काशिकाविवरणपञ्जिका/पञ्चमोऽध्यायः/तृतीयः पादः
← द्वितीयः पादः | काशिकाविवरणपञ्जिका तृतीयः पादः [[लेखकः :|]] |
चतुर्थः पादः → |
अथ पञ्चमोऽध्यायः
तृतीयः पादः
1. प्राग्दिशो विभक्तिः। (5.3.1)
`विभक्तिसंज्ञास्ते वेदिव्याः' इति। विभक्तिरित्येष शब्दः संज्ञा येषां ते तथोक्ताः। ननु च विभक्तिशब्दः सुप्तिङां संज्ञा, संज्ञा च प्रदेशवाक्येषूच्चारिता संज्ञिनं प्रत्याययतीति सुप्तिङां विभक्तिसंज्ञाविधानमनर्थकं स्यात्। यथा वृद्धिशब्दः स्वाभिधेये लौकिकेऽर्थे गुणीभूतोऽप्यादैच् प्रति संज्ञात्वमनुभवति, तथा विभक्तिशब्दोऽपि तसिलादीन् प्रति संज्ञात्वेन वेदितव्यः। अथ तत्रैव कस्मान्नोच्यते--`सुपो विभक्तिश्च प्राग्दिशश्च' इति, एवं सति पुनर्विभक्तिग्रहणं कर्त्तव्यं न भवति? नैवं शक्यम्; एवं हि न्यासे सति `कुत आरब्य प्राग्दिशीयाः? इति न ज्ञायते। किञ्च `दिगादिभ्यो यत्' (4.3.54), `तेनैकदिक्' (4.3.112) इति चानेकं शास्त्रे दिग्ग्रहणमित्यवधिरपि सन्दिह्येत। `किंसर्वनामबहुभ्यः' (5.3.2) इत्येवमादेश्च कारह्यस्यावधिदर्शनार्थं पुनरिह `प्राग्दिशः' इति वाच्यमेव स्यात्। तस्माद्यथान्यासमेव साध। `ततः, यतः' इति। `अष्टन आ विभक्तौ' (7.2.84) इत्यनुवर्त्तमाने `त्यदादीनामः' (7.2.102) इत्यत्वम्, `न विभक्तौ तुस्माः' (1.3.4) इति सकारस्येत्संज्ञाप्रतिषेषः, `तद्धित श्चासर्वविभक्तिः' (1.1.38) इत्यव्ययत्वाद्विभक्तेर्लुक्। `कुतः' इति। `कि तिहोः' (7.2.104) इति किमः कुभावः।
`त्यदादिविधयः' इति। त्यदादयोऽत्र दिभक्तिनिबन्धनाः। `ततः' इति। त्यदादिविधेरत्वस्योदाहरणम्। `इह इति। इदमो विभक्तिस्वरस्य। इदमः सप्तम्यन्तात् `इदमो हः' (5.3.11) इति हप्रत्ययः, `इदम इश्' (5.3.3) इतीशादेशः। `ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः' (6.1.171) इति इदमः परस्योदातत्वं विभक्तित्वे सति सिद्धं भवति। अत्र तु प्रत्ययस्वरेणैव सिद्धमाद्युदात्तत्वम्। तस्माच्चोदाहरणदिगियं प्रदर्शित। इदं त्वत्रोदाहारणं युक्तम्--`इतः' इति। इवमस्तसिल्, पूर्ववदिश्। अतच्र ह्यसति विभक्तित्वे लिति प्रत्ययात् पूर्वपदाद्युदात्तत्वं [`पूर्वमाद्युदात्तत्वं'-मुद्रितपाठः (वाराणसी-1967)] स्यात्। तस्मिस्तु `ऊडिदम्' (6.1.171) इत्यादिनेदमः परस्य तस आद्युदात्तत्वं सिद्धं भवति। ननु च सत्यपि विभक्तित्वे परत्वाल्लित्स्वरेण भवितव्यम्? नैष दोषः; `लिति' (6.1.193) इत्यत्र हि `ऊजिदम्' (6.1.171) इत्यादिकं सूत्रमनुवर्त्तिष्यते लित्स्वरबाधनार्थम्। नन्वेवमपि नैव विभक्तेरुदात्तत्वं सिध्यति? तत्र हि `सावेकाचस्तृतीयादिविभक्तिः' (6.1.168) इत्यतस्तृतीयादिग्रहणमनुवर्त्तते, न च तसिलादयस्तृतीयादिगरहणेन गृह्यन्ते। तृतीयैकवचनमारन्य आ पञ्चमाध्यायपरिसमाप्तेर्यावान् प्रत्ययो विभक्तिसंज्ञः सर्वोऽसौ तृतीयादिः।
`अतः परम्' इत्यादि। सामर्थ्यं हि नाम सम्बन्धार्थता; सा च प्रतियोगिनमपेक्षत एव यन सहैकार्थीभावो भवति तस्मिन् प्रतियोगिनि सति, नान्यथा। प्राथम्यमपि प्रतियोग्यपेक्षमेव। द्वितीयं हि प्रतियोगिनमपेभ्य प्रथममित्युच्यते। इत उत्तरं प्रत्ययाः प्रकृत्यर्थ एव भवन्तीति, न तद्विषौ द्वितीयस्य प्रतियोगिनः सम्भवः; तदभावात् सामर्थ्यप्राथम्ययोरपि नास्त्येव सम्भवः; तयोः प्रतियोग्यपेक्षत्वात्। यतश्चैतदेवम्, ततः `सामर्थ्याधिकारः प्रथमग्रहणञ्च नोपयुज्यते' इति द्वयमपि निवृत्त्म्। यद्येवम्; वावचनस्यापि निवृत्तिः प्राप्नोति, एकयोगनिर्दिष्टत्वात्? इत्याह--`वावचनं तु वर्त्तत एव' इति। तस्य स्वरितत्वादिति भावः। `तेन विकल्पेन' इत्यादि। तेनोत्तरसूत्रे वाग्रहणानुवृत्तेः फलं दर्शयति।।
2. किंसर्वनामबहुभ्योऽद्व्यादिभ्यः। (5.3.2)
`कुत्र' इति। `सप्तम्यास्त्रल्' (5.3.10), पूर्ववत् कुभावः। `प्रकृतिपरिसंख्यानम्' इति। प्रकृतिपरिगणनम्। `वैयाकरणपाशः' इति। `याप्ये पाशप्' (5.3.47)। अयं चावधेः परो व्य इत्यन्याभ्योऽपि प्रकृतिभ्यो भवति। `सर्वनामत्वादेव सिद्धे' इति। सर्वनामत्वं किमः सर्वादिषु पाठात्। `किमो ग्रहणम्' इत्यादि। किंशब्दोऽयं द्व्यादिषु पठ्यत इति तस्य `द्व्यादिभ्यः' इति पर्युदासः क्रियते। तस्मात् सर्वनाम्नोऽपि स्वशब्देनोपादानम्। यद्येवं द्विशब्दात् पूर्वं किंशब्दः पठितव्यः, एवं हि तस्य पृथग्ग्रहणं न कर्त्तव्यमेव भवति? सत्यमेतत्; न सूत्रकारस्येह गणपाठ इति नासावुपालम्भमर्हति। अपि च त्यदादीनां यद्यत्परं तत्तच्छिष्यत इति किमः सर्वैरेव त्यदादिभिः सह विवक्षायां शेय इष्यते--`त्वञ्च कश्च' कौ, भवांश्च कश्च कौ; स चैवं पाठे न सिध्यतीति यथान्यासमेवास्तु।
`बहुग्रहणे संख्याग्रहणम्' इति। कथमिह सर्वनामसंज्ञया सर्वादयः संज्ञिनो निर्दिश्यन्ते? तस्मात् तैः सह निदेशाद्बहुशब्दस्यापि बहुगणादि (1.1.23) सूत्रेण यस्य संख्यासंज्ञा विहिता तस्यैव संज्ञिता तस्यैव संज्ञिनो ग्रहणं विज्ञायते। `बहोः सूपात्' इति। अत्र वैपुल्यवाची बहुशब्दः।।
3. इदम इश्। (5.3.3)
`शकारः सर्वादेशार्थः' इति। असकति हि तस्मिन् `अलोऽन्त्यस्य' (1.1.52) स्यात्। ततश्चेद्रूपस्य हलि लोपे (7.2.113) कृते, `आद्गुणे' (6.1.87) चैतः, एहेत्यनिष्टं रूपं स्यात्। ननु चेदमस्त्यदाद्यत्वे (7.2.102) कृतेऽतो गुणे (6.1.97) पररूपत्वे चेद्रूपलोपे चान्त्यस्याप्यादेश इतः, इहेति सिध्यत्येव? सिध्येद्यदि प्राक् त्यदाद्यत्वं लभ्येत; न तु तल्लभ्यम्, इत्वमेव हि तावदन्तरङ्गं स्यात्। इत्वं हि तसिलादिप्रत्ययंमात्रमपेक्षत इत्यन्तरङ्गम्, त्याद्यत्वमङ्गसंज्ञां परस्य प्रत्ययस्य विभ्कितत्वं चापेक्षत इति बहिरङ्गम्, तस्माच्छाकरः कर्त्तव्यः।।
4. एतेतौ रथोः। (5.3.4)
`रथोः' इति वर्णयोरिवं ग्रहणम्। तत्र `यस्मिन् विधिस्तदादावल्ग्रहणे' (वा. 14) इति रेफादौ थकारादौ च कार्यं विज्ञायत इत्यादि--`रेफादौ' इत्यादि। रेफस्याकार उच्चारणार्थ इति कथं ज्ञायते? इदमः परस्य प्राग्दिशीयस्याकारवतो रेफस्याभावात्।।
5. एतदोऽश्। (5.3.5)
`शकारः सर्वादेशार्थः' इति। ननु चान्त्यस्य स भवन् यदि तावदकृते त्यदाद्यत्वे भवति ततो दकारस्य भवन्ननर्थकः प्रसज्येत, त्यदाद्यत्वेनापि हि तस्याकारो लभ्यत एव; अथ त्यदाद्यत्वे कृतेऽकारस्य स्थाने भवन्ननर्थक एव प्रसज्यते न ह्यकारस्याकारवचने प्रयोजनमस्ति, कृतवांश्च; तत्र वचनादसत्यपि शकारे सर्वादेशो भविष्यति? नैतदस्ति; अस्ति ह्यकारस्याकारवचने प्रयोजनम्। किम्? अतः, अत्रेत्यत्र योऽन्यः प्राप्नोति स मा भृदिति। कः पुनरसौ? लिति प्रत्ययात् पूर्वस्योदात्तः। तस्माच्छकारः कर्त्तव्यः।
`थमुः [थमुप्रत्ययः पुनरेतद उपसंख्येयः---काशिका] पुनरुपसंख्येयः' इति। तस्याविद्यमानत्वत्। उपसंख्येय इति प्रतिपाद्य इत्यर्थः। तत्रेदं प्रतिपादनम्--एत एव थकारादावादेशवचनं ज्ञापयति--भवत्येतदस्थमुरिति। कुतो नु खल्वेतत्? ज्ञापकात्। थमु भैविष्यति, न पुनर्थं एवासौ `प्रकारवचने थाल्' (5.3.23) इत्यविशेषविहितस्थकारादिस्तस्मिन्नेवादेशः स्यात्? नैष दोषः; इदमस्थकारादिविशेष इष्यते। `एतदः' इत्यत्त्रापि ह्येदम इत्यनुवर्त्तते, तच्च नादेशविधानार्थम्; आदेशस्य पूर्वमेव विहितत्वात्। तस्मात् प्रत्यविशेषणं विज्ञायते। तत एतेन थकारादि विशेषयिष्यामः--इदम इत्येवं यो विहित इदंशब्देनैव यो विहितस्थकारादिरिति, थमुरेव चैवं विहितः, न थालिति युक्तमुक्तमादेशवचनं ज्ञापयति--भवत्येवैतदस्थमुरिति।।
6. सर्वस्य सोऽन्यतरस्यां दि। (5.3.6)
`दीति' दकारादियं सप्तमी। तत्र दकारमात्रस्य प्राग्दिशीयस्याभावात् `यस्मिन्विधिस्तदादावल्ग्रहणे' (वा. 14) इत्यतो दकारादौ विधिर्ज्ञायत इत्याह--`प्राग्दिशीये दकारादौ' इत्यादि। `सर्वदा ब्राह्माणी' इति। `आतोऽनुपसर्गे कः' (3.2.3), ततष्टाप्।।
7. पञ्चम्यास्तसिल्। (5.3.7)
`तसिल प्रत्ययो भवति' इति। आदेशा एवामी तसिलादयः पञ्चम्यादीनां स्थाने कस्मात्र क्रियन्ते, एवं हि विभक्तितसंज्ञा न कर्त्तव्या भवति? अशक्या एत आदेशाः कर्तुम्; आदेशत्वे ह्येषामव्यायात् त्यपि (4.2.104)--ततस्त्यः, यतस्त्य इत्यत्र `सुपो धातुप्रातिपदिकयोः' (2.4.71) इति लुक्। लभन्ते हि स्थानिवद्भावेन सुबादेशाः सुबाश्रयं कार्यम्। तत इति, `अनुदात्तौ सुप्पितौ' (3.1.4) इत्यनुदात्तः। कुत इति, `धेङिति' (7.3.111) इति गुणः। एतर्हीति, `सुपि च' (7.3.102) इति दीर्घः। तत्रेति, `बहुवचनेझल्येत् (7.3.103) इत्येत्वम्। कुत्रेति, `अच्च घेः' (7.3.119) इत्यौत्त्वम्। ततः, तत्रेति, `ङसिङ्योः स्मात्स्मिनौ' (7.1.15) इति स्मात्स्मिनौ। तस्मान्नादेशा अमी क्रियन्ते। यद्येवम्, `तसु उपक्षये' (धा. पा. 1212) इत्यस्मात् तस्यन्नित्यत्र धातुरूपस्य पञ्चम्याः परस्य `तसेश्च' (5.3.8) इति तसिलादेशः प्राप्नोति? नैष दोषः; स्वार्थिकविज्ञानान्न भविष्यति। स्वार्थिका ह्येते तसिलादयः, तन्मध्ये तसिलादेशो विधीयमानस्तथा विज्ञायते यथा स्वार्थे क्रियामाणः, स्वार्थिकत्वं नातिक्रामति। `अपादाने चाहीयरूहोः' (5.4.45) इत्यनेन विहितस्तस्य स्वार्थिकस्य साथाने भवंस्तसिलपि स्वार्थिक एव भवति। धातुस्तु प्रातिपदिकादर्थान्तरे वर्त्तत इति तदादेशो भवंस्तसिल् स्वार्थिको न भवति।।
