते, यत्तानि पाणिनीयतन्त्रवत् काशकृत्स्नशब्दानुशासनगतानि उत कातन्त्रधातुपाठवत् धातुगणसूत्राणि । कातन्त्रधातुपाठः काशकृत्स्नस्यैव संक्षेप इत्यस्मात् कारणाद् एतानि धातुगणसूत्राणीत्येव युक्ततरं स्यात् , तथापि तानीह पठ्यन्ते--
१३२--प्रशस्तस्य श्रा।2
अर्थः--प्रशस्तशब्दस्य श्रा आदेशो भवति । यथा--श्राययति ।

टिप्पणी


१. चन्नवीरकविकृतायां पुरुषसूक्तस्य कर्नाटकटीकायां 'ब्राह्मये' पदव्याख्यान उद्ध्रियते।
२. का० धा० व्या० ९।२७२॥

81
टिप्पणी--यद्यपि टीकाकारेण नेह स्पष्टीकृतं यदित आरभ्य सप्तसूत्रोक्तानिकार्याणि कस्मिन् प्रत्यये परे विधीयन्ते, तथापि अष्टमेन सूत्रेण प्रतीयते यदिनानि कार्याणि इन्प्रत्यये परे विधीयन्त इति । यतस्तत्रेष्ठेमेयस्सु तद्वदतिदेशः क्रियते । अपि च धातुगणसूत्रत्व एषां चुरादौ पाठात् इन्प्रत्ययपरत्वं स्वत एव लभ्यते।
१३३--वृद्धस्य च ज्या ।1
अर्थः--वृद्धस्य चात् प्रशस्तस्य ज्या आदेशो भवति । यथा--ज्याययति ।
१३४--अन्तिकबाढयोर्नेदसाधौ ।2
अर्थः--अन्तिकबाढशब्दयोर्यथासख्यं नेद साध इत्यादेशौ भवतः । यथा--नेदयति, साधयति ।
१३५--युवाल्पयोः कन् वा ।3
अर्थः--युवाल्पशब्दयोर्विकल्पेन कनादेशो भवति । यथा--युवयति, कनयति; अल्पयति, कनयति ।
१३६-- स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणामन्त्यस्वरादेर्लोपो गुणश्च नामिनाम् ।4
अर्थः--स्थूल दूर युव ह्रस्व क्षिप्र क्षुद्र इत्येतेषाम् अन्त्यस्वरस्य, तस्य य आदिवर्णस्तस्य च लोपो भवति, नामिसंज्ञकानां च स्वराणां गुणो भवति । यथा--स्थवयति, दवयति, यवयति, क्षेपयति, क्षोदयति ।
टिप्पणी--(१) नामिसंज्ञाविषये पूर्वत्र द्वाविंशतितमस्य सूत्रस्य टिप्पणी द्रष्टव्या ( पृष्ठ ४४, टि०२)।
(२) अस्मिन् सूत्रे अन्त्यस्वरादेः इत्यस्मिन् पदे पूर्वम् अन्त्यश्चासौ स्वरश्चान्त्यस्वरः इति कर्मधारयसमासो ज्ञेयः, ततः अन्त्यस्वरश्च तदादिश्च अन्त्यस्वरादि इति समाहारद्वन्द्वस्तच्छब्दलोपश्च द्रष्टव्यः । युवन्शब्दे नकारलोपाय अन्त्यस्वरादेरित्यत्र तन्त्रावृत्त्या बहुव्रीहिः समासोऽपि ज्ञेयः--अन्त्यस्वर आदिर्यस्य तस्य च लोपो भवति ।

टिप्पणी


१. का० धा० व्या० ९।२७३॥
२. का० धा० व्या० ९।२७४॥
३. का० धा० व्या० ९।२७५॥
४. का० धा० व्या० ९।२७६॥

