काशिकाविवरणपञ्जिका/प्रथमोऽध्यायः/चतुर्थः पादः

← तृतीयः पादः काशिकाविवरणपञ्जिका
चतुर्थः पादः
[[लेखकः :|]]


अथ प्रथमाध्यायस्य
चतुर्थः पादः

1.आ कडारादेका संज्ञा। (1.4.1)
`या परा' इति। यत्र विप्रतिषेधस्तत्र `विप्रतिषेधे परम्' (1.4.2) इति वचनात् परा भवति। `अनवकाशा च या' इति। यस्याः संज्ञायाः क्वचिदवकाशो नास्ति, साऽप्यपवादभूत्वात् संज्ञान्तरं बाधित्वा प्रवर्त्तते। यद्येवम्, अत एव संज्ञासमावेशो न भविष्यति, तत् किमेकसंज्ञाधिकारेण ? नैतदस्ति, विरोधे हि सत्यपवादभूतत्वं भवति। विप्रतिषेधस्तु विरोध एव, स च विरोध एकसंज्ञाधिकारे सति भवति, नासति; तथा हि यत्रैकसंज्ञाधिकारो नास्ति, तत्र विप्रतिषेधो नास्त्येव, यथा-- प्रत्ययादीनां संज्ञायाम्; तस्मादस्मिन्नधिकारे सति विरोधो भवति। तस्मिंश्च सति `विरोधे परम्' इति वचनात् परा भवति, ्पवादभूतत्वादनवकाशा च। तस्मात् कर्त्तव्योऽयमधिकारः।
यद्येवम्, अङसंज्ञायां भपदसंज्ञयोः समावेशो वक्तव्यः-- बाभ्रव्यः, धानुष्क इति। बभ्रुशब्दात् `मधुब्रभ्व्रोर्ब्राह्मणकौशिकयोः' (4.1.106) इति यञ्। तत्र भत्वात् `ओर्गुणः' (6.4.146) अङ्गत्वादादिवृद्धिः, तत्र `वान्तो यि प्रत्यये' (6.1.79) इत्यवादेशः; धनुःशब्दाच्च धनुः प्रहरणमस्य `तदस्य प्रहरणम्' (4.4.57) इति ठक्; `इसुसुक्तान्तात्कः' (7.3.51) इति कादेशः, अत्र पदत्वात् `इणः षः' (8.3.39) इति षत्वम्।
अङ्गत्वादादिवृद्धिर्न वक्तव्या। `वा क्यषः' (1.3.90) इततो वाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा। तेन क्वचित् संज्ञासमावेशो भविष्यतीति। `अन्यत्र ' इति। लोके च, शास्त्रे च। लोके तावत्-- इन्द्रः, शुक्रः, पुरन्दर इति संज्ञायाः समावेशो दृष्टः। शास्त्रेऽपि प्रत्ययः,कृत्, कृत्यप्रत्ययः। एवमन्यत्र संज्ञासमावेशादिहापि स्यात्, अतएवैका संज्ञा यथा स्यादिति नियमार्थमेतत्। `भिदिश्छिदिः' इति। लघुसंज्ञाया अवकाशः। प्रयोजनं तु-- `भेत्ता, छेत्ता' इति। `पुगन्तलघूपधस्य' (7.3.86) इति गुणः। `शिक्षिर्भिक्षिः' इति। गुरुसंज्ञाया अवकाशः। प्रयोजनं-- `शिक्षा, भिक्षा' इत। `गुरोश्च हलः' (3.3.103) इत्यकारप्रत्ययः। लघुसंज्ञा त्वत्र प्रयोजनाभावान्न भवति। इहोभयं प्राप्नोति-- `अततक्षत्, अररक्षत्' इति। परत्वाद्गुरुसंज्ञैव भवति। `तक्षूत्वक्षू तनूकरणे' (धा.पा.655, 656), `रक्ष पालने' (धा.पा.65र8), हेतुमण्णिच्, लुङ, च्लेश्चङ, णिलोपः, `चङि' (6.1.11) इति द्वर्वचनम्। यद्यत्र लघुसंज्ञा स्यात्, `सन्वल्लघुनि' (7.4.93) इत्यादिना सन्वद्भावादित्वं स्यात्। तदभावान्न भवतीत्याह-- `सन्वल्लघुनि' इत्यादि। `एष विधिः ' इति। सन्वद्भावविधिः। परस्या इदमुदाहरणमुक्तम्। अनवकाशायास्तूच्यते-- अयन्ते योनिर्ऋत्विय इति। ऋतुः प्राप्तोऽस्तेति `ऋतोरण्' (5.1.105) `छन्दसि घस्' (5.1.106) इति घस्; तस्येयादेशे कृते `सिति च' (1.4.16) इति पदसंज्ञा प्राप्नोति, `यचि भम्' (1.4.18) इति भसंज्ञा च, अनवकाशत्वात् पदसंज्ञैव भवति। यदि भसंज्ञा स्यात् तदा `ओर्गुणः' (6.4.146) इति गुणः स्यात्। भसंज्ञायास्त्वौपगवादिष्ववकाशः। आ कडारादितीयतोऽवधेर्ग्रहणं वैचित्र्यार्थम्; अन्यथा हि `आ द्वन्द्वात इत्येवं ब्रूयात्। न हि द्वन्द्वसंशब्दानात् परेणाकडारादेकसंज्ञाविधानस्य प्रयोजनमस्ति; यत एतावतोऽवधेर्ग्रहणमर्थवद्भवति।।

2. विप्रतिषेधे परं कार्यम्। (1.4.2)
`विरोधो विप्रतिषेधः ' इत। विप्रतिषेधशब्दस्य लोके विरोधवाचित्वेन प्रसिद्धत्वात्। तथा हि-- विरुद्धेऽभिहिते वक्तारो वदन्ति-- `विप्रतिषिद्धमिदमुच्यते' इति, विरुद्धमिति गम्यते। तस्य विप्रतिषेधस्य विषयं दर्शयितुमाह-- `यत्र' इत्यादि। प्रसज्येते विधीयेते इति प्रसङ्गौ = विधी। `अन्यार्थौ' इति। अन्यत्र विषयेऽर्थः प्रयोजनं ययोस्तौ तथोक्तौ। अन्यत्र विषयान्तरे कृतार्थावित्यर्थः। `एकस्मिन्' इति। अभिन्ने। युगपत् = एककलाम्। स इत्यस्य विप्रतिषेध इत्यने सम्बन्धः। स विप्रतिषेधो विप्रतिषिद्धः, विप्रतिषेधस्य विषय इत्यर्थः। विप्रतिषेधविषयत्वाद्विप्रतिषेदविषयो ह्यत्र विप्रतिषेधशब्देनोक्तो विषयिणा विषयं दर्शयितुम्। यस्मान्न प्रसङ्गो विप्रतिषेध उपपद्यते, नापि तदाधारः। `तुल्यबलविरोधः' इति। तुल्यबलयोर्विरोधोऽस्मिन्निति बहुव्रीहिः। इदं जातिपक्षमाश्रित्य विवरणं कृतम्। द्रव्यपदार्थपक्षे त्वयं विशेषः-- अन्यः= भिन्नोऽर्थः = प्रयोजनं यतोस्तावन्यार्थाविति। शेषं समानम्। `विप्रतिषेधे' इति च सती सप्तमीयम्।
`उत्सर्गापवाद' इत्यादि। विप्रतिषेधो यत्रास्ति, सोऽय योगस्यावकाशः। विप्रतिषेधञ्च तुल्यबलयोरेव भवतीति नातुल्यबलयोः। एतत्तु `यत्र हि प्रसङ्गावन्यार्थौ'इत्यादिग्रन्थेन तस्य विषयं दर्शयता व्याख्यातम्। न चोत्सर्गापवादादिषु तुल्यबलतास्तीति, ततो नासावुत्सर्गापवादादिरस्य योगस्य विषयः। तेन बलवानेव तत्र भवति; तत्र सामान्येनोत्सर्गः प्रवर्त्तते; यथा--`आर्धधातुकस्येड्वलादेः' (7.2.35) इति, वलादिसामान्यस्येड्विधानात्। विशेषोऽपवादः, यथा-- नेड वशि कृति' (7.2.8) इतीट्प्रतिषेधस्य वलादिविशेषे वशादौ कृति विधानात्। यस्य च विशेषे विधिः, स बलवान् भवति; तथा हि-- ब्राह्मणेभ्यो दधि दीयताम्, तक्रं कौण्‍डिन्यायेति विशेषविहितं तक्रदानं सामान्यविहितस्य दधिदानस्यैव बाधकं भविष्यति। तस्माद्वशादौ कृति परेऽपीडागमो न भवति, प्रतिषेध एव भवति-- `स्थेशभासपिसकसो वरच' (3.2.175) ईश्वर इति।
नित्यानित्ययोर्नित्यं बलवत् यथा- `भिस ऐस्' (7.1.9) इत्यैत्वम्। तद्धि `बहुवचने झल्येत्' (7.3.103) इत्येत्त्वे कृते प्राप्नोति। अकृतेऽपि-- भूतपूर्वगत्याश्रयणादकारान्तादङ्गद्भिस ऐस् विहित इति कृत्वा। यश्च कृताकृतप्रशङ्गी विधिः स नित्य इति। तथा च तत्र (7.1.9) वक्ष्यति--
एत्त्वं भिसि परत्वाच्चेदत ऐस् क्व भविष्यति।
कृतेऽप्येत्त्वे भौतपूर्व्यादैस्तु नित्यस्तथा सति।।
इति स नित्यः। ऐस्त्वे एत्त्वं न प्राप्नोति; निमित्तस्य झलादेर्विहितत्वात्। वृक्षेष्व्तयादादेत्त्वस्यावकाशः, अस्मिंश्च सति भूतपूर्वगत्याश्रयणस्यायुक्तत्वात्। तस्मात् तदनित्यम्। यच्चानित्यं तत् परस्य भावाभावमपेक्षत इति दुर्बलम्। विपर्ययात् तु नित्यं बलवत्। तेन वृक्षैरिति परमप्येत्त्वं न भवति। ऐस्भाव एव तु भवति।
अन्तरङ्गबहिरङ्गयोरन्तरङ्गं बलवदिति लोकत एव दृष्टत्वात्। लोको हि प्रातरुत्थायान्तरङ्गाणि मुखप्रक्षालनादीनि कार्याणि करोति, पश्चद्बहिरङ्गाणि राजगृहगमनादीनि कार्याणि कर्त्तुमारभते। शास्त्रेऽप्येवं वेदितव्यम्। दिवि कामोऽस्य द्युकामः, तस्यापत्यम् `अत इञ्' (4.1.95) द्यौकामिः. यद्यपि द्युकामशब्दादिञ् विहितः, तथापि `अकृतव्यूहाः पाणिनीयाः' (व्या.प.84) कृतमपि शास्त्रं निवर्त्तयन्तीति,प्रविभ्जायन्वाख्याने दिव् काम इञिति स्थिते `दिव् उत्' (6.1.131) इत्युत्त्वे कृते यणादेशः प्राप्नोति, `तद्धितेष्वचामादेः' (7.2.117) इति परत्वात् वृद्धिः प्राप्नोति ? अन्तरङ्गत्वाद्यणादेशः पूर्वो विधिः क्रियते, पश्चाद्‌वृद्धिरुकारस्य। अन्तरङ्गत्वन्तु यणादेशस्य वर्णाश्रयत्वात्। वृद्धेस्तु बाह्यतद्धिताश्रयाद्बहिरङ्गत्वम्। `वार्णादाङ्गं बलीयः' (व्या.प.39) इत्येतदिह न प्रवर्तते; व्याश्रयत्वात्।
`अप्रवृत्तौ' इत्यादि। यदा `आकृतिः पदार्थः'इत्येष पक्ष, तदाऽन्यत्र कृतार्थत्वाच्छास्त्रयोर्विप्रतिषेधे सति परस्परप्रतिबन्धादप्रवृत्तिरेव प्राप्नोति; यथा-- यदिह द्वयोस्तुल्यबलयोरेकः प्रेष्यो भवति, तौ च युगपत् प्रेषयतः, नानादिक्षु तयोः कार्ये भवतः। ततो यद्यसावविरोधार्थी भवति तदोभयोरपि कार्ये न प्रवर्तते। द्रव्ये पदार्थे तु प्रतिव्यक्ति लक्षणं प्रवर्त्त इत्यकृतार्थत्वल्लक्षणयोः पर्यायेण प्रवृत्तिः प्राप्नोति, यथा-- ब्राह्मणक्षत्रियादीनामसहभुजामेकस्मिन् भाजने भुजक्रियायां पर्यायः स्यात्। तत्र जातौ पदार्थे कृतार्थत्वाद्‌वृत्तौ प्राप्तयां विध्यर्थमिदमारभ्यते-- विप्रतिषेधे सति परं कार्यं भवतीति। तत्र कृते यदि पूर्वमपि प्राप्नोति, तदपि भवत्येव। तत्रेदमुच्यते-- पुनः प्रसङ्गविज्ञानात् सिद्धमिति। व्यक्तौ तु पदार्थेऽकृतार्थत्वात् शास्त्रयोः पर्यायेण प्रवृत्तौ प्राप्तयां नियमार्थमिदम्-- विप्रतिषेधे परमेव भवति न पूर्वमिति। तत्रेदमुच्यते-- `सकृद्‌गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव' (व्या.प.40) इति।

3. यू स्त्र्याख्यौ नदी। (1.4.3)
`ई च ऊ च यू' इति। ननु च `दीर्घाज्जसि च' (6.1.105) इति प्रथमयोः पूर्वसवर्णदीर्घत्वे प्रतिषिद्धे यणादेशे सति य्वाविति भवितव्यम्. तत्कथं `यू' इति निर्देश इत्यत आह-- ` अविभक्तिकोऽयं निर्देशः' इति। `सुपां सुलुक्' (7.1.39) इति विभक्तिर्लुप्तत्वात्। नास्माद्विभक्तिर्विद्यत इत्यविभक्तिकः। `स्त्रियमाचक्षाते स्त्र्याख्यौ' इति। ननु च `कर्मण्यण्' (3.2.1) इत्यणि कृते `आतो युक् चिण्कृतोः' (7.3.33) इति युकि च स्त्र्याख्यायाविति भवितव्यम्, तत्कथं स्त्र्याख्याविति ? `आतोऽनुपसर्गे कः' (3.2.3) इति कप्रत्यये कृत एतद्रूपमिति चेत्, न; चक्षिङोऽत्र सोपसरग्त्वादित्यत आह-- `मुलविभुजादिदर्शनात्' इति। मूलविभुजादिष्वपि कप्रत्यय इष्यते। तथा च वक्ष्यति तृतीयेऽध्याये कप्रकरणे-- `मूलविभुजादिभ्य उपसंख्यानम्' (वा.232) इति। तेन `स्त्र्याख्यौ' इति शब्दस्य मूलविभुजादिषु दर्शनात् कप्रत्ययः।
इहेदूतोरेवेयं संज्ञा विधीयते ? तदन्तयोर्वा ? तत्र यद्याद्यः पक्ष आश्रीयेत, कृत्स्त्रियां न स्यात्-- हे लक्ष्मि, हे यवाग्विति; समुदायौ ह्यत्र स्त्र्याख्यौ, न त्वीदूताविति। इममाद्ये पक्षे दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह -- `ईकारान्तमूकारान्तम्' इत्यादि। ननु च `सुप्तिङन्तं पदम्'(1.4.14) इत्यत्रान्तग्रहणादन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्न लभ्यते, नैष दोषः; यदयम् `नेयङवङस्थानौ' (1.4.4) इति प्रतिषेधं शास्ति; तज्ज्ञापयति-- भवतीह प्रकरणे तदन्तविधिरिति ; अन्यथा प्रतिषेधोऽनर्थकः स्यात्। न हीकारोकारमात्रं स्त्र्याख्यामियङस्थानमस्ति,किं तर्हि ? तदन्तम्। `कुमारी' इति। `वयसि प्रथमे' (4.1.20) इति ङीष्। `गौरी' इति। `षिद्गौरादिभ्यश्च' ((4.1.41) इति ङीष्। `शार्ङरवी' इति। `शार्ङरवाद्यञो ङीन्' (4.1.73)। `लक्ष्मीः' इति। `लक्ष दर्शनाङ्कयोः' (धा.पा.1538) `अवितृस्तृतन्त्रिभ्य ईः' (द.उ.1.82) इत्यनुवर्त्तमाने `लक्षेर्मुट् च' (द.उ.1.84) चकारादीकारश्च। `ब्रह्मबन्धूः' इति। `ऊङुतः' (4.1.66) इत्यूङप्रत्ययः। ङकारः `नोङधात्वोः' (6.1.175) इति विशेषणार्थः। `यवागूः' इति। `यू मिश्रणे' (धा.प.ा1033) `सुयूवचिभ्योऽन्युजागूजक्‌नुच्' (द.उ.10.4) इत्यागूच्‌प्रत्ययः। रूपोदाहरणान्येतानि।कार्यं तु `अम्बार्थनद्योर्ह्रस्वः'(7.3.107) इत्येवमादि।
`मात्रे, दुहित्रे' इत्यत्र नदीसंज्ञाया अभावात् `आण् नद्याः' (7.3.112) इत्याण् न भवति। `ग्रामणीः, खलपूः' इति। पंस्येतौ वर्त्तेते। तेन नतीसंज्ञाया अभावात् `अम्बार्थनद्योर्ह्रस्वः' (7.3.107) इति ह्रस्वो न भवति। ग्रामं नयतीति `सत्सूद्विष' (3.2.61) इत्यादिना क्विप्। `अग्रग्रामाभ्याञ्च' (का.वा.5064) इति णत्वम्। खलं पुनातीति `अन्यभ्योऽपि दृश्यते' (3.2.178) इति क्विप्। `ग्रामण्ये स्त्रियै' इति। `एरनेकाचोऽसंयोगपूर्वस्य' (6.4.82) इति यणआदेशः। `खलप्वे स्त्रियै' । अत्रापि ओः सुपि' (6.4.83) इति। अत्र स्त्रीशब्देन पदान्तरेण स्त्रीत्वं द्योत्यत इति नदीसंज्ञा न भवति, तेनाण्न भवति। इष्वशनिप्रभृतीनां तूभयलिङ्गानां शब्दार्थ एव स्त्रीत्वमिति भवत्येव नदीसंज्ञा-- इष्वै, अशन्या इति। यदि पदान्तरद्योत्ये स्त्रीत्वे नदीसंज्ञा न भवति, इह पट्वै स्त्रिया इति पटुशब्दस्य पुरुषेऽपि दृष्ट्त्वात् पदान्तरद्योत्यमत्र स्त्रीत्वमिति नदीसंज्ञा न स्यात्, नैतदस्ति; पदान्तरं हि दविविधम्- क्वचित्सामान्येन प्रवृत्तिमाशङ्कमानस्य शब्दस्य सामान्यस्याभिधेयान्तरं व्यवच्छिनत्ति, यथा-- गोशब्दस्य गवादिषु गौर्वागिति; क्वचित् प्रवृत्तिमेव करोति , यथा-- वाहीकादौ गौर्वादीक इति। अत्र यत् सामान्यस्य शब्दस्य पट्वादेः पदान्तरसम्बन्धेन विशेषेऽवस्थानं तत् पदेऽन्तर्भूतमेवेत्याख्याग्रहणेन नापनीयते। ग्रामणीशब्दस्य तु स्त्रीत्वप्रवृत्तिः पदान्तरेण क्रियते,न तु व्यवच्छिद्यते। तेनासावाख्याग्रहणेनापसार्यते। एतयोस्तु क्रियाशब्दत्वेन रूढा पुंसिमुख्या वृत्ति। पटुशब्दस्य पाटवोपादयिनः परत्र मुख्येऽपीत्यस्ति भेदः।

4.नेयङुस्थानावस्त्री। (1.4.4)
`इयङुवङस्थानौ यौ यू तौ नदीसंज्ञकौ न भवतः' इति। यूद्वारेण य्वन्तस्यायं प्रतिषेधो विज्ञायते, न केवलयोः; प्राप्त्यभावात्. न हि यू केवलावियङुस्तानौ स्त्र्याख्यौ विद्येते। `हि श्रीः, हे भ्रूः' इति। अत्र नदीसंज्ञाया अभावात् तन्निबन्धनः `अ म्बार्थनद्योर्ह्रस्वः' (7.3.107) इति ह्रस्वो न भवति। `श्रिञ् सेवायाम्' (धा.पा.897) `क्विब्वचिप्रच्छिश्रिस्रुद्रुप्रुज्वां दीर्घौऽसम्प्रासारणञ्च'(वा. 288) इति क्विपि दीर्घत्वे कृते श्रीरिति भवति। `भ्रमु अनवस्थाने' (धा.पा.1205) इत्यस्मात् `भ्रमेर्डूः' (द.उ.1.177) इति डूप्रत्यये टिलोपे भ्रुरिति भवति। उभयोः `अचि श्नुधातु' (6.4.77) इत्यादिनेयडुवङोर्विधानादियङुवङस्थानौ यू भवतः।
`हे स्त्रि' इति। `ष्ट्यै स्त्यै शब्दसंधातयोः' (धा.पा.911,910)। `आदेच उपदेशेऽशितित (6.1.45) इत्यात्त्वम्; स्त्यायतेर्ड्रट, `टेः'(6.4.155) इति टिभागलोपः; `लोपो व्योर्वलि' (6.1.66) इति वाकरस्य लोपः, `टिट्ढा' (4.1.15) इत्यादिना ङीप्। अत्र नदीसंज्ञायाः प्रतिषेधाभावात् ह्रस्वत्वं भवत्येव। स्त्रीशब्दस्य `स्त्रियाः' (6.4.79) इतीयङविधानादियङस्थान ईकारः।
अथ स्थानग्रहणं किमर्थम् ? इयङुवङस्थानयोः प्रतिषेधो यथा स्यादिति चेत् ? न; यद्येतत् प्रयोजनमभिमतं स्यात् `इयङुवङोः' इत्येवं वाच्यम्। एवमप्ययमेवार्थः--- इइयङुवङोः सम्बन्धौ यौ यू तयोर्नदीसंज्ञा न भवतीति। कौ च तयोः सम्बन्धिनौ यू ? यौ तयोः प्रकृतिभुतावियङुवङरस्थानाविति, अन्तरेणापि स्थानग्रहणमियङुवङस्थानयोः प्रतिषेधो विज्ञास्यते। इदं तर्हि स्थानग्रहणस्य प्रयोजनम्-- यत्रेयङ्वङोः स्थितिरभिनिवृत्तिस्तत्र प्रतिषेधो यथा स्यात्। यत्र त्वपवादेन तयोर्बाधस्तत्र मा भूदिति-- आध्यै, वर्षाभ्वै इति। `ध्यै चिन्तायाम्' (धा.पा.908) `अन्यभ्योऽपि दृश्यते' (3.2.178) इति क्विप्; सम्प्रसारणञ्च। सम्प्रसारणन्तु दृशिग्रहणाल्लभ्यते। तथा हि तत्रैव दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम्। क्वचिद्दीर्घः, क्वचिद्द्विर्वचनमित्युक्त्वा `ध्यायतेः सम्प्रसारणञ्च' (वा.292) इति वक्ष्यति। कृतसम्प्रसारणस्यैव चतुर्थ्येकवचने `एरनेकाचः' (6.4.82) इत्यादिना यणादेशः। वर्षाभूशब्दस्यापि `वर्षाभ्वश्च' (6.4.84) इति।
5.वाऽऽमि। (1.4.5)
संहितासाम्येऽपि षष्ठीबहुवचनस्यामो ग्रहणम्, न तु द्वितीयैकवचनस्य; तत्र नदीसंज्ञाकार्याभावात्। नापि सप्तम्यादेशस्यामो ग्रहणम्; तस्य नदीसंज्ञोत्तरकालं `ङेराम्नद्याम्नीभ्यः' (7.3.116) इत्याम्विधानात्। `श्रीणात्र' इति। नदीसंज्ञापक्षे `ह्रस्वनद्यापो नुट्' (7.1.54) इति नुट्। इह स्त्र्याख्यादिति वर्त्तते, विभक्तिसम्बन्धेन चेयं नदीसंज्ञा विधीयत इति विभक्तिसम्बन्धिन एव शब्दरूपस्य स्त्र्याख्यस्य नदीसंज्ञा युक्ता, तेन यत्रावयवस्त्र्याख्यः, तत्र नदीसंज्ञा न भवति-- अतिश्रियां ब्राह्मणानाम्, अतिभ्रुवां ब्राह्मणानामिति।।

6. ङिति ह्रस्वश्च। (1.4.6)
यद्यत्र ह्रस्वविशेषणार्थ `यू' इति नानुवर्त्तते इति नानुवर्त्तते, तदेहापि स्यात्-- मात्रे दुहित्र इति; तस्मात् तदिहानुवर्त्तते। अनुवर्त्तमानमपि यदि प्रथमान्तमनुवर्तते, तदा प्रथमान्तयोर्ह्रस्वत्वं प्रति विशेषणविशेष्यभावो नोपपद्यते। तस्मात् तदिहार्थात् षष्ठ्यन्तमुपजायत इत्यत आह-- `ह्रस्वश्च य्वोः सम्बन्धी' इति। कः पुनस्तयोः सम्बन्धी ह्रस्वः ? यस्तयोर्ह्रस्वः सवर्णः; तेन सामर्थ्यादिकारोकारयोर्ग्रहणम्, न हि ताभ्यामन्यो ह्रस्व ईदुतोः सवर्णः सम्भवति। `कृत्यै, कृतये' इति। यदा नदीसंज्ञा तदा पूर्ववदाट्, अन्यथा तु `शेषो ध्यसखि' (1.4.7) इति धिसंज्ञकत्वात् `घेर्ङिति'(7.3.111) गुणः। अत्रापि यत्र विभक्तिसम्बन्धिनः शब्दरूपस्यावयवः स्त्र्याख्यस्तत्र पूर्वोक्तया रीत्या नदीसंज्ञा न प्राप्नोति-- अतिकृतये ब्राह्मणाय, अतिश्रियेति।।

7.शेषो घ्यसखि। (1.4.7)
`सख्या' इति। घिसंज्ञाया `आङो नास्त्रियाम्' (7.3.120) इति नाभावो न भवति। `सख्ये, सख्युः' इत्यत्रापि `घेर्ङिति' (7.3.111) न गुणः। `सख्यौ' इत्यत्र `अच्च घेः' (7.3.119) इत्यत्त्वं न भवति। `इदुद्भ्याम्' (7.3.117) `औत्' (7.3.118) इत्यौत्त्वं भवति। सख्युरित्यत्रापि `ख्यत्यात् परस्य' (6.1.112) इत्युक्तम्। इह शोभनः सखाऽस्येति सुसखिरिति; सुसखेरागच्छतीत्यत्र तदन्तविधिना प्रतिषेधः प्राप्नोति, स च `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति' (व्या.प.89) इति प्रतिषेधान्न भवति। इह द्विविधा घिसंज्ञा-- अवयवाश्रया, समुदायाश्रया च। तत्र याऽवयवाश्रया सा प्रतिषिध्यते, या पुनः समुदायाश्रया सा च भवत्येव; तस्या अप्रतिषेधात्।।

8.पतिः समसा एव। (1.4.8)
`पतिशब्दस्य सिद्धायां घिसंज्ञायाम्' इति। अनन्तरसूत्रेणैवेति शेषः। `प्रजापतिना' इति षष्ठीसमासः। यदि सिद्धायां घिसंज्ञायामिदमारभ्यते तदा `सिद्धे सत्यारम्भो नियमार्थः' (दु.सि.का.सू.वृ.59) इति विनाप्येवकारेण लभ्यत एव नियमः, तत् किमर्थमेवकारकरणमित्यत आह-- `एवकारकरणम्' इत्यादि। विना ह्येवकारेण विपरीतमप्याशङ्क्येत-- पतिरेव समसा इति। ततश्च दृढमुष्टिनेत्यादौ न स्यात्, एवकारे तु सति भवतीति। तथा ह्यतर् समासशब्दादनन्तरं प्रयुज्यमानं यत एवकारकरणं ततोऽन्यत्रावधारणमिति पतिशब्द एव नियम्यते, न समासः।।

9. षष्ठीयुक्तश्छन्दसि वा। (1.4.9)
अत्र यदि पतिशब्दः षष्ठीविभक्त्यन्तो घि ज्ञो भवतीत्येषोऽर्थोऽभिमतः स्यात्, तदा युक्तग्रहणमनर्थकं स्यात्; षष्ठीत्यवं ब्रूयात्। तस्माद्युक्तग्रहणे सति षष्ठ्यन्तशब्दान्तरेण युक्त इत्येषोऽर्थो विज्ञायत इत्यत आह-- `षष्ठ्यन्तेन' इत्यादि। यदि पुनः पतिशब्दस्य षष्ठ्यन्तस्य घिसंज्ञा स्यात्, तदा किं स्यात् ? पस्युरित्यत्रैव स्यात्, इह तु न स्यात्-- क्रुञ्चानामपतये नम इति।
`मया पत्या' इति। तृतीयायुक्तोऽत्र पतिशब्दः। अस्मदः `मपर्यन्तस्य' (7.2.91) `त्वमावेकवचने' (7.2.97) इति मादेशः। `योऽचि' (7.2.89) इति यकारः।।

10. ह्रस्वं लघु। (1.4.10)
`भेत्ता' इति। `पुगन्तलघूपधस्य च' (7.3.86) इति गुणः। `अचीकरत्' इत। कृञो णिच्, लुङ, अडागमः, च्लेश्चङ, णिलोपः,`णौ चङ्युपधायाः' (7.4.1) इति ह्रस्वः। `ओः पुयण्च्यपरे' (7.4.80) इति वचनं ज्ञापकम्-- णौ कृतं स्थानिवद्भवतीति। `चङि' (6.1.11) इति कृशब्दो द्विरुच्यते। `उरत्' (7.4.66) इत्यत्त्वम्, रपरत्वम्, `सन्वल्लघुनि' (7.4.93) इति लघुसंज्ञायां सत्यां सन्वद्भावादित्त्वम्, `दीर्घो लघोः' (7.4.94) इति दीर्घत्वम्।।

