काशिकाविवरणपञ्जिका/पञ्चमोऽध्यायः/प्रथमः पादः

काशिकाविवरणपञ्जिका
प्रथमः पादः
[[लेखकः :|]]
द्वितीयः पादः →

श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचिता
न्यासापरपर्याया
काशिकाविवरणपञ्जिकाख्या
काशिकाव्याख्या - द्वितीयो भागः
पञ्चमोऽध्यायः
प्रथमः पादः

1. प्राक्‌ क्रीताच्छः। (5.1.1) [`अव्ययम्‌'--इति मुद्रितः पाठः (चौखा)-1967)
विधिः, अधिकारः, परिभाषा वेति त्रयमत्र सम्भाव्यते। यथा चैतत्‌ त्रितयमपि निर्दोषम्‌, तथा `प्राग्दीव्यतोऽण्‌' (4.1.83) इत्यत्र दर्शतम्‌। यद्येवम्‌, काशिकाकारेण कस्मान्न सूचितम्‌? एकदेशानुस्मरणेन सर्वस्य सूचितत्वादित्यभिप्रायः। अथ प्रागिति कोऽयं निर्देशः, यावता प्रपूर्वस्याञ्चतेः क्विनि नलोपादिके विहिते `उगिदचाम्‌ (7.1.70) ति नुमि, संयोगान्तलोपे च, `क्विन्प्रत्ययस्य कुः' (8.2.62) इति नकारस्य ङकारे प्राङिति भवितव्यम्‌? अथेदृशी व्युत्पत्तिराश्रीयेत, यावता `अञ्चतेश्चोपसंख्यानम्‌ (वा.336) इति कृते ङीपि प्राच्यां दिशि वसतीति `दिक्शब्देभ्यः सप्तमी' (5.3.27) इत्यादिना अस्तातिः, तस्य `अञ्चेर्लुक्‌' (5.3.30) इति लुक्‌, `लुक्तद्धितलुकि' (1.2.49) इति ङीपोऽपि `तसिलादिस्तद्धित एधाच्पर्यन्तः' इत्यव्ययत्वे `अव्ययात्‌' (2.4.82) इति सोर्लुकि `न लुमताङ्गस्य' (1.1.63) इति प्रत्ययलक्षणप्रतिषेधात्‌ सर्वनामस्थानाभावे नुमोऽप्यभावः, ततः कुत्वे सति प्रागिति सम्पद्यते? यस्तु मन्यते--"आद्येऽपि पक्षे क्रियाविशेषणत्वान्नपुंसकत्वम्‌, क्रियाविशेषणानां यथा नपुंसकत्वम्‌, कर्मभावश्च; तथा `करणे च स्तोकाल्पकृत्छ्र' (2.3.33) इत्यत्र प्रतिपादितम्‌, तत्र कर्मणि द्वितीयायाः `स्वमोर्नपुंसकात्‌' (7.1.23) इति लुकि कृते पूर्ववन्नुमभावः" इति, तन्मते द्वितीयैकवचनान्तं पदं सञ्जायते। तदेवमितरस्मिन्‌ पक्षे `षष्ठ्यतसर्थप्रत्ययेन' (2.3.30) इति षष्ठ्या भवितव्यम्‌, तत्कथं `क्रातात्‌' इति पञ्चमीनिर्देशः? नै तदस्ति; यावता `अन्यारादितरर्त्तेदिक्शब्दः' (2.3.29) इत्यत्रेदमुक्तम्‌दिक्शब्दत्वादेव सिद्धेऽञ्चूत्तरपदग्रहणं `षष्ठ्यतसर्थ' इत्यनेन प्राप्तां षष्ठीमपि बाधित्वा पञ्चम्येव यथा स्यादिति कुतः षष्ठीप्रसङ्गः। अतो व्यवस्थितमिदम्‌--प्रक्‌ क्रीतादिति।
अथ प्राग्वचनं किम्‌, न `क्रीताच्छः' इत्येवोच्येत? नैतदस्ति; एवं ह्यु च्यमाने क्रीतशब्द एव प्रकृतित्वेन ज्ञायेत, ततश्च क्रीतशब्दादेव प्रत्ययः स्यात्‌। तस्मात् क्रीतादित्यवधिद्योतनार्थं प्रागिति वक्तव्यम्‌। तर्ह्ययमर्थः `प्राग्घितात्‌' (4.4.75) इत्यतः प्रकृतेन प्राग्ग्रहणेन हि सम्बध्यते। एवं तत्रैतत्‌ स्यात्‌--तद्धि `भवे च्छन्दसि' (4.4.110) इति, तेन च्छन्दोऽधिकारसय निवृत्तेः। तर्हि हि `प्राग्दीव्यतः' (4.1.83) इत्यतः प्रकृतत्वात्‌ तेनापि च वहतेरित्येवमादिकं सम्बध्येत, यथा--`स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्‌' (4.1.87) इति? नैतदस्ति; एवं हि `सोमाट्ट्यण्‌' (4.2.30) इत्यादौ यत्र पञ्चमी श्रूयते तत्र सर्वत्र प्राग्वचनेन सम्बन्धे न ज्ञायते--को विधिः, का च प्रकृतिरिति स्यात्‌। येषामवधित्वमिष्यते, तेषामेव प्राक्शब्दमधीतवानिति। इह तु प्रकृतेन प्राग्वचनेन सम्बध्यते। तननु च विपर्ययः कसमान्न भवति--भवनादिति प्रकृतिः स्त्रीपुंसाभ्यामित्यवधिनिर्देश इति? नैतदस्ति; अवदेरकत्वादेकवचनेन निर्देसो न्याय्यः प्रकृतिनिर्देशे तु द्वे एव प्रकृती परस्परापेक्षे इति द्विवचनमुपपद्यते। ननु च विशदमिदमुदितमप्यर्थज्ञानम्‌। स्वरित लिङ्गादधिकाराणामासङ्ग इत्येतद्भवता विस्मृतम्‌, तदेवम्‌ `सोमाट्ट्यण्‌' (4.2.30) इत्यादौ कः प्राग्वचनसम्बन्धप्रसङ्ग इति नार्थः प्राग्ग्रहणेन? सत्यमेतत्‌; किन्तु स्वरितत्वास्वरितत्वख्यापनपरम्परया मन्दधियो मोहमासादयन्तीति तत्प्रतिपत्त्यर्थं प्राग्ग्रहणं कर्त्तव्यम्‌।
`अवत्सीयः' इति। विकल्पनात्‌ त्रयमत्र सम्भवति--अनुत्पन्ने प्रत्यये नञास्य सम्बन्ध इति, उत्पन्ने वा संसर्गः, उत्पत्तिकाल एवेति। तत्राद्ये पक्षे वत्सदन्यस्मै हितमितौष्टाभिधानं न प्राप्नोति। न चापि चतुर्थी; हितार्थस्य प्रतिषिध्यमानत्वत्‌। तृतीये तु पक्षे यता दोषो न भवति तथा प्रतिविधीयते। तत्र वत्सहितशब्दयोः पदान्तरनिरपेक्षयोः क्रियापदेन भवतिनानुगम्मानत्वात्‌, न च ब्राह्मसम्बन्धोऽन्तरङ्गसम्बन्धं निवर्त्तयितुं शक्नोति। अत एव न देवदत्ताय गां ददातीति सम्प्रदाने चतुर्थी भवति; कर्मणाभिप्राप्तेरन्तरङ्गत्वादिति। तथानेन च क्रमेण यत्रापि प्राप्तिर्न विद्यते, केवलं त्विच्छामात्रमेव, अत्रापि कर्मसंज्ञा प्रवर्तते, तद्यथा-ग्रामं गन्तुमिच्छामि न कश्चित्‌ सहायोऽस्तीति।
यदप्युच्यते-असामर्थ्यात्तद्धितेन न भवितव्यमिति, तदेतदप्यसारम्‌; यदयम्‌, `नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः' (6.2.155) इति तदन्तान्युत्तरपदानि नञो गुणप्रतिषेधे वर्त्तमानानि पराण्यन्तोदात्तानि भवन्तीति तद्धितग्रहणमनर्थकं स्यात्‌।
अथ किमर्थमियानवधिरुपादीयते, न हि तत्र तावदस्य व्यापारोऽस्ति; प्रत्ययान्तरैर्बाधितत्वात्‌। लघुत्वात्‌ `प्राक्ठञश्छः' इति वक्तव्यम्‌? इत्यत आह-`अर्थोऽवधित्वेन' इत्यादि। कः पुनरर्थमवधित्वेनाङ्गीकुर्वतो गुण इति चेत्‌? अयमभिप्रायः-`प्राक्ठञश्छः' इत्युच्यमाने प्राक्‌ ठञो याः प्रकृतयस्ताभ्यश्छो भवतीत्यर्थः स्यात्‌। ततश्चाधिकारस्य प्रतियोगोपस्थानादपवादविषये छप्रत्ययः प्रसज्येत। अर्थे त्ववधित्वेनोपादीयमाने प्राक्‌ क्रीताद्येऽर्थास्तेषु च्छो भवतीत्ययमर्थः सम्पद्यते, ततोऽतिप्रसङ्गो न भवति। तेन समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानोऽपवादश्छं बाधते। ननु च `प्राक्‌ ठञः' इत्युच्यमानेऽपवादविषयेऽपि च्छो न भविष्यत्येव; ज्ञापकात्‌, यदयं `विभाषा हविरपूपादिभ्यः' (5.1.4) इति विभाषाग्रहणं शास्ति; इतरथा ह्यधिकाराच्छोऽपि लभ्ध एवेति विभाषाग्रहणमनर्थकं स्यात्‌? सत्यमेतत्‌; किन्तु ज्ञापकद्वारेणार्थप्रतिपत्तौ सत्यां प्रतिपत्तिगौरवं स्यात्‌। तस्मात्‌ सुखप्रतिपत्त्यर्थमर्थोऽवधित्वेनोक्तः। अन्ये पुनराहुः--गृहीत इति `आशंसायां भूतवच्य' (3.3.132) इत्यनेन भविष्यति निष्ठाप्रत्यय इति। तेनायमर्थः सम्पद्यते-वत्सीयादिरूपसिद्ध्यर्थमर्थमवधिं ग्रहीष्यामीति। अतः शालातुरीयेण `प्राक्‌ ठञश्छः' इति नोक्तम्‌; अन्यथा हि प्रत्ययावधित्वे प्रतिपदोक्ता अन्तरङ्गा इत्युपात्ताभ्यः प्रकृतिभ्य एव प्रत्ययः स्यादित्याशंक्येत।
अन्ये पुनरन्यथा वर्णयन्ति-`परिखया ढञ्‌' (5.1.17) इत्यत्र `छयतोः पूर्णोऽवधिः' इत्यभिधास्यति; ततश्च तेन क्रीतमिति वक्ष्यतीत्युच्यते, ततश्चेदं विरुद्धमित्याह-`अर्थोऽवधित्वेन' इत्यादि। गतार्थम्‌। नैयायिक इत्याह-"क्वचिदथोऽवधित्वेन गृह्यते, यता-`आर्हात्‌' (5.1.19) `भवनात्‌' (4.1.87)। इति, क्वचित्‌ प्रत्ययः प्राग्वहतेः--`आ च त्वात्‌' (5.1.120) इति, क्वचित्‌ प्रकृतिः--`आकडारात्‌' (1.4.1) `प्राक्कडारात्‌' (2.1.3) इति, क्वचिदेकदेशः--`प्राग्दीव्यतोऽण्‌' (4.1.83) इति, क्वचिन्निरवधिः प्रत्ययः--`ङ्याप्प्रातिपदिकात्‌' (4.1.1) इति; तेनायमात्मनो वैचित्र्यमाचार्यो दर्शयतीत्यवसीयते" इति। अथ क्रीतशब्दादेव पूर्वेण च्छप्रत्ययो भवतीत्येवं कस्मान्न विज्ञायते, यथा-`विभाषा सुपो बहुच्‌ पुरस्तात्तु' (5.3.68) इति? अनभिधानात्‌। न हि क्रीतशब्दात्‌ पुरस्तादुत्पद्यमानेन प्रत्ययेन कस्यचिदर्थस्याभिधानमस्ति। न चापि `तेन क्रीतम्‌' (5.1.37) इति निर्देश उपपद्यते। तत्रैवमपि प्राक्‌ क्रीतशब्दादेव प्रत्ययो भवतीत्येव कस्मान्न विकल्प्यते? अनभिधानादेव। न हि तत उत्पन्नेन प्रत्ययेन विवक्षितोऽर्थोऽवगम्यते। अर्थान्तरं भवादिकम्‌, तत्र च वृद्धलक्षणश्छ एव सिद्ध इत्यनर्थकमिदं स्यात्‌। तस्मात्‌ प्रागुदितमेव प्रयोजनं न्याय्यम्‌।।

2. उगवादिभ्यो यत्‌। (5.1.2)
उगिति प्रत्याहारग्रहणं वा स्यात्? उवर्णग्रहणं वा? तत्राद्ये पक्षेऽयं वाक्यार्थो जायते-उगन्तेभ्यः प्रातिपदिकेभ्योऽवादिभ्योऽवकारादिभ्योऽवसुप्रभृतिभ्य इति। वकारादीन्‌ वर्जयित्वेत्यर्थः। ननु चैवं सति पञ्चम्या निर्देशः स्यात्‌? नैष दोषः; `सुपां सुलुक्‌' (7.1.39) इति लुका निर्दष्टत्वात्‌। एवं तर्हि प्रातिपदिकेषु गवादिपाठसामर्थ्यात्‌ प्रत्याहारग्रहणं न भवति; अन्यथा हि गवादीनां पाठोऽनर्थकः स्यात्‌। एतत्‌ सर्वं मनसि कृत्वाऽऽह-`उवर्णान्तात्‌' इति। सर्वत्रग्रहणे तदन्तविधेरभ्युपगमादित्यभिप्रायः। `शङ्कव्यम्‌' इति। `ओर्गुणः' (6.4.146) `वान्तो यि प्रत्यये' (6.1.79) इत्यवादेशः। `सनङगुः' इत्यादि। चर्मविकारलक्षणस्याञोऽव काशाः--वार्ध्रम्‌, वारत्रम्‌, उवर्णान्तलक्षणस्य यतोऽवकाशः--शङ्कव्यम्‌ पिचव्यमिति; सनङगुर्नाम चर्मविकारः, तत्रोभयप्राप्तौ परत्वात्‌ `चर्मणोऽञ्‌' (5.1.15) इत्यञ्‌ प्राप्नोति `तथा' इत्यादि।
`अन्नविकारेभ्यश्च' इति। अपूपादिलक्षणास्य प्क्षीकस्य यतोऽवकाशः--अपूप्यास्तण्डुलाः, अपूपीया इति, उवर्णान्तलक्षणस्य स एव; चरुर्नाम हविर्विशेषः; सक्तुश्चान्नविकारः, तत उभयप्रसङ्गे परत्वात्‌ `विभाषा हविरपूपादिभ्यः' (5.1.4) इति हविर्लक्षणोऽन्नविकारलक्षणश्च विधिः प्राप्नोति। तदेवं सनङ्गुशब्दादञ्‌ प्राप्तः, चरुसक्तुशब्दाभ्यां विकल्पेन यत्‌, नित्यश्चेष्यते, तदर्थं पूर्वविप्रतिषेधो भाषितव्य इति। `ओर्गुणः' (6.4.146), `वान्तो यि प्रत्यये' (6.4.79) इत्यवादेशः। `सनङ्गव्यम्‌' इत्यादि। एतच्चेष्टवाचित्वात्‌ परशब्दस्य लभ्यत इत्यवगन्तव्यम्‌।
`गवादिषु नाबि नभञ्चेति पठ्यते' इति। अत्र कस्यचिदियमाशङ्का स्यात्‌--भसंज्ञाप्रतिषेदो विधियत ति, ततश्च यस्येति लोपेन भवितव्यमित्यत आह--`नाभिशब्दो यत्प्रत्ययम्‌' इति। शरीरावयवो यो नाभिशब्दस्तत्र कथं भवितव्यमित्याह--`यस्तु' इत्यादि। ततः शरीरावयवाद्यति कृते परत्वात्‌ `नाभ्यं तैलम्‌' इति। ननु च शरीरावयवलक्षणे यति सति नभभावः कस्मान्न भवतीतियाह-`गवादिषु यता' इत्यादि। स हि गवादियता सह विहितः। तेन `सन्नियोगशिष्टानामन्यतराबाव उभयोरप्यभावः' (व्य.प.48) इति नभभावो न भवति।
`शुनः' इत्यादि। श्वन्नित्येतस्य सम्प्रसारणे कृतेऽन्नन्तताऽस्तीति `नस्तद्धिते' (6.4.144) इति टिलोपेन भाव्यमेवेति। एवं तर्हि सम्प्रसारणसामर्थ्यान्न भवति? नैतदस्ति; `यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्तु विदेर्निमित्तमेव नासौ बाध्यते' (व्या.पा.56) इति तदवस्थो दोषः। दीर्घविधानसामर्थ्यादिति चेत्‌? एवमपि पक्षे स्यात्‌।
एवं तर्ह्यन्यथा व्याख्यायते। इह चकारद्वयं पठ्यते--सम्प्रसारणञ्ज, वा दीर्घत्वञ्चेति। द्वितीयश्चकारी भिन्नक्रमः सम्प्रसारणसमीपे द्रष्टव्यः। स च समुच्यार्थोऽन्यस्य समुच्चेतव्यस्याभावात्‌ तदेव समुच्चिनोति। तत्र सम्प्रसारणमेकेन क्रियते द्वितीयेन तद्रूपस्यैवावस्थितिरिति। `तत्सन्नियोगेन' इत्यादि। तदित्यनेन दीर्घत्वं प्रत्यवमृश्यते। तेन दीर्घत्वेन यत एवान्तोदात्तत्वं भवति; अन्यथा `यतोऽनावः' (6.1.213) इत्याद्युदात्तत्वं स्यात्‌। `ऊधसोऽनङ्‌ च' इति। ऊधःशब्दस्यानङादेशो भवति, चकाराद्यच्य। `ऊधन्यः'। पूर्ववत्‌ प्रकृतिभावः।।

3. कम्बलाच्च संज्ञायाम्‌। (5.1.3)
ननु `अपरिमाणविस्ताचितकम्बल्येभ्यः' (4.1.22) इति निपातनादेव कम्बल्य इति सिध्यति कम्बल्यं हि परिंमाणविशेषः, इतरथा हि कम्बल्यशब्दस्य तत्र ग्रहणमनर्थकं स्यात्‌, परिमाणविशेषस्य कम्बल्यशब्दो नामदेयम्‌; अयमपि प्रत्ययः संज्ञायां विधीयमानस्तत्रैव भवति, नान्यत्र; नह्यत्र कम्बल्यशब्दः संज्ञा, तस्मान्नार्थोऽनेन? नैतदस्ति; निपातनेन हि कम्बल्यशब्दः परिमाणे साधुरित्येतावत्‌ प्रतीयते, न तु यदन्तोऽयमिति। ततश्चान्तस्वरितत्वं न स्यात्। तस्मात्‌ स्वरितत्वपरिज्ञानार्थमिदं कर्त्तव्यम्‌। अनन्तरश्रुतस्य यतोऽनुकर्षणार्थश्चकारः। ननु स्वरितत्वादेव यद्भविष्यति? छोऽपि तर्हि स्यात्‌। ननु च च्छस्य सन्निधाने प्रकृतिमात्राच्छ उक्त इति नियमार्थमिदं स्यात्‌, तच्चानिष्टम्‌, यत्‌ पुनर्नियतविषय इति तत्सम्बन्धे विध्यर्थता, विधिनियमयोश्च विधेरेव ज्यायान्‌? नैतदस्ति; छस्यापि सम्बन्धे विध्यर्थता सम्भवति। कथं संज्ञायामित्युच्यते, संज्ञा चानुपात्तावयवार्थापि भति, तत्रानवयवार्थानामप्राक्क्रीतीयत्वाद्धिताद्यर्थाभावे छप्रत्ययार्थमेतत्‌ स्यात्‌, तस्माच्चकरो यत्प्रतययानुकर्षणार्थः कर्त्तव्यः? न कर्तव्यः; इष्टतोऽप्यधिकाराणां प्रवृत्तिनिवृत्ती भवत इति यत एवानुवृत्तिर्भविष्यति, न तु च्छस्य। एवं तर्हि चकार उगवादिभ्य इत्यनुकर्षणार्थः। किमर्थमिदम्‌? सनङ्ग्वादिभ्यः परत्वादञादयः प्राप्नुवन्ति तद्बाधनार्थमिति। अथ गवादिष्वेव `कम्बलाच्च संज्ञायाम्‌' इति कस्मान्न पठति? तत्र पाठे न कश्चिद्गुरुलाघवकृतो विशेष इति यत्किञ्चिदेतदिति।।

4. विभाषा हविरपूपादिभ्यः। (5.1.4)
हविःशब्दो गवादिषु पठ्यते, तेन तस्मान्नित्यं यता भवितव्यम्‌। अत्र हविंर्विशेषाणां ग्रहणम्‌, नस्वरूपस्येति; उगवादिसूत्रे स्वरूपपरिभाषाया उपस्थानात्‌। न हि तत्र सोपतिष्ठमाना केनचिन्निंवार्यते, तेन स्वरूपस्यैव ग्रहणम्‌। तत्र स्वरूपग्रहणे सतीह स्वरूपपरिभाषा नोपतिष्ठते; अन्यथा हि यद्यत्रापि स्वरूपग्रहणं स्यात्‌, ततः स्वतन्त्र एकस्मात्‌ शब्दात्‌ नित्यश्च यतो विधिः स्यादनित्यश्चेत्युभयमेकत्र नोपपद्यत इति न भवति विपर्ययः। अथ वा-हविःशब्दस्येहि पृथगुपादानादर्थप्रधानत्वमवसीयते, अन्यथा ह्यपूपादिष्वेव पठेदिति। `अन्नविकारेभ्यश्च' इति। अन्नविकारः=अन्नप्रकाराः, ते च प्रतययमुत्पादयन्ति विभाषा-उदन्याः, उदनीया इति। यद्येवम्‌, अपूपादीनां किण्वपर्यन्तानामत्र विकारत्वादेव सिद्धत्वात्‌ पाठोऽनर्थको जायते? यदा तर्हि केनचिदाकारसादृश्येनापूपादयोऽर्थान्तरे उपचर्यन्ते, तदर्थमेषां पाठः। किंञ्चान्नविकारग्रहणेनापूपादिषु प्रत्यमिच्छत इहापि स्यात्‌--यवापूपाः, व्रीहितण्डुला इति। प्रतिपदपाठे तु ग्रहणवत्त्वात्‌ तदन्दविधिः पर्युदस्तो भवति। ननु च 'असमासे निष्कादिभ्यः' (5.1.20) इत्यसमासग्रहणाद्भवितव्यमेवात्र तदन्तविधिना, एतेनासमासग्रहणेन पूर्वत्र तदन्तविधिरस्तीत्येषोऽर्थः प्रतिपाद्यते? सत्यमेतत्‌; अपूपादिषु प्रतिपदपाठसामर्थ्यान्न भविष्यति।।

