काशिकाविवरणपञ्जिका/प्रथमोऽध्यायः/प्रथमः पादः

काशिकाविवरणपञ्जिका
प्रथमः पादः
[[लेखकः :|]]
द्वितीयः पादः →

श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचिता
न्यासापरपर्याया
काशिकाविवरणपञ्जिकाख्या
काशिकाव्याख्या
अनुबन्धचतुष्टयनिरूपणम्

जयन्ति ते सदा सन्तः सर्वथा यैरूपार्जितम्।
गुणानां सुमहद्वन्दं दोषाणां च विमार्जनम्।।1।।
अन्यतः सारमादाय कृतैषा काशिका यथा।
वृत्तिस्तस्या यथाशक्ति क्रियते पञ्जिका तथा।।2।।
`वृत्तौ'इत्यादि। अथ किमर्थः काशिकारम्भेऽस्य श्लोककस्योपन्यासः ? तस्यामग
ौरवपरिहारार्थः, गौरवप्रतिपादनार्थश्च। अत्र ह्यसति प्रागन्यासु वृत्तिषु रचितासु पश्चादियं रचितेति पुनरुक्ततादोषं सम्भावयतां तस्यामगौरवं स्यात्, न तु गौरवम्। अस्मिंस्तु सति न भवत्येष दोषः, यस्मादनेन स विशेषस्तस्या आख्यायते सम्यगशेषशब्दव्युत्पत्तिहेतुः, यस्मिन् सति पुनरुक्ततादोषसम्भावनाऽगौरवहेतुर्न भवति, गौरवं चोत्पद्यते। स पुनरुक्ततादोषसभ्भावना! तस्यां चासत्यां नागौरवं भवति, किं तर्हि ? पूर्वोक्ताद्विशेषाद्गौरवमेव। तत्र च वृत्तिः-पाणिनिप्रणीतानां सूत्राणां विवरणं चूल्लिभट्टिनल्लूरादिविरचितम्। भाष्यं कात्यायनप्रणीतानां वाक्यानां विवरणं पतञ्जलिप्रणीतम्। `तथा' इति समुच्चये। धातुनामपारायमादिषु चेत्यर्थः। अथ वा सादृश्ये। यथा वृत्त्यादौ
विप्रकीर्णस्य तन्त्रस्य सारसंग्रहः क्रियतेतथा धातुनामपारायणादिष्विति यावत्।
धातवो भूवादयः नामानि प्रातिपदिकानि, तेषां परां पर्यन्तं निष्ठामयन्ते गच्छन्ति
याभ्यां शास्त्राभ्यां ते धातुनामपारायणे पारायणशब्दः प्रत्येकमभिसम्बध्यते- धातुपारायणं नामपारायणञ्चेति। ते आदी येषामिति बहुब्रीहिः। आदिशब्देन शिक्षादीनांग्रहणम्। `विप्रकीर्णस्य' इति। विक्षिप्तस्य, विस्तारितस्येत्यर्थः। तन्त्रस्य व्याकरण-
शास्त्रस्येत्यर्थः। तद्धि तन्त्रमिव तन्त्रम्। दैर्ध्येण प्रसारहितास्तन्त-
वस्तन्त्रमित्युच्यन्ते। तथा तदनेकस्य तिरश्चीनस्य तन्तोरनुग्राहकम्, तथेदमप्यनेकस्य लक्ष्यस्येति, एतदस्य तन्त्रेण साधर्म्यम्। अथ वा -तन्त्र्यन्ते व्युत्पाद्यन्ते शब्दा अनेनेति तन्त्रं व्याकरणम्। अनेकार्थत्वादद्धातुनाम् `तत्रि कुटुम्बधारणे(धा.पा.1978) इत्येष धातुरत्र व्युत्पादने वर्तते। अथ वा , तन्त्रं सिद्धान्तः,`तन्त्रंप्रधाने सिद्धान्ते'(3.3.185) इत्यमरः) `सारसंग्रहः' इति। सारशब्दोऽयं नपुंसक-
लिङ्गो न्यायादनपेते वर्तते। तथा च अर्द्धर्चादिषु वक्ष्यति- `सारशब्द उत्कर्षे पूंलिङ्गो न्यायादनपेते नपुंसकम्'(2.4.31) इति। सम्यक् समस्ताद्वा गृह्यते लक्ष्यं लक्षणञ्चानेनेति संग्रहः। `ग्रहवृदृनिश्चिगमश्च'(3.3.58)ठइति करणेऽप्। सारञ्चासौ -
संग्रहश्चेति सारसंग्रहः। स पुनरयमेव काशिकाख्यो वृत्तिविशेषः। अत्र सारशब्देन -
निर्दोषतोद्भाविता। न हि सदोषस्य शास्त्रस्य न्यायावनपेतत्वमुपपद्यते;न्यायेन तस्य बोध्यमानत्वात्। संग्रहः शब्देनापि गुणवत्ता ख्याप्यते। न ह्यन्यथा सम्यक् सर्वं
लक्षणं लक्ष्यञ्चानेन शक्यते संग्रहीतुम्।
के पुनरत्र गुणाः ? इष्टयुपसंख्यानवत्त्वम्, शुद्धगणत्वम्, विवृतगूढसूत्रा-
र्थत्वम्; व्युत्पन्नरूपसिद्धित्वञ्च। तथा च वक्ष्यति शास्त्रान्ते--
इष्टयुपसंख्यानवती सुद्धगणा विवृत्तगूढसूत्रार्था।
व्युत्पन्नरूपसिद्धर्वृत्तिरियं काशिका नाम।।इति।
अथ वा संग्रहशब्दोऽयं भावसाधनः- संग्रहणं संग्रह=संक्षेप, शास्त्रभेदेन विप्रकीर्णस्य तन्त्रस्य पिण्डीकृत्यैकत्रावस्थापनमिति यावत्। सारशब्दस्तु प्रधानवचनः। यावता ग्रन्थसन्दरर्भेण परिपूर्णता शब्दव्युत्पत्तेर्भवति स सारः। सारस्य संग्रहः सार-
संग्रहः, तस्य करणं सुखोदग्रहणार्थम्। एकत्र हि व्यवस्थितस्य सुकरमुदग्रहणं भवति,
दुष्करन्तु विप्रकीर्णस्य। सारग्रहणं परिकरबन्धनिरासार्थम्। स हि तस्योपकारकत्वाव-
ङ्गम्, अप्रधानम्। इतरस्तु तेनैवोपकार्यत्वादङ्गि,प्रधनाम्।
`अथ' इत्यादि। अथशब्दोऽधिकारार्थः, अधिकारः = प्रस्तावः, शब्दानुशासन
शास्त्रं प्रस्तूयत इत्यमुमर्थमथशब्दो द्योतयति। `शब्दानुशासनम्' इत्येतावति
ह्यभिहिते सन्देहः स्यात्- किं शब्दानुशासनमारभ्यते ? पठ्यते? श्रूयते वा ? इति, अथशब्दप्रयोगे त्वर्थान्तरव्यवच्छेदेन प्रस्तूयत इत्येषोऽर्थो निश्चीयते। अनुशिष्यन्ते संस्क्रियन्ते व्युत्पाद्यन्तेऽनेन शब्दा इत्यनुशासनम्। शब्दानामनुशासनं
शब्दानुशासनम्।
अत्र केचिच्चोदयन्ति-- ```उभयप्राप्तौ कर्मणि' (2.3.66)इत्यनेनात्र षष्ठी, ततश्च `कर्मणि च ' (2.2.14) समासप्रतिषेधेन भवितव्यम् इति, एतच्चायुक्तम्; यत्र ह्युभयोः प्राप्तिस्तत्रानेन कर्मणि दोहोऽशिक्षितेनागोपालकेनेति, एवं नाम दुर्दोहानां गवामशिक्षितेनागोपालकेन दोहइत्याश्चर्यभूतोऽत्र गवां दोहः प्रतिपादयितुमा-
श्चर्यशब्दः, नान्यथेति सामर्थ्यप्राप्तमुभयोरुपादानम्। शब्दानुशासनमित्यत्र तु
शब्दानामिदमनुशासनम्, नार्थानाम्- इत्येतावतोऽर्थस्य विवक्षितत्वात्,
तस्याचार्यस्य कर्त्तृरूपादानमन्तरेणापि प्रतिपादयितुं शक्यत्वादाचार्योपदानमकिञ्चित्करम्।तस्मान्नात्रास्ति द्वयोरति=कर्तृकर्मणोओओओओओओओः सामर्थ्यप्राप्तमुपादानम्। ततश्चोभयप्राप्तिरपि नास्त्येव। असत्याञ्च तस्यां न `उभयप्राप्तौ कर्मणि' (3.2.66)
इत्यनेन षष्ठी, केन तर्हि? `कर्त्तृकर्मणोओः कृति' (2.3.65)इत्यनेन। ततश्चेष्मप्र-
व्रश्चनवत् समासो भविष्यति। अथ वा, शेषलक्षमैवेयं षष्ठीत्यचोद्यमेतत्।
व्याकरणस्यचेदमन्वयर्थं नाम शब्दानुशासनमिति। अतस्तेनैव सूचित्तवात् प्रयोजनस्यानभिधानम्। ये हि शब्दा अनुशिष्यन्ते, तस्य तदुद्देशे प्रवृत्तिः। यस्य च
यदुद्दिश्य प्रवृत्तिः , तत्तस्य प्रयोजनं भवति। तदेतदुक्तं भवति- शब्दानुशिष्टि-
रस्य प्रयोजनमिति। एतच्च साक्षात् प्रयोजनम्, पारम्पर्येण तु वेदरक्षणादीनि
प्रयोजनानि भाष्यादवधार्याणि। सम्बन्धस्तु साध्यसाधनभावलक्षमः। शब्दानुशिष्टेः
साध्यायाः; व्याकरणस्य साधनस्य च यः सम्बन्धः, स प्रयोजन एवान्तभूतः।
`केषां शब्दानाम्' इति। कथं पुनरनुशासने गुणीभूतानां शब्दानां किंशब्देन
प्रत्यवमर्शो भवति ? नैषः दोषः; प्रधाने ह्यन्तर्भूतस्याप्युपसर्जनस्य बुद्ध्या
प्रविभज्य किंशब्देन प्रत्यवमर्शो दृष्टः, यथा- राजपुरुषोऽयम्, कस्य राज्ञ इति। कः पुनरत्र प्रष्टुरभिप्रायः ? एवं मन्यते- शब्दानुशासनमित्यत्र शब्दशब्दः सामान्य
वचनः। न च सामान्यशब्द प्रकरणादिरहितो र्विशेषे वर्त्तितुमुत्सहते, सन्ति च समुद्र-घोषादयोऽपि बहवः शब्दाः, अतस्तेषामपि व्युत्पादनं प्राप्नोतीति ? इह तु व्याकरणं
प्रस्तुतम्, तच्च बेदाङ्गम्, अङ्गञ्चोपकारकं भवति। एवञ्च तद्वेदस्योपकारकं भवति यदि तेनैव वैदिकाः शब्दाः संस्क्रियन्ते, लौकिकाश्च तदुपकारिणः। वैदिकोपकारित्वं तु लौकिकानाम; तैस्तदर्थस्याख्यानात्। तस्माच्छब्दानुशासनाधिकाराद्विशिष्टा एवात्र शब्दा व्युत्पादयितुमभीष्टाः,न तु समुद्रघोषादयोऽपि। तथाविधशब्दरव्युत्पादने हि व्याकरणस्यावेदाङ्गतापि स्यादिति मन्यमान आह`लोकिकानाम्' इत्यादि। लोके विदिता लौकिकाः,
तत्र विदित इत्यनुवर्तमाने `लोकसर्वलोकाट्ठञ्' (5.1.44) इति ठञ्। अथ वा , लोके भवा लौकिकाः- अध्यात्मादित्वाट्ठञ् (वा.456)। एवं वैदिकाः। वैदिकानां लौकिकेभ्यः
पृथगुपादानं प्राधान्यख्यापनार्थम्। यथा- `ब्राह्मणा आयाताः, वसिष्ठोऽप्यायातः' इैइति। अत्र ब्राह्मणत्वादेव वसिष्ठस्याप्यागमने सिद्धे प्राधान्यख्यापनार्थं तस्य पृथगुपादानम्। प्राधान्यख्यापनं तु वैदिकानां यत्नेनापभ्रंश निरासार्थम्। तेषां
ह्यपभ्रंशे याज्ञे कर्मणि महान् प्रत्यवायो दृष्टः- `हेलयो हेलयः' इति। अथ वा, ये
लोकायात्रा हेतवो भाषाशब्दास्तैरेव लौकिकत्वं प्रसिद्धमिति वैदिकानां पृथगुपादानम्। तत्र लौकिका अनियतवर्णानुपूर्वीकाः- गौः,अश्वः,पुरुषः, हस्तीत्येवमादयः।
वैदिकास्तु नियतानुपूर्वीकाः- `शन्नो देवीरभिष्टये' (ऋ.10.9.4)इत्येवमादयः।
इह ह्यन्वाख्याने प्रतिपदपाठोऽभ्युपेयः। तस्यापि त्रयः प्रकाराः- शब्दाप-
शब्दोभयोपदेशभेदेन। आनन्त्याच्च शब्दानां स सर्वथाप्यसम्भवः। एवं हि श्रूयते- `बृह-
स्पति किलेन्द्राय दिव्यं वर्षसहस्रं प्रतिपदविहितानां पारायणं प्रोवाच, न चान्तं
जगाम' इति। तदीदृशे वक्तर्यध्येतर्यध्ययकाले च नान्तगमनमभूद्यस्य, तस्य कुतोऽ-
द्यत्वे भविष्यति स्वल्पायुषि प्रजयाम्। न चान्योऽभ्युपायोऽस्तीति मन्यमान् आह- `कथम्' इत्यादि। कथमनुशासनम् ? न केनचित् प्रकारेण शब्दानां व्याकरणमनुशासनमित्यर्थः। अथ वा भावसाधनोऽत्रानुशासनशब्दः। अनुशिष्टिरनुशासनम्- संस्कारः, न कथञ्चिच्छब्दानां संस्कारः सम्भवतीति यावत्।
येनाल्पेनैव प्रयत्नेन महतः शब्दौघान् प्रतिपद्येत, तदुपायन्तरं दर्शयितुमाह- `प्रकृत्यादिविभाग' परिकल्पनया' इत्यादि। प्रत्ययात् प्रथमं क्रियत इति प्रकृतिः, प्रकृतिरादियषां ते प्रकृत्यादयः, आदिशब्दः प्रत्ययादीनां परिग्रहाय, तेषां विभगोऽसंकीर्णरूपता,तस्य कल्पना परिकल्पिकया बुद्ध्या परिकल्पनम्; तया परिकल्पनया शब्दानामनुशासनं व्याकररणनुशिष्टिर्वा। हेताविदयं तृतीया। न हि तया विना व्याकरणमनुशासनं भवति; नापि तेन विनानुशिष्टिः शब्दानां शक्यते कर्तुम्। परिकल्पनयेत्यनेनैतत्
प्रतिपादयति। कल्पनामात्रं प्रकृत्यादिविभागः, परमार्थवस्तु; प्रत्यस्तमितप्रकृत्यादिविभागः समुदाय एव कस्यचिदर्थस्य वाचक इति।
`सामान्यविशेषवता लक्षणेन' इति। करण एषा तृतीया। सामान्यञ्च
विशेषश्च सामान्यविशेषौ तौ यस्मिन् लक्षणे स्तस्तत् सामान्यविशेषवल्लक्षमम्।
तत्रोत्सर्गलक्षणं सामान्यवत्,यथा `कर्मण्यण्' (3.2.1)इति। तत्र हि `धातोः' इत्येततअनुपसर्ग इति च विशेषः। तत्र सामान्यवता लक्षणेन प्रकृत्यादिविभागः परिकल्पनया कुम्भकारः, काण्डलावः, शरलावः- इत्यवमादिकं महान्तं शब्दौघं प्रतिपद्यते। विसेषवता तु
पार्ष्णित्रः, गोदः, कम्बलद इत्यवमादिकम्। एवमन्यत्रापि वेदितव्यम्।

प्रत्याहारप्रकरणम्।
`अथ' इत्यादि। एवं मन्यते- शब्दानुशासनमधिकृतम्, तत्र यन शब्दा अनुशिष्यन्ते
तस्यैवोपदेशो युक्तः न चैषामुपदेशेन कस्यचिच्छब्दस्य संस्कारः क्रियते;
ततश्चाप्रस्तुतभिधानमिति प्रश्नस्याभिप्रायः। `वर्णानाम्' इत। वर्णा अकारादयः, तेषामाद्युच्चारणमुपदेशः। `प्रत्याहार्थः' इति। प्रत्याहारः `अइउण्' (मा.सू.1) इत्येवमादिको विशिष्टानुपूर्वीको विशिष्टानुबन्धकश्चाक्षरसमाम्नायः, प्रत्याह्रियन्ते
संक्षिप्यन्ते वर्णा अस्मिन्निति कृत्वा। स यता स्यादित्येवमर्थो वर्णानामुपदेशः। कस्यादेतत्। तस्यापि प्रकृतानुपयोगित्वात् तदवस्थ एवैष दोष इत्यत आह- `प्रत्याहारो
लाघवेन' इत्यादि। लघोर्भावो लाघवम्, तत् पुनरल्पप्रयासः। अल्पप्रयाससाध्यं हि
वस्त्वल्पप्रयत्नयोगाल्लगूच्यते।तेन लाघवेन शास्त्रस्य ढ्रलोपे पूर्वस्य दीर्घोऽणः(6.3.111) इत्येवमादेः प्रवृत्त्यर्थोऽभिनिर्वृत्यर्थ इत्यर्थः। सति हि
प्रत्यहारे `आदिरन्त्येन सहेता'(1.1.71) इत्येतत् प्रवर्त्तते। तत्प्रवृत्तौ चाकारादीनामणित्येवमादिकाः संज्ञाः सिध्यन्ति। ततश्च यत्राकारादीनां ग्रहणमिष्टं
तत्राणित्येवमादिकयैव संज्ञया बहवोऽपि ते निर्दिश्यन्त इति लाघवेन शास्त्रस्याभिनिर्वृत्तिर्भवति। तस्मिश्चासति `आदिरन्त्येन सहेता' इत्येवमादेः शास्त्रस्य
प्रवृत्तिर्न स्यात्; आद्यन्तयोरभावात्। न ह्यसति सन्निवेशविशेषे तावुपपद्येते,
असत्याञ्च तत्प्रवृत्तरौ पूर्वोक्ताः संज्ञा न स्युतः। ततश्च यत्र यत्र सूत्रेऽका-
कारादीनां यावतां ग्रहणमिष्टं तत्र ते तावन्तः स्वरूपेणैव निर्दिश्येरन्निति लाघवेन शास्त्रस्य प्रवृत्तिर्न स्यात्। तदेवं प्रकृतस्यैवाल्पप्रयासेन निष्पादनार्थ-
त्वान्न भवति पूर्वदोषावसरः।
1.अइउण्।
अथ कस्मादिहाद् गुणादिकमच्कार्य न भवति? 'प्लुतप्रगृह्याअचि'(6.1.125) इति प्रकृतिभावात्। प्रगृह्यत्वं तु तेषां 'निपात एकाजनाङ्' (1.1.14)इति प्रगृह्यसंज्ञाविधानात्। निपातत्वं तु चाजिषु पाठात्। अत एव निपातत्वादर्थवत्वे चोत्पन्नाया
विभक्तेः श्रवणं न भवति।इहानार्थवत्वे विभक्त्युत्पत्तिरनर्थकस्ययापि निपातस्य प्रातिपदिकसंज्ञोपसंख्यानाद्देदितव्या। 'अनेन क्रमेण'इति। अनयाऽऽनुपूर्व्या। किं पुनःकारणमयमेव क्रम आश्रीयतेः न क्रमान्तरम्? तदुच्यतेः इहाण्ग्रहणेन त्रयाणामध्येषामकारादीनां ग्रहणमिष्यते, इण्ग्रहणे त्वकारस्य ग्रहणं नेष्यते, उण्ग्रहणे पुनरकारयोर्दयोरपि । एतच्च क्रमान्तराश्रयणे न सम्पद्यत इत्येष्वेवं क्रम आश्रीयते।
'वर्णात कारः'(वा.320) इति कारप्रत्यस्योपसंख्यानादिह च तदकरणन्नैते वर्णाः,अपि तु तच्छायानुकारिणोऽन्य एव सन्ध्यक्षरराविवर्णैकदेशा इति कस्यचिदाशङ्काक्डा
स्यात्; अतस्तन्निराकरणायाह-'वर्णान्'इति। कारप्रत्ययस्तु 'रोगाख्यायां ण्‌ण्वल बहुलम्'(3.3.108)इत्यत्रोपसंख्यायते। तेन ३षबहुल्‌वनचाैतल्सत्यपि वर्णत्वे न भवतीति
भावः। णकारस्य पूर्वोत्तरवर्णान्तरःपातित्वात् मध्यभावः, नान्त्यत्वम्; अत
इत्संज्ञया न भवितव्यम् ? अथापि कथञ्चिदन्त्यत्वं स्यात्? एवमपि वक्ष्यमाणेन न्यायेनाप्रधानत्वाद् यथा तत्राच्कार्यमस्य न भवति तथेत्संज्ञापि न भवेदिति यस्य
भ्रान्तिः स्यात्, तं प्रत्यन्त इत्युक्तम्, इतमिति च । यद्यपि पूर्वोत्तरवर्णा-
पेक्षयाऽस्य मध्यमभावः, तथापि पूर्ववर्णापेक्षयान्त्यत्वमस्त्येव। सति च
तस्मिन्नप्रधानस्यपीत्संज्ञया भवितव्यम्; उपदेशसामर्थ्यात्। अन्यथा हि तदुपदेश-
वैयर्थ्यं स्यात्। `आदिरन्त्येन सहेता' (1.1.71) इत्यनेनाणित्येवमादिकाः संज्ञा यथा स्युरित्येवमर्थो णकारादीनामनुबन्धानामुपदेशः। स च तदर्थोऽसत्यामित्संज्ञायां न
स्यादित्यभिप्रायः। `तस्य' इत्यादि। `एकेन' इति सहारथयोगे तृतीया, `तस्य' इति
इति कर्मणि षष्ठी। तस्य णकारस्य प्रदेशवाक्येषु संज्ञिप्रत्यायनार्थमेकेनैवाकारेण सहोपदानां भवति।स ह्यकारादीनां वर्णानामकारसहित एव संज्ञा, न केवलः, नापि
वर्णान्तरसहितः। तस्मात् प्रत्यायनार्थं तेनैव सहोपादीयते, न केवलः, नापि वर्णान्तरसहितः।
अभ्ये त्वाहुः - तस्येति कर्त्तरि षष्ठी; एकेनेति च सहयोगे तृतीया।
तेनायमर्थः-आदिवर्णसहितो णकारोऽन्येषां मध्यपातिनां वर्णानां ग्राहको भवत्यादिवर्णस्य चेति।
अपरे आहुः- अनेकार्थ्वाद्धातूनां गृह्णातिरत्रोच्चारणे वर्त्तते `ग्रहणवता प्रातिपदिकेन' (व्या.प.89) इति यथा। तेनायमर्थ-- तस्यैकेन सहोच्चारणं भवतीति। अथ
`इणः षीध्वम्' (8.3.78) इत्यत्रेकारेणास्य ग्रहणं न भवतीति कुतोऽवसितम् ? `अति
श्नुधातुभ्रुवां य्वोः' (6.4.77) इतीकारोकारयोः संसृज्य निर्देशात्। यदीकारेणास्य
ग्रहणं स्यात् ततो लाघवार्थं `इण्' इत्येव निर्दिशेत्। `य्वोः' इति संसृज्य
निर्देशेऽर्धचतस्त्रो मात्रा भवन्ति, इणिति निर्देशे तिस्त्रः, तत्र लघीयसा न्यासेन सिद्धे यद्गरीयासं प्रयत्नमारभते ततो ज्ञायते नास्य णकारस्येकारेण ग्रहणं भवतीति। इह तर्हि `कृवापाजिमिस्वदिसाध्यशूभ्य उण्' (द.उ. 1.86) इत्युकारेण ग्रहणं
कस्मान्न भवति ? उकारादन्यस्य ग्राह्यस्याभावात्, तस्य च स्वरूपेणैव
निर्देशात्।
`ह्रस्वमवर्णम्'इत्यादि। प्रयुज्यत इति प्रयोगो धात्वादिः। ह्रस्वमवर्ण
प्रयोगगे संवृतम्। संवृतगुणयोगात् संवृतम्। यथा शुक्लगुणयोगात् शुकक्लः पट इति।
`दीर्घप्लुतयोस्तु विवृतत्वम्' इति। विवृतगुणयोगित्वनमित्यर्थः। तथा चाहुः शिक्षा
काराः- `विवृतकरणाः स्वराः, तेभ्य ए ओ विवृततरौ, ताभ्यामपि ऐ औ, एताभ्यामप्याकारः, संवृतोऽकारः'इति। `तेषाम्' इत्यादि। तेषां ह्रस्वादीनां `तुल्यास्यप्रयत्नं
संवर्णम्' (1.1.9) इति सवर्णसंज्ञा यथास्यादित्येवमर्थमिह शास्त्रे ह्रस्वोऽकारो
विवृतगुणोऽभ्युपगम्यते। अन्यथा हि भिन्नत्वात् प्रयत्नस्यासति सावर्ण्ये दण्डाढकमित्यादौ `अकः सवर्णे दीर्घः' (6.1.101) इति दीर्घत्वं न स्यातत्। ननु च सत्यपि विवृतत्वप्रतिज्ञानैव ह्रस्वप्लुतयोरकः सवर्णे दीर्घत्वं प्राप्नोति, तस्मिन् कर्त्तव्ये प्लुतस्यासिद्धत्वात्, नैष दोषः; `सिद्धः प्लुतः स्वरसन्धिषु' इत स्वरसन्धिषु
प्लुतस्य सिद्धत्वात्त; इतरथा हि `प्लुतप्रगृह्या अचि' (6.1.125) इत प्रकृतिभाव-
विधानमनर्थकं स्यात्। अत्र च यद्यपि `विवृतः प्रतिज्ञायते' इत्युक्तम्, तथापि तेषां सावर्ण्यप्रसिद्ध्यर्थमिति वचनाद्ववृततर इति गम्यते। न हि विवृतस्य विवृततरेण
सावर्ण्यमुपपद्यते; प्रयत्नभेदात्; विवृतत्वप्रतिज्ञानसामर्थ्याद्वा।
अविवृततरस्यापि विवृततरेण सावर्ण्यं भविष्यति। यदि`इह' इत्येतावदेवोच्येत, तदा
प्रत्यासत्तेः प्रकृतत्वाच्चक्षरसमाम्नायिक एव विवृतः प्रतिज्ञायत इति विज्ञायेत्, न धातुप्रातिपदिकप्रत्ययनिपातस्थः; ततः प्रयत्नभेदादसति सावर्ण्ये
आक्षरसमाम्नायिकेन तस्याग्रहणादच्त्वं न स्यात्। तस्मिश्चासति शाम्यतीत्यत्राच्परि-
भाषानुपस्थानात् स्थानिनोऽकारस्याच्त्वाभावात् `शमामष्टानां दीर्घः श्यनि' (7.3.74) इति दीर्घत्वं न स्यात्। दृषद् इत्यत्र प्रातिपदिकस्यान्त उदात्तो भवतीति अन्तोदात्तत्वं नस्यात्; तस्याज्धर्मत्वात्। नायक इत्यत्र प्रत्ययस्याकारस्यानच्त्वात्
तत्रायादेशो न स्यात्। अवनमतीत्यत्र `निपाता आद्युदात्ताः' (फि.सू.4.80) `उपसर्गाश्चाभिवर्जम्' (फि.सू.4.81) इत्याद्युदात्तत्वं न स्यात्। किञ्च अनुवृत्तिनिर्देशस्थे-नाकारे णासति सावर्ण्ये दीर्घस्य ग्रहणं न स्यात्। तत्र को दोषः? `अस्य च्वौ' (6.4.32) इतीहैव स्यादीत्त्वम् शुक्लीभवतीति; मालीभवतीत्यत्र तु न स्यात्। `यस्येति च' (6.4.148) इतीहैव स्यादकारलोपः वाक्षिः, प्लाक्षिरितित, वालाकिरित्यत्र तु न स्यात्। तस्माद्यावत् किञ्चिदवर्णमात्रमिह शास्त्रे तस्य सर्वस्य विवृतत्वं प्रतिज्ञायत
इति प्रदर्शनार्थ शास्त्रग्रहणं कृतम्। ननु च सत्यपि सावर्ण्ये नैवानुवृत्तिनिर्देशस्थेनाकारेण सवर्णानां ग्रहणं सिध्यति; अनण्त्वात्। न ह्यनुवृत्तिनिर्देशे येऽकारादयस्तेऽणः, किं तर्हि ? ये अक्षरसमाम्नाये। जातिपक्षाश्रयाददोष इति चेत् ? न; जातिपक्षे ग्रहणकशास्त्रस्य प्रत्याख्यानान्नैष दोषः। इह हि व्यक्तिषु द्वयमस्ति--
सादृश्यम्,भेदश्च। तत्र कदाचित् किञ्चित्प्राधान्येन विवक्ष्यते, यदा सादृश्यं
विविक्ष्यतेतदा तस्य भागस्य सदृशस्य सर्वासु व्यक्तिषु समानत्वादशेषव्यक्त्या-
क्षेपो भवति; भेदस्यापरामृष्टत्वात्। सोऽयं प्रत्याहारे सदृशभागः प्रधान उपदेश इति सर्वासामवर्णव्यक्तीनामनुवृत्तिनिर्देशस्थानामण्त्वमुपपद्यते। कः पुनरस्य
सादृश्यस्यावर्णजातेश्च विशेषः ? अयमस्ति विशेषः- एतच्च सादश्यं
ह्रस्वास्वेवावर्णव्यक्तिषु वर्त्तते, न दीर्घप्लुतासु। अवर्णजातिस्तु दीर्घप्लुता-
स्वपि वर्त्तत इति गतमेतत्।
अथ कथमेतदवगम्यते अकार इह शास्त्रे विवृतः प्रतिज्ञायत
इत्यत आह- `तस्य' इत्यादि। यदि पूर्वं निवृतोऽकारो न प्रतिज्ञायेत, ततस्तस्याप्रयोगार्थम् `अ अ' (8.4.68) इत्यनेन प्रत्यापत्तिं न कुर्यात्। स्वरूपाद्धि प्रच्युतस्यपुनस्तत्प्राप्तिः- प्रत्यापत्तिः, सा कथमविचलितस्वरूपस्यैवोपपद्येत ? अथ वा, यदि विवृतः प्रतिज्ञायते, तदा तस्य शास्त्रस्य परिसमाप्तावपि तथाभूतस्यैव प्रयोगः
स्यात् ? इति पूर्वपक्षमाशङ्क्याह- `तस्य' इत्यादि। अर्थशब्दो निवृत्तिवचनः, यथा-मशकार्थो धूम इति। तस्य विवृतस्य प्रयोगनिवृत्तिर्यथा स्यादित्यर्थः। अथ वा - अर्थ-
शब्दः प्रयोजनवचनः, तस्येत्यनेन संवृतः प्रत्यवमृश्यते, प्रयोगोऽर्थः प्रयोजनं
यस्य तत् तथोक्तम्। क्रियाविशेषणत्वान्नपुंसकत्वम्। तदेतदुक्तं भवति- तस्य संवतस्य स्वरूपात् प्रच्युतस्य प्रयोगनिमित्तं प्रत्यापत्तिः करिष्यते; यतः शास्त्रपरि-
समाप्तौ ततो न भवति तथाभूतस्यैवायं प्रयोगः इति।

2.ऋलृक।
`तस्य ग्रहणं भवति त्रिभिः' इति। कथं त्रिभिर्ग्रहणं लभ्यते? यदि समुदायानुबन्धः, अवयवानुबन्धो न; अथ चावयवानुबन्धः, न तदा समुदायानुबन्ध इत्येकनैव
ग्रहणं स्यात्‌ ? नैष दोष; प्रतिज्ञया त्वनुबन्धानां व्यवहारः। प्रतिज्ञा तु
पौरुषेयी, पुरुषश्चोभयत्र प्रतिज्ञानं कुर्वन्न विरमति; विरोधाभावात्। न हि समुदायानुबन्धता अवयवानुबन्धप्रतिज्ञया विरुध्यते, इतरया न चेतरेति। तस्माद्युक्तमुक्तम्-
त्रिभिर्ग्रहणं भवतीति। एवं सर्वत्र योजनीयम्।
इह शास्त्रे वर्णानुमुपदेशः प्रयोजनवशात्। लृकारोपदेशस्य न किञ्चित् प्रयोजनं सम्भवतीत्यभिप्रायेणाह- `अकारादयो वर्णाः' इति। प्रयुज्यते इति प्रयोगः=
धात्वादिः; अनन्यत्रभावो विषयार्थः, प्रचुरः प्रभूतः प्रयोगो विषयो येषामिति
बहुव्रीहिः। अथ वा, प्रयुक्तिः= प्रयोगः उच्चारणम्, तस्य विषय इति षष्ठीसमासः। तस्य प्रचुरशब्देन बहुव्रीहिः। `तेषां सुज्ञानमुपदेशे प्रयोजनं पृच्छयत इति, अस्य वचन-
स्यावकाशनिरासार्थमुक्तम्. यदि ह्येतन्नोच्येत, लृकारस्यैव तु केवलं प्रयोजनं