11. संयोगे गुरु। (1.4.11)
`कुण्डा, हुण्‍डा' इति। `कुडि दाहे' (धा.पा.270), `हुडि सङ्घाते' (धा.पा.269), नुम्विधावुपदेशिवद्वचनादुपदेशावस्तायामेव नुम्। `शिक्षा, भिक्षा' इति। `शिक्ष विद्योपादाने' (3.3.103) इत्यकारप्रत्ययः, `अजाद्यतष्टाप' (4.1.4)।।

12. दीर्घञ्च। (1.4.12)
`ईहाञ्चक्रे, उहाञ्चक्रे' इति। `आम्प्रत्ययवत्' (1.3.63) इत्यादौ सूत्र एते व्यत्पादिते। गुरुसंज्ञायां त्वत्र कार्यम्- `इजादेश्च गुरुमतोऽनुच्छः (3.1.36) इत्यात्मप्रत्ययः।।

13. यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्। (1.4.13)
`कर्त्ता' इति लुट्। `करिष्यति,अकरिष्यत्' इति। लुट्लृङौ। अङ्गसंज्ञायाः कार्यमत्र `सार्वधातुकार्धधातुकयोः' (7.3.84) इति गुणः, `ऋद्धनोः स्ये' (7.2.70) इतीडागमो यथायोगम्। `यस्मादिति संज्ञिनिर्देशार्थम्' इति। संज्ञिनो निर्देशः, सोऽर्थः प्रयोजनं यस्य तत् तथोक्तम्। ननु च तदादीत्यनेनात्र संज्ञीनिर्दिष्टः, तत्कथं संज्ञिनिर्देशार्थमिति पर्यनुयोगमाशङ्क्य येन हेतुना यस्मादित्यस्य संज्ञिनिर्देशार्थत्वं भवति,तं दर्शयितुमाह-- `तदादिसम्बन्धात्' इति। यस्मादित्येतस्मिन् सत्यनेन प्रकृतेन तदादीत्यस्य सम्बन्धो भवति। यस्मात् प्रत्ययो विधीयते स आदिर्यस्य तत् तदादीति। अनुच्यमाने ह्येतस्मिंस्तदित्यनेन सर्वनाम्ना प्रकृतप्रत्यवमर्शिना किं सम्बध्येतेति, असदेतत्; एवं हि सति प्रत्ययादेः प्रत्यये परतोऽङ्गसंज्ञा स्यात्, ततश्च करिष्यावः, करिष्याम इत्यत्र धातोर्गुणो न स्यात्। तस्माद्विशिष्टस्य संज्ञिनो निर्देशार्थ तस्मादिति वक्तव्यम्। अनेन हि सम्बन्धे सति तदादीत्यनेन योऽत्र विशिष्टः संज्ञी विवक्षितः स शक्यते निर्द्देष्टुम्; नान्यथा। `नेर्विशः' (1.3.17) इत्युपसर्गाद्विधिरस्तीति नियमस्य, न तु प्रत्ययस्य; तस्य लक्षणान्तणरे विहितत्वात्। `नेर्विशः' (1.3.17) इत्युपलक्षणमात्रम्। `परिव्यवेभ्यः क्रियः' (1.3.18) इत्येतदपीहोपात्तं द्रष्टव्यम्। तदादेरङ्गसंज्ञा स्यात्, ततश्चोपसर्गात् प्रागडागमः स्यादिति भावः।
`स्त्री इयती' इति। इदं परिमाणमस्या इति `किमिदम्भ्यां वो घः' (5.240) इति वतुप्। वस्य च घत्वम्, इयादेशः, `इदम्किमोरीश्की' (6.3.90) इतीदम ईश, `यस्येति च' (6.4.148)इतीकारलोपः। `उगितश्च' (4.1.6) इति ङीप्- इयती। स्त्रीशब्दात् सुः, तस्य हलङ्यादिना (6.1.68) लोपः, स्त्री इयती इति स्थिते यदि विधिग्रहणं न क्रियेत, तदेयच्छब्दे प्रत्यये परतः स्त्रीशब्दस्याङ्गसंज्ञा स्यात्; ततश्च `यस्येति च' 6.4.148) इतीकारलोपः प्रसज्येत। ननु च`असिद्धवदत्राभात्' 6.4.22) इत्यसिद्धत्वादीकारलोप एवासिद्धः, तत् कुतोऽयं लोपप्रसङ्गः ? प्राग्भाधिकारादसिद्धत्वमित्यभिप्रायः, नैषोऽस्त्यभिप्रायः; वक्ष्यति हि तत्र वृत्तिकारः-- र`असिद्धवदित्यधिकारोऽयम्, यदित ऊर्ध्वमनुक्रिमिष्याम आअध्यायपरिसमाप्तेस्तदसिद्धवद्भवति' इति, तथा ह्या भादित्यभिविधावाङ,तेन भाधिकारेऽप्यसिद्धत्वं भवतीति ? एवं तर्हि विधिग्रहणेनैतज्ज्ञाप्यते-- भाधिकारीयमसिद्धत्वमनित्यत्वमिति; तेन `वुग्युटाववङ्यणोः सिद्धौ वाच्यौ' (वा.776) इत्येतन्न वक्तव्यं भवतीति। वुक्-- बभूव, युट्-- उपदिदीय इति।
नन्वेवम् `अचः परस्मिन् पूर्वविधौ' (1.1.57) इतीकारलोपस्य स्थानिवत्त्वात् स्त्रीशब्देकारलोपाप्रसङ्ग एव, नैतदस्ति; यो ह्यनादिषअटदचः पूर्वस्तस्य पूर्वस्तस्यविधिं प्रति स्थानिवद्भवतीत्यादिष्टदचः पूर्वः स्त्रीशब्देकारः प्राक् संस्कृतस्य सत इयीतशब्द्योत्तरकालं स्त्रीशब्देन सम्बध्यते। अथ क्रियमाणेऽपि विधिग्रहणे कस्मादेवाङ्गसंज्ञा न भवति, यावता स्त्रीशब्दाद्विभक्तेः प्रत्ययस्य विधिरस्त्येव, प्रत्ययोऽपि चास्मात् पर इयच्छब्दो विद्यत एव ? नैष दोषः; विधिग्रहणे सति यस्मात्प्रत्ययो विधीयते प्रत्यासत्तेस्तस्मिन् परतोऽङ्गसंज्ञा विधीयते। इह तु यः स्त्रीशब्दाद्विहितः प्रत्ययो नासौ परः, लुप्तत्वात्; यश्च पर इयच्छब्दो विहितः, नासौ ततो विहितः।
अथ तदादिग्रहणं किमर्थम् ? यावाता विनाऽपि तेन `यस्मात् प्रत्ययविधिः प्रत्ययेऽङ्गम्' इत्येतावत्युच्यमाने यत्तदोर्नित्याभिसम्बन्धाद्यस्मात्प्रत्ययो विधीयते तत्प्रत्यये परतोऽङ्गसंज्ञा भवतीत्येषोऽर्थो लभ्यत इत्यत आह-- `तदादिवनचम्' इत्यादि। असति तदादीत्येतस्मिन् यस्मादेव प्रत्ययो विधीयते तस्यैवाङ्गत्वं स्यात्, न तु सर्वस्य सहस्यादेः, नापि सनुम्कस्य समुदायस्य; ततः प्रत्ययस्यादिविहितत्वत्. तदादिग्रहणे सति यस्मात् प्रत्ययो विधीयते स आदिर्यस्य शब्दरूपस्य तत् तदादीति बहुव्रीहिराश्रितो भवति, तेन सर्वस्य सहस्यादेः सनुम्कस्य समुदायस्याङ्गसंज्ञा सिद्ध्यति-- इति तदादिवचनं स्यादिनुमर्थम्। आदिग्रहणेन प्रकृतिप्रत्ययस्य मध्यवर्तिनां प्रत्ययागमानां ग्रहणम्; नुम आगमोपलक्षणत्वात्। `करिष्यावः' इत्यत्र यस्मात् प्रत्ययो विहितस्तदादेः सहस्य प्रत्ययस्य समुदायस्याङ्गसंज्ञायां सत्याम् `अतो दीर्घो यञि'(7.3.101) इति दीर्घत्वं भवति; अन्यथा क्व तर्हि स्यात् ? `वावावः, वावामः' इत्यादौ। `अय वय मय पय तय चय णय गतौ' (धा.पा.474-480), यङलुक्, अभ्यासस्य `दीर्घोऽकितः'(7.4.83) इति दीर्घत्वम्; वस्मसोः `लोपो व्योर्वलि' (6.1.66) इति यलोपः-- इह विना विकरणेन धातोदीर्घत्वम्; विकरणस्य शपः `अदिप्रभृतिभअयः शपः' (2.4.72) इति लुप्तत्वात्। अदादित्वम् `चर्करीतञ्च' (धा.पा.1081) इत्यादिषु पाठात्। `चर्करीतम्' इति यङलुकः पूर्वाचार्यसंज्ञा। `कुण्डानि' इति। जसि `जश्शसोः शिः' (7.1.20) इति शिभावः। `नपुंसकस्य झलचः' (7.1.72) इति नुम्। तदायं नुम् परादिरिति पक्षः, तदा `सुपि च' (7.3.102) इति दीर्घत्वं विनापि सनुम्कस्याङ्गसंज्ञया सिद्धम्। यदापि पूर्वान्तः, तदाप्यङ्गकदेशत्वात् `नोपधायाः' (6.4.7) इत्यनुवर्त्तमाने `सर्वनामस्थाने चासम्बुद्धौ' (6.4.8) इति दीर्घत्वं सिद्धम्। यदा त्वभक्तः, तदाङ्स्यानेकदेशत्वान्न सिद्ध्यति। अभक्तश्चायं नुमिति सूत्रकारस्य पक्षः। तेन नुमर्थमपि तदादिवचनं कृतम्। `श्रयर्थम्, भ्व्यर्थम्' इति। श्रिय इदं भ्रुव इदमिति-- `चतुर्थी तदर्थार्थ' (2.1.36) इत्यादिना समासः; अस्त्यत्र चतुर्थ्यैकवचनस्य विधिरिति। असति हि पुनः प्रत्ययग्रहणे श्रीभ्रूशब्दयोरर्थशब्दे परतोऽङ्गसंज्ञा स्यात्, ततश्चेयङुवङौ स्याताम्। सप्तमीनिर्दिष्टे तु पुनः प्रत्ययग्रहणे श्रीभ्रूशब्दयोरर्थशब्दे परतोऽङ्गसंज्ञा स्यात्, ततश्चेयङुवङौ स्याताम्ा। सप्तमीनिर्दिष्टे तु पुनः प्रत्ययग्रहणे सति न दोष इति। तथा हि-- ततो विहिते प्रत्यये परत इत्येवं विज्ञायते। यश्चातो विहितः प्रत्ययः स लुप्तः। यद्यपि लुप्तेऽपि तस्मिन् प्रत्ययलक्षणेनाङ्गसंज्ञा लभ्यते, कार्यं तु न लभ्यते; `न लुमताङ्गस्य' (1.1.63) इति प्रत्ययलक्षमप्रतिषेधात्।।

14.सुप्तिङन्तं पदम्। (1.4.14)
`सुप् तिङिति प्रत्याहारग्रहणम्' इति। युक्तं हि तिङिति प्रत्याहारग्रहणम्, अन्यस्य तिङशब्दस्याभावात्; कथं सुबिति प्रत्याहारग्रहणम्, सप्तमीबहुवचनस्य विद्यमानत्वात् तस्य ग्रहणं कस्मान्न भवतीति ? नैष दोषः; ` न ङिसम्बुद्ध्योः' (8.2.8) इति प्रतिषेधात्। सप्तमीबहुवचनस्य सुपो ग्रहणे ङिसम्बुद्ध्योः पदत्वाभावान्नलोपस्य प्राप्तिरेव नास्तीति प्रतिषेधोऽर्थकः स्यात्। `ब्राह्मणाः' इति। पदत्वे च सति `ससजुषो रुः' (8.2.66), `खरवसानयोर्विसर्जनीयः' (8.3.15)। `पठन्ति' इति। अत्र पदत्वे सति `तिङङतिङः' (8.1.28) इति निघातः।
ननु च`प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य' (पु प 24) इत्यनेन `येन विधिस्तदन्तस्य' (1.1.72) इत्यनेन वाऽन्तरेणाप्यन्तग्रहणं तदन्तस्यैव संज्ञा भविष्यति, तत्किमर्थमन्तग्रहणमित्यत आह-- `पदसंज्ञायाम्' इत्यादि। यदीहान्तग्रहणेनाप्यन्यत्र संज्ञाविधौ तदन्तविधिर्नास्तीत्येषोऽर्थो न ज्ञाप्यते, तदा `तरप्तमपौ घः' (1.1.22) इत्यत्र तरबन्तस्य घसंज्ञा स्यात्, न प्रत्ययमात्रस्य। तस्मादत्रास्मिन्नर्थेऽन्तग्रहणेन ज्ञाप्यते-- अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिनिषेधो यथा स्यादित्येवमर्थमन्तग्रहणम्। तेन तरप्तमपोरेव घसंज्ञा भवति, न तु तदन्तस्य। `गौरीब्राह्मणितरा' इति।अत्र गौरीशब्दस्य तरबन्ते ब्राह्मणितराशब्दे परतः `घरूपकल्प' (6.3.43) इत्यादिना ह्रस्वो न भवति; तरबन्तस्याघसंज्ञकत्वात्। प्रत्ययमात्रस्य घसंज्ञायां तत्र परतो ब्राह्मणीशब्दस्य ह्रस्वो भवत्येव।।

15. नः क्ये। (1.4.15)
`राजीयति' इति। आत्मनो राजानमिच्छतीति `सुप आत्मनः क्यच्' (3.1.8) `क्यचि च' (7.4.33) इतीत्त्वम्। `राजायते' इति। राजेवाचरतीति `कर्त्तृः क्यङ सलोपश्च' (3.1.11) इति क्यङ। `अकृत्सार्वधातुकयोः' (7.4.25) इति दीर्घः। `वर्मायते' इति। अवर्म भवतीति `लोहितादिडाज्भ्यः क्यष' (3.1.13) इति क्यष्प्रत्ययः। `वा क्यषः' (1.3.90) इत्यात्मनेपदम्। पदसंज्ञायामिह नलोपः कार्यः।
ननु चैते क्यजादयः सुबन्तादेव विधीयन्ते प्रत्ययलक्षणेन, ततश्च `सुप्तिङन्तं पदम्' (1.4.14) इत्यनेनैवात्र पदसंज्ञा सिद्धा, तत् किमर्थोऽयमारम्भ इत्यत आह-- `सिद्धे सत्यारम्भो नियमार्थः' इति। सिद्ध इति सिद्धावित्यर्थः। `नपुंसके भावे क्तः' (3.3.114) सिद्धत्वन्तु प्रकृतत्वात् पदसंज्ञाया एव विज्ञायते। अथ वा सिद्ध इत्यकर्मकत्वात् कर्तरि क्तप्रत्ययः। सिद्धे निष्पन्ने पदसंज्ञाकार्य इत्यर्थः। नान्तमेव इति। नियमस्य प्रतिषेधात्। विपरीतनियमे हि सति ङिसम्बुद्धयोः पदसंज्ञाया अभावान्नलोपो न भविष्यतीति किं तत्प्रतिषेधेन ? `वाच्यति' इति। `सुप आत्मनः क्यच्' (3.1.8)। क्यचि पदत्वाभावात् `चोः कुः' (8.2.30) इति कुत्वं न भवति।।

16. सिति च। (1.4.16)
`भवदीयः' इत्यादि। `तत्र जातः'(4.3.25) इत्यादौ शैषिकेऽर्थे तद्धितः, पदत्वात् `झलाञ्जशोऽन्ते' (8.2.39) इति जश्त्वम्। `ऊर्णायुः' इति। `ऊर्णाया युस्' (5.2.123) इति युसि कृते पदसंज्ञया भसंज्ञायां निरस्तायां `यस्येति च' (6.4.148) इत्याकारलोपो न भवति। `ऋत्वियः' इति। ऋतुः प्राप्तोऽस्त्येति `ऋतोरण्' (5.1.148) `छन्दसि घस्' (5.1.106) ऋत्वियः, पदत्वात् भत्वाभावे तदाश्रयः `ओर्गुणः' (6.4.146) न भवति।
17.स्वादिष्वसर्वनामस्थाने। (1.4.17)
अत्र यदि सप्तमीबहुवचनादारभ्य आ कपः प्रत्यया गृह्येरन्, तदा `असर्वनामस्थाने' इति प्रतिषेदं न कुर्यात्; प्राप्त्यभावात्। कृतश्चासावतोऽवसीयते प्रथमैकवचनादारभ्या कपः प्रत्ययाः स्वादयो गृह्यन्त इत्यत आह-- `स्वादिष्विति सुशब्दादेकवचनादारभ्य' इति। `राजत्वम्, राजता' इति। `तस्य भावस्त्वतलौ' (5.1.119)। `राजतरः' इति। `द्विवचनविभज्योपपदे तरबीयसुनौ' (5.3.57) इति तरप्। `राजतमः' इति। `अतिशायने' (5.3.55) इत्यादिना तमप्।
`राजानौ,राजानः' इति। अत्र पदसंज्ञाया अभावान्नलोपो न भवति। यद्येवम्, राजत्यत्रापि न स्यात्, प्रत्ययलक्षणेनासर्वनामस्थान इति पदसंज्ञाया अभावात्,नैष दोषः; आचार्यप्रवृत्तिर्ज्ञापयति-- भवति सौ परतः पदसंज्ञेति, यदयम् `नङिसम्बुद्धयोः' (8.2.8) इति प्रतिषेधं शास्ति। अत्र सम्बुद्धिशब्दोऽनर्थकः स्यात्, पदत्वाभावादेव नलोपस्याप्राप्तेः। अथ वा -- `असर्वनामस्थाने' इति पर्युदासोऽयम्, न प्रसज्यप्रतिषेधः,तेन सर्वनामस्थानादन्यत्र पदसंज्ञा विधीयते; न तु सर्वनामस्थानं प्रतिषिध्यते। तेन तत्र पूर्वसूत्रेण सौ परे पदसंज्ञा भविष्यति। अथ वा- प्रसज्यप्रतिषेधेऽपि न दोषः, यस्मात् `अनन्तरस्य विधिर्वा प्रतिषेधो वा'(व्या.प.12) इत्यनन्तरा या प्राप्तिः सा प्रतिषिध्यते; न व्यवहिता। तेन `सुप्तिङन्तं पदम्' (1.4.14) इत्यकारलोपः।।

18. यचि भम्। (1.4.18)
`यचि' इति वर्णग्रहणं सप्तमीनिर्दिष्टम्। अतः `यस्मिन् विधिस्तद्दावल्ग्रहणे' (वा.14) इति तदादिविधिनात्र भवितव्यमित्यत आह-- `यकारादौ' इत्यादि। गार्ग्य इत्यादौ भसंज्ञायां सत्यां `यस्येति च' (6.4.148) इत्यकारलोपः।
`नभोऽङिरोमनुषां वत्युपसंख्यानं कर्तव्यम्' इति। भसंज्ञायास्त्वत्र पदसंज्ञाबाधः फलम्। `नभ इव' इति तुल्यार्थतोपदर्शनमेतत्; न तु प्रथमासमर्थाद्वतिः। स तु नभसा तुल्यं वर्त्तत इति `तेन तुल्यम्' (5.1.115) `आङ्गिरस्वत्' इति। पूर्वेण तुल्यम्। `मनुष्वत' इति। `जनेरुसिः'(द.उ.9.37) इत्यत्र बहुलग्रहणानुवृत्तेः `मन ज्ञाने' (धा.पा.1176) इत्येतस्मादुसिप्रत्ययः। `आदेशप्रत्यययोः' (8.3.59) इति षत्वम्। मनुष् इति स्थिते पूर्ववद्वतिः-- मनुष्वदिति। यद्यत्र पदसंज्ञा स्यात् तदा षत्वस्यासिद्धत्वादिह रुत्वं स्यात्, ततश्च मनुर्वदित्यनिष्टं रूपं स्यात्। उपसंख्यानशब्दस्य चेह प्रतिपादनम्-- `सिति च' (1.4.16) इत्यतश्चकारोऽनुवर्त्तते, स चानुक्तसमुच्चयार्थः। तेन नभोऽङ्गिरोमनुषां वतौ भसंज्ञा भविष्यति।
`वृषण्वस्वश्वयोः' इति। अन्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदसंज्ञायां प्राप्तायां भसंज्ञा विधीयते,तस्याश्च विधिश्चकारानुवृत्तेरेव लभ्यते। वृष्णोऽश्वः, अत्र भत्वे सति यद्यपि णत्वस्यासिद्धत्वम्, तथापि नलोपः पदनिबन्धनो न भवति, `पदान्तस्य' (8.4.37) इति णत्वप्रतिषेधश्च।।

19.तसौ मत्वर्थे। (1.4.19)
`तसौ' इति वर्णग्रहणम्। न च वर्णमात्रान्मत्वर्थीय सम्भति, अतः सामर्थ्यात् तदन्तविधिर्विज्ञायत इत्याह-- `तकारान्तम्' इत्यादि। `मत्वर्थे प्रत्यये' इति व्यधिकरणे पदे; षष्ठीसमासः। मतोरर्थो मत्वर्थ इति, तत्र यो वर्त्तते प्रत्ययस्तस्मिन्नित्यर्थः। अथ वा- समानाधिकरणे पदे, मतुशब्देन साहचर्यान्मतुप्सहचरितार्थ उच्यते-- णतुबर्थो यस्य तस्मिन्, न तु यस्मिन्निति मत्वर्थे प्रत्यय इति।
अर्थग्रहणं कमतुपोऽन्यत्रापि यथा स्यात्; इतरथा हि मतावित्युच्यमाने मतावेव स्यात्; नान्येषु। मत्वर्थग्रहणे क्रियमाणे मतुपि न स्यात्; तस्यार्थविशेषणत्वात्। विशेषणस्य च कार्येण सम्बन्धानुपपत्तेः। न हि चित्रगुरानीयतामित्युक्ते विशेषणभूता गावोऽडप्यानीयन्ते, नैष दोषः; विशेषमपि क्वचित् कार्ये विशिष्यते, यथा हि-- देवदत्तशालाया ब्राह्मणा आनीयन्तामित्युक्ते देवदत्तः शालायां विशेषणभूतो यदि ब्राह्मणो भवति तदा सोऽप्यानीयत एव। `उदश्वित्वान' इति। भत्वात् पदसंज्ञाभावे जश्त्वं सिध्यति। `झयः' (8.2.10) इति वत्वम्, `उगिदचाम्' (7.1.70) इति नुम्, `अत्वसन्तस्य चाधातोः' (6.4.14) इति दीर्घः। `पयस्वी, यशस्वी' इति। `अस्मायामेधास्रजो विनिः' (5.2.121) भत्वाद्रुत्वं न भवति। `इन्दरन्पूषार्यम्णां सौ' (6.4.12) इत्यनुवर्त्तमाने `सौ च' (6.4.13) इत्यनेन दीर्घः।।

20. अयस्मयादीनि च्छन्दसि। (1.4.20)
यद्यत्र भसंज्ञा विधीयेत तदा पदसंज्ञा न स्यात्, अथ यदि पदसंज्ञा विधीयेत तदाऽत्र भसंज्ञा न स्यात्, तदा भपदसंज्ञयोः समावेशो न स्यात्; एकसंज्ञाधिकारात्। साधुत्वविधाने त्वेष दोषो न भवति, तद्धि केषाञ्चिद्भसंज्ञा विधीयते पदसंज्ञकानाम्, केषाञ्चिदुभयसंज्ञाकानाम्; तस्मात् साधुत्वमेव विधातुं युक्तमित्यत आह-- `अयस्मयादीनि' इत्यादि। कथं पुनरेषां साधुत्वं विधीयत इत्याह-- `भपदसंज्ञाधिकारे' इत्यादि। द्वारम्, मुखम्, उपाय तत्र भाषाग्रहणमस्ति, तथाप्ययस्मयशब्दस्यास्मादेव साधुत्वविधानाच्छन्दस्यपि मयड् भवतीति भत्वाद्रुत्वं न भवति। `सऋक्वता' इति। ऋचोऽस्य सन्तीति मतुप्। पदत्वात् `चोः कुः' 8.3.30) इति कुत्वम्। भत्वात् `झलां जशोऽन्ते' (8.2.39) इति जश्त्वं न भवति। `आकृतिगणोऽयम्' इति। आदिशब्दस्य प्रकारवाचित्वात्।।