5. तस्यै हितम्‌। (5.1.5)
एतदेव ज्ञापकम्‌-हितयोगे चतुर्थ्यस्तीति। तेन यदुक्तम्‌-`हितयोगे चतुर्थी वक्तव्या' (वा. 123) इत्येतदुपपननं भवति।।

6. शरीरावयवाद्यत्‌। (5.1.6)
शीर्यत इति शरीरम्‌, तेन घटादेरपि ग्रहणं भविष्यतीत्यत आह--`शरीरं प्राणिकायः' इति। एतेन रूढिरियमिति दर्शयति। गवादावेति शरीरावयववाचिनः। तत्र तु याः प्रकृतयस्ताभ्योऽनेनापि पूर्वेणापि वा यति विशे षो नास्त्येव। यत्र विशेषः--`नाभि नभञ्च' (ग.सू.106) इति, स विशेषस्तत्रैव वेदितव्य एव।।

7. खलयवमाषतिलवृषब्रह्मणश्च। (5.1.7)
खलादीनां वृषपर्यन्तानां `यस्येति' (6.4.148) लोपः। `ब्रह्मण्यम्‌' इति। `न संयोगाद्वमन्तात्‌' (6.4.137) इति प्रतिषेधात्‌ `अल्लोपोऽनः' (6.4.134) इत्यकारलोपो न भवति। `नस्तद्धिते' (6.4.144) इति टिलोपोऽपि न भवित; `ये चाभावकर्मणोः' (6.4.168) इति प्रकृतिभावात्‌। वृषशब्दोऽयमत्राकारान्तो गृह्यते, न तु ब्राह्मणशब्दोऽकारान्त इति। ननु चाशङ्का वृषशब्दे युक्ता-नलोपे सति किमयमकारान्तः? आहोस्विन्नकारान्तः? इति, ब्रह्मन्शब्दाच्च यतो निवृत्तिप्रसङ्गाद्‌ ब्रह्मञ्शब्दादपि यचच प्रत्ययो निवर्त्तत इति भावः। अत एवाह--`छप्रत्ययोऽपि' इत्यादि। यत्प्रत्ययापेक्षयापिरयम्‌--न केवलं यत्प्रत्ययो न भवति, अपि तु च्छप्रत्ययोऽपीति। ब्राह्मणशब्दाच्छप्रत्ययाभावो योज्यः। ननु चाभ्यामिहानुपादनाद्‌ यत्प्रत्ययो न भवति, `तस्मै हितम्‌' (5.1.5) इति च्छप्रत्ययस्तु कस्मान्न भवति? इत्याह-`अनभिधानात्‌' इति। न हीह वृषीयम्‌, ब्राह्मणीयमित्युक्ते विवक्षितोऽर्थः प्रतीयते; यतोऽर्थप्रतिपादनं प्रति नियता एव शब्दशक्तयो भवन्तीति क्वचित्‌ प्रत्ययान्तेनार्थस्याभिधानम्‌ष क्वचिद्वाक्येनेति। अतो वाक्यमेवावतिष्ठते-`वृष्णे हितम्‌, ब्राह्मणेभ्यो हितम्‌' इति। वाक्यसमधिगम्यस्यार्थस्य तद्धितेनानभिधानादितदि यावत्‌।।

8. अजाविभ्यां थ्यन्‌। (5.1.8)
अजशब्दोऽयमिह पुंल्लिङ्ग उपात्तः; अविशब्दस्य ध्यन्तशब्दस्यापूर्वनिपातात्‌। आबन्तस्य ग्रहणे ह्यदिशब्दस्य पूर्वनिपातः स्यात्। अदन्तस्य ग्रहणे `द्वन्द्वे धि' (2.2.32) इत्येतस्य बाधितत्वात्‌ `अजाद्यदन्तम्‌' (2.2.33) इत्यजब्दस्य पूर्वनिपातो युज्यते। तस्मात्‌ पुंल्लिङ्गस्य ग्रहणम्‌। तथा व `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति' (व्या.प.29) इति स्त्रीलिङ्गादपि प्रत्ययो भवत्येव-अजाभ्यो हितमजथ्यम्‌। `तसिलादिष्वाकृत्वसुचः' (6.3.35) इति पुंवद्भावः। परिसंख्यायन्ते हि तत्र तसिलादयः, तेषाञ्च मध्ये परिसंख्यातौ --------ग्रहणे शब्दान्तरतवादिकरान्तात् पुंल्लिङ्गान्न स्यात्‌।।

9. आत्मन्विश्वजनबोगोत्तरपदात्‌ खः। (5.1.9)
अयात्मन्नित्यत्र नलोपः कस्मान्न कृतः, यावता द्वन्द्वेनायं निर्देशः क्रियते, तत्र `नलोपः प्रातिपदिकान्तस्य' (8.2.7) इति नलोपः प्राप्नोति? इत्यत आह-`आत्मन्‌' इत्यादि। आत्मन्नित्येव भवत्येषा प्राकृतिरिति ज्ञापनार्थं नलोपो न कृतः। कः पुनरेवं सति विशेषः? इत्याह-`तेन' इत्यादि। गतार्थम्‌। यद्येवम्‌, विश्वजनशब्देन ह्युत्तरपदस्य सम्बन्धः प्राप्नोति? एवं मन्यते-आत्मन्निति नलोपाबावेन प्रत्येकं वाक्यपरिसमाप्तेर्व्यभिचारस्य दर्शितत्वात्‌ ततः प्रत्यासतेर्भोगशब्देनैव सम्बध्यते, न तु विश्वजनशब्देनेति नासति दोषः। `कर्मधारयादेवेष्यते' इति। वार्यपारम्पर्योपदेशात्‌। विभावाग्रहणानुवृत्तेर्व्यवस्थितविबाषाविज्ञानाद्वेदं वेदितव्यम्‌। विश्वस्य जनो विश्वजनः, विश्वो जनोऽस्येति विश्वजन इति समासेन भवितव्यम्‌। यथा खो न भवति तथा च्छोऽपि न भवतीत्याशङ्क्याह-`बहुव्रीहिस्तु' इत्यादि।
`उपसंख्यानम्‌' इति। प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्‌-इह हि भोगसमासादिति वाक्तव्ये उत्तरपदग्रहणमधिकविधानार्थम्‌। न चैवं सति बहुपूर्वादीषदसमाप्तौ भोगो बहुभोग इत्यस्मात्‌ खः स्यादित्याशङ्कनीयम्‌; बहुच्प्रच्प्रत्ययस्य समासाबावात्‌। ततोऽत्रि छेनैव भवितव्यम्‌--बहुभोगीय इति। तेन पञ्चजनादपि भविष्यति। संज्ञाशब्दश्चायम्‌; `दिक्संख्ये संज्ञायाम्‌' (2.1.50) इति समासः। तथा सर्वजनादपि वेदितव्यः। `तत्पुरुषादेव' इति। विशेषानभिधानेऽपि महाजनादिति निर्देशादेव समानाधिकरणादेव भोगशब्दोऽयं भावसाधनः--भुक्तिर्भोग इति, कर्मसाधनो वा--भुज्यत इति भोग इति। अयमव्युत्पन्नः शरीरवाचीस, तस्येह ग्रहणमित्याह--`भोगशब्दः' इत्यादि। भोगशब्दः शरीरमेव प्रतिपादयतीत्यर्थः। यत्र वर्त्तमानोऽयं साक्षात्‌ सम्बन्धमाह, तत्रैव खप्रत्ययमासादयति। वर्त्तते च क्रियायां द्रव्ये च। तथा हि--यद्यपि भुजिक्रियया द्रव्येण च सम्बन्धोऽस्ति, तथापि शरीरेण मुख्यः सम्बन्ध इति ततो भवति प्रत्ययः। यथा राजाचार्याभ्यां वाक्यमेव भवति, तथेहापि भवितर्व्यामिति यश्चोदयेत्‌, तं प्रत्याह--`आचार्यादणत्वम्‌' इति। क्षुभ्नादिपाठात्‌। `केवलाभ्यां वाक्यमेव भवति' इति। छप्रत्ययो न भवति, अनर्भिधानादेव।।

10. सर्वपुरुषाभ्यां णढञञौ। (5.1.10)
`सर्वाण्णस्य वावचनम्‌' इति। अभिधानेऽभिधेयोपचाराद्वेति विकल्प्माह। इहापि विभाषाग्रहणानुवृत्तेरेव वेदितव्यम्‌। न च सर्वपुरुषाभ्यां विकल्प आशङ्का; व्यवस्थितविभाषात्वात्‌।
'पुरुषाद्वध' इति। तत्र वधे--`तस्येदम्‌' (4.3.120) इत्यणोऽपवादः, विकारे--`प्राणिरजतादिब्योऽञ्‌' (4.3.154) इत्यञः, समूहेऽपि--`तस्य समूहः' (4.2.37) इत्यणः। `तेन कृते ग्रन्थे' [`कृते ग्रन्थे' इत्येव पाणिनीयं सूत्रम्‌] (4.3.116) इत्यण एव।।

11. माणवचरकाभ्यां खञ्‌। (5.1.11)
उभयस्मिन्‌ ञित्करणं स्वरार्थम्‌। चरके वृद्ध्यर्थं च। माणवे तु `वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे' (6.3.39) इति पुंवद्भावप्रतिषेधार्थम्‌। माणवीना बार्यां यस्य स माणवीनाभार्य इति।।

12. तदर्थं विकृतेः प्रकृतौ। (5.1.12)
तस्मै इदं तदर्थम्‌, `चतुर्थी तदर्थ' (2.1.36) इत्यादिना समासः। एतदेव वचनं ज्ञापकम्‌--अर्थोत्तरपदे समासे समुदायार्थस्य लिङ्गं भवति, न च परवल्लिङ्गतेतिं। एतेन यदुक्तं--`अर्थेन नित्यसमासः सर्वलिङ्गता च वक्तव्या' (वा.78) इति सा सिद्धा भवति। `प्रकृतिरुपादानकारणम्‌' इति। समानजातीयमभिन्नसन्तानवृत्ति कारणमुपादनकारणमित्युच्यते। उपादीयत इत्युपादानम्‌, बहुलवचनात्‌ कर्मणि ल्युट्‌, तस्य कारणमिति षष्ठीसमासः। `तस्यैव व' इत्यादि। तस्यैवोपादानकारणस्योत्तरभाव्यस्थाविशेषो विकृतिः। `विकृतिवाचिनः' इत्यादि। ननु च `समर्थानां प्रथमाद्वा' (4.1.82) इति वचनात्तदर्थमिति प्रथमं निर्दिष्टत्वात्‌ प्रकृतेश्च तदर्थत्वात्‌ तद्वाचिन एव प्रत्ययः प्राप्नोति? नैष दोषः; प्रथमस्य चाप्रथमस्य च कार्यप्राप्तौ प्रथमादेव यथा स्यादित्येवमर्थं प्रथमग्रहणं नियमार्थं कृतम्‌। इह तु प्रथमात्‌ प्राप्तिरेव नास्ति। `प्रकृतौ' इति। सप्तम्या प्रकृतेः प्रत्ययार्थत्वेन सम्पादितत्वात्‌। `विकृतेः' इति। पञ्चम्या विकृतेः प्रकृतित्वेन तस्मान्नायमस्य विषय इति विकृतिवाचिन एव प्रत्ययो भवति। `विकृत्यर्थायाम्‌' इति। अनेन तदर्थमित्यत्र सुब्व्यत्ययेन सप्तम्याः स्थाने प्रथमा, लिङ्गव्यत्ययेन च स्त्रीलिङ्गस्य स्थाने नपुंसकलिङ्गं कृतमिति दर्शयति। ननु च छन्दसि व्यत्यय उक्तः, नेदं छन्दः, तत्कुतो व्यत्ययः? `छन्दोवत्सूत्राणि भवन्ति' (म.भा.1.1.1) इत्यदोषः। `तदर्थग्रहणेन' इत्यादि। इह प्रकृत्यन्तरनिवृत्तिः--यवानां धानाः, धानानां सक्तव इति। क्वचिद्विकारस्य प्रकृतिसम्बन्धः--धानानां यवाः, सक्तूनां धाना इति। क्वचित्‌ प्रकृतेरनन्यार्थता, यथा--काष्ठानामङ्गाराः। प्रकृतेरनन्यार्थताख्यानार्थेन यदिष्टं सम्पद्यते, तद्दर्शयति--`प्रत्ययार्थस्य च' इत्यादि। इह विकृत्यर्थायां प्रकृतौ प्रत्यय उच्यते। तस्य तस्मात्‌ तादर्थ्ये चतुर्थ्येव शक्यते प्रतिबोधयितुम्‌। अतः प्रत्ययार्थस्य तदर्थत्वेन सामर्थ्याच्चतुर्थी समर्थविभक्तिर्लभ्यते। `केचित्तु' इत्यादि। तेषां वचनलभ्यैवु चतुर्थी समर्थविभक्तिः।
`तदर्थम्‌' इति। किमिति षष्ठी प्रत्युदाह्रियते? षष्ठ्यति तादर्थ्यं ब्रूते, यथा--गुरोरिदं गुर्वर्थमिति। तथा सति षष्ठ्यपि समर्थविभक्तिर्भवति। अङ्गाराणां काष्ठानीति प्रत्युदाहरणं तु प्रकृत्यन्तरनिवृत्त्या, तया यवादेः समर्थ्येते। अङ्गारेभ्यः काष्ठानि, प्राकारेभ्य इष्टका इति। इदमसति तदर्थग्रहणे न ज्ञायते किमर्थं विवक्षितमिति। तस्मादनन्यार्थता प्रकृतेर्विवक्षितेति। एतत्‌ प्रयोजनं प्रतिपादयितुं तदर्थग्रहणं कृतमिति भावः। तथा च प्रकृत्यन्तरनिवृत्या प्रकृतिरेव सम्बध्यमाना व्यतिरिच्यत इति यवादेरेव व्यतिरेकविभक्तिर्भवति। ये तु चतुर्थींमनुवर्त्तयन्ति, तेषां तदरथग्रहणं चतर्थीविशेषणं विज्ञायते--तादर्थ्ये चतुर्थीति। तत्र मूत्राय कल्पते यवागूरिति प्रत्युदाहरणम्‌। तेषां चतुर्थ्यनुवृत्तिरपार्थिका; तदर्थग्रहणेनैव गतार्थत्वात्‌। तथा च या तादर्थ्यसमानार्था षष्ठी सा चासत्यां विशेष्यते। `या काचित्‌' इतचि। न तूपादानकारणभूतापीत्यर्थः। स्यादेतत्‌--कूपः प्रकृतिरुदकस्य न भवत्येव; ततस्तन्निवृत्त्यर्थं विकृतिग्रहणं न कर्त्तव्यमित्यत आह--`भवति च' इत्यादि। चशब्दोवधारणे। ननु चान्येभ्य एव स्वकारणेभ्य उदकमुत्पाद्यते, तत्कथं कूपस्तस्य प्रकृतिः? इत्याह--`तत्रोत्पादनात्‌' इति। यथैव हि प्रयाजादीनां धर्माणामुत्पत्त्याधारभूतौ दर्शपौर्णमासौ प्रकृतौ भवतः, एवमुदकस्योत्पत्त्याधारभूतत्वात्‌ कूपः प्रकृतिर्भवति। यद्येवम्‌, उदकमपि तस्य विकृतिः? इत्याह--`ननु' इत्यादि। अत्रैवोपपत्तिमाह--`अत्यन्तभेदात्‌' इति। विकारो हि प्रकृतेरुत्तरमवस्थान्तरमिति ततो नात्यन्तभिन्नो भवति, यथा--काष्ठानामङ्गाराः। ते हि पार्थिवेनाभिन्नसन्तानवर्त्तित्वेन काष्ठेभ्यो नात्यन्तं भिद्यन्ते। उदकं तु भिन्नस्वभावत्वाद्भिन्नसन्तानवर्त्तित्वाच्च कूपादत्यन्तं भिन्नम्‌। अतो न तस्योत्तरमवस्तान्तरमिति न भवति विकृतिः।
`न तु कोशी तस्य प्रकृतिः' इति। अतत्कारणत्वात्‌, अनुत्पत्त्याधारभूतत्वाच्च। ननु च प्रकृतिर्विकृतिरिति सम्बन्धिशब्दावेतौ। सम्बन्धिशब्दश्च नियत एव प्रतियोगिनि प्रतीतिमुपजनयति, यथा हि--`मातरिवर्त्तितव्यम्‌' इत्युक्ते न चोच्यते `स्वस्यां मातरि' इति, या यस्या माता तस्यामिति प्रतीयते। एवं सति कूपलक्षणायां प्रकृतौ विकृत्यर्थायां प्रत्ययार्थत्वेन विवक्षितायामसत्यपि विकृतग्रहणे तस्यैव कूपस्य या या विकृतिस्तत एव प्रत्ययो विज्ञायते। तथा च विकारवाचिनोऽसिशब्दात्‌ प्रत्यये विधित्सिते यस्यासौ प्रकृतिस्तस्यामेव तदर्थायां प्रकृतावसत्यपि प्रकृतिग्रहणे प्रत्ययो विज्ञायते। तस्मादन्यतरोपादानेऽपि सर्वमिष्टं सम्पद्यते। न किञ्चिदनिष्टमापद्यत इत्याह--`तदर्थं द्वयोरपि' इत्यादि। अनेनैवं मन्यते--स्यादेतदेव यदासौ प्रकृतिविकृतिशब्दौ नियोगतः सम्बन्धिशब्दौ, न चेमौ नियोगतः सम्बन्धिशब्दौ। तथा हिं, विपूर्वस्तावदयं करोतिंरस्त्येवापकारे--देवदत्तोऽस्थित्यै विकरोतीति; अस्ति चेष्टानानात्वे--विकुर्वते च्छात्रा इति; अस्त्यनौचित्ये--विकृतिरेषा स्त्रीणां यत्‌ स्वातन्त्र्यमिति। अस्ति कार्ये--तन्तुनां पटो विकार इति। तता प्रपूर्वोऽप्ययमस्ति कारणे--तन्तवः प्रकृतिः पटस्येति; अस्तिं चौदासीन्ये--सत्त्वानां प्रकृतिरिति। तान्युच्यन्ते यान्यनारम्भकाणि; अस्ति दोषापगमे--प्रकृतिस्तोऽयमिति। अस्ति स्वभ्वे-प्रकृत्याऽभिरूप इति; अस्ति धर्माणामुत्पत्त्याधारे, यथा-दर्शपौर्णमासौ धर्माणां प्रकृतिस्थोऽयमिति। असति स्वभावे-प्रकृत्याऽभिरूप इति; अस्ति धर्माणामुत्पत्त्याधारे, यथा-दर्शपौर्णमासौ धर्माणां प्रकृतिरिति। तदेवमर्थबहुत्वादनयोः सर्म्बान्धत्वमनैकान्तिकमिति, अतोऽन्यतरग्रहणे न सिध्यति। न चान्यतरेण शक्यते वक्तुं विवक्षितः प्रकृतिविकारभावः। अयमुपादानकारणस्य तदुत्तरावस्थाभूतस्य च यो विकारः स इह वेदितव्यः। यदि तु विपूर्वः करोतिरनेकार्थः, `तस्य विकारः' (4.3.134) इत्यत्रापि सन्देहापगमाय तर्हि प्रयतितव्यम्‌? सत्यमेतत्‌; शैलीयमाचार्यस्य यस्य क्वचिदभिधानमाश्रयति, क्वचन्न्यायम्‌, क्वचिद्वचनमिति तत्‌ सर्वमुच्यते। तेन सर्वं प्रत्याय्यते।।

13. छदिरुपधिबलेर्ढञ्‌। (5.1.13)
यदा छदिश्चर्मविकारो विवक्ष्यते तदापि ढञेवेष्यते--छादिषेयं चर्मेति। ननु च परत्वात्‌ `चर्मणोऽञ्‌' (5.1.15) इत्यञ्‌ प्राप्नोति? नैष दोषः; `चर्मणोऽञ्‌' इत्यत्र छदिषो ढञनुवर्त्तिष्यते।
यथा छदिःशब्दाद्वलिशब्दाच्चतुर्थीसमर्थात्‌ प्रकृतिविकारभावे प्रत्यय उपजायते, तथोपधिंशब्दादपि भवतिव्यमित्याशङ्क्याह--`उपधिशब्दात्‌' इत्यादि। अत्र युक्तिमाह--`उपधीयते' इत्यादि। तेन `कर्मण्युपसर्गे घोः किः' इति दर्शयति। तेन च द्रव्यस्यानासादितोत्तरावस्थस्याभिधानम्‌। यद्युपधिंशब्दाद्विकृतिवाचिनः स्यात्‌, एवमर्थान्तरे स्यात्‌। न चासौ प्रकृतिविशेषे भवति। न तूपधिशब्दाद्वाच्यस्य प्रत्यान्तरस्य प्रकृतिविकारभावोऽस्ति, अबेदात्‌। तथा हि--यदेव रथाङ्गमुपधिशब्देनोच्यते तदेवानासादितोत्तरावस्थमौपधेयशब्देनापि। स्यादेतत्‌--यदा भावसाधन उपधिंशब्द उपधानमुपधिरिति तदा नास्ति भेदः, क्रियाभिधानात्‌; यदाप्युपधिशब्देन क्रियाद्रव्यस्य विकार उच्यते तदौपधेयशब्देन च तत्प्रकृति द्रव्यम्‌, अतः प्रकृतिविशेषे परप्रत्ययौ भविष्यतीति? एतच्चायुक्तम्‌; न हि क्रियाद्रव्यस्य विकारो युज्यते; अत्यन्तभेदात्‌। तस्मात्‌ स्थार्थं एवोपधिंशब्दात्‌ प्रत्ययो विज्ञायते।।

14. ऋषभोपानहोर्ञ्यः। (5.1.14)
`चर्मण्यपि' इत्यादि। ञ्यस्यावकगाशः--औपानह्यो मुञ्जः, अञोऽवकाशः--वार्ध्रम्‌, वारत्रम्‌; चर्मणि प्रकृतित्वेन विवक्षिते सत्युभयप्राप्तौ पूर्वविप्रतिषेधेन ञ्य एव भवति--औपानह्यं चर्मेति।।

15. चर्मणोऽञ्‌। (5.1.15)
`चर्मणः' इति पञ्चमी वा स्यात्‌? षष्ठी वा? यदि पञ्चमी, चर्मण एव प्रत्ययो भवेत्‌, न चर्मविकारवाचिभ्यः। एतच्च कुतो लभ्यते? अनभिधानात्‌। तथा हि प्रकृतिविशेष एव प्रत्यय इष्यते। न च चर्मशब्दादुत्पन्ने प्रत्यये विवक्षितार्थस्याभिधानमस्ति। तस्मान्नेयं पञ्चमी, अपि तु षष्ठी।।