प्रच्छ्यत इति, तदा स्यादस्य वचनस्यावकाशः।
`लृकारस्तु क्लृपिस्थ एव प्रयुज्यते' इति। तुशब्दोऽकारादिभ्यो विशेषार्थः। स्यादेतत्- क्लृपिसम्बन्धिनस्तस्य यान्यच्कार्याणि तदर्थमुपपेशः कर्त्तव्य इत्यत
आह- `क्लुपेश्च' इत्यादि। यद्यसिद्धत्वं ततः किमित्याह- `तत्र ऋकार एव' इत्यादि। `लत्वविधानाद्यानि' इत्यादि। लत्वं विधीयते येन शास्त्रेण तल्लत्वविधानम्। करणे
ल्युट्। अथ वा-भावे विधिर्विधानम्। लत्वस्य विधानमिति षष्ठीसमासः। `ततदः पराणि'
इत्यादि। एतेन लत्वस्य तेषु सिद्धत्वं दर्शयति। पूर्वत्र हि परमसिद्धम्, न तु
परस्मिन् पूर्वम्। `क्लृ3प्तशिखः' इति। क्लृप्ता शिखा यस्येति बहुव्रीहिः।अत्र
`गुरोरनृतः' (8.2.86) इत्यादिना प्लुतो विधीयते। स च `अचश्च' (2.1.88)
इत्येवं स्थानिनमुपस्थापयति। लृकारस्याक्ष्वनुपदेशादसत्यच्त्वे स न स्यात्। `प
प्रक्लृप्तः' इति। अत्र `निपाता आद्युदात्ताः' (फि.सू. 4.80), `उपसर्गाश्चा-
भिवर्जम्' (फि.सू.4.81) इति प्रशब्दाकार उदात्तो भवति। लृकारोऽपि धातुस्वरेण
उदात्त एव। निष्ठाप्रत्ययस्वरे कृते `अनुदात्तं पदमेकवर्जम्' (6.1.158) इति
पश्चात् सोऽनुदात्तो भवति। `कुगतिप्रादयः' (2.2.18) इति समासे कृते समासान्तरोदात्तत्वे प्रसक्ते `कतिरनन्तरः' (6.2.49) इति पूर्वपदप्रकृतिभावेन प्रशबद् एवोदात्तः, तस्मात् परस्य लृकास्य `उदात्तादनुदात्तस्य स्वरितः' (8.4.66) इति स्वरितत्वं विधीयते, तदसत्यचत्वे न स्यात्; तस्याज्ध्रर्मत्वात्। `क्लृप्तः' क्लृप्तवान्' इति।
`अनचि च' (8.4.47) इति अच उत्तरस्य यरो द्वर्वचनं विधीयते, तदप्यनच्त्वे न स्यात्
। यदुक्तम् `क्लृपिस्थ एव प्रयुज्यते' इति, तद्विघटयन् प्रयोजनान्तरं दर्शयितुमाह- `यच्च' इत्यादि साधुशब्दोच्चारणशक्तेरन्या शक्तिः अशक्तिः, ततो जातम्-अशक्तिजम्। `तदनुकरणस्यापि साधुत्वमिष्यते' इति। अर्थभेदेन शब्दान्तरत्वात्, शिष्यप्रयुक्तत्वाच्च, तदन्यसाधुशब्दवत्। ननु चानुकार्यस्यासाधुत्वादनुकरणस्यासाधुत्वेन भाव्यम् `प्रकृतिवदनुकरणं भवति' इति वचनात्, नैतदस्ति; शास्त्रीया हि तत्र प्रकृतिराश्रीयते।
प्रकृतिवदिति च शास्त्रनिबन्धनमेव कार्यमतिदिश्यते। न चाशक्तिजमसाधुशब्दरूपं
शास्त्रीया प्रकृतिः, नाप्यपशब्दत्वं शास्त्रनिबन्धनं कार्यम्। न हि शक्यं व्याकरणेनाप्यपशब्दत्वमाख्यातुम्, तस्य साधुशब्दसंस्कारायैव प्रवृत्तत्वात्। तस्माद-
पशब्दसयाप्यनुकरणं साध्वेव। तत्र तत्स्थस्यापि लृकारस्याच्कार्याणि न स्युः, यद्य7ु तस्योपदेशो न स्यात्। `कुमार्य्लृतकः'इति। आत्राच्त्वे सति लृकारस्य तत्र परतो यणादेशो भयति। ननु च `इको यणचि' (6.1.77) इत्यत्र संख्यातानुपदेशोऽपि लृकारोपदेशस्य
प्रयोजनमुपपद्यत एव। असति लृकारोपदेशे तस्य युक्तं प्रयोजनम् ? न चैतदस्ति; मा भूत्संख्यातानुदेशः, असत्यपि तस्मिन् `स्थानेऽन्तरतमः'(1.1.50) इति परिभाषया व्यवस्था
भविष्यति। इत्संज्ञा तर्ह्यपरं पर्योजनम्, उपदेशे ह्यसति `गम्लृ सृप्लृ गतौ' (धा.पा.982,983) इत्यादिषु `उपदेशेऽजनुनासिकः' (1.3.2) इतीत्संज्ञा न स्यात्। तस्यां
चासत्यां `पुषाविद्युताद्यलृदितः परस्मैपदेषु' (3.1.55) इति अङ् न स्यात्, नैतदस्ति; असत्यप्युपदेशे अस्मादेव लृदितो धातोरङ्गविधानादित्संज्ञा विधास्यते इति नाक्षु
प्रयोजनमुपदेशस्य। तस्मात् पूर्वोक्तान्येव प्रयोजनानि। तानि च ऋकारलृकारयोः सवर्ण-
संज्ञा वक्तव्येत्येतदनाश्रित्योक्तानि। अत्र ह्याश्रिते सत्यस्त्यपि लृकारोपदेशे `
 अणुदित्सवर्णस्य च' (1.1.69) इति ऋकारेण गृह्यमाणे लृकारस्य ग्रहणादेव सिध्यन्ति।

3. एओङ्।
`पूर्वाश्च' नोक्तम्, पूर्वेरस्य ग्रहणासम्भवात्। अथ `षिद्भिदादिभ्योऽङ्' (3.3.104) इत्यत्राकारेणास्य कस्माद्ग्रहणं न भवति? तत्र केचिदाहुः-`आदिरन्त्येन
सहेता' (1.1.71) इत्यत्र `अणुदित्सवर्णस्य चाप्रत्ययः' (1.1.69) इत्यतोऽप्रत्यय-
ग्रहणमनुवर्त्तते, तेनायमर्थः सम्पद्यते- आदिरन्त्येन ग्राहको भवति, न चेत् प
प्रत्ययो भवतीति। प्रत्ययश्चायम्, तेन ग्राहको न भवति। एव़ञ्च `सुप्तिङन्तं पदम्' (1.4.14) इत्यावावपि प्रत्ययो ग्राहको न स्यात्। तस्मादनभिधानादिह प्रत्याहारग्रहणं न भवतीति वेदितव्यम्। अभिधानलक्षणा हि कृत्तद्धितसमासा भवन्ति। न च `षिद्भिदादि-
भ्योऽङ्' (3.3.104) इति अकारादिप्रत्ययोत्पत्तौ विवक्षितार्थाभिधानं भवति। इह
तर्हि `शास इदङ्हलोः' (6.4.34)`ऋदृशोऽङि गुणः'(7.4.16) इति चाकारेण
प्रत्याहारग्रहणं कस्मान्न भवति? चिण्सदृशस्य चङसदृशस्य चाङो ग्रहणात्। `शास इदङ-
हलोः' इत्यत्र हि `भञ्जेश्च चिणि'(6.4.33) इत्यनुवर्तते। `ऋदृशोऽङि गुणः' 97.4.16)इत्यत्रापि `णौ चङ्युपषाया ह्रस्वः' (7.4.1)। अतो मण्डुकप्लुतिन्यायेन चङग्रहणेन
समानाधिकरणेनाङ विशेष्यते-चङ्यङीतीति, न चाङः चङभवति; अतिविलक्षणत्वात्। तत्र
सामर्थ्यादिवार्थो गम्यते। परपदार्थेषु हि प्रयुज्यमानाः शब्दा अन्तरेणापि इवशब्द-
प्रयोगमिवशब्दार्थ गमयन्ति, यथा-अग्निर्माणवकः, गौर्वाहीकः इति।तेनायमर्थो भवति-
चङीवाङीति, चङसदृशोऽङित्यर्थः। कश्च चङसदृशोऽङ ? यश्च्लेः स्थाने विहितः। तथा च
च्लिस्थानिकस्यैवाङो ग्रहणं सम्पद्यते, न तु प्रत्याहारस्य। एवं `शास इदङहलोः'(6.4.34)इत्यत्रापि च्लिग्रहणेनाङि विशेष्यमाणे च्लिस्थानिकस्यैवाङो ग्रहणं वेदितव्यम्। इह तर्हि `सनि च' (2.4.47) `इङश्च'(2.4.48) इति,`परिमाणाख्यायां
सर्वेभ्यः' (3.3.20) `इङश्च' (3.3.21) इति च कस्मादिकारेण प्रत्याहारग्रहणं न
भवति ? पूर्वत्र तावन्न भवति, `इको झल्' (1.2.9) इति कित्त्वविधानात्। प्रत्याहारे ह्येतस्मिन् सनि गम्यादेशविधानादिगन्तत्वाभावे गुणस्याप्राप्त्या कित्त्वविधानमन-
र्थकं स्यात्। पूर्वत्र तावन्न भवति, यदि हि स्यात्इक इति ककारेणैव प्रत्याहारं
कुर्यात्। न ह्यङन्ताद्धातोः परस्य सनः सम्भवोऽस्ति; यतः प्रत्याहारग्रहणं ङकारेणार्थवद्भवति। परत्रापि न भवति; वैयर्थ्यप्रसङ्गात्। तथा हि इकारान्तेभ्यः `एरच्'
(3.3.56) इत्यचा भवितव्यम्, उकारन्तेभ्योऽपि `ऋदोरप्'(3.3.21)इत्यपा।
लृकारान्ता न सन्त्येव। एजन्तानां प्रागेव प्रत्ययोत्पत्तेः `आदेच उपदेशेऽशिति(6.1.45)इत्यात्त्वेन भवितव्यम्, अतस्तेऽपि प्रत्ययविधानकाले न सन्त्येवेति। ऋकार एक
एवावशिष्यते, ततो यदि घञ् विधित्सितः,अपार्थकं प्रत्याहारग्रहणं स्यात्, उरित्येव
ब्रूयात्। `क्रीङजीनां णौ' (6.1.48) इत्यत्रापि क्रिणातिजयत्योः पृथगुपादानादिकरेण
ग्रहणं न भवति। इकारान्तानां मध्ये तयोरेव यता स्यादिति नियमार्थं पृथगुपादानमिति
चेत् न; एवमपि ककारेणैव प्रत्याहारं कुर्यात्, एजन्तानामात्त्वस्य सामान्यलक्षणेनैव सिद्धत्वात्। `इङधार्य्योः शत्रकृच्छ्रिणि' (3.2.130) इत्यात्रापि धारयतिना धातुना साहचर्यात् `इङ' इत धातोर्ग्रहणम्, न प्रत्याहारस्येति वेदितव्यम्।

4.ऐऔच्।
इह `आदिरन्त्येन सहेता' (1.1.71) इत्यनेन सूत्रेणाकारादीनामजित्येषा
संज्ञा विधीयते। सा च यथा इकारादीनां भवति, तथा णकारादीनामप्यनुबद्धानां स्यात्; तेषामपि तत्रोपदेशात्। ततश्च तया प्रदेशान्तरे `इको यणचि' (6.1.77) इत्येवमादौ तेषु
प्रातिपदिकेषु यथा दध्यत्रेत्यादौ यणादेशो भवति, तथा दधि णकारीयतीत्यादावपि
स्यादित्यभिप्रायेणाह- `प्रत्याहारे' इत्यादि। कथमज्ग्रहणेषु नेति कार्यमिति शेषः। `अचः' इत्यस्याः संज्ञायाः प्रदेशवाक्येषु ग्रहणानि उच्चारणानि अज्ग्रहणानि। तेषु
सत्सु णकारादीनां कथमच्कार्यं न भवेत्। भवेदेवेत्यर्थः। `आचारात्' इति। आचरणमाचारः=आचार्यप्रृत्तिः, ततो ज्ञापकान्न भवति। यदयम् `उणादयो बहुपलम्' (3.3.1),
`तृषिमृषिकृशेः काश्यपस्य' (1.2.25), `ङमोह्रस्वादचि ङमुण् नित्यम्' (8.3.32),
`ङसिङसोश्च' (6.1.110) इति णकारादिषु परतो यणादेशं न करोति, ततो ज्ञापयति
`सत्यामप्यच्संज्ञायामच्कार्याणि न भवन्ति' इति। अथ वा - `अजित्येषैव संज्ञैषां न
भवति' इत्येषोऽर्थोऽनया आचार्यप्रवृत्त्या ज्ञाप्यते।यदि हि संज्ञा स्यात् आचार्यस्तेष्वच्कार्याणि कुर्यात्। एवं ज्ञापकेन संज्ञाभावं प्रतिपाद्य, इदानीं न्यायेन
प्रतिपादयितुमाह- `अप्रधानत्वात्' इति। अणित्येवमादिकाः संज्ञाः प्रणेतुं तद्रूपप्रतिपादनाय अनुबन्धा उच्चार्यन्ते। ततश्च परार्थमुपादीयमानत्वादप्रधान्यमनुभवन्ति।
इतरे तु स्वार्थमुपादीयन्त इति तेषां प्राधान्यम्। तेन तेषामेवाजिति एषा संज्ञा
भवति, नानुबन्धानाम्। प्रधानाप्रधानसन्निधौ हि प्रधानमेव कार्येण सम्बन्धमनुभवति,
नेतरत्। तथा चाह भाष्यकारः- `प्रधाने कार्यसम्प्रत्ययात् सिद्धम्' इति। यद्येवम्, अकारस्याप्येषा संज्ञा न स्यात्, संज्ञाप्रतिपादने तस्याप्यङ्गभावोऽस्त्येव?
`स्वस्य च रूपस्य' इत्यनुवृत्तिसामर्थ्यात् तस्य भवतीत्यदोषः। एतेनानन्तरोक्तेन
कारणद्वयेन सा न भविष्यतीति प्रतिपादयितुमाह- `लोपश्च' इत्यादि। बलवानेव बलवत्तरः, स्वार्थे एव तरप्; `अल्पाच्तरम्' (2.2.34)इति यथा। अनुबन्धा हि इत्संज्ञकाः, तेन
तेषामच्संज्ञायाः प्रागेव `तस्य लोपः' (1.3.9)इति लोपेन भवितव्यम्; तस्य
बलवत्त्वात्। तदसतां तेषां कुतः संज्ञा? तस्याञ्चासत्यां कुतोऽज्ग्रहणेष्वच्कार्य-
स्य सम्भवः? बलवत्त्वं तु लोपस्य परत्वान्नित्यत्वाच्च। संज्ञाशास्त्राद्धि लोप-
शास्त्रं परम्, अतस्तस्यापि परत्वम्। कृताकृतप्रसङ्गत्वान्नित्यत्वम्। कृतायामपि
संज्ञायां लोपेन भवितव्यम्, अकृतायामपि। न तु लोपे कृते संज्ञा भवति, संज्ञिनाम-
सत्त्वात्। यद्येवम्, यथा अजन्तः पतिनां णकारादीनामनुबन्धानां प्रथमं लोपो भवति तथा चकारस्यापि स्यात्, ततश्चाजिति संज्ञा न निष्पद्यते? वचनसामर्थ्यात् तस्य प्राग्लोपो न भविष्यति। लुप्तेऽपि वा तस्मिन् भूतपूर्वेण तेन सहितः अकारः संज्ञा भविष्यति। अजन्तः पतिनां तु लुप्तानां णकारादीनां नार्हित संज्ञा भवितुम्; इकारादिषु
सावकाशत्वात्।
इहैते अकारादयो वर्णा अनेकावयवा इष्यन्ते `तस्यादित उदात्तमर्धह्रस्वम्' (12.32) `एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ' (8.2.107)इति वचनात्। सन्ति च केषाञ्चित् केचिदवयवा वर्णान्तरसरूपाः, तद्यथा-ऋकारे रेषः लृकारे
लकारः,एकारे च ऐकारे चाकाररेकारौ, ओकारे च औकारे च अकारोकारौ। दीर्घेष्वाकारादिषु
ह्रस्वा अकारादयः। तत्र य एते ऋकारादिवर्णानामवयवास्ते किं वर्णग्रहणेन गृह्येरनम्?न वा? तत्र पूर्वस्मिन् कल्पे-अग्ने इह, वायो उदकमित्यकः सवर्णे दीर्घत्वं
प्राप्नोति, प्रणीय, आलूयेति ह्रस्वाश्रयस्तुक्। एवमादयोऽन्त्येऽप्यचस्मिन् पक्षे दोषाः प्रसजन्ति, ते च भाष्यादवधार्याः। इतरत्र तु नुडविधिलादेशविनामेषु
ऋकारग्रहणं कर्त्तव्यम्। नुडविधौ तावत् `ऋधु वृद्धौ' (धा.पा.1245)लिट्, अनृधतुः आनुधुरित्यत्र ऋकारे रेफस्य हल्ग्रहणेनाग्रहणात् द्विहल्त्वाभावे`तस्मान्नुड द्विहलः' (7.4.71) इति नुड् न प्राप्नोति;लादेशविधौ-क्लृप्तः क्लृप्तवानिति रेफस्य `कृपो रो लः' (8.2.18) इति लत्वं न सिध्यति;विनामविधौ-मातॄणाम्, पितॄणामिति णत्वं न
स्यादित्यत आह- `वर्णेषु' इत्यादि। वर्णेषु ऋकारादिषु । `वर्णैकदेशाः' इति। रेफादय इति। वर्णात्मभूतत्वज्ञापनार्थमेकदेशा इत्युक्तम्। एतदुक्तं भवति- वर्णानामात्मभूता एकदेशा वर्णैकदेशा इति। यदि हि `एकदेशाः' इत्येतावदुच्येत, ततः कस्यचिदभ्रान्तिः
स्यात्- `अर्थान्तरभूता एवैते एकदेशाः' इति। वर्णैकदेशास्तूर्य्यादयोऽपि सन्तीति
तद्वयवच्छेदार्थमाह-`वर्णान्तरसमानाकृतयः' इति। वर्णान्तरसमानाकृतयः इति। वर्णान्तरवत् समानाकृतिर्येषां ते वर्णान्तरसमानाकृतयोऽवयवाः। ततोऽन्यैर्वर्णैरनवयवभूतै-
स्तुल्याकृतय इत्यर्थः। `तेषु' इति। वर्णैकदेशेषु । `तत्कार्यम्' इति। वर्णान्तर-
कार्य्यम्- अकः सवर्णे दीर्घत्वादि। किं पुनः कारणं न भवतीत्याह- `तच्छायानुकारिणो हि'इत्यादि। तच्छाया तदाकारः। वर्णान्तराणामकारादीनामाकारमात्रम्। तेऽनुकुर्वन्ति; तत्तुल्यरूपत्वात्, न तु त एव। न हि तदाकारानुकारित्वमात्रेणैव तत्त्वं भवति। तथा हि गवि गवयावयवानुकारिणोऽवयवाः सन्ति, न च तेषां तत्स्वभावता। किं पुनः कारणं ते त एव न भवन्तीत्याह- `पृथक्' इत्यादि। प्रयत्नः प्रयतनं स्थानकरणव्यापारः। वर्णान्तरहेतोः प्रयत्नात्पृथगन्येन प्रकारेण यं निर्वर्त्त्यं निष्पाद्यं वर्णमाचार्या इच्छन्ति, तदेते वर्णा अवयवाः। यदि वर्णाः स्युः, प्रयत्नान्तरनिर्वर्त्त्याः स्युः, न चैवम्। तथा हि- समुदायार्थो यः प्रयत्नः तेनैव ते निष्पाद्यन्ते। तदेवम्, अग्रहणक-
पक्षमाश्रयतैव ग्रहणकपक्षभाविनो ये दोषास्तेषां प्रसङः प्रतिक्षितः। ननु च ग्रहण-
पक्षोऽपि भाष्ये व्यवस्थापितः; तदनुषङ्गिणां दोषाणां परिहारात्, तत्कस्मात् स
परित्यक्तः ? बहुप्रतिविधेयत्वात्। अग्रहणकपक्षे त्वल्पं प्रतिविधेयम्। अतः स एव
वृत्तिकारेणाश्रितः।
यदि तर्हि गृह्यन्ते, नुडादिविधिषु ऋकारग्रहणं कर्त्तव्यतया स्थितमेवेत्यत आह-`नुड्‌विधिलादेशविनामेषु' इत्यादि। नुडाविधिषु यच्चोद्यमापतति ऋकारविषये तस्य
प्रतिविधानं कर्त्तव्यमित्यर्थः। तत्र नुडाविधौ तावत्-ऋकारस्य रेफो हल्ग्रहणेन
गृह्यते। तेनात्रापि द्विहलोऽङ्गस्य नुड्भवति- `आनुधतुः आनृधुः' इति। एतत्
स्वयमेव वृत्तिकारेण प्रतिपदानं कृतम्। अथ किमयमृकारस्थो रेफो वर्णात्मकः ? नेत्याह। इदानीमेव ह्रयुक्तम्- `तच्छायानुकारिणो हि ते, न पुनस्त एव'इति। ये तर्हि
हकारादयो वर्णा अक्षरसमाम्नाये उपदिष्टास्ते किं वर्णआत्मकाः ? नेत्याह। तथा हि `हयवरट्' (मा.सू.5) इत्यादौ वक्ष्यति- `इत्येतान् वर्णानुपदिश्य' इति। अथ कथमिदानीं
वर्णात्मनां हलां ग्रहणेन ऋकास्थस्यापि अवर्णात्मनो रेफस्य ग्रहणं भवति ? द्वि-
हल्ग्रहणसामर्थ्यादित्यभिप्रायः। तत्र हि `तस्मान्नुड्' इत्येतावदेव वक्तव्यम्। न
चैवमुच्यमा4ने आटतुः, आटुरित्यादावपि प्रसङ्गो भवति; `अश्नोतेश्च' (7.4.72) इत्यस्यनियमार्थत्वात्- अद्विहलो यदि भवति तदश्नोतेरेव,नान्यस्येति। अश्नातिनिवृत्त्यर्थं तदिति चेत् ?वार्त्तमेतत। यदि ह्येतावत् प्रयोजनं स्यात्, `नाश्नः' इत्येव
प्रतिषेधं कुर्यात्।तदेवमन्तरेणापि द्विहल्ग्रहणं सिद्धे यद्‌द्विहल्ग्रहणं करोति तस्यैतत् प्रयोजनम्-द्विहल्छायानुकारिणोहि यथा स्यादिति।यस्याप्येको मुख्यो हल,
अपरोऽवयवः तत्समानाकृतित्वादुपचारेण हल्‌व्यपदेशर्हः,तस्यापि यथा स्यादित्येवमर्थः। एतच्च कथं लभ्यते? यदि हलित्येषा श्रृतिस्तत्र हल्छायानुकारिण्यापि ऋकारस्थायां रेफव्यक्तौ वर्त्तते, नान्यथा। तस्माद्‌द्विहल्ग्रहणेन ऋकारस्थो रेफोऽपि गृह्यते; अन्यथा द्विहल्ग्रहणमनर्थकं स्यात्। `रेफः' इति परप्रसिद्ध्या तत्रोक्तम्। वर्णग्रहणवादिनां हि ऋकारभागोऽपि `रेफः' इति प्रसिद्धः। सादृश्यादेवमुक्तम्। भवति हि
सादृश्यादतस्मिन्नपि तद्वयपदेश- यथा- अग्निर्माणवक इति। अथ वा `रादिफः'(वा.321)
इत्यत्र `वर्णात्कारः' (वा.320) इत्यतो `वर्णात्' इति नाणुवर्त्तते, तेनावर्णात्मकादपि रादिफो भवतति, बहुलवचनाद्वा। अत एव लृकारस्थाल्लकारसरूपादवयवाद्
अवर्णात्मनोऽपि कारप्रत्ययो भवतीति वेदितव्यम्। लादेशविधावपि -`र' इति सामान्यमुपादीयते।. तेन यः केवलो रेफः यश्च ऋकारस्थः- तयोर्द्वयोरपि ग्रहणम्। `ल' इत्यपि
सामान्यमेव। ततोऽयं केवलस्य रेफस्य स्थाने केवल एव लकार आदेशो विधीयते।
ऋकाररस्याप्येकदेशविकारद्वारेण लृकारः। चथा च `लुटि च क्लृपः' (1.3.93) इत्येवमादयोनिर्देशा उपपद्यन्त इति। एतत् `कृपो रो लः' (8.2.18)इत्यत्र स्वयमेव वृत्तिकृता प्रतिपादितम्`र इति(1) सामान्यमुपादीयते' (काशिका. 8.2.18) इति। वर्णत्वावर्णत्वकृतं
भेदमुत्सृज्य यत् सामान्यवर्णात्मिकायां च रेफव्यक्तौ वर्त्तते यतस्तयोर्वर्णत्वा-
वर्णत्वभेदभिन्नयोरपि `र' इति शब्दप्रत्यौ अभिन्नौ भवतः, तावुपादीयेते; न तु
वर्णात्मिकैव रेफव्यक्तिः। `तेन' इति। सामान्योपादानेन द्वयोरपि ग्रहणं भवतीति।
तस्य सामान्यस्य द्वयोरपि सद्भावात्। `ल इत्यपि सामान्यमेव' इति। `उपादीयते' इत्यपेक्षते। अत्रापि यश्च केवलो लकारः, यश्च लृकारस्थः तयोर्द्वयोरपि ग्रहणमित्येतद्वय-
क्तव्यं स्यात्। पूर्वानुसारेण गम्यमानत्वान्नोक्तम्। `ततोऽयम्'
इत्यादि। यत एवं द्वयोरपि रेफलकारयोर्ग्रहणम्, तस्मात् केवलस्य रेफस्य स्थाने
लकारोऽयमादेशो विधीयते। अन्तरतमत्वादृकारस्यापि लृकारः। ननु च सत्यपि द्वयोरपि ग्रहणे ऋकारस्य स्थाने लृकारो भवतीत्येतत् कुतो लभ्यते? न हि ऋकारस्थो रेफ ऋकारो भवति, किं तर्हि ? तदवयवः। नापि लृकारस्थो लकार ऋकारो भवति, किं तर्हि? तदवयवः। तत्र
द्वयोरपि ग्रहणे सति ऋकारस्थस्यापि रेफस्य लृकारस्थो लकारो वर्णैकदेशतयान्तरतमो
भवतीत्येतस्य चोद्यस्यापाकरणार्थमेकदेशविकारद्वारेणेत्युक्तम्।तदेकदेश ऋकारस्यावयवो रेफसस्तस्य विकार लृकारावयवो लकारः। अथ वा एकदेश-। अथ वा एकदेशलृकारस्थो लकारः, स एव विकारः। ऋकारस्थस्य रेफस्य स एव एकदेशविकारः। द्वारं मुखम्, उपाय इति यावत्। तेन समस्तस्यैवऋकारस्य स्थाने समस्त एव लृकार आदेशो विधीयते। यदि हि ऋकारलृकाराभ्यां तत्स्थयोश्च रेफलकारयोः पृथग्भावः सम्भवेत्, तदा ऋकाररैकदेशस्य रेफस्य केवलस्य
लृकारैकदेशो लकारः केवल शक्यते विधातुम्। न च तयोस्ततः पृथग्भाव सम्भवति। तस्माद्य-
थोक्तेन प्रकारेण ऋकारस्य लृकारादेशो विधीयते। अनन्तरोक्तस्यार्थस्य दृढीकरणाय `तथा च' इत्यादेरुपन्यासः। यत एवमेकदेशद्वारेण ऋकारस्य स्थाने लृकार आदेशो विधीयते।
एवञ्च सति `लुटि च क्लृपः' (1.3.93) इत्येवमादयो निर्देशा उपपद्यन्ते, नान्यथा। आदिशब्देन `ऋदुपुपधाच्चाक्लृपिचृतेः' (3.1.110) `तासि च क्लृपः' (7.2.60) इत्येतयोर्निर्देशयोर्ग्रहणम्। विनामविधावपि `ऋवर्णाच्चेति वक्तव्यम्' (वा.946) इत्युक्त्वा
"रश्रुतिसामान्यनिर्देशाद्वा सिद्धम्। अवर्णभक्त्या च व्यवधाने णत्वं भवतीति
क्षुभ्नादिषु नृनमनतृप्नोति(1) ग्रहणं णत्वप्रतिषेधार्थं द्रष्टव्यम्। अथ वा ऋवर्णादपि णत्वं भवतीत्येदेव (2) तेन ज्ञाप्यते" (काशिका.8.4.1) इति वृत्तिकृता स्वयमेव
प्रतिविहितम्।`रश्रुतिसामान्यनिर्देशात् सिद्धम्'इति। `र' इति श्रुतिः
उपलब्धिर्यस्यस रश्रुतिः रेफः। तस्य केवलस्य ऋकारस्थस्य च वर्णत्वावर्णत्वकृतभेदं
परित्यज्य यत् सामान्यं रेफमात्रं तदिह निर्दिश्यते, न तु वर्णत्मिकैव रेफव्यक्तिः। तेन सिद्धं तिसृणाम्, चतसृणाम्, मातॄणाम्, पितॄणाम् इत्यादावपि णत्वम्;
ऋकारेऽपि तस्य रश्रुतिसामान्यस्य विद्यमानत्वात्। स्यादेतत्- ऋकारेत्रयो
वर्णावयवाः, तन्मध्ये रेपोऽर्धमात्रात्मा, तत्र रश्रुतिसामान्यस्य निर्देशेनैव
सिध्यति। यासौ रेफात् पराऽवर्णभक्तिस्तस्या व्यवधानादित्यस्य चोद्यस्य परिहारायो-
त्तरो ज्ञापकग्रन्थः- यदयं क्षुभ्नादिषु णत्वप्रतिषेधाय नृनमनशब्दं तृप्तनोति-
शब्दञ्च पठति, तेनैतज्ज्ञाप्यते `अवर्णभागव्यवधानेऽपि णत्वं भवति' इति; अन्यथा हि तत्र त्रयोः पाठोऽनर्थकः स्यात्,प्राप्त्यभावात्। प्राप्तिपूर्वकत्वाच्च प्रतिषेधानाम्। यद्यपि वर्णात्मिकैव रेफव्यक्तिर्निर्दिश्यते, तथापि सिद्धमिति दर्शयितुमाह- `अथ वा' इत्यादि। पूर्वसूत्रोपात्ताद् रश्रुतिसामान्यचनिर्देशात् परयाऽवर्णभक्त्या व्यवहितादपि णत्वं भवतीति ज्ञापितम्। इदानीं तु सूत्रानुपात्तदृकारदव्यवहितादेवे-
त्येष विशेषः।
अपरे तु- सर्वाण्येतानि प्रतिविधानानि वर्णैकदेशग्रहणकपक्षमाश्रित्य विहितानीत्याचक्षते, एतच्चासम्यक्; यं हि पक्षमाश्रित्य `नुड्‌विधिलादेशविनामेषु ऋकारे
प्रतिविधातव्यम्‌' (वा.1)इत्युक्तं तत्रैव प्रतिविधातुं युक्तम्; अन्यथा ह्यग्रहणकपक्षमभ्युपेत्य ग्रहणकपक्षेऽपि प्रतिविधानं कुर्वता वृत्तिकारेणाकौशलमेव केवलमा-़
मात्मनः प्रकटितं स्यात्।।