21. बहुषु बहुवचनम्। (1.4.21)
`तस्यानेन बहुत्वसंख्या वाच्यत्वेन विधीयते' इति। एतेन विध्यर्थतामस्य योगस्य दर्शयति।
इह केषाञ्चित् `स्वार्थद्रव्यलिङ्गसंख्याकर्माद्यात्मकः पञ्चकः प्रातिपदिकार्थः' इति दर्सनम्। केषाञ्चित् `स्वार्थद्रव्यलिङ्गात्मकस्त्रिकः प्रातिपदिकार्थः' इति। तत्र स्वार्थो विशेषणम्; स्वरूपजातिगुणद्रव्याणि। द्रव्यस्तु विशेष्यम्, तत्पुनर्जातिगुणद्रव्याणि। तत्र यदा शब्दस्वरूपेण विशिष्टा जातिरभिधीयते-- गौरिति, तदा शब्दस्वरूपं विशेषणत्वात् स्वार्थो भवति; जातिस्तु विशेष्यत्वाद्‌द्रव्यम्। यदा तु जात्या विशिष्टो गुणोऽभिधीते-- पटस्य शुक्लो गुण इति, तदा जातिर्विशेषणत्वात् स्वार्थो भवति; गुणस्तु विशेष्यत्वाद्‌द्रव्यम्। यदा तु गुणैर्विशिष्टं पटादिकं द्रव्यमुच्यते-- शुक्लः पट इति, तदा विशेषणभूतो गुणः स्वार्थो भवति; विशेष्यभूतं पटादिकं द्रव्यमेव। यदा पुनर्द्रव्यमपि द्रव्यान्तरस्य विशेषणभूतं भवति-- यष्टीः प्रवेशय, कुन्तान् प्रवेशयेत्यादौ, तदा यष्ट्यादिकं द्रव्यं विशेषणभावापन्नं स्वार्थः; द्रव्यान्तरं विशेष्यभावापन्नं पुरुषादिकं द्रव्यमेव। क्वचित्सम्बन्धोऽपि स्वार्थो भवति-- यत्र सम्बन्धनिमित्तकः प्रत्यय उत्पद्यते, यथा-- दण्डी, विषाणीति। अत्र दण्डपुरुषसम्बन्धो विशेषणम्, दण्डीति द्रव्यम्। क्वचित् क्रियापि स्वार्थो भवति, यत्र क्रियानिमित्तकः प्रत्ययः उत्पद्यते, यथा--पाचकः, पाठक इति। क्रियाकारकसम्बन्धोऽत्र स्वार्थ इत्यपरे। लिङ्गं स्त्रीत्वादि, संख्यैकत्वादि, कर्मादयो वक्ष्यमाणाः कारकविशेषाः। तत्र पूर्वोक्तयोर्दर्शनयोर्द्वितीयं यद्दर्शनं तदिह वृत्तिकारेणाश्रितम्।
धातोस्तु क्रियैव वाच्येत्यत्राचार्याणामविवाद एव। तत्र प्रातिपदिकस्य पूर्वोक्ते त्रिकेऽर्थे सति धातोश्च क्रियात्मकत्वे यदीदं सूत्रं नोच्येत, ततः `अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति' (सी.वृ.125) इति प्रातिपदिकाज्जसादिबहुवचनं विधीयमानं त्रिक एवार्थे स्यात्, न बहुत्वसंख्यायाम्। धातोरपि झिप्रभृति बहुवचनं विधीयमानं क्रियायामेव स्यात्; न तु बहुत्वसंख्यायाम्। तस्मादनेनैव तस्य बहुत्वसंख्यावाच्यत्वेन विधीयत इति विध्यर्थमेतद्भवति। यथा चानेन योगेन बहुत्वसंख्या बहुवचनस्य वाच्यत्वेन विधीयते, तथा `कर्मणि द्वितीया' (2.3.2) इत्येवमादिभिर्योगैर्द्वितीयादीनां कर्मादि च। `लः कर्मणि च भावे चाकर्मकेभ्यः' (3.4.69) इत्यनेनापि लकाराणां कर्माद्येव। तस्मादेतेऽपि योगा विध्यर्था एव वेदितव्याः।
येषाञ्च पञ्चकं प्रातिपदिकार्थ इति मतम्, तेषां प्रातिपदिकस्यैव पञ्चाप्यर्था वाच्याः। विभक्तयश्च तद्दयोतिका भवन्ति। तत्र `अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति' (सी.वृ.125) इति विनापि वचनेनानेन प्रातिपदिकाद्बहुवचनं जसादि बहुत्वे सिद्धमेव। तत्र त्वनियमेनान्यत्राप्येकत्वादौ प्राप्तमनेन नियम्यत इति नियमार्थमेतद्भवति।
कस्मात् पुनर्वृत्तिकारेण त्रिकं प्रातिपदिकार्थ इति दर्शनमाश्रितम् ? युक्तत्वात्। तथा हि-- वृक्षं पश्येत्यादौ न हि विना विभक्तिभिः संख्याकर्मादयश्चार्थाः प्रतीयन्ते। यद्यपि पयः पयो जरयतीत्यादौ विनापि विभक्त्या संख्याकर्मादेरर्थस्य प्रतीतिर्भवतीति, तथापि पयसी पयांसि पयसेत्येवमादौ संख्याकर्मादिप्रतीत्यर्थं नियोगतो विभक्तिरपेक्ष्यत एव। न हि यथा गर्गा इत्यत्र बहुवचनेन यञ्प्रत्ययमन्तरेणापत्यार्थः प्रतीयते, तथा गार्ग्य इत्यत्र प्रकृतिरेवापत्यार्थमभिधत्त इति शक्यते वक्तुम। अपि च -- पयः पयो जरयतीत्येवमादौ विभक्तिविशेषओत्पत्तिसामर्थ्यादेव संख्याकर्माद्यर्थ्स्य प्रतीतिर्भवति। तथा हि, यतः स विभक्तिविशेष उत्पन्नस्त्त एवासावर्थविशेषः प्रतीयते, नान्यस्मादिति त्रिक एव प्रातिपदिकार्थो युक्तः।
यदि तर्हि बहुत्वसंख्या बहुवचनस्य वाच्यत्वेन विधीयते तदा सूत्रे भावप्रत्ययेन बहुत्वनिर्देशः कर्त्तव्यः, अन्यथा बहुत्वसंख्या न प्रतीयेत ? न कर्त्तव्यः; अन्तरेणापि भावप्रत्ययं भावप्रधानो निर्देशो भविष्यतीति, यथा -- पटस्य शुक्ल इति। नन्वेवमपि भादस्यैकत्वाद्बहुष्विति बहुवचनं नोपपद्यते, नैष दोषः; यस्माद्बहुतवसंख्याधारस्य द्रव्यस्य यो भेदस्तं बहुत्वे गुणेऽध्यारोप्य बहुष्विति बहुवचनेन निर्देशः कृतः , संख्यावाच्ययं बहुशब्दो न वैपुल्यवाचीति ज्ञापनार्थश्च। तेन वैपुल्यं बहुवचनस्य वाच्यं न भवतीति बहुरोदनः,बहुः सूप इति वैपुल्यवाचिनो बहुशब्दादेकवचनमेव भवति, न बहुवचनम्।
यदि बहुत्वसंख्या बहुवचनस्य वाच्यत्वेन विधीयते, इह वृक्षं पश्येत्यत्र बहुवचनं प्राप्नोति, द्वे ह्यत्र संख्ये-- समुदायसंख्या चैकत्वम्, अवयवसंख्या च फलमूलशाखाद्यवयवसमवेता बहुत्वम्। अस्यापि प्रातिपदिकार्थेनैकार्थसमवायलक्षणः सम्बन्धोऽस्त्येव। तथा हि-- येष्वयववेषु समवेत। बहुत्वसंख्या प्रातिपदिकार्थोऽपि समुदायस्तत्रैव समवेतः, ततश्च तस्माद्बहुवचनं प्राप्नोतीत्यत आह-- `कर्मादयः' इत्यादि। कर्मादयो ह्येकविभक्तिशब्दवाच्यत्वात् प्रत्यासन्ना बहुत्वसंख्यायाः; ततः प्रत्यासत्तेस्तदीय एव बहुत्वे बहुवचनं भवति। समुदाय एव हि वृक्षं पश्येत्यत्र दृशिक्रियया व्याप्तमिष्टतम इति स एव कर्मभावमापद्यते, नावयवाः, तत्कुतो बहुवचनस्य प्रसङ्ग ? `कर्मादिषु' इत्यादि। कर्मादयो बहुवचनस्य वाच्याः। तदीयं बहुत्वं बहुष्वेव कर्मदिषु सम्भवति, अतः सामर्थ्यात् कर्मादिषु बहुष्वित्येषोऽर्थः सम्पद्यते।
यदि तर्हि विभक्तीनां बहुवचनस्य बहुत्वसंख्या वाच्यत्वेन विधीयते, तदा निःसंख्येभ्योऽव्ययेभ्यः स्वादयो न स्युः; ततश्च पदसंज्ञा तेषां न स्यादित्याह-- `यत्र च' इत्यादि। ननु स्वादिविधानसूत्रे संख्याकर्मादयः स्वादीनामर्थाः शास्त्रान्तरेण विहिताः, तेन सहास्यैकवाक्यतेति वक्ष्यति। तत्कुतः स्वादीनां सामान्यविहितत्वम् ? न हि `बहुषु बहुवचनम' (1.4.21), `कर्मणि द्वितीया' (2.3.2) इत्यादिना शास्त्रान्तरेण स्वौजसादेः सूत्रस्यैकवाक्यतायां स्वादीनां सामान्यविहितत्वमुपपद्यते। एवं तर्हि ज्ञापकेन अव्ययेभ्यः सामान्येन स्वाद्युत्पत्तेर्ज्ञापि तत्वात् सामान्यविहिता इत्युक्तमित्यदोषः; किं पुनस्तज्ज्ञापकम् ? `अव्ययादाप्सुपः' (2.4.82) इत्यव्ययादुत्पन्नानां सुपां लृग्ववचम्, न ह्यनुत्पन्नानां लुगुपपद्यते।।

22. द्वयेकयोर्द्विवचनैकवचने। (1.4.22)
`द्व्येकयोः' इति। अयमपि भावप्रधानो निर्देशः; अन्यथा हि बहुत्वाद्बहुवचनं स्यात्। भावप्रधाने तु निर्देशे,द्वित्वमेकत्वञ्च द्वावेतावर्थाविति युक्तं द्विवचम्। `एतदपि' इत्यादिनाऽस्यापि योगस्य विध्यर्थतां दर्शयति। `अर्थाभिधानम्' इति। अर्थो वाच्योऽभिधीयते येन तदर्थाभिधानम्।।

23.कारके। (1.4.23)
`कारक इति विशेषणमपादानादिसंज्ञाविषयम्' इति। अपादानदयः संज्ञा विषयो यस्य तत्तथोक्तम्। आदिशब्देन सम्प्रदानादीनां ग्रहणम्। अथ वक्ष्यमाणानां ध्रुवादीनाभियं संज्ञा कस्मान्न भवति ? एवं मन्यते-- यदीयं संज्ञाशब्दा निर्दिश्यन्ते; अयं तु सप्तम्या निर्दिष्टः, तस्मान्नेयं ध्रुवादीनां संज्ञेति। `कारके' इति निर्धारणे सप्तमी, निर्धारणं तु बहुनां सम्भवति, तत्कथमेकवचनेन निर्देशः ? सामान्यपेक्षया त्वेकवचनम्। अथ वा-- `छन्दोवत् सूत्राणि भवन्ति' (म.भा.1.1.1) ततो `व्यतयो बहुलम्' (3.1.85) इति बहुवचने प्राप्त एकवचम् कारकेषु मध्ये यद् ध्रुवं कारकं तदपादानसंज्ञं भवति। एवमन्यत्रापि वेदितव्यमिति।
कारकशब्दोऽयमस्त्येव व्युत्पन्नः-- ण्वुलन्तः कर्तृपर्य्याय इति, अस्ति च संज्ञाशब्दः-- अव्युत्पन्नो पर्य्याय इति। तत्रेह यदि पूर्वोक्तस्य ग्रहणं स्यात तदापादानादिषु कारकशब्दो न वर्त्तते, यथा-- कर्तृशब्दः `ण्वुल्तृचौ' (3.1.133) इति कर्तरि व्युत्पादितः, तथा कारकशब्दोऽपि; कर्त्ता च स्वतन्त्रः, अपादानादयश्चास्वतन्त्राः, तत्कथं तेषु कारकव्यपदेशः स्यात् ? असति हि कारकव्यपदेशे कारकसंशब्देषु तेषां ग्रहणं न स्यात्। अथ तेषामपि कथञ्चित् स्वतन्त्रताभ्युपेयेत, एवञ्च तत्र कर्तृसंज्ञा प्रसज्येत, ततश्च ग्रामादागच्छति, उपाध्यायाय गां ददातीत्यादौ ग्रामादिभ्यस्तृतीया प्रसज्येत, इतरेतराश्रयश्चापि दोषः स्यात्। तथा हि-- कर्तृसंज्ञोत्तरकालं कारकशब्दस्य व्युत्पत्तिः, तस्यां सत्यां कारकशब्दोपक्रमेण कर्त्तृसंज्ञा स्यात् बह्वेवं प्रतिविधेयं स्यात्, प्रतिविधाने च प्रतिपत्तिगौरवं स्यात्। निमित्तपर्यायस्य तु कारकशब्दस्य ग्रहणे न दोषः स्यात्, ततः स एव गृह्यत इति मत्वाह--`कारकशब्दोऽयं निमित्तपर्यायः' इति। `ग्रामादागच्छति' इति। ग्रामस्य ध्रुस्यागमनक्रियां प्रति निमित्तभावोऽस्ति। यदीह ग्रामोऽवधिभावेन नावतिष्ठेततत आगमनं न निष्पद्येत,तस्माद्‌ग्रामः कारकम्।
`वृक्षस्य पर्णं पतति' इति। वृक्षः सम्बन्धित्वेनात्र विवक्षितः न तु निमित्तत्वेन। अपायस्य कारकग्रहणान्निमित्तत्वेनाविवक्षितस्यापादानसंज्ञा न भवति। नैतत् कारकग्रहणस्य प्रत्युदाहरणं युक्तम्; ध्रुग्रहणेनैवात्रापादानसंज्ञाया निवर्तितत्वाात्, ध्रुवं हि तद्यदवधिभूतमपाये साध्ये। तथा हि वृत्तिकारो वक्ष्यति-- `अपाये साध्ये यदवधिभूतम्' (का.1.4.24) इति। न चेह वृक्षोऽवधित्वेन विवक्षितः, किं तर्हि ? सम्बन्धत्वेन, नैतदस्ति; विवक्षितावधिभावस्यैव वृक्षस्य सम्बन्धिभावेन विवक्षित्वात्। अवधिभूतस्य वृक्षस्य सम्बन्धिनः पर्ण पततीत्यर्थः। न हि सम्बन्धित्वेन विवक्षाऽवधिभावविक्षाया विरुध्यते। तस्माद्विवक्षितावधिभावस्यैव वृक्ष्सय सम्बन्धित्वमात्रं विवक्षितम्, न तु विद्यमानमप्यपायं प्रति निमित्तत्वमिति काऽत्रायुक्तता !
`माणवकस्य पितरं पन्थानं पृच्छति'इति। `अकथितञ्च' (1.4.51) इत्यकथितस्य कर्मसंज्ञा विधीयमाना `कारके ' (1.4.82) इत्येतस्मिन्नसति माणवकस्यापि स्यात्, कथम् ? अकथितशब्दोऽयमकीर्त्तित पर्यायः। स च कस्याचिद्विशेषस्याप्रकृतत्वद्विशेषानुपादाने सति प्रयुज्यमानः सर्वत्राविशेषएणाकीर्त्तितमात्रे स्यात्। ततश्च `अकथितम्' इत्युच्यमाने कारकञ्चाकारकञ्च सर्वमकथितमिति सर्वकथितमिति गम्यते। यथा पिताऽपादानादिभिर्विशेषकथाभिर्न कथितः, तथा माणवकोऽपि, अत्स्तस्यापि कर्मसंज्ञा स्यात्। `कारके' इत्यस्मिंस्तु सति प्रश्नक्रियानिमित्तस्य पितुरेव भवति; न तु माणवकस्य। न ह्यसौ प्रश्नक्रियां प्रति निमित्तभावेन विवक्षितः, किं तर्हि ? पितुः सम्बन्धित्वेन।
यदि विशेषणमिदं ध्रुवादीनाम्; न संज्ञा, ततश्च `कारकादत्तश्रुतयोरेवाशिषि' (6.2.148) इत्येवमादिषु प्रदेशेषु यत्र कारकशब्दः संशब्द्यते तदा तत्रापादानादीनां कारकग्रहणेन ग्रहणं न स्यात्। संज्ञापक्षे तु न दोषः, संज्ञा ह्यावर्तमाना संज्ञिनं प्रत्यायतीत्यत आह-- कारकसंशब्दनेषु'इत्यादि। यत्र कारकशब्दस्य संशब्दनं तत्राप्यनेनैव विशेषणेन विवक्षितार्थप्रत्यायनलक्षणो व्यवहारोऽयं विज्ञायते; प्रदेशान्तरेऽपि कारकशब्दस्य निमित्तपर्यायस्यैवोपादानात्। तच्च् निमित्तमपादाननाद्येव, न हि ततोऽन्यत्क्रियानिमित्तं भवति। तस्मात् कारकग्रहमेनापादानादीनां ग्रहणं भवति।
अन्ये त्वाहुः-- साहचर्यात् कारकविशेषणसहचरिता अपादानादयः कारकशब्देनोच्यन्त इति तद्ग्रहणेनैव तेषां ग्रहणम्। कारकग्रहमं वा स्वरयितव्यम्। तेन `स्वरितेनाधिकारः' (1.3.11) इत्येष विधिर्भवति। तस्मात् कारकग्रहणेनापादानादीनां ग्रहणं भविष्यति।

24. ध्रुवमपायेऽपादानम्। (1.4.24)
अपायः = विश्लेषःक; विभाग इत्यर्थः। तस्य द्विष्ठत्वाद्याथा तेन विभागेन योऽपैति सोऽपाययुक्तः, तथा यतोऽपैति सोऽप्यपाययुक्तः; तस्मादुभयत्र पञ्चम्या भवितव्यमित्यत एवाह-- `ध्रुवं यदापायमुक्तम्' इति। `अपाये साध्ये' इति। विषयसप्तमीयम्. अपायस्य साध्यत्वेन विषयभूत इत्यर्थः। यद्यपि ध्रुवशब्दो लोक एकरूपतामाचष्टे-- ध्रुवमस्य शीलम्, ध्रुवमस्य रूपमिति; तथाप्ययाये साध्येऽभिहितया तया न कश्चिदर्थः सम्पद्यत इति नात्र ध्रुवताऽपायं प्रत्युपयुज्यते ? सैवोपदीयते, सा चावधिभाव एव। तस्यादपायस्य सन्निधौ ध्रुवशब्दः सम्बन्धात् सश्लेषलक्षणात् प्रच्यवमानस्यावधिभावमाचष्टे, इत्यत आह-- `अवधिभूतम्' इति। अत एवापाये साध्येऽवधिभूतं यत्तदिह ध्रुवशब्देनोच्यते। तेन धावतोऽश्वात् पतित इत्येवमादावप्यपादानसंज्ञा अश्वादेः सिद्धा भवति। असति ह्यत्रापि सत्यपि चलत्वेऽश्वादेरप्यपायेऽवधिभावः।
अथेह कथमपादानसंज्ञा-- अधर्याज्जुगुप्सते, अधर्माद्विरमति, धऱ्मात्प्रमाद्यतीति, न ह्यत्रापायोऽस्ति ? कथम् ? कार्यसम्प्राप्तिपूर्वको ह्यपायो भवति, न चेह कार्यसम्प्राप्तिरस्तीति आह-- `जुगुप्सा' इत्यादि। जुगुप्साद्यर्थानां धातूनां प्रयोगेऽपादानासंज्ञाया उपसंख्यानम् = प्रतिपादनं कर्त्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्-- `अपादानम्'इति महती संज्ञा क्रियते, महाविषयेयं संज्ञेति सूचनार्थम्। एवञ्च महाविषया भवतीयम्-- यदि सूत्रोपात्तात् संज्ञिनोऽन्योऽप्यस्या विषयो भवति, नान्यथा; तेन दजुगुप्सादीनां प्रयोगेऽसत्यपायेऽपादानसंज्ञा भविष्यतीति। अथ वा-- अस्त्येवाऽत्रापायः, न हि कार्यसम्प्राप्तिपूर्वक एवापायो भवतीति, किं तर्हि ? चित्तसम्प्राप्तिपूर्वकोऽपि भवति। इह तावदधर्माज्जुगुप्सते, अधर्माद्विरमतीति, य एव मनुष्यः प्रेक्षापूर्वकारी भवति स एवं पश्यति-- दुःख हेतुरयमधर्मो नाम, अतो नार्हत्येनं सचेताः कर्त्तुमिति; एवं पश्यति-- `नास्माद्धर्मात् किञ्चिदिष्टं सम्पद्यते, दुःखमेव केवलं तदारम्भ निमित्तकं भवति' स एवं विचारयंस्तं बुद्ध्या प्राप्नोति, प्राप्य च ततो निवर्त्तते। तथा च ध्रुवमपायेऽपादानमित्येवं सिद्धम्। `प्रमाद्यति' इति। `मदी हेर्षे' (धा.पा.1208), `शमामष्टानां दीर्घः श्यनि' (7.3.74) इति दीर्घः। अथेह कथमपादानसंज्ञा-- ग्रामान्नागच्छतीति ? कथञ्च न स्यात् ? ग्रामस्यापायेनायुक्तत्वात्। यस्यां सत्यामपायो भवति, सा प्रतिषिद्ध्यते चापादनसाधनागमनक्रिया, तदसत्यां तस्यां कुतोऽपायः ? नैष दोषः अत्र ह्यपादानसंज्ञायां समुपजातायां पश्चात्प्रतिषेधेन सम्बन्धः क्रियते,अन्यथा हि प्रतिषेधस्य विषयो न दर्शितः स्यात्। तथा ह्यपादानसाधनागमनक्रिया प्रतिषेद्धुमिष्टा।तत्र यदि चादावेव निषेधः स्यात्, अपायाभावात् तदसम्बद्धस्य ग्रामस्यापादानसंज्ञा सिद्धा न स्यात्। ततश्च या प्रतिषेध्यापादानसाधनागमनक्रिया प्रतिषेधस्य विषयभूता; सा न शक्यते प्रदर्शकयितुम्; न चात्राप्रदर्शितकविषयेत प्रतिषेधः शक्यते वक्तुम्. तस्मात् पूर्वमपादानसंज्ञा भवति, पश्चात्प्रतिषेधेन योग इत्येष क्रमः।

25.भीत्रार्थानां भयहेतुः। (1.4.25)
भीतिर्भीः; त्राणं त्राः; सम्पदादित्वात्‌ क्विप्। भीश्च त्राश्च भीत्रौ। भीत्रादर्थौ येषां ते भीत्रार्थाः। `बिभेत्यर्थानाम्' इत्यादि। बिभेतित्रायतिशब्दाविह साहचर्याद्बिभेतित्रायत्यर्थयोर्वर्तेते। बिभेतिरर्थो येषां ते बिभेत्यर्थाः। त्रायतिरर्थो येषां ते त्रायत्यर्थाः। `बिभेति' इति। `ञिभी भये' (धा.पा.1084), जौहोत्यादिकः। `उद्विजते' इति। `ओविजी भयचलनयोः' (धा.पा.1460) तौदादिकोऽनुदात्तेत्। `त्रायते' िति। `त्रैङ पालने' (धा.पा.965) भौवादिकः।
`अरण्ये बिभेति' इति। नात्रारण्याद्भयम्, किं तर्हि ? तत्रस्थेभ्यश्चौरादिभ्यः। ननु चात्राधिकरणसंज्ञा परत्वात् बाधिका भविष्यति।अपि च-- ध्रुवमित्यनुवर्त्तते, `ध्रुवञ्चावधिभूतम्' इत्युक्तम्। न चारण्यमवधिबावेन विवक्षितम्, तत्किमेतन्निवृत्त्यर्थेन भयहेतुग्रहणेन ? एवं तर्हि पूर्वस्यायं प्रपञ्चः। न हि कायसम्प्राप्तिपूर्वक एवापायो भवति, किं तर्हि ? बुद्धिसम्प्राप्तिपूर्वकोऽपि। अस्ति चेह बुद्धिकसंप्राप्तिपूर्वकोऽप्ययायः, तथा हि -- चौरेभ्यो बिभेतीत्यत्र यस्तावत् पुरुषः प्रेक्षावान् भवति स एवं पश्यति-- `यदि मां चौराः पश्येयुर्ध्रुवं मे मृत्युः' इति विचारयंस्तान् बुद्ध्या प्राप्नोति, प्राप्य चततो निवर्तते। तत्र ध्रुवमित्यादिनैव सिद्धम्। तस्मात् पूर्वस्यायं प्रपञ्चः। न च प्रपञ्चे गुरुलाघवं चिन्त्यते। एवमुत्तरेऽपि योगाः पूर्वस्यैव प्रप़ञ्चा वेदितव्याः; तदुदाहरणानां `अध्ययनात् पराजयते' इत्येवमादीनां पूर्वेणैव सिद्धत्वात्। यथा च तेषां सिद्धत्वं तथा भाष्ये एव प्रतिपादितम्। तस्मात् तत्रापि गुरुलाघवं न चिन्तनीयम्।।

26. पराजेरसोढः। (1.4.26)
`सोढुं न शक्यते' इति। अनुभवितुं न शक्यत इत्यर्थः। `अध्ययनात् पराजयते' इत्यध्ययनमभिभवितुं न शक्नोति, न पारयतीत्यर्थः। `विपराभ्यां जेः' (1.3.19) इत्यात्मनेपदम्।
`शत्रून् पराजयते' इति। अभिभवतीत्यर्थः। ननु च परत्वात् कर्मसंज्ञयैवात्र बाधितत्वादपादानसंज्ञा न भविष्यति, तत् किमेतन्निवृत्त्यर्थेनासोढग्रहणेन ? सत्यमेतत्; प्रपञ्चे गुरुलाघवं न हि चिन्त्यते, प्रपञ्चश्चायम्। अस्ति ह्यत्राध्ययनाद् बुद्धिसंसर्ग पूर्वकोऽपायः। तथा हि-- यएव पुरुषोऽलसो भवति, स एवं मन्यते-- दुःखायैवैतदध्ययनमिति, पश्यन् बुद्ध्या तत्प्राप्नोति, प्राप्य च ततो निवर्तते; तस्मात् पूर्वेणैव सिद्धम्।।

27. वारणार्थानामीप्सितः। (1.4.27)
वारणमर्थो येषां ते वारणार्थाः। `यवेभ्यो गा वारयति' इति। `गाः' इति गवामीप्सिततमत्वेन विवक्षितत्वात्कर्मसंज्ञा, गोशब्दाच्छस, `औतोऽम्शसोः' (6.1.93) इत्यात्त्वम्, रुत्वे कृते `भोभगोअधोअपूर्वस्य' (8.3.17) इति यत्वम्, `हलि सर्वेषाम्' (8.3.22) इति यलोपः। `वारयति' इति। `वृञ् आवरणे' (धा.पा.1813), चुरादिणिच्। `निवर्तयति' इति। `वृतु वर्तने' (धा.पा. 758), हेतुमण्णिच्।
`यवेभ्यो गा वारयति क्षेत्रे' इति। अत्र क्षेत्रस्यानीप्सितस्य न भवति संज्ञा; ईप्सितग्रहणम्। ननु चात्र परत्वादरधिकरणसंज्ञयैव बाधितत्वादपादानसंज्ञायाः, क्षेत्रस्यापादानसंज्ञा न भविष्यतीत्यतो न कर्तव्यमीप्सितग्रहणमिति, एतन्नाशङ्कनीयम्; उक्तोत्तरत्वात्।।

28.अन्तर्द्धौ येनादर्शनमिच्छति। (1.4.28)
`अन्तर्द्धौ' इति निमित्तसप्तमीयम्. `निमित्तात् कर्मयोगे' (वा.138) इति सप्तमी, यथा-- चर्मणि द्वीपिनं हन्तीति। एतदेव ज्ञापकम्-- निमित्तात् कर्मसंयोगेऽस्ति सप्तमीति। अस्त ह्यत्रादर्शनेन कर्मणा संयोगः। `येन' इति। कर्त्तरि तृतीया। ननु च `कर्त्तृकर्मणोः कृति' (2.3.65) इति षष्ठ्या भवितव्यमिति ? नैतदस्ति; `उभयप्राप्तौ कर्मणि' (2.3.66) इति नियमात् कर्मण्येव, न कर्तरि। कर्म त्वत्रादर्शनस्यात्मा, तस्यान्तरङ्त्वात् स एव कर्म विज्ञायते। `तत् कारकम्' इति। यद्यप्यत्र सूत्रे तच्छब्दो नोपात्तः, तथापि स यत्तदोर्नित्याभिसम्बन्धाल्लभ्यते। `उपाध्यायादन्तर्धत्ते' इत्यत्रोपाध्यायेन कर्ता शिष्य आत्मनः कर्मभूतस्यादर्शनमिच्छति। अन्तर्द्धिनिमित्तम्। अन्तर्द्धते इति दधातेर्लट्,`स्वरितञितः' (1.3.72) इत्यात्मनेपदम्, शपः श्लुः, क`श्लौ' (6.1.10) इति द्विर्वचनम्, `श्नाभ्यसत्योरातः' (6.4.112) इत्याकारलोपः, अभ्यासस्य जश्त्वम्, `दधस्तथोश्च' (8.2.38) इति दकारस्य धकारः, परस्य धकारस्य `खरि च' (8.4.55) इति चर्त्वम् = तकारः। `निलीयते' इति। `लीङ श्लेषणे' (धा.पा.1139) वैवादिकः।
`चौरान्न दिदृक्षते' इति। अत्र यश्चौरान् न दिदृशत इति स तैरात्मनोऽदर्शनमिच्छति, न त्वन्तर्द्धिनिमित्तम्; किन्तूपघातनिवृत्त्यर्थम्। विस्पष्टार्थञ्चान्तार्द्धिग्रहण्। परत्वात् कर्मसंज्ञैव बाधितत्वाच्चौराणामिहापादानसंज्ञा न भविष्यति। प्रपञ्चार्थोऽयं योगः, न च प्रपञ्चे गुरुलाघवं चिन्त्यत इत्युक्तम्। उपाध्यायादन्तर्धते शिष्य इति शिष्यस्यान्तर्द्धातुर्मा भूत्, नैतदस्ति; ध्रुवमित्यनुवर्तते, ध्रुवञ्चावधिभूतमित्युक्तम्; न चान्तर्द्धातावधिभूतः। एवं तर्ह्यसति येनेत्येतस्मिन् वचने, सत्यामपि ध्रुवमित्यस्यानुवृत्तौ सूत्रस्यावाचकत्वं स्यात्। अतस्तन्माभूदिति येनेत्युक्तम्।।

29. आख्यातोपयोगे। (1.4.29)
`नियमपूर्वकं विद्याग्रहणम्' इति। विद्याग्रहणार्थं शिष्यप्रवृत्तिः = नियमः। स पूर्वो यस्य तत् तथोक्तम्। `शेषाद्विभाषा' (5.4.154) इति कप्। `नटस्य गाथां शृणोति' इति। सम्बन्धलक्षणा षष्ठी। नियमपूर्वकमिह विद्याग्रहणं नास्ति।।

30. जनिकर्तुः प्रकृतिः। (1.4.30)
जनिशब्दोऽत्र साहचर्याज्जन्यर्थ वर्तते। अत एवाह-- `जन्यर्थस्य' इति। `जन्मनः' इति। एतेन जन्यर्थं दर्शयति। तथा हि-- `जनी प्रादुर्भावे' (धा.पा.1149) इति पठ्यते। प्रादुर्भावो जन्म एव। कः पुनस्तस्य कर्त्तेत्यत आह-- `जायमानः' इति। `ज्ञाजनोर्जा' (7.3.79) इति जादेशः। अथ प्रकृतिग्रहणं किमर्थम् ? यावता ध्रुवमित्यनुवर्त्तते, ध्रुवञ्चावधिभुतमित्युक्तम्। जनिकर्त्तृश्चावधिः कारणमेव भवति; तत्रान्तरेणापि प्रकृतिग्रहणं प्रकृतेरेव भविष्यति, नैतदस्ति; पुत्रात् प्रमादो जायत इत्यादौ पुत्रादेरप्यपादानासंज्ञा यथा स्यादित्येवमर्थं प्रकृतिग्रहणम्। द्विविधं हि कारणम्-- उपादानकारणम्, सहकारिकारणञ्च। तत्र यत् कार्येणाभिन्नदेशं तदुपादानकारणम्, यथा- घटस्य मृत्पिण्डः। सहकारिकारणं यत् कार्येण भिन्नदेशम्, यथा-- तस्यैव दण्डचक्रादि। तत्रासति प्रकृतिग्रहणे प्रत्यासत्तेरुपादानकारणस्यैव स्यात्, नेतरस्य। प्रकृतिग्रहणे तु सति सर्वस्यैव कारणमात्रस्य भवति।।

31.भुवः प्रभवः। (1.4.31)
`भवनं भूः'इति। सम्पदादित्वात् क्विप्। प्रभव्तयस्मीदित प्रभव इत्यपादाने `ऋदोरप्'(3.3.57) इत्यप्। ननु च `हिमवतो गङ्गा प्रभवति' इत्येतत् पूर्वेणैव सिद्धम्. तथा ह्ययमत्रार्थः-- हिमवतो गङ्गा जायत इति, तत्किमर्थमिदमारभ्यत इत्याह-- `प्रथमत उपलभ्यते' इति। एष चार्थोऽनेकार्थत्वाद्धातूनां वेदितव्यः। जन्यर्थस्त्वत्र न सम्भवत्येव, न हि हिमवान् गङ्गायाः कारणम्, सा ह्यन्येभ्य एव कारणेभ्य उत्पन्ना। हिमवति तु केवलं प्रथमत उपलभ्यत इति।।