8. तसेश्च। (5.3.8)
`कुत आगत' इति। `अपादाने चाहीयरुहोः' (5.4.45) इति परत्वात् तसौ कृते तस्यानेन तसिल्। ननु च कृतेऽपि तसिलि तदेव रूपम्, तत्किमर्थमादिश्यते? इत्याह--`तसेस्तसिल्ववचनम्' इत्यादि।।
9. पर्यभिभ्याञ्च। (5.3.9)
`सर्वोभयार्ते वर्त्तमानाभ्यामिष्यते' इति। तेनेह न भवति--परिषिञ्चिति, अभियातीति। अत्र चानभिदानं हेतुः.य अत वा--`सर्वस्य' (5.3.6) इत्यादेः सूत्रादन्यतरस्यांग्रहणमनुवर्त्तते, सा च व्यवस्थितविभाषा। तेन सर्वोभयार्थं एव वर्त्तमानाभ्यां भवति, नान्यत्र।।
10. सप्तम्यास्त्रल्। (5.3.10)
11. इदमो हः। (5.3.11)
12. किमोऽत्। (5.3.12)
`क्व' इति। `क्वाति' (7.2.105) इति किमः क्वादेशः `न विभक्तौ तुस्माः (1.3.4) इति प्रतिषेधस्य `इवमस्थमुः' (5.3.24)) इत्युकारेणानित्यत्वस्य ज्ञपितत्वादित्संज्ञा तकारस्य। दानीमस्तु प्रतिषेधान्नास्तीत्संज्ञा; प्रयोजनाभावाच्च।।
13. वा ह च च्छन्दसि। (5.3.13)
14. इतराभ्योऽपि दृश्यन्ते। (5.3.14)
`पञ्चमीसप्तम्यपेक्षमितरत्वम्' इति। तदनन्तरमितरशब्दस्य ज्ञातत्वात्। अथ दृशिग्रहणं किमर्थम्, यावता `इतराभ्योऽपि' इत्येतावतैव सिद्धम्? इत्याह--`दृशिग्रहणम्' इत्यादि। प्रायिको विधिर्यता स्यादित्येवमर्थं वृशिग्रहणम्। तस्मिस्तु सति शिष्टप्रयोगेऽनुगम्यमाने यत्र दृश्यते तत्र भवति, नान्यत्रेत्येषोऽर्थो लभ्यते। तेन प्रायिकत्वं विधेः सिध्यति। `तेन' इत्यादि। दृशिग्रहणे तु सति यत्रेतराभ्यः शिष्टप्रयोगो दृश्यते ताभ्य एव तसिलादिभिर्भवितव्यम्। भवदादियोग एवेतराभ्यो दृश्यन्ते, तेनेतरत्रैव तद्विधानम्। यदि ह्यन्येभ्योऽपि तसिलादयो भवन्ति, पूर्वं पञ्चमीसप्तमीभ्यां विधानमनर्थकम्? नैतदस्ति; नियोगतो हि ताभ्यामिष्यते, इतराभ्यो भवदादियोगे। एतच्च पूर्वस्मिन् विधावस्मिश्च सत्युभयं लभ्यत इति कुत आनर्थक्यम्!।।
15. सर्वैकान्यकिंयत्तदः काले दा। (5.3.15)
`सप्तम्या इत्यनुवर्त्तते' इति। तस्याः स्वरितत्वात्। `न त्वितराभ्यः' इति। तद्विफर्ययात्। `त्रलादेरपवादः' इति। यतासम्भवम्। तत्र किंशब्दात् `किमोऽत्' (5.3.12) इति प्राप्तस्यात्प्रत्ययस्यापवादः। केषाञ्चिन्मतेन तरलोऽपि। तच्छब्दादपि `तयोदर्दाहिलौ च च्छन्दसि' (5.3.20) इति। शेषेभ्यस्तु त्रलः। `कदा' इति। किमः कादेशः।।
16. इदमो हिल्। (5.3.16)
`हस्यापवादः' इति। `इदमो हः' (5.3.11) इति प्राप्तस्य। `लकारः स्वरार्थः' इति। `लिति'(6.1.193) प्रत्ययात् पूर्वस्योदात्तत्वं यथा स्यात्। ननु च यथा इत इत्यत्र--`ऊडिदम्' (6.1.171) इत्यादिना विभक्तिस्वरो भवति, तथेहापि तेनैव भवितव्यम्? नैतदस्ति; तथा हि युक्तमित इत्यत्र यद्विभक्तिस्वरो भवतीति; तसिलो लित्त्वस्य परितः, अभित इत्यतर चरितार्थत्वात्, अस्य तु हिलो लित्करणमकृतार्थम्। तद्यदि विभक्तिस्वरेम बाध्येत तस्यानर्थक्यं स्यात्। तस्माल्लित्स्वर एव भवति।।
17. अधुना। (5.3.17)
18. दानीञ्च। (5.3.18)
दानीञ्चेति योगविभाग उत्तरार्थः--`तदो दा च' (5.3.19) इत्यत्र दानीमेव यथा स्यात्, पूर्वसूत्रविहितः प्रत्ययो मा भूदिति।।
19. तदो दा च। (5.3.19)
`अनर्थकम्' इति। वैचित्र्यार्थम्। अन्यस्याभावादनर्थकं वैचित्र्येण सार्थकमेव। `विहितत्वात्' इति। `सर्वैकान्य' (5.3.15) इत्यादिना।।
20. तयोर्दार्हिलौ च च्छन्दसि। (5.3.20)
`इदा'। `इदम इश्' (5.3.3)। तथा वर्णव्यत्ययेन दकारस्य धकारः। `इदानीं, तदानीं इति। दानीम्प्रत्ययस्योदाहरणम्।।
21. अनद्यतने र्हिलन्यतरस्याम्। (5.3.21)
तसिलादिषु प्राप्तेषु हिल्प्रत्ययो विधीयते। `कहि' इति। `किमः कः' (7.2.103)। `कदा, यदा, तदा' इति। `सर्वैकान्यकियत्तदः काले दा' (5.3.15)।।
22. सद्यः परुत्परार्यैषमः परेद्यव्यद्य पूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्यरपरेद्युरधरेद्युरुभयेद्युरुत्तेरद्युः। (5.3.22)
`समानेऽहनि सद्यः' इति। निमित्तनिमित्तिनोः समाने साधारणेऽहनि निपातनमेतत्। तद्यथा--सद्यः प्राणहरणं मर्मणि ताडनमिति । यस्मिन्नेवाहनि मर्मणि ताडनं तस्मिन्नेवाहनि प्राणरणमित्यर्थः।
`उदारी च' इति। उच्च आरिश्चेति उदारी।
`परस्मादेद्यवि' इति। परशब्दादेद्यविप्रत्ययो भवत्यहन्यभिधेये।।
23. प्रकारवचने थाल्। (5.3.23)
`सामान्यस्य [`सायास्य विशेषो भेदकः=प्रकारः'-काशिका]
24. इदमस्थमुः। (5.3.24)
25. किमश्च। (5.3.25)
`योगविभाग उत्तरार्थः' इति। `था हेतौ च' (5.3.26) इति वक्ष्यति, स किम एव यथा स्यात्, इदमो मा भूदिति।।
26. था हेतौ च च्छन्दसि। (5.3.26)
27. दिक्शब्देभ्यःसप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः। (5.3.27)
`दिग्देशकालेषु वर्त्तमानेभ्यः' इति। कथं पुनर्थे दिशां शब्दास्ते देशे काले वर्त्तन्ते? स्वभावात्। यथैव हि ते दिश स्वबावादेव वर्त्तन्ते, न हेत्वन्तरात्,; तथा देशकालयोरपि। यद्यवम्, त्रिषु वर्त्तमानाः कथं दिशा व्यपदिश्यन्ते--दिक्शब्देभ्य इति? कथं तर्हि व्यपदेष्टव्यम्, दिग्देशकालशब्देभ्य इति? नैतदस्ति; एवं हि व्यपदेशस्यैतत् फलम्--ऐन्द्र्यां दिशि निवसतीत्यत्र मा भूदिति। एतच्चान्यतमेनापि लभ्यत इत्यनेनैव व्यापदेशो युक्तः, येन व्यपदेशाल्लधु सूत्रं भवति। दिशा च व्यपदेशे लघु भवति, दिक्शब्दस्याल्पाच्तरत्वादिति दिशां तेन व्यपदेशः। एवमपि दिक्शब्दस्य दिशि वृत्तेः विशेषणमयुक्तम्, अवस्यं हि दिक्शब्दो दिशि वर्त्तते, तत्रैवं कर्त्तव्यम्--देशकालयोरिति? नैतदस्ति; एवं ह्यु च्यमाने सत्युपलक्षणमेव हि दिक्शब्दः स्यात्, प्रत्यस्तु देशकालवृत्तिभ्य एव स्यात्, न दिग्वृत्तिभ्यः। दिग्ग्रहणे तु तेभ्योऽपि भवति।
इह तिस्रो विभक्तयः, त्रयश्चार्था दिगादयः, तत्र साम्याद्यथासंख्येन भवितव्यम्--इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तामपाकर्तुमाह--`यथासंख्यमत्र नेष्यते' इति। तत्कथमिहेकवचननिर्देशे कर्त्तव्ये बहुवचननिर्देशः? प्रत्येकं दिगादिवृत्तेर्बहुलविभक्त्यन्तात् प्रत्ययः कर्त्तव्य इति सूचनार्थः। एवञ्चायं बहुलविभक्त्यन्तात् प्रत्ययः कृतो भवति, यदि दिग्वृत्तेरपि सप्तमीपञ्चमीप्रथमान्तादेव भवति--देशवृत्तेरपि, कालवृत्तेरपि। अथ वा-`था हेतौ च' (5.3.26) इत्यतश्चकारोऽनुवर्त्तते, स च श्रुतिमेव समुच्चिनोति। तेन दिगादिवृत्तेः प्रत्येकं सप्तमीपञ्चमीप्रथमान्तात् प्रत्ययो भवति, न यतासंख्यम्! यथासंख्यं हि समुच्चयो विरुध्यतेत। अथ वा--`स्वरितत्वे सति यथासंख्यं भवति' इत्युक्तम्, न चेह यथासंख्यार्थं स्वरितत्वं प्रतिज्ञायेत, तेन यथासंक्यं न भविष्यति।
`पुरस्तावधस्तात्' इति। पूर्वाधरशब्दाभ्यामस्तातिः। `अस्ताति च' (5.3.40) इति वक्ष्यमाणेन यथासंख्यं पुर्, अध--इत्येतौ पूर्वाधरशब्दयोरादेशौ।
`ऐन्द्र्यां दिशि वसति' इति। ऐन्द्रीशब्दः सामान्येनेन्द्रसम्बन्धिवस्तुमात्रमाचष्टे, दिक्शब्दसन्निधौ तु दिशि वर्त्तते, तेन दिक्शब्द इति लोके न प्रसिद्ध इतदि न भवत्यतः प्रत्ययः। `पूर्वं ग्रामं गतः' इति। पूर्वशब्दोऽत्र ग्रामस्य देशात्मकत्वाद्देशे वर्त्तते, न त्वत्र सप्तम्यादिविभक्त्यन्तः, किं तु द्वितीयान्त। `पूर्वस्मिन् गुरौ वसति' इति पूर्वशब्दोऽत्र दिगाद्युपलक्षिते गुरौ वर्त्तते, न दिगादिषु।।
28. दक्षिणोत्तराभ्यामतसुच्। (5.3.28)
`अकारो विशेषणार्थः' इति। यद्यत्राकारो न क्रियते, तदा `षष्ठी तसर्थप्रत्ययेन' (2.3.30) इति सूत्रं कर्त्तव्यम्, एवञ्च सति तसिलोऽपि ग्रहणं स्यात्। ततश्च ततो हेतुनेत्यत्रापि तृतीयां बाधित्वा षष्ठी स्यात्। तस्मादकारो विशेषणार्थः कर्त्तव्यः। अथ यदा दक्षिणोत्तरशब्दौ दिशि वर्त्तेते, तदा टाप्श्रवणं मा भूदित्येवमर्थोऽकारः कस्मान्न भवति? `सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' (वा. 104) इति पुंवद्वचनेनैव टापो निवर्त्तितत्वात्। ननु चासत्यकारे प्रत्ययस्वरेम सिद्धत्वाच्चकारोऽपि नैव कर्त्तव्यः, तत्र, `एकानुबन्धकग्रहणे तु न द्व्यनुबन्धकस्य' (व्या. प. 52) इति तसिलो ग्रहणं न भविष्यति? एवमपि `प्रतियोगे पञ्चम्यास्तसिः' (5.4.44), `तेनैकदिक्'(4.3.112), `तसिश्च' (4.3.113) इत्यन्यतरग्रहणं स्यात्। तस्माद्विशेषणार्थश्चकारः कर्त्तव्यः।।