5. हयवरट्।
`तस्य ग्रहणं भवत्येकेन `शश्छोऽटि'इत्यकारेण इति। अत्र `शश्छोऽटि'
(8.4.63) इत्येतत् प्रदेशवाक्योपलक्षणं द्रष्टव्यम्। एवंजातीयकेषु निर्देशेष्वकारेण ग्रहणं भवति, न तु वर्णान्तरेणेत्यत्रायमर्थोऽभिप्रेतः। न त्वत्रैव सूत्रे अकारेण ग्रहणं भवतीति, `अट्कुप्वाहनुम्वयवायेऽपि' (8.4.2) Flf दीर्घादटि' (8.3.9)
इत्यत्राप्यकारेण ग्हणस्येष्टत्वात्। अथ `लुङलङलृङक्ष्वडुदात्तः'(6.4.71)
इत्यत्राप्यकारेण ग्रहणं कस्मान्न भवति? `प्राक्सिताद़ड्‌व्यवायेऽपि' (7.3.63) इति वचनात्। प्रत्याहारे ह्येतस्मिन्नकारादीनां योऽन्यमतस्ते नालोऽन्त्यपरिभाषयाङ्गान्तरस्य भवितव्यम्; प्रत्येकमट्‌संज्ञकत्वात्, प्रत्येकमेवाकारादीनामादेशत्वात्।
तथा चान्त्यग्रहणेन ग्रहणादड्व्यवधानं नोपपद्यते। अथ प्रत्येकमप्यसंज्ञकत्वे समस्तानामप्यादेशभावः प्रकल्प्येत, एवमनेकाल्त्वात् सर्वादेशः स्यात्, तथा च स्थान्यपि
सकारो न स्यादिति कस्य केन व्यवधानान्मूर्धन्यो बवेदभ्यषुणोदित्यत्र ? अथ `आर्धधातुकस्येड् वलादेः' (7.2.35) इत्यत्रेकारेणास्य ग्रहणं कस्मान्न भवति ? `तत्र विदित
इति च' (5.1.43) इति निर्देशात्। प्रत्याहारे ह्येतस्मिन् न `आदेः परस्य ' (1.1.54) इति इकारादीनामन्यतमस्तकारस्यादेशः स्यात्, तथा च विदितमिति रूपं नोपपद्यते। अथ
`दीधीवेवीटाम्' (1.1.54) इत्यत्रापीकारेण ग्रहणं कस्मान्न भवति? `जयति' `सम्भवति'
`अवहरति'इत्येवमादिनिर्देशात्। प्रत्याहारे ह्येतस्मिन् गुणप्रतिषेधादेवमादयो
निर्देशा न सम्भवेयुः।
यकारात्परस्य रेफस्योपदेशे सति यो दोषस्तमुद्भावयितुकाम आह- `अयम्' इत्यादि परोपदेशस्तु वल्यन्तर्भावात् `जीवेरदानुक्' (द..1.163) जीरदानुः, `गोधायाः ढ्रक्' (4.1.129) गौधेर इत्यत्र `लोपो व्योर्वलि' (6.1.66) इति व्योर्लोपो यथा स्यात्, रल्ग्रहणे च वकारस्य ग्रहणं मा भूदित्येवमर्थश्च । यदि हि वकारात् पूर्वो रेफ
उपदिश्येत्, `रलो व्युपधाद्धलादेः संश्च' (1.2.26) इति देवित्वा विदेविषतीत्यत्र
कित्वं वा स्यात्। ननु च क्रियमाणेऽपि रस्य यकारात् परोपदेशे प्राप्नोत्येव
वकारस्य रल्ग्रहणेन ग्रहणम्, जशामपि मध्ये तस्योपदेशात् ? नैतदस्ति; उभयोर्भिन्नगुणनिष्पाद्यत्वात् भेदस्य सिद्धत्वात्। यथोक्तम्--`(1)पृथक्प्रयत्ननिर्वर्त्यवर्णमि-
च्छन्ति' इति। अन्तःस्थत्वेनेषत्स्पृष्टकरणत्वादितरस्य च स्पर्शत्वेन स्पृष्टकरण-
त्वात्। अयञ्च दन्त्योष्ठ्यो वकारः।
यस्तु `जबगडदश्' (मा.सू.10) इष्यते, स ओष्ठयो वेदितव्यः। ननु च वकारेण
व्यवधनान्नयं यकारात् परः, किं तर्हि ? वकारात् पर इति। तत् किमुच्यते यकारात् पर
इति? व्यवधानेऽपि परशब्दो वर्त्तते, यथा-बाल्यात् परं वृद्धत्वमित्यदोषः। अत्र यौवनेन व्यवहितेऽपि वृद्धभावे परशब्दस्य वृत्तिः. यदि यकारात् पर उपदिश्यते ततः
किमित्याह- `तस्य यर्ग्रहणेन' इत्यादि। यरित्यस्याः संज्ञाया ग्रहणेनोच्चारणेन, तथा ययितत्यस्याः संज्ञाया ग्रहणेनोच्चारणेनेत्यर्थ-। अथ वा- यरां संज्ञानां ग्रहणेनोपदानन , ययां संज्ञिनां ग्रहणेनोपादानेनेत्यर्थः। `ग्रहणे सति' इति। उपादाने सति।
तद्ग्रहणेन तु तद्ग्रहणम्, तस्यापि तत्संज्ञकत्वात्; तदन्तर्भावाच्च।स्वर्नयती-
त्यत्र `ऋटुरषा मूर्धन्याः' इति तुल्यस्थानत्वाद् रेफस्य नकारे परे परसवर्णो णकारा
देशो भवति, विशेषानभिधानात्। ननु चैवं सति स्थानेऽन्तरतमपरिभाषा बाध्येत; न ह
रेफस्यान्तरतमो णकारः प्रयत्नभेदात् ? नैतदस्ति; `व्यक्तिः पदार्थः' इत्येतद्धि
दर्शनमाश्रित्य चोद्यते। तेन स्थानेऽन्तरमपरिभाषया बाधानाशङ्कनीया।
यत्र ह्यन्तरतमोऽनन्तरतमश्च विद्यते तत्र तस्या व्यापारः। न चेहान्तरतमोऽस्ति,
यस्माद्वयक्तौ पदार्थे प्रतिलक्ष्यं लक्षमं प्रवर्त्तते। आनन्त्यात् सर्वाणि लक्षणानि नोच्चार्यन्ते। तत्र यदेतद्विषयं लक्षणं तत् प्रयत्नभेदादन्तरतमेऽपि णकारे यदि न प्रवर्तते, तदा यस्य वैयर्थ्यमेव स्यात्। तस्माज्जातौ पदार्थे इयं परिभाषा
वेदितव्या,न तु द्रव्ये। `मद्रह्दो भद्रह्रदः' इति। अचो हकारादुत्तरोऽयं रेफो यर् भवतीति द्विर्वचनं प्राप्नोति, `अचो रहाभ्यां द्वे' (8.4.46) इत्यत्र `यरोऽनु-नासिकेऽनुनासिको वा' (8.4.45) इत्यतो यरित्यनुवर्त्तते, तत्र द्विर्वचने सति द्वयोः
रेफयो श्रवणं स्यात्। `रो रि' (8.3.14) इत्येकस्य लोपो भविष्यतीति चेत्? न;
लोपे कर्त्तव्ये द्विर्वचनस्यासिद्धत्वात्। `हलो यमां यमि लोपः' (8.4.64) इत्यनेन
तर्हेयकस्य लोपो भविष्यति? सिद्धं ह्यस्मिंल्लोपे द्विर्वचनम्। एवमपि पक्षे द्वयो
रेफयोः श्रवणं प्रसज्येत। तत्र हि `झयो होऽन्यतरस्याम्'(8.4.62) इत्यतो-
ऽन्यतरस्यांग्रहणमनुवर्तते। अथापि तन्नानुवर्त्तेत ? एवमपि द्विर्वचनविधान्-
सामर्थ्याल्लोपो न भविष्यति। अन्यथा हि द्विर्वचनविधानमनकर्थकं स्यात्।
`कुण्डं रथेन' इति। `अनुस्वारस्य ययि परसवर्णः' (8.4.58) इति तदन्यस्य परसवर्णस्यासम्भवाद्रेफस्य रेफ एव परसवर्णः स्यात्। `रेफोष्णणां सवर्णा न सन्ति' इति ट
रेफस्य सवर्णो न भवतीत्येतच्च नाशङ्कनीयम्; वर्णान्तरपेक्षया तदुक्तम्,
वर्णान्तराणां यथायोगमतुल्यस्थानप्रयत्नत्वात्। रेफव्यक्तीनां तु परस्परापेक्षया सावर्ण्यमस्त्येव; तुल्यस्थानप्रयत्नत्वात्।
अन्ये तु-`ययि रेफ अनुस्वारस्य परसवर्णो णकारः स्यात्, तुल्यस्थानत्वात्'
इति वर्णयन्ति; एतच्चायुक्तम्; न हि स्थानमात्रतुल्यतया सवर्णो भवति। किं तर्हि ?
तुल्यस्थानतया, तुल्यप्रयत्नतया च। न च रेफस्य णकारतुल्यप्रयत्नः; रेफस्येषत्स्पृ-
त्वात्, णकारस्य च स्पृष्टत्वात्। एवं व्यक्तिपदार्थमाश्रित्य परेण चोदिते जाति-
पदार्थमाश्रित्य परिहारं वक्तुकाम आह- `नैष दोषः' इत्यादि। आकृताविति जातावित्यर्थः। केषाञ्चित् जातिः पदार्थः,केषाञ्चिद् द्रव्यम्, पाणिनेस्तूभयम; लक्ष्यानुरोधात्। तत् क्वचित् किञ्चिदाश्रीयते। तत्र जातौ पदार्थ आश्रीयमाणे जातिरेव शब्देनाभिधीयते, नान्तरीयकत्वात्तु तदाधारा व्यक्तयः प्रतीयन्ते; जातेराधारमन्रेण प्रत्येतुमशक्य-
त्वात्। एतस्मिन् दर्शने तस्यास्तु जातेः स्थानित्वमादेशत्वं परत्वमव्यवहितत्व-
मित्यायो धर्माः शब्दसंस्कारोपयोगिनो व्यक्तिद्वारकाः। तेन `यरोऽनुनासिकेऽनुनासि-
को वा' (8.4.45) इत्येवमादिलक्षणं प्रवर्त्तमानं जातिमतीषु व्यक्तिष्वेव
प्रवर्त्तते, तत्र प्रवृत्तेर्जातौ प्रवृत्तं भवति। न च तासु व्यक्तिषु जातिं प्रति कासाञ्चिदासत्तिर्विप्रकर्षो वा; यतः क्वचिदेव प्रवर्त्तेत; न सर्वत्र; सम्बन्ध-
स्याविशिष्टत्वात्। तस्मात् तत्र प्रवर्त्तमानं यत्र वचनान्तरेण न्यायेन वा न
बाध्येत,तत्र सर्वत्रैव प्रवर्त्तते। एवञ्च प्रवृत्तं समुदाये प्रवृत्तं भवति।
`सकृत्' इति। एकवारम्, न पुनः पुनः; सकृत्प्रवृत्त्यैव लक्षणस्य च चरितार्थत्वात्। एतस्मिन् दर्शने `यरोऽनुनासिकेऽनुनासिको वा' (8.4.45) इत्येतल्लक्षमं कथं
प्रवर्त्तेत? किमविशेषेण सर्वेष्वेव जातिमत्सु पदार्थेषु प्रवर्त्तते ? उत विशेषेण केषुचिदेव ? यद्यविशेषेण स्यात्, स दोषस्तदवस्थ एव। अथ विशेषेण वाच्यः, तर्हि
सविशेष इत्यत आह- `यरोऽनुनासिके' इत्यादि। एतेन स्थानेऽन्तरतमपरिभाषाया
उपस्थानात् तद्वशेनान्तरतमेष्वेव प्रवर्त्तते, नान्येष्विति दर्शयति- `तदनेन'
इत्यादि। यत एवान्तरतमेष्वेव प्रवर्त्तते, तस्मादनेन लक्षणेन गकारादीनां
येऽन्तरतमाः स्थानगुणाभ्यामुभाभ्यामपि ते ङकारादयोऽनुनासिका विहिताः।`यथास्वम्'
इति। यथात्मीयमिति। ये येषामन्तरतमास्ते तेषां विहिता इत्यर्थः। `गकारादीनाम्'इति। आदिशब्देन जाकारादीनां ग्रहणम्।`ङकारादयः' इत्यत्रापि आदिशब्देन ञकारादयोऽनुनासिका गृह्यन्ते। तत्र स्थानतो गुणतश्चान्तरतमाः। तद्यथा- गजडदबानां यथाक्रमं ङञणनमाः।
तथा हि- `अकुहविसर्जनीयाः कण्ठ्याः' इति गकारङकारयोस्तुल्यं कण्ठः स्थानम्।
`इचुयशास्तालव्याः' इति जकारञकारयोस्तालु।`ऋटुरषा मूर्द्धन्याः' इति ङकारणकारयो-
र्मूर्धा। `लुतुलसा दन्त्याः' इति दकारनकारयोर्दन्तः। `उपूपध्मानीया ओष्ठ्याः' इति बकारकमकारयोरोष्ठः। गुणस्तु सर्वेषामेषवैषां तुल्यः; `स्पृष्टं करणं स्पर्शनाम्'
इति। कादयो मावसानाः स्पर्शाः। `ये तु न स्थानतो नापि गुणतः' इति। अन्तरतमा
इत्यपेक्षते। `ते सर्वे निवर्त्तिताः' इत्यनेन वक्ष्यमाणेन सम्नब्धः। अविधानमेवैषां निवर्त्तनम्। `स्थानमात्रेण गुणमात्रेण वा' इति। तत्राप्यन्तरतमा इत्यपेक्षते।
पूर्ववच्च सम्बन्धः। तत्र नापि स्थानतो नापि गुणतोऽन्तरतमा अनुनासिकाः, ते यथा-
गजडानां यवलाः सानुनासिकाः, निरनुनासिकाश्चापि, ते तेषां स्थानगुणाभ्यामनन्तरतमा एव। सानुनासिकग्रहणं तु `यरोऽनुनासिके' (8.4.45) इत्यादौ सूत्रेऽनुनासिक्सयादेशत्वेनोपादानात्। तत्र गकारयकारयोर्यथाक्रमं कण्ठतालुस्थानत्वात् स्थानत आन्तरतम्यं
नास्ति; जकारलकारयोस्तालुदन्तस्थानत्वात्, डकारयकारयोर्यथाक्रमं कण्ठतालुस्थान-
त्वात् मूर्धदन्तोष्ठस्थानत्वात्। गुणतोऽपि तेषां नास्त्यान्तरतम्यम्; गकारादीनां स्पृष्टकरणत्वात्, यकारादीनामीषत्स्पृष्टकरणत्वात्; `ईषत्स्पृष्टं करणमन्तःस्थानम्' इति। वचनात्। अन्तस्था यरलवाः। स्थानमात्रेणान्तरतमा अनुनासिकाः। तद्यथा- जदबानां यँलँवाँः सानुनासिकाः। अत्र जकारस्य यकारस्तुल्यस्थानः; तयोस्तालुस्थानत्वात्।
दकारस्य लकारः; तयोर्दन्तस्थानत्वात्। बकारस्य वकारः; उभयोरोष्ठस्थानत्वात्।
यदप्यन्तःस्थस्य वकारस्य `दन्ताः'- स्थानमधिकम्, तथापि यत्र तयोस्तुल्यस्थानमोष्ठः, तत्कृतमान्तरतम्यमस्त्येव, उकारौकारवत्- उकारस्य ओष्ठस्थानम्, ओकारस्य तु
कण्ठोऽपि, `ओ औ कण्ठ्योष्ठ्यौ' इति वचनात्; तथापि यत्तयोस्तुल्यं स्थानम् ओष्ठस्त-
त्कृतमान्तरतम्यं भवत्येव। यथा च तयोरेकस्य स्थानाधिक्येऽपि आन्तरतम्यम्, तथा बकारवकारयोरपि । गुणमात्रेणान्तरतमा यथा- जबजानां ङणनाः; सर्वेषां स्पृष्टतागुणत्वात्। स्थानतस्तेषामान्तरतम्यं नास्ति; जबडानां यथाक्रमं ताल्वोष्ठमूर्धस्थानत्वात्, ङणनानान्तु कण्ठमूर्धदन्तस्थानत्वात्। `इति' इत्यादि। इतिकरणो हेतौ। यत एवं स्थान-
गुणाभ्यां येऽन्तरतमास्त एवानेन विहिताः, अन्ये तु सर्वे निवर्त्तिताः। तस्मात्
स्थानमात्रेणान्तरतमो रेफस्य णकारो न भवति। स्थानमात्रेणान्तरतमत्वञ्चोभयोर्मूर्ध-
स्थानत्वात्। गुणतस्त्वान्तरतम्यं नास्ति; स्पृष्टतादिगुणभेदाच्च। `रेफस्य यरन्त-
र्भावे सति' इति। यर्कार्यप्राप्तेरयं हेतुः। `यर्कार्यं प्राप्तम्' इति। द्विर्वचनमित्यर्थः। तद्धि यरन्तर्भावात् रेफस्य प्राप्नोति यथाऽन्येषां यराम्। `तत्'
इत्यादि। रेफस्य द्विर्वचनं प्रति निमित्तभावः साक्षाच्छिष्टः = प्रत्यक्षविहितः, `अचो रहाभ्याम्' (8.4.46) इति साक्षाद्रेफं निमित्तत्वनोपादाय द्वर्वचनविधानात्।
यर्कार्यन्तु यरन्तर्भावादनुमितम्। `प्रत्यक्षानुमितमोश्च प्रत्यक्षं बलीयः' कात.प.95) इति साक्षाद्विहितेन निमित्त साक्षाद्रेफं निमित्तत्वेनोपादाय द्विर्वचन-
विधानात्। यर्कार्यन्तु यरन्तर्भावादनुमितम्। `प्रत्यक्षानुमितमोश्च प्रत्यक्षानुमितमोश्च प्रत्यक्षं बलीयः' (कात.प.95)इति साक्षाद्विहितेन निमित्तभावेन रेफस्य
द्विर्वचनं बाध्यते; तद्यथा-ब्राह्मणा भोज्यन्ताम्, माठरकौण्डिन्यौ परिवेविष्टामितिअत्र हि साक्षाद्विहितेन परिवेषणं प्रति साधनभावेन माटरकौण्डिन्ययोर्ब्राह्मणत्वाद्योऽनुमितो भोजनं प्रति साधनभावः स बाध्यते। यद्येवम्; दध्युदकादिषु दोषः। `इको
यणचि' (6.1.77) इत्यत्र ह्यजन्तर्भावादिको यणादेशं प्रति निमित्तभावोऽनुमीयमानः। यणादेशस्तु साक्षाच्छिष्टः; `इकः' इत साक्षादिकं कार्यिममुपादाय विधानात्। ततश्च
साक्षाच्छिष्टेन तेन निमित्तभाव इको बाध्यते। तत्र व्यक्तेः पदार्थस्याश्रितत्वा-
ददोषः। व्यक्तौ पदार्थे प्रतिलक्ष्यं लक्षणं प्रवर्त्तत इत्युक्तम्। भूदेष दोष इति लक्षममप्येकमेव, यच्चार्क्कः मर्क्क इत्यादौ चरितार्थम्। अतो यद्यपि मद्रह्रवादौ
द्विर्वचनं न विदधाति, तथापि न भवति वैयर्थ्यप्रसङ्ग इति। `न द्वरुच्यते रेफः' इति।इतिकरणेनानन्तरोक्तस्यार्थस्य द्विर्वचनाभावं प्रति हेतुभावो द्योत्पते।
`अनुस्वारस्य'इत्यादि। न केवलं `यरोऽनुनासिकेऽनुनासिको वा' (8.4.45)इत्येतदन्तरतमं सकृदेव प्रवर्त्तमानं विदधाति, अपि तु `अनुस्वारस्य ययि परसवर्णः' (8.4.
58) इत्येतदपि इति `अपि' शब्दस्यार्थः। स्यादेतत्- यद्यप्यन्तरतमं विदधाति, तथापि
भवितदव्यमेवात्र रेफेण परसवर्णेन। तस्याप्यन्तरतमत्वादित्यत आह- `न च' इत्यादि। न च रेफस्य सवर्णोऽस्तीति सम्बन्धः; किंविशिष्टो नास्ति? अनुस्वारान्तरतमः।
अनुस्वारस्य सदृशतम इत्यर्थः। इति हेतोर्न भवति कुण्डं रथेनेत्यत्र परसवर्णः। कथं
पुनरनुस्वारान्तरतमः, सवर्णो रेफस्य नास्ति? उच्यते- रेफस्य रेफ एव सवर्णः, नान्यो वर्णः। स चानुस्वारस्यान्तरतमो न भवति; स्थानभेदाद्गुणभेदाच्च। रेफस्य हि मूर्धा
स्थानम्, अनुस्वारस्य पुनः `अनुस्वारयमा नासिक्याः' इति इष्यते, नान्येषाम्। यद्यपिवर्गाणां तृतीयचतुर्था अन्तःस्था हकारानुस्वारौ च यमौ च तृतीयचतुर्थौ नासिक्याश्च
संवृतकण्ठा नादानुप्रदाना घोषवन्तश्चेति बाह्यप्रयत्नाख्येन गुणेन संवतकण्ठत्वादिना अनुस्वारान्तरतमो रेफः सवर्णः सम्भवति, तथापि न कगुणमात्रेणान्तरतममेतल्लक्षणम्
परसवर्ण विधातुमुत्सहते। यत्र स्थानतो गुणतश्चान्तरतमास्तत्रानुस्वारस्य परसवर्णाः सन्ति; शङ्कितः, कुण्ठित इत्यत्र चरितार्थत्वात्। अत्र स्थानतोऽप्यनुस्वारस्य नासिकास्थानस्य ङणावन्तरतमौ; तयोरपि नासिकास्थानत्वात्। `ञमङणनाः स्वस्थाना नासिकास्था-नाश्च' इति वचनात्। गुणतोऽपि; तेषां पूर्वोक्तैरनुस्वारगुणैरनुगतत्वात्,`यथा
तृतीयास्तथा पञ्चमाः' इति वचनात्। अनेन हि `वर्गाणां तृतीयचतुर्थाः' इत्यादिना
ग्रन्थेन येऽनुस्वारसाधारणा वर्गतृतीयानां गकारादीनां गुणा उक्तास्ते ङकारादीनां
निर्दिश्यन्ते। गुणमात्रेणाप्यन्तरतमं विदध्याद्रेफम्, यद्यसकृत् प्रवर्त्तते तत्। मा भूत् पुनः पुनः प्रवृत्तिरपार्थिकेति कृत्वा न चासकृत् प्रवर्त्तत इत्युक्तम्। `उरःकेण'इत्यादि। उरः कायति, उरः पाति। `कै शब्दे'(धा.पा.916), `पा रक्षणे'
(धा.पा.1056) इत्याभ्याम् `आतोऽनुपसर्गे कः' (3.2.3) `आतो लोप इटि च'(6.4.64)
इत्याकारलोपः, उपपदसमासः, सुब्लुक्, `ससजुषो रुः' (8.2.66) तस्य `खरवसानयोर्विसर्ज-
नीयः। (8.3.15), `कुप्वोः क पौ च' (8.3.37) इति यथायोगं विसर्जनीयावुपध्मानीय-
जिह्वामूलीयौ।।

6.लण्।
अयं णकारो द्विर्बध्यते- पूर्वतश्चैवं परतश्चैवम्। तत्रेण्ग्रहणेष्वण्‌ग्रहणेषु च सन्देहो भवति; किं पूर्वेण स्युः, परेण वेति ? अतस्तदपनयनार्थमाहे- `इण्ग्रहणानि' इत्यादि। तत्र यथा सर्वाणीण्ग्रहणानि परेण णकारेण गृह्यन्ते तथा `अइउण्' (मा.सू.1) इत्यत्र प्रतिपादितम्। अण्ग्रहणानि तु यानि परेणानि सम्भाव्यते, तानि पूर्वेण प्रतिपादितानि। कानि पुनस्तानि ? `ठ्ढ्रलोपे पूर्वस्य दीर्घोऽणः' (6.3.111) `केऽणः' (7.4.13) `अणोऽप्रगृह्यस्यानुनासिकः' (8.4.57), `उरण रपरः' (1.1.51)
इत्येतेषु सूत्रेषु यान्यण्ग्रहणानि। तत्र पूर्वस्मिस्तावत् सूत्रे दृढादिषु `वृढ'शब्दपाठो ज्ञापकः `न परेणाण्ग्रहणम्' इति। यदि हि परेण स्यात्, `वृढः' इति रूपं न
स्यात्। ततश्च दृढादिषु `वृढ'
पाठो नोपपद्येत। `बृहू उद्यमे' (धा.पा.1347)इत्यस्य सूत्रेषु निष्ठायां ठत्वघत्व-
ष्टुत्वढलोपेषु कृतेषु `वृढ' इति रूपं भवति। किञ्च दीर्घश्रुत्या तत्र `अचश्च' (1.2.28) इति सन्निधापिते सत्य च एव दीर्घत्वेन भवितव्यम्। तथा च यदि परेण, अन्तःपातिनामप्यचां दीर्घत्वमभिमतं स्यात्, असन्देहार्थमज्ग्हणमेवकुर्यात्। अथ वा- तदपि न
कुर्यात्; `अचश्च' इत्यस्मादेव सर्वाचां दीर्घत्वसिद्धेः। तस्मादण्ग्रहणसामर्थ्यात्पूर्वेणाण्ग्रहणं विज्ञायते। `केऽणः'(7.4.13) इत्यनेनापि के परतो हलामणामसम्भवादचामेव ह्रस्वो विधीयते। तत्र यदि सर्वेषामचां ह्रस्वत्वमभीष्टं स्यात्। असन्देहार्थम-
ज्ग्रहणमेव कुर्यात्। अथ वा- तदपि न कुर्यात्, ह्रस्वग्रहणेनोपस्थापितात् `अचश्च' इत्यस्मादेवाभिलषितार्थसिद्धेः। तृतीयेनापि सूत्रेण पदान्तस्याणोऽनुनासिको विधीयते, न च पदान्ता हलोऽणः सन्तीत्यचामेवानुनासिको विधेयः; तत्र यदि सर्वेषामचामनुनासि-
को विधित्सितः स्यात्, असन्देहार्थमच्ग्रहणमेव कुर्यात्। अथ वा - तदपि न कुर्यात्; अच एव हि प्रगृह्यसंज्ञा भवन्ति, न हलः। तत्र ऩञिवयुक्तन्यायेन प्रगृह्य
प्रतिषेधात् तत्सदृशस्याच एव कार्यं विज्ञास्यते। तस्मात् तत्राप्यण्ग्रहमसामर्थ्यात् पूर्वेणैवाण्ग्रहणं प्रतीयते। `उरण रपरः'(1.1.51) इत्यत्रापि `होतृप्रशास्तृणाम्'(6.4.11) इति निर्देशो ज्ञापयति- `नेह परेणाण्ग्रहणम्' इति। परेणाण्ग्रहणे सति
`नामि' (6.4.3) इति रपरो दीर्घः स्यात्' तथा च प्रशास्तॄणामिति निर्देशो न स्यात्। किञ्च- न च रेफादन्य ऋकारस्य स्थाने हलोऽणः क्वचिच्छास्त्रे विधीयन्ते। तथा हि
`इको यणचि' (6.1.77) इति रेफः स्यात्। न च ऋकारस्य स्थाने `कर्त्रर्थम्' इत्यादौ
रेफे रेफपरे अरेफपरे वा विहिते कश्चिद्विशेषः, कृते हि रपरे तत्रैकस्य रेफस्य
`रो रि'(8.3.14) इति लोपेन भवितव्यम्। तस्मादेतदप्यण्ग्रहणं परेण णकारेण भवदजर्थमेवस्यात्। तत्र यदि सर्वेषामचां स्थाने विधीयमानानां रपरत्वमिष्टं स्यात्, असन्देहार्थमज्ग्रहणणेव कुर्यात्। तदेवमेतदज्ग्रहणं पूर्वेणैव णकारेण भवतीति निश्चीयते। `
अणुदित्सवर्णस्य चाप्रत्ययः' (1) इत्येकमनेन इति।अत्र च `उर्ऋत्'(7.4.7) इत्यत्र
नैव सवर्णानामृकारो ग्राहक उपपद्यते,भाव्यमानत्वात्, `भाव्यमानेनाणा सवर्णानां ग्रहणं न' (व्या.प.35) इति प्रतिषेधात्, नैतदस्ति; वक्ष्यति हि तत्र- `न चायं
भाव्यमानोऽण्, किं तर्हि ? आदेशान्तरनिवृत्यर्थं स्वरूपमेवाभ्यनुज्ञायते'इति। अची-
कृतदित्यत्र`कृत संशब्दने' (धा.पा. 1653)चुरादिणिच्, लुङ, च्लेः `णिश्रि'(3.1.48)
इत्यादिना चङ। `उर्ऋत' इति ॠकारस्य ऋकारः, णिलोपः, `चङि'(6.1.11) इति
द्विर्वचनम्; `उरत्' (7.4.66) इत्यत्त्वम् हलादिः शेषः, `सन्वल्लघुनि' (7.4.93) इतीत्त्वम्, `दीर्घो लघोः'(7.4.94) इति दीर्घत्वम्।
अथ किमर्थमज्ग्रहणमेवैतन्न क्रियत इति ? यत्र कृते सन्देह एव न भवतीति भावः। किं कारणम् ? नैवं शक्यमित्यत आह- `अन्तःस्थानामपि हि' इत्यादि। अन्तःस्था द्वि
प्रभेदाः- रेफवर्जिताः सानुनासिकाः, निरनुनासिकाश्चेति वचनात्। यवलाः सानुनासिका-
श्चेति वचनात्। यवलाः सानुनासिकनिरनुनासिकभेदेन द्विप्रकाराः; ते प्रत्याहारेऽपि
निरनुनासिका वा उपदिश्येरन्, सानुनासिका वा ? यदि निरनुनासिकाः ? सयँय्यन्तेत्यादौ `अनुस्वारस्य ययि परसवर्णः' (8.4.58) इत्यान्तरतम्यात् सानुनासिकेषु यकारादिषु
परसवर्णेषु कृतेषु तेषां प्रत्याहारेऽनुपदेशाद् यत्वं नास्तीति `अनचि च' (8.4.47) इति यरो द्विर्वचनं विधीयमानं न स्यात्। अण्ग्रहणे तु सत्यम् सवर्णान् गृह्णातीत्येतेषामपि द्विर्वचनं सिध्यति। ननु च कृतेऽपि द्विर्वचने `हलो यमां यमि लोपः' (8.4.
64) इत्येकस्य लोपविधानात् त्रयाणां यकाराणां श्रवणं न सम्भवत्येव। तत्किं द्विर्वचनार्थेन प्रयोजनेन ? नैतदस्ति; पाक्षितो हि स लोपः, `झयो होऽन्यतरस्याम्'(8.4.62) इत्यन्यतरस्याग्रहणानुवृत्तेः। तत्र यस्मिन् पक्षे लोपो नास्ति, तत्र त्रयाणां श्रवणं भवत्येव।अथ सानुनासिका उपदिश्येरन् ? प्रत्याहारेऽनुस्वारस्य परसवर्णत्वं निरनुनासिके परतो न स्यात्; ययां मध्ये तेषामसन्निवेशात्।
`हकारादिषु' इत्यादि। प्रतिज्ञानुनासिक्याः पाणिनीया-। यत्रेच्छन्ति
तत्रानुनासिक्यं प्रतिजानते, नान्यत्र। लकारे च तैरकारस्य तत् प्रतिज्ञायते, न
हकारादिषु। `(1)इत्संज्ञकः' इति। `उपदेशेऽजनुनासिक इत्' (1.3.2) इतीत्संज्ञा
विधानात्। तेन इत्यादिना अनुनासिकप्रतिज्ञायाः फलं दर्शयति। ऋकारलृकारयोः सवर्णसंज्ञोपसंख्यानादृकारो गृह्यमाणो लृकारमपि गृह्णाति, ततः `उरण् रपरः' (1.1.51) इति यथा ऋकारस्याण् शिष्यमाणो रपरो भवति एवं लृकारस्यापि भवन् लपरश्चेष्यते।
तस्मादनुनासिकः प्रतिज्ञायते। तेन `आदिरन्त्येन सहेता' (1.1.71) इति `उरण रपरः'
इत्यत्र `र' इति प्रत्याहारग्रहणं भवति, रेफात्प्रभृत्या लणोऽकारात्। तस्मिंश्च
ऋकारस्याण् रपरः भवति, लृकारस्य तु लपर इति। ततः `तवल्कारः' इत्याद्युपपन्नं भवति।।

7. ञमङणनम्।
`तस्य ग्रहणं भवति त्रिभिः' इति। अथ `सृजिदृशोर्झल्यमकिति'(6.1.58)
इत्यत्राप्यस्याकारेण ग्रहणं कस्मान्न भवति? `साक्षाद्‌द्रष्टरि' (5.2.91) इति
निर्देशात्। प्रत्याहारे ह्येतस्मिन्नकाराद्यादेशविधानाद् द्रष्टृशब्दो न सिध्येत्। इह तर्हि `भ्रस्जो रोपश्रयो रमन्यतरस्याम्' (6.4.47) इति रेफेण कस्मान्न भवति? अथ रमयमुपात्तः, न त्वम्- इत्येष कुतो निश्चयः? तुल्या हि संहिता तत्र भवितव्यं
सन्देहेन किमयं रम्? आहोस्विदमिति? व्याख्यानान्निश्चय इति चेत्? यदि तर्हि
व्याख्यानस्य निश्चयहेतुत्वमभ्युपेयते, तत एवात्र चान्यत्र च सर्वत्रैवंजातीयके
सन्देहविषये निश्चयो भविष्यतीति किमन्यैरतिविस्तरग्रन्थकारिभिर्हेतुभिरुपन्यस्तैः
प्रयोजनम् ! यस्तु मन्यते `भ्रस्जौ रोपधयो रम्' इत्यत्र व्यवस्थितविभाषया
प्रत्याहारस्य ग्रहणं न भविष्यतीति, स इदं स्याद्वचनीयः- किमनेनान्यतरस्यांग्रहणेन?रम्ग्रहणं विकल्प्यते- अन्यतरस्यां रम् गृह्यत इति ? अथ विधानमन्यतरस्यां रम्
विधीयत इति ? यदि रम्‌ग्रहणम्, ततो रेफस्यैवेदं स्वरूपेण मकारानुबन्धवतो ग्रहणम्, नप्रत्याहारस्येति लभ्यते। एतद्वयवस्थितविभाषया रमागमस्तु विकल्पेन न स्यात्; अन्यतरस्यांग्रहणविकल्पे चरितार्थत्वात्। न हि द्वितीयमन्यतरस्यां ग्रहणमस्ति, येन विधानं विकल्प्येत, इतरत्र तु पक्षे सिध्यति पाक्षिकं विधानम्; किन्तु यत् तदभिमतं
व्यवस्थितविभाषया रेफस्यैवेदं मकारानुबन्धवतः स्वरूपेण ग्रहणम्, न प्रत्याहारस्येति, तन्नोपपद्यते; एकत्वादन्यतरस्यांग्रहणस्य। तस्य विधानविकल्पेनैवोपयुक्तत्वात्।
किञ्च, कुतश्चायमध्यवसायो व्यवस्थितविभाषेयमिति ? व्याख्यानादिति चेत्; किमिदानीं
पारम्पर्याश्रयणेन ! व्याख्यानादेव नैवं प्रत्याहारग्रहणं भविष्यतीति
यत्किञ्चिदेतत्। ` ञकारेणापि प्रत्याहारग्रहणमस्य दृश्यते' इति। यद्येवम्, किमर्थं त्रिभिरियुक्तम् ? `ञमन्ताड्डः'(द.उ.5.7) इत्यत्र प्रत्याहारस्य नावश्यं ग्रहणमिति दर्शयितुम्। अत्र हि ञकारमकारस्वरूपोपादानेऽपि विना प्रत्याहारग्रहणेनान्यतोऽपि
मकाराद्यन्ताड्डप्रत्ययः सिध्यत्येव, बहुलाधिकारविधानात्। नन्वेवमपि `चतुर्भिः'
इत्येवं वक्तव्यम्, यमिर्ञमन्तेष्वित्यत्र ञारेणाप्यस्य ग्रहणदर्शनात्क, सत्यमेतत्;यदि ग्रहणमात्रमभिप्रेत्यैतदुच्येत्, न चचेदं ग्रहणमात्रमभिसन्धायोक्तम्, किं तर्हि? ग्रहणविशेषम्, सौत्रम्। न चेदं सौत्रं ग्रहणम्, किं तर्हि ? आनिट्कारिकम्।
`केचित्' इत्यादि। यान्येतान्यनन्तरं प्रत्याहारग्रहणान्युक्तानि तानि `झभञ्' (म.
सू.8) इत्यत्र यो ञकारस्तेनैव भवत्वित्येवं विचिन्त्य केचिदाचार्या मकारस्य प्रत्याख्यानं कुर्वन्ति। तत्र तु प्रत्याख्याने `पुमः खय्यम्परे' (8.3.6) इत्यादिषु
सूत्रेषु मकारस्य स्थाने ञकारः कर्त्तव्य इति तेषामभिप्रायः। `तथा च सति' इत्यादिना मकारानुबन्धप्रत्याख्याने दोषं दर्शयति। `ङञो ह्रस्वादचि ङञुण् नित्यम्' (8.3.32) इति हि पाठे झभोरपि प्रत्याहारहेऽन्तर्भावाज्झभावप्यागमिनौ स्याताम्- इत्येतच्चो-
द्यमापतति। तयोः झभोः पदान्तयोरभावान्न भविष्यत इति परिहारो वाच्यः। तस्मिन्नुक्ते, `ननु च लभेरुब्जेश्च क्विपि विहित आगमिनावभौ स्त एव पदान्तौ' इति पुनश्चोद्यम्।
तस्मिन् `झलां जशोऽन्ते' (8.2.39) ति बकारजकारयोः कृतयोः कुतस्ताविति पुनः
परिहारः! ननु चागमिनोझभोरभावाद्वषम्यं स्यात्; तथा हि-ङणनास्त्रय आगमिनः,आगमास्तु
ङणनझभाः पञ्च; ततश्च संख्यावैषम्यान्नैषाम् `यथासंख्यम्' (1.3.10) इति संख्यातानु-
देश स्यादिति पुनश्चोद्यम्; नैष दोषः; सूत्रे यावन्त आगमाः, आगमिनोऽपि तावन्त एव
पठ्यन्ते, तत्र लक्ष्यमनपेक्ष्य ङकारादीनामेव यथासंख्यमागमा भवन्तीति सूत्रार्थे
विहिते उत्तरकालं यथासम्भवं कार्यप्रतिपत्तिर्भविष्यतीति। येषां तावदागमानामागमिनः सन्ति तेषां यथासंख्यं भविष्यति। `झकारभकारौ तु पदानतावागमिनौ न स्तः' इति कृत्वा
आगमावपि न भविष्यत इति पुनः परिहारो वाच्यः। एवमनेकचोद्यपरिहारेणागमिनो-
र्झभोरभावाद्धेतोरागमाभावप्रतिपत्तौ साध्यायां महाप्रतिपत्तिगौरवं भवेत्।
तस्मादयुक्तं मकारप्रत्याख्यानमिति भावः।