32. कर्मणा यमभिप्रैति स सम्प्रदानम्। (1.4.32)
`कर्मणा करणभूतेन' इति। ननु च कथं कर्म करणं भवति ? क्रियाभेदसम्बन्धात्। तथा हि ददातिक्रिययाऽऽस्तुमिष्टतमत्वात् तस्याः कर्मत्वम्, अभिप्रयाणक्रियां प्रतितस्य साधकतमत्वात् करणत्वम्। `अभिप्रैति' इति। अभिसम्बध्नातीत्यर्थः। यदि कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञो भवति, एवमजां नयति ग्राममित्यजादिभिर्नयनक्रियाकर्मभिः सम्बध्यमानस्य ग्रामस्य सम्प्रदानसंज्ञा प्रसज्येतेत्यत आह-- `अन्यर्थसंज्ञाविज्ञानात्' इत्यादि। सम्प्रदानमिति। तेन ददातेः कर्मणा यमभिप्रैति तत् सम्प्रदानमिति विज्ञायते। नन्वेवमपि रजकस्य वस्त्रं ददाति, घ्नतः पृष्ठं ददातीत्यतत्र प्राप्नोति, नैतदस्ति; दानं हि नाम पूजानुग्रहकाम्यया स्वकीयद्रव्यपरित्यागः परस्वत्वापत्तिः, तच्चेह नास्ति, अतो न भविष्यति। कर्मणेति किमर्थम् ? " यमभिप्रैति स सम्प्रदानम्" इत्युच्यमाने यमभिप्रैति तस्य कर्मण एव सम्प्रदानसंज्ञत्रा स्यात्. कर्मसंज्ञायास्तु ददातिकर्मणोऽन्यत्रावकाशः स्यात्-- ओदनं पचतीति। `यं स' ग्रहणं किमर्थम् ? `कर्मणाभिप्रैति सम्प्रदानम्' इत्युच्यमाने कयोऽभिप्रैति तस्य सम्प्रदानसंज्ञा स्यात्। ततश्च कर्तुः सम्प्रदानसंज्ञा स्यात्, कर्तसंज्ञायास्तु यत्र कर्मसम्बन्धो नास्ति, सोऽवकाशः स्यात्--आस्ते, शेते इति। अथाभिप्रग्रहण किमर्थम् ? `कर्मणा यमेति स सम्प्रदानाम्' इत्युच्यमाने कालविशेषविक्षा स्यात्, वर्तमान एव स्यात्। ततश्चोपाध्यायस्य गामदात्, उपाध्यायायं गां दास्तीत्यत्र न स्यात्, अभिग्रहणे तु सति भवति। अभिराभिमुख्ये वर्त्तते तच्चाप्यतीतेऽप्यस्ति। प्रशब्द आदिकर्मणि, प्रारम्भे। स चासन्निहितायां भाविन्यामपि क्रियायां सम्भवतीति सर्वत्र संज्ञा सिद्धा भवति। नैतदभिप्रग्रहस्य प्रयोजनमुपपद्यते। यथैव कर्मणेत्यत्रैकत्वसंख्याया विवक्षा न भवति; यता च `यं' `सः' इत्यत्र लिङ्गसंख्योर्विवक्षा न भवति तथा कालस्यापि न भविष्यति। किं कारणम् ? उपलक्षणार्थत्वात्। यथा-- `सोऽर्थो योऽनर्थ बाधते' इत्युक्ते योऽपि बाधितवान्, योऽपि बाधिष्यते सोऽप्यर्थ एव। एवं तर्हि ग्रन्थाधिक्यादर्थाधिक्यं यथा स्यादित्यवमर्थमभिप्रग्रहणम्। एतेन क्रिययापि यमभिप्रैति तस्यापि सम्प्रदानसंज्ञा सिद्धा भवति; अन्यथा हि यद्यपि क्रिया प्रार्थनाध्यवसानाभ्यां व्याप्तुमिष्टतमत्वात् कर्म, तथापि ददातिकर्मसम्बन्धाभावान्न सिद्ध्येत्। कथं पुनरेतदवसितम्-- क्रियया यमभिप्रैतिस सम्प्रदावमित्ययमर्थोऽत्र प्रतिपादयितुमिष्टतम् इति ? अभिप्रग्रहणात्। अस्ति ह्यत्राचार्यस्य कश्चिदर्थोऽधिकोऽभिमतः, यस्यावभासनायाधिकं शब्दान्तरं प्रयुक्तमिति गम्यते, न त्वर्थविशेषः। न हि तत् तस्य वाचकम्। यद्यप्यवाचकं स्यात्, तथापि लक्ष्यदर्शनवशादविच्छिन्नाचार्यपारम्पर्योपदेशाच्च विशेषावगतिर्भविष्यतीत्यद्वेष्यमेतत्।
`क्रियाग्रहणमपि कर्त्तव्यम्' इति। क्रियया ग्रहणं क्रियाग्रहणम्। येन क्रिया गृह्यते, तद्वयाख्यानं कर्त्तव्यम्। किं पुनस्तद्व्याख्यानम् ? तच्चास्माभिरभिग्रहण्सय प्रयोजनं वर्णयद्भिः कृतमेव। का पुनरिह क्रिया, ययाभिप्रेयमाणस्य सम्प्रदानसंज्ञेष्यते ? सा विवक्षिता। अत आह-- `क्रिययापि यमभिप्रैति' इत्यादि। `निगल्हते' इति। `गर्ह गल्ह कुत्सायाम्' (धा.पा.636,637) अनुदात्तेत्। `युद्धाय सन्नह्यते' इति। `नह बन्धने' (धा.पा.1166) दिवादौ स्वरितेत्। स चेह निश्चये वर्त्तते, युद्धे निश्चयं करोतीत्यर्थः। `पत्ये शेते' इति। शीङत्रोपसर्पणपूर्वके शयन वर्त्तते। पतिमुपसृत्य शेते इत्यर्थः। `कर्मणः करणसंज्ञा' इत्यादि। एतत् `पशुना रुद्रं यजते' इत्येतद्विषयमेव वेदितव्यम्। यजिः स्वरितेत्। एतच्च `व्यत्ययो बहुलम्' (3.1.85) इति सुव्यत्ययेन सिद्धमेवेति न वक्तव्यम्।।

33. रुच्यर्थानां प्रीयमाणः। (1.4.33)
`रुचिना समानार्था रुच्यर्थाः' इति। रुच्यर्थानामित्यस्मादेव निपातनात-- मयूरव्यंसकादित्वान्मध्यमपदलोपो समासः। `समानार्थाः' इति। एकार्था इत्यर्थः। यद्यपि `रिचिर्दीप्तौ' (धा.पा.745) पठ्यते, तथापीहाभिलाषे वर्त्तते, अनेकार्थत्वाद्धातूनाम्; तत्रैव प्रीयमाणार्थस्य सम्भवात्। यस्य ह्यभिलाषः स प्रीयमाणः. यस्त्वभिलषति स प्रीणाति। `प्रीयमाणः' इति। तृप्यमाण इत्यर्थः। `प्रीञ् तर्पणे' (धा.पा. 1474) इत्येतस्मात् कर्मणि विहितस्य लस्य शानच्। `अन्यकर्त्तृकः' इत्यादिना तमभिलाषविशेषं दर्शयन् रुचिशब्दस्यार्थमाचष्टे। प्रीयमाणापेक्षयाऽन्योर्थो वेदितव्यः। प्रीयमाणादन्यः कर्त्ता यस्य सोऽन्यकर्त्तुकः। `रोचते स्वदते' इति। `रुच दीप्तौ'(धा.पा.745) `स्वद आस्वादने' (धा.पा.18) अनुदात्तेत्तौ। `देवदत्तस्थस्य' इत्यादिनाऽन्यकर्त्तृकतामभिलाषस्य दर्शयति।
`देवदत्ताय रोचते मोदकः पथि' इति। प्रीयमाणग्रहादिहाधिकरणस्य पथः सम्प्रदानसंज्ञा न भवति। अथ देवदत्तो मोदकमभिलषतीत्यत्र देवदत्तस्य सम्प्रदानसंज्ञा कस्मान्न भवति ? रुच्यर्थाभावात् `अन्यकर्त्तृको ह्यभिलाषो रुचिः, (का. 1.4.33) इत्युक्तम्. न चेहान्यकर्त्तृकोऽभिलाषः, किं तर्हि ? प्रीयमाणो देवदत्तो यस्तत्रस्थोऽभिलाषस्तत्कर्त्तृकः।।

34. श्लीघह्‌नुङ्स्थाशपां ज्ञीप्स्यमानः। (1.4.34)
`ज्ञीप्स्यमानः' इति. `मारणतोषणनिशामनेषु ज्ञा' (धा.पा.811) इति घटादिषु पठ्यते। तस्मात् निशामने ज्ञाने वर्त्तमानात् हेतुमण्णिच्। अथ वा `ज्ञप मिच्च' (धा.पा.1624) इति चुरादौ पठ्यते। तस्माच्चुरादिणिच्, मित्त्वात् ह्रस्वत्वम्, सन्, द्विर्वचनम्, `आप्ज्ञप्यृधामीत्' (7.4.55) इतीत्वम्, `अत्र लोपऽभ्यासस्य' (7.4.58) इत्यभ्यासलोपः, कर्मणि लकारः, शानच् यक्, `अतो लोपः' (6.4.48)। `श्लाघते' इति। `श्लाघु कत्थने' (धा.पा.115) अनुदात्तेत्। `{ह्नुते- काशिका, `निह्नुते-पदमञ्जरी.} अपह्नते' इति। `ह्नुङ अपनयने' (धा.पा.1082), आदादिकः। `तिष्ठते' इति। `प्रकाशनस्थेयाख्ययोश्च' (1.3.23) इति तङ। `शपते' इति। `{शप आक्रोशे- धा.पा.} शप उपलम्भने' (धा.पा.1000) इत्यनेनोपलसंख्यानन तङ।।

35. धरेरुत्तमर्णः। (1.4.35)
`उत्तमर्णः' इति। ऋणे उत्तम् उत्तमर्णः। अत एव निपातनात् समासः, सप्तमीसमासे ऋणस्य पूर्वनिपातात्। ननु चोत्तमर्णे ऋणशब्देन न भवितव्यम्। `ऋणमाधमर्ण्ये ' (8.2.60) इत्याधमर्ण्ये तस्य निपातनात्, नैतदस्ति; कालान्तरे देयनियमोपलक्षणार्थं हि तत्राधमर्ण्यग्रहणम्। अत उत्तमर्णोऽपि भवत्येव। `शतं धारयति' इति। `धृङ अवस्थाने' (धा.पा.1412), शतं ध्रियते स्वरूपेणावतिष्ठते, स्वभावान्न प्रच्यवते। तदन्यः प्रयुङ्क्त इति `हेतुमति च' (3.1.26) इति णिच्। `ग्रामे' इति ग्रामस्याधिकरणस्यानुत्तमर्णस्य न भवति।।

36. स्पृहेरीप्सितः। (1.4.36)
`स्पृहयति' इति। अतो लोपस्य (6.4.48) `अचः परस्मिन् पूर्वविधौ' (1.1.57) इति स्थानिवद्भावाद्गुणो न भवति। यदा तु पुष्पादीनामीप्सिततमत्वं विवक्ष्यते, तदा परत्वात् कर्मसंज्ञैव भवति-- पुष्पाणि स्पृह्यतीति।।

37.क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः। (1.4.37)
क्रुधद्रुहावकर्मकौ, तत्र षष्ठ्यां प्राप्तायामयमारम्भः, इतरौ सकर्मकौ। तत्र द्वितीयायां प्राप्तायाम्। कथं पुनरेषां भिन्नार्थत्वे सति `यं प्रति कोपः' इति सामान्येन तद्विशेषणमुपपद्यत इत्याह-- `क्रोधस्तावत्' इत्यादि। सुगमम्। `क्रुद्ध्यति, द्रुह्यति' इति। `क्रुध कोपे'(धा.पा.1189), `द्रुह जिघांसायाम्' (धा.पा.1197) दैवादकौ। `ईर्ष्यति' इति। `{ईक्ष्यं, सूक्ष्यं-धा.पा.}ईर्क्ष, सूर्क्ष, ईर्ष्य ईर्ष्यार्थाः' (धा.पा.510,509,511)। `असूयति' इति। असूयशब्दः कण्‍्डवादियगन्तः। `भार्यामीर्ष्यति'इति। अस्ति भार्यायामीर्ष्या, न तु तां प्रति कोपः। केवलं परैर्दृश्यमानां तां न क्षमते। अथास्मिन् द्वेष्टीत्यत्र कथं न भवति सम्प्रदानसंज्ञा ? द्विषेरक्रोधाद्ययर्थत्वात्। अप्रीतौ ह्येनं स्मरन्ति; तथा चाचेतनेष्वपि प्रयुज्यते-- औषदं द्‌वेष्टीति। नाभिनन्दतीति गम्यते।।

38. क्रुधद्रुहोरुपसृष्टयोः कर्म। (1.4.38)

39. राधीक्ष्योर्यस्य विप्रश्नः। (1.4.39)
`राध्यति' इति। `राध साध संसिद्धौ' (धा.पा.1262,1263),दैवादिकः। `दैवम्' इति शुभाशुभं कर्म। यस्येति ग्रहणं विस्पष्टार्थम्। तथा हि-- `यं प्रति' इत्यनुवर्त्तते, तत्र यं विप्रश्न इत्येवमभिसम्बन्धे क्रियमाणे यस्येत्यस्यार्थोऽप्रयुज्यमानस्यापि गम्यत एव।

40. प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्त्ता। (1.4.40)
`परेण' इत्यादि। अन्येन केनचिदिदं मे क्रियतामिति प्रयुक्तो व्यापारितः सन् प्रतिजानीते। अतः प्रतिज्ञातुरन्येन प्रयुक्त्सयाभ्युपगमो भवति। प्रयोक्तेति व्यापारयिता। सूत्रे पूर्वस्येत्यर्थापेक्षया पुंल्लिङ्गेन निर्देशः।स त्वर्थो विचार्यमाणः क्रियैव भवति। यस्मात् कर्त्तेति क्रियाया एव भवति नान्यस्यार्थस्येत्याह-- `पूर्वस्याः क्रियायाः' इति। यश्चासौ पूर्वस्याः क्रियायाः कर्त्ता भवति, स प्रतिज्ञातुः प्रयोजको भवतीति हेतुसंज्ञायां प्राप्तायामिदं वनचम्। `देवदत्ताय गां प्रतिशृणोति' इति। अत्र पूर्वस्या यानचक्रियाया देवदत्तः कर्त्ता। देवदत्तेन हि मह्यं गां देहीति याचित स यदा ददामीति प्रतिजानीते, तदैवं प्रयुज्यते-- देवदत्ताय गां प्रतिशृणोतीति । पूर्वस्य कर्त्तेति किम् ? विना तेन गवादेरभ्युपयेमानस्य कर्मण एव स्यात्। ननु च परत्वात् कर्मसंज्ञा तस्य बाधिका भविष्यति, नैतदस्ति; नाप्राप्ते हि संज्ञान्तर इदमारभ्यत इति। इहापि च देवदत्ताय गामाशृणोतीति देवदत्तस्य हेतुसंज्ञा प्राप्नोति। तत्र पूर्वस्य कर्त्तेत्यस्मिन्नसति यथा देवदत्तस्य हेतुसंज्ञां बाधते, तदा कर्मसंज्ञामपि बाधेत। अथ वा-- `पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान्' (व्या.प.9) इति कर्मसंज्ञामेव बाधेत। पूर्वस्य कर्त्तेत्यस्मिंस्तु सति हेतुसंज्ञामेव बाधते, न कर्मसंज्ञाम्।।

41.अनुप्रतिगृणश्च। (1.4.41)
`अनुप्रतिगृणः' इति श्नाप्रत्ययेन निर्देशात् क्र्यादिपठितस्य `गॄ शब्दे' (धा.पा.1498) इत्यस्य, न `गॄ निगरणे' (धा.पा.1410) इत्यस्य तौदादिकस्य। `होता प्रथमं शंसति'इति। एतेन स्तुतिक्रियायाः पूर्वस्या होता कर्त्तेति दर्शयति। प्रोत्साहयतीत्यनेनागृणातिप्रतिगृणातिशब्दयोरर्थमाचष्टे। कथं पुनर्ज्ञायते-- अनुपूर्वः प्रतिपूर्वश्च शंसितुर्गृणातिः प्रोत्साहने वर्त्तत इत्याह-- `अनुगरः प्रतिगरः' इति। अनुगीर्यते = होता प्रथमं प्रशस्यते येन शब्देन सोऽयमनुगरः। एवं प्रतिगीर्यते येन स प्रतिगरः। पूर्वसय् कर्त्तेत्येव, होत्रेऽनुगृणातिक सदसीत्यधिकरणस्य मा भूत्।।

42. साधकतमं करणम्। (1.4.42)
ननु च सामग्र्यधीना हि क्रियासिद्धरेकस्याप्यभावेन न भवति। तत् कस्यात्र प्रकर्षो यत्परिग्रहाय साधकतमशब्दस्य ग्रहममित यश्चोदयेत्, तं प्रत्याह-- `क्रियासिद्धौ' इत्यादि। प्रकृष्टम् = अत्यन्तमुपकारकम्। अथ वा -- प्रकर्षः प्रकृष्टम् `नुपंसके भावे क्तः' (3.3.114)। प्रकृष्टेन प्रकर्षेणोपकारकं प्रकृष्टोपकारकं यत् क्रियायसिद्धिविषये प्रकर्षेणोपकारकं विवक्षितं तत् साधकतमम्। विवक्षितग्रहणं यदा प्रकृष्टोपकारकत्वेन विवक्ष्यते, तदा साधकतमव्यवहारो विज्ञायते, नान्येदित ज्ञापनार्थम्। तथाहि-- विवक्षावशाद् यदेव कदाचित् करणम्भवति-- धनुषा विध्यतीति, तदेव कदाचित् स्वातन्त्र्यविवक्षायां कर्त्तृत्वमनुभवति-- टधनुर्विध्यतीति। `लुनाति' इति। `प्वादीनां ह्रस्वः' (7.3.80)।
`तमब्ग्रहणं किम् ? गङ्गायां घोषः' इति। यदि तमब्ग्रहणं न क्रियेत, ततोऽत्राधिकरणसंज्ञा न स्यात्। इह हि द्विवध आधारः- गौणः,मुख्यश्च। तत्र मुख्यो य आधेयेन व्याप्यते, यथा-- तिलेषु तैलमस्ति;अत्र तैलेनाधेयेनाधारभूतास्तिला व्याप्ताः। अव्याप्तो गौणो यथा-- गङ्गायां घोष इति। अत्र हि सामीप्याद् गङ्गायां आधारत्वमुपचरितम्, न मुख्यम्; व्याप्त्यभावात्। तत्रासति तमब्ग्रहणे `गौणमुख्ययोर्मुख्ये कार्यसंम्प्रत्ययः' (व्या.प.4) इति मुख्यस्यैवाधिकरणसंज्ञा स्यात्, नेतरस्य; तमब्ग्रहणात् तस्यापि भवति; तथपीह तमब्ग्रहणं न कर्त्तव्यम्,कथम् ? विनापि तेन प्रकर्षावगतेः। यथैव ह्यनभिरूपाय कन्यादानस्य प्रवृत्तिर्नास्तीत्यभिरूपाय कन्या देयेत्युक्ते विनापि प्रकर्षप्रत्ययेनाभिरूपतमायेति गम्यते; तथेहापि कारकाधिकारादसाधके संज्ञायाः प्रवृत्तिर्नस्तीति `साधकं करणम्' इत्युक्तेऽन्तरेणापि तमब्ग्रहणं साधकतममिति गम्यते, तत्किं तमब्ग्रहणेन ? तदेतत् तमब्ग्रहणं ज्ञापनार्थं कृतम्। एतदनेन ज्ञाप्यते-- `इह कारकाधिकारे इतः सूत्रादन्यत्र विना तमब्ग्रहणेन प्रकर्षो नाश्रीयते' इति। तेन `आधारोऽधिकरणम्' (1.4.45) इत्यनेन `गङ्गायां घोषः' इत्यादावमुख्यस्यापि गङ्गादेराधारस्याधिकरणसंज्ञा सिद्धा भवति।।

43. दिव कर्म च। (1.4.43)
`दीव्यति' इति। `हलि च' (8.2.77) इति दीर्घः।।

44. परिक्रयणे कसंप्रदानमन्यतरस्याम्। (1.4.44)
परिक्रीतिः = परिक्रयणम्। `नियतकालम्' इति। नात्यन्तिकम्। `वेतनादिना' इति। आदिशब्देन बन्धकादीनां ग्रहणम्। `नात्यन्तिकः क्रय एव' इति नियतकालत्वं स्पष्टीकरोति। परिशब्दोऽत्र प्रत्यासतिं द्योतयति। क्रयो हि नामात्यन्तिकः। वेतनादिना केवलं यत्तु नियतकालं तदात्यन्तिकस्य क्रयस्य समीपमिति परिशब्देनाख्यायते।।

45. आधारोऽधिकरणम्। (1.4.45)
`आध्रियन्ते क्रियागुणा अस्मिन्नित्याधारः' इति। `अध्यायन्यायोद्यावट (3.3.122) इत्यादिनाऽऽधारशब्दोऽधिकरणे घञन्तो व्यत्पादित-। क्रियापेक्षत्वत् कारकस्येति क्रियाग्रहणम्। यद्याध्रियन्ति क्रिया यस्मिन् स आधारः इति, एवं हि सति कर्तृकर्मणोरेवाधिकरणसंज्ञा प्रसज्येत, तयोरेव हि क्रिया आध्रियन्ते। तथा हि- कर्त्तस्था व ा क्रिया भवति, कर्मस्था वा, अनवकाशत्वात् कर्त्तृकर्मणोः संज्ञा न भविष्यत्येष दोष प्रसङग् इति, एतच्चानुत्तरम्; सत्यपि ह्यनवकाशत्वे तयोः पर्यायः स्यात्। एकदाधिकरणसंज्ञा भवितव्यं तं दर्शयति। प्रतिराभिमुख्ये। `क्रियां प्रति य आधारः' इति।। क्रियाया अभिमुखो य आधार इत्यर्थः। यश्च क्रियां धारयति स क्रियाया अभिमुखो भवति। क्रियायास्तु धारणं साक्षात्, व्यवधानेन वा; कर्त्तृकर्मणोः क्रियाश्रययोर्धारणात्। अत्र पूर्वस्य व्यवच्छेदार्थं `कर्त्तृर्मणोः' इत्युक्तम्।
तदेतदुक्तं भवति-- कर्त्तृकर्मणोः क्रियाधारभूतयोर्धारणात् क्रियाया अभिमुखो य आधारस्तस्याधिकरणसंज्ञा भवतीति। तदेवं क्रियाधारभूतकर्त्तृकर्मधारणद्वारेण क्रियाया अभिमुखो य आधारस्तस्याधिकरणसंज्ञा; यतोऽनेन विधीयते ततो न भवति पूर्वस्य दोषप्रसङ्गः। न हि कर्त्तृकर्मणोरनेन प्रकारेण क्रियां प्रत्याधारत्वम्; अपि तु साक्षादेव क्रियाधारणात्। नन्वेवमपि कर्त्तृकर्मणोर्मुख्यं क्रियाधारत्वम्, साक्षादेव क्रियाधारणात्, कर्त्तृकर्माधारस्य तु कटादेर्गौणत्वं क्रियाश्रयभूतकर्त्तृकर्मधारणद्वारेण क्रियाधारणात्। तत्र मुख्य आधारे सति गौणस्याधिकरणसंज्ञा न प्राप्नोतीति स दोषसत्दवस्थ एव? नैतदस्ति; तमब्ग्रहणेन ज्ञापितमेतत्-- गौणस्याप्याधारस्याधिकरणसंज्ञा भवतीति। भवतु गौणस्याधिकरणसंज्ञा, मुख्यस्यापि कर्त्तृ कर्मणश्च कस्मान्न भवतीति चेत्, न; परत्वादनवकाशत्वाच्च कर्त्तृकर्मसंज्ञाभ्यां बाध्यमानत्वात्। अधिकरणसंज्ञा हि पूर्वो गौण आधारे सावकाशा, तद्विपरीते तु कर्त्तृकर्मसंज्ञे इति ताभ्यां बाध्यमाना नोत्सहते तयोर्विषयमवगाहितुम्।
`कटे आस्ते' इति। कर्त्तृस्था क्रिया यत्र पूर्वेण प्रकारेणाध्रियते तस्योदाहरणम्;; विक्लेदनक्रियायाः कर्मस्थत्वात्। `स्थाल्यां पचति' इति। कर्मस्था क्रिया यत्राध्रियते तस्योदाहरणम्; विक्लेदनक्रियाया कर्मस्थत्वात्।
तत्पुनरधिकरणं त्रिप्रकारम्-- औपश्लेषिकम्,वैषयिकम्, अभिव्यापकञ्च। तत्राद्ये -- कटे आस्ते,स्थाल्यां पचतीति कटादेर्पयाधारस्य ह्याधेयेन सहोपश्लेषः संयोगलक्षणोऽस्तीत्यौपश्लेषिकं तद्भवति। वैषयिकम्-- गुरौ वसति, गङ्गायां घोष इति। प्रतिवसतीति विषयो ह्यनन्यत्रभावः, यथा-- चक्षुष्वप्रभृतीनां रूपादिभ्योऽनन्यत्रभावाच्चक्षुरादीनां रूपादयो विषया इत्युच्यन्ते, एवं शिष्यादीनां गुर्वादिभ्योऽनन्यत्रभावादेषां ते विषया इति। ननु च `आधारोऽधिकरणम्' (1.4.45) इत्युक्तम्, आधारश्च को भवति ? य आश्रयः; संयोगतः समवायो वा भवति, न च शिष्यादीनां गुरुप्रभृतिभिः सह संयोगः समवायो वाऽस्ति, तदयुक्तं तेषामधिकरणत्वम् ? नैतदस्ति; यदायत्ता हि यस्य स्थितिः स विनापि संयोगसमवायाभ्यां तस्याश्रयो भवति, यथा-- राजायत्तस्थितित्वात् पुरुषस्य राजेति; न च राज्ञा सह पुरुषस्य संयोगसमवायौ स्त-। तथा हि-- तदधीनस्थितित्वात् राजाश्रयः पुरुष इति लोके व्यपदिश्यते, तथा शिष्यादीनां गुर्वाद्यायत्ता स्थितिरिति युक्तस्तान् प्रति गुरुप्रभृतीनामाश्रयभावः। अभिव्यापकं यथा-- तिलेषु तैलम्, दघ्नि सर्पिरिति। तिलादिकं तैलदिकमाधेयं व्याप्यावतिष्ठत इति तिलादिकमभिव्यापकमधिकरणम्। यद्यप्यत्र तिलादीनां तैलादिभिः सह संयोगोऽस्ति, तथापि देशविभागाभावादत्र संश्लेषव्यवहारो नास्तीत्यौपश्लेषिकात् तत्पृथगेवोपस्थाप्यते।।

46.अधिशीङ्स्थासां कर्म। (1.4.46)
`अध्यास्ते' इति। `आस उपवेशने' (धा.पा.1021) अदादिः अनुदात्तेत्।।

47. अभिनिवशश्च।(1.4.47)

48. उपान्वध्याङ्वसः।(1.1.48)
लुग्विकरणालुग्विकरणपरिभाषया (व्या.प.50) `वस निवासे' (धा.पा.1005) इत्यस्य भौवादिकस्य ग्रहणम्, न `वस आच्छादने' (धा.पा.1023) इत्यस्यादादिकस्य।
`वसेरश्यर्थस्य' इत्यादि। `उपोष्य रजनीमेकाम्' इति, त्रिरात्रमुपवसतीत्यत्र च `कालाध्वनोः' (2.3.5) इति द्वितीया। अथ वा `कालभावाध्वगन्तव्याः' (वा; म.भा.1.336) इति कर्मत्वे। अत्रार्थशब्दो निवृत्तिवचन इति भोजननिवृत्तिवाचिन इत्यर्थ-। `वक्तव्यम्' इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- इहाप्यन्यतरस्याग्रहणनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते; तेन वसेरश्यर्थस्य प्रतिषेधो भविष्यति।।