16. तदस्य तदस्मिन्‌ स्यादिति। (5.1.16)
द्वितीयाशङ्कामपनिनीषुराह--`तत्‌' इत्यादि। अस्तेरकर्मकत्वादित्यभिप्रायः। अवयवार्थपूर्वत्वादवयव्यर्थस्येत्याह--`अस्य' इत्यादि। करोतीति करणः। कर्त्तरि बहुलवचनाल्लयुट्‌। इतिश्चासौ करणश्चेति कर्मधारयः। `सम्भावनेऽलमिति चेत्सिद्धाप्रयोगे' (3.3.154)।
ननु च प्राकारीया इष्टकाः, प्रासादीयं दार्विति च पूर्वेणैव सिद्धम्‌, तथा हि--यासामिष्टकानां यस्य च दारुणो बहुत्वेन प्राकारः प्रासादश्च सम्भाव्यते, तासामिष्टकानां तस्य च दारुणो यथासंख्येन प्राकारप्रासादौ विकारौ भवतः, तादर्थ्याच्चेष्टकानां दारूणाञ्चास्तीवेत्यत आह--`प्रकृतिविकार' इत्यादि। गतार्थम्‌।
`द्विस्तद्ग्रहणम्‌' इत्यादि। इत्येष न्यायोऽनेन प्रदर्श्यते। `तदस्यास्त्यस्मिन्निति मतुप्‌' (5.2.94) इत्यादौ नैकः प्रत्ययार्थः। तत्र तत्समुदायेन समर्थविभक्तेः सम्बन्धो विज्ञायते। ततश्च यत्र द्वाभ्यां प्रत्ययार्थाभ्यां समर्थविभक्तेः सम्बन्धः सम्भवति--शाखावान्‌ वृक्ष इत्यादौ, तत्रैव तत्‌ स्यात्‌। यत्र त्वन्यतरेणैव सम्बन्धः--गोमान् देवदत्तः, वृक्षवान्‌ पर्वत इत्यादौ, तत्र न स्यात्‌। अस्मिंस्तु न्याये प्रदर्शिशते सर्वत्र भवति।।

17. परिखाया ढञ्‌। (5.1.17)
परिखाशब्देन चात्र खेयमुच्यते।।

18. प्राग्वतेष्ठञ्‌। (5.1.18)
प्राग्वचनं `शीर्षच्छेदाद्यच्च' (5.1.65), `दण्डादिभ्यो यः' (5.1.66) इत्येवमादिनाधिकारवता ठञि विच्चिन्ने `पारायणतुरायणचान्द्रायणं वर्त्तयति' (5.1.72) इत्येवमादावर्थनिर्देशे ठञेव यथा स्यादित्येवमर्थम्‌।।

19. आर्हादगोपुच्छसंख्यापरिमाणाठ्ठक्‌। (5.1.19)
`तदर्हति' (5.1.63) इत्येको विधिः, `तदर्हम्‌' (5.1.117) इति द्वितीयः, तत्‌ कस्येहावधित्वेनोपादानम्‌? इत्याह--`तदर्हति' इत्यादि। इतरस्य ग्रहणं कस्मान्न भवति? एवं मन्यते यदि तस्य ग्रहणभिप्रेतं स्यात्‌ 'प्राग्वतेः' (5.1.18) इत्यनेनैव सम्बन्धं कुर्यात्‌, न `आर्हात्‌' इत्यनेन। ननु च वत्यर्थेऽपि नैतदस्ति; यद्यपि वत्यर्थेऽपि ठगधिक्रियते, तथापि तत्र तेन न भवितव्यम्‌; प्रतिपदविहितेन वतिना बाधितत्वात्‌, अनभिधानाद्वा। तस्मादर्हतिशब्दैकदेशस्यैवार्हशब्दस्यावधित्वं न्याय्यम्‌। `गोपुच्छादीन्‌ वर्जयित्वा' इति। कथं पुनरेतज्ज्ञायते--अगोपुच्छादिति प्रतिषेधोऽयमिति? अन्यस्यार्थस्येहासम्भवात्‌। ननु चायमर्थः स्यात्‌--अगोपुच्छशब्दात्‌ संख्यायाः परिमाणाच्चेति? अशक्योऽयमर्थं इह सम्भावयितुम्‌। यदि ह्ययमर्थः स्यात्‌, निष्कादिभ्यः परिमाणादेव सिद्धत्वात्‌ पुनर्वचनमनर्थकं स्यात्‌। ननु च नियमार्थं पुनर्वचनं स्यात्‌--असमास एव यथा स्यादिति? नैतदस्ति; न हि विधौ सति नियमार्थता युक्ता। नियमे हि सत्यवक्तव्यस्य त्यागाच्छब्दबाधनम्‌। किञ्च, सिद्धञ्च पुनर्वचनमुपादीयत इति, उक्तानुवादे दोषश्च। विधौ तु न शब्दबाधनम्‌, नानुवादोष इतदि। विधिनियमसम्भवविचारे विधिनैव युक्तं भवितुम्‌। तस्मादन्यस्येहार्थस्यासम्भवात्‌ `अगोपुच्छात्‌' इति प्रतिषदोऽयमिति विज्ञायते। ज्ञापकात्प्रकृतरतर न विवक्ष्यते, यदयम्‌ `लोकसर्वलोकाट्ठञ्‌' (5.1.44) इति ठको निवृत्त्यर्थं ठञं करोति। `अभिविधावयमाकारः' इति। मर्यादायां हि वर्त्तमानस्याकारस्यात्र ग्रहणमनर्थकं स्यात्‌, प्राग्ग्रहणानुवृत्त्यैव सिद्धत्वात्। अभिविधिवृत्तेराकारस्य ग्रहणे सत यदिष्टं सम्पद्यते, तद्दर्शयितुमाह--`अर्हत्यर्थेऽपि ठग्भवति' इति।
`भेदगणनं संख्या' ति। भिद्यन्त इति भेदाः, भिन्नाः पदार्थाः, ते गण्यन्ते संख्यायन्ते परिच्छिद्यन्ते येन तद्भेदगणनम्‌, एकत्वादि। संख्याभेदे हि सति पदार्थनुसङ्कल्पनमेकत्वादिभिः क्रियते। एकत्वसंख्याऽपि बहुषु सन्निवेशितेषु भेदमेकमसहायमाह। `गुरुत्वमानमुन्मानम्‌' इति। सुवर्णादेर्वस्तुनो गुरुत्वमुत्क्षिप्यते, येन तदुन्मानं तुलादि। `आयाममानं प्रमाणम्‌' इति। तिर्यगभिमुखस्य वस्तुनो येनायामपरिच्छेदः क्रियते तत्‌ प्रमाणम्‌, वितस्त्यादि। `आरोहपरणाहमानं परिमाणम्‌' इति। आरोहतः परिणाहतश्च मीयते व्रीह्याद्यर्थो येन तत्परिमाणम्‌। आरोहः उच्छ्रायः, परिणाहः विस्तारः।
संख्यापरिमाणयोर्भेदे पृष्टे यदुन्मानादीनां विशेषप्रदर्शनं तत्प्रसङ्गेन तद्विषयस्याज्ञानस्यापनयनार्थम्‌। संग्रहेण किलशब्द एवमादिमतमाचार्याणामित्यर्थं सूचयति। `सर्वतः' इति। आरोहतः परिणाहतश्चेत्यर्थः। `संख्या बाह्या तु सर्वतः' इति। उन्मानात्‌ परिमाणात्‌ प्रमाणाच्च संख्या बाह्या; तत्रानन्तर्भावात्‌।।

20. असमासे निष्कादिभ्यः। (5.1.20)
'ठञोऽपवादः' इति। येन नाप्राप्तित्यायेन (व्या.प.49)। निष्कादिभ्यो द्रोणपर्यन्तेभ्यः परिमाणशब्दत्वात्‌ षष्ठिशब्दस्य संख्याशब्दत्वाट्ठकि पर्युदस्ते ठञेव प्राप्नोति, अतस्तस्यैवायमपवादः। `तेदन्ताप्रतिषेधस्य' इति तदन्तविधेरप्रतिषेधस्येत्यर्थः। यदि तर्हि तदन्तात्‌ प्रत्ययो विज्ञायते, एवं तर्हि `व्यपदेशिवद्भावोऽप्रातिपदिकेन' (शा.प.65) इति केवलेभ्य- प्रत्ययो नोपपद्यते? नैष दोषः; असमासगरहणेन हि ग्रहणवत्परिभाषाया (व्या.प.89) निवृत्तिराख्याता, निवृत्तायाञ्च `ये नविधिस्तदन्तस्य' (1.1.72) इति तदन्ताद्भवति। तत्र च `स्वस्य च रूपस्य' (काशिका.1.1.72) इति प्रकृतत्वात्‌ केवलादपि भवति। यत्तु मन्यते-`अपूर्वोपादानसामर्थ्यात्‌ केवलादिति लाघवार्थं केवलानां पाठः स्यात्‌' इति, यत्किञ्चदेतत्‌।
`इत उत्तरञ्च' इत्यादि। कथं पुनरिष्यमाणोऽपि तदन्तविधिर्लभ्यते, यावता `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न' (व्या.प.89) इति प्रतिषिध्यते? अस्याः परिभाषाया अनित्यत्वात्‌। अनित्यत्वं तु तस्या गर्गादिषु `वाजासे' इति समासे प्रत्ययप्रतिषेधाद्गम्यते। नित्यत्वे हि वाजशब्दादुत्पद्यमानस्य प्रत्ययस्य समासे प्राप्तिरेव नास्तीति प्रतिषेधं कुर्यात्‌। `द्विशूर्पम्‌' इति। द्वाभ्यां शूर्पाभ्यां क्रीतमिति तद्धितार्थे द्विगुं कृत्वा। न तावदेषा लुगन्ता प्रकृतिरिति संख्यापूर्वपदादपि `शूर्पादञन्यतरस्याम्‌' (5.1.26) इत्यञेव क्रियते, तस्य `अव्यर्द्धपूर्वद्विगोर्लुगसंज्ञायाम्‌' (5.1.28) इति लुक्‌। `द्विशौर्पिकम्‌' इति। `परिमाणान्तस्यासंज्ञाशाणयोः' (7.3.17) इत्युत्तरपदवृद्धिः। यदुक्तम्‌--`संख्यापूर्वपदानां तदन्तविधिरितीष्यते' इति, यच्चोक्तम्‌--`लुगन्तायास्तु प्रकृतेर्नेष्यते' इति, तदुभयमाप्तागमेन स्थिरीकर्त्तुमाह--`तथा चोक्तम्‌' इत्यादि।।

21. शताच्च ठन्यतावशते।
`कनोऽपवादः' इति। उत्तरसूत्रेण प्राप्तस्य। `शतिकम्‌' इति। `तदस्य परिमाणम्‌' (5.1.57) इति वर्त्तमाने `संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' (5.1.58) इति सङ्घे प्रत्ययार्थे विविक्षित उत्तरसूत्रेण कन्नेव भवति।
`प्रत्ययार्थोऽत्र सङ्घः' इति। शतमध्यायानां परिमाणं यस्य निदानख्यग्रन्थस्य, स चेह प्रत्ययार्थः। स च शतसंख्याव्यवच्छिन्नाव्यायसमुदायात्मक इति सङ्घ एव परत्ययार्तो भवति। `शतमेव वस्तुतः' इति। अव्यायशतस्यानन्यार्थत्वात् ततस्च प्रकृत्यर्थात्‌ न भिद्यते। तदेव ह्यध्यायानां शतं प्रकृत्याभिधीयते, प्रत्ययान्तेनापि तदेवेति नेह प्रकृत्यर्थात्‌ प्रत्ययार्थभेदः। तदेतेन यत्र चाव्यतिरिक्तः प्रकृत्यार्थात्‌ प्रत्ययार्थस्तत्र प्रतिषेधो भविष्यति। न च व्यतिरिक्त इत्येतदाख्यातम्‌। ननु च `सङ्घे चानौत्तराधर्ये' (3.3.42), `संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' (5.1.58) इत्यत्र च प्राणिसमूहे सङ्घशब्दो गृह्यते, ततर कथं ग्रन्थविषयो गृह्यते/ उपचारेणेत्यदोषः। यदि वा संख्यासूत्रे संज्ञाशब्दसाहचर्याद्विशिष्टः सङ्घो गृह्यते। `सङ्घे चानौत्तराधर्ये' इत्यत्रापि `छन्दोनाम्नि च' (3.3.34) इत्यतो नामग्रहणानुवृत्तेः प्राणिसङ्घो गृह्यते। इह तु यत्वाभावाद्‌ गन्थस्यापि ग्रहणमित्यविशेषः। `इह तु' इत्यादि। ननु च शतेऽभिधेये प्रतिषेधेन भवितव्यम्‌, इह च शतद्यं शाटकशतम्‌, शतिकं शाटकशतमित्युक्ते शतं प्रतीयत एव, तत्किमिति प्रतिषेधो न भवति? इत्याह--`वाक्येन' इत्यादि। शत्यशतिकशब्दौ हि सायान्यशब्दौ, सामान्यशब्दाश्च न प्रकरणादिकमन्तरेण विशेषे वर्त्तन्ते। तेन यावच्छाटकशतिमित्येतत्पदान्तरं न प्रयुज्यते, तावत्‌ प्रत्ययार्थस्य शतत्वं नावसीयते। तस्मात्‌ पदान्तरसन्निधौ गम्यमानत्वात्‌ पदान्तरार्थो भवति, न प्रत्यायार्थः। `न श्रुत्या' इति। गम्यत इति सम्बन्धः। यत्र प्रत्ययान्तेन पदान्तरनिरपेक्षेण प्रत्ययार्थस्य शतताऽऽख्यायते, तत्र श्रुत्या प्रत्ययान्तश्रवणमात्रेणैव गम्यते, यथा--प्रत्युदाहरणे शतं परिमाणमस्य शतकमित्युक्ते गम्यत एवैतत्‌--प्रत्ययार्थोऽपि शतमेवेति। इह तु वाक्याच्छतत्वं प्रतीयते। न च पदसंस्कारकाले वाक्यार्थस्तयाङ्गभावोऽस्ति। तदा तस्योपसर्जनत्वात्‌ प्रकृत्यर्थादतिरिक्ते प्रत्ययार्थे प्रतिषेधो भवति, न तु व्यतिरिक्तवाक्यगम्य इति। तदाप्तवचनेन द्रढयितुमाह--`तथा चोक्तम्‌' इत्यादि। शतप्रतिषेधे कर्त्तव्ये प्रकृत्यर्थादन्यस्य प्रत्ययार्थस्य शतत्वेऽप्रतिषेध इत्येतदुक्तं भवति। तत्रान्यत्‌ प्रकृत्यर्थः शतम्‌, अन्यत्‌ प्रत्ययार्थः शतम्‌। तत्र विधिरेव भवति; न प्रतिषेध इति।
केन पनः समासे प्राप्नोति, यतस्तत्प्रतिषेदार्थोऽसमासानुकर्षणार्थश्चकारः क्रियते? इत्याह--`प्राग्वतेः' इत्यादि।।

22. संख्याया अतिशदन्तायाः कन्‌। (5.1.22)
`पञ्चकः पटः' इति। लौकिक्याः संख्याया उदाहरणम्‌। `बहुकः' इत्यादि। परिभाषितायाः। `चत्वारिंशत्कः' इति। `इसुसुक्तान्तात्‌ कः' (7.3.51)।
`अर्थवर्तास्तशब्दस्य ग्रहणात्‌' इति। अर्थवद्ग्रहणपरिभाषया (व्या.प.1.)। `डतेः पर्युदासो न भवति' इति। शब्दापेक्षयाऽवयवषष्ठीति। प्रत्ययस्य य एकदेशस्तिशब्दस्तस्य पर्युदासो न भवति, न ह्ययमर्थवान्‌। `कतिकः' इति। किं परिमाणमेषामिति `किमः संख्यापरिमाणे डति च' (5.2.41) इति डतिः, `टेः' (6.4.143) इति टिलोपः। कतिभिः क्रीतमिति विगृह्य कन्‌। यद्यर्थवतस्तिशब्दस्य ग्रहणम्, नवतेर्यस्तिशब्दस्तस्यापि पर्युदासो न प्राप्नोति; नवतिशब्द एव हि समुदायः संख्याविशेषेणार्थवान्‌, न तदेकदेशस्तिशब्दः? नैष दोषः; नवतिशब्दे यो नवशब्दः सोऽनेकार्थः। तथा च संख्याविशेषावगतमतो नवशब्दात्‌ परो यस्तिशब्दस्तत एत विज्ञायते; तद्भावे भावात्‌। अशीतिशब्दस्य तर्हि तिशब्दस्य पर्युदासो न प्राप्नोति, नासावर्थवान्‌? नापि ततः पूर्वो योऽशीशब्दस्तस्य कश्चिदर्थोऽस्ति, समुदाय एव तु संक्याविशेषेणार्थवान्? नैतदस्ति; यद्यप्यशी-इतिशब्दस्य न कश्चनार्थः प्रकाशते, तथापि प्रतिज्ञायते। अशीतिशब्दो ह्येवं व्युत्पाद्यते--अष्टानां दशानामशीभावः, तिशब्दश्च प्रत्ययः। य एवाष्टानां दशानामार्थः सोऽशीशब्दस्य, यस्तु संखघ्याविशेषः सोऽयं तिशब्दस्यैवेति, ततस्तस्य नानर्थक्यम्‌। एवमपि विशतेः प्रतिषेधो न सिध्यति? स ह्येवं व्युत्पाद्यते--द्वयोर्दशतोर्विन्भावः, शतिंश्च प्रत्यः। तत्र शतिप्रत्ययात्‌ पूर्वस्य भागस्य द्वयोर्दशतोर्योऽर्थः स एव प्रतिज्ञायते शतिप्रत्यस्य, संखायविशेषः, तिशब्दस्य न कश्चित्‌। इष्टमेव तत्‌। संग्राहितः कन्‌ विंशतेः--`तद्विंशतिकम्‌' इति। अथ `अतिशदन्तायाः' इत्यत्रान्तग्रहणं किमर्थम्‌, अतिशच्छब्दस्य न प्राग्वतीयत्वात्‌ प्रत्ययग्रहणपरिभाषयैव (पु.प.ल.वृ.44) तदन्तविधिर्भविष्यति/ एवदेव तर्हि प्रयोजनम्‌--अनयचा परिभाषया तदन्तविधिर्मा भूदिति। किञ्च स्यात्‌? इहैकसप्तत्या क्रीत इति प्रतिषेधो न स्यात्‌; एकसप्तदशतस्तिप्रत्ययस्याविधानात्‌। अन्तग्रहणे तु क्रियमाणे सति समुदायस्यान्ते तिशब्दः श्रुयत इत्यत्रापि प्रतिषेधः सिद्धो भवति।।

23. वतोरिड्‌ वा। (5.1.23)
`वत्वन्तस्य संख्यात्वात्‌' इति। बहुगणसूत्रेण (1.1.23) संख्यासंज्ञाविंधानत्‌। `तस्य' इत्यादि। कथं पुनस्तस्यानेनागमः शक्यो विज्ञातुम्‌, यावता नेह कन्ग्रहणम्‌? यदपि प्रकृतं तदपि प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः? नैष दोषः, `वतोः' इति पञ्चमी `कन्‌' इति प्रथमायाः षष्ठीं प्रकल्पयिष्यति `तस्मादित्युत्तरस्य' (1.1.67) इति। `तावत्कः' इति। तत्परिमाणमस्येति `यत्तदेतेभ्यः परिमाणे वतुप्‌' (5.2.39), `आ सर्वनाम्नः' (6.3.91) इत्यात्वम्‌।।

24. विंशतित्रिंशद्रभ्यां ड्वुनसंज्ञायाम्‌। (5.1.24)
`विंशकः' इति। `ति विंशतेर्डिति' (6.4.142) इति तिशब्दस्य लोपः, अतो गुणे (6.1.97) पररूपत्वम्‌। यस्येति (6.4.148) लोपो न भवति; `असिध्दवदत्रा भात्‌' (6.4.22) इति लोपस्यासिद्ध्त्वात्‌। नन्विहान्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदसंज्ञा, तत्कथं पररूपत्वम्‌? एवं तर्ह्यसिद्धत्वस्यानित्यत्वाद्‌ यस्येति लोपो भविष्यतीत्यदोषः।
`कथं पुनरत्र कन्‌' इति। त्रिंशत्क इत्यधिकृत्य प्रश्नः विंशतिक इत्यत्रार्थवतस्तिशब्दस्य ग्रहणात्‌ पर्युदासो न प्रवर्त्तत इति तमधिकृत्यास्य प्रश्नस्योपन्यासो नोपपद्यते। `योगवभागः करिष्यते'इति। त्रिंशदर्थमित्यभिप्रायः।।

25. कंसाट्‌टिठन्‌। (5.1.25)
`ठञोऽपवादः' इति। न ठकः, कंसशब्दस्य परिमाणवाचित्वात्‌।।

26. शूर्पादञन्यतरस्याम्‌। (5.1.26)
`ठञोऽपवादः' इति। न ठकः, शूर्पशब्दस्य परिमाणवाचित्वात्‌।।

27. शतमानविंशतिकसहस्रवसनादण्‌। (5.1.27)
`ठक्ठञोरपवादः' [`ठञोऽपवादः' इति मुद्रितः पाठः] इति। शतमानं परिमाणम्‌, सहस्रं संख्या, तेनैताभां ठग्न प्राप्नोतीति ठञोऽपवादः। विंसत्या क्रीतं `विंशातिकम्‌' इति। तच्च परमाणमपि सम्भवति। तत्र परिमाणाट्ठञोऽपवादः, अपरिमाणट्ठकः, वसनशब्दाट्ठगपवादः।।

28. अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्‌। (5.1.28)
`अध्यरधकसम्‌' इति। अध्यर्धेन कंसेन क्रीतमिति तद्धितार्थे समासः। `प्राग्वतेः संख्यापूर्वदपानां तदन्तविधिरलुकि' (म.भा. 2.346) इति `कंसाट्‌टिठन्‌ (5.1.25) इति टिठन्‌, तस्य लुक्‌। `द्विकंसम्‌' इति। `अध्यर्धशूर्पम्‌' इति। शूर्पादञन्यतरस्याम्‌' (5.1.26) इत्यञ्‌; ठञन्यतरस्याम्‌, तस्य लुक्‌। यद्यतिर द्विगोः परस्यार्हीयस्य लुग्विधीयते, विशेषानुपादनात्‌ तद्धितलुगन्तादपि द्विगोः परस्य प्राप्नोति--द्वाब्यां शूर्पाभ्यां क्रीतः पटो द्विशूर्पः पटः, द्विशूर्पेण पटेन क्रीतमिति द्विशौर्पिकमिति? नैष दोषः; वक्ष्यमाणं विभाषाग्रहणं पूर्वेणापि सम्बध्यते। व्यवस्थितविभाषा सा। तेन तद्धितलुगन्ताद्‌द्विगोः परस्य न भविष्यति--द्विशौर्पिकमिति। प्राग्वतीये ठञि कृते `परिमाणान्तस्यासंज्ञाशाणयोः' (7.3.17) इत्युत्तरपदवृद्धिः।
`पाञ्चलोहितिकम्‌, पाञ्चकलापिकम्' इति। कस्याचित्‌ परिमाणविशेषस्य नामधेये एते। पञ्च लोहिन्यः परिमाणमस्येति, पञ्च कपालाः परिमाणमस्येति विगृह्य तद्धितार्थे समासः, `तदस्य परिमाम्‌' (5.1.57) इति ठञ्‌, `भस्याऽढे तद्धिते' (वा.731) इति पुंवद्बावाल्लोहिनीशब्दस्येकारनकारनिवृत्तिः।
`अध्यर्धशब्दः संख्यैव' इति। अभिधानेऽभिधेयोपचारं कृत्वा, `अध्यर्धशब्दः संख्यैव' इत्युक्तम्‌। यथैव ह्येकादिका लौकिकसंख्या, एवमध्यर्धंशब्दोऽपि। `स किमर्थं भेदनोपादीयते' [`सः' नास्ति--कासिका] इति। संख्याया इति शेषः. इह हि द्वगोरध्यर्धपूर्वस्य भेदेनोपादनादध्यर्धपूर्वस्य भेदेन संख्याया उपादानं भवतीति। अतस्तस्याध्यर्धशब्दस्य भेदेनोपादानस्य प्रयोजनं दर्शयितुं पृच्छति। `ज्ञापकार्थम्‌' इत्यादिना प्रयोजनमाचष्टे। किं पुनरस्य संख्याकार्यं न भवतीत्याह--`संख्यायाः' इत्यादि।।

29. विभाषा कार्षापणसहस्राभ्याम्‌। (5.1.29)
`अध्यर्धसहस्रम्‌' इति। `शतमानविंशतिक' (5.1.27) इत्यादिना विहितस्याणो लुक्‌। `अध्यर्धसाहस्रम्‌' इति। `संख्यायाः संवत्सरसंख्यस्य च' (7.3.15) इत्युत्तरपदवृद्धिः।
`सुवर्णशत्मानयोरुपसंख्यानम्‌' इति। उपसंख्यानं प्रतिपादनमित्यर्थः। तत्रेदं प्रतिपादनम्‌--`विस्ताच्च' (5.1.31) इत्यतः सिंहावलोकितन्यायेन चकारोऽत्रोपतिष्ठते, स चानुक्तसमुच्चयार्थः, तेन सुवर्णशतमानयोरपि विष्यति। `अध्यर्धसुवर्णम्‌' इति। ठञो लुक्‌, `अद्यर्धशतमानम्‌' इति। `शतमान' (5.1.27) इत्यादि-विहितस्याणः। `अध्यर्धशतमानम्‌' इति। `परिमाणान्तस्य' (7.3.17) इत्यादिनोत्तरपदवृद्धिः। ननु च सुवर्णमुन्मानम्‌, न परिमाणम्‌, तत्कुतस्तस्य बुद्धिः? नैष दोषः; उत्तरपदवृद्धौ हयुन्मानमपि परिमाणमिति गृह्यते। कगुतो ज्ञायते? `असंज्ञाशाणयोः' (7.3.17) इति शाणशब्दस्य प्रतिषेधात्‌। यदि तर्हि तत्रोन्मानं न गृह्येत, तदा शाणस्योन्मानार्थस्य प्राप्तिरेव नास्तीति प्रतिषेधं न कुर्यात्‌। अध्यर्धपूर्वद्विगुभ्यां कार्षापणसहस्रयोर्यथासंख्यं कस्मान् भवति? लक्षणव्यभिचारेण तदभावस्य सूचितत्वात्‌।
इह तावत्‌ `अध्यर्धपूर्वद्विगोः' (5.1.28) इति निर्देशेऽल्पाच्तरत्वाद्‌ ध्यन्तत्वाच्च द्विगुशब्दस्य पूर्वनिपातः प्राप्नोति, `कार्षापणसहस्राभ्याम्‌' इत्यत्राल्पाच्तरत्वात्‌ सहस्रशब्दस्य? तावेतौ निर्देशौ लक्षणान्तरनिरपेक्षतां बोधयन्तौ यतासंख्यपरिभाषाया अप्यभावं बोधयत इति न भवति यथासंख्यपरिभाषा।।

30. द्वित्रिपूर्वान्निष्कात्‌। (5.1.30)
अध्यर्धपूर्वग्रहणमस्वरितत्वान्नोपतिष्ठते। `द्विनिष्कम्‌' इति। द्वाभ्यां निष्काभ्यां क्रीतमिति असमाने ठको विधानादत्र ठञ्‌, तस्य लुक्‌। `द्विनैष्किकम्‌' इति। `परिमाणान्तस्य' (7.3.17) इत्यादिनोत्तरपदवृद्धिः। `बहुपूर्वाच्च' इति। बहुपूर्वद्‌द्विगोर्निष्कशब्दान्तादार्हीयस्य प्रत्ययस्य विभाषा लुग्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्‌--`द्वित्रिभ्यां निष्कात्‌' इत्येव सिद्धे पूर्वग्रहणमधिकं कुर्वतै तत्‌ सूचितम्‌--`अन्यदप्यधिकं किञ्चिदस्ति' इति। तेन बहुपूर्वादपि भवति।।

31. विस्ताच्च। (5.1.31)
`द्वित्रिपूर्वादिति चकारेणानुकृष्यते' इति। ननु च स्वरितत्वादेव द्वित्रिग्रहणमनुवर्त्तिष्यते, स्वरितत्वे सत्यधिकारपरिमाणं न ज्ञायत इति चेत्‌? वार्त्तमेतत्‌। व्याख्यानतोऽदिकारपरमाणं विज्ञास्यते? एवं तर्हि स्वरितत्वादेव द्वित्रिपूर्वग्रहणस्यानुवृत्तौ सिद्धायां यत्तदनुकर्षणार्थं चकरमधिकं करोति, तेनैतत्‌ सूचयति--अन्यदप्यत्र किञ्चिदधिकं भवतीति। तेन बहुपूर्वादपि विभाषा लुक्‌ सिद्धो भवति। `बहिबिस्तम्‌' इति। `द्विबिस्तम्‌' इति द्वौ विस्तो परिमाणमस्येति ठञ्‌, तस्य लुक्‌। `द्विबैस्तिकम्‌' इति। उत्तरपदवृद्धिः।।

32. विंशतिकात्खः। (5.1.32)
`द्वित्रिपूर्वग्रहणं निवृत्तम्‌; पूर्वत्र चानुकृष्टत्वात्‌, अस्वरितत्वाद्वा। शतमानादिसूत्रेण (5.1.27) अणि प्राप्ते तस्य लुकि खो विधीयते। `विधानसामर्थ्यादस्य लुग्न भवति' इति। यदि लुक्‌ स्यात्‌, खविधानमनर्थकं स्यात्‌। न ह्यणः खस्य च लुकि सति कश्चिद्विसेषोऽस्ति।।

33. खार्या ईकन्। (5.1.33)
खारीशब्दस्य परिमाणवाचित्वाट्ठञि प्राप्ते तस्येकन्‌ विधीयते।

`केवलायाश्चेति वक्तव्यम्‌' इति। केवलो योऽसमस्तः खारीशब्दस्ततश्चेकन्‌ भवतीत्ये तदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्‌--इकन्निति वक्तव्ये यदिकनोमात्राधिकस्य विधानं तदन्यदप्यत्र किञ्चद्भवतीति सूचयति, तेन केवलादपि खारीशब्दादीकन्‌ भवतीति। कथं पुनरिकनि रूपं सिध्यति? सवर्णदीर्घत्वेन। ननु च यस्येति लोपः (6.4.148) प्राप्नोति? नैतदस्ति; यदि हि यस्येति लोपः स्यात्‌, टनमेव ब्रूयात्‌।
`काकिंण्याश्चोपसंख्यानम्‌' इति। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनं तु तस्यैवाधिकसूचनार्थस्येकनो विधानमाश्रित्य कर्त्तव्यम्‌।
`केवलायाश्चेत्युपसंक्यानम्‌' [`केवलायाश्च' इत्येव-काशिका] इति। उपसंखयनशब्दस्य प्रतपादनमर्थः। पूर्ववत्‌ प्रकृतेन सम्बन्धः।।

34. पणपादमाषशताद्यत्‌। (5.1.34)
पणपादमाषेभ्यः `असमासे निष्कादिभ्यः' (5.1.20) इति असमासे ठको विधानाट्ठञि प्राप्ते तस्य लुकि शतशब्दादप्यसमासे `शताच्च ठन्यतावशते' (5.1.21) इति ठन्यतोर्विधानात्‌ समासे संख्यालक्षणे कनि यद्‌ विधीयते। `द्विपाद्यम्‌' इत्यादि। ननु पद्भावः कस्मान्न भवति `पद्यत्यतदर्थे' (6.3.53) इति? सत्यम्‌; `पादस्य पदाज्याति' (6.3.52) इत्यत्र प्राण्यङ्गस्यैव पद्भावविधानात्‌। कृत एतत्‌? `आज्याति' इत्यादिना गतिवचनेन सम्बन्धस्तस्यैवोपपद्यते; न परिमाणशब्दस्य। स एव प्राण्यङ्गवाच्युत्तरसूत्रेऽप्यनुवर्तिष्यत इति तस्यैव पद्भाव इष्यते। स्यादेतत्‌--अयमपीह पादशब्दः प्राण्यङ्गवाची, अतो भवितव्यमेवेह पद्भावेन? इत्यत आह--`पद्भावो न भवति' इति। `पद्यत्यतदर्थे' (6.3.53) इति पद्भावः प्राप्नोति, स न भवति। किं कारणमित्याह--`प्राण्यङ्गस्य' इत्यादि। `पादस्य पदाज्यातिगोपहतेषु' (6.3.52) इत्यत्र प्राण्यङ्गस्य पादस्य ग्रहणम्‌। `इदं तु परिमाणग्रहणम्‌' [`परिमाणम्‌-काशिका] इति। पणादिभिः परिमाणैः साहचर्यात्‌ परिमाणं पादो गृह्यते, न प्राण्यङ्गमिति पद्भावस्याप्रसङ्गः।।

35. शाणाद्वा। (5.1.33)
`ठञोऽपवादः' इति। न ठकः; शाणस्य परिमाणत्वात्।

`शताच्चेति वक्तव्यम्‌' इति। शताच्चाध्यर्थपूर्वाद्‌द्विगोश्च यत्प्रत्ययो भवतोत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्यख्यानम्‌--पूर्वसूत्रादिह शतशब्दोऽनुवर्त्तते, तेन तदन्तादपि यद्भवतीति। यद्येवम्‌, पूर्वसूत्रे तस्य पाठोऽनर्थक इति, इहैव शतशाणाब्याञ्चेति वक्तव्यम्‌? नैवं शक्यम्‌; एवं ह्युच्यमाने `द्वित्रिपूर्वादण्च' (5.1.36) इत्यनेनापि शतात्‌ प्रसज्येत। पूर्वसूत्रे तु पाठसामर्थ्यादण्विधौ नानुवर्त्तते। शतशब्दः स्वरितत्वाच्चेहानुवर्त्तमानो वा यतमुत्पादयति।।

36. द्वित्रिपूर्वादण्च। (5.1.36)
`तेन त्रैरूप्यं सम्पद्यते' इति। एकं रूपं सूत्रनिर्दिष्टेऽणि, द्वितीयं चकारसमुच्चिते यति, तृतीयं वाशब्दप्रापितस्य ठञो लुकदि। `द्विशाणम्‌' इति। ठञो लुक्‌।।

37. तेन क्रीतम्‌। (5.1.37)
`साप्ततिकम्‌, आशीतिकम्‌' इति। `प्राग्वतेष्ठञ्‌' (5.1.18) `नैष्किकम्‌'; पाणिकम्‌' इति। `असमासे निष्कादिभ्यः' (5.1.20) इति ठक्‌। `शत्यम्‌, शतिकम्‌' इत। `असमासे निष्कादिभ्यः' (5.1.20) इति ठक्‌। `शत्यम्‌, शतिकम्‌' इति। `शताच्च ठन्यतावशते' (5.1.21) इति। `द्विकम्‌, त्रिकम्‌' इति। `संख्याया अतिशदन्तायाः कन्‌' (5.1.22)।
सामान्यार्थाभिधाने तेनेति तृतीयोपादनादिह कस्मान्न भवति--देवदत्तेन क्रीतम्, पाणिना क्रितम्‌? इत्यत आह--`तेन' इत्यादि। करणे तृतीया। परिमूल्यात्‌ ततः प्रत्ययेन भवितव्यम्‌। `अन्यत्र' इति। अन्यतर मूल्यात्‌ करणे तृतीया भवति। `अनभिधानात्‌' इति। न हि या कर्त्तरि तृतीया याप्यमूल्यात्‌ करणे तृतीयोत्पद्यते, तदन्तादुत्पन्नः प्रत्यायो विवक्षितं वस्तु प्रतिपादयितुमलं सम्भवति। तथा ह--दैवदत्तिकं पाणिकमिति चोक्ते, देवदत्तेन कर्त्रा क्रीतम्‌ पाणिना करणेन क्रीतमित्येषोऽर्थो नावसीयते। देवदत्तेनेति कर्त्तरि तृतीया, पाणिनेति करणे। तदेतदुक्तं भवति--प्रगत्यासन्नविनिमयद्रव्यसम्बन्धानभिधानादिति।
`अनभिधानादेव' इति। न हि प्रास्थिकमित्युक्ते, प्रस्थाभ्यां क्रीतं प्रश्थैर्वा क्रीतमित्येषोऽवगम्यते। तत्र पुनरभिधाने को हेतुः? शब्दशक्तिरीदृशी, किमत्रान्येन हेतुना! अपि च प्रस्थादयः शब्दा अर्थतस्तु परिमाणानामर्थानां वाचका इति तेषामभिधेयस्य प्रचये प्रवृत्तिसम्भवे को हेतुः? नन्वेवं वाक्येऽपि प्रचयो नोपपद्येत? नैष दोषः; वाक्ये हि प्रचयस्य वाचिका विभक्तिरस्तीति प्रचयाभिधानं न विरुध्यते। वृत्तौ तु न कश्चित्‌ प्रचयमाचष्ट इति नासौ वृत्तिविषये युज्यते।
यदि तर्हि द्विवचनबहुवचनान्तात्‌ प्रत्ययेन न भवितव्यम्‌, एवं सति द्वाभ्यां क्रीतं द्विकम्‌, त्रिभिः क्रीतं त्रिकमित्येवमादि न सिध्यतीत्यत आह--`यत्र तु' इत्यादि। अनभिधानं द्विवचनान्तात्‌ प्रत्ययानुत्पत्तेर्हेतुः। तच्चाभिधानं क्व न भवति? यत्र प्रकृत्यर्थस्य संख्याभेदावगमो नास्तीति; प्रमाणाभावात्‌। इह तु प्रमाणमस्त्येव किञ्चित्‌। द्व्यादय एव शब्दाः प्रकृतित्वेनोपात्ताः। ते हि स्वप्रवृत्तिनिमित्तभूतयैव संख्ययाऽवच्छिन्नं वस्तु प्रतिपादयन्ति। अतः स्वार्थस्य संख्याविसेषावगमे प्रमाणम्‌। तेनात्रानभिधानादित्येष हेतुनस्तिति भवति प्रत्ययः। `तथा' इत्यादि। यथा त्रिकमित्यादौ प्रकृत्यर्थसंख्यानभावोपगमे प्रमाणसम्भवाद्बहुवचनान्तादपि प्रत्ययो भवति, तथा मौद्‌गिकमित्यादावपि मुद्गादिशब्दप्रकृतिरत्र स्वार्थस्य संख्यावगमे प्रमाणमित्येतद्दर्शयितुमाह--`न ह्येकेन' इत्यादि। मुद्गादिनैकय व्यक्त्या क्रयो न भवतीति विनापि विभक्त्या मुद्गादिशब्दानुवृत्तौ बहुत्वं गम्यते। तत्र प्रमाणं भवति। एकग्रहण त्रयानुपयोगिनोर्द्वयोरप्युपलक्षणं वेदितव्यम्‌।।

38. तस्य निमित्तं संयोगोत्पातौ। (5.1.38)
`महाभूतानाम्‌' [महाभूतपरिणामः=उत्पात्तः--काशिका] इति। पृथिव्यप्तेजोवाय्वाकाशानाम्‌। `साहस्रम्‌' इति। शतमानादिसूत्रेण (5.1.27) अण्‌।।

39. गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत्‌। (5.1.39)
`ठञादीनामपवादः' इति। अदिशब्देन ठगादीनां ग्रहण्‌। ननु च संख्यापरिमाणयोः पर्युदासात्‌ कनष्ठकोऽपवाद इति वक्तुं शक्यते, तत्कस्माट्ठञादीनामित्युच्यते? ठञादीनामित्ययमतद्गुणसंविज्ञानो बहुव्रीहिर्द्रष्टव्यः। अनयैवापेक्षयोक्तम्‌--अश्वस्य निमित्तमाश्विकमिति। ठक्‌, प्रत्युदाहृतः। सर्वप्रत्ययसम्भवः, तद्बाधनार्थमिदमुक्तम्‌। `पञ्चकम्, अष्टकम्‌' इति। संख्यालक्षणः कन्‌ (5.1.22)। `प्रास्थिकः' इति। प्राग्वतीयष्ठञ्‌, (5.1.18)।।

40. पुत्राच्छ च। (5.1.48)

41. सर्वभूमिपृथिवीभ्यामणञौ। (5.1.41)

42. तस्येश्वरः। (5.1.42)
`तस्य निमित्तम्‌' (5.1.38) इत्यतस्तस्यग्रहणमनुवर्त्तते, तत्किमर्थं पुनस्तस्यनिर्देशः? इत्याह--षष्ठीप्रकरणे पुनः षष्ठीसमर्थविभक्तिनिर्देशः' इत्यादि। `प्रत्ययार्थस्य' इति। निमित्तस्य। `अन्यथा' इति। यदि षष्ठीनिर्देशः प्रत्ययार्थै निवृत्त्यर्थो न क्रियते, ततो यथा संयोग उत्पातश्च प्रत्ययार्थविशेषणम्‌, तथेश्वरोऽपि तस्यैव विशेषणं सम्भाव्येत। तथा चेश्वरविशिष्टे निमित्त एव प्रत्ययः स्यात्‌।।

43. तत्र विदिति इति च। (5.1.43)
ईश्वरानुकर्वणार्थश्चकारः। इतिकरणो विवक्षार्थः।।

44. लोकसर्वलोकाट्ठञ्‌। (5.1.44)
सर्वत्र ठञ्ग्रहणं ठको निवृत्त्यर्थम्‌, अन्यथा हि प्रकृतिमात्रनिर्देशे क्रियमाणे `आर्हात्' (5.1.19) इति ठक्प्रसज्येत।।

45. तस्य वापः। (5.1.45)
`अप्यतेऽस्मिन्‌ वापः' इति। अधिकरणसाधनः `हलश्च' (3.3.121) इति घञ्‌।।

46. पात्रात्‌ ष्ठन्‌। (5.1.46)
`पात्रशब्दः परिमाणवाची' इति। `ठञोऽपवादः' इति। अत्रेयं युक्तिः--यदि ह्यपरिमाणवाची स्यात्‌ तदार्हीयस्य ठकोऽपवादः, न ठञः। `पात्रिकी' इति। `षिद्गौरादिभ्यश्च' (4.1.41) इति ङीष्‌।।

47. तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते। (5.1.47)
ननु च वृद्ध्यादीनां बहुत्वाख्यानेनैव बहुवचनं तेन भवितव्यमितित कथं दीयत इत्येकवचनान्तेन तस्य निर्देशः? इत्याह--`दीयत इत्येकवचनम्‌' इत्यादि। यदि समुदितैर्वृद्ध्यादिभिः सम्बन्धः क्रियते तर्हि स्याद्बहुवचनम्‌। न च तैः समुदितैःस क्रियते, किं तर्हि? प्रत्येकम्‌, अत एकवचनमेव। वृद्धिशब्द इह लौकिको धनविशेषवाची गृह्यते, न च संज्ञापदम्‌, आयादिभिर्धनविशेषवाचिभिः सह निर्देशात्‌। अत एवाह--`तत्र' इत्यादि। उत्तमर्णस्य यद्धनं तस्मादतिरिक्तमधिकं धनमधमर्णेन यद्दातव्यं तद्‌वृद्धिः। `ग्रामादिषु' इति। आदिशब्देन क्षेत्रादि। `पटादीनाम्‌' इत्यादि। पटादीनां व्यवह्रियमाणानामुपादानं सूत्रादि। तस्य यन्मूल्यं तस्मादतिरिक्तं द्रव्यं पटादिविक्रयेण यल्लभ्यते स लाभ-। `रक्षानिर्वेशः' इति। वणिजां रक्षाकारी राज्ञो भागो रक्षानिर्वेश इत्युच्यते। ननु चासावपयायः, तदपार्थकं शुल्कस्य पृथगुपादानम्‌? नैतदस्ति; पञ्चास्मिन्‌ ग्राम आय इत्यायं प्रति ग्रामस्याधिकरणभावः; उत्पद्यमानस्यायस्याधेयबावात्‌। शुल्के तु न सम्भवति। पञ्चास्मिन्‌ शते शुल्का इति शतं न शुल्कस्याधिकरणम्‌, किं तर्हि? इयतापरिच्छेदः शतेन शुल्कस्य क्रियते। तस्मादस्य भिन्नत्वात्‌ शुल्कः पृथगुक्तः।
`सिद्धं तु' इत्यादि। विवक्षातः कारकाणि भवन्तीति सम्प्रदानाख्ये चाधिकरणत्वेन विवक्षेत्याह--`समम्‌' इत्यादि। गतार्थम्‌।।

48. पूरणार्द्धाट्ठन्‌। (5.1.48)
`पूरणवाचिनः' इति। पूर्यते येनार्थेन स पूरणः, तद्वाचिनः प्रातिपदिकात्‌। एतेन `पूरण' इत्यर्थस्य ग्रहणम्‌, न प्रत्ययस्येति दर्शयति। कथञ्च प्रत्ययस्य ग्रहणं स्यात्‌? यदि पूरणग्रहणं स्वर्येत। तस्मिन्‌ हि स्वर्यमाणे `तस्य पूरणे डट्‌' (5.2.48) इत्यधिकृत्य ये प्रत्यया विहितास्ते गृह्येरन्‌। किञ्च स्यात्‌? `पूरणाद्भागे तीयादन्‌' (5.3.48) इत्यन्नन्ताट्ठन्‌ न स्यात्‌; अपूरणप्रत्ययान्तत्वात्‌। तस्याग्रहणे तु सति स्वार्थिकः स्यादन्‌। तस्मिन्नप्युत्पन्ने पूरण एवार्थे तदन्तमपि वर्तत इति ततोऽपि ठन्‌ सिद्धो भवति। `ठक्ठनोरपवादः' इति। पूरणादार्हीयस्य ठकोऽपवादः. अर्धादपि `अर्द्धाच्चेति वक्तव्यम्‌' (वा.502) इत्यौपसंख्यानिकस्य टिठनः। ठकि टिठनि च सति ङीप्‌ स्यात्‌; ठनि तु टाब्भवति। `द्वितीयिकः' इति। द्वयोः पूरण इति `द्वेस्तीयः' (5.2.54) इति तोयप्रत्ययः। `तृतीयिकः' इति। `त्रेः सम्प्रसारणञ्च' (5.2.55)। `पञ्चमिकः, सर्प्तामकः' इति। `तस्य पूरणे डट्‌' (5.2.48) इति डट्प्रत्ययः, तस्य `नान्तादसंखयादेर्मट्‌' (5.2.49) इति मडागमः।।