8.झभञ्।


9.घञधष्।

10.जबगडदश्।

11. खफछठथचतव्।
ननु च छकारेणैवास्य ग्रहणम्, न च खफौतदन्तर्भूतौ, तत्किमर्थं तयोरिह
ग्रहणम्? इत्याह- `खफग्रहणम्' इत्यादि। उत्तरेषु प्रत्याहारेष्वनयोरप्यन्तर्भावो
यथा स्यादित्येवमर्थं तयोर्ग्रहणमित्यर्थः।।

12.कपय्।

13 शषसर्।

14. हल्।
इहान्येषां वर्णानां सकृदुपदेशः हकारस्तु द्विरुपदिश्यते, तस्य द्विरुपदेशे प्रयोजनं जिज्ञासुराह- `अथ किमर्थम्' इत्यादि। `स्निहित्वा' इति। `ष्णह प्रीतौ'
(धा.पा.1200), आदेः ष्णः स्नः, `समानकर्तृकयोः पूर्वकाले' (3.4.21) इति क्त्वा,इट्।`अलिक्षत्' इति। `लिह आस्वादने' (धा.पा.1026)लृङ, `हो ढः' (8.2.31), `षढोः कः
सि' (8.2.41) इति कत्वम्, `आदेशप्रत्ययोः' (8.3.59) इति षत्वम्। `रुदिहि, स्वपिहि' इति। रुदिस्वपिभ्यां विध्यादिलोट्; `सेर्ह्यपिच्च' (3.4.87), अदादित्वाच्छपो लुक्; `रुदादिभ्यः सार्वधातुके' (7.2.76)इतीट्। `अदाग्धाम्' इति। `दह भस्मीकरणे' (धा.पा.
991)लुङ, तस्य च्लिः, `तस्थस्थमिपाम्' (3.4.101) इत्यादिना तसस्ताम्,च्लेः सिच्
`वदव्रज'(7.2.3) इति वृद्धिः, `दादेर्धातोर्घः'(8.2.32), `झलो झलि' (8.2.26) इति
सिचो लोपः, `झषस्तथोर्घोऽधः' (8.2.40) इति तकारस्य धत्वम्, `झलां जश् झशि'(8.4.53) इति घकारस्य गकारः। तत्र यदि ग्रहणं न स्यात्, ततो घत्वस्याप्यसिद्धत्वात् घकारात् अझलः परः सिजिति' तस्य `झलो झलि' (8.2.26) इति लोपो न स्यात्। तस्मात्
शल्वल्झल्ग्रहणेषु चास्य ग्रहणं यथा स्यादित्युपदिष्टस्यापि पुनरुपदेशः।
यद्येतानि प्रयोजनानि परोपदेश एवास्तु; तेनैव ह्येतानि सिध्यन्ति, पूर्वो-
पदेशस्तु न कर्त्तव्य इत्यभिप्रायेणाह- `हयवरदित्यत्र तर्हि' इत्यादि।
`अड्ग्रहणेषु' इत्यादि। यदि पूर्वत्र नोपदिश्येत,अड्ग्रहणेन चाश्ग्रहणेन चाग्रहणात् `महाँ हि सः' इत्यत्र रुत्वानुनासिकत्वयत्वयलोपा न स्युः। महच्छब्दात् सुः,
`उगिदचाम्' (7.1.70) इति नुम; `सान्तमहतः संयोगस्य ' (6.4.10) इति दीर्घः,
हल्ङ्यादिसंयोगान्तलोपौ। महान् हि इति स्थिते हकारे परतस्तस्याड्ग्रहणेन ग्रहणात् `दीर्घादटि समानपदे' (8.3.9) इति रुत्वम्, `आतोऽटि नित्यम्‌' (8.3.3) इति पूर्वस्यानुनासिकः। अश्ग्रहणेन ग्रहणात्`भो भगो अघो' (8.3.17) इत्यादिना रेफस्य यत्वम्,
अशीति वर्त्तमाने `हलि सर्वेषाम्' (8.3.22) इति यलोपः। `हशि च' इत्यादि। इदमपरं
पूर्वोपदेशस्य प्रयोजनम्। असति हि तस्मिन्, ब्राह्मणो हसतीत्यत्र हकास्य हश्ग्रहणे-नाग्रहणात् तस्मिंस्त्वसति परतो रोरूत्वं न स्यात्। ब्राह्मणशब्दात् सुः, तस्य
`ससजुषो रुः' (8.2.66), `हशि च' (6.1.114) इत्युत्वम्,`आद्गुणः' (6.1.87)।
`एकस्मात्' इत्यादि। परे ग्राह्या इति शेषः। स्युरिति वक्ष्यमाणेन सम्बन्धः। एकस्मादिति दिग्योगलक्षणा पञ्चमी। एकस्माद्वर्णात्‌ परे ङकारादयो ग्राह्या भवेयु
रित्यर्थ। अथ वा - एकस्मादिति ल्यब्लोपे पञ्चमी, प्रासादात् प्रेक्षते इति यथा, तथा प्रदेशवाक्येष्वेकं वर्णमुपच्चार्य परिगृह्य वा ङकारादयो ग्राह्या भवेयुरित्यर्थः। स पुनरेको वर्णः। ` एओङ' (मा.सू. 3), `झभञ्'(मा.सू.8),`अइउण्' (मा.सू.1)
`खफछठथचटतव्' (मा.सू.11) `हयवरट्' (मा.सू.5) इत्यत्र येन सह ङकारादीनां ग्रहण
मुक्तं स एव वेदितव्यः। `द्वाभ्यां षः' इत्यत्र परे ग्राह्या इति यदध्याहृतं यच्च
`स्युः' इति क्रियापदं तदर्थादेकवचनतया विपरिणमति। द्वाभ्यां परो द्वौ वा उच्चार्य षकारो ग्राह्यो भवेदित्यर्थः। एवमुत्तरत्राप्यर्थो वेदितव्यः। कौ पुनर्द्वौ ? `झभञ्' (मा.सू.8) `घढघष्' (मा.सू.9) इत्यत्र याभ्यां षकारस्य ग्रहणमुक्तम्, तावेव।
`त्रिभ्य एव कणमाः स्युः' इति। ते पुनस्त्रयः - `ऋलृक्'(मा.सू2) `लण्'(मा.सू.6)
`ञमङणनम्' (मा.सू.7) इत्यत्र यैः ककारादीनां ग्रहणमाख्यातम्‌, त एव। `ज्ञेयौ चयौ
चतुर्भ्यः' इति। ते पुनश्चत्वारः- `ऐऔच्' (मा.सू.4), `कपय्'(मा.सू.12) इत्यत्र
चयोर्यैश्चकारयकारयोर्ग्रहणमभिमतम्, त एव। `रः पञ्चभ्यः' इति। तेन पुनः पञ्च -
`शषसर्'(मा.सू.13) इत्यत्र यै रेफस्य ग्रहणं प्रतिपादितम्, त एव। `शलौ ष़ड्भ्यः'
इति। ते पुनः षट्- `जबडदश्' (मा.सू.10) `हल्' (मा.सू.14) इत्यत्र यैः
शकारलकारयर्ग्रहणमुक्तम्, ते वेदितव्या इति।।
इति प्रत्याहारप्रकरण्।


अथ प्रथमाध्यायस्य
प्रथमः पादः
1.वृद्धिरादैच्।(1.1.1)
वृद्धिः,आत् ऐच्‌- इति केचित् त्रिपदमिदं सूत्रं वर्णयन्ति। अन्ये तु, आच्च, ऐच्च् इति आदैजिति समाहारे द्वन्दोऽयमिति मत्वा वृद्धिः, आदैच् इति द्विपदम्।
इतरेतरयोगे हि बहुत्वाद्बहुवचनं स्यात्। ननु च समाहारेऽपि `द्वन्द्वाच्चुदषहान्ता-
?९७त्'(5.4.106)इति टच् समासान्तः स्यात्; समासान्तविधेरनित्यत्वान्न भविष्यति। अनित्यत्वं षष्ठे ज्ञापयिष्यते। अथ `चोः कुः' (8.2.30) इति कुत्वं कस्मान्न भवति? `अय-
स्मयादीनि च्छन्दसि' (1.4.20) इति भसञ्ज्ञकत्वात्। आदिशब्दस्य प्रकारवाचित्वादैच्छ-
ब्दोऽयमयस्मयादिषु द्रष्टव्यः। ननु तत्र च्छन्दसीत्युच्यते, न चेदं छन्दः, तत्कुतो भसञ्ज्ञा ? `छन्दोवत् सूत्राणि भवन्ति' इत्यदोषः।
इहेदं सूत्रमनर्थकं वा स्याद्यथाकथ़ञ्चिदुदात्तादिवचनवत् ? साध्वनुशासनार्थवा, वृद्धिशब्दस्यादैचाञ्चानेन साधुत्वमाख्यायत इति ? प्रयोगनियमार्थं वा, आदैच पर एव वृद्धिशब्दः प्रयोक्तव्य इति ? आदेशार्थवा, आदैचां वृद्धिशब्द आदेशो भवति ते वा तस्येति ? आगमागमिसम्बन्धार्थं वा, आदैचां वृद्धिशब्द आगमो भवति, ते वा तस्येति ?
विशेषणविशेष्यभावप्रसिद्ध्यर्थं वा, आदैचां वृद्धिशब्दो विशेषणम्, ते वा, तस्येति ?एकविभक्तिकत्वं ह्यत्र दृष्टम्, दृष्टश्चैकविभक्तिकयोर्विशेषणविशेष्यभावः, तद्यथा
नीलमुत्पलमिति; सञ्ज्ञासञ्ज्ञिसम्बन्धार्थं वा ? दृश्यते हि सोऽप्येकविभक्तिकयोः, तद्यथा `अयं पनसः' इति? तत्र तावदाद्यः पक्षो नोपपद्यते। सगषिगतज्ञानातिशयो
ह्याचार्यः परहितप्रतिपन्नः समाहितचेताः शिष्याणां कृतरक्षासंविधानो मङ्गलपूर्वकं
महता प्रयत्नेन सूत्राणि प्रणीतवान्। तत्राशक्यमेकेन वर्णनाप्यनर्थकेन भवितुम, किं पुनरियता सूत्रप्रबन्धेन!नापि शक्यं वृद्धिशब्दस्यादैचां च साधुत्वमनेन विधीयत इति विज्ञातुम्, लक्षणान्तरेण विहितत्वात् तेषां साधुत्वस्य। तथा हि वृद्धिशब्दोऽयम-
विशेषेणचोपदिष्टः। `वृधु वृद्धौ' (धा.पा.759) इत्यतः क्तिन्प्रत्ययः `स्त्रियां
क्तिन्'(3.3.94) इति, `झषस्तथोर्धोऽधः'(8.2.40) इति धत्वम्, `झलां जश् झशि' (8.4.
53)इति धकारस्य दकारः। आदैचोऽप्यक्षरसमाम्नाय उपदेशात्। ऐचोऽक्षरसमाम्नाय उपदेशः, नाकारस्येति चेत्? अवर्णजातेरुपदेशात् सोऽपि गृह्यत इत्यदोषः। अथाप्यकारव्यक्तेरुपदेशः? एवमप्यदोषः। `अणुदित्सवर्णस्य चाप्रत्ययः'(1.1.69) इत्यकारेण गृह्यमाणेनाकारस्यापि ग्रहणात्। प्रयोगनियमार्थमप्येतन्नार्हति भवितुम। प्रयोगनियमार्थे
ह्येतस्मिन्‌ `सिचि वृद्धिः' (7.2.1) मृजेर्वृद्धिः' (7.2.114) इत्यादावनादैच्परस्य वृद्धिशब्दस्य प्रयोगो नोपपद्यते। कथं हि नाम स्वयमेव नियमं कृत्वा तमनादैच्परं
प्रयुञ्जीत!
अन्यस्तु प्रयोगनियमार्थमेतन्न भवतीति प्रतिपादयितुमाह- नह च प्रयोगनियमा-
र्थमारभ्यत इति। ननु चायं प्रयोगनियमार्थमेवारभ्यते `ते प्राग धातोः' (1.4.80) इति ? ते गत्यपसर्गसञ्ज्ञका धातोः प्रागेव प्रयोक्तव्याः इति परेण चोदिते परिहारमाह- `
प्रत्याख्यायते स योगः, न वा, तथानिष्टदर्शनात्' इति। न हि प्रपचतीति प्रयोक्तव्ये कश्चित् पचति प्र इति प्रयुङ्कते। अथापि न प्रत्याख्यायेत, एवमपि न दोषः, यतः
सञ्ज्ञानियमोऽयं न प्रयोगनियमः, ते प्रादयो धातोः प्राक् प्रयुज्यमाना एव गत्युपस-र्गसञ्ज्ञका भवन्तीति। अथापि प्रयोगनियमार्थं स्यात्, एवमपि न दोषः, लौकिकानां
शब्दानामर्थे प्रयुक्तानां प्रयोगनियम आरभ्यते, आदैच्छब्दश्च लौकिकः, तस्य किं
प्रयोगनियमार्थेन वचनेनेति? तत्र यदुक्तं `प्रत्याखअयायते स योगः' इति, तदयुक्तम्। न हि सार्थकस्य प्रत्याख्यानं युक्तम्। निरर्थकः स इति चेत् ? अत्राप्यनर्थकत्वाशङ्काप्रसङ्गः। यदि ह्यनर्थकान्यपि कानिचित् सूत्राणि प्रणीतवान् सूत्रकार इत्येषोऽ-
ध्यवसायः स्यात्। तस्मात तस्य प्रामाण्यमभ्युपगच्छता सर्वं तत्प्रणीतं येन केनचित् प्रकारेण सार्थकमभ्युपेयम्। योऽपि सञ्ज्ञानियमपक्षमाश्रित्य परिहार उक्तः, सोऽपि वृत्त्या विरुध्यते। `ते गत्युपसर्गसञ्ज्ञका धातोः प्राक् प्रयोक्तव्याः' इत्यनेन
हि वृत्तिग्रन्थेन प्रयोगनियम एवाश्रित इति स्पष्टमेवाख्यातम्। न च वृत्तिं
व्याख्यातुमुद्यतस्य तद्विरुद्धं व्याख्यानं युज्यते कर्तुम।
यदप्युक्तं `लौकिकानां शब्दानाम्' इत्यादि, तदपि न प्रयोगनियमार्थता-
शङ्कापनोदायालम्। तथा हि `विभाषा सुपो बहुच् पुरस्तातु(5.3.68), `अव्ययसर्व-
नाम्नामकच् प्राक् टेः' (5.3.71), `कृञ्चानुप्रयुज्यते लिटि' (3.1.40) इत्यलौकिकानामपि बहुजादीनं शास्त्रे प्रयोगनियमो दृश्यते, तत्र भवितव्यमेवाशङ्क्या, किमेतत्
प्रयोगनियमार्थम्, अथान्यार्थमित्यलमतिप्रसङ्गेन। तस्मात् पूर्वोक्त एव परीहारो
युक्तः।
आदेशार्थमप्येतच्छक्यते न विज्ञातुम्। यदि ह्यादैचामनेन वृद्धिशब्द आदेशो
विधीयेत, य एते निर्देशाः `याति वाति द्राति प्साति' (8.4.17) इति, यश्च `रायो हलि'(7.2.85) इति, यश्च `नावो द्विगोः' (5.4.99) इति, ते नोपपद्येरन्। अथ वृद्धिशब्द-
स्यादैच आदिश्येरन्‌, एवमपि `इद्‌वृद्धौ'(6.3.28), `वृद्धिनिमित्तस्य च तद्धितस्य' (6.3.39)इत्येवमादयो निर्देशा न सम्भवेयुः। अत एवागमार्थमप्येतन्नोपपद्यते। न
ह्यादैचां वृद्धिशब्द आगमे विहिते तस्य वा तेषु पूर्वोक्ता निर्देशा उपपद्यन्ते।
अन्यस्त्वाह- आदेशविधाने स्थान्यादेशसम्बन्धे षष्ठ्या भवितव्यम्, आगमविधानेप्यवयवावयविसम्बन्धे, न चेह षष्ठी विद्यते, तस्मात् षष्ठ्या अभावान्नेदमादेशार्थम्, नाप्यागमार्थम् इति। एतच्चासम्यक्। विनाऽपि षष्ठ्या `हल्ङ्याग्भ्यो दीर्घात् सुतिस्यपृक्तं हल्' (6.1.68), `अनिते'(8.4.19), `अन्तः'(8.4.20), `उभौ साभ्यासस्य'
(8.4.21) इत्यावेशविधानदर्शनात्। आगमविधानस्यापि `न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्' (7.3.3) इति षष्ठीमन्तरेणापि दर्शनात् विशेषणविशेष्यभावप्रसिद्ध्यर्थमप्येतन्न् सम्भाव्यते। तथा हि सम्भवव्यभिचारे च सति विशेषणविशेष्यभावो भवति,
नीलोत्पलवत्। न चेहादैचां वृद्धिशब्दे तस्य वा तेषु सम्भवः। ननु च यथोत्पलशब्दःसर्वत्रोत्पलार्थे वर्तमानो नीलशब्देनार्थान्तराद्वयवच्छिद्यत इति व्यवच्छिद्यमानो विशेष्यो भवति, नीलशब्दस्तु व्यवच्छिन्दन् विशेषणम्, तथानयोरपबि यो वयवच्छेद्यः स
विशेष्यो भवति, यस्तु व्यवच्छेदकः स विशेषणमिति? नैतदस्ति। उभयोर्हि सार्थकत्वे
सत्येतदुपपद्यते, नीलोत्पलशब्दवत्। न चादैचोऽर्थवन्तः। भवतु नामानयोर्विशेषणविशे-
ष्यभावः, तथापि नैतत्सिद्ध्यर्थमिदं युक्तम्; निष्प्रयोजनत्वात्, तत्पुनः प्रकृतानुपयोगित्वात्। शब्दानुशासने हि शास्त्रे प्रकृते यग्नाम शब्दसंस्कारानुपयोगिवचनं
तत्सर्वमप्रयोजनम्। शब्दसंस्कारानुपयोगित्वं त्वेतत्प्रतिपदितेन विशेषणविशेष्यभावेनवृद्धिशब्दस्यादैचां वा स्वरविशेषस्य वा रुपविशेषस्य वा संस्कारस्यासिद्धेः। विशेषणविशेष्यभाव एव तेषां संस्कार इति चेत् ? यद्येवम्, अत्यल्पमिदमुच्यते`वृद्धिरादैच्' (1.1.1)इति। नीलोत्पलमित्यद्पि हि वक्तव्यम्, नीलोत्पलादिशब्दानां विशेषणविशेष्यभावप्रसिद्धये। न चोक्तम्, अतो नैष संस्कारोऽभिमत इति नास्य तादर्थ्यं सम्भाव्यते।
ननु तुल्यविभक्तिकानां तद्गुणसमाध्यारोपोऽपि दृष्टः, तद्यथा `सिंहो माणवकः' इति, तस्मात् तदर्थमेतद्भविष्यतीति यत्पक्षान्तरमेके परिकल्पयाम्बभूवुः, तदर्थम-
प्येतन्न भवति, तद्गुणसमाध्यारोपस्य सतोऽप्यत्र प्रकृतानुपयोगित्वेनानर्थकत्वात्। तस्मात् पारिशेष्यात् सञ्ज्ञासञ्ज्ञिसम्बन्धार्थमेवैतदित्यालोच्याह-`वृद्धिशब्दः
सञ्ज्ञात्वेन' इत्यादि। भवतु नाम परिशेष्यात्तदर्थम्। एतत् कुतो लभ्यते ? वृद्धि-
शब्दः सञ्ज्ञा, आदैचः सञ्ज्ञिनः इति। विपर्ययः कस्मान्न भवति,आदैचः सञ्ज्ञा, वृद्धिशब्दः सञ्ज्ञी इति? नार्हति विपर्ययो भवितुम्। तथा हि, लघ्वर्थत्वात् सञ्ज्ञाकरणस्य, यस्मिन्नुच्चार्यमाणे प्रदेशेषु लाघवं भवति तस्य सञ्ज्ञार्थत्वेन भाव्यम्। वृद्धिशब्दे च विभक्तिकेऽप्युच्चार्यमाणे लाघवं भवति, नादैक्षु; यस्माद्‌वृद्धिशब्द
उच्चार्यमाणे चतस्त्रो मात्रा भवन्ति, आदैक्षु तु पञ्च। न चादैचां प्रत्येकं
सञ्ज्ञाभावाल्लाघवं भवतीति शक्यं परिकल्पयितुम्, प्रयोजनविशेषमन्तरेणैकस्थाने-
सञ्ज्ञाविधानस्य निष्फलत्वात्। किञ्चावर्तिभ्यः सञ्ज्ञा भवन्ति। वृद्धिशब्दश्चावर्तते, नादैच्छब्दः तस्मान्न भवति विपर्ययः `वृद्धिशब्दः' इति। शब्दग्रहणमर्थव्यवच्छे-
दार्थम्। असति हि तस्मिन् शब्दादर्थावगतेरर्थस्यैव स़ञ्ज्ञात्वं विज्ञायेत। यद्यपि प्रागेव सञ्ज्ञा विहिता, तथापि शिष्यप्रशिष्यप्रबन्धाद्युपरमाद्विधीयत इतिवर्तमान
प्रयत्वेन् निर्देशः। यत्र समुदास्य कार्यमिच्छति तत्र उभेपदग्रहणं करोति, यथा `उभे
अभ्यस्तम्' (6.1.5) इति, अन्वर्थां वा महतीं सञ्ज्ञाम्, `हलोऽन्तराः संयोगः'(1.1.7) इति। तत्र हि महती सञ्ज्ञैवमर्था क्रियते, समुदायस्यैषा सञ्ज्ञायथा स्यादिति।
एतच्चोत्तरत्र व्यक्तीकरिष्यामः। इह तु न किञ्चित्तथाविधं वचनमस्ति यतः समुदायस्यै-
षा सञ्ज्ञा स्यात्। तस्मादेकैकस्यैषा सञ्ज्ञेति मनसि कृत्वाह `प्रत्येककम्' इति।
ननु चेहापि लाघवार्थमेकाक्षरायां सञ्ज्ञायां कर्तव्यायां वृद्धिरिति महत्याः
सञ्ज्ञायाःकरणं समुदायस्य सञ्ज्ञा यथा स्यादित्येवमर्थम्? नैतदस्ति। मङ्गलार्थत्वा-
दस्याः सञ्ज्ञायाः। अत एवास्याः प्रागुच्चारणम्। अन्यथा सञ्ज्ञायाः सतः कार्यिणः
कार्येण भवितव्यमिति, यथा `अदेङ्गुणः'(1.1.2) इत्यादौ पूर्वसञ्ज्ञीनिर्दिष्ट-,
तथेहापि निर्दिशेत्। आकारस्य गुणान्तरयुक्तयोश्चैचोः प्रत्याहारेऽसन्निवेशान्नामी वर्णा इति कस्यचिन्मन्दधियो भ्रान्तिः स्यात्, अतस्तन्निराकरणायाह-`वर्णानाम्'
इत्यादि। प्रत्यासत्तेस्तद्भावितानामेवैषां सञ्ज्ञा स्यादिति कस्यचिद्विपर्ययः
स्यात्, अतस्तमपाकर्तुमाह-`सामान्येन' इति। व्याप्तेर्न्यायादित्यभिप्रायः।
सामान्येनेत्यस्यार्थं विस्पष्टीकर्तुमाह- `तद्भावितनाम्' इत्यादि। ते तद्भाविताः
ये वृद्धिशब्देनोत्पादिताः, ततोऽन्येऽतद्भाविताः। आदिति तपरकरणम्-`तपरस्तत्कालस्य'(1.1.70) इति गुणान्तरभिन्नानामपि तुल्यकालानां ग्रहणार्थं वा स्यात्, भिन्न-
कालानां ग्रहणनिवृत्त्यर्थं वा ? तत्र् पूर्वः पक्षस्तावन्नोपपद्यते; अभेदकत्वादिहोदात्तादीनां शास्त्रे गुणानाम। कुत एतत् ? `लुङलङलृङक्ष्वडुदात्तः'(6.4.71) इत्युदात्तग्रहणात्, अन्यथा ह्युदात्तगुणयुक्तमेवाटमुच्चारयेत्। द्वितीयोऽपि नोपपद्यते।
यदि ह्याकारः सवर्णानां ग्राहकः स्यात्, ततस्तेन भिन्नकालस्याप्यवर्णस्य ग्रहणे सति तस्यापि सञ्ज्ञा मा भूदिति भिन्नकालानां ग्रहणनिवृत्त्यर्थं तपरकरणमुपपद्यते। न
चासौ सवर्णानां ग्राहकः, अनण्त्वात्, तस्य पुनरक्षरसमाम्नायेऽसन्निवेशात्। तस्मादनर्थकं तपरकरणम्। ततो न कर्तव्यमेवेत्यत आह- `तपरकरणम्' इत्यादि। एचोरर्थः प्रयोजनं
यसय् तत् तथोक्तम्। ननु च जातौ पदार्थे प्लुतस्यापि ग्रहणं भवति, तत्राप्यवर्णजातेः समवयात्, तत्रासति तपरकरणे तस्यापि सञ्ज्ञा स्यत्, तस्मात् तन्निवृत्तय तपरकरणं भवदाकारार्थमप्युपपद्यत एव, तत्किमुच्यते `एजर्थम्' इति ? एवं मन्यते-
जातिपक्षसमाश्रयणेऽपि हि दीर्घोच्चारणसामर्थ्याद्‌द्विमात्रा एवावर्णव्यक्तयः
समाश्रिता इति गम्यते, इतरथा हि लाघवार्थम्‌ `अद्‌' इत्येवाभिदध्यात्। न च ह्रस्वनिवृत्त्यर्थं दीर्घोच्चारणमिति शक्यते परिकल्पयितुम्, दीर्घोच्चारणेऽपि ह्रस्व-
ग्रहणं प्राप्नोत्येव, तत्राप्यवर्णजातेः सम्भवादिति। न चासन्देहार्थम् `आत्' इत्युक्तम्, वर्णान्तरासाधारणत्वात्, असंहितया वा सन्देहाभावादिति। ननु च `तपरस्तत्काल-
स्य' (1.1.70)इत्यत्र तः परो यस्मादिति बहुव्रीहिराश्रितः, न चात्रैच् तपरः, तत्कथं तपरकरणमैजर्थं भवतीत्यत आह- `तावपि परस्तपरः' इति। न केवलं तः परो यस्मात् स तपर
इति, अपि तु तादपि यः परः सोऽपि तपर इति अपिशब्देन दर्शयति. एतदुक्तं भवति, न
केवलं बहुव्रीहिरेव तत्राश्रीयते, किं तर्हि? पञ्चमीतत्पुरुषोऽपि। यता चैतदुभयमा-
श्रीयते तथा तत्रैवोपपादयिष्यामः। इति करणो हेतौ यत एवं तादपि परस्तपरः, तेन तपरकरणमैजर्थमित्यर्थः।`खट्वैडकादिषु' इत्यादिना तदेवैजर्थत्वं तपरकरणस्य स्पष्टीकरोति।
वृक्ष एलका `वृक्षैलका'। अक्रियमाणे ह्यत्र तपरकरणे त्रिमात्रिकस्याकारैकारसमुदाय
स्यस्थाने वृद्धिरेचि'(6.1.88) इति वृद्धिरान्तरतम्यात् त्रिमात्रिक एवैकारः स्यात्यदि तस्यापि वृद्धिसञ्ज्ञा स्यात्। खट्वा ओदनं खट्वौदनम्, खट्वा एलका खट्वैलका इत्यत्रापि पूर्वोत्तरसमुदाययोश्चतुर्मात्रायोश्चतुर्मात्रावकारैकारौ स्याताम्,तन्मा
भूदेष दोष इति त्रिमात्रचतुर्मात्राणामैचां वृद्धिसञ्ज्ञानिवृत्तये तपरकरणं क्रियते। आश्वलायनः, ऐतिकायनः' इति। अश्वलेतिकशब्दाभ्यां `नडादिभ्यः फक्‌' (4.1.99),
`यस्येति च' (6.4.148) इति लोपः, `किति च'(7.2.118) इत्यादिवृद्धिः। `औपगवः' इति।
उपगुशब्दात् `प्राग्दीव्यतोऽण्'(4.1.83)। `औपमन्यवः' इति। उपमन्युशब्दात `अनृष्यानन्तर्ये बिदादिभ्योऽञ्' (4.1.104)इत्यञ्, उभयत्रापि `ओर्गुणः'(6.4.146), अवादेशः (6.1.78), ` तद्धितेष्वचामादेः' (7.2.117) इति वृद्धिः। एतानि चत्वार्यपि तद्भावितो-
दाहरणानि। ननु येऽत्र त्रयः सञ्ज्ञिनस्तेषामाद्यैस्त्रिभिर्विषयो दर्शितः, किमर्थ-
श्चतुर्थोपन्यासः? केचिदाहुः- वद्धिनिमित्तभेदात्, आद्ययोरुदाहरणयोः कित्तद्धितो
वृद्धेर्निमत्तम्, तृतीयेऽपि णित्, तचुर्थेऽपि ञित् इति। एतच्चायुक्तम्। तथा हि `इको गुणवृद्धी' (1.1.3) इत्यत्र`अकार्षीत्' इत्युदाहृत्य `अहार्षीन्' इत्युदाहृतम्', न च तत्र वृद्धिनिमित्तभेदोऽस्ति। तथा `न धातुलोप आर्धधातुके' (1.1.4) इत्यत्र
लोलुवः इत्युदाहृत्य `पोपुवः, मरीमृजः' इत्यधिकोदाहरणोपन्यासः कृतः। न च तत्र लोपनिमित्तभेदः; प्रतिषेधनिमित्तभेदो वा अधिकोदाहरणोपन्यासस्य हेतुर्विद्यते। प्रायेणा-
न्यष्वेपि च सामान्यलक्षणेषु विनापि निमित्तभेदानाधिकोदाहरणोपन्यास उपलभ्यते।
योऽप्याह `ओपगव इत्यनेनैच औकारस्य विषये दर्शितेऽपि स्वरभेदादौपमन्यव
इत्येतदधिकमुदाहरणमुपन्यस्तम्' इति, तस्यापि तदयुक्तम्, अत एवानन्तरोक्ताद्धेतोर्वेदितव्यम्।. यदि निमित्तभेदः, स्वरभेदो वा सर्वत्राधिकोदाहरणोपन्यासो वेदितव्यः। `शालीयः, मालीयः' इति। अतद्भावितस्योदाहरणे । अत्र हि वृद्धिसञ्ज्ञायां वृद्धिर्यस्या
चामादिस्तद्वृद्धम्' (1.1.73) इति वृद्धसञ्ज्ञाफं छप्रत्ययोपन्यासस्तस्या एव फलभूताया अभिव्यक्त्यर्थः। वृद्धसञ्ज्ञायां हि सत्यां ` वृद्धाच्छः' (4.2.114) इति जातादावर्थे छो विधीयते। ऐकारौकारयोस्त्वतद्भावितयोरुदाहरणं नात्र दर्शितम्, एतदनुसरसार-
णैव गम्यमानत्वात्। आकारस्यातद्भावितस्य वृद्धिसञ्ज्ञायाः कार्ये दर्शिते, तयोरपि तदेव कार्यमिति तन्मुखेनैव गम्यत एव। के पुनसत्योरुदाहरणे? `रैमयम्, नौमयम्' इति।
आत्रैकारौकारयोर्वृद्धिसञ्ज्ञायां सत्यां पूर्ववद्‌वृद्धसञ्ज्ञा। तस्यां च सत्यां
रायो विकारः, नावो विकार इति `नित्यं वृद्धशरादिभ्यः' (4.3.144) इति मयड्‌भवति।