49. कर्त्तुरीप्सिततमं कर्म। (1.4.49)
`कर्त्तुः क्रियया' इति। एतेन कर्त्तुरिति नेप्सिततमापेक्षया `क्तस्य च वर्तमाने' (2.3.67) इत्यनेनेयं षष्ठी, अपि तु क्रियापेक्षया शेषलक्षणैवेति दर्शयति। ननु च नेह क्रियोपात्ता, तत्कथं तदपेक्षया षष्ठी प्रयुज्यते ? यद्यपि नोपात्ता, तथापि कर्त्तुः क्रियापेक्षत्वात् कर्त्तृशब्दोऽयं सम्बन्धिशब्द इति कर्त्तृसम्बन्धिनीं क्रियामुपस्थापयतीत्यदोषः। ईप्सितशब्दो ह्यस्ति रूढिशब्दः-- ईप्सितोऽभिप्रेत इति, अस्ति च क्रियाशब्दः-आप्तमिष्ट ईप्सित इति ; तत्रह क्रियाशब्दो गृह्यते, नेतरः; न हि रूढिशब्दस्य क्रियया कर्त्तृसाध्यया सम्बन्ध उपपद्यते। `ईप्सित' इति। `आप्लृ व्याप्तौ' (धा.पा.1260) सन्, द्विर्वनचम्, `आप्ज्ञप्यृधामीत्' (7.4.55) इतीत्त्वम्। `अत्र लोपोऽभ्यासस्य' (7.4.58) इत्यभ्यासलोपः। ईप्स इति स्थिते, क्तप्रत्यये कृते, इटि च `अतो लोपः' (6.4.48) इत्यकारलोपे चेप्सितशब्दः सम्पद्यते। तेनार्थद्वयमिहोपात्तम्-- प्रकृत्यर्थः, प्रत्ययार्थश्च। तत्राप्तुमित्यनेन प्रकृत्यर्थं दर्शयति,इष्टतममित्यनेन प्रत्ययार्थम्।
`कर्मणः' इत। अश्वस्य। अत्र बन्धक्रियया आप्तमिष्टतमत्वात् कर्मत्वम्। स हि भक्षणक्रियया माषानाप्तुमिच्छति। `पयसौदनं भङ्क्ते' इति। असति हि तमब्ग्रहणे पयसोऽपि स्यात्। तदपि कर्त्तृर्भुजिक्रियया व्याप्तुमिष्टं भवति। तमब्ग्रहणे तु सति न भवत्यतिप्रसङ्गः; प्राधान्यादौदनस्यैवेप्सिततमत्वात्। प्राधान्यं त्वोदनस्य संस्कार्यत्वात्, पयसस्त्वप्राधान्यं संस्कारकत्वात्।
`कर्मेत्यनुवर्त्तमाने' इति। `अधिशीङस्थासां कर्म' (1.4.46) इत्यतः। `पुनः'इत्यादि। पूर्व कर्मग्रहणमाधारेण सम्बद्धम्; अतस्तदनुवृत्तौ तस्यानुवृत्तिः स्यादत आधारनिवृत्त्यर्थं पुनः कर्मग्रहणं क्रियते। यदि पुनराधारोऽनुवर्त्तते, ततः किं स्यादित्यत्राह-- `आधारस्यैव हि स्यात्' इति। `हि' शब्दो यस्मादर्थे। यस्मास्यादित्याह-- `गेहम्' इत्यादि। आधारानुवृत्तौ तु यत्र न भवति तद्दर्शनयितुमाह-- `ओदनं पचति' इत्यादि। आदिशब्देनौदनं भङ्क्तं इत्येवमादेर्ग्रहणम्। अथ नदी कूलं कर्षतीत्यादौ कथं कर्मसंज्ञा ? कथञ्च न स्यात् ? नद्यादेरचेतनत्वात्, अचेतनानामीप्साया असम्भवात्, नैतदस्ति; अत्र नदीति पदान्तरसम्बन्दादीप्साया अभावोऽचेतनस्यापि भावः प्रतीयते। न च पदसंस्कारे पदानतरसम्बन्धगम्योऽर्थ उपयुज्यते, तेन कूलं कर्षतीत्यादाविच्छामात्रमाश्रिता व्याप्तिः, कर्म च संस्क्रियते। यद्यपि पश्चान्नद्या सह सम्बन्धादचेतनत्वमिच्छाया अभावश्च प्रतीयते, तथापि च तद्बहिरङ्गत्वादन्तरङ्गसंज्ञाकार्य न शक्नोति निवर्तयितुम्। अनेनैव न्यायेन यत्र व्याप्तिर्नास्ति,इच्छामात्रं च केवलम्, तत्रापि कर्मसंज्ञा भवति, यथा- ग्रामं गनतुमिच्छामि न च मे गमनशक्तिरस्तीति।
तच्च कर्म त्रिविधम्-- निर्वर्त्यम्, विकार्यम्, प्राप्यञ्च। तत्र निर्वर्त्त्यं यदसकदेवोत्पाद्यते, यस्य जन्म क्रियते, तन्निर्वर्त्त्यम् , यथा-- कटं करोति, कटो ह्यसन्नेव क्रियते। विकार्यं यल्लब्धसत्ताकमवस्थान्तरमापाद्यते केवलं भस्माख्यामवस्थामापाद्यन्ते। प्राप्यं यत्र व्याप्तिव्यितरेकेण क्रियाकृता विशेषा न विभाव्यन्ते, यथा-- आदित्यं पश्यतीति। न हि दृशिक्रियया व्याप्यमानस्य सवितुः क्रियाकृतविशेष उपलभ्यत इति प्राप्यमेतत् कर्म।।

50.तथायुक्तं चानीप्सितम्।(1.4.50)
  चकारोऽवधारणे। अत एव वृत्तावाह-- `तेनैव' इति। `अनीप्सितम्' इति। यद्यप्ययं प्रसज्यप्रतिषेधः स्यात्, तदा ग्रामं गच्छन् वृक्षमूलान्युपसर्पतीत्यादौ वृक्षमूलादीनां कर्मसंज्ञा न स्यात्। तथा हि-- प्रसज्यप्रतिषेधे सत्यनेन योगेनानीप्सितस्यैव कर्मसंज्ञा विधीयते; वृक्षमूलानि च न तावदीप्तितानि, पूर्वमनभिसन्धाय प्रवृत्तेः; नाप्यनीप्सितानि, अप्रतिकूलत्वात्; ततश्चानीप्सितस्य कर्मसंज्ञा विधीयमाना तेषमीप्सितादन्यत्वेनानीप्सितान्न स्यात्। पर्युदासे तु सत्यनेन योनेनेप्सितादन्यस्य कर्मसंज्ञा विधीयते। भवन्ति च यथोक्तप्रकरणानि वृक्षमूलानीप्सितादन्यानि; अतस्तेषामपि कर्मसंज्ञा सिध्यतीत्येतदालोच्य पर्युदासोऽयमिति दर्शयितुमाह-- `ईप्सितादन्यत्' इत्यादि। किं पुनस्तदित्याह-- `द्वेष्यम्' इत्यादि। द्वेष्यम् = प्रतिकूलम्, यथा-- विषचौरादि। इतरदप्रतिकूलम्, यथा -- उक्तप्रकाराणि वृक्षमूलानि। `भक्षयति' इति। `भक्ष अदने' (धा.पा. 1557) चौरादिकः।।

51.अकथितञ्च। (1.4.51)
`{मुद्रित `काशिकावृत्तौ' तु `अपादानादिविशेषकथाभिः' इत्येवास्ति।}अपादानाधिभिर्विशेषकथाभिः' इति। कारकसामान्यकथाया व्यवच्छेदार्तमेतत्। यदि हि केनाप्यकथितस्य कर्मसंज्ञा स्यात्, तदा माणवकस्य पितरं पन्थानं पृच्छतीत्यत्राकारकस्यापि माणवकस्य कर्मसंज्ञा स्यात्। `परिगणनम्' इति। अनयधातुव्यवच्छेदार्थमेतत्। तेन `दुह प्रपूहरणे' (धा.पा.1014) इत्येवमादीनामेव धातूनां प्रयोगेऽकथितस्य कर्मसंज्ञा विधीयते, नान्येषाम्। `उपयुज्यत इत्युपयोगः' इति। कर्मसाधनो घञन्तः।
`उपयज्यते' इति। इष्टार्थसिद्धौ व्यापार्यत इत्यर्थ-। `पयःप्रभृति' इति। प्रभृतिशब्दन भिक्षादीनां ग्रहणम्। `तस्य निमित्तं गवादि' इति. आत्राप्यादिशब्देन पौरवादेर्ग्रहणम्। `तस्योपर्युज्यमानपयः प्रभृतनिमित्तस्य' इति। उपयुज्यमानञ्च तत् पयः प्रभृति चेति विशेषणसमासं कृत्वना उपयुज्यमानपयः प्रभृतेर्निमित्तमिति षष्ठीसमासः। `गवादेः' इति। आदिशब्देन पौरवादेर्ग्रहणम्। ननु च पाण्यादिकमप्युपयोगनिमित्तमिति, तेन विनोपयोगस्य पयसोऽसम्भवात्। आदिशब्देन कांस्यपात्रादेर्ग्रहणम्। `विहिता हि तत्र करणादि संज्ञा' इति। आदिशब्देनाधिकरणसंज्ञाया ग्रहणम्। `तदर्थम्' इति। करणादेः कर्मसंज्ञानिवृत्त्यर्थमित्यर्थः। अर्थशब्दस्य निवृत्तिवचन्तवात्. `अपूर्वविधौ' इति। पूर्वग्रहणमत्रान्यविधेरुपलक्षणार्थम्। एतदुक्तं भवति-- यस्यान्यो विधिर्नोक्तस्य कर्मसंज्ञेति। तेन यत्रापि वक्ष्यमाणे हेतुकर्त्तृसंज्ञे इति तत्राप्येषा संज्ञा न
भवतीति दोग्धाप्युपयोगस्य निमित्तं तस्य कर्मसंज्ञा न भवति। सूत्रेऽपि `अकथितम्' इति कथमनिवृत्तपरायां चोदनायां भूतकालो न विवक्ष्यते; उपलक्षणत्वात्। तेन योऽपि कथयिष्यमाणो हेतुकर्त्तृसंज्ञाभ्याम्, तस्यापि कर्मसंज्ञा न भवतीत्युक्तं भवति।
ब्रुविशासिगुणेन' इति। कः पुनर्गुण इत्याह-- `साधनम्' इति। साधनं हि क्रियया उपकारकम् । यच्चोपकारकं तदुपकार्यम् प्रधानमपेक्ष्य गुणो भवति। कतरत् पुनः साधनमित्याह-- `प्रधानं कर्म' इति। किं पुनस्तदित्याह-- `धर्मादिकम्' इति। आदिशब्देन पत्त्यादेर्ग्रहणम्। प्रधानत्वन्तु धर्मादेस्तदर्थत्वाच्छिष्यादिप्रवृत्तेः। `सम्बध्यते' इति सचत इत्यस्यार्थकथनम्। तथा हि-- `षच समवाये' (धा.पा.997) इति पठ्यते, समवायश्च सम्बन्ध एव। सचते = तेन गुणेन सम्बन्धमुपैति। यच्च तेन सम्बन्धमुषैति तत्तेन सम्बध्यते। `उक्तम्' इति आचरितमित्यस्य विवरणम्। सूत्राकारेणेत्येतदपि `कविना' इत्यस्य।
`गां दोग्धि पयः' इति। `दुह प्रपूरणे' (धा.पा.1014) आदादिकः। `दादेर्धातोर्घः' (8.2.32), `झषस्तथोर्धोऽधः' (8.2.40), `झलां जश् झशि' (8.4.53) इति जश्त्वम्। ननु चात्र विहिताऽपादान संज्ञा, अस्ति ह्यत्रापायः-- गोः दुहेः क्षरणार्थत्वात्, क्षरति गौओः क्षीरम्, तद्‌गोर्दोग्धा क्षारयति, एवञ्च तत् क्षार्यमाणं ततोऽपक्रामतीति स्पष्ट एवापायः, ततो नेदमुदाहरणमुपपद्यते ? नैतदेवम्; सत्यपि ह्यपाये नात्र गोरवधित्वं विवक्षितम्, किं तर्हि ? क्षीरं प्रति निमित्तभावमात्रम्। यद्येवम्, गोः कारकत्वं न स्यात्, यथा -- वृक्षस्य पर्णं पततीत्यत्र वृक्षस्य न; क्षरणक्रियां प्रति निमित्तभावेनाविवक्षितत्वात्, नैतत्; अवधित्वं ह्यत्र गोर्न विवक्षितम्। क्षरणं प्रति निमित्तभावस्तु विवक्षित एव. वृक्षस्य पर्णं पततीत्यत्र तु पतनं प्रति वृक्षस्य निमित्तभावमात्रमपि न विवक्षितम्, न केवलमवधिभाव इत्यसमानम्। `पौरवं गां याचते' इति। ननु चात्र कथितापादानादिसंज्ञा , अस्ति ह्यसौ। पौरवाद्गामादत्त इति अस्त्येववापायः ? नैतदस्ति; न हि याचनादेवापायो भवति , किं तर्हि ? अवरोधनक्रियां प्रति निमित्तबावमात्रम्। अस्याञ्चावस्थायां वा विवक्ष्यते; न चैतदिह विवक्षितम्, हेतुना गामवस्थापयतीत्ययमत्रार्थो वेदितव्यः, न तु क्वावस्थापयतीत्येतदिह चिन्त्यत एव। `माणवकं पन्थानं पृच्छति' इति। `प्रच्छ ज्ञीप्सायाम्' (धा.पा. 1413), तुदादिः, ग्रहिज्यादिसूत्रेण (6.1.16) सम्प्रसारणम्। ननु च कथितात्रापादानसंज्ञा, अस्ति ह्यत्रापायः-- सहि तस्मादुपदेशमादित्सते, नैतदस्ति; न हि प्रश्नमात्रेणापायो भवति, किं तर्हि ? पृष्टः सन् यद्यसावाचष्टे तदापायेन युज्यते। सत्यप्यपाये नात्र माणवकोऽवधिभावेन विवक्षितः, किं तर्हि ? प्रश्नक्रियां प्रति निमित्तभावमात्रेण।
`पौरवं गां भिक्षते' इति। `भिक्ष याच्ञायाम्' (धा.पा.606) अनुदात्तेत्। अत किमर्थ याचिभिक्ष्योर्द्वयोरुपादानम्, यावताऽनयोरर्थभेदो नास्ति ? न चेयं संज्ञा श्बदाश्रया, किं तर्हि ? अथश्रिया। तथा हि- याचिना समानार्थस्यान्यस्यापि ग्रहणं भवति-- देवदत्तं शतं प्रार्थयते, देवदत्तं शतं मृगयत इति। तस्मात् सत्यपि शब्देभेदे न युक्तं तयोः पृथग्ग्रहणम्। एवं तर्हि याचिरत्रानुनये वर्त्तते-- तन क्रुद्धं याचते, अविनीतं याचत इति, तदर्थं पृथग्ग्रहणं स्यात्।
`वृक्षमवचिनोति फलानि' इति। ननु चात्र विहिताऽपादानसंज्ञा तथा हि-- वृक्षात् फलान्यादत इत्यपायोऽत्रार्थः,नैतदस्ति; न ह्यत्र वृक्षोऽवधित्वन विवक्षितः। किन्तर्हि ? फलावचयनस्य हेतुभावमात्रेण। वृक्षेण हेतुना फलावचयनं करोत्यर्थः। तस्य वृक्षस्य हेतुभावः किमवधिभूतस्य ? अधिकरणभूतस्य वा ? इत्येवमादिका चिन्ता न कृता।
एवं `माणवकं धर्मं ब्रूते, माणवकं धर्ममनुशास्ति' इति। `ब्रूञ् व्यक्तायां वाचि' (धा.पा.1044), `शासु अनुशिष्टौ' (धा.पा.1075) अदादी। ननु च कथितात्र सम्प्रदानसंज्ञा, अस्ति ह्यत्र सम्प्रदानत्वम्, सम्प्रदेयेन धर्मेणाभिप्रेयमाणत्वात्, नैतदस्ति; ददातिकर्मणाभिप्रेयमाणस्य सम्प्रदानसंज्ञा विहिता, न चात्र धर्मो ददातिकर्म; ब्रुविशास्योरदानार्थत्वात्। अथापि दानार्थता स्यात् ? एवमपि माणवेकन निमित्तेन धर्मं ददातीत्ययमर्थः स्यात्। माणवकस्य सम्प्रदानत्वनाविवक्षितत्वात्; धर्मदाननिमित्तत्वेन विवक्षितत्वात्।
ब्रुविशासिगुणेन चेति चकारोऽनुक्तसमुच्चयार्थः। तेन नयतिप्रभृतीनां प्रयोगेऽप्यकथितस्य कर्मसंज्ञेष्यते।तथा चोक्तम्--
नीवह्योहरतेश्चैव गत्यर्थानां तथैव च।
द्विकर्मकेषु ग्रहणं द्रष्टव्यमिति निश्चयः।। इति।
अत्रापि श्लोके चकारो जयतिप्रभृतीनां प्रयोगेऽकथितस्य समुच्चयार्थः।
 किमुदाहरणम् ? अजां नयति ग्रामं देवदत्तः। अजां वहति ग्रामं देवदत्तः। अजां हरति ग्रामं देवदत्तः। शतं जयति देवदत्तं यज्ञदत्तः। शतं गर्गान् दण्‍डयतीति। ननु चोभयेषामपि `कर्त्तुरीप्सिततमं कर्म' (1.4.49) इत्यनेनैव कर्मसंज्ञा सिद्धा। यदि तर्ह्यजादीनामीप्सिततमत्वं विवक्ष्यते, न ग्रामादीनाम्, तदा कथं कर्मसंज्ञा ? तथापि `तथायुक्तम्' (1.4.50) इत्यनेन सिद्धा। यदा तर्हि ग्रामादीनामीप्सितत्वं प्रकर्षरहितं विवक्ष्यते, तदा न सिद्ध्यति। अकर्मकाणाञ्च धातूनां कालभावाध्नगन्तव्यदेशानां कर्मसंज्ञेष्यते। तथा चोक्तम्--
कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्।
दशाश्चाकर्मकाणाञ्च कर्मसंज्ञा भवन्ति च।।
इति वक्तव्यम् (म.भा.1.336) इति।
तस्मात् तदर्थोऽनुक्तसमुच्चयार्थश्चकारः कृतः कालः -- मासमास्ते मासं स्वपितीति। भावः-- गोदोहमास्ते, गोदोहं कस्वपितीति। अध्वा गन्तव्यः-- क्रोशमास्ते,
क्रोशं स्वपितीति। अध्वा चासौ गन्तव्यश्चेति विशेषमसमासः। `कडाराः कर्मधारय' (2.2.38) इति विशेष्यस्य पूर्वनिपातः। देशः कुरूनास्ते, कुरून् स्वपितीति। सर्वं एते कालादयोऽकथिताः; पूर्वविधेः कस्यचिद्‌प्रवृत्तत्वात्।।

52.गतिबुद्धिकप्रत्यवसानाथशब्दकर्माकर्मकाणामणि कर्त्ता स णौ।(1.4.52)
`यापयति' इति। `अर्तिह्री' (7.3.36) इत्यादिना पुक्।
`वक्तव्यः' इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- उत्तरसूत्रे (1.4.53) अन्यतरस्यांग्रहणमुभयोर्योगयोः शेषभूतो विज्ञायते, सा च व्यवस्थितविभाषा; तेन नीवह्योर्न भविष्यति।
`वहेः' इत्यादि। नियच्छति = विशिष्टे विषयेऽवस्थापयतीति नियन्ता सारथिः, अविद्यमानो नियन्ता कर्त्ता यस्य स तथोक्तः, तस्य। `नीवह्योः प्रतिषेधो वक्तव्यः' (वा.62) इति योऽनन्तरोक्तः स वहेरनियन्तृकर्त्तृकस्य भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- तस्यैवान्यतरस्यांग्रहणस्य व्यवस्थितविभाषा त्वान्नियन्तृकर्त्तृकस्य वहेः कर्मसंज्ञा भविष्यतीति।
`आदिखाद्योः' इत्यादि। अत्रापि वक्तव्यशब्दस्य पूर्ववदेवार्थः। व्याख्यानमपि पूर्ववदेव कर्त्तव्यम्। `भक्ष्यति पिण्डी देवदत्तः' इति। चुरादिणिच्। `भक्षयति' पिण्डीं देवदत्तेन' इति। हेतुमण्णिच्। `भक्षयति बलीवर्द्दान् शस्यम्' इति। भक्षिरत्र हिंसार्थः। `सर्वे सचेतना भावाः' इत्यस्मिन् दर्शे हिंसितं शस्यमिति शस्यस्य भक्षणेन देवदत्तो हिंसितो भवति। यस्य हि तच्छस्यं तस्य हिंसा गम्यते।
`शब्दकर्मणाम्' इति। शब्दग्रहणेनेह पारिभाषिकं कर्म गृह्य.ते, न तु क्रिया। क्रिया ग्रहणे हि कर्म ग्रहणमनर्थकं स्यात्। कारकाधिकारादेव कारकस्य क्रियापेक्षत्वाच्छब्दात्मिकायां क्रियायां वर्त्तमाना धातवो ग्रहीष्यन्त इति, तत् किं कर्मग्रहणेन ? यदि तर्हि पारिभाषिकं कर्म गृह्यते, जल्पति देवदत्तो जल्पयति देवदत्तम्, विलपति देवदत्तं कार्षापणमित्यत्र न प्राप्नोति, शब्दादन्यस्य पारिभाषिकस्य कर्मणो विवक्षितत्वात्, नैष दोषः; बुद्ध्यर्थत्वात् भविष्यति। अत्र हि जल्पतिप्रभृतयस्तावच्छब्दसाधने बोधने वर्त्तन्ते। जल्पति देवदत्त इति। वचनेन बोधयतीत्यर्थः। एवमन्यत्रापि। पश्यति कार्षापणमित्यत्र दृशिश्चक्षुः साधने ज्ञाने वर्त्तते। चक्षुषा जानीत इत्यर्थः। तस्माद्बुद्धर्थत्वात् सिद्धम्। `अध्यापयति' इति। `क्रीङजीनां णौ' (6.1..48) इत्यात्त्वम्। `अर्तिह्री' (7.3.36) इत्यादिना पुक्। किमर्थं पुनरिदं सूत्रम्, यावता ण्यन्ते धातौ प्रयोजनकव्यापारेण प्रेषणाध्येषणाख्येन व्याप्तुमिष्टतमत्वात् प्रयोज्यस्य `कर्त्तुरीप्सिततमं कर्म' (1.4.49) इत्यनेनैव कर्मसंज्ञा सिद्धा ? सत्यम्, नियमार्थं वचनम्-- प्रयोजकव्यापारेण व्याप्यमानस्य यदा कर्मसंज्ञा तदा गत्यर्थादीनामेव,नान्येषामिति।।

53. हृक्रोरन्तयतरस्याम्।(1.4.53)
गत्यर्थादयो निवृत्ताः। तेनोभयत्र विभाषेयम्। यदा हरतिर्गतौ वर्त्तते, अभ्यवहारे वा, करोतिश्चाकर्मणो भवति तदा प्राप्ते। यदा तु हरतिः स्तेयादौ वर्त्तते, करोतिश्च सकर्मको भवति तवाऽप्राप्ते। `उपसंख्यानम्' इति। प्रतिपादनमित्यर्थः। एतच्च प्रकृतत्वात् तत्रेदं प्रतिपादनम्-- `अकथितञ्च' (1.4.51) इत्यतश्चकारोऽनुवर्त्तते, स चानुक्तसमुच्चयार्थः। तेनाभिवादिदृशोरप्यात्मनेपदे कर्मसंज्ञा भविष्यतीति। `अभिवादयते' इति. `णितश्च'(1.3.क74) इत्यात्मनेपदम्। `दर्शयते' इति। अत्रापि `णेरणौ' (1.3.67) इत्यादिना।

54.स्वतन्त्रः कर्ता। (1.4.54)
अस्त्ययं स्वतन्तरशब्दो बहुव्रीहिः। स्वं तन्त्रं यस्य स स्वतन्त्रः। अस्ति च समासप्रतिरूपको रूढिशब्दः, प्रधानार्थवृत्तिः, यथा-- स्वतन्त्रोऽयमिह देवदत्त इति, प्रधानभूत इति गम्यते। तत्र यदि पूर्वो गृह्येत तदा तन्तुवायस्यैव स्यात्; विस्तृता हि तन्तवस्तन्त्रम्, तच्च तन्तुवायस्यैवास्ति। देवदत्तः पचतीत्यादौ न स्यात्। इतरस्य तु ग्रहणे सर्वत्र भवति। तस्मात् व्याप्तेर्न्यायात् स एव गृह्यत इति मत्वाह-- `स्वतन्त्र इति प्रधानभूतः' इति। यद्येवमप्रधानमपेक्ष्य प्रधानमुच्यत इति यत्राधिकरणादीन्यपराण्यप्रधानानि कारकाणि सन्ति, देवदत्तः काष्ठैरग्निनोदनं स्थाल्यां पचतीत्यादौ तत्रैव स्यात्। यत्र तु तेषामविवक्षा-- आस्ते देवदत्तः, शेते देवदत्त इत्यादौ, तत्र न स्यादिति यो देशयेत् तं प्रत्याह-- `अगुणभूतः' इति। एवं मन्यते-- प्रधानेनागुणभाव उपलक्ष्यते। गुणभावो यत्र नास्ति स कर्त्तेति। कारकान्तराविवक्षायामप्यगुणभावोऽस्त्येवेति सर्वत्र भवति। ननु च सामग्र्यधीना हि क्रियासिद्धिः, एकस्याप्यभावे न सिध्यति, तत् कस्यात्र प्राधान्यं यत्परिग्रहाय स्वतन्त्रग्रहणं क्रियते ? इत्याह -- `यः क्रियासिद्धौ' इत्यादि। यद्यपि क्रियासिद्धौ सर्वेषां व्यापारः, तथापि स्वातन्त्र्यं यस्य विवक्ष्यते स एव स्वतन्त्र इत्युत्यते, नान्य इति। देवदत्तः पचतीत्यत्र देवदत्तः कर्त्तृसंज्ञकत्वात् कर्त्तृप्रत्ययेनोच्यते लकारेण।।

55. तत्प्रयोजको हेतुश्च।((1.4.55)
`तस्य प्रयोजकस्तत्प्रयोजकः' इति. ननु च `कर्त्तरि च' (2.2.16) इत्यनेन षष्ठीसमासप्रतिषेधे नात्र भवितव्यमित्याह-- `निपातनात्समासः' इति। `प्रयोजकः' इति प्रेरकः = उपदेशकः, व्यापारक इत्यर्थः। न चान्येन प्रयुज्यमानस्य स्वव्यापारे स्वातन्त्रयं हीयते; अन्यथा ह्यकुर्वत्यपि कारयीति स्यात्। प्रयोजकत्वं द्विविधम्-- मुख्यम्, इतरच्व। देवदत्तः कटं कारयीत्यत्र देवदत्तस्य मुख्यम्। भिक्षा वासयतीत्यत्र भिक्षाणां वासहेतुत्वात् प्रयोजनत्वमुपचरितम्, न मुख्यम्. न हि भिक्षा यूयं वसथेत्येवं प्रयुञ्जते। इह च कारकाधिकारे तमब्ग्रहणव्यतिरेकेणातिशयो न विवक्षित इति `साधकतमं करण म्' (1.4.42) इत्यत्र तमब्ग्रहणेन ज्ञापितमेतत्। तेन यस्यापि प्रयोजगत्वमुपचरितम्, न मुख्यम्, तस्यापि हेतुसंज्ञा भवत्येव।
`संज्ञासमावेशार्थश्चकारः' इति। असति तस्मिन्नेकसंज्ञाधिकारादत्र कर्तृसंज्ञा न स्यात्। अतः संज्ञासमावेशार्थश्चकारः क्रियते। `हेतुत्वात्' इत्यादिना संज्ञाद्वयस्य प्रयोजनं दर्शयति। प्रयोजकव्यापारे हि `हेतुमति च' (3.1.26) इति णिच् विधीयते। तस्य हेतुत्वं प्रयोजकस्य हेतुत्वे सत्युपपद्यते। हेतुत्वात्प्रयोजको णिचो निमित्तं भवति। कर्तृप्रत्येन न लकारेणाभिधानं कर्त्तृसंज्ञायां सत्यां भवतीति कर्त्तृत्वत् कर्त्तृप्रत्ययेन लकारेणोच्यत इति।।