82
(ग) कर्नाटकवृत्तौ युवन्--शब्दस्य युवयति इत्युदाहरणमुपन्यस्तम् , अस्माभिस्तु पाणिनीयतन्त्रानुसारं काशकृत्स्नसूत्रानुसारं च वृत्त्यनन्तरं यवयति इत्युदाहृतम् ।
१३७--बहोरियादि भू च ।1
टिप्पणी--अस्मन्मते सूत्रस्यैतस्य पाठोऽशुद्धो वर्तते । वृत्त्यनुसारं प्रयोगानुसारं च बहोर्यादि भू च इत्येवं शुद्धेन सूत्रपाठेन भाव्यम् । तथा सति --
अयं सूत्रार्थः--बहुशब्दात् पर इन् यकारादिर्भवति (यकार आदावागमो भवति इति यावत् ) बहोश्च भू आदेशः । यथा--बहु इन् = बहु यिन् = भूयिन् = भूययति ।
विशेषः--माधवीयायां धातुवृत्तौ बहोः भावयति रूपमुपन्यस्तम् (द्र० पृ० ४२९ चौखम्बा काशी सं०)। अस्मन्मते धातुवृत्तिकारस्य मतमयुक्तं वर्तते । चान्द्रशाकटायनकातन्त्रादीनां मते भूययति इत्येव निष्पद्यते (द्र. माधवीया धातुवृत्ति पृ० ४२८)।
१३८--प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घह्रस्ववृद्धवृन्दारकाणां प्रास्थास्फावरागराबृंहात्रपद्राघह्रसवर्षवृन्दाः ।2
अर्थः--प्रिय स्थिर स्फिर उरु गुरु बहुल तृप्र दीर्घ ह्रस्व वृद्ध वृन्दारक इत्येतेषां स्थाने यथासंख्यं प्रा स्था स्फा वरा गरा बृंहा त्रप द्राघ ह्रस वर्ष वृन्द इत्येत आदेशा भवन्ति । यथा--प्रापयति, स्थापयति, स्फाययति, वरयति, गरयति, बृंहयति, त्रपयति, द्राघयति, ह्रसयति, वर्षयति, वृन्दयति ।
१३९--तद्वदिष्ठेमेयःसु बहुलम् ।3
अर्थः--इन्--प्रत्ययपरे यत्कार्यमुक्तं तद् इष्ठ इम ईयस् इत्येतेष्वपि प्रत्ययेषु बहुलं भवति । यथा--नेदिष्ठः, नेदिमा, नेदीयान् ; यविष्ठः, यविमा, यवीयान् ; कनिष्ठः, कनिमा, कनियान् , इत्येवमन्यत्रापि ज्ञेयम् ।
टिप्पणी--(१) एतेन सूत्रेण प्रतीयते यदितः पूर्वं सप्त सूत्रेषु यत्कार्यमुक्तं तद् इनि प्रत्यये भवति । तस्यैव चानेनेष्ठेमेयःसु प्रत्ययेष्वतिदेशः क्रियते ।
(२) पाणिनिना उक्तकार्याणि प्राधान्येष्ठेमेयःसु परतो विहितानि तुरिष्ठेमेयःसु (६।४।१५४ ) सूत्रात् इष्ठेमेयःसु पदाधिकारात् (द्र० ६।४।१५६--

टिप्पणी


१. का० धा० ब्या० ९।२७७॥
२. का० धा० व्या० ९।२७८ ॥
३. का० धा० व्या० ९।२७९ ॥

83
१६३) । वार्तिककारेण तत्र भवता कात्यायनेन णाविष्ठवत् प्रातिपदिकस्य (६।४।१५५ ) इति वार्तिकेन णिचि तत्कार्याणामतिदेशो व्यधायि ।
१४०--सत्यार्थवेदना अष्ट कारित एव ।1
टिप्पणी--सूत्रस्य पाठोऽशुद्धः प्रतिभाति । वृत्त्यनुसारमयं सूत्रपाठो ज्ञेयः--
सत्यार्थवेदेभ्य आप् कारित एव ।
अर्थः--सत्य अर्थं वेद शब्देभ्यो विहित आप कारिते प्रयोज्यकर्तर्येव भवति अर्थात् न स्वार्थ इति । सत्यापयति, वेदापयति, अर्थापयति ।
१४१--गुणवचनात् ।2
अर्थः--गुणवचनात् प्रतिपदिकाद् इन् भवति । यथा--पटयति लघयति ।
टिप्पणी--(१) चुरादिगणसूत्रमेतत् शब्दानुशासनस्य वेति सन्दिग्धम् ।
(२) पटु लघु इत्यादिषु इनि परे अन्त्यस्वरप्रभृतिभागस्य (पाणिनीये मते टिसंज्ञकस्य ) लोपो केन नियमेन भवति इति नोक्तं कर्नाटकवृत्तिकृता।
(३) कातन्त्रे तु पटयति आदिप्रयोगसिद्धये इनि लिङ्गस्यानेकाक्षरस्यान्त्यस्वरादेर्लोपः ( ३।४।१२) इति सूत्रं पठ्यते ।
१४२--एकस्वरा अदन्ताश्च कैश्चिच्चुरादिषु पठ्यन्ते ।3
टिप्पणी--नायं पाठः सूत्रस्य, अपि तु कस्यचित् सूत्रस्य वृत्तेः पाठः । तदनुसारं सूत्रपाठ एवं शक्यत ऊहितुम्------
एकस्वरा अदन्ताश्चैके।
अर्थः--एकस्वराः शब्दा अदन्ताश्च कैश्चित् चुदादिषु पठ्यन्ते, तेभ्य इन् प्रत्ययो विधीयते ॥
टिप्पणी--सूत्रस्यास्योदाहरणं न कर्नाटक वृत्तिकृतोदाह्रियते ।
इति श्रीपण्डितयुधिष्ठिरमीमांसकेन संकलितं यशोदाख्यया व्याख्ययाऽलंकृतं काशकृत्स्नीयं व्याकरणं सम्पूर्णम् ।
शुभं भूयात् लेखकपाठकयोः ।

टिप्पणी


१. का० धा० व्या० ९ । २८० ॥
२. का० धा० व्या० ९ । २८१।।
३. का० धा० व्या० ९ । २८२ ॥