2.अदेङ् गुणः। (1.1.2)
`तपरकरणं त्विह सर्वार्थम्'इति। सर्वस्मिन्नर्थः प्रयोजनं यस्य तत्
तथोक्तम्। तुशब्दः पूर्वस्माद्विशेषं दर्शयति। तत्र ह्यैजर्थमेव, इह तु सर्वार्थम्, अकारार्थमेङर्थमपि। असति हि तपरकरणं अदेङामणत्वात् सवर्णानां ग्रहणं सति भिन्नकालानामप्येषा सञ्ज्ञा स्यात्। ततश्च `तरिता' इत्यत्रान्तरत्मयाद्दीर्घस्य दीर्घ एव गुणस्यात्।ननु च वृद्धिसञ्ज्ञा गुणसञ्ज्ञाया बाधिका भविष्यति, तत् कुतोऽयं प्रसङ्गः ? नैतदस्ति। एकसञ्ज्ञाधिकारे हि सञ्ज्ञया सञ्ज्ञान्तरं बाध्यते, न चात्रेकसञ्ज्ञाधि-कारः। स्यादेतत्, असत्यप्येकसञ्ज्ञाधिकारे यथा `जीवति तु वंश्ये युवा'(4.1.163) इति गोत्रसञ्ज्ञा युवसञ्ज्ञया बाध्यते, यथा च `लिट् च' (3.4.115), `लिङाशिषि'(3.4.116)इति चार्धधातुकसञ्ज्ञया सार्वधातुकसंज्ञा बाध्यते, तथा गुणसंज्ञा वृद्धिसञ्ज्ञया बाधिष्यते इति? अयुक्तमेतत। युवसञ्ज्ञाविधौ तुग्रहणं नियमार्थं क्रियते। ततो युक्तं
यद्युवसञ्ज्ञया गोत्रसञ्ज्ञा बाध्यत इति। आर्धधातुकसञ्ज्ञाऽपि यत् सार्वधातुकसञ्ज्ञा बाध्यते तदपि युक्तमेव, `छन्दस्युभयथा' (3.4.117)ति वचनात्। यदि सार्व-
धातुकार्धधातुकसञ्ज्ञयोः समावेशः स्यात्, न बाध्यबाधकभावः, तदा `छन्दस्युभयथा'(3.4.117) इति वचनमपार्थकं स्यात्। इह तु न किञ्चित् तथाविधं निबन्धनमस्ति, यतो वृद्धिसञ्ज्ञया गुणसञ्ज्ञा बाध्यते। अथापि कथञ्चिद्बाध्येत, एवमपि त्रिमात्रिकस्यापि गुण-
सञ्ज्ञा स्यादेव। न हि सा तया शक्या बाधितुम्, तस्य अतद्विषयत्वात्। त्रिमात्रस्यापि गुणसञ्ज्ञायां सत्यां त्रिमात्रोऽपि गुणः प्रसज्यते। ऋकारस्य हि कालतो यथैकमत्रिकोऽकारोऽन्तरतमो न सम्भवति, तथा त्रिमात्रोऽपि, तत् कुत एतल्लभ्यते ? ह्रस्वेनैवास्य गुणेन भवितव्यम् न हि त्रिमात्रेणाकारेणेति। किञ्च, यदि भिन्न-
कालानामपि गुणसञ्ज्ञा स्यात्, `खट्वा इन्द्रः= खट्वेन्द्रः खट्वा उर्वी खट्वोर्वी' इत्यत्र त्रिमात्रत्वात् पूर्वोत्तरसमुदायात्मनः स्थानिनः `आद्‌गुणः' (6.1.87)इति
त्रिमात्रो गुणः स्यात्। खट्वा ईषा= खट्वेषा, खट्वा उढा=खट्वोढा' इत्यत्र चतुर्मा-
मात्रित्वात् चतुर्मात्रः। तस्मात् सर्वार्थं तपरकरणं कर्तव्यम्। `तरिता' इत्यादि। `तॄ तप्लवनतरणयोः' (धा.पा.969), `चिञ् चयने' (धा.पा.1251), `ष्टुञ् स्तुतौ'
(धा.पा.1043), एभ्यः `ण्लुल्‌तृचौ'(3.1.133) इति तृच्। `आर्धधातुकस्येड् वलादेः'(7.2.35) इतीट्, `सार्वधातुकार्धधातुकयोः' (7.3.84) इति गुणः, सु, `ऋदुशनस्‌'(7.1.94) इत्यादिना अनङ, `सर्वनामस्थाने च' (6.4.8) इति दीर्घः। एतानि त्रीणि यथाक्रमदेङां तद्भावितानामुदाहरणानि। `पठन्ति, पठन्' इत्यकारस्यात्द्भावितस्योदाहरणे। अत्रान्त्याकारस्य गुणसञ्ज्ञायां `अतो गुणे' (6.1.97) पररूपत्वं भवति। पठन्निति शत्रन्तमेतत्। एकास्यातद्भावितस्यकार्योदाहरणम्- `अहं पचे' इत्यादि। ओकारस्यातद्भावितस् तन्न
सम्भवतीति न प्रदर्श्यते।

3.इको गुणवृद्धी। (1.1.3)
`परिभाषेयम्' इति। नाधिकारः, अस्वरितत्वात्। नापि गुणवृद्धयोर्विधायकं लक्षणम्, लक्षणान्तरेण तयोर्विधास्यमानत्वात्। `स्थानिनियमार्था' इति। स्थानिनि नियमः
स्थानिनियमः, स्थान्यन्तरव्यवच्छेदेनैकत्र प्रवर्तनम्, सोऽर्थः प्रयोजनं यस्याः सा तथोक्ता। `अनियमप्रसङ्गे नियमो विधीयते' इति। यत्र साक्षात् स्थानी न निर्दिष्टः
`सार्वधातुकार्धधातुकयोः'(7.3.84), `सिचि वृद्धिः परस्मैपदेषु'(7.2.1) इत्यादौ,
तत्रानियमे प्रसक्ते नियममेषां करोति-इक एव नान्यस्येति. अतः स एवस्या विषयो
वेदितव्यः, न तु यत्र साक्षात् स्थानी निर्दिश्यते सोऽपि, यथा- `ओर्गुणः' (6.4.146) `अत उपधायाः' (7.2.116) इत्यादिः। तत्र ह्यनियमस्य प्राप्तिरेव नास्ति। लिङ्गवती चेयं परिभाषा, लिङ्गं चास्या गुणवृद्धिग्रहणम्, तत्रोपतिष्ठते। तथा च द्वे षष्ठ्यौ प्रादुर्भवतः,-`इकः' इत्येका षष्ठी, `मिदेर्गुणः'(7.3.82) इत्येवमादिका द्वितीया।
तत्र कामचारादयथेष्टं सिध्यति। तयोर्विशेषणविशेष्यभावः क्रियते। `मिदेः'
इत्यत्रान्त इग न सम्भवतीति त्सयाङविशेषणत्वं नोपपद्यतेतस्मादत्राङ्गेनेगेव विशिष्यते- मिदेरङ्गस्य य इगिति। तेन स्थानष्ठ्यभावादलोऽन्त्यस्यानुपस्थाने सति यत्र तत्र स्थस्येको गुणः सिद्धो भवति। `सार्वधातुकार्धधातुकयोः' (7.3.84) इत्यादौ त्वङ्गस्य इगन्तत्वं सम्भवति। तेन चाङ्गे विशिष्यमाणे तदन्तविधौ सतीष्टं सिध्यति। तस्मादिकै-वाङ्गं विशिष्यते, `इगन्तस्याङ्गस्येति। एवंचय सत्यस्याः स्थानषष्ठीत्वात् `अलो।-
न्त्त्यस्य' (1.1.52) इत्येतदुपतिष्ठछते, तेनेगन्तस्यैवाङ्गस्य गुणवृद्धी भवतः,
नेतरस्य। `स्वसञ्ज्ञया' इति। अत्र वक्ष्यमाणोऽभिप्रायः। `इक एव स्थाने' इति।
यदर्थेयं परिभाषा तस्य नियमस्य स्वरूपं दर्शयति- `अकार्षीत्' इति। `डुकृञ् करण' (धा.पा. 1472),लुङ, `च्लेः सिच्' (3.1.44) सिचि वृद्धिः (7.2.1)`अस्तिसिचोऽपृक्ते' (7.3.96) इतीट्। एवम् `अहार्षीत्' इति। अत्र `हृञ् हरणे' (धा.899) इत्ययं विशेषः। `इक इति किम्' इत। एकदेशद्वारेण समुदायस्य पर्यनुयोगो वेदितव्यः। न हि `गुणवृद्धी'
इत्येतावता विनेग्ग्रहणेनार्थः कश्चित् संगृह्यते। `यानम्' इति। यातेर्ल्युटि गुणे विधीयमान आन्तरतम्यादकारः स्यात्। ततश्च द्वयोरकारयोः `अतो गुणे' (6.1.97
पररूपत्वे कृते `यनम्' इत्यनिष्टं रूपं स्यात्। `ग्लायति' इति। `ग्लै म्लै
हर्षक्षये' (धा.पा.903.904), अत्र सन्ध्यक्षरस्य ऐकारस्य एकारो गुणः स्यात्। ततश्चायादेशे कृते ग्लयति इत्यनिष्टं रूपं स्यात्। `उम्भिता'इति। `उभ उम्भ पूरणे' (धा.पा.1319,1320), तृच्, इट्। अत्र व्यञ्जनस्य कारस्यौष्ठ्यस्य ओकारो गुणः स्यात्। ततश्चावादेशे कृते `उभविता' इत्यनिष्टं रूपं स्यात्।
अथ कथं स्वसञ्ज्ञया शिष्यमाणावित्येष विशेषो लभ्यते? न हि सूत्रे
स्वसञ्ज्ञाग्रहणमस्तीत्यत आह `पुनर्गुणवृद्धिग्रहणम्' इत्यादि। इहपूर्वसूत्राभ्यां गुणवृद्धिग्रहणमनुवर्तते। कतस्मिन्ननुवर्तमाने यत् पुनरिह गुणवृद्धरिग्रहणं क्रियतेतस्यैतत् प्रयोजनम्- `यत्र स्वसञ्ज्ञया गुणवृद्धी विधीयेते तत्रायं नियमो यथा
स्यात्, अन्यत्र मा भूत्'इति। पुनर्गुणवृद्धिग्रहणसामर्थ्यादन्यतरस्य गुणवृद्धिग्रहणस्य सञ्ज्ञाप्रधानत्वं सम्पाद्यते। कतेन स्वसञ्ज्ञया विधाने नियमो भवतीत्येषोऽ-
र्थो लभ्यते। अन्यथा हि यद्येवं पूर्वो नियमो नात्राभिमतः स्यात्, ततो नियतस्य निय मस्य प्रकृतगुणवृद्धिग्रहणानुवृत्त्यैव सिद्धत्वात् पुनरिह गुणवृद्धिग्रहणमनर्थकं
स्यादित्येवमभिप्रायः। `इह मा भूत्' इत्यादिनार्यैवं प्रकारस्य नियमस्य व्यवच्छेद्यत्वं दर्शयति- `द्यौः' इति। `दिव औत्'(7.1.84) इत्यौकारः। स्वरूपेण विधीयमानोऽलोऽन्त्यस्यैव भवति, नेकः। `पन्थाः' इति। `पथिमध्यृभुक्षामात्' (7.1.85) इत्याकारोऽन्त्यस्यैव भवति, नेकः। `इतोऽत्सर्वनामस्थाने'(7.1.86) इतीकारस्य अकारः, `थोऽन्थः'
(7.1.87) इति थकारस्य न्थादेशः। `इयम्' इति। `त्यदादीनामः'
(7.2.102) इत्यत्वमन्तर्सयैव भवति, नेकः। `दश्च' (7.2.109) इति दकारस्य मकारः। स
इत्यत्र त्वस्याः परिभाषाया उपस्थाने सति त्यदाद्यत्वं न स्यादेव। `तदोः सः सावन-
न्त्ययोः' (7.2.106) इति सत्वम्, ननु च `अनश्च' (1.2.28) इत्ययमपि स्थानिनियमः
स्वसञ्ज्ञाविधान एवेष्यते, तस्यापि च नियमस्य द्यौरित्यादिकं व्यवच्छेद्यम्। तथा
हि वृत्तिकारस्तत्र वक्ष्यति `स्वसञ्ज्ञया विधाने नियमः। अजिति वर्तते। इह मा भूत्, द्यौः, पन्थाः, सः, द्युभ्याम्, द्युभिः' (का 38) इति, ततश्च यदनेन नियमेनैवंविधेन कर्त्तव्यं तत्तेनैव सिध्यति, नार्थ एवंविधयनियमर्थेन पुनरिह गुणवृद्धिग्रहणेन?
सत्यमेतत्' किन्त्वेवमर्थप्रतिपत्तौ य एते मन्दधियः प्राथमकल्पिकाः श्रोतारः, तेषांप्रतिपत्तिगौरवं स्यात्। तस्मात् ताननुग्रहीतं विस्पष्टार्थमिह सञ्ज्ञाविधाने नियमं प्रतिपादयितुं पुनर्गुणवृद्धिग्रहणं कृतम्. तद्येवम्, यत् येन विधातव्यं तदनेनैव
विहितमिति तत्र सञ्ज्ञाविधाने नियमो न कर्त्तव्यः ? नैतदस्ति; यदि ह्यसावित्थम्भूतो नियमो न स्यात्, ततो `द्युभ्याम् द्युभिः' इत्यत्र `दिव उत्'(6.1.131) इत्युकारः
स्वरूपेणैव विधीयमानोऽच एव स्थाने स्यात्, नालोऽन्त्यस्य। न ह्यनेन नियमेनाचः
शक्यते व्यावर्तयितुम्, तस्य गुणवृद्धिसञ्ज्ञकत्वात्।

4.न धातुलोप आर्धधातुके। (1.1.4)
उक्तपरिमाणस्य शब्दस्य धातुस़ञ्ज्ञा कृता। तस्य सर्वस्य लोपे कृते यत्र गुणवृद्धी प्राप्नुतस्तदार्धधातुकेन सम्भवत्येव, तत् किं प्रतिषेधेन ? तस्मात् प्रतिषेधविधानसामर्थ्याद्धात्वेकदेशे धातुशब्दो वर्तत इति मत्वाह- `धात्वेकदेशो धातुः' इति। `धातुलोपे'इति। यद्ययं धातोर्लोपो धातुलोप इति तत्पुरूषः, तत आर्धधातुकग्रहणं गुणवृद्धिविशेषणं वा स्यात्- `धा4तुलोपे सत्यार्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवतः' इति। लोपविशेषणं वा स्यात्-` आर्धधातुकनिमित्ते धातुलोपे सति
गुणवृद्धी न भवतः' इति? पूर्वस्मिन् `क्नोपयति'इत्यत्र प्रतिषेधः प्राप्नोति। तत्र प्रतिविधानं कर्तव्यम्। द्वितीये तु न भवत्येष दोषः। न हि `क्नोपयति' इत्यत्रार्धधातुकनिमित्तलोपः, किं तर्हि, कतवल्निमित्तकः। किन्तु द्वितीये पक्षे प्रेद्धमित्यत्र प्राप्नोति। अस्ति ह्यत्रार्धधातुकनिमित्तो लोपः। ननु चेग्लक्षणयोर्गुणवृद्धयोरयं प्रतिषेधः; न चात्रेग्लक्षणो गुणः ? नैतदस्ति; अत्रापीग्लक्षण एव गुणो यो ह्युभयोः स्थाने भवति, लभते सोऽन्तयतरव्यपदेशम्। तथा हि- `मातुः, पितुः' इत्यत्रोभयोः
स्थाने भवन् रपरोऽण् भवति। तस्माल्लोपविशेषणपक्षेऽपि तत्पुरुषे प्रतिविधानं
कर्त्तव्यमेव। बहुव्रीहौ तु न किञ्चित् प्रतिविधेयमिति मन्यमानो बहुव्रीहिरयमिति
दर्शयन्नाह- `तस्य' इत्यादि। एतेन लोपविशेषणमार्धधातुकमित्येतद्दर्शितं भवति। एवं
चार्धधातुके सम्भवति यदि तत्तस्य निमित्तं भवति, ततश्च क्नोपयतीत्यत्रातिप्रसङ्गो
नावतरति। `तत्र' इत्यादि। नापि गुणवृद्ध्योरार्धधातुकं निमित्त्वेन विशेषणमित्या-
ख्यातम्। ततश्च प्रेद्धमित्यत्राप्यतिप्रसङ्गो न भवति, न ह्याद्गुण आर्धधातुक-
निमित्तः। `ये ते' इति। स्त्रीलिङ्गनिर्देशः `गुणवृद्धी'इत्यनेन स्त्रीलिङ्गेन सामानाधिकरण्यात्। अस्य तु स्त्रीलिङ्गता `परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः' (2.4.26)
इत्यतिदेशात्। अर्थस्य च सोऽतिदेश इति यत्तदोरपि तत्रार्थे वर्तमानयोः स्त्रीलिङ्गता भवति। ननु च नियमस्य प्रकृतत्वात् तस्यैवायं प्रतिषेधो युक्तः, तत् किमित्येवमाह-`तत्र ये गुणवृद्धी प्राप्नुतस्ते न भवतः' इति। तयोः प्राधान्यात्। तत् पुनर्नियमेनोपक्रियमाणत्वात्, नियमस्य तु तादर्थ्यादप्राधान्यम्। तस्माद्‌गुणवृद्धयोरेवायं
प्रतिषेधो न्याय्यः।
`लोलुवः, पोपुवः' इति। `लूञ् छेदने' (धा.पा.1483), `पूञ् पवने (धा.पा.1482)इत्येताभ्यां `धातोरेकाचः' (3.1.22) इत्यादिना यङ्, `सन्यङो' (6.1.9) इति द्विर्वचनम्, `गुणोयङलुकोः' (7.4.82) इत्यभ्यासस्य गुणः, यङन्तात् पचाद्यचि `यङोऽचि च' (2.4.74) इति लुकि तन्निमित्तगुणप्रतिषेधः, तस्मिन् सति `अचि श्नुधातुकभ्रुवाम्' (6.4.
77) इत्यादिनोवङ। `मरीमृजः' इति। `मृजू शुद्धौ' (धा.पा.1066), पूर्ववद्यङ, द्विर्वचनम्, उरदत्त्वम्, (7.4.66) `हलादिः शेषः' (7.4.60) `रीगृदुपधस्य च' (7.4.90)इति
रीगागमः। लोलूयादिभ्य इत्यादिशब्देन `पोपूय, मरीमृज्य' इत्येतयोर्ग्रहणम्। `लूञ्-
लविता' इति। यावदेव धातुसञ्ज्ञा न भवति तावदेव `सर्वविधिभ्यो लोपविधिर्बलीयात्'
(व्या.प.70) इति ञकारस्य लोपो भवति, पश्चाल्लू इत्येतस्य धातुसञ्ज्ञा, तेन ञकारलोपो धातुलोपो न भवतीति भवति प्रत्युदाहरणम्। `रेड् ' इति। `रिष रुष हिंसायाम्' (धा.पा.1232,1230), `अन्येभ्योऽपि दृश्यन्ते'(3.2.75) इति विच्, इकारचकारौ `वेरपृक्तस्य'(6.1.67) इत्यत्र सामान्यग्रहणाविघातार्थो, वकारस्य चानेनैव लोपः, `पुगन्तलघूपध्स्य च' (7.3.86) इति गुणः। `झलां जशोऽन्ते' (8.2.39) इति षकारस्य डकारः। ननु च द्वयङ्गविकले द्वे अपि एते प्रत्युदाहरणे, तथैव ह्यत्र धातुलोपो न भवति, एवमार्धधातुकनिमि-त्तोऽपि न भवति, नैतदस्ति; सति हि धातुग्रहणे पदद्वयसान्निध्याद्बहुव्रीहिर्लभ्यते। तस्मिंश्च सत्यार्धधातुकनिमत्तत्वं लोपस्य। असति हि धातुग्रहणे `न लोप आर्धधातुके' इत्युच्यमाने `आर्धधातुकाश्रये ये गुणवृद्धी प्रतिषेधः स्यात्। `रोरवीति' इति। `
रु शब्दे' (धा.पा. 1034) इत्यस्माद्यङ, `बहुलं छन्दसि' (2.4.73) इति यङो लुक्, लट्,तिप्, शप्। अदादित्वाच्छपो लुक् (2.4.72(,`यङो वा'()7.3.94) इतीट्। अत्र
सार्वधातुकनिमित्तो गुणो न प्रतिषिध्यते। ननु च द्वयङ्गविकलमेवेदम्, यथैव
ह्यार्धधातुकनिमित्तो गुणो न भवत्येवं लोपोऽपि ? नैतदस्ति; सति ह्यार्धधातुकग्रहणेऽन्यपदार्थत्वे न तस्याश्रयणात् तन्निमित्तो लोपो लभ्यते, तस्मिंश्च सति `न धातुलोपे' इतीयत्युच्यमाने `ये केचन गुणवृद्धी ते च लोपे सति भवतः' इत्येष वाक्यार्थः
स्यात्। ततश्चाविशेषितत्वाल्लोपस्य लोपमात्रे प्रतिषेधो विज्ञायते। `अभाजि' इति। `भञ्जो आमर्द्दने' (धा.पा. 1453),लुङ्, च्लिः, `चिण् भावकर्मणोः'(3.1.66) इति चिण्,
`इणो लुक्' (6.4.104)इति तशब्दस्य लुक्, `भञ्जेश्च चिणि' (6.4.33) इत्यनुनासिकलोपः। `रागः' इति। अत्रापि `घञि च भावकरणयोः' (6.4.27) इति नलोपः। `रञ्ज रागे' (धा.पा.1167), भावे घञ्। यद्यप्यत्र स्रवमस्ति तथापीक इत्यत्रानुवृत्तेरिह चेकोऽसम्भवात् `
अत उपधायाः' (7.2.116) इति वृद्धेः प्राप्तायाः प्रतिषेधो न भवति। `क्नोपयति' इति। "क्नूयी शब्दे" (धा.पा.485), `हेतुमति च' (3.1.26) इति णिच्, `अर्त्तिह्री' गुणः। `प्रेद्धम्' इति। `ञिइन्धी दीप्तौ' (धा.पा.1448), क्तः, `अनिदिताम्' (6.4.24) इत्या-दिनानुनासिकलोपः, `झषस्तर्थोर्घोऽधः' (8.2.40) इति तकारस्य धत्वम्। `झलां जश् झशि'(8.4.53) इति धातुधकारस्य दकारः, प्रगतमिद्धमिति `कुगतिप्रादयः' (2.2.18) इति समासः।

5. क्ङिति च। (1.1.5)
क्ङितीति यदीयं परसप्तमी स्यादनन्तरस्यैवेकः प्रतिषेधः स्यात्, `चितः,
चितवात्' इत्यादौ व्यवहितस्य `भिन्नो भिन्नवात्' इत्यादौ न स्यात्, `तस्मिन्निति निर्दिष्टे स्पूर्वस्य' (1.1.66) इत्यत्र निर्दिष्टग्रहणस्यानन्तरर्यार्थत्वात्। निमित्तसप्तम्यां त्वस्यां सर्वत्र भवितव्यम्, व्यवहितयोरपि निमित्तनिमित्तिभावसद्भावा-
दिति मन्यमान आह- `निमित्तसप्तम्येषा' इति। निमित्तात् सप्तमी निमित्तसप्तमी। `पञ्चमी भयेन' (2.1.37) इति `पञ्चमी' इति योगविभागात् समासः। सा पुनः सप्तमी `यस्य च
भावेन भावलक्षणम्' (2.3.37) इत्यनेन वेदितव्या। क्ङितो हि निमित्तभावेन गुणवृद्धयोःप्राप्तिलक्षणो भावो लक्ष्यते। अथ निमित्तसप्तम्यामप्यस्यां कस्मादेव व्यवहितस् प्रतिषेधो लभ्यते? तत्र तस्मिन् (1.1.66) इत्यादिकायाः परिभाषाया अनुपस्थानात्।
`क्ङिति च' (1.1.73) इत्यादरावप्यस्या इक्‌परिभाषाया उपस्थानात् `शालीयः, मालीयः'
इत्यत्र वृद्धरसञ्ज्ञा न स्यात। यता चेयमिक्‌परिभाषा विध्यङ्गशेषभूतत्वाद्विधावेवोपतिष्ठते, तथासावप्यानन्तर्यपरिभाषा। न चेह गुणवृद्धी विधीयेते, किं तर्हि ? विहिते अप्यन्यत्र क्ङितीत्यनेन विशिष्येते। तस्मान्नात्र तस्याः परिभाषाया उपस्थानमित्यन-न्तरस्यापि प्रतिषेधः सिध्यति। `क्ङिन्निमित्ते ये गुणवृद्धी' इति। क्ङिन्निमित्तं ययोस्ते तथोक्ते। ते पुनर्ये क्ङिन्निमित्ते सति प्राप्नुतस्ते विज्ञेये। एतेन गुण-
वृद्धीविशेषणं क्ङिद्‌ग्रहणमिति दर्शयति। ननु च विधीयमानतया प्राधान्यात् प्रतिषेध-
स्यैवैतद्विशेषणं युक्तम् ? नैतदस्ति; यत्र हि गुणः कृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवति, तत्र प्रधानस्यैव भूयांसमुपकारं कर्तुमात्मनः संस्कारमनुभूय प्रधानेन सम्बन्धमनुभवति। यथोक्तम्-

`गुणः कृतात्मसंस्कारः प्रतिपद्यते।
प्रधानस्योपकारे हि तथा भयसि वर्तते।। इति।
इह तु गुणवृद्धयोः क्ङिद्दग्रहणेन विशेषितयोर्महान प्रधानस्य प्रतिषेधस्योपकारो भवति, व्यवहितस्यापि तत्सिद्धेः। `भिन्नः' इति। `भिदिर् विदारणे' (धा.पा. 1439),क्तः, `रदाभ्यां निष्ठातोनः'(8.2.42) इति नत्वम्। `मृष्टः' इति। मृजेः `व्रश्च'(8.2.36) इत्यादिना जकारस्य षत्वम्, `ष्टुना ष्टुः'(8.4.41) इति ष्टुत्वम्। चिनुत
इत्यादौ तु `सार्वधातुकमपित्'(1.2.4) इति क्ङित्त्वम्। `चिन्वन्ति'इति। `हुश्नुवोः
सार्वधातुके'(6.4.87) इति यणादेशः। अत्र `चितः, चितवान्, स्तुतः, स्तुतवान्, चिनतः, चिन्वन्ति' इत्येषूदाहरणेषु यतायोगं सार्वधातुकार्धधातुकलक्षणस्य गुणस्य प्रतिषेधः, `भिन्नः भिन्नवान्' इति लघूपधलक्षणस्य, परिशिष्टेषु `मृजेर्वृद्धिः' (7.2.114)
इति वृद्धेः। `ग्लाजिस्थश्च क्स्नुः' इति। क्स्नुप्रत्ययोऽयं यदि कित् स्यात्,
स्थास्नुरित्यत्र घुमास्थादिसूत्रेण (6.4.66) तिष्ठतेरीत्त्वं स्यात्। अतस्तत्परिहाराय क्स्नोर्गित्त्वं प्रतिज्ञायते। तथा हि तत्र वक्ष्यति-`गिच्चायं प्रत्ययो न
कित्। तेन स्थ ईकारो न भवति'(का.241) इति। गित्वे च सति `भूष्णुः, जिष्णुः' इत्यत्र`क्ङितिच' (1.1.5) इति प्रतिषेध उच्यमानो न प्राप्नोति। अत एतद्दोषपरिहारायाह- `गकारोऽप्यत्र' इत्यादि (का241)।चर्त्त्वभूतः चर्त्वं प्राप्त इत्यर्थः। चर्त्वं तु `
खरि च'(8.4.55) इति. यदि हि क्स्नोर्गित्त्वमिष्यते, भूष्णुरित्यत्र `श्रयुकः किति'(7.2.11) इति किति प्रतिषेध उच्यमानो न स्यात् ? नैष दोषः; तत्रापि चर्त्त्वभूतो
गकारो निर्दिश्यते। तथा हि -`ग्लाजिस्थश्च क्स्नुः' (3.2.139) इत्यत्र जयादित्यवृ-
त्तौ ग्रन्थः- ``क्ङिति च' (1.1.5) इत्यत्र गकारश्चर्त्त्वभूतो निर्दिश्यते, तेन गुणो न भवति। `श्रयुकः किति' (7.2.11) इत्यत्रापि गकारो निर्दिश्यते, तेन भुव इड् न भवति'(का. 241) इति। `श्रयुकः किति' (7.2.11) इत्यत्रापि जयादित्यवृत्तौ ग्रन्थः- `गकारोऽप्यत्र चर्त्त्वभूतो निर्दिश्यते भूष्णुरित्यत्र यथा स्यात्' इति। वामनस्य
त्वेतत् सर्वमनभिमतम्। तथा हि तस्यैव सूत्रस्य तद्विरचितायां वृत्तौ ग्रन्थः- केचिदत्र द्विककरानिर्देशेन गकारप्रश्लेषं वर्णयन्ति भूष्णुरित्येवं यथा स्यात्।
सौत्रत्वाच्च निर्देशस्य `श्रयुकः किति' (7.2.11) इत्यत्र चर्त्वस्यासिद्धत्वमना-
श्रित्य रोरुत्वं न कृतम्, विसर्जनीयश्च कृतः इति। `ग्लाजिस्थश्च क्स्नुः' (3.2.139) इत्यत्र स्था आ इत्यकारप्रश्लेषेण स्थास्नोः सिद्धत्वान्न किञ्चदेतत्"(का 802)
इति। स एवं मन्यते- यदि क्स्नुप्रत्यययस्य कित्त्वे सति तिष्ठतेरीत्त्वं
प्राप्नुयात् तथा तत्परिहारार्थं गित्त्वं युज्यते प्रतिज्ञातुम। गित्त्वे च सति
जिष्णुः, भूष्णुः' इत्यत्र यथायोगमिड्‌गुणयोर्निरासाय `क्ङिति च'(1.1.5) इत्यत्र
`श्रयुकः किति' (7.2.11) इत्यत्र च गकारश्चर्त्वभूतो निर्दिश्यमानः शोभेत। न च
क्स्नुप्रत्ययो गित्,किं तर्हि ? किदेव। तत्किमिड्‌गुण्प्रतिषेधार्थेन चर्त्त्वभूतगकारस्य निर्देशेन !न च क्स्नोः कित्त्वेसति तिष्ठतेरात्वं प्राप्नोति। तस्मात् `
ग्लाजिस्थशअच क्स्नुः' (3.2.139) इत्याकारप्रश्लेषः कृतः, क्स्नुप्रत्ययान्तस्य
तिष्ठतेराकार एव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूत् इत्येवमर्थः। ततश्च
तेनैव सिद्धत्वात् स्थास्नुशब्दस्याकिञ्चित्करमिह गकारप्रश्लेषवर्णनमिति. `कामयते' इति। `कमेर्णिङ'(3.1.30)। अत्र `अत उपधायाः'(7.2.116) इति वृद्धेः प्रतिषेधो न भवति। `लैगवायनः' इति। लिगुशब्दात् `नडादिभ्यःफक्' (4.1.99) इति फकि कृते `ओर्गुणः' (6.4.146) इति गुणस्य प्रतिषेधो न भवति। ननु चोकारइगेव, तदयुक्तमिदं प्रत्युदाहरणम् ? नैतदस्ति; अत्र हि चकारः क्रियते `इकः' इत्यनुकर्षणार्थः। तत्र चकारेणानुकर्षणसा-
मर्थ्यादिक इत्येतदर्थपदार्थतामुत्सृज्य स्वरूपपदार्थतामनुभवति। अन्यथा हि यदि
चकारेणाध्यनुकृष्यमाणमर्थपदार्थकमेव स्यात् तदनुकर्षणार्थं चकारकरणमनर्थकं स्यात्, अर्थपदार्थस्य स्वरितत्वादेवानुवृत्तिसिद्धेः। स्वरूपपदार्थके च तस्‌मिन्निह सन्नि-
हिते सत्ययमर्थो भवति, `इकग इत्येवं ये गुणवृद्धी विधीयेते, इक इतीमं शब्दमुचार्य
ये गुणवृद्धी विधीयेते, ते क्ङिन्निमित्ते न भवतः' इति। न च `लैगवायनः' इत्यत्र
इकः' इतीमं शब्दमुचार्य गुणो विधीयते, इक्परिभाषायास्तत्रानुपस्थानात्। अनुपस्थानं तु साक्षादुकारस्य स्थानिनो निर्देशात्। यत्र हि साक्षात् स्थानी न निर्दिश्यते
तत्रासावुपतिष्ठते। ननु यदि स्वरूपपदार्थस्येक इत्यस्येह सन्निधानम्, स्थानी न
निर्दिष्टः स्यात्, ततश्च न ज्ञायते कस्य गुणवृद्धी प्रतिषिध्येते इति ? नैष दोषः। सामर्थ्यादिक एव गुणवृद्धयोः प्रतिषेधोऽयं गम्यते। न ह्यन्यस्येक इतीमं शब्दुमु-
च्चार्य गुणवृद्धी विधीयेते। अथ वा " यद्यपीक्परिभाषा विध्यङ्गशेषभूता, तथापीहास-
त्यपि गुणवृद्धयोर्विधाने चकारेणानुकृशष्य सन्निधाप्यते। एतदेव हि चकारकरणस्य प्रयोजनं यदिदमिक्परिभाषायाः सन्निधापनम्। ततश्च तस्या उपस्थाने सति यत्रासौ व्याप्रियते तत्रैवायं प्रतिषेधो विज्ञायते। क्व चासौ व्याप्रियते ? यत्र स्थानी साक्षान्न्
निर्दिश्यते. इह तु निर्दिश्यते स्थानी, तस्मादिक्परिभाषाया व्यापाराभावाद्भवति
प्रत्युदाहरण्। `मृजेः' इत्यादि। कथं पुनरिष्यमाणापि सा लभ्यते ? यथा लभ्यते तथा
श्रूयताम। `अचो ञ्णिति' श्(7.2.115) इत्यत्र `मृजेर्वृद्धिः' (7.2.114) इति वर्तते, `जराया जरसन्यतरस्याम्' (7.2.101) इत्यतोऽन्यतरस्यां ग्रहणं च मण्डूकप्लुतिन्यायेनानुवर्त्तते, सा च व्यवस्थितविभाषा। `अचः' इति योगविभागः क्रियते। मृजेरजादौ संक्रमे विभाषा वृद्धिर्भवति, अन्यत्र न भवत्येव।
`लघूपधगुणस्याप्यत्र प्रतिषेधः' इति । एतेन संक्रमत्वं दर्शयति। अन्ये तु
उत्तरसूत्रे `कणिता श्वः' रणिता श्वः' इत्यनन्तरमनेन ग्रन्थेन भवितव्यम्,इह तु दुर्विन्यस्तकाकुपदजनितभ्रान्तिभिः कुलेखकैर्लिखितमिति वर्णयन्ति। अथ वा- निमित्तसप्त-
म्या एवेदं फलं दर्शितमिति मन्तव्यम्। `अचिनवम्, असनुवम्' इत्यत्र लङो ङित्वात्
तदादेशस्यापि मिपो ङित्त्वम्। स्थानिवद्भावेन मिपो ङित्त्वात् तदादेशस्याप्यमो
ङित्त्वं पूर्ववत्, ततश्च तदाश्रयो विकरणस्य गुणप्रतिषेधः प्राप्नोति। कस्मान्न
भवतीत्याह- `अचिनवम्' इत्यादि। आदिशब्देन `अकरवम्' इत्यादिनां परिग्रहः। `लकारस्य' इति। लकारादेशोऽपि पारम्पर्येण लकारपूर्वकत्वादुपचारेण लकार इत्युक्तः। सत्यपीत्य-
भ्युपगमे `हलः श्नः शानज्झौ' (3.2.83) इति शानजादेशस्य शित्करणाल्लिङ्गान्नावश्यमनुबन्धकार्येषु स्थानिवद्भावो भवतीत्यध्यवसितोऽयमर्थः। अतो ङित्त्ववचम्' इत्यादि।
यदि ङिति यत्कार्यं विधीयते तल्लकारे ङिति स्यात्, ततो लिङ एव ङित्त्वेन चिनुयादि-
त्यादौ गुणप्रतिषेधस्य सिद्धत्वात् `यासुट् परस्मैपदेषूदात्तो ङिच्च' (3.4.103) इति यत् तस्य यासुटो ङ्द्विचनं तन्न कुर्यात्, कृतञ्च; ततोऽवसीयते- `ङिति यत् कार्यं तल्लकारे इति न भवति' इति।