29. विभाषा परावराभ्याम्। (5.3.29)
30. अञ्चेर्लुक्। (5.3.30)
दिक्शब्दादित्यधिकारात्केवलस्य चाञ्चतेरदिक्शब्दत्वात् `अञ्चेः' इत्यञ्चूत्तरपदस्य निर्देशोऽयं विज्ञायते, अत एवाह--`अञ्चत्यन्तेभ्यः' इति। `दिक्शब्देब्यः' इति। `प्राग्वसति' इति। प्रपूर्वादञ्चतेः `ऋत्विक्' (3.2.59) इत्यादिना सूत्रेण क्विन्, `अञ्चतेश्चोपसंख्यानम्' (वा. 336) इति ङीप्, `अचः' (6.4.138) इत्यल्लोपः, `चौ' (6.3.138) इति दीर्घः--प्राची इति स्थिते, अस्तातिः, तस्य लुक्, क्विन्प्रत्ययस्य कुः' (8.2.62) इति कुत्वम्। `प्रत्यक्' इति। प्रतीचीशब्दात् प्रत्ययः, स तु पूर्ववदुपपाद्यः।।
31. उपर्युपरिष्टात्। (5.3.31)
`रिल्रिष्टातिलौ च प्रत्ययौ निपात्येते' इति अस्तातेरपवादौ।।
32. पश्चात्। (5.3.32)
`आतिश्च प्रत्ययः' इति। अयमप्यस्तातेरपवादः। `दक्षिणपश्चादुत्तरपश्चात्' इति। दक्षिणापरस्यां दिशि वसतीति दक्षिणपश्चात् एवमुत्तरपश्चात्।
`अर्धोत्तरपदस्य च' इति अपरस्येति सम्बध्यते।
`विनापि पूर्वपदेन पश्चभावो वक्तव्यः' इति। अपरस्यार्द्धोत्तरपदस्येति प्रकृतेन सम्बन्धनीयम्। अत्र सर्वत्र वक्तव्यशब्दो व्याख्याने दर्त्तते। तत्रेदं व्याख्यानम्--उत्तरसत्रात् सिंहावलोकितेन चकारोऽत्रावतिष्ठते, स चानुक्तसमुच्चायार्थः। तेन दिक्पूर्वपदस्यापरशब्दस्य पश्चभाव इत्येवमादिकं कार्यं सिद्धं भवति।।
33. पश्च पश्चा च च्छन्दसि। (5.3.33)
34. उत्तराधरदक्षिणादातिः। (5.3.34)
उत्तरदक्षिणाभ्यां `दक्षिणोत्तराभ्यामतसुच्' (5.3.28) `एनबन्यतरस्यामदूरेऽपञ्चम्याः' (5.3.35), `दक्षिणादाच्' (5.3.36), `आहि च दूरे' (5.3.37), `उत्तराच्च' (5.3.38) इत्येभिर्योगैरतसुजादिषु प्राप्तेष्वधरादप्यस्तातावातिर्विधीयते, तस्यास्तातिर्बाध्यत एव। अतसुजादयस्तु वचनात्पक्षे भवन्त्येव। अत्र च यद्यप्युत्तरादीनां सप्तम्यादीनां च विभक्तीनां दिगादीनां चोपाधीनां त्रित्वम्, तथापि यथासंख्यं न भवति। कुतः? तदर्थस्य स्वरितत्वस्याप्रतिज्ञानात्। लध्वक्षरस्याधरशब्दस्यापूर्वनिपाताल्लक्षणव्यभिचारचिह्नाद्वाऽस्य लक्षणान्तरनिरपेक्षतां दर्शयन् यथासंख्यलक्षणमिह नापेक्ष्यत इति सूचयति। तेन विभक्तिभिस्तावद्यथासंख्यं न भवति। उपाधिभिस्तु दक्षिणशब्दस्य काले वृत्त्यसम्भवाच्च।।
35. एनबन्यतरस्यामदूरेऽपञ्चम्याः। (5.3.35)
`अदूरे चेदवधिमानवधेर्भवति' इति। कथं पुनरेवं विशेषो लभ्यते, यावता सूत्रेऽवधिशब्दो न श्रूयते, नाप्यवधिमान्? दिकशब्दानामवध्यपेक्षा प्रवृत्तिर्भवति। अवधिमानष्यवधिमपेक्ष्य भवतीति सामर्थ्यादनुक्तीऽप्येष विशेषो लभ्यत इति। `अधस्ताद्वसति' इति। `अस्ताति च' (5.3.40) इति वक्ष्यमाणेनास्तातौ परतोऽधरशब्दस्यादेशः।
`प्रागसेः' इति। `असि पुरधवश्चैषाम्' (5.3.39) इति वक्ष्यमाणः। केचिद्दिक्शब्दमात्रात् प्रत्ययं मन्यन्त इति तेषां मतेन पूर्वेण वसतीत्याद्यपि भवति। यदि दिक्शब्दमात्रात् प्रत्यो भवतीत्यञ्चात्यन्तादपि स्यात्? भवतु, `अञ्चेर्लुक्' (5.3.30) इति लुम्भविष्यति? नैतदस्ति; `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते' (व्या. प. 10) इत्यस्तातेरेवात्रानेन लुक्, नान्यस्य। एवं तर्ह्यन्यतरस्यामिति व्यवस्थितविभाषेयम्। तेनाञ्चत्यन्तान्न भविष्यति।
पकारः `एनपा द्वितीया' (2.3.31) इति विशेषणार्थः, स्वरार्थश्च।।
36. दक्षिणादाच्। (5.3.36)
`चकारो विशेषणआरह्थः' इति। असति हि तस्मिन् पश्चाशब्द आकारान्तो निपातित इति तेनापि योगे पञ्चमी स्यात्। स्वरार्थस्तु चकारो नोपपद्यते; प्रत्ययस्वरेणैव सिद्धत्वात्।।
37. आहि च दूरे। (5.3.37)
38. उत्तराच्च। (5.3.38)
`आजाही प्रत्ययौ भक्तः' इति। ननु चानन्तर्यादाहिरेव प्राप्नोति? नन; चकारोऽत्र क्रियते, स हि व्यवहितमप्याचं समुच्चिनोति। तेनाऽऽजपि भविष्यतीति।।
39. पूर्वाधरावराणामसि पुरधवश्चैषाम्। (5.3.39)
पूर्वादस्तातौ प्राप्तेस्ताताववारादपि विभाषातसुचीदमारभ्यते। अथ `एषाम्' इति किमर्थमिदमुच्यते, यावता येयं पूर्वादिषु षष्ठी सैव प्रत्ययं विधाय स्थाने षष्ठी विज्ञायते, सम्बन्धभेदाच्च षष्ठ्यर्थभेदः? सत्यमेतत्; तथापि सुखप्रतिपत्त्यर्थमेषामित्युक्तम्।।
40. अस्ताति च। (5.3.40)
ननु चासिना बधितत्वात् पूर्वादिभ्योऽस्तातिना न भवितव्यम्? इत्याह--`इदमेव' इत्यादि। गतार्थम्।।
41. विभाषाऽवरस्य। (5.3.41)
42. संख्याया विधार्थे धा। (5.3.42)
`प्रकारवचने च जातीयर्' (5.3.69) इति, तस्यायमपवादः। `विधा=प्रकारः' इत्यक्तः `प्रकारवचने थाल्' (5.3.23) इत्यत्र, स च द्रव्यगुणविशेषोऽप्यस्ति; तत्र यदि सोऽपि गृह्येत द्रव्यगुणयोर्लिङ्गसंख्याभ्यां यीगाद्वा प्त्ययान्तमलिङ्गमसंख्यं च न स्यात्। एवञ्च तस्याव्ययत्वं न स्यात्, तच्चेष्टम्; तथा हि--धाप्रत्ययोऽव्ययेषु पठ्यते--तसिलादिस्तद्धित एधाच्पर्यन्त इति। क्रियाविषये तु तस्मिन् गृह्यमाणे न दोषः; क्रियायाः सर्वदा लिङ्गसंख्याभ्यामयोगादित्येतत् चेतसि कृत्वाऽऽह--`स च' इत्यादि। क्रियाधातुवाच्यो विक्लेदनादिरर्थः, स च विषयोऽस्य स तथोक्तः. कथं पुनः सामान्योक्तौ विशेषस्य ग्रहणं लभ्यते? अर्थग्रहणस्य ह्येतदेव प्रयोजनम्--प्रकारविशेषणं यथा स्यादिति, अन्यथा हि `विधायाम्' इत्येवं हि ब्रूयात्। यदि तर्हि प्रकारः क्रियाविषयो गृह्यते, नवधा द्रव्यम् नदधा गुण इत्यत्र न प्राप्नोति? नैष दोषः? अत्रापि क्रियाऽव्याहर्त्ततव्या। नवधा द्रव्यम्, नवधा गुण उपपाद्य विगृह्यते चेति।।
43. अधिकरणविचाले च। (5.3.43)
44. एकाद्धो ध्यमुञन्यतरस्याम्। (5.3.44)
`ऐकध्यं कुरु' इति। अधिकरणविचाल उदाहरणम्। ऐकध्यं भुङ्क्ते' इति। विधार्थे।
अत्र धाग्रहणमनुवर्त्तते, न च तत्र विध्यर्था वृत्तियुक्ता; पूर्वमेव विहितत्वात्। तस्मादनुवृत्तिसामर्थ्यात् स्थानित्वं धाप्रत्ययस्य विज्ञायत इत्याह--`प्रकरणादेव लब्धे' इति। धाप्रत्ययस्य स्थानित्व इति शेषः। किं पुनः कारणमसति धाग्रहणे विधार्थे विहितस्य न भवति? इत्याह--`अनन्तरस्यैव हि' इत्यादि। असति हि पुनर्धाग्रहणे `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' (व्या. प. 19) इत्यधिकरणविचालार्थे यो विहितस्तस्यैव स्यात्, न तु विधार्थे यो विहितस्तस्य। पुनर्धाग्रहणे तु सति धामात्रस्यादेशः सिद्धो भवति।।
45. द्वित्र्योश्च धमुञ्। (5.3.45)
`मतिद्वैधानि' इति। ननु च स्वार्थिकाः प्रकृतिधरह्माननुवर्त्तन्त इति लिङ्गसंख्याभ्यामत्र न भवितव्यम्? नैव दोषः; अतिवर्त्तन्ते हि कदाचित् स्वार्थिकाः प्रकृतिधर्मान् यथा--चत्वार एव वर्णाश्चातुर्वर्ण्यमिति।।
46. एधाच्च। (5.3.46)
47. याप्ये पाशप्। (5.3.47)
याप्यशब्दोऽयं गमयितव्ये वर्त्तते--ग्रामान्तरात् याप्य इति; अस्त्यशक्यप्रतीकारे--याप्यो रोग इति, अस्ति कुत्सिते--याप्योऽयमिति, कुत्सित इति गम्यते। पाशप्प्रत्ययान्तात् कुत्सित एव प्रतीयत इति तदभिधायिन एव याप्यशब्दस्येवं ग्रहणं युक्ततम्। अत एवाह--`याप्यः कुत्सित इत्युच्यते' इति याप्यन्ते=अपनीयन्ते तस्माद्गुणा इति याप्यः, `कृत्यल्युटो बहुलम्' (3.3.113) इत्यपादाने कृत्यः।
`तत्र कस्मान्न भवति' इति। यद्यप्यसौ व्याकरणे प्रवीणः तथापि दुःशीलत्वाद्भवितव्यमेव तत्रेत्यभिप्रायः। `यस्य' इत्यादि। गुणो विशेषणम् द्रव्यं विशेष्यम्, तत्र द्रव्ये यद्यपि बहवो गुणाः सन्ति, तथापि यस्य गुणस्य भावे द्रव्ये शब्दो निविशते वर्त्तते प्रत्यासत्तेस्तस्यैव कुत्सायां शब्देन भवितव्यम्; न तु वैयाकरणस्य दुःशीलत्वं प्रवृत्तिनिमित्तम्। किं तर्हि? व्याकरणस्य परिज्ञानम्, अध्ययनं वा। न चेह दुःशीलत्वेन भवितव्यं प्रत्ययेन।।
48. पूरणाद्भागे तीयादन्। (5.3.48)
`पूरणप्रत्ययो यस्तीयः' इति। `तस्य पूरणे डट्' (5.2.48) इति पूरणाधिकारे विहितत्वात्, पूरणाभिधेयत्वाद्वा। उपचारेम प्रत्योऽपि तीयः पूरण इत्युच्ये। `भागे' इति। अंश इत्यर्थः। किमर्थं पुनरिदम्, यावता कृतेऽप्यनि रूपं तदेव? इत्याह--`स्वरार्थं वचनम्'इति। विभागे नित्स्वरेणाद्युदात्तं यथा स्यात्।
`पूरणग्रहणमुत्तरार्थम्' इति। उत्तरत्र पूरणप्रत्ययान्तात्प्रत्ययो यथा स्यात्। तस्य च व्यवच्छेदाय क्रियमाणं पूरणमिहाप्यर्थवत् स्यात्, स च नास्तीति नेहार्थता तस्योपपद्यते। ननु च `मुखपार्श्वतसेरीयः', (वा. 460) `पार्श्वतीयः' इत्यपूरणोऽपि सोऽस्ति? इत्यत आह--`मुखतीयादिरनर्थकः' इति। अर्थवद्ग्रहणपरिभाषया (व्या.प. 1) अर्थवानिह तीयो गृह्यते, न च मुखतीयादिरनर्थवान्। अतः सत्यपि पूरणग्रहणे तस्य ग्रहणंन भविष्यतीति भावः।।