56. प्राग्रीश्वरान्निपाताः। (1.4.56)
च,वा,ह, अह इत्यत्र निपातसंज्ञायां सत्याम् `स्वरादिनिपातमव्ययम्' (1.1.37) इत्यव्ययसंज्ञा भवति। `निपाता आद्युदात्ता भवन्ति' (फि.सू.4.80) इत्याद्युदात्तत्वञ्च। अथ किमर्थं प्राग्ग्रहणम् ? यावता पञ्चम्युच्चारणसामर्थ्यादेव प्रागित्यस्य दिक्छब्दस्याध्याहारो भविष्यति। न च `पराम्' इत्ययमपि दिक्छब्दोऽस्ति। अतो नाध्याहार आशङ्कनीयः। तदध्याहारे हि `चादयोऽसत्त्वे' (1.4.57) इत्येवमादयो योगा निपातसंज्ञासम्बन्धाभावादसम्बद्धाः स्युः। तस्मात् प्रागित्येतदेवाध्याहरिष्यते। तत् किं प्रागवचनेन ? इत्याह-- `प्राग्वचनम्' इत्यादि। एका संज्ञेत्यनुवर्त्तते। निपातसंज्ञा चादिषु प्रादिषु वा क्रियायोगे चरितार्था। तत्रासति प्राग्वचने निपातसंज्ञाया उपसर्गादिसंज्ञाभिरनवकाशाभिर्बाध्यमानत्वात् ताभि) सह तस्याः समावेशो न स्यात्। इष्यते चात्र, तदर्थं प्राग्वचनम्, तस्मिन् सत्येवं सम्बन्धः क्रियते-- रीश्वरात यावन्तः प्राग्व्यवस्थितास्ते सर्वे निपातसंज्ञका भवन्ति, निपाताश्च सन्त उपसर्गादिसंज्ञका इति। तेन निमित्तमेव निपातसंज्ञोपसर्गसंज्ञानां भवति। न च निमित्तिना निमित्तं व्याहन्यते, अन्यथा हि तस्य निमितत्वमेव न स्यात्। अध्याहृते तु प्राक्शब्दे रीश्वराद्ये प्राग्व्यवस्थितास्ते सर्वे निपातसंज्ञका भवन्तीत्येषोऽर्थोऽभिमतः स्यात्, न तु निपाताः सन्त उपसर्गादिसंज्ञका इत्येषोऽप्यर्थो लभ्यते। सूत्रोपात्तो तु प्राक्‌शब्द एषोऽर्थो लभ्यत एव; अन्यथा तस्य वैयर्थ्यं स्यात्।
अथ किमर्थं रेफादिक ईश्वरशब्दो गृह्यते-- प्राग्रीश्वरादिति, न च प्राग्रीश्वरादित्येवोच्येत, प्रत्यासत्तेरनन्तर एव हीश्वरशब्दो ग्रहीष्यत इत्यत आह-- `रीश्वराद्वीश्वरात्मा भूत' इति। रेफसहित ईश्वरो रीश्वरः। शाकपार्थिवादित्वान्मयूरव्यंसकादित्वाद्वा समासः। रीश्वरादित्युच्यमाने वीश्वरान्मा भूत्, `अधिरीश्वरे' (1.4.97) इत्यस्यैवेश्वरशब्दस्य ग्रहणं यथा स्यात्। `ईश्वरे तोतुन्कसुनौ' (3.4.13) इत्यत्र यो वीश्वरशब्दस्तस्य ग्रहणं मा भूत्। यस्य ग्रहणे बहूनां संज्ञा भवत्यतो व्याप्तेर्न्यायादस्यैव ग्रहणं स्यात। ननु च वकारस्तत्र नास्त्येव, तत् किमुच्यते वीश्वरान्मा भूदिति ? एवं मन्यते-- यदा सूत्राणि संहितया पठ्यन्ते-- `शकि णमुल्कमुलावीश्वरेतोसुन्कसुनौ' (3.4.12,13) इति तदा लौशब्दस्य ग्रहणे न प्रयोजकम्। यद्यपि परस्येश्वरशब्दस्य ग्रहणे तन्निबन्धना व्याप्तिरस्ति, तथाप्यनन्तरस्यैवेश्वरशब्दस्य ग्रहणं भविष्यति, न परस्य; कथम् ? ज्ञापकात्; यदयं `कन्मेजन्तः' (1.1.39) इति कृतो मान्तस्यैजन्तस्याव्ययसंज्ञा शास्ति तज्ज्ञापयति-- अनन्तरस्येश्वरशब्दस्य ग्रहणं नेतरस्येति; अन्यथा हि णमुलादीनां निपातत्वादेवाव्यव्यसंज्ञा सिद्धेति `कृन्मेजन्तः' (1.1.39) इति वचनमर्थकं स्यात्, नैतदस्ति ज्ञापकम्; यस्मात् `ईश्वरे तोसुन्कसुनौ' (3.4.13) इत्यस्मात् परोऽपि कृदेजन्तो मान्तश्चास्ति। `कृत्यार्थे तवैकेन्केन्यत्वनः' (3.4.14) `आभीक्ष्ण्ये णमुल च' (3.4.22) इत्येवमादिः। तत्कथं `कृन्मेजन्तः' (1.1.39) इत्येत ज्ञापकं स्यात् ? एवं तर्हि यदयमव्ययीभावस्य `अव्ययीभावश्च' (1.1.41) इत्यव्ययसंज्ञां शास्ति, तज्ज्ञापयति-- अनन्तरो य ईश्वरशब्दस्तस्य ग्रहणमिति। अन्यथा हि `अव्ययीभावश्च' (1.1.41) इत्येदपार्थकं स्यात्; निपातत्वादेवाव्ययीभावस्याव्ययसंज्ञायाः सिद्धत्वात्।
अस्यापि ज्ञापकतामपाकर्त्तुमहा-- `समासेष्वव्ययीभावः' इति। सर्वेषां समासानां निपातत्वादव्ययसंज्ञायां प्राप्तायां `अव्ययीभावश्च' (1.1.39) इत्येतद्वचनं नियमार्थं स्यात्-- समासेषु तत्पुरुषादिषु मध्येऽव्ययीभाव एवाव्ययसंज्ञो भवति, नान्य इति। एवं तर्हि लौकिकन्यायादनन्तरस्यैवेश्वरशब्दस्य ग्रहणं भविष्यति। लोके हि `ओदकान्तं प्रियं प्रोथमनुव्रजेत्' इति य एवानन्तर उदकान्तस्तमेव गत्वा तत एव बान्धवा निवर्त्तन्ते, न व्यवहितात्। तस्मादिहाप्यनेनैव न्यायेनानन्तरादेवश्वरशब्दान्निपातसंज्ञा निवर्तिष्यत इत्यत आह-- `लौकिकं चातिवर्त्ततते' इति। लौकिकमपि न्यायं लोकोऽतिक्रम्य वर्त्तते, यस्मात् द्वितीयमप्यदकान्तं स्नेहात् कथाप्रसङ्गद्वा गत्वा निवर्त्तन्ते बान्धवाः। तदेवं रेफाधिक ईश्वरशब्द उच्चार्यते। तेन वीश्वरान्मा भूदिति स्थितमेतत्।।

57. चादयोऽसत्त्वे।(1.4.57)
`असत्त्वे' इति। पर्युदासोऽयं वा स्यात्, प्रसज्यप्रतिषेधो वा ? तत्र यद्ययं पर्युदासः स्यात्, तदा सत्त्वादन्यत्र वर्त्तमानाश्चादयो निपातसंज्ञका भवन्तीत्ेयषः सूत्रार्थः स्यात्। ततश्च पशुशब्दस्य चादिपरिपठितस्य जातिव्यवच्छिन्ने द्रव्ये वर्त्तमानस्य निपातसंज्ञा स्यात्। यो हि जातिविशिष्टे द्रव्ये वर्त्तते, स जातिद्रव्यसमुदायात्मकमर्थमाह। यश्चैवंविधोऽर्थः स द्रव्यात् केवलादन्यो भवति। निपातसंज्ञायां सत्यां पशुरिति सविभक्तिकस्य श्रवणं न स्यात्। प्रसज्यप्रतिषेधे त्वेष दोषो न भवति। तत्र हि यत्र द्रव्यगन्धोऽप्यस्ति तत्र सर्वत्र प्रतिषेधेन भवितव्यम्। अस्ति चेह द्रव्यगन्धः। पशुत्वजात्याश्रितस्य द्रव्यस्यापि पशुशब्देनाभिधानात्। तस्मात् प्रसज्यप्रतिषेध एवायं युक्त इत्यालोच्याह-- `प्रसज्यप्रतिषेधोऽयम्' इति। क्व तर्हि वर्त्तमानः पशुशब्दोऽसत्त्ववचनो भवति ? यत्र वृत्तौ निपातसंज्ञां लभते दृश्यर्थे-- यथा, लोधं नयन्ति पशु मन्यमाना इति। अत्र दृश्यर्थेन पशुशब्देन मननं विविष्यते। दर्शनमेतन्मननम्, सम्यग्ज्ञानमित्यर्थः। सत्त्वशब्दोऽयमिह सत्तायां वर्त्तत इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्त्तुमाह-- `सत्त्वमिति च द्रव्यमुच्यते' इति। चशब्दोऽवधारणे। द्रव्यमेव न सत्तेत्यर्थः। यदि ह्यत्र सत्तवशब्देन सत्तोच्यते, प्रतिषेधोऽनर्थकः स्यात् ? न हि चादिषु मध्ये शब्दः सत्तावाची कश्चिदस्ति। तस्मादद्रव्यमेवोच्यते। इदं तर्हि सर्वनामप्रत्यवमर्शयोग्यो योऽर्थस्तद्‌द्रव्यमिति। तथा चोक्तम्--
वस्तूपलक्षमं यत्र सर्वनाम प्रयुज्यते।
द्रव्यमित्यच्यते सोऽर्थो भेद्यत्वेन विवक्षितः।। इति।
भेद्यत्वेन विशेष्यत्वेनेत्यर्थः। अत एवावसीदति यत्र गुणो विशेषणभावेनेति सत्त्त्वं तद्‌द्रव्यमुच्यते।
`चण्' इति पठ्यते। तस्य णकारो विशेषार्थः `निपातैर्यद्यदिहन्तकुविन्नेकच्चेण्कच्चिद्यत्रयुक्तम्' (8.1.30) इति, स तु चेच्छब्दस्यार्थे वर्त्तते।
यत्र' इति पठ्यते। तस्य `तद्धितश्चासर्वविभक्तिः' (1.1.38) इत्यव्ययसंज्ञा सिद्धैव। `निपातैर्यद्यदिहन्तः' (8.1.30) इति विशेणणार्थ निपात संबोध्यते। असति निपातत्वे `त्रैङ पालने' (धा.पा.965) यं त्रायत इति यत्र इत्यस्य `आतोऽनुपसर्गे कः' (3.2.3) इति कप्रत्ययस्य ग्रहणं स्यात्।
`नञ्‍' इति पठ्यते; नञो ञकारः `नलोपोः नञः' (6.3.73) इति विशेषणार्थः। `नलोपो नञ्' इत्युच्यमाने पामनपुत्र इत्यत्रापि स्यात्, यदि तत्र `अलुगुत्तरपदे' (6.3.1) इत्युत्तरपदग्रहण पूर्पपदं नशब्देन विशेष्यते-- नान्तस्य पूर्वपदस्येति। अथ तु पूर्वपदेन विशेष्यते-- (see in other text)page no.206)
 उत्तरसंज्ञीत्तरसूत्रे कृता संज्ञोपसर्गसंज्ञा। तस्या विशेषणं व्यवच्छेदः प्रादिभ्योऽन्यस्माद्वयावर्तनमुत्तरसंज्ञा मा भूत्' इति। एकयोगे हि सति यथा प्रादीनामुपसर्गसंज्ञा भवति तथा चादीनामपि स्यात्। अतः प्रादीनामेवोपसर्गसंज्ञा यथा स्याच्चादीनां मा भूदित्येवमर्थं पृथग्योगः क्रियते। `पराः सेनाः' इति। सेनायाः द्रव्यत्वात् तत्र वर्त्तमानस्य पराशब्दस्येह ग्रहणं न भवति। परा उत्कृष्टाः परदेशस्थिता वा। यत्र त्वेकवचनं पठ्यते-- परा सेनेति, तत्र रूपोदाहरणं वेदितव्यम्। द्विवचनबहुवचनयोस्तु निपातत्वादव्ययसंज्ञायां सत्यां विभक्तेर्लुक्स्यात्।।

59.उपसर्गाः क्रियायोगे। (1.4.59)
`प्रणयति' इति। प्रशब्दस्योपसर्गत्वात् `उपसर्गादसमासेऽपि णोपदेशस्य' (8.4.14) इति णत्वम्।
`प्रनायको देशः' इति। अत्रनयनक्रियया प्रशब्दस्य योगो नास्तीत्युपसर्गसंज्ञा न भवति. ननु चात्रापि गमिक्रियया योगोऽस्त्येवेति स्यादेव तस्योपसर्गसंज्ञा, नेतदस्ति; क्रियायोगग्रहणं ह्येवमनर्थकं स्यात्। कथम् ? प्रादीनां क्रियायोगाव्यभिचारात्; तस्मात् क्रियायोगग्रहणसामर्थ्याद्यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्ुयपसर्गसंज्ञका भवन्ति, नान्यं प्रति। न चेह नयनक्रियया युक्तः प्रशब्दः, किं तर्हि ? गमिक्रिययेति नयतिं प्रत्युपसर्गसंज्ञको न भवति।
`मरुच्छब्दस्योपसंख्यानम्' इति। तत्वविधाविति। शेषः; अन्यथा हि `निपाता आद्युदात्ताः' (फि.सू.4.80) `उपसर्गाश्चाभिवर्जम्' (फि.सू.4.81) इत्याद्युदात्तत्वमपि स्यात्। अन्तोदात्तश्चेष्यते मरुच्छब्दः। उपसंख्यानशब्दस्य प्रतिपादनमर्थः; मरुच्छब्दस्योपसर्गसंज्ञायाः प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्-- `उपसर्गाः' इति योगविभागः क्रियते। अत्र च `प्रादयः' इति नाभिसम्बध्यते। तेन मरुच्छब्दस्य तत्वविधावुपसर्गसंज्ञा भवतीति। अत एव योगविभागात् श्रच्छब्दस्याङविधावन्तः शब्दस्याङ्गिविधिणत्वेषूपसर्गसंज्ञा भवतीति वेदितव्यम्। योगविभागस्येदं लिङ्गम् `प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः' (5.2.101), `तिरोऽन्तर्धौ' (1.4.71) इति च निर्देशः। ततः `क्रियायोगे' इति द्वितीयो योगः। अत्र च `प्रादयः' इति सम्बध्यते। किमर्थमिदम् ? पूर्वेणैव सिद्धमिति पूर्वयोगस्यासर्वविषयत्वाज्ञापनार्थम्, तेन नातिप्रसङगः। प्रादीनामक्रियायोग उपसर्गसंज्ञा मा भूदित्येवमर्थञ्च। `मरुत्तः' इति। `अच उपसर्गात्तः' (7.4.47) इति क्तप्रत्यये कृते द्वितकारनिर्देशाद्दवातेः सर्वादेशः। ननु चसत्यामुपसर्गसंज्ञयां करुच्छब्दस्यानजन्तत्वात् तत्वेन न भवितव्यमित्यत आह-- `संज्ञाविधान सामर्थ्यात्' इत्यादि। यथा ह्युपसरज इत्यत्र डित्करणसामर्थ्यादभस्यापि टिलोपो भवति, तथेहाप्यनजन्तादपि तत्वं भविष्यति; अन्यथा हीदं वचनमपार्थकं स्यात्। मरुच्छब्दस्योपसर्गसंज्ञाया अन्यकार्याभावादिति भावः।
`श्रच्छब्दस्योपसंख्यानम्' इति। अत्राप्युपसंख्यानशब्दस्य स एवार्थः। प्रतिपादनमपि तदेव। ननु च भिदादिपाठादेव हि श्रद्धेति सिद्धम्;तत्कथं तत्सिद्धये श्रच्छब्दस्योपसर्गसंज्ञा क्रियते ? एवं मन्यते- अनार्षस्तत्र पाठ इति।।

60. गतिश्च। (1.4.60)
`प्रकृत्य' इति। गतिसंज्ञायां सत्यां `कुगतिप्रादयः' (2.2.18) इति समासः। `समासेऽनञ्पूर्वे क्त्वो ल्यप्' (7.1.37) इति ल्यप्। `प्रकृतम्' इति। `क्ते च' (6.2.45) इत्यनुवर्तमाने `गतिरनन्तरः' (6.2.49) इति प्रकृतिस्वरेणाद्यदात्तः प्रशब्दः। `यत्प्रकरोति' इति। प्रशब्दादनन्तरस्य `तिङङतिङः' (8.1.28) इति निघाते प्राप्ते `निपातैर्यद्यदि' (8.1.30) इत्यादिना प्रतिषेधे तिपः पित्त्वादनुवदात्तत्वम्। `सतिशिष्टस्वरस्य बलीयस्त्वमन्यत्र विकरणस्वरेभ्यः' (वा; 9;6.1.158) इति विकरणस्वरस्य प्रत्ययाद्युदात्तत्वं न भवति। करोतेरेव तु भवति-- `धातोः' (6.1.162) इति। शेषमनुदात्तं भवति। प्रशब्दस्य `उपसर्गाश्चाभिवर्जम्' (फि.सू.4.81) इत्याद्युदात्तत्वे प्राप्ते `गतिर्गतौ' (8.1.70) इति निघातेऽनुवर्तमाने `तिङि चोदात्तवति' (8.1.71) इति करोतिशब्दे तिङन्त उदात्तवति परतोऽनुदात्तत्वं भवति। तत्र हि `पूजनात् पूजितमनुदात्तं काष्ठादिभ्यः' (8.1.67) इत्यतोऽनुदात्तमिति वर्तते। एतच्च प्रयोजनत्रयमुत्तरत्र गतिसंज्ञाया वेदितव्यम्।
अथ किमर्थो योगविभागः, न गतिग्रहणं पूर्वयोगग एव क्रियते ? इत्यत आह- `योगविभाग उत्तरार्थः' इति। `उत्तरत्र ' इत्यादिना योगविभागस्योत्तरार्थतां दर्शयति। यद्युत्तरत्राप्युपसर्गसंज्ञा स्यात्, तदा किं स्यादित्यत आह-- `ऊरीस्यादित्यत्र ' इत्यादि।
`चकारः संज्ञासमावेशार्थः' इति। असति चकार एकसंज्ञाधिकारादेकत्र संज्ञाद्वयस्य विधानात् पर्यायः स्यात्, न समावेशः। `प्रणीतम्' इत्यादिना संज्ञासमावेशस्य फलं दर्शयति। `गतिरनन्तर इति स्वरः' इति। उदाहरणद्वयेऽपि `उपसर्गादिति णत्वषत्वे भवतः' इति। `प्रणीतम्' इति। `उपसर्गादसमासेऽपि णोपदेशस्य' (8.4.44) इति णत्वम्। `अभिषिक्तम्' इति। `उपसर्गात्सुनोति' (8.3.65) इत्यादिना षत्वम्।
`कारिका' इत्यादि। धात्वर्थनिर्देश एतदुपसंख्यानं कर्त्तव्यम्। योऽन्यः कर्त्तरि कारिकाशब्दो ण्वुलन्तः, तस्य कारिकां कृत्वेत्येवं भवति। `उपाख्यान' शब्दस्य प्रतिपादनमर्थः. तत्रेदं प्रतिपादनम्-- उत्तरसूत्रे चकार्सयानुक्तसमुच्चयार्थत्वात् कारिकाशब्दस्य गतिसंज्ञा भवतीति।
`पुनश्चनसौ' इत्यादि। पुनश्चनः शब्दौ छन्दसि विषये गतिसंज्ञकौ च भवत इत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तूत्तरसूत्रे चकारस्यानुक्तसमुच्चयार्थतामाश्रित्य कर्त्तव्यम्। `पुनरुस्त्यूतम्' इति। `षिवु तन्तुसन्ताने' (धा.पा.1108), निष्ठा, उदित्वात् `इदितो वा' (7.2.56) इति विभाषेट्त्वात् `यस्य विभाषा' (7.2.15) इतीट्‌प्रतिषेधः; `च्छवोः शूडनुनासिके च' (6.4.19) इति वकारस्योठ्, यणादेशः। `चनोहितम्' इति। `दधातेर्हिः' (7.4.42) इति नहिरादेशः, `गतिरनन्तरः' (6.2.49) इति प्रकृतिस्वरे णाद्युदात्तत्वम्। चनः शब्दो हि `निपाता आद्युदात्ता भवन्ति' (फि.सू.4.80) इत्याद्युदात्तः।।

61.ऊर्यादिच्विडाचश्च। (1.4.61)
`च्व्यन्ता डाजन्ताश्च' इति। ननु च पदसंज्ञायामन्तग्रहणेन ज्ञापितम्--`अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति' (पु.प.वृ.81) इति; अतश्च्विडाचोरेव गतिसंज्ञया भवितव्यम्, तत् किमुच्यते-- च्व्यन्ता डाजन्ताश्चेति ? एवं मन्यते-- `क्रियायोगे' (1.4.59) इति वर्त्तते, न च प्रत्ययमात्रस्य क्रियायोगः सम्भवति। तस्मात् क्रियायोगानुवृत्तिसमार्थ्यात् तदन्तस्यैव संज्ञा विज्ञायत इति भवत्येव तदन्तस्य संज्ञा। सा तु विशेषानुपादानाद्धातुमात्रेण योगे प्राप्नोतीत्यत आह-- `च्विडाचोः' इत्यादि। अभूततद्भावे कृभ्वस्तियोगे (5.4.50) च्विर्विहितः। `अव्यक्तानुकरणात्' (5.4.57) इत्यादावपि सूत्रे कृभ्वस्तियोगस्यानुवृत्तेर्डाजिपि तत्रैव विहितः। तेन च्विडाचोस्तावद्धात्वन्तरेण योगासम्भवात् कृभ्वस्तियोगे गतिसंज्ञाविधानम्। अतस्तत्साहचर्यादूर्यादीनामपि तैरेव योगे विधीयते। ऊर्यादिभ्यश्च्व्यर्थस्याप्रतीतेर्न प्रतिपादयितुमाह-- `उरी, उररी' इत्यादि। श्रौषञडादीनां स्वधापर्यन्तानां चादिषु पाठादक्रियायोगेऽपि निपातसंज्ञा भवति। आविस्‌शब्दः साक्षात्प्रभृतिषु पठ्यते। तेन तस्य `विभाषा कृञि' (1.4.72) इति करोतियोगे विभाषा गतिसंज्ञा। `शुक्लीकृत्य' इति। `अस्य च्वौ' (7.4.32) इतीत्त्वम्। `पटपटाकृत्य' इति। `वा क्यषः' (1.3.90) इत्यत्र पटपटाशब्दो व्युत्पादितः।।

62. अनुकरणं चानितिपरम्‌। (1.4.62)
`अनितिपरम्' इति। अत्रेतिपरशब्द इते पर इति पञ्चमीति योगविभागात् तत्पुरुषो वा स्यात् ? इतिः परो यस्मादिति बहुव्रीहिर्वा ? तत्र यद्याद्यः पक्ष आश्रीयेत, तदेतिखाट्‌कृत्येत्यत्र प्रतिषेधः स्यात्; इह तु न स्यात्-- खडिति कृत्वा आगत इत, अनिष्टञ्चैतत्; द्वितीये तु पक्ष एष दोषो न भवति, अतस्तमेवाश्रित्याह-- `इतिः परो यस्मात्' इति। `निरष्ठीवत्' इति। `ष्ठिवु निरसने' (धा.पा.560) `सुब्धातुष्ठिवुष्वष्कतीनां प्रतिषेधो वक्तव्यः' (वा.671) इति प्रतिषेधात् `धात्वादेः षः सः' (6.1.64) इति सत्वं न भवति। `ष्ठिवुक्लमुचमां शिति' (7.3.75) इति दीर्घत्वम्।।

63. आदरानादरयोः सदसती। (1.4.63)
`{प्रीत्यतिशयः = आदरः-- काशिका}प्रीतिसम्भ्रम आदरः' इति। प्रीत्या सम्भ्रमः प्रीतिसम्भ्रमः, प्रीतिपूर्विका प्रत्युत्थानासनादिदानक्रियेत्यर्थः। `परिभवौदासीन्यम्' इति। परिभवः = अवज्ञा। तिरस्कारः = औदासीन्यम्। कर्त्तव्यम् = प्रत्युत्थानासनादिदानं प्रत्युपेक्षा। परिभवेणौदासीन्यं परिभवौदासीन्यमिति, `तृतीया' इति योगविभागात् समासः। अथ वा-- परिभवश्चौदासीन्यञ्च परिभवौदासीन्यम्। अथ किमर्थमनादरग्रहणमसद्ग्रहणञ्च क्रियते ? नादरे सदित्येवोच्यते ? अथ कथमिदानीमनादेऽसच्छब्दस्याव्ययसंज्ञा स्यात् ? कथञ्च समासादि कार्यम् ? तदन्तविधिनासच्छब्दस्यापि निपातसंज्ञायां गतिसंज्ञायाञ्च सत्यां सच्छब्दस्य निपातस्याव्ययसंज्ञा विधीयमानाऽव्ययसंज्ञायां तदन्तविधेरुपसंख्यानादसच्छब्दस्याप्यव्ययसंज्ञा भविष्यति। `कुगतिप्रादयः' (2.2.18) इत्यत्र च सुबन्तस्य प्रकृतत्वाद्गत्यन्तस्य सुबन्तस्य समासो विधीयमानोऽसच्छब्दस्यापि भविष्यति। `गतिरन्तरः' (6.2.49) इत्यत्रापि पूर्वपदमित्यनुवर्त्तते। `गतिर्गतौ' (8.1.70) इत्यत्रापि पदस्येति। तेन गत्यन्तस्य पूर्वपदस्य प्रकृतिस्वरो विधीयमानस्तता यथोक्तं कार्यम्, अनादरावगतिस्तु कथं स्यात् ? असत्यनादरग्रहणे न सदसदिति नञाऽऽदरप्तिषेधात्। आदरश्चेत् प्रतिषिद्धः किमन्यदनादरात् स्यात् ? नैतद्युक्तमुच्यते; नञ्समासो हि तत्पुरुषः सदृशमेव कार्यं प्रतिपादयति, यथा-- अब्राह्मणमानयेति। तत्रेह यद्यनादरग्रहणं न क्रियेत तदा सत्सदृशं यत् तदसद् यत्रादरप्रसङ्गस्तत्रैव स्यात्-- गुरुमसत्कृत्य गतः। यत्र त्वप्रसक्त एवादरस्तत्र न स्यात्-- भृत्यमसत्कृत्य गतः। अनादरग्रहणे तु सति बहुव्रीहिर्विज्ञायते-- अविद्यमान आदरो यस्मिन्नित्यनादर इतो। बहुव्रीहिश्चात्यन्ताभावे प्रसक्त्यबावे च भवतीति सर्वत्र संज्ञा सिध्यति। तस्मादनादरग्रहणं कर्त्तव्यम्। तस्मिंश्च क्रियमाणे सत्यसदृग्रहणमपि कर्त्तव्यमेव। अन्यथा हि किमनादरग्रहणेन विशिष्येत-- य्सयानादरे वर्त्तमानस्य गतिसंज्ञा विधीयते ! न हि सच्छब्दस्यानादरे वृत्तिः सम्भवति। यद्यपि तस्य न सम्भवति तदन्तस्यासच्छब्दस्य सम्भवतीति चेत्, सत्यम्; सम्भवति, न तु तस्य गतिसंज्ञा लभ्यते, तदन्तविधेरभावात्। प्रकृते न हि तदन्तविधिर्भवति, न चेह किञ्चित् प्रकृतमस्ति ; तस्मादसच्छब्दार्थमनादरग्रहणम्। यदि तु यथा `गोष्पदं सेवितासेवितप्रमाणेषु' इत्यत्रासेविते गोष्पदशब्दो न सम्भवतीत्यगोष्पदशब्दार्थमसेवितग्रहणं विज्ञायते, तथेहापि सच्छब्दोऽनादरे न सम्भवतीत्यस्छब्दार्थमनादरग्रहणं विज्ञायेत; तदा शक्यमसच्छब्दस्य ग्रहणमकर्त्तुम्। असद्ग्रहणन्तु क्रियते तदा विस्पष्टार्थम्। सत्कृत्वाऽसत्कृत्येति। शोभनाशोभनार्थाविह सदसच्छब्दौ। विद्यमानाविद्यमानार्थौ वा।।
64.भूषणेऽलम्।(1.4.64)
`अलं कृत्वा' इति। पर्याप्ताविहालंशब्दो वर्त्तते।

 65.अन्तरपरिग्रहे।(1.4.65)
अन्तःशब्दोऽयं मध्येऽधिकरणभूते वर्तते; परिग्रहे च। तत्र परिग्रहप्रतिषेधादिरत्र संज्ञा विधीयते।यस्त्वस्य स्वरादिषु पाठः, स परिग्रहेऽप्यव्ययसंज्ञार्थः। `अन्तर्हस्य' इति। मध्ये हत्वेत्यर्थः। `वा ल्यपि' (6.4.38), इत्यनुनासिकलोपः। वक्तव्य इति व्याख्येय इत्यर्थः। व्याख्यानं तु पूर्वमेव कृतम्। `अन्तर्धा' इति। आतश्चोपसर्ग' (3.3.106) इत्यङ। `अन्तर्द्धिः' इति। `उपसर्गे घोः किः' (3.3.92) इति किप्रत्ययः। `अन्तर्णयति' इति। `उपसर्गादसमासेऽपि' (8.4.14) इति णत्वम्।।

66. कणेमनसी श्रद्धाप्रतीघाते।(1.4.66)
कणेशब्दः सप्तम्यन्तप्रतिरूपको निपातः। न चेहाभिलाषातिशये वर्त्तमानो गृह्यते। तस्य हि श्रद्धाप्रतीघात इत्युपाधिः सम्भवति। मनःशब्दोऽपि तत्साहचर्यादभिलाषवृत्तिरेव विज्ञायते।
`कणे' हत्वा, मनो हत्वा' इति। अत्र कणेशब्दः सूक्ष्मे तण्‍डुलावयवे वर्त्ततेऽधिकरणभूते, मनश्शब्दश्चेतसि।।

67. पुरोऽव्ययम्।(1.4.67)
`पुरस्कृत्य' इति। पूर्वस्माद्देशागत इत्यस्मिन्नर्थे `पूर्वाधरावराणामसि पुरधवश्चैषाम्' (5.3.39) इत्यसिप्रत्ययः पूर्वशब्दस्य च पुरादेशः। `तद्धितश्चासर्वविभक्तिः' (1.1.38) इत्यव्ययसंज्ञा विसर्जनीयस्थानिकस्य सकारस्योपचार इत्येषा संज्ञा पूर्वाचार्यप्रणीता। `नमस्पुरसोर्गत्योः' (8.3.40) इति सकारः।
`पूः पुरौ, पुरः कृत्वा गतः' इति। पुरः कृत्वेतीदं प्रत्युदाहरण्। पूः परावित्येतयोस्तूपन्यसस्तत्साहचर्येण पुरःशब्दस्यानव्ययत्वप्रदर्शनार्थः। `पॄ पालनपूरणयोः' (धा.पा.1489), `भ्राजभ्रास' (3.2.177) इत्यादिना। क्विप्। `उदोष्ठ्यपूर्वस्य' (7.1.102) इत्युक्तम्, रपरत्वञ्च। गतिसंज्ञाया अभावादिह समासादि कार्यं न भवति। `नमस्पुरसोर्गत्योः' (8.3.40) इति विसर्जनीयस्य सकारोऽपि न भवति। ननु च यद्यत्र गतिसंज्ञा स्यात् गतिसमासे कृते सुपो निवृत्त्या भवितव्यम्, तदा पुर इति रूपं न स्यात्; असति तस्मिन् संज्ञाऽपि निवर्त्तते, नैतदस्ति; यद्यपि विभक्तौ निवृत्तायां पुर इति रूपं न स्यात्, नैवं संज्ञा निवर्त्तते; एकदेशविकृतस्यानन्यत्वात् (व्या.प.16)।।

68. अस्तं च।(1.4.68)
`अस्तंशब्दो मकारान्तोऽव्ययम्' इति। अव्ययमित्यत एव विशेषणोपादानससामर्थ्याददव्ययत्वं विज्ञेयम्। चादेशकृतिगणत्वाद्वा। `अस्तं कृत्वा काण्डं गतः' इति। `असु क्षेपणे' (धा.पा.1209), निष्ठा, पूर्ववदिट्प्रतिषेधः। चकारः `अव्ययम्' (1.4.क67) इत्यस्यानुकर्षणार्थः। यद्येवम्,चानुकृष्टत्वादुत्तरत्र तस्यानुवृत्तिर्न स्यात् ? उत्तरत्रापि चकारस्तदनुकर्षणार्थोऽनुवर्तिष्यत इत्यदोषः।।