6. दीधीवेवीटाम्। (1.1.6)
`दीधीवेव्योः' इति। दीधीङ दीप्तिदेवनयोः' (धा.पा. 1076); `वेवीङ वेतिना
तुल्ये (धा.पा.1077) इत्येतयोर्ग्रहणम्। ननु च `दीङ क्षये' (धा.पा. 1134) `धीङ अनादरे'(धा.पा.1136), `वेञ् तन्तुसन्ताने' (धा.पा.1006) `वी गतिप्रजनकान्त्यसनखादनेषु' (धा.पा.1048) इत्येतेषां ग्रहणं कस्मान्न विज्ञायते ? यद्येषां ग्रहणमभिमतं
स्यादसन्देहार्थं `वीवेधीदीटाम्' इत्येवं न्यासं कुर्यात्। अन्यथा तु कृतम्।
तस्मात् पूर्वोक्तयोरेव धात्वोरिह ग्रहणम्। इटश्चेति- `आर्धरधातुकस्य' (7.2.35)
इत्यादिना विहितस्य। अथ `इट्, किट, कटी गतौ' (धा.पा.318,319320) इत्यस्य
ग्रहणं कस्मान्न भवति, युक्तं चैतत्, धातुसाहचर्यात् ? नैतदस्ति; इह`अल्पाच्तरम्' (2.2.34) इत इटः पूर्वनिपाते कर्त्तव्ये तद्विपर्यासं कुर्वतैतत् सूचितम्-`अन्योऽ-
प्यत्र कश्चिद्विपर्यासो विज्ञेयः' इति। तेन धातुसाहचर्याद्धातुग्रहणे प्राप्ते तद्विपरीतस्यैवागमस्य ग्रहणं विज्ञायते। `आदीध्यनम्' इति। ल्युट्। `आदीध्यकः' इति।
ण्वुल्।`कणिता श्वः, रणिता श्वः' इति। `अण रण कण' (धा.पा.444,445,449) इत्यादौ
शब्दार्थे धातुवर्गे कणिरणी पठ्येते , ताभ्यां लुटि स्यताशी लृलुटोः' (3.1.33) इति तासिः, `लुटः प्रथमस्य '(2.4.85) इत्यादिना तिषो डादेशः, टिलोपः, `आर्धधातुकस्य' (7.2.35) इत्यादिनेट्। अथेटो वृद्धेरुदाहरणं कस्मान्न प्रदर्शितमित्याह- `वृद्धिरिटो न सम्भवति' इति। अङ्गस्य वृद्धिर्ञ्णिदादौ प्रत्यये विधीयते इट् चायमार्धधुकभवतः। न चार्धधातुकस्याङसञ्ज्ञास्ति ञ्णिदादौ प्रत्यये। तस्मादिटो वृद्धिर्न भवति।

7. हलोऽनन्तराः संयोगः। (1.1.7)
अन्तरं छिद्रं विवरं वर्णशून्यः काल इत्यर्थः। न विद्यतेऽन्तरं यषां ते
 तथोक्ताः। `भिन्नजातीयैः' इत्यादि। भिन्नजातीयैरिति वचनं भिन्नजातीयानामेव लोके व्यवधायकत्वदर्शनात्। तथा हि कश्चित् केनचित् किमनन्तरे परे ब्राह्मणकुले इति पृष्टः सन्नाह- नानन्तरे, वृषलकुलमनयोर्मध्ये प्रतिवसीति। `श्लिष्टोच्चारितस्य हलः सञ्ज्ञा स्यादिह निर्वायाय्, निर्यायादिति `वान्यस्य संयोगादेः' (6.4.68) इत्येत्वं स्यात्, इह च `संस्कषीष्ट' इति `ऋतश्च संयोगादेः' (7.2.43) इतीट्, इह च
`संस्क्रियते' इति `गुणोऽर्तिसंयोगाद्योः' (7.4.29) इति गुणः- इत्येवमादयोऽन्येऽपि बहवो दोषाः प्रत्येकं हलां सञ्ज्ञित्वे भाष्य उद्भाविताः। यद्यपि तत्रैव ते कथ-
ञ्चित् प्रयासेन परिहृताः, तथापि यस्तु तत्परिहारेण प्रतिपत्तौ साध्यायां प्रति-
पत्तिगौरवदोष आपद्यते सोऽपरिहार्य एव। समुदाये तु सञ्ज्ञिनि दोषाशङ्काऽपि नास्ति। तस्मात् स एव सञ्ज्ञी युक्त इत्यालोच्याह- `समुदायः सञ्ज्ञी' इति। ननु च यत्र
सहभूतानां कार्यमिच्छति तत्र यत्न आरभ्यते, यथा- `उभे अभ्यस्तम्' (6.1.5) इति
उभेग्रहणं करोति, न चेह कश्चिद्यत्नः कृतः, तत्कथं समुदायस्य सञ्ज्ञा लभ्यते ?
इहापि कृत एव यत्न इत्यदोषः। पुनरसौ ? महत्याः सञ्ज्ञायाः करणम्। `लघ्वर्थं हि
सञ्ज्ञाकरणम्' (व्या.प.135) इति महत्याः सञ्ज्ञायाः करणं प्रयोजनमन्तरेण न सम्भाव्यते। तस्मान्महानत्र सञ्ज्ञीत्येतत् सूचयितुं महती सञ्ज्ञा कृतेति गम्येति। तथा
चोक्तम्- `इङ्गितेनोन्मिषितेमन महता वा सूत्रप्रबन्धेनाचार्याणामभिप्रायो लक्ष्यते' इति। एवं च महान् सञ्ज्ञी भवति, यदि समुदायः सञ्ज्ञी भवति, नैकैको हळ्। तस्मादुप-
पन्नमेतत् समुदायः सञ्ज्ञीति `हलः' इति बहुवचननर्देशाद्‌द्वयोः सञ्ज्ञा न सिद्ध्यतीति यश्चोदयेत् तं प्रत्याह- `जातौ च ' इत्यादि। चशब्दो यस्मादर्थे। यस्माज्जातौ बहुवचनं तेन द्वयोर्बहूनां च संयोगसञ्ज्ञा सिद्धा भवति। अग्निरित्यादिकं रूपोदाहरणं
द्रष्टव्यम् `तिलान्स्त्रावपति' इत्यादि। `हे मपरे वा' (8.3.26) इत्यतो वेति वर्त्तमाने , `डः सि धुट्' (8.3.29) इत्यतो धुडिति च, `नश्च' (8.3.30) इति पक्षे धुट्,
`खरि च' (8.4.55) इति च तकारः। तत्र यदा धुण्‌नास्ति तदा`नसतयाः' इति। यदा त्वस्ति तदा `नतसतरयाः'। `तितउच्छत्रम्' इति। `तनोतेर्डउः सन्वच्च(द.उ.1.160) इति डउ-
प्रत्यये टिलोपे द्विर्वचने च कृते रूपम्। `संयोगान्तस्य लोपः'स्यात् इति। यद्य-
त्राकारस्योकारेण सञ्ज्ञा स्यादित्यभिप्रायः। न च लोपे सत्युकारोपदेशस्य वैयर्थ्यमाशङ्कनीयम्। यत्र पदसञ्ज्ञा नास्ति तितउनीत्यादौ, तत्र श्रूयमाणत्वात्। `पचति' इति
रूपप्रत्युदाहरणम्, `पनसम्' इति कार्यप्रत्युदाहरणम् `स्कोः संयोगाद्योरिति लोपः
स्यात्' इति। यदि सकारनकारयोः सान्तरयोरपि संयोगसञ्ज्ञा स्यादिति भावः।


8.मुखनासिकावचनोऽनुनासिकः। (1.1.8)
`मुखसहिता नासिका मुखनासिका' इत्यनेन मुखनासिकाशब्दोऽयं तत्पूरुषः, न
द्वन्द्व इति दर्शयति। तत्‌पुरुषस्तु मयूरव्यंसकादित्वाद्वेदितव्यः। यदि च मुखं च
नासिका चेति द्वन्द्व स्यात्, प्राणितूर्यादिसूत्रेण (2.4.2) एकवद्भावः स्यात्।
ततश्च `स नपुंसकम्' (2.4.17) इति नपुंसकत्वं स्यात्। तस्मिंश्च सति `ह्रस्वो
नपुंसके प्रातिपदिकस्य'(1.2.47) इति ह्रस्वत्वं प्रसज्येतेति भावः। ननु चोच्यते-
अनयेति करणे ल्युटि कृते, तदन्तात् `टिड्‌ढाणञ्' (4.1.15) इत्यादिना ङीपा भवितव्यम्, ततशच् तदन्तेन बहुव्रीहौ `मुखनासिकावचनः' इति निर्देशो नोपपद्यते ? नैतदस्ति; वचनशब्दोऽयं `कृत्यल्युटो बहुलम्' (3.3.113) इति बहुलवचनात् कर्मसाधनः- उच्यत इति
वचनो वर्णे वर्तते, न नासिकायाम्। अत एवाह- `तया य उच्चार्यते' इति।` उच्चार्यते'
इति कर्मणि लकारः। एवं कृत्वा `मुखनासिकावचनः' इति षष्ठीसमासोऽयं वेदितव्यः, न बहुव्रीहिः। `अनुस्वास्यैव' इति। अनुस्वारे ह्युच्यमाने नासिकायाश्च व्यापारो न मुखस्य ; तेन तस्यैव स्यात्, न तु स्यात् ञमङणनानाम् ; नापि `अभ्र आँ अपः' (ऋ.5.48.1)
इत्यात्रार्धचन्द्राकृतेर्वर्णस्य; तदुच्चारणे मुखस्यापि व्यापारात्। ततश्च `यरोऽ
नुनासिके ' (8.4.45) इत्येतस्मिन् कार्ये कर्त्तव्येऽनुस्वारस्यैव ग्रहणं स्यात्, न तु ङकारादीनामित्यभिप्रायः। ननु च प्रासादवासिन्यायेन तेषामपि भविष्यति ? यथा
`प्रासादवासिन आनीयन्ताम्' इत्युक्ते ये प्रासाद एव निवसन्ति, तेषामपि ग्रहणं भवति, येऽपि प्रासादे भूमौ च उभयत्र वसन्ति तेषामपि। यथा ह्यभय आनीयन्ते, तथेहापि `नासिकावचनः' इत्येतावत्युच्यमाने नासिकावचनस्यानुस्वारस्य मुखानसिकावचनानां
च ङकारादीनां ग्रहणं भविष्यति,ततश्चानुस्वारस्य हि स्यादित्ययुक्तमुक्तम्. एवं तु
वक्तव्यम्- अनुस्वारस्यापि हि स्यादिति ? नैतदस्ति; इह हि त्रीणि दर्शनानि
सम्भवन्ति,-` समस्त एवानुनासिको वर्णओ नासिकावचनो मुखवचनश्च' इत्येकं दर्शनम्; `
पूर्वभागस्त्वस्य मुखवचनः' इति तृतीयम्। उभयोरप्यनन्तरयोर्दर्शनयोर्नासिकामुखवचने
भागे तथानुरागं करोति यथाऽसावपि नासिकावचनभाग इव लक्ष्यते। तत्र यदेतदनन्तरदर्शन-
द्वयम्, तस्यान्यरत् पाणिनेरभिमतम्। न चास्मिन् प्रासादवासिन्याय एकत्राप्यवतरति।
यदि हि ङकारादयो नासिकायोऽपि साकल्येनोच्चार्येरन्, मुखेनापि; ततः प्रासादवासि
न्यायेन `नासिकावचनः' इत्येतावत्युक्ते तेषामपि ग्रहणं स्यात्। न चैवं भागस्यैव; तेषां नासिकया मुखेन चोच्चारणात्। तदसति मुखग्रहणे तेषां ग्रहणं न स्यात्, तदभावे च
सञ्ज्ञा न स्यादिति युक्तमुक्तम्- अनुस्वनारस्यैव हि स्यात्' इति। `कचटतपानां मा
भूत्' इति। एते हि ककारादयो मुखेनैवोच्चार्यन्ते, न नासिकया; ततश्चासति नासिका-
ग्रहणे तेषामेव स्यात्। एवं च `शक्तः', `सुप्तम्' इत्यत्र `अनुदात्तोपदेशवनति' (6.4.37) इत्यादिना लोपः प्रसज्येत, `ओदनपक्' इत्यत्र `अनुनासिकस्य क्विझलोः क्ङिति' (6.4.15) इति दीर्घत्वम्।
अथ किमर्थं महती सञ्ज्ञा क्रियते ? अनु पश्चान्नासिका व्याप्रियते यस्मिन्, अथ वा - अनु पश्चान्नासिकाया व्याप्रियते यस्मिन्, यद्वा- नासिकायाः पश्चात्
व्याप्रियते ? मुखस्य तु प्रकृतत्वात् तदेव गम्यते। तत्र ये ते द्वे दर्शने, ययोः
पाणिनेरन्यतरदभीष्टम्, तयोः पूर्वस्मिन् नासिका मुखात् पश्चात् व्याप्रियते,
उत्तरत्र मुखं नासिकायाः। अन्वर्थसञ्ज्ञाकरणं तु पूर्वोक्तयोर्दर्शनयोरन्यतराभ्युपगमसूचनार्थम्। तदभ्युपगमसूचनं तु प्रासादवासिन्यायमाश्रित्य मुखग्रहणं ये प्रत्य-
चक्षीरन्, तेषां निराकरणार्थम्।

9.तुल्यास्यप्रयत्नं सवर्णम्। (1.1.9)
तुलया सम्मितं तुल्यमिति `नौवयोधर्म' (4.4.91) इत्यादिना यतमुत्पाद्य तुल्यशब्दो व्युत्पाद्यते। न च प्रयत्नस्य तुलया सम्मितत्वं सम्भवति, ततश्चासम्भवद्विशेषणमिति यश्चोदयेत्, तं प्रत्याह- `तुल्यशब्दः' इत्यादि। एवं मन्यते-
 व्युत्पत्त्यर्थं तु केवलं तुलोपादमते, न त्वत्र तुलार्थो विद्यते, न वा
सम्मितार्थः। सदृषपर्यायो ह्ययं तुल्यशब्दः। तथा हि- `तुल्य' इत्युक्ते `सदृश' इति पर्यायो भवति, न तु तुलया सम्मित इति। आस्यशब्दोऽयं ण्यदन्तोऽप्यस्ति। अस्यते
क्षिप्यतेऽन्नमनेनेति `कृत्यल्युटो बहुलम्' (3.3.113) इति करणे ण्यत्। आस्यम्- मुखम्। तत्पुनः ओष्ठात्प्रभृति प्राक् काकलकात्। काकलकं नाम ग्रीवायामुन्नतप्रदेशः, लोके यः कण्ठमणिः इत्युच्यते। तद्धितान्तोऽप्यास्यशब्दोऽस्ति- आस्ये भवमिति, `शरीरावयवाच्च' (4.3.55) इति यति कृते, `यस्येति च' (6.4.148) इत्यकारलोपे
`हलो यमां यमि लोपः' (8.4.64) इति यलोपे च कृते `आस्यम्' इति। एतच्च
मुखान्तर्वर्त्तिनां ताल्वादीनां वाचकम्। तत्र यदि पूर्वस्यास्यशब्दस्येदं ग्रहणं
स्यात्, कचटतपानामपि सवर्णसञ्ज्ञा स्यात्, ण्यदन्तस्यास्यशब्दस्य वाच्येऽर्थे
तेषां तुल्यत्वात् प्रयत्नविषयस्य। इममतद्धितान्तस्यास्यशब्दस्य ग्रहणे दोषं दृष्ट्वा तद्धितान्तस्येदं ग्रहणमिति दर्शयन्नाह- `आस्ये भवमास्यम' इति। किं पुनस्तदित्याह- `ताल्वादिस्थानम' इति। यस्मिन् वर्णा निष्पाद्यन्ते, तत् स्थानम्। आविशब्देन
नासिकादीनां ग्रहणम्। ननु च नासिका मुखाद्वहिर्वृत्तिरास्यं न भवति ? नैतदस्ति; न
हि मुखाद्बहिर्वर्त्तिनी नासिकेयं विवक्षिता, तस्यां वर्णानामनिष्पत्तेः। का तर्हि ? अन्तरास्ये चर्म विततमस्ति पणवचर्मवत्, तत्सम्बद्धा रेखा, यस्यां वायुनाभिहन्यमा-नायां वर्णा निष्पद्यन्ते सेह नासिका विवक्षिता। कथं पुनर्विज्ञायते तद्धितान्तस्यास्यशब्दस्येदं ग्रहणमिति ? आस्यग्रहणसार्थ्यात्। यदि ह्यतद्धितान्तस्य ग्रहणं
स्यात्, आस्यग्रहणमनर्थकं स्यात्। सर्वेषामेव हि तद्वाच्य एवार्थे प्रयत्नस्तुल्यः।नास्त्येव हि सः, यस्य व्यवच्छेदार्थमास्यग्रहणं स्यात्। ननु च विसर्जनीयस्य सत्य-
सति वा सवर्णत्वे प्रयोजनमस्ति, नापि दोषः।`स्पृष्टतादिः' इति। आदिशब्देन ईषत्स्पृ-ष्टतादीनां ग्रहणम्। `वर्णगुणः' इति। अकारादीनां वर्णानां धर्म इत्यर्थः।
`तुल्य आस्ये प्रयत्नो यस्य' इति। एतेन तुल्यास्यप्रयत्नशब्दस्त्रिपदोऽयं बहुव्रीहिरिति दर्शयति। व्याधिकरणानामपि गमकत्वनाद्बहुव्रीहिर्भवत्येव; यथा -
`कण्ठेकालः, उरसिलोमा' इति। अथ द्वन्द्वगर्भबहुव्रीहिः कस्मान्नाश्रीयते- आस्यं च
प्रयत्नश्च आस्यप्रयत्नौ,तौ तुल्यौ यस्य तत् तुल्यास्यप्रयत्नमिति ? एवं मन्यते-
द्वन्द्वगर्भबहुव्रीहावाश्रीयमाणे ताल्वादिना स्थानेन प्रयत्नो न विशेषितः स्यात्। ततश्च ककारङकारयोर्मिथः सवर्णसञ्ज्ञा न स्यात्, बाह्यस्य प्रयत्नस्य भिन्नत्वात्।
ककारस्य विवृतकण्ठत्वादिर्बाह्यः प्रयत्नः। ङकारस्य संवृतकण्ठत्वादिः। असत्यां च सवर्णसञ्ज्ञायां शङ्कितेत्यत्र `अनुस्वारस्य ययि परसवर्णः' (8.4.58) इति ङकारो न स्यात्। अथ सत्यपि बाह्यस्य प्रयत्नस्य भेद आभ्यन्तरः स्पृष्टताख्योऽनयोस्तुल्यः
प्रयत्नः, तं समाश्रित्यसवर्णसञ्ज्ञा भविष्यति ? यद्येवम्, शकारचकारसयोरपि सत्यप्याभ्यन्तरयोर्विवृतास्पृष्टतयोः प्रयत्नयोर्भेदे योऽनयोर्बाह्यः प्रयत्नस्तुल्यो
विवृत्कण्ठत्वादिस्तदाश्रया सवर्णसञ्ज्ञा स्यात्। ततश्च `अरुश्च्योतति' इति वक्ष्य-माणं प्रत्युदाहरणं नोपपद्यते।थ त्रिपदे तु बहुव्रीहौ ताल्वादिस्थानेन प्रयत्नो
विशिष्यते। तेन बाह्यं प्रयत्नमुत्सृज्याभ्यन्तर एव स्पृष्टतादिर्गृह्यते। स एव हि
ताल्वादावास्ये सम्भवति, नेतरः। आभ्यन्तरस्य प्रयत्नस्य ग्रहणे सति सत्यपि बाह्य-
प्रयत्नभेदे भतत्येव ककार ङकारयोः सवर्णसञ्ज्ञा; आभ्यन्तरप्रयत्नस्य तुल्यत्वात्,
तस्यैव चेह ग्रहणात्। न च चकारशकारयोः सत्यपि बाह्यस्य प्रयत्नस्य तुल्यत्वे
सवर्णसञ्ज्ञा प्रसजति; तस्येहाग्रहणात्, यस्य च ग्रहणं तस्य चासमानत्वात्। तस्यात् त्रिपद एव बहुव्रीहिराश्रयितुं युक्तः; न द्वन्द्वगर्भ इति। यदि तर्हि त्रिपदो बहु-
व्रीहिराश्रीयते, भिन्नविभक्तिकत्वादप्राधान्याच्चास्यं तुल्यत्वेनाविशेषितं भवति, ततश्च भिन्नस्थानानामपि सवर्णसञ्ज्ञा प्राप्नोति ? नैष दोषः। यदाधेयं प्रति यदधिकरणमुपदीयते, तदाधेयतुल्ययैव तत् तुल्यमिति विज्ञायते। तथा हि- `देवदत्तयज्ञदत्तयोस्तुल्यं कांस्यपात्र्यां भोजनम्' इत्युक्ते कांस्यपात्र्यपि तयोस्तुल्येति
गम्यते। यं प्रति यस्तुल्यास्यप्रयत्नः, स तमेव प्रति सवर्णसञ्ज्ञो भवतीत्येषोऽ-
र्थो यतो वचनाल्लभ्यत इह तन्नास्ति। ततश्च यो यं प्रति तुल्यास्यप्रयत्नः, स ततोऽ-
न्यमपि प्रति सवर्णसञ्ज्ञः स्यादिति चोद्यमाशङ्क्याह- `समानजातीयं प्रति' इति। समानजातीयो यं प्रति यस्तुल्यास्यप्रयत्नः, तं प्रति स सवर्णसञ्ज्ञो भवति, न ततोऽन्यम्। एतच्च तुल्यास्यप्रयत्नशब्दस्य सवर्णशब्दस्य च सम्बन्धिशब्दत्वाल्लभ्यते।
सम्बन्धिशब्दो ह्यन्तेरणापि शब्दान्तरसन्निधिः नियमेव सम्बन्धिनमुपस्थापयति, यथा-
`पितरि शुश्रूषितव्यम्' इति। नोच्यते स्वस्मिन्निति, सम्बन्धाच्चैतदवगम्यते, `यो
यस्य पिता' इति। तथेहापि। यद्यपि यो यस्य तुल्यास्यप्रयत्नः, स तं प्रति सवर्णसञ्ज्ञो भवतीति,न चोच्यते, तथापि सम्बन्धात् तुल्यास्यप्रयत्नः समानजातीयमेव प्रति
सवर्णसञ्ज्ञो भवतीति गम्यते। अथ वा समानो वर्णः `सवर्णः' इत्यन्वर्थसञ्ज्ञेयम्। तेनतुल्यजातीयमेव प्रति सवर्णसञ्ज्ञो भवति। एवं हि समानोऽस्य वर्णो भवति, यदि तमेव
प्रति सवर्णसञ्ज्ञो भवति, न विजातीयं प्रति।
`चत्वारः' इत्यादि। द्विविधाः प्रयत्नाः, आभ्यन्तराः, बाह्याश्च। तत्राभ्य-न्तराः चत्वारो वृत्तरौ दर्शिताः। बाह्यास्त्वेकादशष। के पुनस्ते ? `विवारः, संवारः,श्वासः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदात्तः, अनुदात्तः, स्वरितश्च' इति। तत्र नाभिप्रदेशात् प्रयत्नप्रेरितो वायुः प्राणो नाम ऊर्ध्वमात्रामन्नुरः
प्रभृतीनामन्यतमस्मिन् स्ताने प्रयत्नेन विधार्यते, स विधार्यमाणः स्थानमभिहन्ति,
ततः स्थानाभिघाताद् ध्वनिरुत्पद्यते। आकाशे सावर्ण्यश्रुतिः सवर्णस्यात्मलाभः। तत्र वर्णध्वनावुत्पद्यमाने यदा स्थानमभिहन्ति, ततः स्थानाभिघाताद् ध्वनिरुत्पद्यते।
आकाशे सावर्ण्यश्रुतिः सवर्णस्यात्मलाभः। तत्र वर्णध्वनावुत्पद्यमाने यदा स्थानकरण-प्रयत्नाः परस्परं स्पृशन्ति, तदा सा `स्पृष्टता'। ईषद्यदा स्पृशन्ति, तदा सा ईष-
स्पृष्टता; सामीप्येन यदा स्पृशन्ति, सा संवृतता; दूरेण यदा स्पृशन्ति, सा
विवृतता-एते चत्वार आभ्यन्तराः प्रयत्नाः। आभ्यन्तरत्वं पुनरेषां स्थानकरणप्रयत्न-
व्यापारेणोत्पत्तिकाल एव सम्भवात्। तत्र स्पृष्टकरणाः स्पर्शाः। कादयो मावसानाः स्पर्शाः, स्पष्टता गुणः। करणं कृतिरुच्चारणप्रकारः। स्पृष्टतानुगतं करणं येषां ते
स्पृष्टकरणाः। एवमन्यत्रापि वेदितव्यम्। ईषत्स्पृष्टकरणा अन्तः स्थाः।
अन्तः स्था यरलवाः। विवृतं करणमूष्मणाम्, स्वराणां च। स्वराः सर्व एवाचः।
उष्ममाणः शषसहाः।
अथ बाह्याः प्रयत्नाः किंलक्षणाः ? स एव प्राणो नाम वायुपरूर्ध्वमाक्रामन्
मुर्ध्नि प्रतिहतो निवृतो यदा कोष्ठमभिहन्ति तदा कोष्ठेऽभिहन्यमाने गलबिलस्य संवृतत्वात् संवारो नाम वर्णधर्म उपजायते। विवृतत्वाद् विवारः। संवृते गलबिलेऽव्यक्तः शब्दो नादः, विवृते श्वासः। उपरिवर्तिनौ तौ श्वासनादावनुप्रदानमिति केचिदाचक्षते।
वर्णनिष्पत्तेरनु-पश्चात् प्रदीयत इत्यनुप्रदानम्। अन्ये तु ब्रुवते `अनुप्रदानमनु-
स्वानो घष्टानिर्ह्रादवत्' यथा- घण्टानिर्ह्रादोऽनुस्वनमनुभवति तथा इति। तत्र यदा स्थानाभिघातजे ध्ननौ नादोऽनुप्रदीयते, तदा नादध्वनिसङ्गाद् घोषो जायते, यदा
श्वासोऽनुप्रदीयते, तदा श्वासध्वनिसङ्गादघोषः, महित वायौ महाप्राणः, अस्पवायावल्प-
प्राणः। यदा सर्वाङ्गानुसारी प्रयत्नस्तीव्रो भवति तदा गात्रस्य निग्रहः, कण्ठविवर-
स्य च चाणुत्वम्, स्वरस्य च वायोस्तीव्रगतित्वाद् रौक्ष्यं भवति, तमुदात्तमाचक्षते। यदा तु मन्दः प्रयत्नो भवति, तदा गात्रस्य स्रंसनम्, कण्ठबिलस्य महत्त्वम्,
स्वरस्य वायोर्मन्दगतित्वात् स्निग्धता भवति, तमनुदात्तमाचक्षते। उदात्तानुदात्तस्वरसन्निकर्षात् स्वरित इत्येवं लक्षणा बाह्याः प्रयत्नाः। बाह्यत्वं पुनरेषां वर्णनिष्पत्तिकालादूर्ध्वं, वायुवशेनोत्पत्तेः। तत्र वर्गाणां प्रथम द्वितीयाः शषरविसर्ज-नीयजिह्वामूलीयोपध्मानीया यमौ च प्रथमद्वितीयौ विवृतकण्ठाः श्वासानुप्रदाना अघोषाः।वर्ग्ययमानां प्रथमेऽल्पप्राणाः। इतरे सर्वे महाप्राणाः। वर्गाणाञ्च तृतीयचतुर्था अन्तःस्था हकारानुस्वारौ यमौ च तृतीयचतुर्थौ संवृतकण्ठा नादानुप्रदाना घोषवन्तः।
वर्ग्यमानां तृतीया अन्तःस्थाश्च अल्पप्राणाः। इतरे सर्वे महाप्राणाः। यथा तृतीया-
स्तथा पञ्चमाः, आनुनासिक्यमेषामधिको गुणः।
य एवैते द्विप्रकाराः प्रयत्ना बाह्या आभ्यन्तराश्चाख्याताः, तेषामिह सवर्णसञ्ज्ञायां पूर्वोक्ता आभ्यन्तराश्चत्वारः स्पृष्टतादय आश्रीयन्ते,न बाह्या
विवारादयः, आस्यग्रहणेन तेषां व्यावर्तितत्वात्। स्पृष्टतादय एव ह्यास्ये भवन्ति, नविवारादयः। यद्येवम्, किमर्थं प्रयत्नग्रहणम्, एतावदस्तु तुल्यास्यमिति, आस्यग्रहणेनैव हि स्पृष्टतादयोऽपि प्रयत्नाः सवर्णसञ्ज्ञायां निमित्तभूतास्ताल्वादिस्थानवल्लभ्यन्त एव, तेषामप्यास्ये भवनात् ? सत्यमेतत्, तथाप प्रत्येकं व्यापार-
निरासार्थमुभयोरुपादानाम्। इतरथा हि यथैव स्थानं तुल्यं स्थानान्तरनिरपेक्षं सवर्ण
सञ्ज्ञायां व्याप्रियते, एवं प्रयत्नोऽपि स्थाननिरपेक्षः, स्थानं च प्रयत्ननिर-
पेक्षं व्याप्रियेत; ततश्च भिन्नप्रयत्नानामपि तुल्यस्थानानाम्, भिन्नस्थानानामपि
तुल्यप्रयतनानां सवर्णसञ्ज्ञा स्यात्। `अ अ अ' इत्यादिना येषां यावतां च यादृशां च मिथो नित्या सवर्णसञ्ज्ञा, तान् दर्शयति। अकाराणां हि सर्वेषाम् `अकुहविसर्जनीयाः
कण्ठ्याः' इति तुल्यं कण्ठस्थानम्। इकाराणामपि `इचुयशास्तालव्याः' इति तालु। उकारा-णामपि `उपूपध्मानीया ओष्ठ्याः' इत्योष्ठः। ऋकाराणामपि `ऋटुरषा मूर्धन्याः' इति
मूर्धा। लृकाराणामपि `लृतुलसा दन्त्याः' इत दन्तः। एकाराणामैकाराणां च
`एऐ कण्ठ्यतालव्यौ' इति कण्ठतालु। ओकाराणामौकाराणां च `ओ ओ कण्ठ्यौष्ठ्यौ' इति
कष्ठोष्ठम्। प्रयत्नस्तु सर्वेषामेवैषां विवृतं करणमूष्मणां स्वराणां चेति विवृतत्वम्। तस्मात् तुल्यस्थान्प्रयत्नत्वात् स्वरेऽकारादयो मिथः सवर्णसञ्ज्ञाः। एवं
यावदौकारः। अन्तःस्था द्विप्रभेदाः, सानुनासिका निरनुनासिकाश्च रेफवर्जिताः। तेऽपि समानजातीयानन्तःस्थान् प्रति सवर्णसञ्ज्ञा भवन्ति। `रेफोष्मणां सवर्णा न सन्ति'
इति। तेऽभ्योऽन्येऽकारादयो वर्णा विजातीया इत्येषोऽभिप्रायः। तुल्यजातीयास्तु रेफोष्माणस्तुल्यस्थानप्रयत्नाः सवर्णाः सन्त्येव। तत्र रेफस्य तावद् ऋटुरषेभ्यो यवलेभ्यश्चान्ये वर्णा भिन्नस्थानत्वाच्च भिन्नप्रयत्नत्वाच्च सवर्णा न भवन्ति। तथा
हि- `अकुहविसर्जनीयाः कण्ठ्‌याः, इचुयशास्तालव्याः, लृतुलसा दन्त्याः,अपूपध्मानीया ओष्ठ्याः, एऐ कण्ठ्यतालव्यौ, ओ औ कण्ठ्योष्ठयौ' इति वचनादकारादीनां यथायोगं
कण्ठादि स्थानम्। रेफस्य त्वृटुरषा मूर्धन्या इति मूर्धा। प्रयत्नोऽप्यनन्तरनिर्दिष्टेष्वकारादिषु ये स्वराः तेषां विवृतं करणमूष्मणां स्वराणां चेति विवृतत्वम्। ये तु वर्गान्तः पातिनः ककारादयः, तेषां स्पृष्टकरणाः स्पर्शा इति स्पृष्टता। रेफ-
स्येषत्स्पृष्टकरणा अन्तःस्था इतीषत्स्पृष्टता। शकारसकारावपि स्थानप्रयत्नभेदाद्‌
रेफस्य सवर्णौ न भवतः। तौ हि यथाक्रमं तालव्यदन्त्यौ। रेफस्तु मूर्धन्यः। प्रयत्नो
ऽपि तयोर्विवृतत्वम्। रेफस्य तु पूर्वोक्त एव। ऋटुषाः प्रयत्नभेदाच्चैव रेफस्य
सवर्णा न भवन्ति; न तु स्थानभेदेन; तेषामपि मूर्धन्यत्वात्। प्रयत्नभेदस्तु विद्यतेऋकारषकारयोः पूर्ववद् विवृतत्वम्, रेफस्य तु स एव पूर्वोक्तः। टवर्गस्य स्पृष्टता।
यवलास्तु पुनः स्थानभेदादेव सवर्णा न भवन्ति, न तु प्रयत्नभेदात्; तेषामपीषत्स्पृ-
ष्टगुणत्वात्। स्थानभेदस्तु विद्यते, यवलानां यथायोगं तालव्यदन्त्योष्ठ्यत्वात्।
एवं विसर्जनीयजिह्वामूलीयोपध्मानीयानुस्वाराः। कुँ खुँ गुँ घुँ इत्येते च
यमाश्चातुल्यस्थानप्रयत्नत्वादेव रेफस्य सवर्णा न भवन्ति। विसर्जनीयो हि कण्ठ्यः,
जिह्वामूलीयो हि जिह्व्यः; उपध्मानीय ओष्ठ्यः, अनुस्वारयमा नासिक्याः, रेफस्तु
मूर्धन्यः। प्रयत्नस्तु यस्तस्य पूर्वोक्तः, स विसर्जनीयादीनां नास्त्येव तदेवं रेफस्य रेफादन्यो नास्ति कश्चित् सवर्तो वर्णः। अनया दिशोष्मणामपि शकारादीनां
सावर्ण्याभावे वेदितव्यः।
`वर्ग्यः' इत्यादि। वर्गे भवो वर्ग्यः। `दिगादित्वाद् यत्' (4.3.54),
`यस्येति च' (6.4.148) इत्याकारलोपः। वर्ग्यो यो वर्णः, सोऽन्येन वर्ग्येण
स्ववर्गान्तःपातिना तुल्यास्यप्रयत्नेन सह सवर्णो भवति,यथा-ककारः खकारेण।
एवमन्यत्रापि वेदितव्यम्। `भिन्नस्थानानाम्' इत्यादि। एते हि ककारादयः सर्वे स्पृ
ष्टगुणत्वात् तुल्यप्रयत्ना यथाक्रमं कण्ठतालुमूर्धदन्तोष्ठस्थानत्वाद्भिन्नस्थानाः। `तर्प्ता, तर्प्तुम्' इति। `तृप तृन्फ तृप्तौ' (धा.पा.1307,1308) इत्यस्य तृचि तुमुनि च रूपम्। `भिन्नप्रयत्नानाम्'इत्यादि। इकारादयोहि तालव्यत्वात् सर्वे तुल्य-
स्थाना विवृतत्वस्पृष्टत्वेषत्स्पृष्टत्वप्रयत्नात् यथायोगं भिन्नप्रयत्नाः। इकार-
शकारयोर्यद्यपि प्रयतनोऽप्यभिन्नः,तथापि, तयोः प्रतिषेधं वक्ष्यतीति न भवति सवर्ण-
त्वम्। `अरुश्च्योतति'इति `श्च्युतिर् क्षरणे' (धा.पा.41) इत्यस्य लटि रूपम्। तत्र परत्रावस्थितऽरुस्‌शब्दस्य सकारस्य रुत्वम्। तस्य विसर्जनीयः, तस्यापि `वा शरि' (8.3.36) इति सकारः, तस्यापि श्चुत्वं शकारः। `होतॄकारः' इति। कथं पुनरत्र ऋकार
आदेशो भवति, न हि ऋकारलृकारयोः समुदायस्य स्थानिनः सोऽन्तरतम इत्याह- `उभयोः'
इत्यादि। ऋकारो मूर्धन्यः, लृकारस्तु दन्त्यः। तत्र तयोर्यद्येको मूर्धन्यो
दन्त्यश्च दीर्घो वर्णोऽन्तरतमः सम्भवेत्, तदा सोऽन्तरतम आदेशो भवेत्। स च न सम्भवतीत्यवयवस्य योऽन्तरतमः, तेन भाव्यम्। तत्रापि यदि लृकारो दीर्घः स्यात्। सोऽपि पर्यायेण स्यात्, स च नास्ति; तस्मात् पारिशेष्यात् समुदायस्यैकादेशस्य योऽन्तरतमः स एव ऋकारो भवति।