49. प्रागेकादशभ्योऽच्छन्दसि। (5.3.49)
50. षष्ठाष्टमाभ्यां ञ च। (5.3.50)
यथासंख्ये हि षष्ठादन्यथा प्राप्तं चेत्यन्। न च पूर्वेणैव सिद्ध इति षष्ठग्रहमनर्थकं स्यात्। तस्मादुभयाभ्यामुभयं भवति।।
51. मानपश्वङ्गयोः कन्लुकौ च। (5.3.51)
चकाराद्यथाप्राप्तं चेति।।
52. एकादाकिनिच्चासहाये। (5.3.52)
`आकिनिचः कनो वा लुग्विज्ञायते' इति। प्रत्यासत्तेः। न तु प्रकारणान्तरविहितस्य; विप्रकर्षात्। `स च' इत्यादि यदि नित्यः स्यात् तद्विधानमनर्थकं स्यात्। तस्माद्विधानसामर्थ्यात् पक्षे भवति।
किं पुनः कारणमसहायग्रहणं संख्याशब्दनिरासार्थं क्रियते? इत्याह--`तदुपादाने हि' इत्यादि। असत्यसहायग्रहणे संख्यावाचिनोऽप्येकशब्दस्य ग्रहणं स्यात्। तस्मिस्तु सति द्विबह्नोर्न स्यात्। न हि द्वयोर्बहुषु वा चैकत्वसंख्या विद्यते। असहायता तु शतस्यापि भवति; तुल्यजातीयान्यस्याभावात्--शतमसहायमिति। तेना सहायार्थस्य ग्रहणे द्विबह्वोरपि प्रत्ययः सिध्यति। अथ कस्मादाकिनिज्वधीयते, न अकनिजित्येवोच्येत, अत्रापि सवर्णदीर्घत्वेनेष्टं सिध्यत्येव? न सिध्यति; `अतो गुणे' (6.1.97) पररूपत्वम्, यस्येति (6.4.148) लोपश्च प्राप्नोति। अकारोच्चारणसामर्थ्यान्न भविष्यति? नैतदस्ति; अस्ति ह्यकारोच्चारणस्य प्रयोजनम्। किम्? भसंज्ञायामन्यः पदसंज्ञानिबन्धनोऽवग्रहो मा भूदिति। तस्मादाकिनिजेव विषेयः।।
53. भूतपूर्वे चरट्। (5.3.53)
किमर्थं पुनरेतौ समानार्थो शब्दावुपदिश्येते, नान्यतर एवोपदिश्येत? नैवं शक्यम्; इह ह्यतिक्रान्तकालविशिष्टेऽर्थे वर्त्तमानात् प्रत्यग्रहमिष्यते, स चातिक्रान्तः कालोऽन्यतरोक्तौ नैव गृह्यते। तथा हि--भूतशब्दो वर्त्तमानेऽप्यर्थे वर्त्तते, यथा--भूतवानिति, पूर्वशब्दस्तु दिग्देशयोरपि। तस्मादन्यतरोक्तावतिक्रान्तकालो न प्रतीयते। अत एवाऽऽह--`भूतपूर्वशब्दोऽतिक्रान्तकालवचनः' इति। अथ चकारस्य `चुट्' (1.3.7) इतीत्संज्ञा कस्मान्न भवति? अनित्यत्वात्तस्य विधेः। अनित्यत्वं तु तत्रैव प्रतिपादितम्।।
54. षष्ठ्या रूप्य च। (5.3.54)
इह षष्ठ्यन्तं यत्त्द्विशेषणं परार्थत्वादप्रधानम्, इतरत् पुनस्तेनैवोपक्रियमाणत्वाद्विशेष्यं प्रधानम्। प्रधानेन च कार्यसम्प्रत्यय इतदि यता षष्ठ्यन्तात् प्रत्यविधाने सम्प्रतति षष्ठ्यन्तप्रतियोगिनि प्रधाने प्रत्ययो विज्ञायतो, म प्रकृत्यर्थे; तथा भूतपूर्वग्रहणं तस्यैव ज्ञायते, न प्रकृत्यर्थस्येत्येतदालोच्याऽऽह--`षष्ठ्यन्तात्' इत्यादि। प्रत्ययार्थस्तु षष्ठ्यन्तस्य यः प्रतियोगी स वेदितव्यः।।
55. अतिशायने तमबिष्ठनौ। (5.3.55)
`अतिशायनम्' इति। ल्युट्। यद्यपि शेतिः केवलः स्वप्ने वर्त्तते, तथाप्यतिपूरह्वस्य प्रकर्षे वृत्तिः, अत एवाऽऽह--`प्रकर्षः' इति। ननु चातिशयनमिति भवितव्यम्? इत्याह--`निपातनाद्दीर्घत्वम्' इति। निपातनं त्वतिशायनशब्दस्य कथम्? साधुत्वं विज्ञायते इत्येवमर्थम्। `प्रकृतिविशेषणं चैतत्' इति। प्रत्ययाशङ्कां निराकरोति। प्रकृत्यर्थविशेषणं स्वाथिकानां द्योत्यं भवतीति न वाच्यम्; तस्य प्रकृतिवाच्यत्वाकत्।
`पटिष्ठः, लघिष्ठः' इति। `तुरिष्ठेमेयस्सु' (6.4.154) इति टिलोपः। `गरिष्ठः' इति। `प्रियस्थिरस्फिरोरुबहुलगुरु' (6.4.157) इत्यादिना गुरुशब्दस्य गरादेशः।
`प्रकर्षप्रत्ययान्तादपरेण प्रत्ययेन न भवितव्यम्, एकेनैव प्रत्ययस्य द्योतितत्वात्' इति यो मन्यते, तं प्रत्याह--`यदा च' इति। यत्र प्रथमे प्रकर्षे आतिशायनिको विहितः'; तत्र तेनैव द्योतितत्वाद्द्वितीयो मा भूत प्रकर्षप्रत्ययः। प्रकर्षान्तरत्वे आतिशायनप्रत्ययान्ताद्युक्तमेवापरेणातिशायिकेन प्रत्ययेन भवितुम्, तदद्योतितत्वादिति भावः। इष्ठनि परतः `प्रशस्यस्य श्रः' (5.3.60), पूर्वेण सह `आद्गुणः' (6.1.87)। इष्ठन्प्रत्यान्तात् तमप्प्रकर्षप्रत्ययः। अत्र प्रतियोग्यपेक्षो यः प्रकर्षः पूर्वस्मात् प्रकर्षात् स प्रकर्ष इष्ठन्प्रत्ययेन द्योतितः। ननु च नास्यातिशायिकस्य विधायकं वाक्यमस्ति, येन तस्मिन् विहिते तदन्तादपरः प्रकर्ष आतिशायानिको विधीयेत, इदमेव ह्येकं वाक्यम्, तत्रानेनैव विधीयमाने प्रकर्षप्रत्ययो तदन्तायाः प्रकृतेरसम्भव इत्ययुक्त आतिशायिकादपरस्यातिशायिकस्य भावः? नैष दोषः; इह विधीयमानप्रतत्ययभेदाद्द्वे एते वाक्ये, तत्रैकेनेष्ठन् विधीयते, अपरेण तु तदन्तात् तमप्।।
56. तिङ्श्च। (5.3.56)
`पचतितमाम्' इति। `किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे' (5.4.11) इत्याम्।
`गुणवचने' इत्यादि। इष्ठनोऽनुदाहरणे हेतुः। `अजादी गुणवचनादेव' (5.3.58) इति नियम इति, तत एव तेन भवितव्यम्। न च तिङ्न्तो गुणवचनः, अतो नासावुदाह्रियते।।
57. द्विवचनविभज्योपपदे तरबीयसुनौ। (5.3.57)
`द्वयोरर्थयोर्वचनं द्विवचनम्' इति। एतेनान्वर्थस्य द्विवचनस्य ग्रहणम्, न पारिभाषिकस्येति दर्शयति यदि हि पारिभाषिकं द्विवचनं, गृह्येत, `अस्माकं च देवदत्तस्य देवदत्तोऽभिरूपतरः इत्यत्र प्रत्ययो न स्यात्; पारिभाषिकतस्य द्विवचनस्याभावात्। अन्वर्थस्य तु ग्रहणे सति भवति द्व्यर्थतोपपदस्य। तथा हि--अस्माकमित्यनेनैकोऽर्थ उच्यते, एकस्मिन्नेवार्थे `अस्मदो द्वयोश्च' (1.2.59) इति बहुवचनस्य विधीनात्। देवदत्तस्येत्यनेनापि द्वितीयोऽर्थ उच्यत इति भवत्येव तदन्वर्थद्विवचनमुपपदम्। तदेवमन्वर्थस्य ग्रहणे सर्वत्र सिध्यतीति तस्येदं ग्रहणं युक्तमिति मन्यते। `विभक्तव्यः' इति। पृथक् कर्त्तव्य इत्यर्थः। यः पुनरतिशय्यमानस्तस्योपपदत्वम्, नातिशयितुः; ततः प्रत्यविधानात्। ननु च `ऋहलोर्ण्यत्' (3.1.124) इति ण्यति कृते विभाग्य इति भवितव्यम्, कथं विभज्य इति निर्देश उपपद्यते? इत्याह--`निपातनाद्यद्भवति' इति। इह द्वे उपपदे, एवं प्रकृती च प्रत्ययावपि द्वावेव, ततश्च यथासंख्येन भवितव्यमिति कस्यचिद्भान्तिः स्यात्, अतस्तन्निरासार्थमाह--`यथासंख्याम्'चारचिह्नात्। स हि लक्षणान्तरनिरपेक्षतां दर्शयन् यथासंख्यलक्षणमपीह नापेक्षेतेति सूचयति।
`पटीयान् इति। पूर्ववट्टिलोपः, `अत्वसन्तस्य चाधातोः' (6.4.14) इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ। (6.1.68; 8.2.23)।
`माथुराः पाटलिपुत्रकेभ्य आढ्यतराः' इति `पञ्चमी विभक्ते' (2.3.42) इत्यनेन पञ्चमी। पाटलिंपुत्रकेभ्य इत्येदत्र विभज्योपपदम्, पाटलिपुत्रका हि माथुरेभ्यो विभज्यन्ते=पृथक् क्रियन्ते।
ननू चैतदपि `द्विवचनोपपदे' इत्येव सिद्धम्, अस्ति ह्यत्र द्विवचनमुपपदम्, तथा हि--माथुराणामेको राशिः, अपरः पाटलिपुत्रकाणाम्, तौ च द्विवचनेनोच्येते, तस्माद्विभज्यग्रहणमनर्थकम्? नैतदस्ति; यद्यप्यत्र राश्यपेक्षा द्व्यर्थताऽस्ति, तथापि नासौ शब्देनोपादीयते। किं तर्हि? अवयवभेदः। अत एव माथुराः पाटलिपुत्रकेभ्य इति बहुवचनम्। इह राश्यपेक्षापि द्व्यर्थता नास्तीति--साङ्काश्यकेभ्यः पाटलिपुत्रकेभ्यश्च माथुराः सुकुमारतरा इति। तस्माद्विभज्यग्रहणमपि कर्त्तव्यम्।।
58. अजादी गुणवचनादेव। (5.3.58)
`पाचकतरः' इति। कर्तृशक्तिमतो द्रव्यस्याभिधानाद्द्रव्यवचनोऽयं पाचकशब्दः।
अथैवकारः किमर्थः, यावता सिद्धे विधिरारभ्यमाणो विनापि तेन नियमार्थो भवति?इत्याह-`एवकारः' इत्यादि। असति ह्येवकारे विपरीतमवषारणं विज्ञायते--अजादी एव गुणवचनादिति, ततश्च यत एवकारस्ततोऽन्यत्रावधारणमिति प्रकृतिनियमः स्यात्। एवं च गुणवचनस्याजाद्योनियतत्वात् ततस्तरबादिर्नं स्यात्। एवकारे तु प्रकृत्यनन्तरमुच्चार्यमाणे सति प्रत्ययार्थनियमोऽयं भवति न प्रकृतिनियम इति पटुतरः, पटुतम इति सिद्धं भवति। एतयोरपि सिद्ध्यर्थं `गुणवचनादिष्ठन्नीयसुनौ' इति सूत्रं न कृतम्। तदा विध्यर्थत्वादेतौ तरप्तमपोरपवादत्वाद्बाधकाविति तयोरभावे पटुतरः, पटुतम इति न सिध्येत्।।
59. तुच्छन्दसि। (5.3.59)
`करिप्ठः' इति। कर्त्तृशब्दात् तृन्नन्तादिष्ठन्, `तुरिष्ठेमेयस्सु' (6.4.154) इति तृशब्दलोपः। `दोहीयसी' इति। दोग्ध्रीशब्दात् तृन्नन्तादीयसुन्, तृशब्दस्य लोपे कृते निमित्ताभावाद्घत्वादिनिवर्त्तते, `उगितश्च' (4.1.6) इति ङीप्।।
60. प्रशस्यस्य श्रः। (5.3.60)
ननु चाजीदी इति प्रथमान्तम्, तत्कथमजाद्योः परत आदेशो लभ्यते? इत्याह--`अजादी' इतचि। `तद्विषयः' इति। स प्रशस्यशब्दो विषयो यस्य स तद्विषयः। `अजादी गुणवचनादेव' (5.3.58) इतत्यनेन यो नियमः स तद्विषये न प्रवर्त्तत इति दर्शयति।