49. भागाद्यच्च। (5.1.49)
`ठञोऽपवादः' इति। न ठकः; भागशब्दस्य परिमाणत्वात्‌। ननु चाङ्गमात्रवचनोऽपि भागशब्दोऽस्ति? सत्यमस्ति; न तु तस्येह ग्रहणम्‌। तस्य हि ग्रहणे वृद्ध्यादिभिः सम्बन्दो नोपपद्यते। परिमाणवचनस्तु प्रसिद्धो रूपकांशे वर्त्तत इति वृद्ध्यादिभिः सम्बन्धः उपपद्यते।।

50. तद्धरपि वहत्यावहति भाराद्वंशादिभ्यः। (5.1.50)
`प्रकृतिविशेषणम्‌' इत्यादि। प्रकृतेः प्रातिपदिकस्य। `भाराद्वंशादिभ्य इत्यर्थः' इति। अत्रार्थे वंशादय एव शुद्धाः प्रत्ययमुत्पादयन्ति।
ननु च वंशादयः शब्दाः, भार इत्यपि शब्द एव; न च शब्द शब्दान्तरस्य समानाधिकरणं विसेषणमुपपद्यते, तत्कथं भारभूतेभ्यो वंशादिभ्य इत्येषोऽर्थो भवति? इत्याह--`भारशब्दोऽर्थद्वारेण' इत्यादि। वंशादीनांमर्थस्य भारशब्दस्यार्थो मुख्यं विशेषणम्‌, अर्थद्वारेण तु वंशादीनां भारशपब्दस्य चोपचरितम्। अर्थधर्मेण शब्दोऽपि तथा व्यपदिश्यत इत्यर्थः।।

51. वस्नद्रव्याभ्यां ठन्कनौ। (5.1.51)
पूर्वेण ठकि प्राप्ते तदपवादौ ठन्कनौ विधीयते।।

52. सम्भवत्यवहरति पचति। (5.1.52)
`प्रमाणानतिरेकः' इति। प्रमाणादनाधिक्यमित्यर्थः। `ननु च' इत्यादि। तथा हि--सक्थालीप्रस्थं पचति; तत्रावश्यं प्रस्थस्य सम्भवेन भवितव्यम्‌; न ह्यन्यथा शक्यते पक्तुमित्यभिप्रायः। `नास्त्यत्र नियोगः' इति। व्यभिचारमाह--`प्रस्थं पचति ब्राह्मणी' इति। अत्र हि पाक एव गम्यते, न सम्भवः।।

53. आढकाचितपात्रात्‌ खोऽन्यतरस्याम्‌।
`ठञोऽपवादः' इति। आञकादीनां परिमाणकत्वात्‌ पूर्वेम प्राप्तस्य।।

54. द्विगोष्ष्ठँश्च। (5.1.54)
पूर्वेण ठन्खयोः प्राप्तयोस्ततश्च लुकीदमुच्यते। `विधानसामर्थ्यादनयोर्लुग्न भवति' इति। यदि ह्यत्रापि लुक्‌ स्यात्‌, विधानमनर्थकं स्यात्‌। `ठञस्तु पक्षेऽनुज्ञातस्य' इति। अन्यतरस्यांग्रहणेन। `द्व्याढकी' इति। ठञो लुक्पक्षे `द्विगोः' (4.1.21) इति ङीप्‌। `द्व्याचिता' इति। `अपरिमाण' (4.1.22) इत्यादिना ङीप्प्रतिषेधे टाप्‌।।

55. कुलिजाल्लुक्खौ च। (5.1.55)
`चातूरूप्यम्‌' इति। एकं खे रूपम्‌, ष्ठनि द्वितोयम्‌, लुकोऽपि विकल्पितत्वाट्ठञोऽलुकि तृतीयम्‌, लुकि चतुर्थम्‌।
ननु च कुलिजशब्दसय परिमाणवाचित्वात्‌ `परिमाणान्तस्य' (7.3.17) इत्युत्तरपदवृद्धिः कस्मान्न भवति? इत्यत आआह--`परिमाणान्तस्य' इति। `परिमाणान्तस्यासंज्ञाशाणकुलिजात्‌' इत्येवैतत्‌ सूत्रं प्रत्येतव्यमिति दर्शयति।।

56. सोऽस्यांशवस्नभृतयः। (5.1.56)
`वस्नद्रव्याभ्याम्‌' (5.1.51) इत्यत्रापि वस्नशब्देन मूल्यमुच्यते।।

57. तदस्य परिमाणम्‌। (5.1.57)
`प्रास्थिको राशिः' इत्यादौ सर्वत्र ठञ्‌। `द्विषाष्टिकः' इत्यादि। `संख्यायायाः संवत्सरसंख्यस्य च' (7.3.15) इत्युत्तरपदवृद्धिः।
`पुनर्विधानसामर्थ्यात्‌' इत्यादिना पुनर्विधानफलं दर्शयति। `द्विषाष्टिकः' इत्यादौ द्विः प्रत्यविधानम्‌, तत्र पूर्वसूत्रात्‌ समर्थविभक्तेः प्रत्यायार्थसयानुवृत्तेः प्रथमं प्रत्ययो विधीयते, तस्य `अध्यर्धपूर्व' (5.1.28) सूत्रेण लुग्भवति। नन्विह च यः सूत्रे समर्थविभक्तेः प्रत्ययार्थस्य चोपादनात्‌ पुनर्विधीयते तस्यापि पुनर्विधानमनर्थकं स्यात्‌।।

58. संख्यायाः संज्ञासह्घसूत्राध्ययनेषु। (5.1.58)

`परिमाणोपाधिकात्‌' इति। परिमाणमुपाधिर्विशेषणं न सम्भवति, न हि शब्दः परिमाणं शब्दस्य सम्भवतीति? तदर्थस्य विसेषणं विज्ञास्यत इत्यदोषः। ननु चार्थस्यापि न सम्भवति, संख्या हि नैव परिमाणम्‌? नैष दोषः; नात्र रूढः परिमाणशब्दो गृह्यते, किं तर्हि? क्रियाशब्दः--परिमायते येन तत्‌ परिमाणमिति। संख्यायापि च परिमीयत इति सापि परिमाणम्‌। नन्वेवमपि विशेषणमनर्थकम्; न ह्यपरिच्छेदिका संख्यास्ति, सञ्चक्षाणा हि संख्योच्यते? सतद्यम्‌; परिच्छेदिकैव संख्या, सा तु स्वस्याभिदेयं परिच्छिनत्तीति षष्ठ्यर्थमवश्यं न परिच्छिनत्ति। पञ्चास्य सङ्घस्य पुत्रा इति नात्र सह्घस्येयत्ता प्रतीयते। इह तु पञ्चसंख्या परिमाणमस्य सङ्घस्येति भवतीयत्ताप्रतीतिः सङ्घस्य। तस्मादुपपन्नं संख्यायाः परिमाणं विशेषणम्‌।
`तत्र' इत्यादि। पञ्चशब्दोऽयं संख्येय एव वर्त्तते, न कदाचिदपि संख्यानमात्रे। ततश्च य एव संख्येयाः पञ्चत्वसंख्ययावच्छिन्नाः पञ्चशब्देनोच्यन्ते, प्रत्ययान्तेनापि त एव न हि तेषां भिन्नानामत्र संख्येयान्तरं परिमाणं प्रत्ययवाक्यं सम्भवपति। तस्मात्‌ संज्ञायां स्वार्थं एव प्रत्ययो वाच्यः। तथा चाह वार्त्तिककारः--`संज्ञायां स्वार्थे उत्पद्यते' इति।
`पञ्चकोऽधीतः' इति पाठापेक्षया पुंल्लिङ्गः। `अधीतिरध्ययनम्‌' इति। अनेन भावसाधनमध्ययनशब्दं दर्शयति। यद्यधीयत इत्यध्ययनं कर्मसाधनोऽद्ययनशब्दः स्यात्‌, सूत्रग्रहणं पृथग्वक्तव्यं न स्यात्‌; अध्ययनग्रहणेनैव सिद्धत्वात्‌, सूत्रमप्यधीयत एव। `पञ्चावृत्त्यः' इति पाठे पुनः क्रियात्मिकाः पञ्च वारा इत्यादिना पर्यायान्तरेण पञ्चावृत्त्य इत्यस्यैवार्थं व्यक्तीकरोति।
`स्तोमे डविधिः' इति। अत्रापि च्छन्दसीति सम्बध्यते। मन्त्रसमुदायः स्तोमः। `एकविंशः' इति। `अतो गुणे' (6.1.97) पररूपत्वं च, `ति विंशतेर्डिति (6.4.142) इति तिशब्दलोपः।
`शन्शतोः' इत्यादि। शन्नित्येवमन्ताच्छन्दसि डिनिर्वक्तव्यः।।

59. पंक्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्‌। (5.1.59)
`अपदत्वं च' इति। पदनिबन्धनस्य जशत्वादेः कार्यस्य प्रतिषेधार्थमिहैते विंशत्यादयः परिमाणे निपात्यन्ते। `तदस्य परिमाणम्‌' (5.1.57) इत्यधिकारे निपातनात्‌। एवञ्च गवां विंशतिरिति षष्ठी व्यतिरेकनिबन्धना न प्राप्नोति।
विंशतिशब्देन हि तान्येव गोद्रव्याणि गृह्यन्ते, न तदधिकं किञ्चिदर्थान्तरम्‌। बहुवचनं प्रसजति तेषां बहुत्वादिति यश्चोदयेत्‌, तं प्रत्याह--`विंशत्यादयः' इत्यादि। यथाकथञ्चित्प्रकारेण। विनाप्यवयवार्थेनेति यावत्‌। रूपमात्रं प्रधानम्‌, नावयवार्थः। यस्त्वेषामर्थः स लोकत एव व्यवतिष्ठत इत्यभिप्रायः। `नात्राभिनिवेष्टव्यम्‌' इति। संख्यापरिमाणोपाधिकः प्रकृत्यर्थः। `परिमाणमात्रं प्रत्ययाः' इति नायमत्राभिनिवेशः कर्त्तव्य इत्यर्थः। अनभिनिवेशस्य कारणमाह--`तथा हि' इत्यादि। स्यादेतत्‌--`अत्राप्यवयवार्थोऽस्ति' इत्यत आह--`न च' इत्यादि। ब्राह्माणानां पंक्तिरित्युक्ते संख्यापरिमाणोपाधिकः प्रकृत्यर्थः, परिमाणो वा कश्टचित्‌; प्रत्ययार्थो हि न गम्यते, किं तर्हि? सन्निवेशविशेषः संस्थानात्मको गुण एव प्रतीयते। तथा हि--तस्य सन्निवेशविशेषस्यानवगमे तावत्स्येव ब्राह्मणेषु पंक्तिरिति न प्रयुज्यते। तदेवं गुणशब्दत्वाद्विंशत्यादीनां गवां विंशतिरिति सिध्यति षष्ठी; विंशतिशब्दस्य संख्यानवृत्तित्वात्‌।
यदि तर्हि गुणशब्दा एते, विंशतिगवि इति द्रव्यशब्देन सामानाधिकरण्यं न प्राप्नोति? गुणिन्यत्र वृत्तिः, गुणमात्रे न ततोऽयमदोष इति। वक्तव्यः स हेतुः यत एतेषा क्वचिद्गुणमात्रे वृत्तिर्भवति, क्वचिद्गुणिनि। बहुवचनप्रसङ्गाच्च गुणिनि वृत्तिरित्येतदेव दुःस्थम्‌; बहुत्वाद्गुणिनाम्‌। इह च विंशतिः कुण्डानीति नपुंसकलिङ्गं प्राप्नोति, विंशतिर्ब्राह्मणा इति पुंल्लिङ्गम्‌, गुणवचनानां हि शब्दानामाश्रयतो लिङ्गवचनानि भवन्ति, यथा--शुक्लः कम्बलः, शुक्लं वस्त्रम्‌, शुक्ला शाटीति। यदासौ द्रव्यमाश्रित्य भवति गुणः, तस्य लिङ्गवचनं यत्‌ तद्गुणवचनस्यापि भवति, यथा--गुणशब्दत्वेऽप्येषामाश्रीयमाणे न भवत्येव दोषप्रसङ्गान्मुक्तिः? इत्यत आह--`या चैषाम्‌' इत्तयादि। न केवलमर्थाभिदानं स्वाभाविकम्‌, किन्त्वेतदपीत्यपिशब्देन दर्शयति। यत्र द्रव्येण गुणिनैषामभिधेयो गुणो विशेष्यते, तत्र स्वभावादेव गुणमात्रे वृत्तिः। यत्र त्वेत उपसर्जनीभूतस्वार्थास्तेन स्वार्थेन द्रव्यं विशेषयन्ति तत्रैषां स्वभावत एव गुणिनि वृत्तिः।
`स्वलिङ्गसंख्यानुविधानं च' इति। गुणिन्यणि वर्त्तमानानां ययोर्लिङ्गसंख्ययोर्यदनुविधानमनुवर्त्तमानमेतदपि सर्वं स्वाभाविकम्‌। अन्येषामपि, गुणशब्दानामपि क्वचित्‌ स्वभावत एव गुणिनि वृत्तिर्भवति, तद्यथा-शुक्लः पट इत्यत्र शुक्लशब्दस्य। क्वचिद्गुणमात्रे, यथा--अस्यैव शुक्लो गुणः पटस्येत्यत्र। अन्येषामपि केषाञ्चित्‌ शब्दानां स्वाभाविकं स्वलिङ्गसंख्यानुविधानं दृश्यत एव, तद्यथा--वेदाः प्रमाणम्‌, श्रुतयः प्रमाणमिति। तस्मात्‌ स्वाभाविकत्वाद्गुणमात्रे गुणिनि च वृत्तेः स्वलिङ्गसंख्यानुविधानस्य च न भवति यथक्तदोषप्रसङ्गः। यदा हि स्वभावत इति संख्यानमात्रे गुणे गुणमात्रे वृत्तिः तदा व्यतिरेकनिबन्धना षष्ठी भवति। यदा तु गुणिनि, तदा तयोरपि च द्रव्यशब्दत्वाकत्‌ सामानाधिकरण्यमपि भवति। द्रव्येऽपि वर्त्तमानानां स्वाभाविकं स्वलिङ्गसंख्यानुविधानम्‌।
अथ सहस्रादयोऽपि कस्मान्न व्युत्पाद्यन्ते? इत्याह--`सहस्रादयोऽपि' इत्यादि। एवञ्जातीयका एवम्प्रकारा विंशत्यादिभिः सदृशा इत्यर्थः। तेषामपि गुणवत्त्वात्‌ तद्वदेव विंशात्यादिवदेव द्रष्टव्याः। विंशात्यादय इव तेऽपि प्रकृत्यादिविभागेन व्युत्पाद्यन्त इत्यर्थः। यद्येवम्‌, किमर्थं विंशत्यादय एव सूत्रे उपात्ताः? इत्याहृृ`उदाहरणमात्रम्‌' इत्यादि। उदाहरणमात्रं विंशत्यादिग्रहणम्‌, अन्येऽप्येवञ्जातीयाः सहस्रादयस्तथैव व्युत्पाद्याः।।

60. पञ्चद्‌दशतौ वर्गे वा। (5.1.60)
ननु च `सङ्घ' इत्यनुवर्त्तिष्यते, किं वर्गग्रहणेन? नैतदस्ति; सङ्घशब्दो हि प्राणिसमुदाये रूढः। वर्गशब्दस्तु समूहमात्रे इति वर्गग्रहणं कर्त्तव्यम्‌।।

61. सप्तनोऽञ्‌ छन्दसि। (5.1.61)
संख्यालक्षणे कनि प्राप्ते सप्तञ्शब्दाच्छन्दस्यञ्विधानम्‌।।

62. त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण्‌। (5.1.62)
त्रिंशच्छब्दात्‌ `विंशतित्रिंशद्भ्याम्‌' (5.1.24) इति योगविबागेन कनि प्राप्ते चत्वारिंशच्छब्दादपि `प्राग्वतेष्ठञ्‌' (5.1.18) इति ठञि प्राप्तेऽयमारभ्यते। `अभिधेये सप्तम्येषा' इत्यादि। विषयसप्तम्यामस्यां ब्राह्मणविषयश्चेत्‌ प्रयोगो भवतीत्येषोऽर्थः स्यात्‌, तथा चान्यत्र प्रत्ययान्तस्य प्रयोगो न स्यात्‌, तस्मान्न विषयसप्तम्येषा। एतच्च संज्ञाग्रहणादेव विज्ञायते। न हि ब्राह्मणग्रहणात्‌ त्रिंशच्चत्वारिंशतौ डण्णन्तौ कस्यचित्‌ पदार्थस्य संज्ञिनौ स्तः, ब्राह्मणानां तु विद्यते।।

63. तदर्हति। (5.1.63)
`श्वैतच्छत्रिकः, वास्त्रयुग्मिकः' इत्यादिषु ठक्‌। `आर्हात्‌ (5.1.19) इत्यभिविधौ चायमाकार इति।।

64. छेदादिभ्यो नित्यम्‌। (5.1.64)
`नित्यग्रहणम्‌' इति। अथ विभाषाया निवृत्त्यर्थं नित्यग्रहणेन कस्मान्न विज्ञयते? अशक्यं तन्निवृत्त्यर्थं विज्ञातुम्‌। विनापि नित्यग्रहणेन महाविभाषानिवृत्तिः शक्यते विज्ञातुम्‌। तथा हि--छेदादिभ्यः पूर्वेणैव ठकि सिद्धे पुनर्वचनादेव नित्यविधिर्भविष्यति, किं नित्यग्रहणेन? ततो नित्यग्रहणमहन्यहन्यर्हत्वात्‌ `तदर्हति' (5.1.63) इत्यस्यार्थस्य विशेषणं विज्ञायते। तथा च जातमारम्भस्य प्रयोजनमिति वाक्यं न निवर्तते।
`विरागो विरङ्गञ्च' इति। विरागशब्दष्ठकमुत्पादयति विरङ्गादेशं चापद्यते। नित्यं विरागमर्हति वैरङ्गिकः। प्रत्ययसन्नियोगेन चायसादेश इति प्रत्ययाभावाद्वाक्ये न भवति।।

65. शीर्षच्छेदाद्यच्च। (5.1.65)
प्रत्ययसन्नियोगेन शीर्षभावः, तेन वाक्ये प्रत्ययाभावान्न भवतीति भावः।।

66. दण्डादिभ्यो यः। (5.1.66)
दण्डशब्दोऽयमस्ति क्रियावचनः--द्डनं दण्ड इति, अस्ति द्रव्यवचनः; विशेषाभावाद्द्वयोरपि ग्रहणम्‌।।

67. छन्दसि च। (5.1.67)
यदनुवर्त्तते, नानन्तरो यः; यत एव स्वरितत्वात्‌।।

68. पात्राद्घँश्च। (5.1.68)
`ठक्ठञोरपवादः' इति। ननु च पात्रं भाजनम्‌, न परिमाणम्‌, अतस्तद्वाचिनष्ठक्‌ प्राप्नोति, तस्यैवापवादो युक्तः, तत्किमुच्यते ठक्ठञोरपवादः? इत्याह--`पात्रं परिमाणमप्यस्ति' इति। न केवलं भाजनमित्यपिशब्देन दर्शयति। तत्र यदा परिमाणे पात्रशब्दो वर्त्तते, तदा ठञोऽपवादः; यदा भाजने, तदा ठकः। पात्रं स्थाल्यादि। कोऽर्थः? चण्डालादिर्बाह्यश्च पात्रं परिमाणमर्हति। येन भुक्ते पुनर्न संस्कारेण भाजनं शुध्यति स पात्रियः, पात्र्य इति चोच्यते।।

69. कड्ङ्गरदक्षिणाच्छ च। (5.1.69)
`चकाराद्यच्च' इति। अथानन्तरस्य यतः समुच्चयः कस्मान्न भवति? एवं मन्यते--स्वरतत्वं प्रतिज्ञातमिति। अनन्तराच्च स्वरित आसन्नतरः। स च प्रतियोगमुपतिष्ठमानो वाक्यशेष एव भवति। तस्माद्यत एव समुच्चयो युक्त इति। यो गौर्निर्गुणत्वात्‌ खलकणाद्यनर्हः स कडङ्गर्यः कडङ्गरीय इति चोच्यते। माषादीनां खलेष्ववस्करनालकाष्ठमतिदुर्जरं बुसाद्यपि कडङ्गरमुच्यते।
अथात्र यथासंख्यं कस्मान्न भवति, अस्ति हि तस्य प्राप्तिः, प्रकृतिप्रत्ययानां साम्यात; तथा हि--द्वे प्रकृतौ, द्वौ प्रत्ययौ? इत्यत आह--`अल्पाच्तरस्य' इत्यादि। दक्षिणशब्दस्याल्पाच्तरस्य पूर्वनिपाते प्राप्ते योऽयमिह परनिपातः स लक्षणानपेक्षतां निर्देशस्य दर्शयन्‌ लक्षणव्यभिचारस्यचिह्नं भवति। अतस्तेन चिह्नेन यथा-संख्याभावं सूचयति सूत्रकारः। तेन न भवति यथासंख्यम्‌।।

70. स्थालीबिलात्‌। (5.1.70)
`छयतावनुवर्तेते' इति। ननु चानुकृष्टमुत्तरत्र नानुवर्त्तत इति चानुकृष्टस्य यतः पुनरिह चकारेणानु-वृत्तिर्नोपपद्यते? नैष दोषः; अनित्या ह्येषा परिभाषा। कथं ज्ञायते? `एकाजुत्तरपदे णः' (8.4.12) इत्यत्र णे प्रकृते पुनर्णग्रहणात्‌। तद्धि `वा भावकरणयोः' (8.4.10) इत्यनुवर्त्तमानस्य विकल्पस्य निवृत्त्यर्थं क्रियते। यदि चेयं नित्या स्यातद्‌, पूर्वसूत्रे चानुकृष्टत्वादेव हि तस्यानुवृत्तिर्न भवति। अथ वा--चकारोप्यत्रानु-वर्त्तते यतोऽनुकर्षणार्थः। तेन पूर्वत्र चानुकृष्टस्यापि तस्य पुनरिह चकारेणानुकृष्यमाणस्यानुवृत्तिर्भविष्यति। `स्थालीबिलकडङ्गरदक्षिणाच्छ च' इत्येकयोगे कर्त्तव्ये यदिदं योगविभागकरणं तत्स्थालीबिलाद्विशेषे वर्त्तमानात्‌ प्रत्ययो यथा स्यादित्येवमर्थम्‌। तेन स्थालोमुख एव वर्त्तमानः स्थालीविलशब्दः प्रत्ययमुत्पादयति। न तु स्थालीसम्बन्धिनि च्छिद्रमात्रे वर्त्तमानः।।