10.नाज्झलौ। (1.1.10)
`तुल्यास्यप्रयत्नावपि' इति प्रसङ्गे हेतुमाह, प्रसङ्गपूर्वकत्वात् प्रतिषेधस्य। `दण्डहस्त' इत्यत्राकारहकारयोर्द्वयोरपि कण्ठस्थानत्वात् तुल्यस्थानत्वम्, उभयोर्विवृतकरणत्वात् तुल्यप्रयत्नत्वम्‌; `दधि शीतम्' इत्यत्राप्यत एव तुल्युप्रयत्नत्वम्, उभयोस्तालव्यत्वात् तुल्यस्थानत्वम्। `सवर्णदीर्घत्वं न भवति' इति प्रतिषेध-
स्य फलं दर्शयति। ननु च अकः सवर्णे दीर्घविधौ (6.1.101) `अचि'; इति वर्तते,
तत्रासत्यपि प्रतिषेधे दीर्घत्वं न भविष्यति, यथा- कुमारी शेते इत्यत्र, तदयुक्तमे-वोदाहरणद्वयम्। स्यादेतत्- `अणुदित् सवर्णस्य चाप्रत्ययः' (1.1.69) इत्यकारेका-
राभ्यां सावर्ण्येन ग्रहणादच्त्वमस्ति, तथापि हल्षूपदेशाद् हल्त्वमप्यस्तीति न
तावद्धकारश्कारवचावेव, अपि तु हलावपीति, सत्यमेतत्। अयं पुनरत्र वृत्तिकारस्याभि
प्रायः- अवश्यं तावदन्यार्थं `नाज्झलौ' (1.1.10) इत्येतत् कर्तव्यम्, यस्येति लोपा-भावार्थम्। तदन्यार्थं कृतमेतदर्थमपि स्यात्। एवं तर्ह्यजनुवृत्तिद्वारेण दीर्घत्वाभावप्रतिपत्तौ साध्यायां यत् प्रतिपत्तिगौरवमापद्यते, तदपास्तं भवतीति।
`वैपाशः' इति। विपाशि भव इत्यण्। `यस्येति च' (6.4.148) इत्यत्रेवर्ण
उपादीयमानः सावर्ण्येन शकारमप्युपादत्ते। एवं च तस्य लोपः प्रसज्येत। `आनहुहम्' इति। अनडुहो विकार इति `प्राणिरजतादिभ्योऽञ्' (4.3.154),तत्र `यस्येति च' (6.4.148)
इत्यत्राकारो गृह्यकारो हकारमपि गृह्णीयात्, ततश्च पूर्ववत् तस्य लोपः स्यात्।

11.ईदूदेद्‌द्विवचनं प्रगृह्यम्। (1.1.11)
अत्रेदादि यद्‌द्विवचनम्,तत् प्रगृह्यमित्येवं वा विज्ञायते ? ईदाद्यन्तं
यद् द्विवचनम्, तत् प्रगृह्यमिति वा? तत्राद्ये पक्षे `पचेते' इत्यादौ प्रगृह्यस़ञ्ज्ञा न प्राप्नोति, न ह्येकारमात्रमत्र द्विवचनम्; अपि तु आतेशब्द इति। इममाद्ये
पक्षे दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह- `ईदूदेदित्येवमन्तम्'इत्यादि। नन्वेतस्मिन्नपि पक्षे अग्नी इत्येवमादि न सिध्यति, ईदाद्येव ह्यत्र द्विवचनं न तदन्तम् ? `आद्यन्तवदेकस्मिन्' (1.1.21) इत्यनेनान्तवद्भावो भवतीत्यदोषः। `अग्नी' इति। ` प्रथमयोः पूर्वसवर्णः' (6.1.102) इति दीर्घत्वम्। अत्र प्रगृह्यसञ्ज्ञायां सत्याम्
`प्लुतप्रगृह्या अचि' (6.1.125) इति प्रकृतिभावादितिशब्दे परतः `अकः सवर्णे'
दीर्घत्वं (6.1.101) न भवति। `वायु' इत्यत्रापि `इको यणचि' (6.1.77) इति यणादेशः।
शेषेष्वप्युदाहरणेष्वयादेशः। `खट्वे' इति। `औङ आपः' (7.1.18) इति शीभावः। ` आद्‌गुणः' (6.1.87)। `पचेते' इति,`यजेते' इति। स्वरितेत्वादात्मनेपदम्, आताम्, टेरेत्त्वम्, `आतो ङितः' (7.2.81) इतीयादेशः `लोपो व्योर्वलि' (6.1.66) इति यलोपः।
`वृक्षावत्र, प्लक्षावत्र' इति। भवत्येतद् द्विवचनम्; न त्वीदूदेदन्तम्। तेन
प्रकृतिभावाभावादादेशो भवत्येव। `कुमार्यत्र' इति। `वयसि प्रथमे' (4.1.20) इति ङीपिकृते `कुमारी' इत्येतदीकारान्तम्‌, न तु द्विवनचान्तम्; तेनासति प्रकृतिभावे भवत्येव यणादेशः।
अथ तपरकरणं किमर्थम् ?प्लुतनिवृत्त्यर्थमिति चेत्, न; इष्टत्वात् प्लुतस्य। यथा च तपरत्वे क्रियमाणेऽपि प्लुतस्य प्रगृह्यसञ्ज्ञा सिध्यति, तथा भाष्ये
`असिद्धः प्लुतः, तस्यासिद्धत्वात् तत्काल एव'(म.भा.1.66) इत्यादिना प्रतिपादितम्। गुणान्तरभिन्नानां तत्कालानां ग्रहणार्थमिति चेत्,न; `अभेदकत्वाच्छास्त्रे गुणानाम्' (सो.प.80) इत्यत आह- `तपरकरणमसन्देहार्थम्' इति । असति हि तपरकरण
ईकारस्योकारस्य च यणादेशः स्यात्। ततश्च सन्देह एव स्यात्‌-किमिदं यकारवकारोयर्ग्रहणम्, आहोस्विदिकारोकारयोरिति `वक्तव्यः' इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यातम्- वक्ष्यमाणं शाकल्यग्रहणमिहोपतिष्ठते सिंहावलोकितन्यायेन , सा च व्यवस्थित-
विभाषा; तेन मणीवादीनां प्रतिषेधो भविष्यति, मणीव, दम्पतीव्, रोदसीवेति। मणीवेत्या-
दयः शब्दा द्विवचनान्ताः। तत्रासति प्रगृह्यत्वे `अकः सवर्णे दीर्घः' ((6.1.101)
एकादेशो भवत्येव।

12. अदसो मात्। (1.1.12)
`अदसः सम्बन्धी यो मकारः' इति। अवयनवावयविभावलक्षणेन सम्बन्धेन षष्ठी।
`अमी अत्र' इति अदस्‌शब्दात् परस्य जसः शी (7.1.17) त्यदाद्यत्वम् (7.1.102) ,
अतो गुणो' (6.1.97)पररूपत्वम्, ईकारेण सह `आद्‌गुणः' (6.1.87) `एत ईद्बहुवचने'
(8.2.81) इतीत्त्वम्, दस्य च मत्वम्, (8.2.80)। अयमद्विवचनार्थ आरम्भः। `अमू
आसाते' इति। अदसो द्विवचनमौ। त्यदाद्यत्वम्,`वृद्धिरेचि' (6.1.88) इति वृद्धिः; `अदसोऽसेर्दादुदो मः' (8.2.80) इत्यौकारस्य दीर्घस्य स्थाने तादृश एवान्तरतम्यादुकरः।अत्राप्यूकारादिकार्यमसिद्धमिति पूर्वेणाप्राप्तिः। अतः `पूर्वात्रासिद्धम्' (8.2.1) इत्यस्य बाधनार्थं आरम्भः। कथं पुनः `पूर्वत्रासिद्धम्'(8.2.1) इत्येतच्छक्यं
बाधितुम्, वचनसामर्थ्यात्? नैतदस्ति; यत् सिद्धे प्रगृह्यकार्यम् `अणोऽप्रगृह्य-
स्यानुनासिकः' (8.4.57) इति, तदर्थं वचनं स्यात्, नैतदेवम्; न ह्येकं प्रयोजनं
योगारम्भं प्रयोजयति। यदि ह्येतावत् प्रयोजनं स्यात्, तत्रैवेदं ब्रूयात्,
`अणोऽप्रगृह्यस्यानुनासिकः, अदसो न' इति। `शम्य्तर, दाडिम्यत्र' इति। `षिद् गौरादिभ्यश्च' (4.1.41)इति ङीष्, `यस्येति च' (6.4.148) इत्यकारलोपः। भवत्ययं
मकारात्पर ईकारः, न त्वदः सम्बन्धीति। `अमुकेऽत्र' इति। `अव्ययसर्वनाम्नाम्'(5.3.
71) इत्यकच्, `जसः शी' (7.1.17), `आद्‌गुणः' (6.1.87), पूर्ववदुत्वमत्वे अमुके इति
स्थिते परत्र चात्रशब्दे `एङः पदान्तादति' (6.1.109) इति पूर्वरूपत्वम्।

13. शे। (1.1.13)
`शे' इति। शेश्रुतेरविशिष्टत्वात् काशे कुशे इत्यत्र यः शेशब्दस्तस्यापि
ग्रहणं प्राप्नोति, अतो विशेषो वक्तव्य इत्यभिप्रायेणाह- `किमिदं शे' इति। `सुपाम्'इत्यादि। यस्तु काशकुशशब्दाभ्यां सप्तम्येकवचने च कृते आद्गुणे (6.1.87) च शेशब्दः सम्पद्यते, तस्येह ग्रहणं न भवति; लाक्षमिकत्वादिति भावः। `युष्मे, अस्मे' इति।
षष्ठीबहुवचनस्य `सुपां सुलुक्' (7.1.39) इत्यादिना शेशब्दादेशः, `शेषे लोपः'(7.2.90) अथ वा- प्रथमाबहुवचनस्यैव शेभावः, छान्दसत्वात् `यूयवयौ जसि' (7.2.93) इत्येतन्न
प्रवर्तते। `त्वे इति, मे इति'। सप्तम्येकवचनस्य पञ्चम्येकवचनस्य च शेभावः। `त्वमा-
वेकवचने' (7.2.97) इति युष्मदस्मदोस्त्वमावादेशौ। `इतरत् तु लौकिकमनुकरणम्' इति।
यदा `युष्मे इति' एवमादिकं तदा लौकिकमनुकरणमिति भावः। यदा `युष्मे', `अस्मे' इत्याददीनां वेदवाक्यस्थानामर्थाद्वयवच्छिद्य स्वरूपेऽवस्थानार्थं पदकारैरितिकरणोऽध्या-
ह्रियते, तदा `युष्मे इति', `अस्मे इति' एवमादिकमुदाहरणमिति भवति। इतरत् तु लौकिकम
नुकरणमित्युक्ते `न युष्मे वाजबन्धवः' (ऋ.8.69.19), `त्वे रायः' (तै.सं.1.2.5.2), `मे रायः' (वा.सं.4.22) इत्येतेष्वपि वेदवाक्येषु यत् `युष्मे' इत्यादिशेशब्दान्तं शब्दरूपम्, तत् स्वरूपेण दर्शयितुमाह- `युष्मे इति, अस्मे इति, त्वे इति, मे इति'।
यद्येववं किमर्थं `न युष्मे वाजबन्धवः' )ऋ 8.69.19) इत्यादीनामुपन्यासः ? एषु वेदवाक्येषु ये `युष्मे' इत्यादयः शब्दाः, तेषामेतान्यनुकरणनीति प्रदर्शनार्थः; अन्यथा
हि ज्ञायते कस्यैतान्यतनुकरणनीति।।

14. निपात एकाजनाङ्। (1.1.14)
एकाजिति बहुव्रीहिर्वाऽयं स्यात्,कर्मधारयो वा ? यदि बहुव्रीहिः, प्रशब्द-
स्यापि प्रगृह्यसञ्ज्ञा स्यात्। ततश्च `प्रोपाभ्याम्' (1.3.42) इति निर्देशो नोपप-
द्येत, प्राग्नय इति च प्रत्युदाहरणम्। तस्मात् कर्मधारयोऽयमिति मनसि कृत्वाह- `एकश्चासावच्छेत्येकाच्' इति। `अ अपेहि' इत्यादीनि त्रीणि च्छान्दसान्युदाहरणानि;
इतरत् तु लौकिकम्। तत्र `आ एवं नु मन्यसे' इत्यत्राकारो वाक्यापरिपूरणार्थः। `आ
एवं किल तत्' इत्यत्र तु स्मरणार्थः। `चकारात्र' इति। करोतेर्लिट्। `परस्मैपदानाम्' (3.4.82) इत्यादिना तिपो णल्, वृद्धिः, रपरत्वम्। `द्वर्वचनेऽचि' (1.1.59) इति
स्थानिवद्भावेन द्विर्वचनम्। उरत्त्वम् (7.4.66)। `कुहोश्चुः' (7.4.62)
इति चुत्वम्। भवत्ययं णलकार एकाच्, न तु निपातः।
`प्राग्नये' इति। प्रशब्दो भवति निपातः, न त्वेकाच्। तेन `प्लुतप्रगृह्या अचि' (6.1.125) इति प्रकृतिभावो न भवति। `अकः सवर्णे' (6.1.101) इति दीर्घत्वं
तु भवत्येव।
आकारोऽत्र हि ङिद्विशिष्ट उपात्तः, तस्य न ज्ञायते- क्व च ङित्त्वम्, क्व च नेति। अतो ङित्त्वाङित्त्वयोर्विषयविभागप्रदर्शनार्थमाह- `ईषदर्थे' इत्यादि।
तत्रेषदर्थे-आ-उष्णम्- ओष्णमिति।ईषदुष्णमित्यर्थः। क्रियायोगे उपसर्गसञ्ज्ञायां
ङिद्विशिष्ट एव पठ्यते।

प्रपरापसमन्ववनिर्दुर्व्याङन्यधयोऽप्यतिसूदभयश्च।
प्रतिना सह लक्षयितव्याः पर्युपयोरपि लक्षणमत्र।। इति।
आ इहि- एहि। आ अत्ति= आत्ति। मर्यादाभिविध्योरपि ङिद्विशिष्ट एव पठ्यते, `आह
मर्यादाभिविध्योः' (2.113) इति। मर्यादा= ,सीमा; अवधिः। आ उदकान्तात्= ओदकान्तात्
प्रियं प्रोधमनुव्रजेत्। अभिविधिः = अभिव्याप्तिः। आ अहिच्छत्रात्, आहिच्छत्रं
वृष्टो देवः। अहिच्छत्रं गृहीत्वा वृष्टो देव इत्यर्थः। ङिद्विशिष्टस्य `अनाङ' इति प्रगृह्यसञ्ज्ञाप्रतिषेधात् स्वरसन्धिर्भवति। अथ `एतमातम्' इत्यत्रैतदः `द्वितोयाटौस्त्वेनः' (2.4.35) इत्येनादेशः कस्मान्न भवति ? `अन्वादेशे' इति तत्रानुवर्त्तते। अस्ति चेहान्वादेश इत्यस्ति प्राप्तिः ? यथा न भवति तथा तत्रैव प्रकरणे वृत्तिकारः स्वयमेव वक्ष्यतीति(का.162) पुनरिह नोच्यते। `आतम्' इति। आकारे तकारो मुखसुखार्थः। ये तु पुरेतमाङमिति ङकारसहितमाकारं पठन्ति तेषां ङितं विद्यादिति वचनमनर्थकं स्यात्; ङकारसहितस्य पाठादेव ङित्त्वविज्ञानात्। तस्मात् तकारपर एवायमाकारः पठितव्यः। `
वाक्यस्मरणयोः' इति। वाक्यशब्देन वाक्यार्थ उक्तः; अबिधेयेऽभिधानोपचारात्। प्रक्रान्तं हि वाक्यार्थं किञ्चिदपेक्ष्येदं प्रयुज्यते- `आ एवं नु मन्यसे' इति। एवमयं वाक्यार्थो विज्ञायत इत्य्रथः। पूर्वप्रक्रान्तवाक्यार्थप्रदर्शनपरोऽयमाकारः
प्रयुक्तः। अथ वा- पूर्वप्रक्रान्तवाक्यार्थस्यान्यथाकरणमिदं प्रयुज्यते, `आ एवं नु मन्यसे' इति, नैवं पूर्वममंस्थाः, सम्प्रति त्वेवं मन्यस इति। अथ वा- वाक्याशब्देन वाक्यमेवोच्यते, वाक्यावयवो निरर्थक एवाकारः प्रयुज्यत इति। स्मरणं स्मृतिः, तत्र य आकारो वर्त्तते स्मृतिसूचकः,स ङिन्न भवति। `आ एवं किल तत्', एवमिदं विज्ञातमित्यर्थः। ज्ञातं स्मृतमेव। अथ वा- स्मर्त्तव्यार्थविषयः पूर्वमाकारः प्रयुज्यते। `आ'
इति स्मतेरुत्तरकालमर्थ आख्यायते। `आ' इत्येतस्यैवं किल तदिति भवत्ययमर्थ इत्यर्थः। वाक्यस्मरणयोराकारस्य प्रगृह्यसञ्ज्ञास्त्येवेति `प्लुतप्रगृह्या अचि' (6.1.125) इति प्रकृतिभावः। तेन `वृद्धिरेचि' (6.1.88) इति वृद्धिर्न भवति।

15. ओत्। (1.1.15)

16. सम्बुद्धौ शाकस्येतावनार्षे। (1.1.16)
`सम्बुद्धिनिमित्तः' इति। सम्बुद्धिर्निमित्तं यस्य स तथोक्तः। एतेन `सम्बुद्धौ' इत्यस्य निमित्तसप्तमीत्वं दर्शयति। परसप्तम्यां त्वस्याम् `हे त्रपो'
इत्यत्र न स्यात्, `स्वमोर्नपुंसकात्' (7.1.23) इति सम्बुद्धेर्लुप्तत्वादिति भावः। `सम्बुद्धौ च' (7.3.106) इति वर्त्तमाने `ह्रस्वस्य गुणः' (7.3.108) इत्यनेन यो
गुणो विधीयते, स सम्बुद्धिनिमित्तः, तस्य सम्बुद्धिनिमित्तत्वमुपादाय विहितत्वात्। `गवित्ययमाह' इति। केनचिद् गौरिति वक्तव्ये शक्तिवैकल्याद् `गो' इत्युक्तम्, तमन्यो यदानुकरोति, तत्रैतत् प्रत्युदाहरणम्। ननु चानुकार्येणार्थेनार्थवत्त्वात्
प्रतिपदिकत्वे सति विभक्त्यात्र भवितव्यमित्यत आह- `अत्र' इत्यादि। अत्रानुक्रियमाणस्यानुकरणस्य यदि भेदो विवक्ष्यते, ततोऽर्थवत्तायां सत्यां स्याद्विभक्तिः, स तु न विवक्ष्यत इति कुतस्तस्याः प्रसङ्गः? न हीह शब्दशास्त्रे वस्तुनः सत्तैव शब्-
संस्कारस्य प्रधानं कारणम्, किं तर्हि, विवक्षा च। सा चेह नास्ति। `शाकल्यग्रहणं विभाषार्थम्' इति। एतेन पूजार्थताशङ्कां निरस्यति। यदि हि पूजार्थमेव तत् स्यात्,
विकल्पो न भवेदिति भावः।।

17.उञः। (1.1.17)

18.ऊँ। (1.1.18)
`तेन त्रीणि रूपाणि भवन्ति' इति शाकल्यग्रहणानुवृत्तेः फलं दर्शयति। यदि
ह्यत्र शाकल्यग्रहणं नानुवर्त्तेत, तदा पूर्वसूत्रेण यस्मिन् पक्ष उञः प्रगृह्यसंज्ञा न विहिता तस्मिन्ननेनन नित्यम् `ऊँ' आदेशः स्यात्। तत `उ'इति, `ऊँ' इति च
द्वे रूपे स्याताम्; न वितीति तृतीयम्। शाकल्यग्रहणानुवृत्तौ तु सत्यां यस्मिन्
पक्षे पूर्वसूत्रेण प्रगृह्यसञ्ज्ञा उञो न कृता, तस्मिन्नेन ऊँ आदेशे विभाषा विहिते वितीति तृतीयं रूपं सिध्यति।

19. ईदूतौ च सप्तम्य्रथे। (1.1.18)
`अध्यस्यां मामकी तनू' इति। एतद् वेदवाक्यं वेदितव्यम्। अत्र `मामकी'
`तनू' इति शब्दौ`सूपां सुलुक्' (7.1.39) इति लुप्तसप्तमीकौ। तत्र यदा अर्थाद्वयव-
च्छिद्य स्वरूपे व्यवस्थापनायेतिशब्दः प्रयुज्यते उदाहरणे- `मामकी'इति, `तनू' इति च। तथा स`सोमो गौरी' इत्येतदपि। मामक्यामित्यादेरुपन्यासः सप्तम्यर्थप्रदर्शनार्थः।
`डादेशः' इति। सुपां सुलुगित्यादिना (7.1.39)। तत्रेतिशब्दे परतोऽकः
सवर्णे दीर्घत्वं (6.1.101) भवत्येव। `धीती' इत्यादि। `धीतिमतिसुष्टुतिशब्देभ्यः परस्य तृतीयैकवचनस् पूर्वसवर्णदीर्घत्वम्, लुग् वा। इतिशब्दे परतोऽकोऽत्रापि सवर्ण-दीर्घत्वं भवत्येव। धीत्येत्यादिना तृतीयार्थवृत्तितां दर्शयति। `वाप्यामश्वः,
नद्यामातिः' इति `सञ्ज्ञायाम्' (2.1.44) इति सप्तमीसमासः। अथार्थग्रहणे क्रियमाणेऽपि कस्मादेवात्र न भवति, अस्ति ह्यत्रापि सप्तम्यर्थः ? नैतदस्ति, अर्थग्रहणसाम-
र्थ्यात्। अर्थग्रहणे सति केवलो योऽसंसृष्टः सप्तम्यर्थः स इह गृह्यते। नैवंविधे समासे सप्तम्यर्थः सम्भवति; संविभिन्नोभयरूपत्वाद् वृत्तौ वर्त्तिपदार्थानाम्। एषोऽजहत्स्वार्थायां वृत्तौ परिहार उक्तः, जहत्स्वार्थायां तु तस्यां वाक्यावस्थायामुपसर्जनीभूतो योऽर्थः, तं शब्दो जहातीति सप्तम्यर्थो नास्त्येव। तेनार्थग्रहणे सति
समासे प्रगृह्यसञ्ज्ञा न भवति।
अथ तपकरणं किमर्थम्? प्लुतनिवृत्यर्थमिति चेत्, न ; असम्भवात्। न
प्लुते हीकारोकारन्तं सतप्यमर्थ रूपं किञ्चिदस्ति, यद्वयावृत्तये तपकरणं क्रियते।
गुणान्तरभिन्नानां तुल्यकालानां ग्रहणार्थमिति चेत्, न; अभेदकाच्छास्त्रे गुणानाम् इत्यत आह- `तपरकरणम्' इत्यादि। तपरत्वे ह्यसति यणादेशः स्यात्। ततश्च
किमयं दीर्घः, उत ह्रस्व इति सन्देहः स्यात्, स मा भूदिति तपरत्वं क्रियते।
`ईदूतौ सप्तमी' इत्यादि। ईदूतौ सप्तमीत्येतावदेव सूत्रमस्तु, किमर्थग्रहणेन ? `लुप्तेऽर्थग्रहणाद् भवेत्' इह `सोमो गौरी अधिश्रितः'(ऋ 9.12.3) इति लुप्ताय-
मपि सप्तम्यां प्रगृह्यसञ्ज्ञा यथा स्यादित्येव मर्थग्रहणम्। अत्र हि सप्तम्या
अभावात् प्रगृह्यसञ्ज्ञा न स्यात्,अर्थग्रहणात्‌ तु भवति, सप्तम्यर्थस्य विद्यमान-
त्वात्। `पूर्वस्य चेत्सवर्णोऽसौ' इति। स्यादेतत्‌- नैवात्र सप्तम्या लुक् क्रियते,किं तर्हि ? `सुपां सुलुक्' (7.1.39) इत्यादिना पूर्वसवर्णः ईकारः। तत्राकः सवर्णेदीर्घत्वे कृते तस्यान्तवद्भावे सति सप्तमीग्रहणेन ग्रहणादस्त्येव सप्तमी, ततो
नार्थोऽर्थग्रहणेनेति। एतच्चायुक्तम्। एवं हि सति आडाम्भावः प्रसज्यते। यद्यत्र पूर्वसवर्णः स्यात्, तदा परत्वादक सवर्णदीर्घत्वं बाधित्वा `आण् नद्याः' (7.3.112)
इत्याटो भाव आपपद्यते, `ङेराम्नद्याम्नीभ्यः' (7.3.116) इत्यामश्च। भावः प्रादुर्भावः, सत्ता वा। तस्मात् पूर्वल्लुगेव कर्तव्यः,ततश्चासत्यां सप्तम्यां प्रगृह्य-
सञ्ज्ञा न स्यात्। तसमादर्थग्रहणं कर्त्तव्यम् ? न कर्त्तव्यम्; यस्मात् सर्वत्रैव सप्तम्या लुका भवितव्यमिति न क्वचित् सप्तम्यस्ति। उच्यते चेदं वचनम्-
`तत्र वचनसामर्थ्याल्लुप्तायामपि तस्यां भविष्यति' ? नैतदस्ति; यथो वचनाद् यत्र
दीर्घत्वम्, तत्र भविष्यति; यथा- `दृतिं न शुष्कं सरसी शयानम्' (ऋ.7.103.2) इति।
अत्र सरः शब्दात् परस्याः सप्तम्या `इयाडियाजीकाराणाम्' (का.वा.820) इत्यस्मादुप-
सङ्ख्यानात् `व्यत्ययो बहुलम्' (3.1.85) इत्यतो वा दीर्घ ईकारे कृते सप्तमी श्रयूते; ततश्चात्र वचनस्य सावकाशत्वात् `सोमो गौरी अधिश्रितः'(ऋ.9.12.3) इत्यत्र न स्यात्। `तत्रापि सरसी यदि' इति। यदि सरसीशब्दोऽस्ति तदात्रापि नैवावकाशः। अस्ति च सरसीशब्दः। तथा हि- गौरादिषु(4.1.41) `पिप्पल्यादयश्च' (ग.सू.47) इति पाठात्
पिप्पल्याद्यन्तःपातिनः सरः शब्दादीकारे कृते सरसीति रूपं सम्पद्यते तथा च दक्षिणापथे महान्ति सरांसि `सरस्य' इत्युच्यन्ते। सरसीशब्दस्य प्रगृह्यसञ्ज्ञायां प्रयोजनम्-तत उत्पनायायः सप्तम्या लुकि कृते इतिशब्दे चाध्याहृते `सरसी' इत्यत्र स्वरसन्ध्य-
भावः। तदेवं सरसीशब्दो विद्यत एवेति। `दृतिं न शुष्कं सरसी शयानम्' (ऋ.7.103.2)
इत्यत्रापि सरसीशब्दो लुप्तसप्तमीक एव प्रयुक्तः तथा च तदेवावस्थितम्। वचनाद् भवि-
ष्यतीति प्रत्याख्यातमर्थग्रहणम्। एवं तर्हि - ज्ञापकं स्यात्तदन्तत्वे `ईदूदेद्‌-
द्विवचनम्' (1.1.11) इत्यत्र चत्वारः पक्षा आश्रीयन्ते। इदादयो हि द्विवचनेन
विशिष्यन्ते-ईदादियद् द्विवचनमिति; ईदादिभिर्वा द्विवचनम् इति, ईदाद्यन्तं यद् द्विवचनमिति; द्विवचनप्रकृतिर्वोभाभ्याम्-द्विवचनान्तमीदाद्यन्तं यच् शब्दरूपमिति।
इदादीभिर्वा द्विवचनं विशिष्य पश्चात् तेनेदन्तेन द्विवचनेन प्रकृतिः, ईदाद्यन्तं
यद् द्विवचनमं शब्दरूपमितीदाद्यन्तं द्विवचनान्तमित्यर्थः। तत्र तृतीये पक्षे दोष
उक्तः-`कुमार्योरगारं कुमार्यगारम्, व्दवोरगारं वध्वगारमम्' इत्यत्र प्रगृह्य-
सञ्ज्ञा प्राप्नोति; एतदीदाद्यन्तं द्विवचनान्तं च भवति प्रत्ययलक्षणेनेति चतुर्थे पक्षेऽपि दोष उक्तः। अशुक्ले वस्त्रे शुक्ले सम्पद्येतां शुक्ल्यास्तां वस्त्रे
इत्यत्र प्राप्नोति। शुक्लशब्दाच्‌च्विप्रत्‌ययान्तत् `नपुंसकाच्च्' (7.1.19) इत्यौङः शीभावे कृते `अध्ययादाप्सुपः' (2.4.82) इति लुक्। एतद्धीदाद्यन्तं द्विवचननान्तं भवति प्रत्ययलक्षणेनेति। `तदन्तत्वे' इति अनेन तृतीयचतुर्थपक्षावुपलक्षयति। तदन्तत्वे तदन्तपक्षे तृतीये चतुर्थे च ज्ञापकं भवेदेतदर्थग्रहणम् इति। इह प्रगृह्यप्रकरणे प्रत्ययलोपलक्षणेन प्रगृह्यसञ्ज्ञा न भवतीति। यदि हि स्यादर्थग्रहणमनर्थकं
स्यात्।एतावद् वक्तव्यम्- `ईदूतौ च सप्तमी' इति। सप्तम्या लुकि कृते प्रत्ययलक्षणेन सप्तमीसहचरितौ यावीदूतौ सप्तम्यां परतो वा यावीदूतौ तयोः प्रगृह्यसञ्ज्ञा भवेत्ये-
तेति नार्थोऽर्थग्रहणेन। अर्थग्रहणाद्विज्ञायते- `प्रत्ययलक्षणेन प्रगृह्यसञ्ज्ञा न भवति' इति। तेन तदन्तपक्षद्वये यो दोषः उक्तः स न भवति। `मा वा पूर्वपदस्य भूत्' इति। पूर्वपदग्रहणे समास उपलक्ष्यते। यस्मात् समासे सत्येतद्भवति पूर्वपदमुत्तरपदमिति। तदेतदुक्तं भवति- वाप्यश्वो नद्यातिरित्यादौ समासे प्रगृह्यसञ्ज्ञा मा भूदित्येवमर्थमर्थग्रहणमिति। यथा च तस्मिन् सति समासे प्रगृह्यसञ्ज्ञा भवति, तथा पूर्वमेव
प्रतिपादितम्।