`एवमुत्तरेष्वपि' इति। `वृद्धस्य च' (5.3.62) इत्येवमादिषु। अयमनयोः अयमनयोः श्रेयानिति द्विवचनोपपद ईयसुन् अयमस्मात् श्रेयानिति विभज्योपपदे। पूर्वत्र निर्धारणे षष्ठी (2.3.41), उत्तरत्र `पञ्चमी विभक्ते' (2.3.42) इति पञ्चमी।।
61. ज्य च। (5.3.61)
योगविभागो यथासंख्यनिवृत्त्यर्थः, उत्तरार्थश्च। उत्तरत्र वृद्धशब्दस्य ज्यादेश एव यथा स्यात्, श्रादेशो मा भूविति।।
62. वृद्धस्य च। (5.3.62)
`वृद्धशब्दस्य' इति। `वृद्ध' इत्येतस्य शब्दस्येत्यर्थः। एतेन `वृद्धस्य' इति स्वरूपग्रहणं दर्शयति। ननु च वृद्धशब्दश्च संज्ञा कृता--`वृद्धिर्यस्याचामादिस्तद्वृद्धम्' (1.1.73) इति, अतस्तत्प्रत्यायितस्यैव संज्ञिनो ग्रहणं न स्वरूपस्य, `स्वं रूपं शब्दस्याशब्दसंज्ञा' (1.1.68) इति वचनात्? नैष दोषः, `प्रशस्यस्य' इत्येतदिहानुवर्त्तते, तेन वृद्धशब्दो विशेष्यते--प्रशस्यस्य वृद्धस्येति। स्वरूपग्रहणे वयोऽधिके च शब्दार्थे प्रशस्यता युज्यते, न पारिभाषिकग्रहणे। अथ वा--स्थानेऽन्तरतमपरिभाषया (1.1.50) ज्यशब्दस्य योऽन्तरतमः स एव स्थानो विज्ञायते, अन्तरतमश्च तस्य वृद्धशब्द एव, तेन तस्यैव ग्रहणं युक्तम्। `तयोश्च' इत्यादि। यथा `प्रशस्यस्य श्रः' (5.3.60) इत्यत्र नियमाभावेनाजाद्योः प्रत्यययोः सत्त्वं ज्ञापितम्, तथेहापि ज्ञाप्यते। नियमाभावस्त्वजाद्योः परतः पूर्ववदादेशविषानादेव वेदितव्यः।।
63. अन्तिकबाढयोर्नेदसाधौ। (5.3.63)
`निमित्त्योः' इत्यादि। निमित्तौ प्रत्ययौ, तयोः परत आदेशविधानात्। कस्मात् पुनरिष्यमाणो न भवति? अल्पाच्यतस्य परनिपातात्। स हि लक्षणान्तरानपेक्षतामाचष्टे। तेन यथासंख्यलक्षणमपीह नापेक्ष्यते। यद्येवम्, स्थान्यादेशयोरपि यथासंख्यं न प्राप्नोति? मा भूद्यथासंख्यम्, आन्तरतम्याद्व्यवस्था भविष्यति। ननु च व्यवस्थाकारि चेल्लक्षणान्तरं नापेक्ष्यते, स्थानेऽन्तरतमपरिभाषापि (1.1.50) न प्राप्नोति? नैतदस्ति; निर्वेशान्यथात्वं हि निर्देशकृता व्यावस्था नास्तीत्येतदेव बोधयति, या त्वर्थकृता व्यवस्था तां न निवर्त्तयति। अपि चादेशप्रतिपत्तये `षष्ठी स्थाने योगा' (1.1.49) इत्येषा परिभाषा नियोगतोऽपेक्षणौया। तच्छेषभूता `स्थानेऽन्तरतमः (1.1.50) इति परिभाषा कथं शक्या नापेक्षितुम्।।
64. युवाल्पयोः कनन्यतरस्याम्। (5.3.64)
अत्रापि निमित्तयोर्यथासंख्यं नेष्यते, तस्य ह्यभावः `अजाद्यदन्तम्' (2.2.33) इत्यल्पशब्दास्य पूर्वनिपाते परनिपाताल्लक्षणानपेक्षाच्चिह्निल्लभ्यते, युवेति स्वरूपगरहणमिष्यते, न जीवत्त्वं वंशस्य। कस्मात्? इहापि `प्रशस्यस्य' (5.3.60) इत्येतदनुवर्त्तते, तेन युवशब्दो विशेषयितव्यः--प्रशस्यस्य यून इति। स्वरूपग्रहणे सर्वलोकाभिमतयौवनाख्यवयःसम्बन्धे शब्दार्थे प्रशंसोपपद्यते, न पारिभाषिकग्रहणे। अथ वा--स्थानेऽन्तरतमपरिभाषया (1.1.50) कन्नित्यादेशस्य योऽन्तरतमः स एव स्थानिति विज्ञायते, अन्तरतमश्च युवशब्द एव। तस्मात् स्वरूपस्यैव ग्रहणं युक्तम्। `अन्यतरस्यां' ग्रहणमिहाल्पशब्द एव प्रयोजयति, न युवशब्दः, तस्य विनापि तेन विकल्पः सिद्ध एव; `स्थूलटूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः' (6.4.156) इति वचनात्। न हि नित्य आदेशे यणादेः परस्य लोपः सम्भवति, नापि पूर्वभागो गुणभाक्। `यविष्ठः, यवीयान्' इति। स्थूलदूरादिसूत्रेण (6.4.156) यणादेः परं लुप्यते, पूर्वस्य च गुणो भवति।।
65. विन्मतोर्लुक्। (5.3.65)
मतुपा साहचर्यात् मत्वर्थीय एव विनिप्रत्ययो गृह्यते--`तपः सहस्राभ्यां विनीनी' (5.2.102), `अस्मायामेधास्रजो विनिः' (5.2.121) इति; आभ्यां चैतदेव लुग्वचनमजाद्योभविं ज्ञापयति। `स्रग्विणौ'। इति। अस्मायादिसूत्रेम (5.2.121) विनिः। `स्रजिष्ठः' इति। `प्रकृत्यैकाच्' (6.4.163) इति प्रकृतिभावाट्टिलोपाभावः।।
66. प्रशंसायां रूपप्। (5.3.66)
`स्वार्थिकाश्च' इत्यादि। प्रकृत्यर्थविशेषणं प्रसंसादि, तस्य द्योतकाः स्वार्थिका भवन्ति, न त्वथन्तिरस्य वाचकाः।
यदि प्रशंसायां वर्त्त्मानाद्रूपब्विधीयते, निन्दायां वर्त्तमानान्न प्राप्नोति-वृषषलरूपोऽयम्, चौररूपोऽयमिति। वृषलादयो हि शब्दाः सदा निन्दावचनाः; न कदाचित्प्रशंसायां वर्त्तन्ते, यथा काकादयः शब्दा:? इत्यत आह--`प्रकृत्यर्थस्य' इत्यादि। प्रकृत्यर्थस्य वैशिष्ट्यं परिपूर्णत्वम्, तस्मिन् सति प्रशंसा भवति। एवञ्च यदा वृषलादिशब्दानामपि पदार्थस्य परिपूर्णता भवति, तदा ते प्रशंसायां वर्त्तन्ते इति तेभ्योऽपि प्रत्ययो भवति। पलाण्डुभक्षणेन सुरापाणेन च प्रकृत्यर्थस्य परिपूर्णता भवति, तदा ते प्रशंसायां वर्त्तन्ते इति तेभ्योऽपि प्रत्ययो भवति। पलाण्डुभक्षणेन सुरापाणेन च प्रकृत्यर्थस्य परिपूर्रणतां दर्शयति। वृषलशब्दस्य हि शूद्रो वाच्यः। स यदा पलाण्ड्वादिकमपि साधुजनगहितमभ्यवहरति तदा प रपूर्णत्वं तस्य शूद्रत्वम्। शूद्रः=सर्वाशी, सर्वविक्रयीति। चौरशब्दार्थस्यापि सुगुप्तवस्त्वपहारेण परिपूर्णता भवति।
ननु च `स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्त्तन्ते' (व्या.प.74) इति प्रकृत्यर्थस्य ये लिङ्गवचने ते स्वार्थिकप्रत्ययान्तस्यापि भवत इति भावः। ततश्च पचतोरूपम्, पचन्तिरूपमित्यत्र द्विवचनबहवचनाभ्यां भवितव्यम्? इत्यत आह--`क्रियाप्रधानम्' इत्यादि। आख्यातस्य यद्यपि क्रिया साधनञ्चोभयं वाच्यम्, तथापि तस्य क्रियैव प्रधानमर्थः। यश्च प्रधानं प्रकृत्यर्थस्तस्यैव लिङ्गवचनं स्वार्थिकैरनुवर्त्तयितुं युक्तम्। क्रियाप्रधानमेकैव च क्रिया। तेन रूपप्प्रत्ययान्तादाख्याताद्द्विवचनबहवचने न भवतः। नपुंसकलिङ्गमपि तर्हि न स्यात्, क्रियाया अलिङ्गत्वात्? इत्यत आह--`नपुंसकलिङ्गं तु' इत्यादि। तत्रैव हेतुमाह--`लोकाश्रयत्वाल्लिङ्गस्य' इति। यदि तर्हि ह्योका क्रिया, पचतः, पचन्तीति द्विवचनबहुवचने न सिध्यतः? नैष दोषः; यद्यपि ह्येका क्रिया, साधनं ह्यनेकम्, अतस्तदाश्रये द्विवचनबहुवचने भविष्यतः। रूपप्प्रत्ययान्तात् तर्हि स्याताम्? तिङ्न्तेनोक्तत्वान्न भविष्यतः। एकवचनं तु भविष्यति; तस्यौत्सर्गिरकत्वात्, `एकवचनमुत्सर्गतः करिष्यते' इति वचनात्।।
67. ईषदसमाप्तौ कल्पब्देश्यदेशीयरः। (5.3.67)
68. विभाषा सुपो बहुच् पुरस्तात्तु। (5.3.68)
विभाषाग्रहणेनेह बहुच् सम्बध्यते, न पुरस्तादित्येतत्; तेन बहुचः पूर्वत्वं न विक्ल्प्यत इति नित्यमेव तद्भवति, अत एवाह--`स तु पुरस्तादेव' इति। एवकारेम तुशब्दस्यावधारणार्थतां दर्शयति। यदि पुनस्तुशब्दोऽ वधारणार्थो न क्रियते, ततो न ज्ञायते--किं विभाषाग्रहणेन बहुच् सम्बध्यते, अथ पुरस्तादितयेतदिति! तु शब्देन त्ववधारणार्थेन पुरस्तादितत्येतस्मिन् नियमिते पारिशेष्याद्विभाषावचने बहुजेवाभिसम्बध्यत इति विज्ञायते। `चित्करणमन्तोदात्तार्थम्' इति। कस्य पुनरन्तोदात्तत्वं चित्कराद्भवति? सप्रकृतेः समुदायस्य;`चितः सप्रकृतेर्ब ह्वकजर्थम्' (वा.6.1.163) इति वचनात्। यद्येवम्, पटव इति सुबन्तादुत्पत्तौ जस उदात्तत्वं प्राप्नोति? नैष दोषः; बहुच्युत्पन्ने सति `अर्थवदधातुरप्रत्ययः प्रातिपदिकम् (1.2.45) इति प्रातिपदिकसंज्ञायां कृतायाम्, `सुपो धातुप्रातिपादिकयोः' (2.4.71) इति सुब्लुक् तावत् क्रियते, तस्मिन् कृते पश्चादुदात्तत्वं क्रियमाणं पटुशब्दे य उकारस्तस्य भवति। यस्तु पुनः प्रातिपदिकसंज्ञायां कृतायां सुब्लुकि च कृते अन्यो जस् उत्पद्यते, तस्योदात्तत्वं नाशह्कनीयम्, न ह्यसौ प्रकृत्येकदेशः। ननु चार्थवत्समुदायानां समासग्रहणं नियमार्थमिति बहुच्पूर्वस्य प्रातिपदिकसंज्ञया न भवितव्यम्? नैष दोषः; तुल्यजातीयस्य नियमः। कश्च तुल्यजातीयः? यथाजातीयकानां समासः। कथञ्जातीयकानां समासः? भदसंसर्गवताम्। भेदसंसर्गौ च पृथगर्थानामेव भवतः। द्योतकानाञ्च पृथगर्थवत्ता न सम्भवति। अथ कस्मात् सुब्लुक् तावत् क्रियते, पश्चादन्तोदात्तत्वम्, यावता परत्वादन्तोदात्तत्वे नै व पूर्वं युक्तं भवितुम्? नैतदस्ति; नित्यो हि लुक्, कृताकृतप्रसङ्गित्वात्। स हि कृतेऽप्यन्तोदात्तत्वे प्राप्नोति, अकृतेऽपि; अन्तोदात्तत्वं त्वन्यस्य लुकि कृते प्राप्नोति। अन्यस्याकृते शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति, तस्माल्लुगेव तावत् क्रियते।