71. यज्ञर्त्विग्भ्यां घखञौ। (5.1.71)

72. पारायणतुरायणचान्द्रायणं वर्तयति।
द्वितीयाप्रकरणे पुनर्द्वितोयोच्चारणमिष्टविषये द्वितीयान्ताद्यथा स्यादित्येवमर्थम्‌। तेन यद्यपि पारायणं गुरुणा शिष्येण च गम्यते तथापि शिष्य एव प्रत्ययो भवति, न गुरौ। तथा तुरायणो यागो यद्यपि यजमानेन याजकैश्च वर्त्त्यते तथापि यजमान एव प्रत्ययो भवति, न याजके।।

73. संशयमापन्नः। (5.1.73)
अत्रापि द्वितीयाप्रकरणे पुनर्द्वितीयोच्चारणमिष्टविषये द्वितीयान्ताद्यथा स्यादित्येवमर्थम्‌। तेन यद्यपि द्वे अपि कर्तृकर्मणी संशयमापन्ने, तथापि यद्विषयः संशय उत्पद्यते तत्रैव कर्मणि स्थाण्वादौ प्रत्ययो भवति, न तु संशयस्य कर्त्तरि पुरुषे; अनभिधानात्‌।।

74. योजनं गच्छति। (5.1.74)
`क्रोशशतयोजनशतयोरुपसंख्यानम्‌' इति। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तथा ततोऽभिगमन-मर्हतीति चेत्यादावपि वाक्ये। तत्रेदं प्रतिपादनम्‌--इह द्वितीयाधिकारे पुनरद्वितीयोच्चारणमधिकं तु कुर्वतैतत्‌ सूचितम्‌--अन्यदप्यत्र किञ्चिदधिकं भवति। तेन सर्वमेतद्गदितं कार्यमुपपन्नं भवति।।

75. पथः ष्कन्‌। (5.1.75)

76. पन्थो ण नित्यम्‌। (5.1.76)
`नित्यग्रहणम्‌' इत्यादि। अथ वाक्यनिवृत्त्यर्थं कस्मान्न भवति? पन्थशब्दस्य वाक्यासमवायित्वात्‌। स हि प्रत्ययसन्नियोगेन विधीयते, न वाक्येन समवैति। ननु च पथिन्शब्देन वाक्यं मा भूदित्येवमर्थं नित्यग्रहणं स्यात्‌? नैतदस्ति; यदि तदेवमर्थं स्यात्‌ पूर्वसूत्र एव कृतं स्यात्‌--यत्र पथिन्शब्दः श्रुयते। इह तु करणे प्रत्ययार्थविशेषणं विज्ञायते।।

77. उत्तरपथेनाहृतञ्च। (5.1.77)
`चकारः प्रत्ययार्थ' इति। प्रत्ययार्थसमीपे श्रूयमाणत्वात्‌। गच्छतीत्यत्र पूर्वं द्वितीयान्तात्‌ प्रत्यय उत्पन्नः। तदिहापि तत एव प्रत्ययेन भवितव्यमिति भ्रान्तिः स्यात्‌। अतस्तां निराकर्त्तुमाह--`अत्रापि' इत्यादि। चकारो ह्यर्थात्‌ परः श्रूयमाणोऽत्रार्थमात्रस्यैव गच्छतोत्यस्यानुकर्षकः प्रतीयते, न तु विभक्तेरपि; सम्बन्धाभावात्‌। तस्मात्‌ स इहानुवृत्तः सन्निहितया समर्थविभक्त्या सम्बध्यमानस्तृतीयासमर्थादेव प्रत्ययमुत्पादयतीति भावः।
`वारिजङ्गल' इत्यादि। वार्यादयः पूर्वपदं यस्य तत्‌ तथोक्तम्‌। एतयोरेवार्थयोरुपसंक्यानम्‌।
`मधुकमरिचयोः' इत्यादि। मधुकमरिचयोरभिधेययोः स्थलात्‌ परो यः पथिन्शब्दः, तदन्तादाहृते वक्तव्यः।।

78. कालात्‌। (5.1.78)
कालादिति स्वरूपग्रहणं न भवति, कुतः? पृथगस्य योगस्यारम्भात्‌। कालशब्दस्यापि यदि स्वरूपग्रहणम भीष्टं स्यादिमं पृथग्योगमकृत्वोत्तरसूत्रे कालशब्दादेव तृतीयामुच्चारयेत्‌--कालेन निर्वृत्तमिति। एवं हि निर्देशादेव तृतीयासमर्थात्‌ प्रत्ययो विज्ञायते। उत्तरसूत्रे च कालशब्दः स्वरितत्वादनुवर्त्तिष्यत इति सिद्धमिष्टम्‌। अतो न कर्त्तव्य एवायं पृथग्योगः। स एव क्रियतेऽर्थग्रहणं तदिति दर्शयितुम्‌।।

79. तेन निर्वृत्तम्‌। (5.1.79)
`आह्निकः' [आह्निकम्‌-काशिका] इति। `अल्लोपोऽनः' (6.4.134) इत्यकारलोपः। टिलोपस्तु `अह्नष्टखोरेव' (6.4.145) इति नियमादिह न भवति।।

80. तमधीष्टो भृतो भूतो भावी। (5.1.80)
`कालाध्वनोरत्यन्तसंयोगे' (2.3.5) इति द्वितीया। `तमधीष्टः' इत्यादौ कर्मणि द्वितीया नोपपद्यते; अध्येष्यमाणादि हि पुरुषादिकर्मानयानिष्टयाभिहितम्‌, न चान्या क्रियाऽस्ति यस्यां मासादि कर्म स्यात्‌।
`ननु च' इत्यादिना, यदुक्तम्‌--`कालाध्वनोरत्यन्तसंयोगे' (2.3.5) द्वितीयेति तद्विघटयति। तेन कथं मासो व्याप्यत इति? न कथञ्चित्‌। विघटत इत्यर्थः। यद्धि मुहूर्त्तं क्रियते, तेन मुहूर्त्तेन मासैकदेशो व्याप्यते, न तु सकलो मासः। `क्रियार्थे' इति। अध्ययनादिक्रियार्थे। तदर्थं हि ते क्रियेते। `फलभूतया क्रियया' इति। अध्ययनादिकया। `ताब्यामेव व्याप्त इत्युच्यते' इति। तदन्यव्यापारस्य तत्रोपचारात्‌। यथा `चौरेण ग्रामो दग्धः' इत्युक्ते न चौरेण ग्रामो दह्यते, अपि तु तदाहृतेनाग्निना। उपचारेण तु तथा व्यपदेशः।।

81. मासाद्वयसकि यत्खञौ। (5.1.81)
`सामर्थ्याद्भूत्‌ एवात्राभिसम्बध्यते' इति। वयसि भूतार्थस्यैव सम्भवादिति भावः। भाव्यर्थोऽपि तत्र सम्भवतीति चिन्त्यमेतत्‌। अथ तु नेष्यते, पुनरभिधानं शरणमाश्रयितव्यम्‌। खञो ञित्करणं स्वरार्थम्‌, वृद्ध्यर्थञ्च। ननु च वृद्ध एव मासशब्दः? सत्यं वृद्धोऽयम्‌, तथापि वृद्धस्यापि वृद्धिरेषितव्या। मासीनाभार्य इति `वृद्धिनिमितस्य च तद्धितस्यारक्तविकारे' (6.3.39) इति पुंवद्भावप्रतिषेदो यथा स्यात्‌।।

82. द्विगोर्यप्‌। (5.1.82)
`प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि' इति (काशिका. 5.1.20) तदन्तविदेरभ्यनुज्ञानाद्‌द्विगोरपि ----। ययः पित्करणननुदात्तार्थम्‌। अन्यथा मासशब्दान्तात्‌ प्रत्यये विहिते सिति शिष्टत्वात्‌ `इगन्तकाल' (6.2.29) इति द्विगावेवेति स्वरबाधनात्‌ प्रत्ययस्वरः स्यात्‌, ---- स्यात्‌। प्रत्ययेऽनुदात्तार्थे पिति `इगन्त' (6.2.29) इति पूर्वपदप्रकृतिस्वरः सिद्धो भवति।।

83. षण्मासाण्ण्यच्च। (5.1.83)
षण्मासशब्दो द्विगुः। तस्मात्‌ पूर्वेण यपि प्राप्ते वचनम्‌। `स चकारेण समुच्चेतव्यः' इति। यद्येवम्‌, कथमनन्तरो यब्भवति? इत्याह--`स्वरितत्वाच्चानुवर्त्तिष्यते' इति। तेनानुवृत्तिसामर्थ्यादनन्तरो यब्भवतीति मन्यते।।

84. अवयसि ठँश्च। (5.1.84)

85. समायाः खः। (5.1.85)

86. द्विगोर्वा। (5.1.86)
`पूर्वेण' इत्यादि। कथं पुनः समाशब्दाद्विधीयमानः प्रत्ययस्तदन्ताद्‌द्विगोः प्राप्नोति? इत्यत आह--`प्राग्वतेः' इत्यादि। गतार्थम्‌।।

87. रात्र्यहस्संवत्सराच्च। (5.1.87)
`द्व्यहीनः' इति। `अह्नष्टखोरेव' (6.4.145) इति टिलोपः। विभाषानुवर्त्तते, तेन व्यवस्थितविभाषात्वान्न टज्भविष्यति। `द्वैयह्निकः, त्रैयह्निकः' इति। `न य्वाभ्याम्‌' (7.3.3) इत्यादिनैजागमः, वृद्धिप्रतिषेधश्च।।

88. वर्षाल्लुक्‌ च। (5.1.88)
`भाविनि तु त्रैवर्षिकः' इति। तत्र हि `अभविष्यति' (7.3.16) इति वचनात्‌। इहादिवृद्धिरेव भवति।।

89. चित्तवति नित्यम्‌। (5.1.89)
यदि चित्तवति प्रत्ययार्थे नित्यं लुग्भवति, `वर्षस्याभविष्यति' (7.3.16) इत्यत्र यद्वक्ष्यति--`द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतोति द्विवार्षिको मनुष्यः' इत, तद्विरुध्यते; न हि नित्ये लुक्यधीष्टभृतयोरुत्पन्नस्य प्रत्ययस्य चित्तवत्यभिधेय एवं रूपमुपपद्यते? नैष दोषः; भूत एवास्योत्पन्नस्य प्रत्ययस्य चित्तवति नित्यं लुगिष्यते, न सर्वत्र। कुत एतत्‌? नित्यग्रहणात्‌। इह नित्यग्रहणमनर्थकमेव। आरम्भसामर्थ्यादेव नित्यो लुग्भविष्यतीति किं नियमग्रहणेन? तत्‌ क्रियते विशिष्टेऽर्थे नित्यो लुग्यथा स्यादित्येवमर्थम्‌। स पुनर्विशिष्टो भूत एव।।

90. षष्टिकाः षष्टिरात्रेण पच्यन्ते। (5.1.90)
`बहुवचवान्तस्य निर्देशाद्बहुवचन एव षष्टिकशब्दस्य साधुत्वम्‌, नान्यत्र' इति यश्चोदयेत्‌, तं प्रत्याह--`बहुवचनमतन्त्रम्‌' इति। अप्रधानमित्यचर्थः। अप्रधानत्वं तु तस्य नान्तरीयकत्वात्‌। अवश्यं हि येन केनचिद्वचनेन निर्देशः कर्त्तव्यः। यद्येवम्‌, एकवचनेन निर्देशः कस्मान्न कृतः, एवं हि लघुर्भवति? सत्यम्‌; वैचित्र्यार्थं बहुवचनेन कृतः। यदि `षष्टिरात्रेण पच्यन्ते' इत्यस्मिन्नयं एतन्निपातनं, मुद्गादिष्वतिप्रसङ्गः, तेऽपि हि षष्टिरात्रेणपच्यन्ते? इत्यत आह--`संज्ञैषा' इत्यातदि। धान्यविशेष एव हिं षष्टिकशब्दः संज्ञात्वेन रूढः। तेनाभिधानाम्मुद्गादिष्वतिप्रसङ्गो न भवति।।

91. वत्सरान्ताच्छश्चन्दसि। (5.1.91)


92. संपरिपूर्वात्ख च। (5.1.92)

93. तेन परिजय्यलभ्यकार्य्यसुकरम्‌। (5.1.93)
`परिजय्यः' इति। परिः सर्वतोभावे। शक्यार्थे कृत्यः। सर्वतः शक्यो जेतुं `परिजय्यः' `लभ्यः' इति, `कार्य्यः' इति। अत्रापि शक्यार्थ एव कृत्यौ। मासेन शक्यो लब्यो मासिकः पटः। मासेन शक्यं कर्तु सुकरं वा मासिकं चान्द्रायणम्‌। `तेन निर्वृत्तम्‌' (5.1.79) `तमधीष्टः' (5.1.80) इति विभक्तितद्वये प्रकृते पुनस्तेनेति तृतीयोपादनां द्वितीयानिवृत्त्यर्थम्।।

94. तदस्य ब्रह्मचर्यम्‌। (5.1.94)
`द्वाभ्यामपि सम्बध्यते' इति। समर्थविभक्त्या, प्रत्ययार्थेन च। कथं सम्बध्यते? इत्याह--`कालस्य' इत्यादि। इह हि द्वितीयाऽत्यन्तसंयोगे।सा हियः कालस्य व्यापकस्तमपेक्षते, नान्तरयकत्वात्‌। न हि तेन विनाऽत्यन्तसंयोग उपपद्यते। ब्रह्मचर्यं च `कालस्य व्यापकम्‌' इति। `व्यापकम्‌' इति। व्यापकमपेक्षमाणायां विभक्तौ ब्रह्मचर्यसम्बन्धो भवति। कथं प्रत्ययार्थेन सम्बध्यते? इत्यत आह--`प्रत्ययार्थस्य च स्वम्‌' इति। प्रत्ययार्थः प्रतियोगि वसक्तु स्वमपेक्षते।प्रकृतत्वाच्च ब्रह्मचर्यस्यैव प्रतियोगित्वं विज्ञायते, तद्धि तस्य स्वं भवति। अतः प्रतियोग्यपेक्षायां प्रत्ययार्थस्यापि ब्रह्मचर्येण सम्बन्धो भवति।
`पूर्वत्र' इत्यादिना पूर्वोत्तरयोर्वृत्त्योर्विशेषं दर्शयति। किं पुनरत्र प्रमाणमित्याह--`द्वयमपि' इत्यादि। कथं पुनर्द्धयमपि प्रमाणमित्याह--`उभयथा' इत्यादि। उभयस्मिन्नपि ह्यत्रार्थे सूत्रमेतदाचार्येण प्रणीतम्‌। द्वयमपि प्रमाणम्‌।
`महानाम्न्यादिभ्य' इति। ब्रह्मचर्यं एवार्थ इदमुपसंख्यानाम्‌। `तच्चरति' इत्यादि। तदिति द्वितीयासमर्थेभ्यो महानाम्न्यादिभ्यः शब्देभ्यः `चरति' इत्येतस्मिन्नर्थे इदं ठञ उपसंख्यानम्‌। `तत्सहचरितं व्रतं तच्छब्देनोच्यते' इति। भवति हि साहचर्यात्‌ ताच्छब्द्यम्‌, यथा--यष्टीः प्रवेशयेति। अथ ऋच एवोच्यन्त इत्येवं कस्मान्न विज्ञायेते? चरणार्थस्यायोगात्‌। ब्रह्मचर्य हि चर्यते। `चतुर्मासाण्ण्यो यज्ञे' इत्यादि। चतुमसिशब्दात्‌ तत्रेति सप्तमीसमर्थाद्भव इत्येतस्मिन्नर्थे यज्ञे विषये ण्यो वक्तव्यः।
`संज्ञायामण्वक्तव्यः' इति। चतुर्मासाद्भव इत्येतदपेक्षते। इदञ्च यज्ञादन्यत्रोपसंख्यानम्। ननु च `तत्र भवः (4.3.53) इत्यनेनाणअभवत्येव, किमर्थमुपसंख्यायते? सत्यमस्ति; तस्य तु द्विगोर्लुगनपत्ये' (4.1.88) इति लुक्प्रप्नोति। अतो लुग्बाधनार्थं तस्योपसंख्यानम्‌।।

95. तस्य च दक्षिणा यज्ञाख्येभ्यः। (5.1.95)
अथाख्याग्रहणं किमर्थम्‌? न यज्ञेब्य इत्युच्येत? इत्यत आह--`आख्याग्रहणम्‌' इत्यादि। यज्ञानमधेयमात्रादकालवाचिनोऽपि प्रत्ययो यथा स्यादित्येवमर्थमाक्याग्रहणमिति। `इतरथा हि' इत्यादि। यद्याख्याग्रहणं न क्रियोतेत्यर्थः। ननु चैकाहद्वादशाहादयो नैव कालशब्दाः, तत्कुतस्तेषामेवात्रग्रहणप्रसङ्गः? अथाकालवाचिनामप्येषां ग्रहणं सम्भवति? एवं सत्यग्निष्टोमादीनामपि भविष्यतीत्यपार्थकमाख्याग्रहणम्‌? इत्यत आह--`प्राग्वतेः' इत्यादि। यद्यप्येते कालशब्दा न भवन्ति, तथापि प्राग्वतेः संख्यापूर्वपदानां तदन्तविधिरभ्यनुज्ञातः। तेन सत्यपि कालाधिकारेऽप्यस्ति तेषु ग्रहणप्रसङ्गः। तथा च तत्र वचनस्य चरितार्थत्वादग्निष्टोमादिभ्यो न स्यात्‌, तेभ्योऽपि यथा स्यादित्याख्याग्रहणम्‌।
ननु चैवमपि सूत्रमनर्थकम्‌, या ह्यग्निष्टोमस्य दक्षिणा साप्यग्निष्टोमे भवति। तत्र `बह्वचोऽन्तोदात्ताट्ठञ्‌' (4.3.67) `क्रतुयज्ञेभ्यश्च' (4.3.68) इत्येव ठञ्‌ सिद्धः। इदमपि सूत्रं ठञर्थमेवारभ्यते? सत्यमेतत्‌, किन्तु भावर्थे `तस्येदम्‌' (4.3.120) इति विवक्षिते तदा परत्वादणादयः स्युरिति युक्तं विधानम्‌। अपि च यज्ञाख्येभ्यस्तेन ठञिष्यते। ग्रहणवता प्रातिपदिकेन तदन्तविध्यभावात्‌ संख्यापूर्वपदेभ्यष्ठञ्‌ न लभ्येत--द्वयोर्वाजपेययोर्भवा दक्षिणा द्वैवाजपेयिकीति। अनेन च विधानेन `प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि' (काशिका. 5.1.20) इति ठञ्‌ सिद्धो भवति। अथापि कथञ्चित्‌ तदन्तविधिर्भवार्थे लभ्यते, तथापि `द्विगोर्लुगनपत्ये' (4.1.88) इति लुक्प्रसज्येत। तस्माद्युक्तः सूत्रारम्भः।

96. तत्र च दीयते कार्यं भववत्‌। (5.1.96)
`यथा मासे भवं मासिकम्‌' इत्यादि। `कालाट्ठञ्‌' (4.3.11) इति। `प्रावृषेण्यम्‌' इति। `प्रावृष एण्यः' (4.3.17)। `वासन्तं शारदम्‌' इति। सन्धिवेलादिसूत्रे (4.3.16) णाण्‌। `हैमनम्‌' इति। `हेमन्ताच्च' (4.3.21) इति, `सर्वत्राण्च तलोपश्च' (4.3.22) इति। वतिः सादृश्यार्थः। `कालेभ्यो भववत्‌' (4.2.34) इत्यत्रैतद्व्याख्यातम्‌। तत एवानुगन्तव्यम्‌।
चकारः कालादित्यनुकर्षणार्थः, तेन चानुकृष्टत्वादुत्तरत्र नानुवर्त्तते, अत आह--`कालाधिकारस्य पूर्णोऽवधिः' इत्यादि। ननु च यन्मासे दीयते कार्यं च तन्मासे भवति; मासाधारत्वात्‌ तत्सत्तायाः। अतः `तत्र भवः' (4.3.53) इत्यनेनाणैव सिद्धमिति किमतिदेशेन? एवं तेन सत्यपि भवत्यर्थे कार्यदीयमानयोः कार्यतां दीयमानताञ्च कालान्तात्‌ तैः प्रत्ययैरपि ख्याययितुमतिदेशः। किञ्चानेन च तत्र भवानामपि न । तेन सति तस्मिन्‌ तदन्तविधेरिष्टत्वाद्‌द्वयोर्मासयोर्दीयते कार्यं वा--द्वैमासिकमिति। अथापि कथञ्चिद्भवार्थेऽपि तदन्तविधिर्गृह्यते, एवमपि `द्विगोः' (4.1.88) इति लुक्‌ स्यात्‌। ननु चात्रापि विधाने सत्यतिदेशादेव लुक्‌ प्राप्नोति? वचनसामर्थ्यान्‌ प्रत्ययमात्रस्यातिदेशो विज्ञास्यते, न सर्वकार्याणामित्यदोषः।।

 
  
  

97. व्युष्टादिभ्योऽण्‌। (5.1.97)
व्युष्टशब्दोऽयं कालशब्दः। तत्साहचर्यान्नित्यशब्दोऽपि कालशब्द एव गृह्यते। नाकाशादिवचनः। तेन तत्र सप्तम्यपवादः `कालध्वनोरत्यन्तसंयोगे' (2.3.5) इति द्वितीया भवति। तेन सप्तम्यधिकारेऽपि नित्यशब्दाद्‌द्वितीयासमर्थादेव प्रत्ययः। नित्यं दीयते `नैत्यम्‌'। सर्वकाले दीयते इत्यर्थः।
`अण्प्रकरणे' इत्यादि। पदेतत्‌ कात्यायनेनोक्तम्‌ `अण्प्रकरणे अग्निपदादिभ्य उपसंख्यानम्‌' (वा.532) इत्येतन्न वक्तव्यम्‌। कथं तर्ह्यण्‌ स्यात्‌? व्युष्टादिष्वेवाग्निपदादयः पठितव्या। अथाण्ग्रहणं किमर्थम्‌, यावता भववत्‌' (5.1.96) इत्येतदिहानुवर्त्तते, तेनैवात्राणपि भविष्यति? नैवं शक्यम्‌; एवं हि सति व्युष्टनित्यशब्दाभ्यां `कालाट्ठञ्‌' (4.3.11) इति ठञ्‌ स्यात्‌; नैष दोषः; तत्र पुनरारम्भसामर्थ्याद्यष्ठञा बाधितः स एव भविष्यति। कः पुनरसौ? अणेव। एवमपि तीर्थशब्दात्‌ द्व्यजृद्ब्राह्मणादि(4.3.72)सूत्रेण ठग्विहित इति ततष्ठगेव स्यात्‌। ये चात्र प्रवेशनादयोऽन्तोदात्ताः; तेभ्यष्ठञ्‌ स्यात्‌ `ब्रह्वचोऽन्तोदात्ताट्ठञ्‌(4.3.97)इति; तेभ्यो भवार्थे ठञो विहितत्वात्‌। तस्मादण्ग्रहणं कर्त्तव्यम्‌।।