69. अच्छ गत्यर्थवदेषु।(1.4.69)
 `अच्छशब्दोऽव्ययमभिशब्दस्यार्थे'इति। अभिराभिमुख्ये। `अच्छोद्य' इति। यजादित्वाद्वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम्। अच्छमित्यकलुषमित्यर्थः।।

70. अदोऽनुपदेशे।(1.4.70)
उपदेशः = परस्यार्थकथनम्। तच्च परस्य प्रत्यायनार्थ भवतीत्याह-- `उपदेशः परार्थः' इति। `अदः कृत्वा' इति। एतत्कृत्वेत्यर्थः।।

71. तिरोऽन्तर्द्धौ।(1.4.71)
`तिरो भूत्वा स्थितः' इति। अनृजुर्भूत्वा, पार्श्वतो भूत्वेत्यर्थः।।

72. विभाषा कृञि।(1.4.72)
`तिरस्कृत्य'इति। `तरिसोऽनयतरस्याम्' (8.3.42) इति विसर्जनीयस्य सत्त्वम्।

73. उपाजेऽन्वाजे। (1.4.72)

74.साक्षात्प्रभृतीनि च।(1.4.74)
`साक्षात्प्रभृतिषु च्व्यर्थवचनम्' इति। च्व्यर्थ उच्यते कथ्यते येन तच्व्यर्थवचम् - च्व्यर्थव्याख्यानम्। एतेनैतदुक्तं भवति-- साक्षात्प्रभृतीनां च्व्यर्थो येन प्रतिपाद्यते अस्मिन् संज्ञाविधौ तच्व्यर्थवचनं कर्त्तव्यमित्यर्थः। किमर्थम् ? असाक्षाद्भूतं यदा साक्षात् क्रियते तदा गतिसंज्ञा यथा स्यात्। यदा त्वसाक्षाद्भावो न क्रियते, किन्तु साक्षाद्भूत्सय प्रत्यक्षभावमुपगतस्यैव सतो योऽन्यो विशेषः कश्चित् क्रियते, तदा मा भूदिति। एवं मिथ्याप्रभृतीनाम्। अमिथ्याभूतानां मिथ्याभूतानां यदा क्रियते, तदा यथा स्यात्; अन्यथा मा भूत्। तदेवं व्याख्यानम्-- `ऊर्यादिच्विडाचश्च' (1.4.61) इत्यत्र च्विग्रहणम् `अच्छ गत्यर्थवदेषु' (1.4.69) इत्यतश्चार्थग्रहणमिह मण्डूकप्लुतिन्यायेनानुवर्त्तते। तेन च्व्यर्थे वर्त्तमानानां साक्षात्प्रभृतीनां गतिसंज्ञा विधीयत इति। व्यवस्थितविभाषाविज्ञानाद्वा च्व्यर्थ एव वर्त्तमानानां तेषां संज्ञा भविष्यतीति। च्व्यर्थता चोभयथा सम्भवति-- च्व्यन्तानाम्, अच्व्यन्तानाञ्च। तत्र यदा च्व्यन्तता भवति तदा `ऊर्यादिच्विडाचश्च' (1.4.61) इति नित्यं संज्ञा भवति, अन्यथा त्वनेन गतिसंज्ञा विभाषा भवति; व्यवस्थितविभाषया चास्य सूत्रस्य च्व्यर्थष्वेव प्रवृत्तेः। मकारान्तत्वनिपातनम्। अग्नौ, वशेप्रभृतयो विभक्तिप्रतिरूपकनिपाता द्रष्टव्यः। प्रादुराविः शब्दावूर्यादिषु उरसिमनसिशब्दौ विभक्तिप्रतिरूपकौ निपातौ। `उरसिकृत्य'इति। अभ्युपगम्येत्यर्थः। `मनसिकृत्य' इति। निश्चित्येत्यर्थः।।

76. मध्ये पदे निवचने च।(1.4.76)
`मध्ये पदे' इति। सप्तम्यन्तप्रतिरूपकौ। `निवचने' इति। अर्थाभावेऽव्ययीभावः; नितॄणं निवुसमिति यथा। `निवचनेकृत्य' इति। उच्चारणसामर्थ्यात् सप्तम्याः समासेऽप्यलुग् भवति। एवमुत्तरत्र।।

77.नित्यं हस्ते पाणावुपयमने। (1.4.77)
`हस्तेकृत्य, पाणौकृत्य' इति। सप्तम्याः पूर्ववदलुक्। `दारकर्म' इति। भार्याकरणम्।।

78. प्राध्वं बन्धने।(1.4.78)
`बन्धने' इति निमित्तसप्तमीयम्। प्राध्वंशब्दस्यानुकूल्यवृत्तित्वात् `बन्धने' इत्यस्य विशेषणं नोपपद्यत इति सामर्थ्यात् तदर्थस्य विशेषणं विज्ञायत इत्यत आह-- `तदानुकूल्यम्' इत्यादि। बन्धनं हेतुर्यस्य तत्तथोक्तम्। `प्राध्वंकृत्य' इति। बन्धनेन निमित्तेनानुकूल्यं कृत्वेत्यर्थः। `प्राध्वं कृत्वा' इति। समर्थमध्वगमने शकटम्, अध्वाभिमुखं कृत्वेति गम्यते। `उपसर्गादध्वनः' (5.4.85) इत्यच् समासान्तः। `नस्तद्धिते' (6.4.144) इति टुलोपः। प्रगतमध्वानमिति प्रादिसमासः। लक्षमप्रतिपदोक्तपरिभाषयैवात्र (व्या.पा.3) प्राप्तौ सिद्धायां लाक्षणिकोऽपि प्राध्वंशब्दो यत्र बन्धनेनाभिसम्बध्यते, तत्रापि गतिसंज्ञा भवतीति ज्ञापनार्थं बन्धनग्रहणम्। तेन यदा बन्धनेनैव शकटस्याध्वनि सामर्थ्यादध्वाभिमुखता विवक्ष्यते, तदा प्राध्वंकृत्य शकटं गतमित्येतदपि सिद्धं भवति।।

79. जीविकोपनिषदावौपम्ये।(1.4.79)
`{औपम्ये विषये'-- काशिका.} औपम्यविषये' इति। उपमीयतेऽनयेत्युपमा। `आतश्चोपसर्गे' (3.3.106) इत्यङ। तस्या भाव औपम्यम्; ध्यञ्। तत्पुनः क्रियाकारकसम्बन्धः। `समासकृत्तद्धितेषु सम्बन्धाभिधानमन्यत्र रूढ्यभिन्नरूपाव्यभिचरितसम्बन्धेभ्यः'इति वचनात्। विषयग्रहणेनौपम्ये इति सप्तम्या विषयसप्तमीत्वं दर्शयति। सम्भवति च जीविकोपनिषदावुपमाभूते प्रत्यौपम्यविषयभावः, तेन विनोपमाया अभावात्। `जीविकाकृत्य' इत्यादि।जीविकामिव कृत्वा। उपनिषदमिव कृत्वेत्यर्थः। जीविका = जीवनोपायः। उपनिषत् = रहस्यं हेतुश्च। यत्तत्सदृशं तज्जीविकेन जीविका। उपनिषधिवोपनिषदिति जीविकोपनिषद्भ्यामुपमीयते।।

80. ते प्राग्धातोः।(1.4.80)
नियमार्थमेतत्। नियमः पुनः संज्ञाननियमो वा स्यात्-- ते प्रादयो यदा धातोः प्राक प्रयुज्यते तदैव गत्युपसर्गसंज्ञकाः भवन्तीति ? प्रयोगनियमो वा-- ते प्रादयो गत्युपसर्गसंज्ञकाः सन्तो धातोः प्राक् प्रज्ञोक्तव्या इति ? यत्र यदि पूर्वो नियम आश्रीयेत तदा संज्ञावाक्यानामयमेकदेशो विज्ञायेत-- ते प्रादयो धातोः प्राक् प्रयुज्यमाना गत्युपसर्गसंज्ञका भवन्तीति। तथा च गत्युपसर्गसंज्ञयोरनभिनिर्वृत्तत्वात् ते गत्युपसर्गसंज्ञा इति प्रत्यवमर्शो न युज्यते। निपातसंज्ञायाश्चाभिनिर्वृत्तत्वात् त इत्यनेन निपाता एव प्रत्यवमृश्येरन्; ततश्च निपातसंज्ञाया नियमः स्यात्। इतरत्र तु नियमेनायं योगो गत्युपसर्गसंज्ञावाक्यानामेकदेशभूतो भवतीति न भवत्येव दोषप्रसङ्गः। संज्ञानियमस्य चाप्राक्प्रयुज्यमानानां संज्ञानिवृत्तिः फलं स्यात्, तच्चायुक्तम्; न ह्यप्राक्प्रयुज्यमानानां सत्यामपि संज्ञायां किञ्चिदनिष्टमापद्यते। इतरस्य तु नियमस्याप्राक्प्रयोगाभावः फलम्, तच्च युक्तम्; न हि गत्युपसर्गसंज्ञकानामप्राक्प्रयोग इष्यते। तस्मात् प्रयोगनियम एव न्याय्य इति तमाश्रित्याह-- `ते गत्युपसर्गसंज्ञकाः' इति। `तथा च' इत्यादि। यादृशो नियमः कृतस्तदनुरूपं तत्सदृशमेवेत्यर्थः। ननु च नैव कश्चित् प्रपठतीति प्रयोक्तव्ये `पठति प्र' इति प्रयुङक्ते, ततोऽनिष्टादर्शनादपार्थकमेतत्, नैतदस्ति; यद्यपि भाषायां धातोः परेण प्रयुज्यमानास्ते गत्युपसर्गसंज्ञका न दृश्यन्ते, छन्दसि तु दृश्यन्ते। तत्र य एव मन्दबुद्धिः प्रतिपत्ता तेषां छन्दसि धातोः परे प्रयोगं दृष्ट्वा यथैव ते छन्दसि विषये धातोः परेण प्रयुज्यन्ते, तथा भाषायमपि प्रयोक्तव्या इति मन्यते, तं प्रति व्युत्पादनार्थत्वान्नास्ति वैयर्थ्यप्रसङ्गः।
अथ किमर्थं तेग्रहणम् ? यावता प्रकृतत्वादेव गत्युपसर्गसंज्ञकानां प्राक्प्रयोगेण सम्बन्धो विज्ञस्यत इत्याह-- `तेग्रहणम्' इत्यादि। असति तेग्रहणे गतिसंज्ञकानामनन्तरत्वात् त एव प्राक्प्रयोगेण सम्बध्येरन्। तेग्रहणे तूपसर्गसंज्ञा अपि निर्दिश्यन्त इति तषामपि सम्बन्ध उपपद्यते। तस्मादुपसर्गाणामपि प्राक्प्रयोगनियमो यथा स्यादित्येवमर्थ तेग्रहणम्। ननु चयं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्तीत्यन्तरेणापि धातुग्रहणं धातोरेव प्राक् प्रयोगो विज्ञास्यते, न हि धातोरन्यत्र क्रियाऽस्ति, तत्कथं धातोरित्युच्यते ? नैतदस्ति ; प्रकर्त्तृमिच्छति प्रचिकीर्षतीत्यत्रापि धातोश्च प्राक् प्रयोगो यथा स्यात्। अत्र सनः सम्बन्धिन्यषणक्रियया युक्तः प्रशब्द इति सनं गत्युपसर्गसंज्ञा यथा स्यात्। ततश्चासति धातुग्रहणे तत एव प्राक् प्रयुज्येत ।धातुग्रहणे तु चिकीर्षतेर्धातोः प्राक्प्रयुज्यते, न सनः।।

81. छन्दसि परेऽपि।(1.4.81)

82.व्यवहिताश्च। (1.4.82)
छन्दसि व्यवहितानां प्रयोगवचनात् भाषयां व्यवहितानां प्रयोगो न भवतीत्युक्तं भवति। यद्येवम्, गतिव्यवधानेऽपि प्राक्प्रयोगो न प्राप्नोति-- समाहरतीत्यादौ नैष दोषः; न हि तुल्यजातीयको व्यवधायको भवति। गत्युपसर्गजातेराश्रयणान्नास्ति व्यवधानम्। `आ मन्द्रैः' इत्यादि। अत्राङो मन्द्रैरित्यादिभिः पदैर्व्यधानेऽपि यातेर्धातोः प्राक्प्रयोगः। `आयाहि' इति। एतेनाङो याहीत्यनेन सम्बन्धं दर्शयति।।

83. कर्मप्रवचनीयाः। (1.4.83)
`कर्मप्रवचीयाः' इति वक्ष्यमाणानां संज्ञिनां बहुत्वाद्बहुवचनेन निर्देशः। महत्याः संज्ञायाः करणस्यैतत्प्रयोजनमन्वर्थसंज्ञा यथा विज्ञायेत-- कर्म प्रोक्तवन्तः कर्मप्रवचीया इति। भूते `कृत्यल्युटो बहुलम्' (3.3.113) इति कर्त्तर्यनीयर्। कर्मशब्दः क्रियावचनः। के च कर्म प्रोक्तवन्तः ? ये सम्प्रति क्रियां न त्वाहुः। तदेवमन्वर्थसंज्ञाकरणद्वारेण ये क्रियां द्योतितवन्तः, न तु प्रोक्तवन्तः ? येत सम्प्रति क्रियां न त्वाहुः। तदेवमन्वर्थसंज्ञाकरणद्वारेण ये क्रियां द्योतितवन्तः, न तु सम्प्रति द्योतयन्ति, ते कर्मप्रवचनीयसंज्ञा भवन्तीत्युक्तं भवति। यदि सम्प्रतति न क्रियां द्योतयन्ति, किन्तर्हि ? सम्बन्धविशेषम्। यथा शाकल्यस्य संहितामनुप्रावर्षखदित्यत्र हि निशमनक्रियया संहिताप्रवर्षणयोर्यः सम्बन्ध उपजनितो हेतुहेतुमद्भावलक्षणः, तमनुशब्दो द्योतयति। कर्मप्रवचनीयसंज्ञायां सत्याम् `कर्मप्रवचनीययुक्ते द्वितीया' (2.3.8) इति द्वितीया भवति।।

84. अनुर्लक्षणे। (1.4.84)
`लक्षणाशब्दोऽत्र चिह्ने वर्तते' इति मत्वा कश्चिच्चोदयति-- `किमर्थम्' इत्यादि। इतरस्तु `लक्षणेत्थम्भूताख्यानभागवीप्सासु' (1.4.90) इत्यादौ सूत्रे। तत्र चिह्ने ज्ञापके वर्त्तमानस्य लक्षणशब्दस्य ग्रहणम्, इह तु कारके हेतौ, अतस्तेन न सिध्यतीत्येनाभिप्रायेण तं प्रत्याह-- `हेत्वर्थन्तु वचनम्' इत्यादि। तुशब्दोऽवधारणे-- हेत्वमर्थमेवेति। हेतुशब्दोऽतर् कारकहेतुवचनः, न ज्ञापकहेतुवचनः; अन्यथा ह्यपरिहार एवायं स्यात्। हेतुरर्थो यस्य तत्तथोक्तम्। हेतौ वर्त्तमानस्यानोः कर्मप्रवचनीयसंज्ञा यथा स्यादित्येवमर्थमिदं वचनमित्यर्थः। किमर्थं पुनहतौ वर्त्तमानस्य तस्येयं संज्ञा विधीयत इत्याह-- `हेतौ तृतीयायाम्' इत्यादि। संहिता हि वर्षणस्य हेतुः, अनुहुद्‌द्यज्ञः सेकस्य, तथा हि-- संहितामनुनिशम्य श्रुत्वा प्रावर्षत्। अवुडुद्यज्ञञ्चानुनिशम्यासिञ्चत्। तत्र यदि हेतावनोरेषा संज्ञा नोच्येत शाकल्यस्य संहितामनु रप्रावर्रषदित्यादौ `हेतौ' (2.3.23) इति तृतीया स्यात्। तस्मात्तां बाधित्वा द्वितीयैव यथा स्यादित्येवमर्थ हेतावियं संज्ञाऽनोर्विधीयते।।

85. तृतीयार्थे।(1.4.85)
`नदीमन्ववसिता' इति। सहार्थोऽत्र तृतीयार्थः। `सहयुक्तेऽप्रधाने' (2.3.19) इति सहार्थयोगे तृतीयाविधानात्। `अन्ववसिता' इति। `षिञ् बन्धने' (धा.पा.1477) इत्यस्य निष्ठायां रूपम्।।

86. हीने।(1.4.86)
`अनुशाकटायनं वैयाकरणाः' इति। शाकटायनमपेक्ष्यान्ये वैयाकरणा हीना इति। अपेक्षयात्र जनितो यः सम्बन्धस्तेन व्यतिरिच्यते शाकटायन इति। ततः षष्ठ्यां प्राप्तायां तदपवादेन द्वितीया विधीयते। एकयैव विभक्त्योभयस्थोऽपि सम्बन्धो द्योतित इति। तेन सम्बन्ध्यन्तरवाचिनो वैयाकरणशब्दादपरः सम्बन्धिविभक्तिर्न भवति।।

87. उपोऽधिके च। (1.4.87)
अधिकध्यारूढमुच्यते। न चानधिकेन विनाधिकं सम्भवति। तेनाधिके सम्बन्धेऽध्यारूढक्रियाजनिते संज्ञेयं विज्ञायते। चकारद्धीने च। `उपखार्यां द्रोणः' इति। खार्या द्रोणोऽधिक इत्यर्थः। `यस्मादधिकम्' (2.3.9) इत्यादिना सप्तमी। तयैव सम्बन्धस्याभिहितत्वात् द्रोणशब्दात् `कर्मप्रवचनीययुक्ते द्वितीया' (2.3.8) इति द्वितीया न भवति।।

88. अपपरी वर्जने।(1.4.88)
`प्रकृतेन सम्बन्धिना' इति। वर्षादिना। `कस्यचित्' इति। त्रिगर्त्तादेः। `अप त्रिगर्तेभ्यः' इति। `पञ्चम्यपाङपरिभिः' (2.3.10) इति पञ्चमी। `परि परि त्रिगर्तेभ्यः' इति। `परेर्वर्जने' (8.1.5) इति द्विर्वचनम्।
`ओदनं परिषिञ्चिति' इति। सर्वतः सिञ्चतीत्यर्थः। `शे मुचादीनाम्' (7.1.59) इति नुम्। कर्मप्रवचनीयसंज्ञाया अभावादुपसर्गसंज्ञैव भवति। तेन `उपसर्गात्सुनोति' (8.3.65) इत्यादिना षत्वं भवति।।

89. आङ् मर्यादावचने।(1.4.89)
यत्राङो मर्यादायामभिविधौ च कार्यमिच्छति तत्रोभयोरपि ग्रहणं करोति, यथा-- `आङ मर्यादाभिविध्योः' (2.1.13) इत्यादि। इह तु मर्यादाग्रहमेव कृतम्, नाभिविधिग्रहणम्, अतोऽभिविधावनया संज्ञया न भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह-- `वचनग्रहणात्' इत्यादि। वचनग्रहणे हि सति बहुव्रीहिर्लभ्यते। `मर्यादा' इत्येतद्वचनं यत्र सूत्रे तन्मर्यादावचनम्। तत्रायमर्थो भवति-- यत्र मर्यादाग्रहणमस्त सूत्रे, तत्र य आङ स कर्मप्रवचनीयसंज्ञो भवति। तत्पुनः सूत्रम्-- `आह मर्यादाभिविध्योः' (2.1.13) इत्येतत्-- तत्र चाङ मर्यादाभिविध्योर्वर्त्तमान उपात्त इत्युभयत्रापि भवति।
कः पुनर्वर्जनस्य मर्यादाश्च विशेषः, येन पूर्वसूत्रे वर्जनमभिधायेह मर्यादाग्रहणं करोति ? अयमस्ति विशेषः-- वर्जने हि तत्परित्यागेनान्यत्र सामान्येन वर्षणादिना सम्बन्धो गम्यते, यथा-- आ त्रिगर्त्तेभ्यो वृष्टो देव इति, अत्र हि यस्यां दिशि व्यवस्थितो वक्तेदं वाक्यं प्रयुङ्क्ते तस्यां दिशि यो देशो यस्तथान्यासु दिक्षु तत्र सर्वत्रैव त्रिगर्तान्‌ वर्जयित्वा वृष्ट इति गम्यते। मर्यादायां त्विदं वाक्यं प्रयुङक्ते-- आ पाटलिपुत्राद्‌वृष्टो देव इति, तत्सम्बन्धिन्यामेव दिशि यो व्यवस्थितो देशस्तस्य देशस्य वर्षणेन सम्बन्धरः प्रतीयत इत्येष विशेषः।
`ईषदर्थे क्रियायोगे मा भूत्' इति। ईषदर्थ आकडार इति। क्रियायोगे समाहरतीति। पूर्वत्र संज्ञाया अभावात्पञ्चमी न भवति। इतरत्र `गतिर्गतौ' (8.1.70) इति निघातो भवति। यस्तु वाक्यस्मरणयोराकारो वर्त्तते, तस्याङित्त्वादिह ङकारोच्चारणादेव संज्ञाया अप्रसक्तिः।।

90. लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः।(1.4.90)
लक्षणं ज्ञापको हेतुश्चिह्नमिहाभिप्रेतम्। लक्ष्यते चिह्न्यते येन तल्लक्षणम्। कञ्चित्प्रकारमापन्नमित्थम्भूतम्, तस्याख्यानमित्थम्भूताख्यानम्। `भी प्राप्तौ' (धा.पा.1844) आत्मनेपदी। तस्मात् `आ धृषाद्वा' (धा.पा.1805 तः पश्चात्) इति विभाषितणिचो यदा चुरादिणिज् नास्ति, तदा क्तान्तस्य भूत इति रूपं भवति। स्वीक्रियमाणोंऽशो भागः। यस्त्वस्वीक्रियमाणेऽशे भागशब्दः प्रयुज्यते-- प्रियङ्गोर्भागो नगरस्य भाग इति, स स्वीक्रियमाणांशसादृश्यात्। पदार्थान् व्याप्तुमिच्छा वीप्सा। एते च लक्षणादयः प्रत्यादीनां न द्योत्याः। किं तर्हि ? विषयभूताः, अत एवाह-- `विषयभूतायम्' इति। एतच्च `अभिधेयवल्लिङ्गवचनानि भवन्ति' (व्या.प.73) इति लिङ्गविपरिणामं कृत्वा लक्षणादिभिः सम्बध्यते। एतच्च `अभिधेयवल्लिङ्गवचनानि भवन्ति' (व्या.प.73) इति लिङ्गविपरिणामं कृत्वा लक्षणादिभिः सम्बध्यते। यदि लक्षमादयः प्रत्यादीनां न द्योत्याः, तर्हि किं ते द्योतयन्ति ? सम्बन्धविशेषम्। `वृक्षं प्रति विद्योतते विद्युत्' इति। अत्र वृक्षो लक्षणम्, विद्योतमाना विद्युल्लक्ष्या; सा हि वृक्षं प्राप्य विद्योतत इति तयोः प्राप्तिक्रियाजनितोऽत्र लक्ष्यलक्षणभावः सम्बन्धः प्रतिशब्देन द्योत्यते। `साधुर्देवदत्तो मातरं प्रति' इति। प्रतिना देवदत्तस्य मातृविषया साधुभावापत्तिराख्यायते। अत्रापि मातरं प्राप्य साधुभावापत्तिरिति प्राप्तिक्रियाजनित एव मातुः साधुभावापत्तेश्च विषयविषयिभावलक्षणः सम्बन्धः प्रतिनाऽऽख्यायते। `यदत्र माम्'इत्यादि। यो भागो मामभिभजते स दीयतामित्यर्थः। अत्रापि विभजनक्रियाजनितः स्वीकारक्रियाजनितो वा स्वस्वामिभावः सम्बन्धः। `माम्' इति। अस्मच्छब्दस्य `त्वमावेकवचने' (7.2.97) इति मादेशः। `द्वितीयायाञ्च' (7.2.87) इत्त्यात्त्वम्। `वृक्षं वृक्षं प्रति सिञ्चति' इति। अत्र वीप्सा द्विर्वचनेनैव द्योत्यते। प्रतिशब्दस्य तु सेकक्रियाजनितो वृक्षायां यः सम्बन्धः साध्यसाधनभावलक्षणः स एव द्योत्यः। वृक्षादिनिमित्तं साधनम्, सेकः साध्यः। द्वितीया चेह सकर्मकत्वात् सिचेः सेकेन व्याप्तुमिष्टतमानां वृक्षाणां कर्मत्वे सति `कर्मणि द्वितीया' (2.3.2) इत्यनेनैव सिद्धा। कर्मप्रवचनीयसंज्ञयोपसर्जनसंज्ञया निवर्त्तितत्त्वात् `उपसर्गात् सुनोति' (8.3.65) इत्यादिना धत्वं न भवति।
`परिषिञ्चति' इति। सर्वतः सिञ्चतीत्यर्थः। अथेत्यादि चोद्यम्। वर्जनेत्यादि परीहारः। अपशब्दसाहचर्यादित्यतर्त्रैवोपपत्तिः। तत्र हि कर्मप्रवचनीयाधिकाराद्वर्जनार्थस्यापशब्दस्य ग्रहणं वर्जन एव। तस्य `अपपरी वर्जने' (1.4.88) इति कर्मप्रवचनीयसंज्ञा विहिता। तस्मात्तेन साहचर्याद्वर्जनार्थस्य परोर्ग्रहणम्। अतस्तेनापि योगे वर्जन एव विषय इयं पञ्चमी विधीयते, न लक्षणादिषु।।

91. अभिरभागे।(1.4.91)
`यदत्र मामाभिष्यात्' इति। `श्नसोरल्लोपः' (6.4.111) इत्यकारलोपः। कर्मप्रवचनीयसंज्ञाया अभावदुपसर्गत्वमस्त्येव। तेन `उपसर्गप्रादुर्भ्यामस्तिर्यच्परः' (8.3.87) इति षत्वम्। `माम्' इति। यद्यप्यस्तिरकर्मकस्तथाप्यकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्तीति कर्मणि द्वितीया (2.3.2) ननु चाभिशब्दो भागसम्बन्धस्य द्योतक इति तेनास्तेः सम्बन्धो नास्ति; तत्कथं सकर्मकता ? नैतदस्ति; अस्ति सम्बन्धद्वारेण ह्यभिशब्दो भागसम्बन्धं द्योतयति, अन्यथा हि यदि तस्यास्तिना योगो न स्यात् तदोपसर्गसंज्ञापि न स्यात्। ततश्चोपसर्गसंज्ञानिबन्धनमभिष्यादिति षत्वमपि न स्यात्।।

92. प्रतिः प्रतिनिधिप्रतिदानयोः।(1.4.92)
`अभिमन्युरर्जुनतः प्रति' इति। अर्जनो मुख्यः। तत्सदृशोऽभिमन्युः। सोऽर्जुमनुकरोतीत्यत्रानुकरणक्रियाजनितः सम्बन्धविशेषोऽनुकार्यानुकरणभावः प्रतिना द्योत्यते। `प्रतिनिधिप्रतिदाने च यस्मात्' (2.3.11) इति पञ्चमी। `प्रतियोगे पञ्चम्यास्तसिः' (5.4.44)। `माषानस्मै तिलेभ्यः' इति। तिलानां पूर्वदत्तानां माणाणां प्रतिदानमिह निर्यातनम्। तिलान् गृहीत्वा माषान् ददातीत्यर्थः। दानग्रहणक्रियाजनितोऽत्र सम्बन्ध उत्तमर्णाधमर्णभावलक्षणः।।

93. अधिपरी अनर्थकौ।(1.4.93)
`अनर्थान्तरवाचिनौ' इति। ेतेनानर्थान्तरवाचित्वादनर्थकादवित्युक्तम्, न त्वर्थाभावादिति दर्शयति। यदि ह्यविद्यमानार्थत्वादनर्थकौ स्याताम्, निरर्थकमिदं सूत्रं स्यात्। तथा हि-- कर्मप्रवचनीयसंज्ञा गत्युपसर्गसंज्ञाबाधनार्थाऽनेन विधीयते। न चानर्थकयोरधिपर्योर्गत्युपसर्गसंज्ञाप्राप्तिरस्ति। यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञा विधानात्। अनर्थकयोश्च क्रियायोगासम्भवात्। `कुतोऽध्यागसच्छति' इत्यादि। कुत इत्यापादाने प़ञ्चमी। कर्मप्रवचीयेति (2.3.8) द्वितीया न भवति; `उपपदविभक्तेः कारकविभक्तिर्बलीयसी'(चां.प.69) इति वचनात्। सूत्रारम्भस्य तु प्रयोजनमाख्यातमेव। कुत इति, किंशब्दात् `पञ्चम्यास्तसिल्' (5.3.7) इति तसिल्, `कु तिहोः' (7.2.104) इति कुभावः। कर्मप्रवचनीयसंज्ञया गत्युपसर्गसंज्ञोर्वाधितत्वात् `गतिर्गतौ' (8.1.70) इति निघातो न भवति। ननु चागच्छतीत्युक्त आगमनं विशिष्टं प्रतीयते, अध्यागच्छति, पर्यागच्छतीति-- अधिपरियोगे त्वागमनस्योपरिभावः सर्वतोभावश्चावगम्यत इत्यपरो विशेषः, तत्कथमनर्थान्तरवाचित्वमनयोः ? नैतदस्ति; यदा तयोरप्यर्थयोः प्रकरणादेः कुतश्चिदवगतयोरधिपरी प्रयुज्येते तदा तयोरनर्थान्तरवाचित्वं वेदितव्यम्। कथं पुनरवगतार्थयोः ? नैतदस्ति; यदा तयोरप्यर्थयोः प्रयोगः, `उक्तार्थानामप्रयोगः' (व्या.प.60) इति वचनात् ? सत्यम्, अवगतार्थस्यापि प्रयोगो दृश्यते, यथा-- `ब्राह्मणौ द्वौ' इति। लोकस्य प्रयोगे गुरुलाघवं प्रत्यनादरात्।।