`बहुगुडा द्राक्षा' इति। कथं पुनरत्रेषदसमाप्तिः, यावता गुडशब्देन गुडजातिरुच्यते, तदाधारो वा द्रव्यम्। तत्र जातिस्तावदेका, निरवयवा चेति सर्वस्मिन्नाश्रये समाप्ता, द्रव्यमपि यत् तया सम्बद्धं तत् सर्वतः पूर्णत्वात् समाप्तमेव। तस्मादीषदसमाप्तिरयुक्तमिह विशेणम्, असम्भवात्? सामानाधिकरण्यं च बहुगुडा द्राक्षेति द्राक्षाशब्देन न प्राप्नेति, तस्यार्थान्तरत्वात्? स्त्रीलिङ्गमपि `स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्त्तन्ते' (व्या. प. 74) इति नोपपद्यते? नैष दोषः; इह शब्दादुच्चारिताद्द्वयं प्रतीयते--शब्दोऽर्थः, जातिर्द्रव्यञ्च; अभिधेयसम्बन्धेनाशब्दार्थभूता अपि गुणाः, यत्रैतदुभयमस्ति तत्र समाप्तिः। यत्र त्वन्यतरन्नास्ति तत्रेह गुडशब्दो गुडजातिहीने माधुर्यादिगुणहीने वा द्रव्ये वर्त्तते इत्युपपद्यत ईषदसमान्तिः सामानाधिकरण्यमप्युपद्यत एव। कथम्? यदा तावज्जातिहीने केनचित् साधर्म्येण द्राक्षादिशब्दाभिधेये वर्त्तित्वा गुडशब्दः प्रत्ययमुत्पदयत, तदा द्राक्षाशब्देन सामानाधिकरण्यं भवति; उभयोरेकार्थवृत्तित्वात्। यदा तु गुणहीने गुडजीतीय एव, तदापि सामानाधिकरण्यम्, गौर्वाहीक इति यथा, तथा भविष्यति गुणहीनोऽपि गुडशब्दः। गुडो बहुगुडशब्देनोत्त्यते, तेन च तुल्या द्राक्षेति साऽपि बहुगुडशब्देनाभिदायिष्यते। स्त्रीलिङ्गमपि चोपपद्यते; तस्य लोकाश्रयत्वात्। अपि च `स्वार्थिकाः प्रकृतेलिंङ्गवचनान्यनुवर्त्तन्ते (व्या. प. 74) इति प्रायिकमेतत। तेन कदाचिदतिवर्त्ततन्तेऽपि, यथा कुटीरः, शमीर इति। `कुटीशमीशुण्डाभ्यो रः' (5.3.88) इति स्वार्थिकश्च।
`विभाषावचनात्' इत्यादिना विभाषाग्रहणस्य प्रयोजनमाचष्टे। असति हि विभाषाग्रहणे तिडन्तेषु कृतावकाशाः कल्पबादयो बहुचा सुबन्ताद्विशेषविहितेन बाध्येरन् तस्मिस्तु सतदि पक्षे तेऽपि भवन्ति। ननु च भिन्नदेशेन बहुचा नास्ति तेषां विरोधः, तत्कुतो बाधा? असत्यां वा बाधायां कृतेऽपि बहुचि तैर्भवितव्यमेव, परदशस्यानवष्टब्धत्वात्? नैतदस्ति; न ह्यवश्यं देशकृत एव सामान्यविशेषयोर्विरोधो भवति, किं तर्हि? अर्थकृतोऽपि। बहुचश्च कल्पबादिभिः समानोर्थ इति बहुचा द्योतितत्वात् तस्यार्थस्य कल्पबादयो न भवविष्यन्ति। न हि द्योतिते पुनर्द्योतनमस्ति, यथाभिहिते नाभिधातव्यम्।
अथ सुब्ग्रहणं किमर्थम्, यावता प्रातिपदिकग्रहणमनुवर्त्तते, न च प्रातिपदिकात् सुबन्ताद्वा बहुच उत्पत्तौ कश्चिद्विशेषोऽस्ति? अत आह--`सुब्ग्रहणम्' इत्यादि। असति हि सुब्ग्रहणे `तिङश्च' (5.3.56) इति प्रकृतत्वात् ततो हि प्रत्ययः स्यात्। अतस्तन्निवृत्त्यर्थं सुबग्रहणम्।।
69. प्रकारवचने जातीयर्। (5.3.69)
`तस्य वचने' इति। उक्तौ, द्योतन इत्यर्थः। `प्रकारवति चायम्' इत्यादिना थाल्जातीयरोर्विषयभेदं दर्शयति। विषयभेदे सति विशेषविहितेनापि ताला जातीयरो बाधनं न भवति। थाल्प्रत्यान्तात् जातीयर् सिद्धो भवति--कथञ्जातीय इति।।
70. प्रागिवात्कः। (5.3.70)
तिङन्तादयं प्रत्ययो नेष्यते। `अकजिष्यते' इति। कथं पुनरेतयोर्भावाभावौ लभ्येते? इत्याह--`तिङश्चेत्यनुवृत्तम्' इत्यादि। उत्तरत्रैवेत्यवधारणेन त्विहानुवृत्तमपि कप्रत्ययेन सम्बन्धनीयमिति दर्शयति। तच्च पूर्वसूत्राद्वचनग्रहणेऽप्यनुवर्त्तमाने यत उत्पद्यमानेन प्रत्ययेनाज्ञातादेरर्थस्य वचनं भवति, तत्रैव तेन भवितव्यम्। न च तिङ्न्तादुत्पद्यमानेनापि कप्रत्ययेन सोऽर्थः शक्यते द्योतयितुं, अकचा तु शक्यते। तस्मात् `तिङ्श्च' (5.3.56) इत्येतदनुवृत्तमुत्तरसूत्रेणाकचा सम्बन्धनीयम्, नेह कप्रत्ययेन। प्राग्ग्रहणमपिद्योतनार्थम्, इवग्रहणमवध्यर्थम्; अन्यथाधिकारपरिमाणं न ज्ञायते।।
71. अव्ययसर्वनाम्नामकच्प्राक् टेः। (5.3.71)
`कस्यापवादः' इति। ननु च भिन्नदेशत्वात् काकचोर्विरोधो नास्ति, न चासति विरोधे बाध्यबाधकभावः, ततः कथं कस्यापवादः? नैष दोषः; नैवावश्यं देशकृत एव विरोधो भवति, अपि त्वर्थकृतोऽपीत्युक्तम्---`अकच्प्रत्ययेन समानोर्थः' इति। अकचा द्योतिततवात् तस्यार्थस्य कप्रत्ययो न भविष्यति।
यद्यत्र प्रातिपदिकादित्यनुवृत्तेः प्रातिपदिकस्य प्राक् टेरकज्विधीयते, त्वयका मयकेत्यादि न सिध्यति? अथ सुप इति प्राक् टेर्विधीयेत, एवमपि युष्मकाभिरिति न सिष्यति? इत्यत आह--`प्रातिपदिकात्सुपः' इति। `द्वयमपि' इत्यादि। ननु च द्वयानुवृत्तावपि क्वचित् सुबन्तस्यैव प्राक्टेर्भवति, क्वचित् प्रातिपदिकस्य--इत्येषा व्यवस्था न लभ्यते? इत्याह--`तत्र' इत्यादि। वचनग्रहणं व्यवस्थार्थमिहानुवर्त्तते। तेन यत्र प्रातिपदिकस्य प्राक्टेरुत्पद्यमानेनार्थद्योतनं शक्यते कर्तुम्, तत्र प्रातिपदिकस्य प्राक् टेर्भवति; यत्र सुबन्तादुत्पन्नेनार्थद्योतनं शक्यं सम्पादयितुं, तत्र सुबन्तस्यैव।
अकचश्चित्करणमन्तोदात्तार्थम्। तद्धि सप्रकृतेः समुदायस्य। तथा च वक्ष्यति--`चितः सप्रकृतेर्बह्वकजर्थम्' (वा. 6.1.163)।
`तूष्णीमः काम्प्रत्ययो वक्तव्यः' इति। यथासम्भवं कुत्सादिष्वर्थेषु। चकारो देशविध्यर्थः।
`शीले को मलोपश्च' इति। शीलमिति न स्वभाव एवोच्यते, किं तर्हि? नियमोऽपि। तथा हि--शीलवान् भिक्षुरित्यभिधीयते, यः सम्यङ्नियममनुपालयतीति। तेन योऽपि नियमपरतया वाचं नियमयति सोऽपि तूष्णीक उच्यते।।
72. कस्य च दः। (5.3.72)
`अकच्सन्नियोगेन' इत्यादि। कथं पुनरकच्सन्नियोगेनेत्येष विशेषो लभ्यते, यावता न सूत्रे तदुक्तम्? इत्याह--`चकारः' इत्यादि। चकारस्यैतदेव प्रयोजनम्--अकच्सन्नियोगेन ककारस्य दकारो यथा स्यादिति भावः।।
73. अज्ञाते। (5.3.73)
`अज्ञातविशेषोऽज्ञातः' इति। यदि यस्यात्यन्तमज्ञानं सोऽज्ञातः स्यात्, एवं सति सर्वथा वस्तुविज्ञाना भावे प्रकृतिरेव न स्यात्, न हि सर्वथाऽविज्ञातोऽर्थः प्रयोगमर्हति; तस्मात् स्वेन रूपेण ज्ञातस्य यस्य धर्मान्तरत्वमज्ञातं स इहाज्ञातोऽभिमत इति ज्ञायते--अविज्ञातविशेषोऽज्ञात इति। अस्यैवार्थं विस्पष्टीकर्त्तुमाह--`स्वेन' इत्यादि। स्वरूपमश्वत्वादि, विशेषरूपं स्वस्वामिसम्बन्धादि।।
74. कुत्सिते। (5.3.74)
75. संज्ञायां कन्। (5.3.75)
76. अनुकम्पायाम्। (5.3.76)
`कारुण्णेन' इत्यादि। अभ्युपपत्तिरनुग्रह एव। `स्वपितकि, श्वसितकि' इति। `रुदादिभ्यः सार्वधातुके' (7.2.76) इट्, अदादित्वाच्छपो लुक्।।
77. नीतौ च तद्युक्तात्। (5.3.77)
`सामदानादिरूपायो नीतिः' इति। आदिशब्देन भेददण्डयोर्ग्रहणम्; तौत्वनुकम्पायां न सम्भवत इति सामदानादिरेकैव नीतिर्गुह्यते, `एहकि' इति। इण आङपूर्वाल्लोण्मध्यमपुरुषैकवचनस्य `सेर्ह्यपिच्च' (3.4.87) इति हिरादेशः। ननु पूर्वेणैवात्रापि प्रत्ययः सिद्धः, अत्रापयनुकम्पा गम्यत एव, तत किमर्थम् इत्याह--`पूर्वेणैव' इत्यादि। प्रत्यासन्नोऽनुकम्पासम्बन्धो यस्यानुकम्पयमानस्य स तथोक्तः। प्रत्यासन्नत्वं तु सम्बन्धसर्यानुकम्प्यानंप्रति; तदाश्रयत्वादनुकम्पायां विधीयमानः प्रत्यासत्तेर्यस्यानुकम्पया प्रत्यासन्नः सम्बन्धस्ततः एव युक्तो विधातुमिति पूर्वेमानुकम्प्यमानादेव प्रत्यो विहितः, न तु व्यवहितात् पुनर्घानादेः। अतः सम्प्रति ततोऽपि यथा स्यादित्येवमर्थमिदम्। `व्यवहितात्' इति। विप्रकृष्टादित्यर्थः। विप्रृष्टत्वमतदाश्रयत्वादनुकम्पायाः। न हि तस्यां धानादिराश्रयः, किं तर्हि? अनुकम्प्यमानो देवदत्तादिः।।
78. बह्वचो मनुष्यनाम्नष्ठज्वा। (5.3.78)
`देविकः' इति। `यज्ञिकः' इति। `ठाजावूर्ध्वं द्वितीयादचः' (5.3.83) इति दत्तशब्दस्य लोपे कृते `यस्येति च' (6.4.148) इत्यकारलोपः।
प्रत्युदाहरणे सर्वत्र क एव वेदितव्यः। `मद्रबाहुकः' इति। मद्रौ बाहू यस्य स मद्रबाहुः। नेदं मनुष्यनाम, किं तर्हि? विशेषणम्।
मनुष्यग्रहणं किमर्थम्? देवहस्तको हस्तीत्यत्र मा भूत्। नाम ग्रहणं किमर्थम्? मृगकः, मत्स्यक इत्यत्र मा भूत्।।
79. घनिलचौ च। (5.3.79)
`देवियः' इति। घन् पूर्ववल्लोपः। `देविलः' इति इलच्। `देविकः' इति। ठन्। `देवदत्तकः' इति कः।।
80. प्राचामुपादेरडज्वुचौ च। (5.3.80)
उपड इत्यादौ उपेन्द्रदत्तशब्दात्प्रत्ययः। विकल्पार्थं प्राग्ग्रहणं कस्मान्न भवति? इत्याह--`वेत्येव हि' इत्यादि। अत्र हे वेत्यनुवर्त्तते, तस्मात्तेनैव विकल्पस्य सम्पादितत्वात् तदर्थग्रहणं नोपपद्यते।।
81. जातिनाम्नः कन्। (5.3.81)
`नामग्रहणम्' इति। असति हि नामग्रहणे जातिस्वरूपग्रहणं स्यात्। अतः स्वरूपग्रवणं मा भूदित्येवमर्थं जातिग्रहणम्।।
82. अजिनान्तस्योत्तरपदलोपश्च। (5.3.82)
`व्याघ्राजिनो नाम कश्चित्' इति। व्याघ्रस्याजिनम्, व्याघ्राजिनमिवाजिनं यस्येति व्याघ्राजिनः। `सप्तम्युपमानपूर्वस्य बहुव्रीहिरुत्तरपदलोपश्च' (वा. 99) इति बहुव्रीहावुत्तरपदलोपे कृते व्याघ्राजिन इत्येष शब्दः सम्पद्यते। अथाजिनलोपश्चेत्येवं कस्मान्नोक्तम्, किमुत्तरपदग्रहणेन? नैवं शक्यम्; व्याघ्रमहाजिनौ नामकश्चित्, सोऽनुकम्पितः--व्माघ्रक इत्यत्राजिनशब्दस्य लोप उच्यमाने महच्छब्दस्य निवृत्तिर्न स्यात्। उत्तरपदस्यतु लोपे विधीयमाने भवति। तस्माद्यथान्यासमेवास्तु। महदजिनं महाजिनम्, व्याघ्रस्य महाजिनमिव महाजिनमस्येति पूर्ववदुत्तरपदलोपी बहुव्रीहिः, ततः कन्।।