98. तेन यथाकथाचहस्ताभ्यां णयतौ। (5.1.98)
`यथासंख्यं नेष्यते' इति। अल्पाच्तरस्य हस्तशब्दस्य परनिपातो लक्षणव्यभिचारस्य वचनहेतुः। `तृतीयार्थमात्रञ्चात्र सम्भवति' इति। तृतीयार्थस्य गम्यमानत्वात्‌। तथा हि--यथाकथाच दत्तमित्युक्ते, अनादरेण दत्तमिति गम्यते। `न तृतीयासमर्थविभक्तिः' इति। यथाकथाचशब्दसय वाक्यत्वात्‌। प्रत्यस्तु वचनसामर्थ्याद्वाक्यादपि भवत्येव।।

99. सम्पादिनि। (5.1.99)
`गुणोत्कर्षः सम्पत्तिः' इति। सम्पादिनीत्यत्र प्रकृतिभागस्यार्थमाचष्टे। पूर्वावस्थाया गुणातिरेको गुणोत्कर्षः। `आवश्यके णिनिः' इति। अवश्यं सम्पद्यत इति `आवश्यकाधमर्णयोर्णिनिः' (3.3.170)। `विशेषतशोभते' इति। शोभनाख्यस्य गुणस्य पूर्वावस्थाया उत्कर्षादतिरिच्यमानत्वात्‌।।

100. कर्मवेषाद्यत्‌। (5.1.100)
`कर्ण्यम्‌' इति। `ये चाभावकर्मणोः' (6.4.168) इति प्रकृतिभावः।।

101. तस्मै प्रभवति सन्तापादिभ्यः। (5.1.101)
`सक्तुमांसौदनाद्विगृहीतादपि' इति। अपिशब्दात्‌, सङ्घातादपि। साक्तुमांसौदनिकः। साक्तुकः। मांसिकः। औदनिकः।।

102. योगाद्यच्च। (5.1.102)

103. कर्मण उकञ्‌। (5.1.103)

104. समयस्तदस्य प्राप्तम्‌। (5.1.104)
अथ किमर्थं तदिति समर्थविभक्तिर्निर्दिश्यते; यावता समय इति निर्देशादेव सा दृश्यते? इत्यत्राह--`समर्थविभक्तिनिर्देश उत्तरार्थः' इति। `ऋतोरण्‌' (5.1.105) इन्येवमादौ प्रथमासमर्थाद्यथा स्यादिति उत्तरार्थञ्च क्रियमाणोऽत्रापि विस्पष्टार्थो भविष्यतीत्यत्रैव कृतः; नोत्तरत्र।।

105. ऋतोरण्‌। (5.1.105)
वसन्तोऽस्य पुष्पदेर्ऋतुः प्राप्तः, स तस्य जनकत्वात्‌ प्रयोजको भवतीति `प्रयोजनम्‌' (5.1.109) इति ठञि प्राप्ते सत्ययमारभ्यते।।

106. छन्दसि घस्‌। (5.1.106)
घसः सकारः `सिति च' (1.4.16) इति पदसंज्ञार्थः। तेन पदत्वेन भत्वे निरस्ते `ऋत्विय' इति। अत्र `ओर्गुणः' (6.4.146) इति गुणो न भवति।।

107. कालाद्यत्‌। (5.1.107)

108. प्रकृष्टे ठञ्‌। (5.1.108)
`प्रकृष्टम्‌' इति। `नपुंसके भावे क्तः' (3.3.114)। कालस्य दीर्घत्वमिह प्रकृष्टशब्देनोच्यते। अथ ठञ्ग्रहणं किमर्थम्‌, यावता प्रकृत एव ठञ्‌, तत्र प्रकृष्टमित्येतावदेव वक्तव्यम्‌? इत्याह--`ठञ्ग्रहणं विस्पष्टार्थम्‌' इति। असति हि ठञ्ग्रहणे यतोऽनन्तरत्वात्‌ स एव विधीयत इति कस्यचिद्भ्रान्तिः स्यात्। तस्मान्मन्दबुद्धि प्रवक्तारं प्रति विस्पष्टार्थं ग्रहणम्‌।।

109. प्रयोजनम्‌। (5.1.109)
प्रयोजयतीति प्रयोजनम्‌। `कृत्यल्युटो बहुलम्‌' (3.3.113) इति कर्त्तरि ल्युट्‌।।

110. विशाखाषाढादण्मन्थदण्डयोः। (5.1.110)
ठञपवादो योगः। मन्थोऽवक्षारो विलोडनदण्डो वा।।

111. अनुप्रवचनादिभ्यश्चः। (5.1.111)
`विशिपूरी' इत्यादि। `विश प्रवेशने' (धा.पा.1824), `पूरी आप्यायने' (धा.पा.1803), `पत्लृ गतौ' (दा.पा. 845) `रुह बीजजन्मनि' (धा.पा. 859)--एताः प्रकृतयो यस्यानस्य `युवोरनाकौ' (7.1.1) इति युस्थाने विहितस्यानः, तस्माद्विद्यमानपूर्वपदाच्छ उपसंख्येयः। केवलस्यानस्य सपूर्वपदत्वं न सम्भवतीति तस्य शब्दस्येदं विशेषणं विज्ञायते। गृहप्रवेशनं प्रयोजनं यस्य तत्र गृहप्रवेशनशब्दो विशिप्रकृत्यनन्तः, गृहशब्देन च सपूर्वपदः। यदि तर्हि विश्यादिप्रकृत्यनन्ताच्छशब्दाच्छ उपसंख्यायते, अनुप्रवचनादिषु संवेशनारोहणादीनां पाठोऽनर्थकः; तस्यैव प्रपञ्चार्थत्वात्‌।।

112. समापनात्सपूर्वपदात्‌। (5.1.112)
अथ पदग्रहणं किमर्थम्‌, सपूर्वादित्येवोच्येत? इत्यत आह--`पदग्रहणम्‌' इत्यादि। असति हि पदग्रहणे, ईषदसमाप्तं समापनं बहुसमापनं तत्‌ प्रयोजनमस्येति तत्रापि प्राप्नोति; भवति ह्ययं समापनशब्दः सपूर्वः। पदग्रहणे तु सति न भवति; बहुचप्रत्ययस्यापदत्वात्‌।।

113. ऐकागारिकट्‌ चौरे। (5.1.113)
`चौरे नियमार्थम्‌' इति। प्रकृतत्वाच्च ठञ एव। एवं ब्रुवता ठञान्तमेतन्निपात्यत इत्युक्तं भवति।
ननु च टकारानुबन्ध एवमर्थमासङ्ग्यते, ङीव्यता स्यादिति, स चात्र ठञन्तत्वादेव सिद्धः, तत्‌ किमर्थं टकारः? इत्यत आह--`टकारः' इत्यादि। असति हिटकारे, यथा ङीब्भवति तथा ञित्स्वरोऽपि--आद्युदात्तत्वं स्यात्। `कार्यावधारणार्थष्टकारः' क्रियते, तेन ङीबेव भवति, न ञित्स्वरः। `अपर इकट्प्रत्ययं वृद्धिं च निपातयन्ति' इति। तेषां ङीबर्थ एव टकारः। एकश्बदोऽसहायर्थः, स चासहायवाची द्रष्टव्यः। असहयग्रहणं चौरस्य स्वार्थे, न तूपलक्षणं प्रयोजनम्‌।।

114. आकालिकडद्येन्तवचने। (5.1.114)
आदिः=जन्म, अन्तः=विनाशः, तयोर्वचनमाद्यन्तवचनम्‌। तस्मिन्‌ सत्येतन्निपातनम्‌। `समानकालावाद्यन्तावस्य' इति। ननु चोत्पदनविनाशयोरयौगपद्यात्‌ समनकालत्वं न सम्भवति, न ह्यनेन जन्मनाशयोरेककालता प्रतिपद्यते, किं तर्हि? विद्युदादेरनवस्थायित्वप्रदर्शनपरत्वादस्येत्यत आह--`उत्पादानन्तरं विनाशिनीत्यर्थः' इति।
`आकालाट्ठंश्च' इति। यदा ठन्‌ तदा--आकालिका। यदा ठञ्‌ तदा--आकालिकी। आकालशब्दश्चायं `आङ्‌ मर्यादाभिविध्योः' (2.1.13) इत्यव्ययीभावः। आ कालादाकालम्‌--`कुगतिप्रादयः' (2.2.18) इति, तत्पुरुषो वा--आवृत्तः काल आकाल इति।।

115. तेन तुल्यं क्रिया चेद्वतिः। (5.1.115)
`तुल्यम्‌' इति। कर्मपदमेतत्‌, क्रियाविशेषणत्वात्‌। प्रतिपादितं हि प्राक्‌ क्रियाविशेषणानां कर्मत्वम्‌ `स्तोकान्तिकदूरर्थाकृच्छ्राणि क्तेन' (2.1.39) इति सूत्रे। `ब्राह्मणेन तुल्यं वर्त्तते ब्राह्मणवत्‌' इति। का पुनरत्र क्रिया? ब्राह्मणेन तुल्यं वर्त्तते क्षत्रियादिगता अध्ययनादिका। ननु च तस्या ब्राह्मणनिष्ठयाऽध्ययनादिक्रिययैव तुल्यता। न च तां ब्राह्मणशब्द आह। किं तर्हि? जातिं द्रव्यं वा। न च ताभ्यां क्रियया तुल्यत्वम्‌; स्वभावभेदात्‌। यत्र हि किञ्चित् सामान्यम्‌, कश्चिद्विशेषः, स विषयस्तुल्यतायाः इह त्वत्यन्तभेद एव? नैष दोषः; यद्यपि ब्राह्मणादिशब्दैः क्रिया नोच्यते, तथाप्यभिधेयसम्बन्धेन प्रतीयते, यथा--`गुडः' इत्युक्ते गुडेनानभिधीयमाना अपि माधुर्यादयः। तत्र ब्राह्मणादिशब्देन योऽर्थ उच्यते तेन तुल्यत्वं क्रियाया न सम्भवति। उच्यते चेदं वचनसामर्थ्यात्‌। यासावभिधेयन ब्राह्मणेन क्रिया गम्यते तया तुलप्याता विज्ञास्यते। ननु च तृतीयासमर्थविभक्तिवाच्यया क्रिययैव प्रत्ययार्थक्रियायास्तुल्यता, तस्याश्च घञन्तोऽवकाशः--तैलपाकेन तुल्यो घृतपाक इत्यादि? नैषोऽस्त्यवकाशः; घात्वर्थो हि क्रिया, सा च पूर्वापरीभूता। अथ वा--असत्त्वभूता। न च तस्यां घञादयो भवन्ति, क्व तर्हि? तस्यैव धात्वर्थस्य धर्मे सिद्धतायामेव। घात्वर्थस्यापि घञादिस्थाया भिद्यते। तत्कथं घञादीनामर्थः क्रियेति शक्यते वक्तुम्‌? न च तया घञादिवाच्यसिद्धतया द्रव्यगतायास्तुल्यता। न हि द्रव्यभूतेनासत्त्वभूतस्य वस्तुतुल्यतोपपद्यत इत्यतो नास्ति वचनस्यावकाशः। यदि तर्हि क्रिया घञादिभिर्नाभिधीयते--कर्तुं गमनम्‌, भोक्तुं पाकः, करकस्य व्रजतीति `तुमुण्णवुलौ क्रियायं क्रियार्थायाम्‌' (3.3.10) इति तुमुण्ण्वुलौ न प्राप्नुतः? नैष दोषः; यदत्र प्रकृतिरूपं तस्य क्रियैवार्थ इति तदाश्रयौ तुमुण्ण्वुलौ भविष्यत इत्यलमतिप्रसङ्गेन।।

116. तत्र तस्यैव। (5.1.116)
अथ कियर्थमिवेत्युच्यते, न वत्यर्थे सादृश्ये भविष्यति? भविष्यति? नैतदस्ति; न हि तुल्यग्रहणं शक्यमिहानुवर्त्तयितुम्‌। तद्धि क्रियाविशेषणत्वात्‌ कर्म, तत्र यदीह तस्यानुवृत्तिः स्यात्‌ तथाभूतस्यैव स्यात्‌। ततश्च कर्मण्येव तुल्ये प्रत्ययः स्यात्, तथा च--मथुरायामिव मथुरावत्‌ स्लुध्ने प्रासाद इत्यादि न सिध्येत्‌। तस्मादिवेति वक्तव्यम्‌। अक्रियार्थश्चायमारम्भः।।

117. तदर्हम्‌। (5.1.117)
अरहतीत्यर्थः। क्रियाग्रहणमिहानुवर्त्तते, ततोऽस्यामेवर्हणक्रियायां कर्तृभूतायां प्रत्ययो विधीयत इति। यत्रासौ प्रत्ययार्थत्वेन विवक्ष्यते, तत्र वाक्यमेव भवति--ब्राह्मणमर्हतीति।।

118. उपसर्गाच्छन्दसि धात्वर्थे। (5.1.118)
उपसर्गाः प्रादयः, ते चैवमात्मकाः। यत्र क्रियावाची शब्दः प्रयुज्यते, तत्र क्रियाया विशेषका भवन्ति--आगच्छति, प्रगच्छतीति। यत्र न प्रयुज्यते, तत्र समाधनक्रियावाचकाः--सङ्कटः, उत्कट इति। क्रियावाची शब्दः प्रादीनां वत्यन्तानां प्रयोगे न प्रयुज्यते। तेन साधनो धात्वर्थेः स्वार्थः। तेन साधने धात्वर्थे वर्त्तमानादुपसर्गात्‌ प्रत्ययो विज्ञायति इत्याह--`समाधने धात्वर्थे' इति। यदि ह्येवमात्मका उपसर्गाः, धात्वर्थग्रहणं न कर्त्तव्यम्‌? सत्यमेतत्‌; तत्‌ क्रियते विस्पष्टार्थम्‌। `उद्वतः, निवतः' इति। उच्छब्दात्‌ निश्बदात् समाधने धात्वर्थे वतिः। ननु च वतेरव्ययसंज्ञकत्वाद्विभक्तेर्लुक्‌ प्राप्नोति, स कस्मान्न भवति? अव्ययसंज्ञाया अनित्यत्वात्‌। अनित्यत्वं तु तस्याः `सत्यमेतत्‌; तत्‌ क्रियते विस्पष्टार्थम्‌। `उद्वतः, निवतः' इति। उच्छब्दात्‌ निशब्दात्‌ समाधने धात्वर्थे वतिः। ननु च वतेरवययसंज्ञकतवाद्विभक्तेर्लुक्‌ प्राप्नोति, स कस्मान्न भवति? अव्ययसंज्ञाया अनित्यत्वात्‌। अनित्यत्वं तु तस्याः `सर्वमिदं काण्डं स्वरादावपिं पठ्यते' इत्यादिनाऽव्ययसंज्ञाप्रकरण एव प्रतिपादितम्।।

119. तस्य भावस्त्वतलौ। (5.1.119)
भवतेरनेकार्थत्वाद्भवाशब्दोऽयमभिप्रायादिष्वनेकेषु वर्त्तते। तत्र न ज्ञायते-कोऽत्रार्तो भावशब्देन विवक्षितः? इत्यतस्तत्परिज्ञानार्थमाह--`भवतोऽस्मात्‌' इति। यस्माद्गोत्रादेर्विशेषणत्वाद्विशेष्ये गवादौ गौरित्येवमादिकः शब्दो भवति, गोत्वाकारवती च बुद्धिस्तेन योऽर्थो गवादेः शब्दस्य प्रवृत्तनिमित्तं स भावशब्देनोच्यते। तथा चोक्तम्‌--`यस्य गणस्य भावाद्द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ' इति। गुण इति विशेषणमिहोच्यते, द्रव्यं विशेष्यम्‌। यस्य विशेषणस्य भावाद्विद्यमानत्वाद्विशेष्ये शब्दस्य निवेशः प्रवृत्तिर्भवति, तदभिधाने त्वतलादयः प्रत्यायः भवन्ति। तत्‌ पनः शब्दानां प्रवृत्तिनिमित्तमनेकप्रकारम्‌; जातिशब्दानां जातिः--अश्वत्वमिति, गुणशब्दानां गुणः--शुक्लत्वमिति, क्रियाशब्दानां क्रिया-पाचकत्वमिति। केचित्तु क्रियाकारकसम्बन्धं क्रियाशब्दानां प्रवृत्तिनिमित्तमिच्छन्ति। यदृच्छाशब्दानां संज्ञासंज्ञिसम्बन्धित्वमिति संक्षेपेणैतदुक्तम्‌। विस्तरेण तु भाष्यादावुक्तमिति तत एवानुगन्तव्यम्‌। अथ नानात्वमित्यादौ कथं प्रत्ययो भवति? कथङ्कारं न भवितव्यम्‌? षष्ठीसमर्थात् प्रत्ययविधानात्‌, नानेत्येवमादीनाञ्चाव्ययानां षष्ठ्यर्थेनायोगात्‌, अयोगास्तु तेषामसत्त्ववाचित्वात्‌? नैष दोषः; ससत्त्वभूतोऽप्यर्थः शब्दान्तरेण प्रत्यवमृष्टः षष्ठ्यरेथेन प्रयुज्यते--नानेत्यस्य भाव इति। तञ्च प्रत्यवमृष्टार्थं वृत्तिरेव गमयतीति नानुपपन्ना षष्टीसमर्थता।।

120. आ च त्वात्‌। (5.1.120)
`प्रथिमा' इति। `तुरिष्टेमेयस्सु' (6.4.154) इति, `टेः' (6.4.155) इति टिलोपः। `र ऋतोहलादेर्लघोः' (6.4.161) इति ऋकारस्य रेफः, `सर्वनामस्थाने चासम्बुद्धौ' (6.4.8) इति दीर्घः। `पार्थवम्‌' इति। `इगन्ताच्च लघुपूर्वात्‌' (5.1.131) इत्यण्‌।
`अपवादैः' इत्यादि। इमनिच्प्रभृतीनपवादस्त्वितलोर्वक्ष्यति, तैः सह तयोः समावेशः। एकविषयता यथा स्यादित्येवमर्थमिदम्‌। ननु च स्वरितत्वादनुवर्त्तमानावनुवृत्तिसामर्थ्यादेवापवादविषयेऽपि भविष्यतः? नैतदस्ति; अस्ति ह्यनुवृत्तेः प्रयोजनम्‌, किंम्‌? `गुणवचनब्राह्मणादिभ्यः कर्मणि च' (5.1.124) इति कर्मण्यपि यथा स्याताम्‌; इतरथा हि भावे विधीयमानौ कर्मणि न स्याताम्‌। `कर्मणि च' इत्यादि। ननु चानुवृत्तिसामर्थ्यादेव कर्मण्यपि भविष्यतः? नैतदस्ति; अस्ति ह्यन्यदनुवृत्तेः प्रयोजनम्‌, किम्‌? अपवादविषयेऽपि यथा स्याताम्‌। तस्मिंसत्वसति न स्याताम्‌, अस्मिंस्तु सत्येतदुभयमपि लभ्यते। `चकारः' इत्यादि। यदि चकारो न क्रियेत ततोऽत्रैव प्रकरणे येऽपवादास्तैरेव समावेशः स्यात्‌, न नञ्स्नञ्भ्याम्‌; तयोरन्यतर विहितत्वात्‌। चकारे त्वपवादसमुच्चयार्थे सति सर्वापवादविषये त्वतलौ लभ्येते। तेन स्त्रीपुंसाभ्यामपि सिद्धौ भवतः। यद्येवम्‌, अन्येष्वर्थेषु सावकाशौ नञ्स्नञौ भावे न सिध्यतः, त्वल्लभ्यां बाध्यमानत्वात्‌? नैषः दोषः; `भवनात्‌' इत्यवध्युपादानसामर्थ्याद्भावेऽपि भविष्यतः; इतरथा हि भावमेव विधित्वेनोपाददीत।।

121. न नञ्पूर्वात्तत्पुरुषादचतुरसङ्गतलवणवटबुधकतरसलसेभ्यः। (5.1.121)
अधिकारोऽयम्‌। तेनोत्तरेषां भावप्रत्ययानां प्रतिषेधो विज्ञायते; न त्वतलोरिति मत्वाऽऽ-`इत उत्तरे ये भावप्रत्ययाः' इत्यादि। न तु `पृथ्वादिभ्य इमनिज्वा' (5.1.122) इत्येवमादिंभिर्योगैः परिगणिताभ्य एव प्रकृतिभ्यः प्रत्ययो विधीयते। न च तत्र काचित्‌ प्रकृतिर्नञ्पूर्वा गृह्यते, न च तदन्तविधिरस्ति; ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात्‌। तस्मात् तत्र नञ्पूर्वात्‌ प्राप्तिर्नास्तीति नास्त्यस्योपयोगः? सत्यम्‌; यत्र त्वन्तग्रहण्‌--`पत्यन्तपुरोहितादिभ्यो यक्‌' (5.1.128) इत्येवमादिषु योगेष्वस्ति, यत्र च स्वरूपग्रहणं नास्ति `योपधाद्गुरूपोत्तमाद्वुञ्‌' (5.1.132) इत्येवमादिषु, तत्र नञ्पूर्वादपि प्राप्तिरस्तीति प्रतिषेधः क्रियते। `अपतित्वम्‌' इति। नञ्समासे कृत उत्तरकालं पत्यन्तादभावविवक्षायां `पत्यन्त' (5.1.128) इत्यादिना यग्न भवति। `अपटुत्वम्‌' इति। `इगन्त' (5.1.131) इत्यण्‌ न भवति। `अरमणीयत्वम्‌' इति। `योपदात्‌' (5.1.132) इत्यादिना वुञ्‌ न भवति। नास्य पटवः सन्तीत्यपटुरिति बहुव्रीहिरयम्‌, तेनास्मादिगन्तलक्षणोऽण्‌ भवति--`आपटवम्' इति।
`आचतुर्यम्‌' इति। ब्राह्मणादित्वात्‌ ष्यञ्‌। ननु च नञ्समासा ब्राह्मणादिषु न षठ्यन्ते, तत्कुतस्तेन ष्यञ्‌? नैष दोषः; आ
कृतिगणो हि ब्राह्मणादिरिष्यते। अचतुरादिप्रतिषेध एवाकृतिग्रहणस्य ज्ञापकम्।।