94.सुः पुजायाम्।(1.4.94)
`सुसिक्तं भवता' इति। भवच्छब्दात् कर्त्तरि तृतीया। द्वितीया तु पूर्ववदेव न भवति। `धात्वर्थः स्तूयते' इति। शोभनोद्भावनं स्तुतिः, सैव तस्य पुजा। `उपसर्गाश्रयं षत्वं न भवति' इति। कर्मप्रवचनीयसंज्ञयोपसर्गसंज्ञाया बाधितत्वादिति भावः। `सुषिक्तं किं तवात्र' इति। क्षेपोऽयम्,न पूजा।।

95. अतिरतिरक्रमणे च।(1.4.95)
`अतिस्तुतमेव भवता' इति। निष्पन्नेऽपि फले स्तुतिः प्रवृत्तेर्थः। `शोभनं कृतमित्यर्थः' इति। पूजामाविष्करोति।।

96. अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु।(1.4.96)
`पदार्थे' इति। अन्यस्य पदस्यार्थो लक्ष्यते। न स्वार्थः, नापि स्वसम्बन्धिनः; पदस्यार्थः पदार्थः. स्वपदार्थग्रहणं, स्वसम्बन्धिपदार्थग्रहणं वा पदार्थग्रहणमनर्थकं स्यात्। अपिशब्दस्य हि योऽर्थः यश्चापिशब्दसम्बन्धिनः स्यादित्यादेः पदस्य , स पदार्थ एवेति किं पदार्थग्रहणेन ? तस्मात् पदार्थग्रहणसामर्थ्याद्विशिष्टपदस्यार्थो विज्ञायत इत्याह-- `पदान्तरस्य' इत्यादि। `सर्पिषोऽपि स्यात्' इति। कर्मप्रवचनीयसंज्ञयोपसर्गसंज्ञाया निवर्तितत्वात् `उपसर्गप्रादुर्भ्यामस्तिर्यच्परः' (8.3.क87) इति षत्वं न भवति। अथ सर्पिःशब्दाद्‌द्वितीया कथं न भवति ? अपिशब्देन तस्य योगासम्भवात्। सर्पिषो हि या मात्रा साऽपिशब्देन युक्ता, न सर्पिः। मात्राशब्दात् तर्हि कस्मान्न भवति ? तस्य प्रयोगाभावात्। यदा तु प्रयुज्यते, तदा कर्मप्रवचनीयसंज्ञैव नास्ति; अप्रयुज्यमानस्य पदान्तरस्यार्थे तद्विधानात्। `अधिकार्थवचनेन' इति। अधिकर्थो मूलकसहस्रसेकादिः, तस्य वचनेन सेकादावर्थे क्रियायां यच्छक्तेरप्रतिघातस्याविष्करणम् = प्रकाशनं तत्सम्भावनम्। `अपि सिञ्चेन्मूलकसहस्रम्। अपि स्तुयाद्राजानम्' इति। तस्य सेके स्तुतौ च सामर्थ्यं न विहन्यत इत्यर्थः। `सम्भावनेऽलमिति चेत् सिद्धाप्योगे' (3.3.154) इति लिङ। `कामचाराभ्यनुज्ञानम्' इति। कमचारः = इच्छया प्रवृत्तिः, तस्याभअयनुज्ञानं कामचाराभ्यनुज्ञानम्। `अपि सिञ्च, अपि स्तुहि' इति। सिञ्च वा स्तुहि वा यथेष्टमभ्यनुज्ञातोऽसीत्यर्थः। `धिग्जाल्मं देवदत्तम्' इति।

उभयसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु।
द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते।।(वा.118)
इत्युपसंख्यानाद्‌द्वितीया। `अपि सिञ्चेत्पलाण्डुम्' इति। `अर्हे कृत्यतृचश्च' (3.3.69) इति लिङ। पलाण्‍डुमिति कर्मणि द्वितीया (2.3.2)। `अपि सिञ्च, अपि स्तुहि ' इति। एकस्मिन् कर्त्तरि स्तुतिसेकक्रिययोश्चनीयमानता। अत्र समुच्चयः। सिञ्च च स्तुहि चेति प्रसिद्धसमुच्चयार्थस्य चशब्दस्य प्रयोगेण तमेव समुच्चयमुदाहरणे व्यक्तीकरोति।।

97.अधिरीश्वरे।(1.4.97)
`तदयं स्वस्वामिसम्बन्धे' इति। परिलपालनादिक्रियाजनितोऽत्र सम्बन्धः। `तत्र' इत्यादि। सर्वत्र हि सम्बन्धे किञ्चिदनूद्यते, किञ्चिदाख्यायते। यत्प्रसिद्धं तदनूद्यते, यदप्रसिद्धं तदाख्यायते = विधीयते; ज्ञाप्यते; यथा-- यः कुण्‍डली स देवदत्त इति। कुण्डलित्वानुवादेन देवदत्तनुवादेन देवदत्तत्वं विधीयते। यच्च विधीयते तत्प्रधानम्, इतरदप्रधानं विशेषमम्। तत्र यदा स्वमप्रसिद्धत्वाद्विधीयते तदा स्वामी प्रधानत्वाद्वयतिरेकमापद्यत इति तत इव कर्मप्रवचनीयसंज्ञायुक्तत्वाद्व्यतिरेकनिबन्धनविभक्तो षष्ठ्यां प्राप्तायां तदपवादः `यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी' (2.3.9) इति सप्तमी भवति। तयैव सम्बन्धस्य द्योतितत्वात् स्वात् प्रथमैव भवति, न सप्तमी। यदा तु स्वाम्यप्रसिद्धत्वात् विधीयते, तदा विपर्ययो वेदितव्यः।।

98. विभाषा कृञि। (1.4.98)
अधिरीश्वर इति वर्त्तते। तेन प्राप्ते विभाषेयम्। अधिपूर्वः करोतिर्विनियोगे वर्तते। विनियुक्तस्यैवश्वर्यं सम्पद्यते। `यदत्र मामधिकरिष्यति' इति। मामिति कर्मणि द्वितीया। अधिकरिष्यतीति; अत्र `निपातैर्यद्यदि' (8.1.30) इत्यादिना निघाते प्रतिषिद्धेऽस्य प्रकृतिस्वरेणाद्युदात्तत्वं भवति।।

99. लः परस्मैपदम्। (1.4.99)
ल इति प्रथमा वा स्यात् ? षष्ठी वा ? तत्र यदि प्रथमा स्याल्लकारस्यैव परस्मैपदसंज्ञा स्यात्, न तदादेशानां तिबादीनाम्। कामम्, तेषममपि स्थानिवद्भावेन स्यात्। `तङानावात्मनेपदम्' (1.4.100)इत्यत्र तु `लः' इत्यनेन तङानयोः सम्बन्धो नोपपद्येत, न हि तङानौ लौ भवतः। अत्र तङानभावो लकार एव तङानावित्येवमभिहितः। साहचर्याद्वा लादेशौ तङानावव `ल' इत्युक्ताविति व्याख्येयम्। तथा च व्याख्यानद्वारेणेष्टार्थप्रतिप्त्तौ साध्यायां प्रतिपत्तिगौरवं स्यात्। षष्ठीपक्षे त्वेष दोषो नास्ति, अतस्तमाश्रित्याह-- `लः' इति षष्ठी' इत्यादि। नन्वयमपि पक्षो दोषवानेव, लादेशस्य हि परस्मैपदसंज्ञा विधीयमाना तिङां न स्यात्, तेषां परत्वात् `तिङस्त्रीणि त्रीणि' (1.4.101) इत्यादिना प्रथमपुरुषादिसंज्ञया भवितव्यम्। परस्मैपदसंज्ञायास्तु शतृक्वस्वोश्चावकासः ? नैष दोषः; यदयं `सिचि वृद्धिः परस्मैपदेषु' (7.2.1.) इत्याह तज्ज्ञापयति-- भवति च तिङां परस्मेपदसंज्ञेति। स हि परस्मैपदे परे सिचि विधीयते, न हि सिज्विषये शतृक्वसू सम्भवतः। `तिप्तस्झि' इत्यादि रूपोदाहरणमात्रम्।।

100. तङानावत्मनेपदम्।
`कतीह निघ्नानाः' इति। निपूर्वोद्धन्तेः `ताच्छील्यवयोवचनशक्तिषु चानश्' (3.2.129) इति चानश्प्रत्ययः। `गमहन' (6.4.98) इत्यादिनोपधालोपः। `होहन्तेर्ञ्णिन्नेषु' (7.3.54) इति कुत्वम्। यद्यनादेशोऽपि चानशात्मनपदसंज्ञकः स्यात् परस्मैपदिनो हन्तर्न स्यात्।।

101. तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः।
तिङ इति प्रथमाबहुवचनम्। तिङः संज्ञिनः किंभुताः ? त्रीणि त्रीणित्येवम्भूता इत्यर्थः। वचनापेक्षया नपुंसकलिङ्गेन निर्देशः। वीप्सायाञ्चैतद्‌द्विर्जनम्। यदि तिङस्त्रीणि त्रीणि वचनानि प्रथममध्यमोत्तमपुरुषसंज्ञकानि भवन्ति, एवं सति षट्‌त्रिकाः संज्ञिनः संज्ञास्तित्र इति यथासंख्यं न प्राप्नोति; वैषम्यात्। तत्र यद्येकस्यानेकसंज्ञाविधानवैयर्थ्यादेका संज्ञा भवेत्, न त्वेकैकस्य तिस्रः, तथापि सैवैकैका भवन्तीत्यव्यवस्था वा स्यात्; नैष दोषः;इह हि परस्मैपदग्रहणमात्मनेपदगर्हणञ्चानुवर्तते। तदनुवृत्तौ च द्वौ राशी भवतः- नवानां तिङां परस्मैपदसंज्ञकानामेको राशिः, तथा नावानामात्मनेपदसंज्ञकानां द्वितीयः। तत्र प्रथमे राशौ ये त्रयस्त्रिकाः, ये च द्वितीये राशौ त्रयस्त्रिकास्तैरिदं सूत्रं प्रत्येकमभिसम्बध्यते-- परस्मैपदेषु तिङस्त्रीणि त्रीणि प्थममध्यमोत्तमाः, तथात्मनेपदेषु तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमा इति। एवं हि सति न भवति संख्यातानुदेशाभावप्रसङ्गः। तमेवार्थं दर्शयितुमाह-- `तिङोऽष्टादश प्रत्ययाः' इति। `नव' इत्यादिना राशिद्वयं दर्शयति। `तत्र' इत्यादिना प्रथमे राशौ ये त्रयस्त्रिकास्तैरस्य सूत्रस्य सम्बन्धं करोति। `आत्मनेपदेषु' इत्यादिनापि द्वितीये राशौ ये त्रयस्त्रिकास्तैश्च।।

102. तान्येकवचनद्विवचनबहुवचनान्येकशः।
`तानि' इति बहुवचनं संज्ञासमावेशार्थम्; अन्यथा ह्येकसंज्ञाधिकारे सति वचन्परामाण्यात् पुरुषवचनसंज्ञाः पर्यायेण प्रवर्तेरन्। एवञ्च तत्र `आडुत्तमस्य पिच्च' (3.4.92) इत्यादिना विधीयमानमाडादिकार्यं पाक्षिकं स्यात्। अस्मिंस्तु सति भवति संज्ञासमावेशः। तच्छब्देन हि त्रीणि त्रीणि लब्धपुरुषसंज्ञकानि तान्येकवचनादिसंज्ञकानि भवन्तीति प्रत्यवमृश्यन्ते, तेन यानि लब्धप्रथमपुरुषादिसंज्ञकानि तान्येवैकवचनादिसंज्ञकानि भवन्ति। ननु च त्रिकाणां प्रथमादिसंज्ञैकैकस्य चैकवचनादिसंज्ञा, तत्र विषयबेदादेकसंज्ञाधिकारेऽपि विरोधो नास्त्येवेति; नैष दोषः; तदस्ति पुरुषादिसंज्ञापि हि प्रत्येकमेव, न हि समुदायो नामान्यस्त्रिकेभ्योऽस्ति; तस्मात् तिबादयस्त्रका एव संज्ञिनः। त्रिग्रहणन्तु मर्यादार्थम्। त्रत्वसंख्यापरिच्छिन्नास्तिङः प्रत्येकं पुरुषसंज्ञाः प्रतिपाद्यन्ते। तस्मात् प्रथमादिसंज्ञानामेकवचनादिसंज्ञानाञ्चैकविषयतैवेति संज्ञासमावेशार्थं तानीत्युक्तम्।।

103. सुपः। (1.4.103)
सुविति प्रत्याहारग्रहणम्। प्रथमैकवचनात् सुशब्दादारभ्य सप्तमीबहुचनस्य सुपः पकारेण। अथ कपः पकारेणायं प्रत्याहार कस्मान्न विज्ञायते ? सप्तमीबहुवचनस्य पकारस्य वैयर्थ्यप्रसङ्गात्। स ह्यनुदात्तार्थः स्यात् ? प्रत्याहारार्थो वा ? तत्रानुदात्तार्थो न भवति; अनुदात्तस्य सुपत्वादेव सिद्धत्वात्। तत्र यदि प्रत्याहारार्थोऽपि न स्यात् तदास्यापार्थकत्वमेव स्यात्। तस्मात् तेनैवायं प्रत्याहारो विज्ञायते, न तु कपः पकारेण; स्वरविधौ तस्य चरितार्थत्वात्।।

104.विभक्तिश्च। (1.4.104)
चकारः पुरुषादिसंज्ञासमावेशार्थः। विना तेनैकसंज्ञाधिकारे वचनप्रामाण्यात् पर्यायः स्यात्। तिङो विभक्तत्वे प्रयोजनम् `न विभक्तौ तुस्माः' (र1.3.4) इतीत्संज्ञाप्रतिषेधः। सुपस्त्वेच्च, अन्यच्च त्यदाद्यत्वादि।।

105.युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः। (1.4.105)
नियतार्थमेतदिति दर्शयितुमाह-- `लस्येत्यधिकृत्य' इत्यादि। एतच्च नियमार्थत्वे कारणम्। सत्यारम्भो नियमार्थो भवति, नासिद्धे। स पुनरयं नियम उपपदार्थनियमो वा स्यात्-- तिङो युष्मद्युपपदे मध्यम एव ? पुरुषनियमो वा स्यात्-- युष्मद्येवोपपदे मध्यम् इति वा ? तत्र यदि प्रथमो नियम आश्रीयते, त्वया कुर्वता त्वया कुर्वाणेनेति युष्मद्युपदे लस्य शतृशानजादेशौ न भवतः। तस्मात् तदर्थं यत्नान्तरमास्थेयम्। इतरत्र तु न किञ्चिद्यत्नसाध्यम्, अतो द्वितीयपक्षमाश्रित्याह-- `तेषामयम्' इत्यादि। व्यवहिते च, अव्यवहिते चेति। ननु च परस्परं सन्निकृष्टं यत्पदं तदुपपदमुच्यते-- उपोच्चारितं पदमिति कृत्वा;यच्च व्यवहितं तदव्यवहितापेक्षया विप्रकृष्टम्, अतो व्यवहितेन भवितव्यम्, नैष दोषः; यस्मात् सन्निकृष्टं विप्रकृष्टमित्यव्यवस्थितमेतदुभयग्रहणम्; सापेक्षत्वात् परापरवत्। तत्र यद्यव्यवहितमपेक्ष्य व्यवहितं विप्रकृष्टं भवति, तथाप्यन्यद्विप्रकृष्टतरमपेक्ष्य सन्निकृष्टं भवतीतीतरत्र व्यवहितेनापि भवितव्यम्। यद्येवम्, उपपदग्रहणं किमर्थम् ? पूर्वभूतेऽपि यथा स्यादित्येवमर्थ कृतम्। अन्यथा `युष्मदि' इत्येतावत्युच्यमाने' तस्मिन्निति निर्दिष्टे पूर्वस्य' (1.1.66)इति परभूत एव युष्मदि पूर्वस्य मध्यमः स्यात्, न तु पूर्वभूते परस्य। उपपदग्रहणादत्रापि भवति। पूर्वेण परेणापि प्रयुज्यमानमुपपदं भवत्येव।
`समानाधिकरणे' इत्यनेन समानाभिधेय इति व्याचक्षाणोऽयमधिकरणशब्दोऽभिधेयवचनः सूत्र उपात्त इति दर्शयति। तत्पुनरभिधेयं यत्र लकार उत्पद्यते कर्तरि कर्मणि वा कारके प्रत्यासत्तेस्तदेव विज्ञायते इत्याह-- `तुल्यकारके' इत्यादि। तुल्यं कारकं यस्य तत् तथोक्तम्। तुल्यशब्देन समानशब्दस्यार्थो दर्शितः। `प्रयुज्यमानेऽप्रयुज्यमानेऽपि' इति। अनेन स्थानिन्यपीत्यस्यार्थमाचष्टे। स्थानशब्दः प्रसङ्गवाची-- स्थानमस्यास्तीति स्थानी। कस्य च स्थानम् ? तस्यैव स्थानमस्ति यस्यार्थो गम्यते, शब्दो न प्रयुज्यते। तदेतदुक्तं भवति-- अप्रयुज्यमानेऽपि युष्मदि, अपिशब्दात् प्रयुज्यमानेऽपि। समानाधिकरणग्रहणं किम् ? `त्वया पच्यते' इत्यत्र मा भूत्, भिन्नं ह्यधिकरणम्। तथा हि-- `त्वया' इत्येतत् कर्त्तृवाचि; कर्त्तरि तृतीयाविधानात्। `पच्यते' इति कर्मवाचि; कर्मणि लकारविधानात्।।

106. प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च।(1.4.106)
`प्रहासे गम्यमाने' इति। यत्र भूतार्थाभावाद्वञ्चनैव केवलं तत्र वक्तुरभिप्रयाविष्करणेन प्रहासो गम्यते। `मन्योपपदे' इति।मन्यतिरुपपदमुपोच्चारितं पदं यस्य स तथोक्तः। मध्यमस्य धातोर्विधानात् धातुरन्यपाद्रथो विज्ञायत इत्याह-- `धातोःट इति। `स चैकवत्' इति। यत्र द्वौ मन्तारौ बहवो वा तत्रायमेकवद्भावो विधीयते। अन्यत्र तु मन्तुरेकत्वादेवैकवचनं सिद्धम्। `मध्यमोत्तमयोः' इति। यथाक्रमं युष्मदस्मदोरुपपदयोः समानाधिकरणयोरप्रयुज्यमानयोरप्यर्थस्य विद्यमानत्वात्। यथा प्रत्युदाहरणे पूर्वकमुपपदग्रहणं युष्मच्छब्देनाभिसम्बद्धमिहानुवर्त्तेतेति तन्मन्यतिनाऽशक्यमभिसम्बन्धृमिति पुनरुपपदग्रहणं क्रियते। मन्यतेरिति श्यना निर्देशः, इत्यस्य तानादिकस्य ग्रहणं मा भूदत्येवमर्थः। तेनेनह न भवति-- एहि मनुषे रथेन यास्यामि न हि यास्यसि यातस्तेन ते पितेति। एवं हि मनोतेर्भवति।।

107. अस्मद्युत्तमः। (1.4.107)
यदा युष्दस्मदी द्वे अप्येते उपपदे स्तः, तदा कथं भवितव्यम् ? यदि कर्त्तृशक्ती आधारप्रतिनियते अपेक्ष्येते, तदाऽऽख्यातमपि पृथगेव प्रयुज्यते-- पचसि पचामि चेति। अथाविरोधाच्छक्तिद्वयेऽपि लकार उत्पद्यते, तदा विप्रतिषेधादुत्तम एव भवति-- त्वञ्चाहञ्च पचाव इति। यद्यपि `त्यदादीनां यद्यत्परं तच्छिष्यते' भवति। आवां पचाव इत्यत्र ह्यस्मच्छब्दस्य युष्मदर्थोऽपि वाच्यः, अन्यथा हि द्विवचनं न स्यात्। न ह्यस्मच्छब्दस्यैव द्वित्वमुपपद्यते।।

108. शेषे प्रथमः। (1.4.108)

109. परः सन्निकर्षः संहिता। (1.4.109)
`परशब्दोऽतिशये वर्त्तते' इति। यथा परं दुःखमिति। एतन परशब्दोल दिगादिष्वप्यर्थेषु वर्त्तते, तथापीहातिशये वर्त्तमानस्य तस्य ग्रहणमित दर्शयति। सन्निकर्षः = प्रत्यासत्तिः, संश्लेषश्च। तत्रेह प्रत्यासत्तिर्गृह्यत इति दर्शयन्नाह-- `सन्निकर्षः प्रत्यासत्तिः' इति। संश्लेषस्तु न गृह्यते, तस्य वर्णेष्वसम्भवात्। संश्लेषो ह्येककालानां भवति, न च वर्णामामेककालतापत्तिः; क्रमेणोच्चारित्वादुच्चरितप्रध्वंसितत्वात्। संश्लेषो ह्येककालानां भवति, न च वर्णानामेककालतापत्तिः; क्रमेणोच्चारित्वादुच्चरितप्रध्वंसतत्वात्। सत्यामपि चैककालतायां न सम्भवत्येव वर्णानां सश्लेषः। तथा हि-- संश्लेषः संयोगतो वा स्यात्, समवायतो वा; तत्र पूर्वको द्रव्यस्यैव स्यात्, न तु शब्दस्य-- निर्गुणा गुणा इति कृत्वा। इतरोऽपि नैव शब्दस्य सम्भवति, न हि वर्णो वर्णे समवैति; शब्दस्याकाशसमवायित्वात्। न च संयोगसमवाययोरतिशयः सम्भवति; सर्वत्रैकरुपकत्वात्। तथा च `परः' इति विशेषणं नोपपद्यते। प्रत्यासत्तिस्त्वपेक्षाकृतभेदात् प्रकर्षाप्रकर्षाभ्यां प्रयुज्यमानापरग्रहणेन विशिष्यत इति युक्तं तस्य विशेषणत्वम् । कः पुनरसौ परः सन्निकृष्टान् वर्णानुच्चारयति वक्तरि पूर्वस्य वर्णस्य ये निष्पादकास्ताल्वादयस्तेषां व्यापारोपरतौ वर्णान्तरस्य च ये निष्पादकास्ताल्वादयस्तेषां व्यापारोपदेशनमर्द्धमात्राकालमाहुः। स वर्णानां व्यवधानः = व्यवधायको यस्मिन् सोऽर्द्धमात्राकालव्यवधानः सन्निकर्षः। यदि वर्णानामर्द्धमात्राकालव्यवधानः सन्निकर्षः,कथं तर्हि दध्यत्रेत्यादौ वयवधायककालो नोपलक्ष्यते,वर्णाः संश्लिष्टा एवोपलभ्यन्ते ? नैतत्; किमर्थं पुनरेतदारभ्यते, यावता परमेव सन्निकर्षं संहितेति वदन्त्याचार्याः, तथा हि संहितामधीष्वेत्युक्ते परं सन्निकर्षमेवाधीते शिष्यः ? नैतदेवम्; पदस्य पदान्तरेण यदानन्तर्यं सा संहितेति लोकेऽभिधीयते । तथा च वक्तारो वदन्ति-- संहितामधीते न पदानि, पदान्यधीते न संहितामिति। तथा चैकपदे हि संहिताकार्यं न स्यात्, `इको यणचि'(6.1.77) इति-- कुमार्यौ, कुर्मार्य इति। सति ह्यस्मिन् वर्णानां सन्निकर्षविशेषस्यानेन संहितासंज्ञा विधीयत इत सर्वत्रैव भवति।।।

110. विरामोऽवसानम्। (1.4.110)
`विरतिर्विरामः' इति। भावे घञ्। विरामो वणोच्चारणाभावोऽवसानसंज्ञो भवति। `विरम्यतेऽनेनेति विरामः' इति विरामशब्दस्य द्वितीयमर्थं दर्शयति। `कृत्यल्युटो बहुलम्' (3.3.13) इति बहुलवचनादसंज्ञायामपि `हलश्च' (3.3.121) इति घञ्। अत्र पक्षे येनान्त्येन वर्णेन विरम्यते सोऽवसानसंज्ञो भवति। तत्र पूर्वस्मिन् पक्षेऽभावे पौर्वापर्याभावात् `खरवसानयोः' (8.3.15) इत्यत्रावसानापेक्षया विषयसप्तमीयं विज्ञायते; न परसमप्तमी। खरपेक्षया तु सप्तमीयम्।
अन्ये तु-- यद्यभावे पौर्वापर्यं न सम्भवतीत्यवसनापेक्षया `खरवसानयोः' (8.3.15) इति परसप्तमी नोपपद्यते, तदा `इको यणचि' (6.1.77) इत्यादावपि परसप्तमी नोपपद्यते। कथम् ? वर्णानां क्रमभावित्वात्, उच्चरितप्रध्वंसितत्वाच्च। यदेगस्ति तदाञ् नास्ति, यदा त्वजस्ति तदेग् नास्ति। अथात्र बुद्धिप्रकल्पितं पौर्वापर्यमाश्रित्य परसप्तमीष्यते, तदा `खरवसानयोः' (8.3.15) इत्यत्रापितथैवैष्टव्येति मन्यमाना अवसानापेक्षयापि परसप्तमीमिच्छन्ति।
अपरे तु--अन्त्यस्य तु वर्णस्यावसानसंज्ञायां सत्यां `खरवसानयोः' (8.3.15) इति षष्ठी विज्ञायते। अत्रावसानापक्षया स्थानषष्ठी। रेफस्यावसानस्य विसर्जनीय इति खरपेक्षया तवानन्तर्यलक्षणा षष्ठीति वदन्ति। तन्मते स्थानषष्ठ्यां हि `रो रि' (8.3.14) इत्यतो रेफस्यानुवृत्तस्य यत् स्थानित्वं तदविरुध्यते तदेवमेकापि विभक्तिर्यथायोगं विभज्यते। ननु चाभावपक्षेऽपि पूर्वस्मिन्नपि भागेऽनुच्चारममस्ति, तत्रापि विसर्जनीयः प्राप्नोति-- रथ इति, अस्ति ह्यत्रापि रेफात् प्रागुच्चारणम् ? नैष दोषः तत्र हि प्रकृतं पदग्रहणं रेफेण विशिष्यते-- रेफान्तस्य पदस्येति। न च पूर्वेण रेफेण पदं भवति। नन्वेवप्यर्थस्यैषा संज्ञा स्यादिति `खरवसनायोः' (8.3.15) इत्यत्र `तस्मिन्निति निर्दिष्टे पूर्वस्य' (1.1.66) इति परिभाषा नोपतिष्ठते। शब्दे हि सप्तमीनिर्दिष्टे सतीयमुपतिष्ठते, नार्थे। तदनुपस्थाने च परेण रेफेण रेफान्तस्य रथ इत्येतस्य पदस्य पूर्वो यो रेफस्तस्य व्यवहितस्यापि विसर्जनीयः स्यात्, नैष दोषः; ज्ञापकान्न भविष्यति, यदयं `उरण् रपरः' (1.1.51) इति व्यवहितस्य रेफस्य विसर्जनीयमकृत्वा निर्देशं करोति, तज्ज्ञापयति- व्यवहितस्य रेफस्य विसर्जनीयो न भवतीति।
`नन्वत्र लोके प्रसिद्धेरेवायन्त्ये वर्णेऽवसानशब्दस्य सम्प्रत्ययो भविष्यति। प्रसिद्धो हि लोके--अन्त्ये वर्णेऽवस्यतेः प्रयोगः। तथा हि केनावस्यतीत्युक्ते वक्तारो वदन्ति-- इकारेणोकारेण वेति। इकारादिवर्णेनावसानं करोतीत्यर्थः। ततः प्रदेश एवावसानग्रहणं कर्त्तव्यमिति नार्थः संज्ञासंज्ञिप्रणनेन, नैतदस्ति; अपूर्वो हि स्यतिः परिसमाप्तावपि वर्त्तते-- अवसितो वाद इति, अवगमेऽपि वर्त्तते-- अवसितोऽर्थ इति, पराभवेऽपि वर्त्तते--द्वयोर्विवादेऽवसितो दवदत्त इति। तत्र यदीयं नारभ्यते, तदावसानग्रणे सन्देहः स्यात्-- किमभिधानावसानशब्दस्य ग्रहणमिति ? `विरामोऽवसानम्' (1.4.110) इति तु ह्यन्तग्रहणं कर्त्तव्यम्-- खरन्त्ययोरिति ? एतदपि नास्ति; एवं हि सन्देहः स्यात्-- किमन्त्यस्य वर्णस्य ? उत पदस्य? आहोस्वद्वाक्यस्येति ? तत्रान्त्यस्य विशेषणार्थं वर्णग्रहणं कर्त्तव्यं स्यात्। तस्मात् संज्ञासंज्ञिसम्बन्धः कर्त्तव्यः।
`वृक्षः, प्लक्षः' इति। `खरवसनायोर्विसर्जनीयः' (8.3.15)। `दधिँ मधुँ' इति। `अणोऽप्रगृह्यस्यानुनासिक' (8.4.57) इति। अत्र हि `वाऽवसाने'(8.4.56) इत्यतोऽवसानग्रहणमनुवर्तते।।
इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायां
प्रथमाध्यायस्य
  चतुर्थः पादः
  समाप्तश्चायं प्रथमोऽध्यायः।।
  -----------