83. ठाजादावूर्ध्वं द्वितीयादचः। (5.3.83)
`अस्मिन् प्रकरणे' इत्यादि। अनेनास्मिन् प्रकरणे यौ विहितौ ठाजादी तत्र लोपी भवति, यौ तु प्रकरणान्तरे तत्र न भवतीति दर्शयति। एतच्चैतत्प्रकरण विहितयोष्ठाजाद्योरिहानुवुत्तेर्लभ्यते। अथोर्ध्वग्रहणं किमर्थम्, यावता `द्वितीयादचः' इति पञ्चमी, तस्मादन्तरेणाप्यूर्ष्वग्रहणम्, `तस्मादित्युत्तरस्य' (1.1.67) इत्यूर्ध्वं यच्छब्दरूपं तस्यैव लोपो भविष्यति? इत्यत आह--`उर्ध्वंग्रहणम्' इत्यादि। असत्यूर्ध्वंग्रहणे `आदेः परस्य' (1.1.54) इति द्वितीयादचो यः परस्तस्यादेर्लोपः स्यात्, तस्मिस्तदु सति सर्वे निवर्त्तते। अतः सर्वस्य लोपो यथा स्यादित्येवमर्थमूर्ध्वंग्रहणम्।
अथ ठग्रहणं किमर्थम्, यावता ठस्येकादेशे कृतेऽजादावित्येव सिद्धम्? इत्यत आह--`ठग्रहणम्' इत्यादि। उको द्वितीयत्वे सत्यकृत एवेकादेशे ठावस्थायामेव द्वितीयादूर्ध्वस्य लोपे कृते `इसुसुक्तान्तात् कः' (7.3.51) इति कविधिर्यथा स्यादित्येवमर्थं ठग्रहणम्। तत्रैतत् स्यात् चोद्यम्--इकादेशे कृतेऽजादिलक्षते च द्वितीयादूर्ध्वस्य लोपे स्थानिवद्भावाट्ठग्रहणेन ग्रहणात्् कादेशो भविष्यति? इत्याह--`अजादिलक्षणे हि' इत्यादि। इहादेशविधौ तत्र ठग्रहणं वर्णग्रहणं स्यात्, सङ्घातग्रहणं वा; तत्र वर्णग्रहणेऽल्विधित्वात् स्थानिवद्भावो नोपपद्यते। सह्घातग्रहणे यद्यप्युपपद्यते, तथापि `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' (व्या.प.12) इत्यजादित्वसन्निपातकृतमुकः ठप्रत्ययेनानन्तर्य्यमिति तदजादित्वविघातं न कुर्यात्। ततश्च यथा--मथितं पण्यमस्य माथितिक इत्यत्र यस्येति (6.4.148) लोपे सत्यपि तकारेण ठस्यानन्तर्य्ये कादेशो न भवति, तता वायुदत्तो वायुक इति न स्यात्। तस्मादुको द्वितीयत्वे कविधानार्थं ठग्रहणम्।
`उवर्णाल्लः' इति। तस्य च लोप इत्यर्थः। स चादेरेव भवति, न सर्वस्य। अथवा--ल इत्यादेशएवायं सर्वे लस्य विधीयते। च चानेकाल्त्वात्सर्वस्यैव भवति।
`द्वितीयादचः' इति। द्वितीयलोपे कर्त्तव्ये सन्ध्यक्षरस्य द्वितीयत्वं भवति यदा, तदादेः शब्दरूपस्य लोपो भवतीति वक्तव्यम्। सन्ध्यक्षरादूर्ध्वस्य लोपोऽपि प्राप्ते सन्ध्यक्षरस्यैकाक्षरपूर्वपदानामित्यादि द्वितीयादच ऊर्ष्वस्य लोपः उक्तः, तदपवादः।
`एकाक्षर' इति। अक्षरशब्दश्चायमच्यपि वर्त्तते। एकाक्षरमेकाच पूर्वंपदं येषां ते, तेषामुत्तरपदलोपो वक्तव्यः। `वागाशीः' इति। वाच्याशीरस्येति कृत्वा वैयधिकरण्ये बहुव्रीहिः। अनुकम्पितो बागाशीरिति विगृह्यठचि कृते द्वितीयादच ऊर्ध्वस्य लोपः स्यात्। तस्मिन् सति वाच्+आ+इक इति स्थिते यस्येति (6.4.148) लोपे कृते `अचः परस्मिन् पूरवविघौ' (1.1.54) इति स्थानिवद्भावात्पदसंज्ञा न स्यात्। तस्मात् तस्यान्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदसंज्ञा, `चोः कुः' (8.2.30) इति कुत्वम्--वागिक इति स्यात्। आशीःशब्दस्य तस्य परलोपे कृते तस्यानजादेशात्वात् स्थानिवद्भावो नास्तीति भसंज्ञा भवत्येव, ततस्तया पदसंज्ञाया निषिद्वायां पदनिबन्धनकुत्वादि न भवतीति वाचिक इति सिध्यति।
`कथम्' इत्यादि। यद्येकाक्षरपूर्वपदानामुत्तरपदस्य लोप उच्यते, षडिक इति न सिध्यति। अत्राप्युत्तरलोपे कृते भसंज्ञायानुपजातायां पदसंज्ञायां बाधितायाम् `झलां जशोऽन्ते' (8.2.39) इति षषः षकारस्य जश्त्वे कृते षडिक इति न सिध्यति।।
84. शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात्। (5.3.84)
`स चाकृतसन्धीनाम्' इति। यद्यस्वरसन्धौ लोपो भवत्येवं सिध्यति, नान्यथा। तस्मादकृतस्वरसन्धीनामेव शेवलादीनां लोपो भवतीति वक्तव्यम्।।
85. अल्पे। (5.3.85)
86. ह्वंस्वे। (5.3.86)
`दीर्घप्रतियोगी ह्रस्वः' इति। स पुनर्यमपेक्ष्य दीर्घो भवति स वेदितव्यः। ननु च दीर्घत्वापचये सति ह्रस्वो भवति; यत्र दीर्घत्वापचयस्तत्राल्पतास्तीति पूर्वेणैव सिद्धम्? न सिध्यति; न ह्ययं नियोगः--यत्र दीर्घस्यापचयस्तत्राल्पत्वेन भवितव्यमिति, तथा हि--सत्यप्यपचये महत्त्वगुणयुक्तं यद्वस्तु तदमहदेव भवति, न चाल्पम्।।
87. संज्ञायां कन्। (5.3.87)
88. कुटीशमीशुणअडाभ्यो रः। (5.3.88)
`कुटीरः। शमीरः' इति। स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनृवर्त्तते इति प्रकृतिगतेनैव स्त्रीलिङ्गेन भवितव्यम्, न पुल्लिङ्गेन? इत्यत आह--`स्वार्थिकत्वेऽपि' इत्यादि।।
89. कुत्वा डुपच्। (5.3.89)
90. कासूगोणीभ्यां ष्टरच्। (5.3.90)
91. वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे। (5.3.91)
यदि तनुत्वे वत्सादिशब्देभ्यः प्रत्ययो विधीयते, ये शरीरे कृशा वत्सादयस्तत्राप्यविशेषेण प्रत्ययः प्रसज्येत, विशेषानुपादानात्? इत्यत आह--`यस्य गुणस्य' इत्यादि। गुणो विशेषणम्, विशेष्यं द्रव्यम्। वत्सादिशब्दानां प्रवृत्तिनिमित्तं वयोविशेषादि। यस्मिन् सति वत्सादयः शब्दा द्रव्ये विशेष्ये निविशन्ते=प्रवर्त्तते, तस्यैव वत्सादिशब्दस्य प्रवृत्तिनिमित्त्स्य तनुत्वे प्रत्यो भवति, न तनुत्वमात्रे; तत् पुनः प्रत्यासत्तेः। वत्सादिभ्यः प्रकृतिभ्यः प्रत्यये विधीयमाने अन्यत् प्रवृत्तिनिमित्तं न प्रत्यासन्नम, ततस्तस्यैव तनुत्वे युक्तं प्रत्ययेन भवितव्यम्।
`तस्य तनुत्वं द्वितीयवयसः प्राप्तिः' इति। तृतीयवयःप्राप्तिकाले द्वितीयस्य वयसः। उक्षशब्दस्य प्रवृत्तिनिमित्तस्य निश्चितं तनुत्वमवशिष्यते। `तस्य तनुत्वमन्यपितृकता' इति। गर्दभपितृक्तेत्यर्थः। तर्हि गर्दभादश्वायामुत्पन्नोऽश्वतर इत्युच्येते। `तस्य तनुत्वं भारोद्वहर्ने मन्दशक्तिता' इति। भारोद्वहनं प्रति यःसमर्थो न स्यात् स ऋषभतर इत्युच्यते। यदा तु तस्य भारोद्वहने सामर्थ्यं मन्दं भवति=हीयते, तदा तनुत्वं भवति।।
92. किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच्। (5.3.92)
`निर्धार्यमार्णेभ्यः प्रत्ययः' इति। `निर्धार्यमाणवाचिभ्यः इत्येतत् कुतो लभ्यते? तत एवोत्पन्ने प्रत्यये निधरिणस्य गम्यमानत्वत्।
`महाविभाषा' इत्यादि। `समर्थानां प्रथमात्' (4.1.82)
`निषरिणे' इचि। विषये प्रत्ययो यथा स्यात्। `द्वयोरिति समुदायान्निर्धारणविभक्तिःः' इति। षष्ठी, सप्तमी वा। सा पुनस्तस्य `यतश्च निर्धारणम् (2.3.41) इत्येनेन। `ेकस्येति निर्देशः निर्धार्यमाणनिर्देशः' इति। एकस्मिन्निर्षार्यमाणे यथा स्यात्। ननु च समुदायादेकदेशस्य पृथक् करणं निर्धारणम्, द्वयोरित्यवयवसमुदायो निर्दिष्टो यत एकदेशो निर्धारयितव्यः, स चैकदेशे निर्धारयितव्ये एक एव सम्भवति; अतोऽन्तरेणाप्येकग्रहणमेकस्यैव निर्धारणं भविष्यतीति निष्फलमेकग्रहणम्? नैतदेवम्; असति हि तस्मिन् द्वयोरिति कर्मणि षष्ठी विज्ञायते, द्वौ चेन्निर्षार्येते कुतश्चिदिति, ततश्चेहापि प्रत्ययः स्यात्--अस्मिन् ग्रामे कौ देवदत्तयज्ञदत्ताविति। तस्मादेकग्रहणं कर्त्तव्यम्।।
93. वा बहूनां जातिपरिग्रश्ने डतमच्। (5.3.93)
`जातिपरिप्रश्नविषयेभ्यः' इति। जातिपरिप्रश्नो यथासम्भवं येषां ते तथोक्ताः। `कतमो भवतां कटः' इति। "गोत्रञ्च चरणैः सह" (म. भा. 2.225) इति तस्य जातित्वम्। सा च कठजातिः किं शब्देन परिपृच्छ्यते। किंशब्दोऽत्र जातिपरिप्रश्नविषयो भवति। `यतमो भवतां कठस्ततम आगच्छतु' इति। यत्तच्छब्दाविह जातिविषयावेव, न परिप्रश्नविषयो भवति। `यतमो भवतां कठस्ततम आगच्छतु' इति। यत्तच्छब्दाविह जातिविषयावेव, न परिप्रश्नविषयौ; असंभवात्, न हि ताभ्यां परिप्रश्नः क्रियते, किं तर्हि? किंशब्देन। अत एव वक्ष्यति--`परिप्रश्नग्रहणं किम एव विशेषणम्, न यत्तदोः, असम्भवात्' इति। `वावचनमकजर्थम्' इति। पक्षेऽकजपि यथा स्यात्। यद्येवम् वाक्यं न सिध्यति, यदा हि डतमज् न भवत्यकचैव भवितव्यम्? इत्यत आह--`महाविभाषा' इत्यादि। अत्र च महीविबाषा प्रत्ययविकल्पार्थाऽनुवर्त्तते, तया प्रत्यये विकल्पिते पक्षे वाक्यमपि भविष्यति। `जातिग्रहणं तु सर्वैः सम्बध्यते' इति। जातिः सवत्रैव भवति, तत्र जात्यादिना किं शब्दे विशेष्यमाणे सामर्ध्यादेव तस्य परिप्रश्नविषयत्वं लभ्यते? नैतदस्ति; स हि क्षेपेऽपि वर्त्तते। तत्रासति परिप्रश्नग्रहणे यदा आतौ क्षेपे वर्त्तते, तदा प्रत्ययः स्यात्।।
94. एकच्च प्राचाम्। (5.3.94)