122. पृथ्वादिभ्य इमनिज्वा। (5.1.122)
पृथ्वादिषु य इगन्ता लघुपूर्वाः पृथुमृदुप्रभृतयः, तेषामणि प्राप्ते; ये गुणशब्दाः खण्ड चण्ड--इत्येवमादयः, तेषां ष्यञि; ये वयोवचनाः--बाल वत्स--इत्येवमादयः, तेषां `प्राणभृज्जाति' (5.1.129) इत्यादिनाञि सर्वेषामपवाद इमनिज्विधीयते। `वावचनम्‌' इत्यादि। आदिशब्देनष्यञादीनामुपसंग्रहः। वाक्यार्थं तु वावचनं न भवति; महाविभाषयैव वाक्यस्य सिद्धत्वात्।।

123. वर्णदृढादिभ्यः ष्यञ्च। (5.1.123)
बहुवचनं प्रतेयकमभिसम्बध्यते--वर्णेभ्यो दृढादिभ्यश्चेति; तेन बहुवचननिर्देशाद्वर्णशब्देन वर्णवाचिनां ग्रहणमिति विज्ञायते, न स्वरूपग्रहणे तु वर्णशब्दमपि दृढादिषु एवाधीयीत। वर्णशब्दश्च गुणविशेषस्य वाचकः; न ब्राह्मणादीनाम्‌। कुतः? दृढादिभिर्गुणवचनैः साहचर्यात्‌। अत एवाह-दृढादिभिः साहचर्याद्रूपविशेषा एव शुक्लादयः प्रत्ययमुत्पादयन्ति, न तु स्वरूपशब्दाः, नापि तत्पर्यायाः। कथम्‌? दृढादयो हि गुणा उपसर्जनं द्रव्ये वर्त्तन्ते। तत्साहचर्याद्वर्णशब्दा अपि तत्सदृसा एव गृह्यन्ते। न वर्णश्बदस्य तत्पर्यायाणां वा तादृशी वृत्तिरस्ति; गुणमात्रवचनत्वात्‌। वर्णदृढादीनां गुणवचनत्वादेव सिद्धे पुनर्वचनमिमनिजर्थम्‌। यद्येवम्, ष्यञ्ग्रहणनर्थकम्‌, इमनिजेव विधेयः, स च विभाषयैव प्रकृतः? तदुच्यते; अवस्यं ष्यञ्ग्रहणमुत्तरार्थ कर्त्तव्यम्। तत्र वा क्रियत इह वेति नास्ति विशेषः। `शुक्लिमा' इति। पूर्ववट्टिलोपः। `द्रढिमा' इति। पूर्वदृकारस्य रभावः।
`औचितो, यथाकामी' इति। `षिद्गौरादिभ्यश्च' (4.1.41) इति ङीष्‌। `हलस्तद्धितस्य' (6.4.150) इति यलोपः।
`वेयतिलाभमतिमनःशारदानाम्‌' इति पठ्यते। तस्यायमर्थः--विशब्दादुत्तरेषां यातादीनां प्रत्ययाभवन्तीति। वियातत्वम्, वियातता, वियातिमा, वैयात्यम्‌। विलाभता, विलाभत्वम्‌, वैलाभ्यम्‌, विलाभिमा। विमतित्वम्‌, विमतिता, वैमत्यम्, विमतिमा, `इगन्तात्‌' (5.1.131) इत्यण्‌, वैमतम्‌। विमनसत्वम्‌, विमनस्ता, विमनिमा, वैमनस्याम्‌। विशारदत्वम्‌, विशारदता, वैशारद्यम्‌, विशारदिमा। `समो मतिमनसोः' इति। सम उत्तरयोर्मतिमनसोः प्रत्ययो भवति। संमतिता, संमतित्वम्‌, संमतिमा, सांमत्यम्‌। संमनस्त्वम्‌। संमनस्ता, संमनिमा, सांमनस्यम्‌।।

124. गुणवचनब्राह्मणादिभ्यः कर्मणि च। (5.1.124)
`तस्येदम्‌' (4.3.120) इति शैषिकेषु प्राप्तेषु कर्मणि ष्यञ्विधानम्‌, चकारद्भावे च। `कर्मशब्दः क्रियावचनः' इत। साधनकर्मवचनशङ्कामपाकरोति। ये हि जडादिशब्दाः गुणशब्दाः, गुमवचनाः, ब्राह्मणादयश्च तेषां साधनकर्मणा सम्बन्दो न सम्भवति; क्रियावाचकत्वाभावात्‌। तस्मात्‌ क्रियाशब्द एव कर्मशब्दः। `ब्राह्मणादिराकृतिगणः' इति। अवृत्कृतत्वात्‌। `आदिशब्दः प्रकारे' [`प्रकारवचनः'--काशिका, पदमञ्जरी च] इति। एवं प्रकारेभ्यः ष्यञ्‌ भवतीत्येवमर्थमादिशब्दः प्रकरवचनत्वं बोधयति। यद्येवम्‌, गुणवचनग्रहणं प्रातिपदिकेषु च ब्राह्मणादीनामनुक्रमणमनर्थकं स्यात्‌? नानर्थकम्‌; प्रपञ्चार्थ हि तत्‌ स्वार्थे विधानार्थञ्च। तत्र ब्राह्मणशब्दात्‌ `प्राणभृज्जाति' (5.1.129) इति जातिवचनत्वादञि प्राप्ते तद्बाधनार्थं ष्यञ्विधीयते। माणववाडवाभ्यां गोत्रलक्षणे वुञि।
`अर्हतो नुम्‌ च' इति। अस्य नुमर्थः पाठः--अर्हन्त्यम्‌। चोरधूर्त्ताभ्यां मनोज्ञादित्वाद्‌वुञि प्राप्ते। आराधय, विराधय, अपराधय--इत्येतेभ्योऽपत्यविवक्षायां `जनपदशब्दात्‌ क्षत्रियादञ्‌' (4.1.168), तस्य `कम्बोजाल्लुक्‌' (4.1.175) इति लुक्‌। ततो गोत्रवुञि प्राप्ते पाठः। एकभवादीनामन्यभावपर्यन्तानां स्वार्थे विधानार्थम्। अक्षेत्रज्ञशब्दस्य ` नञ्पूर्वात्‌' (5.1.121) इति प्रतिषेधे प्राप्ते। प्राग्बालिशशब्दात्‌ कुशलादीनां युदादित्वादणि प्राप्ते। बालिशशब्दो वयोवचनः, तस्माद्वयोलक्षणेऽञि प्राप्ते। अनीश्वरशब्दस्य `न नञ्पूर्वात्‌' (5.1.121) इति प्रतिषेधे प्राप्ते। `अलस' इति बहुव्रीहिः ष्यञमुत्पादयति, तत्पुरुषात्तु, `न नञ्पूर्वात्‌' (5.1.121) इति प्रतिषेधेन भवितव्यम्‌; तस्य प्रपञ्चार्थः पाठः। राजन्‌शब्दस्य पुरोहितदित्वाद्यकि प्राप्ते। `संवादिन्‌' `संवेशिन्‌', `बहुभाषिन्‌, `शीर्षधातिन्‌', `सयस्थ', `परमस्थ', `दुष्पुरुष'--इत्येवमादीनां नञ्पूर्वार्थः पाठः। `गणपति', `अधिपति'--इत्येतयोः पत्यन्तलक्षणे यकि प्राप्ते। `गडुल', `दायाद', `विशस्ति'--इत्येतेषां त्वतलोर्निवृत्त्यर्थः। शेषाणां प्रपञ्चार्थः। गुणवचना एके राशिः, ब्राह्मणादयो द्वितीयः, ताभ्यां भावे कर्मणि यथासंख्यं प्राप्नोति, तत्‌ कस्मान्न भवति? ब्रह्मणादिशब्दस्याल्पाच्तरस्य परनिपातात्‌। स हि लक्षणे निरपेक्षतां निर्देशस्य ज्ञापयन्‌ यथासंक्यलक्षणानपेक्षतामपि बोधयति, तेन यथासंख्यं न भवति।।

125. स्तेनाद्यन्नलोपश्च। (5.1.125)

126. सख्युर्यः। (5.1.126)
`दूतवणिग्भ्याञ्च' इत्यादि। दूतवणिग्भ्यां यो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्‌-पूर्वसूत्रादिह चकारोऽनुवर्त्तते, स चानुक्तसमुच्चयार्थः--`दूतवणिग्भ्याञ्च' इत्यादि। दूतवणिग्भ्यामपि भवति।।

127. कपिज्ञात्योर्ढक्‌। (5.1.127)
कपिशब्दात्‌ `इगन्ताच्च लघुपूर्वात्‌' (5.1.131) इत्यणि प्राप्त इदं विधीयते। `यथासंख्यम्‌' इत्यादि। तत्र `गुणवचनब्रह्मणादिभ्यः' (5.1.124) इत्यत्र यतासंख्याभावः प्रतिपादितः। इहापि प्रतिपाद्यते। तत्रेदं प्रतिपादनम्‌--अत्र चकारोऽनुवर्त्तते, स चैकस्याः प्रकृतेर्भावे कर्मणि च ढग्विंधिं समुच्चिनोति। तेन यथांसंख्यं न भवति; अन्यथा हि समुच्ययो नोपपद्यते। अस्वरितत्वाद्वा यथासंख्यं न भविष्यति, प्रतिपादितं हि पूर्वम्‌--`स्वरितत्वेन यथासंख्यं भवति' इति। न चेह यथासंख्यार्थं स्वरितत्वं प्रतिज्ञायते।।

128. पत्यन्तपुरुहितादिभ्यो यक्‌। (5.1.128)
पत्यन्तात्‌ पूर्ववदणि प्राप्ते, पुरोहितादिषु राजशब्दराद्ब्राह्मणादिपाठात्‌ ष्यञि, शेषेब्यस्त्वतलोर्यग्विधीयते। `राजासे' इति। राजशब्दादसे=असमासे यग्भवति--राज्यमिति। समासे तु ब्राह्मणादित्वात्‌ ष्यञेव भवति--आधिराज्यमिति। ननु च केवलो राजशब्दो ब्राह्मणादिषु पठ्यते, तेत्कथमधिराजशब्दात्‌? तदन्तविधिना; एतदेव ज्ञापकमस इति वचने--अस्तौहि प्रकरणे राजशब्देन तदन्तविधिरिति। इह पत्यन्तपुरोहितादी इति द्वौ राशी, अर्थावपि भावकर्मणी द्वावेवेति साम्याद्यथासंख्यं प्राप्नोति; तदस्वरितत्वात्‌ पूर्ववन्न भवति।।

129. प्राणभृज्जातिवयोवचटनोद्रगात्रादिभ्योऽञ्‌। (5.1.129)
प्राणबृतः प्राणिन उच्यन्ते, तेषां जातिः प्राणभृज्जातिरित्यर्थः। तद्वाचिनो यतासम्भवं त्वतलादिष्वञ्विधीयते। प्राणभृद्ग्रहणात्‌ तृणादिशब्देभ्यो न भवति-तृणत्वम्, तुणतेति। जातिग्रहणाद्देवदत्तादिशब्देभ्यो न भवति--देवदत्तत्वम्‌, देवदत्तता। यदिगन्तं लघुपूर्वं च तस्मात्‌ परत्वादण्भवति। `तैत्तिरम्‌' इति। वयोवचनादपि यथायोगं त्वतलादिष्वेव प्राप्तेष्वञ्विधानम्‌।
वचनग्रहणं स्वरूपविधिनिरासार्थम्‌; अन्यथा वयःशब्दादेव स्यात्‌। तत्रोद्गात्रादिषु `उद्गात्‌, उन्नतृ, अध्वयुइत्येतेषामृत्विग्वचनात्‌ `होत्राभ्यश्छः' (5.1.135) इति च्छे प्राप्ते सत्यञर्थः पाठः। सुष्ठु, दुष्ठु, वधू--इत्येतेषां लघुपूर्वलक्षणेऽपि प्राप्ते। `सुभगमन्त्रे' इति। सुभगशब्दो मन्त्रविषयेऽञमुत्पादयति--महते सौभागाय। `सर्वे विधयश्छन्दसि विकल्प्यन्ते' (पु.प.वृ. 56) इति। `हृद्भगसिन्ध्वन्त' (7.3.19) इत्युत्तरपदवृद्धिर्न भवति। मन्त्र इति किम्‌? सौभाग्यम्‌, ब्राह्मणादित्वात्‌। शेषणामिह पाठस्त्वतलोः प्राप्तयोः।।

130. हायनान्तयुवादिभ्योऽण्‌। (5.1.130)
हायनान्तात्‌ त्वतलोः प्राप्तयोरण्विधानम्‌। ननु च `तस्येदम्‌' (4.3.120) इत्यनेन हायनान्तादण सिद्धः? न सिध्यति; परत्वात्‌ त्वतल्भ्यां बाध्यते--आषाढहायणस्य भावः कर्म वा आषाढहायण इति `वृद्धाच्छः' (4.2.114) प्रसज्येत। तस्माद्युक्तं हायनान्तादण्विधानम्‌। `यौवनम्‌' इति। `अन्‌' (6.4.167) इति प्रकृतिभावः। युवादिषु युवशब्दस्य वयोलक्षणं बधित्वा मनोज्ञादित्वाद्‌वुञि प्राप्ते पाठः। स्थविरशब्दस्य वयोलक्षणेऽञि होतृशब्दस्याप्युद्गात्रादित्वादञेव।
`पुरुषासे' इति। पुरुषशब्दादसमासेऽण्‌। भवति--पौरुषम्‌। अस इति किम्‌? राजपुरुषत्वम्‌। अस्य `प्राणभृज्जाति' (5.1.129) इत्यप्राप्ते पाठः। कमणअडलुशब्दस्येगन्तत्वादेवाणि सिद्धे त्वतलोर्बाधनार्थः पाठः। `हृदयासे' इति। हृदयशब्दादसमासेऽण्‌ भवति। हार्द्दम्‌, `हृदयस्य हृल्लेखयदण्लासेषु' (6.3.50) इति हृद्भावः। अस इति किम्‌? हृदयशब्दादसमासेऽण्‌ भवति। हार्द्दम्‌,`हृदयस्य हृल्लेखयदण्लासेषु' (6.3.50) इति हृद्भावः। अस इति किम्‌? परमहृदयत्वम्‌। कुशलादीनां क्षेत्रज्ञपर्यन्तानां ब्राह्मणादित्वात्‌ ष्यञि प्राप्ते पाठः, शेषाणां तु त्वतलोः। ननु च ग्रहणवता प्रातिपदिकेन तदन्तविधेरभावात्‌ समासादण्प्राप्तिरेव नास्ति, तदपर्थकः `पुरुषासे', `हृदयासे' इति च प्रतिषेधः? नापार्थकः, एषा हि विषयसप्तमी--समासे चिकीर्षिते विषयभूत एव पुरुषशब्दहृदयशब्दाविति। यदि प्रतिषेधो नोच्येत, ततो नञ्समासस्य भावप्रत्ययस्य चाणो युगपत्प्रसङ्गे परत्वादणेव स्यात्‌। प्रतिषेधात्तु समास एव तावद्भवति। ततो यस्य भावप्रत्ययस्य निमित्तमस्ति स उत्पद्यते। कश्चासौ? त्वतलौ--अपुरुषत्वम्‌, अपुरुषता; अहृदयत्वम्‌, अहृदयता। इह हायनान्त एकरशिः, युवादिर्द्वितीयः; अर्थावपि द्वावेव--भावकर्मणी, तेन सामर्थ्याद्यथासंख्यं प्राप्नोति; तदल्पाच्तरस्य युवादिशब्दस्य परनिपातलक्षव्यभिचारचिह्नान्न भवति। अस्वरितत्वाद्वा।।

131. इगन्ताच्च लघुपूर्वात्‌। (5.1.131)
`इगन्तात्‌' इति। इक्‌ अन्तो यस्येति बहुव्रीहिः। प्रातिपदिकमन्यपदार्थः। `लघुपूर्वग्रहणे' इत्यादि। अथेगेव कस्मान्न विशेष्यते? तस्य बहुव्रीह्यर्थे गुणभूतत्वाद्विसेषणेन सम्बन्धस्य कर्त्तुमशक्यत्वात्। पूर्वशब्दोऽयं व्यवस्थाशब्दत्वादपरमपेक्षते। इह चापरस्यानिर्दिष्टत्वान्न ज्ञायते--कुतो लघुः पूर्वः? तत्परिज्ञानाय पृच्छति--`कुतः पुनरसौ लघुः पूर्वः' इति। प्रत्यासत्तिन्यायमाश्रित्याह--`सन्निधानात्‌' इत्यादि। सन्निधानं त्विह सूत्रे इकः; श्रुतत्वात्‌।
`तेन' इति। अन्तभूतेन लघुपूर्वेणेकान्तग्रहणमितिरिच्यत इति; निष्फलत्वात्‌। यतो हि `लघुपूर्वात्‌' इत्युक्ते च प्रातिपदिकस्य तदन्तविधो सति सामर्थ्यादेव तस्यान्तत्वं लभ्यत इत्यपार्थकमन्तग्रहणमस्मिन्‌ व्याख्याने। पूर्वके तु विधाने, अन्तग्रहणेऽसति `लघुपूर्वेग्वतः' इत्येव विधिनिर्देशो विज्ञायते, ततश्चानन्तस्यापीको विधित्वं स्यात्‌। तदा लशुनलकुटप्रभृतिभ्योऽपि प्रत्ययप्रसङ्ग इत्येवमर्थमन्तग्रहणम्‌।
`कथं काव्यम्‌' इति। अन्यथा भवितव्यम्‌; कविशब्दस्य लघुपूर्वोगन्तत्वादित्यभिप्रायः।।

132. योपधाट्गुरूपोत्तमाद्‌वुञ्‌। (5.1.132)
त्वतलादिषु प्राप्तेषु वुञ्विधीयते। उत्तमशब्दोऽयमिहाव्युत्पन्नं प्रातिपदिकं गृह्यते; तत्स्वभावात्‌ त्रिप्रभृतीनामन्त्यमाहेति मत्वाऽऽह--`त्रिप्रभृतीनामन्त्यम्‌' इत्यादि। तमप्रत्ययान्तस्य तु ग्रहणे सति `अणिओरनार्षयोः' (4.1.78) इत्यादौ सुतारे यो दोष उक्तः, स इहापि तदनुसारेण वेदितव्यः। उत्तमस्य समीपमुपोत्तमम्‌, `अव्ययं विभक्तिसमीप' (2.1.6) इत्यव्ययीभावः।।

133. द्वन्द्वमनोज्ञादिभ्यश्च। (5.1.133)
द्वन्द्वात्‌ त्वतलादिषु प्राप्तेषु वुञ्विधीयते। मनोज्ञादिषु यो गुणवचनस्तस्मात्‌ ष्यञि, चौरधूर्त्तशब्दाभ्यामपि ब्राह्मणादित्वात्‌ ष्यञ्येव; युवशब्दाद्यवादित्वादणि, शेषेभ्यस्त्वतलोः। `अमुष्यपुत्रः' इति। निपातनाद्विभक्तेरलुक्‌। इह द्वन्द्वमनोज्ञादी द्वौ राशी, प्रत्ययार्थावपि भावकर्मणी द्वावेव--इति यथासंख्यं प्र्प्नोति, तत्पूर्ववदस्वरितत्वान्न भवति।
अथ वा--चकारोऽत्र समुच्चयार्थः क्रियते। तस्य चान्यत्समुच्चेतव्यं नास्तीति वुञ्विधिमेव प्रत्येकं भावकर्मणोः समुच्चिनोति। तेनैकस्माद्राशेर्भावे कर्मणि च वुञ्‌ भवति, न तु यथासंख्यम्‌; अन्यथा हि समुच्चयो नोपपद्यते।।

134. गोत्रचरणाच्छलाघात्याकारतदवेतेषु। (5.1.134)
अपत्यनिमित्ता समाख्या गोत्रख्या, सा च प्रवराध्याये पठ्यते। या च वेदाध्ययनप्रयुक्तान्‌ पुरुषानाचष्टे सा चरणशब्दस्याख्या। `गोत्रञ्च चरणैः सह' (म.भा., 2.225) इति पारिभाषिकं गोत्रचरणयोर्जातित्वमिति `प्राणभृज्जाति' (5.1.129) इत्यादिनाऽञि प्राप्ते वुञो विधानम्‌। इह गोत्रचरणवाचिनी द्वे प्रातिपदिके, अर्थावपि द्वावेव--तत्र यथासंख्यं प्राप्नोति, तत्‌ पूर्वपदस्वरितत्वान्न भवति। अत एवाह--`प्रत्येकं भावकर्मणोरर्थयोः' इति। `श्लाघादिषु विषयभूतेषु' इति। तथा हि न भावः श्लाघादीनामन्यतमोऽपि भवितुमर्हति। शब्दप्रवृत्तिनिमित्तं भावः। न च गोत्रचरणशब्दानां श्लाघादयः प्रवृत्तिनिमित्तं भवति। कर्मापि नैव श्लाघादिस्वभावं भवति। न हि गोत्रचरणानां श्लाघादयः कर्मतया रूढाः, यथा--अग्नेस्तापादयः; क्रियारूपत्वात्तेषाम्‌। साध्यतया भावकर्मणोः प्रत्ययार्थतया विषयभूतेषु वुञ्‌ भवति। `तदवेतस्तत्प्राप्तः' इति। इणोऽत्र गत्यर्थत्वात्‌। `तज्ज्ञातो वा' इति। अवपूर्वस्येणो ज्ञानेऽपि वृत्तिसम्भवात्‌। तच्छब्देन चेह गोत्रचरणयोः सम्बन्धिनी भावकर्मणई प्रतिनिर्दिश्येते। `गार्गिकया' इति। `आपत्यस्य च तद्धितेऽनाति' (6.4.151) इति यलोपः।।

135. होत्राभ्याश्छः। (5.1.135)
त्वतलोः प्राप्तयोश्छो विधीयते।।

136. ब्रह्मणस्त्वः। (5.1.136)
`नेति वक्तये' इति। छप्रत्ययेऽप्यपवादे प्रतिषिद्धे त्वप्रत्ययः। `तस्य भावस्त्वतर्लौ (5.1.119) इत्येव सिध्यति। तस्मान्नेत्येव वक्तव्ये यदेतद्वचनं तत्त्वेन तलो बाधनं यथा स्यादित्येवमर्थम्। यदि नेत्युच्यते; तदा च्छे प्रतिषिद्धे यथा त्वो भवति तथा तलपि स्यात्‌। त्ववचने तु तलो बाधा सिद्धा भवति।।

इति बोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायां

काशिकाविवरणपञ्चिकायां पञ्चमाध्यायस्य

प्रथमः पादः।।
- - -