`स्वस्मिन् विषये' इति। आत्मीये विषये। तत्र द्वयोरेकस्य निर्वारणं डतरचो विषयः बहूनामेकस्य निर्धारणे डतमचः। चकारोऽनुकर्षणार्थः। असति हि तस्मिन् `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' (व्या. प. 19) इति डतमजेव स्यात्; द्वयोनिर्धारणे द्वयोरेकस्य डतरजित्यनुवृत्तेः, बहूनां निर्धारणे डतमजित्यनुवृत्तेः।
विकल्पार्थं प्राग्ग्रहणं कस्मान्न भवति? इत्याह--`विकल्पोऽनुवर्त्तत एव' इति। अनन्तरसूत्राद्वेत्यनुवर्त्तत एवेति विक्लप इत्युक्तम्, तेनैव प्रत्ययविकल्पः सिद्धः। तसमात् पूजार्थमेव प्राग्ग्रहणम्, न दिकल्पार्थम्।।
95. अवक्षेपणे कन्। (5.3.95)
`व्याकरणकेन' इत्यादि। कथं पुनर्व्याकरणमवक्षेपणम्, तस्याध्ययनं शास्त्रविहितम्, वेदाङ्गत्वात्? तथापि यत्राञये तदवक्षेपणमुपसंहरति, तं प्रति तस्यावक्षेपणत्वमुपपद्यते; दोषहेतुत्वात्।
`परस्य' इत्यादिना `कुत्सिते' (5.3.74) इत्यवक्षेपणे कन्नित्यस्य विभागं दर्शयति।।
96. इवे प्रतिकृतौ। (5.3.96)
`तद्विशेषणं प्रतिकृतिग्रहणम्' इति। प्रतकृतिविषयं यत्र सादृश्यं तत्र प्रयोगो यथा स्यात्। गौरिवगवय इत्यत्रास्ति सादृश्यम्, न तु प्रतिकृतिविषयम्; न हि गौर्गवयप्रतिकृतिः। काष्ठादिमयं हि यत् प्रतिच्छन्देकं तत् प्रकृतिच्यते।।
97. संज्ञायाञ्च। (5.3.97)
98. लुम्मनुष्ये। (5.3.98)
चञ्चे इति तृणपुरुष उच्यते। सादृश्याच्च मनुष्यश्चञ्चा। `लुपि युक्तवद्व्यक्तियचने' (1.2.51) इति प्रकृतिगतमेव लिङ्गं भवति। ननु च `मनुष्यलूपि प्रतिषेधः' (वा.21) इति वचनाद्युक्तवद्भावो न प्राप्नोति? नैतदस्ति; विशेषणानां प्रतिषेधः, न लुबन्तस्य।।
99. जीविकार्थे चापण्ये। (5.3.99)
100. देवपथादिभ्यश्च। (5.3.100)
`देवपद्यः' इति। देवानां पन्था इति षष्ठीसमासः। `ऋक्पः (5.4.74) इत्यादिनाकारः समासान्तः, कन्, तस्य सुप्।।
101. वस्तेर्ढञ्। (5.3.101)
`इतः प्रभति' इत्यादि। तत्र प्रतिकृतौ `इवे प्रतिकृतौ' (5.3.96) इति कनि प्राप्ते, इतः प्रभृति प्रत्यया भवन्ति। अप्रतिकृतौ तवसंज्ञायां वाक्येनैवाभिधाने प्राप्ते। संज्ञायां तु प्रतिकृतावप्रकृतौ च ढञेव; वस्तिः=वृतिविकारः। `वास्तेयी' इति `टिङ्ढाणञ्' (4.1.15) इति ङीप्।।
102. शिलाया ढः। (5.3.102)
103. शाखादिभ्यो यत्। (5.3.103)
104. द्रव्यञ्च भव्ये। (5.3.104)
105. कुशाग्राच्छः। (5.3.105)
106. समासाच्च तद्विषयात्। (5.3.106)
`इदार्थविषयात् समासात्' इति। इवशब्दस्यार्थ इवार्थः=सादृश्यं विषयो यस्य स तथोक्तः। यदि इवार्थविषयात् समासाच्छो विधीयते, शस्त्रोश्यामा, पुरुषव्याघ्र इत्यत्रापि प्रप्नोति? नैष दोषः, न ह्यत्र समास इवार्थे वर्त्तते, किं तर्हि? पूर्वपदमुत्तरपदं वा--शस्त्रीव श्यामा, पुरुषोऽयं व्याघ्र इवेति। अथाप्येकदेशस्येवार्थे वर्त्तमानत्वात् समासोऽणीवार्थं उच्यते, तथापि समासेनैवोक्तत्वान्न भविष्यति, यस्तु समासः स क इवार्थे वर्त्तेते? समासार्थावपर इवार्थो यत्रास्ति तत्रायं प्रत्य उक्तः। `परस्मिन्निवायं एव' इति। `इव' इत्यभिकारात्।
`अतर्कितोपनतम्' इति। अबुद्धिपूर्वमुपस्थितमित्यर्थः। `चित्रिकरणम्' इति।विस्मयकरणमित्यर्थः। `तत्कथम्' इति। केन प्रकारेणातर्कितोपनतं चित्रीकरणमिति? -- इममर्थं पृच्छति--तत्कमित्यादि।
`समासश्चायम्' इत्यादि। यदेतदिवार्थविषयात् समासात् प्रत्ययविधानम्, अत एव ज्ञापकादवसीयते--समासो भवति। कथं पुनरेतज्ज्ञापकमिति? आह--`न ह्यस्य' इत्यादि। इवार्थविषयस्य समाससामान्यस्य लक्षणं नास्तीति। तस्माद्यदेतत् ततः प्रत्ययविधानम्, एतदेव तद्भावस्य ज्ञापकमुपपद्यते।
अथ वा--किं पुनः कारणं ज्ञापकेन तद्भावः प्रतिपाद्यत इति? आह--`न ह्यस्य' इत्यादि। `स चैवं विषय एव' इति। इवार्थविषय एवेत्यर्थः।।
107. शर्करादिभ्योऽण्। (5.3.107)
108. अङ्गुल्यादिभ्यष्ठक्। (5.3.108)
109. एकशालायाष्ठजन्यतरस्याम्। (5.3.109)
`अन्यतरस्यांग्रहणेन' इत्यादि। पूर्वसूत्रेण (5.3.108) विहितत्वाट्ठगेवानन्तरः। अन्यतरस्यांग्रहणं समुच्चयार्थम्। अतस्तेन `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' (व्या.प.19) इति स एव प्राप्यते।।
110. कर्कलोहितादीकक्। (5.3.110)
111. प्रत्नपूर्वविश्वेमात्थाल् छन्दसि।
`इमथ' इति। इमेतीदमा समानार्थं प्रकृत्यन्तरमस्ति। तत इदं प्रत्ययविषानम्।।
112. पूगाञ्ञ्योऽग्रामणीपूर्वात्। (5.3.112)
`पूर्वात् इति। पूर्वशब्दोऽवयववाची। ग्रामणीः पूर्वो यस्य तत् ग्रामणीपूर्वम्। प्रतिषेधेन च स्वरूपग्रहणं भवतीति विज्ञायते। पूगशब्देन स्वरूपे गृह्यमाणे ग्रामणीपूर्वतः प्राप्तिरेव नास्ति; ग्रहणवता प्रातिपादिकेन (व्या.प.89) तदन्तविधः प्रतिषेधात्। `लोहष्वजाः' इति कन्। अत्र देवदत्तशब्दः पूर्वग्रामणीरवयव इति न प्रत्ययः।।
113. व्रातच्फञोरस्त्रियाम्। (5.3.113)
`व्रातवाचिभ्यः' इति। अथ स्वरूपस्यैव ग्रहणं कस्मान्न भवति? च्फञोरल्पाच्तरस्य परनिपातात्; स हि लक्षणान्तरानपेक्षतामाचष्टे। तेन `स्वं रूपं शब्दस्य (1.1.68) इत्येतदपीह नापेक्ष्यत इति न भवति स्वरूपग्रहणम्। `कौञ्जायान्यः' इति। `गोत्रे कुञ्जादिभ्यश्च्फञ्' (4.1.98) `कौञ्जायनो' इति। `जतेरस्त्रीविषयात्' (4.1.63) इति ङीष्। जातित्वं तु `गोत्रं च चरणैः सह' (मा.भा. 2 225) इति।।
114. आयुधजीविसङ्घाञ्ञ्यङ्वाहीकेष्वब्राह्मणराजन्यात्। (5.3.114)
`वाहीकेषु' इति। निर्धारणे (2.3.41) सप्तमी। `वाहोकेषु मध्ये य आयुधजीविसङ्घः' इति। निधरिम्ञ्च समानजातीयस्यैव भवतत्यायुधजीविसङ्घोऽपि वाहीक एव विज्ञायते। अथ वा--देशवाचिनो वाहोकशब्दादधिकरण एवैषा सप्तमी; वाहिकदेशविशेष आयुधजीविसङ्घो वसतीति।
`ब्राह्मणे तद्विशेषग्रहणम्' इति। अथ स्वरूपग्रहणं कस्मान्न भवति? अत एव प्रतिषेधात्। यदि स्वरूपग्रहणं स्यात्, ब्राह्मणप्रतिषेधोऽनर्थकः स्यात्। प्राप्तिपूर्वको हि प्रतिषेधो भवति। ब्राह्मणशब्द आयुधजीविसङ्घो वाहीकेषु न विद्यत इति किं ब्राह्मणप्रतिषेधेन! ब्राह्मणविशेषवाचितस्तु ये गोपालप्रभृतयः शब्दास्तद्वाच्या आयुध जीविङ्घा वाहीकेषु भवन्ति; तत्र यदि प्रतिषेधो न क्रियेत, तदा तेभ्योऽपि स्यात्। अतस्तन्निवृत्त्यर्थोऽर्थवान् विशेषग्रहणे प्रतिषेधो भवति। तस्मात्--`ब्राह्मणे तद्विशेषग्रहणम्, राजन्ये तु स्वरूपाग्रहणमेव' इति। तद्वाच्यस्यायुधजीविसङ्घस्य वाहीकेषु सत्त्वात्; `स्व रूपं शब्दस्याशब्दसंज्ञा' (1.11.68) इति वचनाच्च। `तेन' इत्यादि। यस्माद् ङीबर्थोत्र टकारः कृतस्तेन `अस्त्रियाम्' (5.3.113) इति नानुवर्त्तते। तदनुवृत्तौ ञ्यट्प्रत्ययान्तं स्त्रियां न भवतीति ङीबर्थं टित्करणनर्थकं स्यात्। तस्मादस्त्रियामिति निवृत्तम्, अतः स्त्रियामपि भवति। `कौण्डीबृसी' `क्षौद्रकी' इति। `हलस्तद्धितस्य' (6.4.150) इति यकारलोपः।।
115. वृकाट्टेण्यण्। (5.3.115)
यदि वाहीकेषु वृकशब्दस्य वाच्य आयुधजीविसङ्घो भवति, ततो ञ्यटि प्राप्तेऽन्यत्राप्ताप्त एव कस्मिश्चित् प्रत्ययविधानं वेदितव्यम्। `वृकाविव' इति। वृकशब्दोऽत्र जातिवचनः।।
116. दामन्यादित्रिगर्तषष्ठाच्छः। (5.3.116)
`तेषु चेयं स्मृतिः' इति त्रिगर्त्तषष्ठाः स्मर्य्यन्ते ज्ञायन्तेऽनयेति स्मृतिः। सा पुनः--`आहुस्त्रिगर्त्तषष्ठान्' इति। अयमेवाप्तप्रणीतश्लोकः एषु च त्रिगर्त्तषष्ठेषु प्रथमपञ्चमौ शिवाद्यणन्तौ, शेषास्त्विञन्ताः। केचिदतद्धितान्तमेव पञ्चमं पठन्ति। तेषां ब्रह्मगुप्तशब्दादेव च्छो भवति।।
117. पर्श्वदियौर्धयादिभ्यामणञौ। (5.3.117)
किगर्थ पुनरिह यौधेयादयः पठ्यन्ते, यावता लुक्प्रतिषेधार्थं चतुर्थे यौधेयादयः समाम्नाता एव, त एव चेह गृह्यन्ते? सत्यमेतत्; विचित्रा हि गणानां कृतिर्गणकारेस्येति पुनः पठिताः। पर्श्वादिषु सत्वच्छशब्दो पठ्यते। स च सत्वच्छब्दपरकृतिर्मतुप्प्रत्ययान्तो वेदितव्यः।।
118. अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्ररुमदणो यञ्। (5.3.118)
`अभिजितोऽपत्यमित्यण्' इति। `प्राग्दीष्यतोऽण्' (4.1.83) इत्यौत्सर्गिकः। एवमुत्त्रत्रापि।
`गोत्रप्रत्ययस्याणो ग्रहणमिष्यते' इति। तत्कथं जातिनाम्न इत्यनुवर्त्तते? तेनाणन्तं यज्जातिनाम तदेव ग्रहीष्यते। यश्च गोर्त्रऽण् विहितस्तदन्तमेव जातिनाम भवति; `गोत्रं च चरणैः सह' (म. भा. 2.225) इति आतित्वात्। `आभिजितो मुहूततत्त्ंः, आभिजीतः स्थालीपाकः' इति। एकत्र `नक्षत्रेण युक्तः कालः' (4.2.3) इत्यण्, अपरत्र `सास्य देवता' (4.2.24) इति।।
119. ञ्यादयस्तद्राजाः। (5.3.119)
इति श्रीबोधिसत्त्वदेशीपाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्चिकायां पञ्चमस्याध्यायस्य
तृतीय पादः।।
* * *