20. दाधा घ्वदाप्। (1.1.20)
`दाधा' इति। दारूपाणां चतुर्णां कृतैकशेषाणां धारूपयोर्द्वयोश्च कृतै
कशेषयोर्द्वन्द्वः। ननु च लक्षण प्रततिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्, न तु लाक्षणिकस्य' (व्या.प.3), इत्यनया परिभाषया `दो अवखण्डने' (धा.पा.1148), `देङ
रक्षणे' (धा.पा.962), `धेट् पाने' (धा.पा.902) इत्येतेषां ग्रहणं न स्यात् ?
नैतदस्ति; तस्या हि परिभाषायाः `गामादाग्रहणेष्वविशेषः' (व्या.प.124) इत्यपवादोऽ
स्ति, तेन सत्यपि लाक्षणिकत्वेदोदेङौ तावद् गृह्येते। धेटोऽपि लिङ्गाद् ग्रहणमनुमीयते। तत् पुनर्लिङं दैपः पकारानुबन्धः,स हि `अदाप्' इति दाप्प्रतिषेधसामान्य-
ग्रहणार्थः क्रियते। यदि चास्याः परिभाषाया इह व्यापारः स्यात्, दैपः पकारानुबन्धकरणमनर्थकं स्यात्। लाक्षणिकत्वादेव ह्यस्य ग्रहणं न भविष्यतीति किं प्रतिषेधेऽस्य
ग्रहणेन ? ननु लाक्षणिकमपि दारूपं धारूपं च धेटो नोपपद्यत एव, सानुबन्धकस्य
ह्यनेजन्तत्वादात्त्वानुपपत्तेः ? नैष दोषः यदयम् `उदीचां माङो व्यतीहारे' (3.4.19) इति मेङ सानुबन्धकस्यात्त्वभूतस्य निर्देशं करोति , तज्ज्ञापयति- नानुबन्धकृत-
मनेजन्तत्वम्'(शा.प.15) इति। ननु च `माङ माने' (धा.पा.1142) इत्यस्याप्यसौ
निर्देशः स्यात्, तत् कथं ज्ञापकम् ? नैतदस्ति। `मेङ प्रणिदाने' (धा.पा. 961) इत्ययमेव व्यतीहारे वर्तते, न `माङ माने' (धा.पा.1142) इति। तस्मान् मेङ एवायं कृतात्त्वस्य निर्देशो ज्ञापनार्थः। `प्रणिददाति' इति। `नेर्गदनदपतपदघुमास्यतिहन्ति' (8.4.17) इत्यादिना घुसञ्ज्ञायां सत्यामिह णत्वं भवति. `प्रणिदाता' इति। तृजन्तम्।
`प्रणिद्यति' इति। `ओतः श्यनि' (7.3.71) इत्योकारलोपः। अशिद्विषये दारूपोऽयं
भवतीत्यत्र घुसञ्ज्ञा प्रवर्त्तत एव। `दातं बर्हिः' इति। घुसञ्ज्ञाया अभावात् `दो
दद्‌घोः' (7.4.46) इति ददादेशो न भवति। `अवदातम्' इति। अत्रापि `निष्ठा'
(3.2.102) इति क्तप्रत्ययः।अत्र `अच उपसर्गात्तः' (7.4.47) इति तकारादेशो न भवति।

21. आद्यन्तवदेकस्मिन्। (1.1.21)
`असहायस्य' इत्यादिना सूत्रारम्भस्य फलं दर्शयति। इति करणो हेतौ। यस्मादादेरन्तस्य यानि कार्याण्युपदिष्टानि, तान्यविद्यमानसहायस्य न सिध्यन्ति; तस्मादतिदेशोऽयमारभ्यते। द्वितीयादिकं हि सहायमपेक्ष्याद्यन्तशब्दौ प्रवर्त्तते। तथा हि - लोकः सति हि परस्मिन् सहाये पूर्वाभावे चादिरिति व्यपदिशति, सति च पूर्वस्मिन्पराभावे
चान्त इति। अतस्तदुभयमसहाये नास्तीति। तत्राद्यन्तप्रतिबद्धानि कार्याणि न स्युः,
यद्ययमतिदेशो आरभ्यते। `एकस्मिन्' इति वचनात् `आद्यन्तवत' इत्यत्र सप्तमीसमर्था-
द्वतिर्गम्यत इत्याह- `सप्तम्यर्थे वतिः' इति। आद्यन्तयोरिवाद्यन्तवत्, `तत्र तस्येव' (5.1.116) इति वतिः। `औपगवम्' इत्यत्राप्यादिव्यपदिष्टं कार्यमतिदेशस्य फलम्।
प्रत्ययाद्युदात्तत्वं ह्यादेरुपदिष्टम्, `आद्युदात्तश्च' (3.1.3) इति वचनात्। `
आभ्याम्' इति। अत्रान्तोपदिष्टं दीर्घत्वं ह्यन्तस्योपदिष्टम्, `अलोऽन्त्यस्य' (1.1.52) इति वचनात्। इदमो भ्याम्, त्यदाद्यत्वम्, (7.2.102), `अतो गुणे' (6.1.97)
पररूपत्वम्, `हलि लोपः' (7.2.113) इतीद्रूपस्य लोपः, `सुपि च' (7.3.102) इति दीर्घः।

22. तरप्तमपौ घः। (1.1.22)
`कुमारितरा' इति। `द्विवचविभज्योपपदे' (5.3.57) इत्यादिना तरप्। `कुमारितमा' इति। `अतिशायने' इत्यादिना तमप्। तयोर्घसञ्ज्ञायां सत्यां `घरूपकल्प' (6.3.43)
इत्यादिना ह्रस्वत्वं भवति।

23. बहुगणवतुडति संख्या। (1.1.23)
अत्र बहुगणशब्दौ प्रातिपदिके, वतुडती प्रत्ययौ। `बहुकृत्वः' इति- `
सख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' (5.4.17)। `बहुधा' इति- `सख्याया
विधार्थे धा' (5.3.42) `बहुकः' इति- `सख्याया अतिशदन्तायाः कन्' (5.1.22)
`तावत्कृत्वः' इत्यादि- तच्छब्दात् `यत्तदेतेभ्यः परिमाणे वतुप्' (5.2.39) इति
वतुपि कृते `आ सर्वनाम्नः' (6.3.91) इत्यात्त्वे कृते `तावत्' इति भवति; किंशब्दात् किमः संख्यापरिमाणे डतौ कृते टिलोपे च `कति' इति भवति; ताभ्यां पूर्ववदेव
कृत्वसुजादयः।
`बहुगणशब्दयोः' इत्यादि। बहुशब्दोऽयं संख्यावचनोऽप्यस्ति, वैपुल्यवचनोऽ
पि; गणशब्दः संख्यावचनोऽप्यस्ति, सङ्घवचनोऽपि; तत्र यौ वैपुल्य्सङ्घवचनौ,तयोरिह
ग्रहणं नास्ति, संख्यावाचिनोरेव तयोस्त्वेषा सङ्ख्यासंज्ञा विधीयते,तत्कथं संख्ये-
त्यन्वर्थसंज्ञेयम्- संख्यायतेऽनया संख्या ! न च यो वैपुल्ये बहुशब्दो वर्त्तते,
यश्च सङ्घे गणशब्दः, ताभ्यां संख्यायते। तथा हि- `बहुरोदनः' इत्युक्ते वैपुल्यं
गम्यते; तथा `महान् भिक्षऊमां गणः' इत्युक्ते सङ्घः,न तु संख्यानम्। तस्मादन्वर्थसंज्ञाकरणाद् यावेकद्विसंख्याव्यवच्छेदेन संख्याविशेषमाहतुः, तयोरेव ग्रहणम्।
यद्येवम्,किमर्थं तयोरियं संज्ञा विधीयते, यावता संख्यावाचिनौ तौ लौकिकसंख्यायामन्तर्भूतौ ? लौकिकी च संख्या शास्त्रे गृह्यत एव; अन्यथा `संख्याया अतिशदन्तायाः कन्' (5.1.22) इत्यत्र `अतिशदन्तायाः' इति प्रतिषेधोऽनर्थकः स्यात्‌, शास्त्रीयायाः
संख्याया अतिशदन्ताया अभावादित्यत् आह- `भूर्यादीनां निवृत्त्यर्थम्' इति। भूरि-
प्रभूतमित्येवमादयस्तज्जातीयाः प्रचुरविशेषवाचिनः सन्ति, तेषां मा भूदित्येवमर्थ
बहुगणशब्दयोः संख्यासंज्ञा विधीयते। तदेतेन नियमार्थमेतयोः संज्ञाविधानमेतदिति दर्शयति। तुल्यजातीयापेक्षया हि नियमः। अतस्तुल्यजातीयानां भूर्यादीनामेव नियमेन
व्यावृत्तिः क्रियते, नान्येषाम्।
`अर्धपूर्वपदश्च' इति। अर्धशब्दः पूर्वपदं यस्य पूरणप्रत्ययान्तस् सोऽर्ध-
पूर्वपदः, स च संख्यासंज्ञो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। किमर्थमित्याह- `समासकन्विध्यर्थम्' इति। तत्रेदं व्याख्यानम्- `डति च' (1.1.25) इत्यत्र यश्चकारः, स इह स्वरितत्वमासज्य सिंहावलोकितन्यायेनोपस्थाप्यते। स चानुक्तसमुच्चयार्थः। तेनार्धपूर्वपदश्च पूरणप्रत्ययान्तः संख्यासंज्ञो भवतीति। अर्धपञ्चमशूर्पः' इति। अर्धं पञ्चमं येषामिति बहुव्रीहिः। अर्धपञ्चमैः शूर्पैः क्रीतमिति `तद्धितार्थोत्तरपदसमा-
हारे च' (5.1.51) इति समासः। `संख्यापूर्वो द्विगुः' (2.1.52) इति द्विगुसंज्ञा। `
शूर्पादञन्यतरस्याम्' (5.1.26) इति विहितस्याञष्ठञो वा `अध्यर्धपूर्वद्विगोर्लुग-
संज्ञायाम्' (5.1.28) इति लुक्। `अर्धपञ्चकः' इति। `संख्याया अतिशदन्तायाः कन्'(5.1.22)।।

24.ष्णान्ता षट्। (1.1.24)
`स्त्रीलिङ्ग निर्देशात्' इत्यादि। ष्णान्तेति स्त्रीलिङ्गनिर्देशः क्रियते, न चेह किञ्चित् स्त्रीलिङ्गं श्रूयते, नापि प्रकृतमन्यत् संख्यायाः। तस्मात्
स्त्रीलिङ्गनिर्देशात् संख्यैव `ष्णान्ता' इत्यनेन विशेषणेन विशिष्यते। `षट्' इति
चानया संज्ञया सम्बध्यते। यदि ष्णान्तेत्यत्र स्त्रीलिङ्गनिर्देशो न क्रियते, सर्वं ष्णान्तं शब्दरूपं षट्संज्ञं स्यात्। ततः `पामानः' विप्रुषः' इत्यादावपि `ष
ड्भ्यो लुक्' (7.1.22) इति लुक् प्रसज्येत। ननु च संख्येत्यनुवर्त्तिष्यते, तत्
कुतोऽतिप्रसङ्गः ? सत्यमेतत्; सैवानुवृत्तिः स्त्रीलिङ्गनिर्देशेन स्पष्टीक्रियते। यदि संख्येत्यनुवर्त्तते, सामर्थ्यादेव तदन्ता विज्ञास्यते, न हि षकारमात्रं वा
नकारमात्रं वा संख्यास्ति, तदपार्थकमन्तग्रहणम्, नैतदस्ति; उपदेशावस्थायां या
ष्णान्ता सा षट्‌संज्ञा यथा स्यादित्येवमर्थत्वादन्तग्रहणस्य। असति तस्मिन् शतानि
सहस्राणीति नुमि कृते षट्संज्ञा स्यात्। इह च अष्टानाम्‌ इत्यष्टन आत्वे कृते
षट्संज्ञा न स्यात्। ततश्च `षट्‌चतुर्भ्यश्च' (7.1.55) इति नुण् न भवति।

25. डति च। (1.1.25)
`डत्यन्ता या संख्या सा षट्संज्ञा भवति' इति। संख्याग्रहणेनेहापि संख्यानुवर्त्तत
इति दर्शयति। किमर्थं पुनः सेहानुवर्त्तते ? पातेर्डतिः पतय इत्यत्र मा भूत्। अथ
संख्यानुवृत्तावपि कस्मादेवात्र न भवति, यावतायमपि संख्यासंज्ञ एव, सामान्येन हि
पूर्वं डतेः संख्यासंज्ञा विहिता ? नैतदस्ति; वतुना साहचर्यात् तद्धितस्यैव
डतेस्तत्र ग्रहणम्, न कृतः; कृच्चायम्।

26.क्वक्तवतू निष्ठा। (1.1.26)
`भुक्तवान्' इति। `चोः कुः' (8.2.30) इत कुत्वम्। `अत्वसन्तस् चाधातोः'
(6.4.14) इति दीर्घः। अथ केन विहितयोः क्तक्तवत्वोरेषा संज्ञा विधीयते ? अनयैव
संज्ञया। वक्ष्यति तृतीये `निष्ठा' (3.2.102) इति। यद्येवम्, निष्ठासंज्ञया क्तक्तवतू भाव्येते, तावेवाश्रित्य निष्ठासंज्ञेति; इतरेतराश्रयो दोषो भवति, `इतरेतराश्रयाणि कार्याणि शास्त्रे न प्रकल्प्यन्ते, (व्या.28) नैष दोषः; भाविनी हि संज्ञा
विज्ञास्यते, यथा- `अस्य सूत्रस्य शटकं वय' इति। तौ भूते काले भवतः, ययोर्विहित-
र्निष्ठेत्येषा संज्ञा भवतीति।

27. सर्वादीनि सर्वनामानि। (1.1.27)
`सर्वशब्द आदिर्येषां तानीमानि सर्वादीनि' इति। एष तद्‌गुणसंविज्ञानो बहुव्रीहिः;
इतरथा ह्युपलक्षणार्थत्वात् सर्वशब्दस्य संज्ञा न स्यात्। न ह्युपलक्षणस्योपसर्जनी-भूतस्य कार्येण सम्बन्धो भवति। तथा हि- `चित्रगुरानीयताम्' इत्युक्ते न गवा-
मप्यानयनं भवति. तद्गुणसंविज्ञानस्य बहुव्रीहेर्लिङ्गम्- `अदः सर्वेषाम्' (7.3.100) इति निर्देशः। सर्वशब्दस्य सुट् सर्वनाम्नः कार्यम्; अन्यथा हि तन्नोपपद्यते। `
सर्वः, सर्वौ सर्वे' इति। इदमत्रोदाहरणं `सर्वे' इति। अत्र हि सर्वनामसंज्ञायाम् `
जसः शी' (7.1.17) इति शीभावः कार्यः। पूर्वयोस्तु तत्साहचर्येण `सर्वे' इत्येतस्य
पुँल्लिङ्गतां श्रूयमाणविभक्तितां च दर्शयितुमुपन्यासः; अन्यथा `सर्वे' इत्येता-
वत्युच्यमाने स्त्रीलिङ्गस्य लुप्तसम्बृद्धेरयं प्रयोग इति। कस्यचिद् भ्रान्तिः
स्यात्। `सर्वस्मै' इति। `सर्वनाम्नः स्मै' (7.1.14)। `सर्वस्मात्, सर्वस्मिन्' इति। `ङसिङयोः स्मात्स्मिनौ' (7.1.14)। `सर्वस्मात्, सर्वस्मिन्' इति। `ङसिङयोः
स्मात्स्मिनौ' (7.1.15) इति। `सर्वकः' इति- `अव्ययसर्वनाम्नामकच् प्राक् टेः' (5.3.71) इति।
उभशब्दोऽयं द्विवचनटाब्विषय एव प्रयुज्यते-`उभौ उभे'इति । न च तत्
किञ्चित् सर्वनामकार्यं सम्भवति; स्मैप्रभृतीनां यतायोगमेकवचनबहुवचनविषयत्वात्। अकजपि नैवं सर्वनामसंज्ञां प्रयोजयति; विशेषाभावात्। नहि तस्मादकचि, कप्रत्यये वा विहिते रूपभेदो वा भवति। तत् किमर्थस्तस्येह पाठः ? इत्याह- `उभशब्दस्थ' इत्यादि। `सर्व-नाम्नस्तृतीय च' (2.3.27) इत्यनेन उभाभ्यां हेतुभ्याम्, उभोयर्हेत्वोरिति तृतीया-षष्ठ्यौ यथा स्यातामित्येवमर्थ्सतस्येह पाठ इति दर्शयति।
`डतरतम' इति। `किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच्' (5.3.92) `वा
बहुनां जातिपरिप्रश्ने डतमच्' (5.3.93) इत्येतयोः प्रत्ययोर्ग्रहणम्।
`वक्ष्यमाणेन' इति। `प्रथमचरम' (1.1.33) इत्यादिना।
`कथम्' इत्यादि। समशब्दस्य सर्वनामसंज्ञायां सत्यां `आमि सर्वनाम्नः सुट्' (7.1.52) इति सुटि `समेषाम्' इति भवितव्यम्, तत् कथं सामानामिति भवति ? ततश्च
सप्तम्येकवचनस्य स्मिन्भावे कृते समस्मिन्निति भवितव्यम्, तत् कथं `समे देशे यजेत्' इति प्रयोग उपपद्यते ! इत्यभिप्रायः। `न सर्वत्र' इति। न सर्वत्रार्थे वर्त्तमान-
स्येत्यर्थः। एतच्च `सर्वेषां नामानि सर्वनामानि' इत्यन्वर्थसंज्ञाकरणाल्लभ्यते। स एव हि समशब्दः सर्वेषां नाम भवति यः सर्वशब्दपर्यायः, न चान्योः प्रयोगयोः समशब्दः सर्वपर्यायः। तथा हि `समानाम्' इत्यत्र समशब्दस्तुल्यार्थे वर्त्तते। `समे देशे'
इत्यत्राप्यविषमे- निम्नोन्नतादिरहिते। अत एव चान्वर्थसंज्ञाकरणात् संज्ञोपसर्जनीभूतानां संज्ञा न भवति। यथा- सर्वो नाम कश्चित्, तस्मै सर्वाय देहि। अतिक्रान्तः
स्रर्वमतिसर्वः, तस्मा अतिसर्वाय देहीति। न ह्येवंप्रकाराणि सर्वेषां नामानि;
विशिष्टव्सतु विषयत्वात्। `सर्वनामानि' इत्यत्र`पूर्वपदात् संज्ञायाम्' (8.4.3) इतिणत्वं तु न भवति, अत एव निपातनात्।

28. विभाषा दिक्समासे बहुव्रीहौ। (1.1.28)
`दिगुपदिष्टे' इति। दिशामुपदिष्ट उक्तो दिगुपदिष्टः। स पुनः
`दिङनामान्यन्तराले' (2.2.26) इति यः समासस्तस्यात्र ग्रहणम्। स पुनर्लक्षणप्रतिपदोक्तपरिभाषया लभ्यते। प्रतिपदोक्तसमासाश्रयणं तु या पूर्वा दिक् सोत्तराऽस्योन्मु-
ग्धस्य, `अस्मै पूर्वोत्तराय देहि' इत्यत्रा मा भूत्। `उत्तरपूर्वस्मै' इति।
उत्तरस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालमिति पूर्वोक्तेन सूत्रेण बहुव्रीहिः,
`सर्वनाम्नो वृत्तिमात्रे पूर्वपदस्य पुंवद्भावः' (जै.प.वृ.103) इति पूर्वपदस्य
पुंवद्भावः, चतुर्थ्येकवचनम्, `सर्वनाम्नः स्याड्‌ढ्रस्वश्च' (7.3.114) इति याट्,
`आटश्च' (6.1.90) इति वृद्धिः।
`समासग्रहणं किम्' इति। यावता न बहुव्रीहिः समासत्वं व्यभिचरत्येव, ततोऽ
पार्थकं विसेषणमित्यभिप्रायः। `समास एव यो बहुव्रीहि' इति। यस्यातिदेशेन बहुव्रीहिवद्भावो न विधीयते स वेदितव्यः समास एव बहुव्रीहिरिति। स पुनर्यः समासाधिकारे विहितः। `बहुव्रीहिवद्भावेन' इति। यस्यातिदेशिकं बहुव्रीहित्वं स बहुव्रीहिवद्भावेन
बहुव्रीहिः। `दक्षिणदक्षिणस्यै' इति। `एकं बहुव्रीहिवत्' (7.1.9) इत्यतो बहुव्रीहिवदिति वर्त्तमाने `आबाधे च' (8.1.10) इति दक्षिणाशब्दस्य द्विर्वचनम्। बहुव्रीहि-
वद्भावाच्च सुब्लुक्। अयं बहुव्रीहिवद्भावेन बहुव्रीहिरिति विभाषा न प्रवर्त्तते।
योऽपि `न बहुव्रीहौ' (1.1.29) इति वक्ष्यमाणः प्रतिषेधः सोऽपीह न भवति; तत्रापि
समासाधिकारात। `दक्षिणोत्तरपूर्वाणाम्' इति। अत्र `द्वन्द्वे च' (1.1.31) इति नित्य एव प्रतिषेधो भवति, तेन पक्षे सुण्न भवति। यद्येवम्, `सर्वनाम्नो वृत्तिमात्रे' (
जै.प.वृ103) इति पुंवद्भावोऽत्र न स्यात्; नैतदस्ति; अवयवस्याद्वन्द्वत्वात्। ननु विनाऽपि बहुव्रीहिग्रहणेनात्र `द्वन्द्वे च'(1.1.31) इति प्रतिषेधेन भाव्यमेव;
तदपार्थकं बहुव्रीहिग्रहणम्, नैतदस्ति; यो हि दिग्द्वन्द्वो न भवति स तस्य विषयः
स्यात्। दिग्द्वन्द्वे त्वसति बहुव्रीहिग्रहणे एषैव विभाषा स्यात्। तस्माद्बहुव्री-
हिग्रहणं कर्त्तव्यम् ? न कर्त्तव्यम्। कस्मान्न भवति? `दक्षिणोत्तरपूर्वाणाम्'
इत्यत्र प्रतिपदोक्तसमासस्येह ग्रहणात्। एवं तर्ह्युत्तरार्थं बहुव्रीहिग्रहणम्। `न वहुव्रीहौ' (1.1.29) इत्यत्रास्य प्रयोजनं वक्ष्यति। वृत्तिकारस्य
त्वेषोऽभिप्रायः- `उत्तरार्थमवश्यकर्त्तव्यम्, तदुत्तरार्थं कृतमिहापि स्पष्टार्थं भविष्यति' इति।

29. न बहुव्रीहौ। (1.1.29)
`सर्वनामसंज्ञायाम्' इत्यादि। कथं पुरेतदवगतम्- अभ्युपगतस्तदन्तविधिरिति? अत एव प्रतिषेधात्, अन्यथा हि निष्फलः प्रतिषेधः स्यात्। तदन्तविध्यभ्युपगमे हि `परमसर्वस्मै उत्तमसर्वस्मै' इत्यत्रापि संज्ञा यथा स्यात्। `इह च' इत्यादि। अस्य `प्रतिषेध आरभ्यते' इत्यनेन सम्बन्धः। `त्वं पिताऽस्य, अहं पिताऽस्य' इति विगृह्य
बहुव्रीहौ कृतेऽज्ञाताद्यर्थविवक्षायाम् असति प्रतिषेधे। `अव्ययसर्वनाम्नामकच्
प्राक् टेः' (5.3.71) इत्यत्राकच् प्रसज्येत। ततश्च `त्वकत्पित-कः, मकत्पितृकः'
इत्यनिष्टं रूपं स्यात्। तस्मादकज् मा भूदिति प्रतिषेद आरभ्यते। तेन `प्रागिवात् कः' (5.3.70) इति क एव भवति। तत्र परतः `प्रत्ययोत्तरपदयोश्च' (7.2.98) इति मपर्यन्त-र्योर्युष्मदस्मदोस्त्वमयोः कृतयोः `नद्यृतश्च' (5.4.153) इति समासान्ते कपि च
`त्वत्कपितृकः, मत्कपितृकः' इति सिद्ध्यति। ननु चान्वर्थसंज्ञाकरणादेव संज्ञानिरासे कृतेऽकज् न भविष्यति-न ह्यत्र सर्वार्थता सम्भवति, विशेषविषयत्वात्, नैतदस्ति;
समुदायो हि विशेषे वर्त्तते, पूर्वपदं तु सर्वार्थताया अनपेतमेव। भवत्वनयोरनन्तरयो-रुदाहरणयोरेतत्सूत्रविषयता, `प्रियिश्वाय' इत्यादिस्तु नपपद्यते; न हि प्रियविश्वादयः शब्दाः सर्वेषां नामानि नापि तदवयवभूतानां विश्वादिशब्दानां किञ्चित् सर्वनामका-
र्यममुपपद्यते; स्मैप्रभृतीनामङ्गकार्यत्वात्, विश्वादिशब्दानां चानङ्गत्वात् ? एवं मन्यते- `त्वत्कपितृकः, कत्कपितृकः' इत्यत्राकज् मा भूदिति, एतदर्थं तावदेतदार-
ब्धव्यम्, `प्रियविश्वाय' इत्येवमादावपि विस्पष्टार्थं भविष्यतीति।
अथ `बहुव्रीहौ' इति वर्त्तमाने किमर्थं पुनर्बहुव्रीहग्रहणमित्याह- `बहुव्रीहौ' इत्यादि। `वस्त्रान्तरवसनान्तराः' इति। वस्त्रमन्तरं येषामिति
बहुव्रीहि कृत्वा वस्त्रान्तराश्च वसनान्तराश्चेति द्वन्द्वः कृतऋ। अत्र वर्त्तमा-
नत्वाद् द्वन्द्वस्य `द्वन्द्वे च' (1.1.61), `विभाषा जसि' (1.1.32) इति द्वन्द्वा-
श्रितो विभाषाप्रतिषेधः स्यात्, न नित्यो बहुव्रीह्याश्रितः। पुनर्बहुव्रीहिग्रहणा-त्तु भूतपूर्वस्यापि बहुव्रीहेराश्रयमात् तदाश्रयो नित्यः प्रतिषेधो भवति। वसनशब्द-
श्चात्र वसत्यस्मिन्नित्यधिकरणसाधनो गृहे वर्त्तते, न वस्त्रे; अन्यथा वस्त्रान्तरवसनान्तरशब्दयोः पर्यायत्वाद् द्वन्द्वो न स्यात्, `तुल्यार्थाञ्च विरुपाणामेकशेषः' इत्येकशेषविधानात्।

30.तृतीयासमासे। (1.1.30)
ननु च `विभाषा दिक्समासे' (1.1.28) इत्यत समासग्रहणमनुवर्त्तत एव, तत्
किमर्थं पुनः समासग्रहणमित्यत आह- `समास इत्यनुवर्त्तमाने' इत्यादि। अस्त्येव
तृतीयासमासो मुख्यः, यस्मिन् सत्यैकपद्यमैकस्वर्यमेकविभ्कतिकत्वं च भवति। अस्ति च
गौणः, यस्मिंस्तादर्थ्यादतस्मिन्नपि ताच्छबद्यं भवति। स पुनस्तृतीयासमासार्थं
वाक्यम्। तत्रासति पुनः समासग्रहणे `गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः' (व्या.प.4) इति मुख्य एव प्रतिषेधः स्यात्। नेतरत्र। तस्मात् तत्रापि प्रतिषेधो यथा
स्यादित्येवमर्थं पुनः समासग्रहणम्। यदि तर्हि तृतीयासमासार्थेऽपि वाक्ये प्रतिषेधो भवति,यावान् कश्चित् तृतीयासमासः, तदर्थे वाक्ये सर्वत्र प्रतिषेधः स्यात्;
ततश्च `त्वयका कृतम्, मयका कृतम्'इत्यत्राकज् न स्यात्। भवति ह्येतत्
`कर्तृकरणे कृता बहुलम्' (2.1.32) इत्यनेन यः समासस्तदर्थं वाक्यम्;तत्र कप्रत्यये कृते `त्वत्केन कृतम्, मत्केन कृतम्' इति रूपं स्यादित्यत आह- `पूर्वसदृश'
इत्यादि। एतच्च लक्षमप्रतिपदोक्तपरिभाषया लभ्यते।
`त्वयका, मयका' इति। पूर्ववत् त्वमावादेशौ, सुबन्तादकच्। क्वचित् त्वकया, मकया इति पाठः स त्वयुक्तः। प्रातिपदिकात् त्वकजुत्पत्तौ त्वकया मकयेति भवति, न
चात्र प्रातिपदिकादकजुत्पत्तिरिष्यते; अपि तु सुबन्तात्। तथा ह्यकज्विधौ वक्ष्यति-"प्रातिपिदकात्" सुपः' इति च द्वयमपीहानुवर्त्तते। तत्राभिधानतो व्यवस्था- क्वचित्
प्रातिपदिकस्य प्राक् टेः प्रत्ययो भवति, क्वचित् सुबन्तस्य। `युष्मकाभिः,
युष्मकासु, अस्मकासु, युवकयोः, आवयकयोः' इत्यत्र प्रातिपदिकस्य। त्वयका, मयका,
त्वयकि,मयकि' इत्यत्र सुबन्तस्य" इति।

31. द्वन्द्वे च। (1.1.31)

32. विभाषा जसि।(1.1.32)
`जसः कार्यं प्रति' इत्यादि। एतच्च् व्यवस्थितविभाषात्वादस्या विभाषाया
लभ्यते। अथ वा जसीति कार्यापेक्षया आधारसप्तमीयम्, न तु सर्वाद्यपेक्षया परसप्तमी; तेन जसि यत् कार्यम्= जसाधारं यत् कार्यं जसः शीभावः तत्र विभाषा भवति, नान्यत्र
। किं कारणमेवं व्याख्यायत इत्यत आह-`अकज् हि न भवति' इति हि शब्दो हेतौ।एवं
व्याख्यायमाने सति `कतरकतमकाः' इत्यत्राकज् न भवति; पूर्वसूत्रेण संज्ञाप्रतिषेधात् अन्यथा हि यदि जसि परतः संज्ञा विकल्प्यते,तदा पक्षेऽकज् भवेदेव। तथा च तस्य तन्मध्यपतित्वात् तद्ग्रहणेन ग्रहणात् पाक्षिकः शीभावः प्रसज्येत। कप्रत्यये तु सति तेन व्यवधानादेवैष दोषो न भवति।

33.प्रथमचरमतयाल्पार्धकतिपयनेमाश्च। (1.1.33)
उभयशब्दस्य तयप्प्रत्ययान्तस्य' इति। `संख्याया अवयवे तयप्' (5.2.42)
इत्युभशब्दाद्विहितस्य तयपो यद्यपि`उभादुदात्तो नित्यम्' (5.2.44) इत्ययजादेशो विधीयते, तथापि स्थानिवद्भावात् तद्ग्रहणेन गृह्यत इत्युभयशब्दस्तयप्प्रत्ययान्तो भवति।
`तस्य गणे पाठान्नित्या सर्वनामसञ्ज्ञा'इति। न त्वनेन योगेन परेणापि पाक्षिकी। एतच्च व्यवस्थितविभाषात्वाल्लभ्यते। `काकचोर्यथायोगं वृत्तिः'इति। तेनोभय- नेम-शब्दयोः सर्वादित्वान्नित्यमकचो वृत्तिः, प्रथमादिभ्यस्तु कप्रत्ययस्य- इत्येष यथा-
योगार्थः।।
34. पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्। (1.1.34)
`असंज्ञायाम्' इति। संज्ञायामसत्याम् पूर्वादयश्चेत् संज्ञारूपा न भवन्ती-
त्यर्थः। `स्वाभिधेयापेक्ष' इत्यादि अवधिर्मर्यादा,तस्य नियमोऽवश्यम्भावः; अवधिभा-
वादभ्रंशः।किंविशिष्टोऽवधिनियमः ? स्वाभिधेयापेक्षः ह्यर्थानाम्- पूर्वादिशब्दाभिधयानां यत् पूर्वादित्वम्, तन्नियोगतः कञ्चनावधिमपक्ष्य सम्पद्यते, न त्ववधिनिरपेक्षम्; यथा- पूर्वदेशस्य यत् पूर्वत्वम्,तत्परं देशमपेक्ष्य भवति; परस्यापि यत्
परत्वम्, तत् पूर्वदेशम्; तस्मात् पूर्वादिशब्दवाच्यापेक्षेणावश्यं केनचिदवधिना
भाव्यम्। तत्र तस्यैवावधेः यः पूर्वादिशब्दार्थापेक्षोऽवधिभाव ऐकान्तिकः, स नियमो व्यवस्था, तस्यां गम्यमानायां पूर्वादीनां शब्दानां स्वाभिधेय एव वर्त्तमानानामियं संज्ञा भवति; न तु वाच्यायाम्। यो हि पूर्वादिशब्दाभिधेयादन्यस्यार्थस्यावधिभूतस्य
नियमः, स कतं पूर्वादिशब्दवाच्यो भविष्यति!
`पूर्वे,पर्वाः' इति। अत्र परसमादेवावधेरिति गम्यते। `परे,पराः'इति। पूर्व-
स्मादेवावदेरिति गम्यते। `प्रवीणाः' इति। कुशला इत्यर्थः। अत्र प्रावीण्यमात्रेण
निमित्तेनावधिनिरपेक्ष एव दक्षिणशब्दो वर्त्तत इति व्यवस्था न गम्यते। `सत्यामेव'
इत्यादि। जम्बूद्वीपं वावधिमपेक्ष्य तत्रोत्तरशब्दो वर्त्तत इति विद्यत एव व्यवस्था।

35.स्वमज्ञातिधनाख्यायाम्। (1.1.35)
`अत्रापि नित्या सर्वनामसंज्ञा प्राप्ता' इति। गणपाठात्। एवमुत्तरत्रापि
वेदतव्यम्। `न चेत्' इत्यादिना ज्ञातिधनाख्याशब्दस्यार्थमाचष्टे। यत्र च शब्दान्तर-

निरपेक्षः स्वशब्दो ज्ञातिधने स्वरूपेणाचष्टे, तत्रासौ संज्ञारूपेण तयोर्वर्त्तते। `आत्मीया इत्यर्थः' इति। कथं पुनरयमर्थः, यावता `स्वे पुत्त्राः' इति ज्ञात्यर्थो
गम्यते, `स्वे गावः' इति धनार्थः ? नैतदस्ति; पुत्त्रगोशब्दसान्निध्यादतदुभयं
गम्यते। स्वशभ्देनात्मीयत्वमात्रं गम्यते- `स्वा ज्ञातयः' इति। प्रभूता स्वा इति
चोभयत्र शब्दान्तरमनपेक्ष्य ज्ञातिधने स्वरूपेणैव स्वशब्देनाभिधीयेते। यद्येवम्, ज्ञातय इत्यनुप्रयोगो नोपपद्यते; पर्यायत्वात्, यथा- वृक्षशब्दप्रयोगे सति तरुशब्द-
शब्दस्यानुप्रयोगो विरुध्यते, नैष दोषः; पर्यायशब्दस्य हि यत्रानेकार्थो भवति सन्दिग्धार्थो वा, तत्र तदर्थस्यैव व्यक्तीकरणार्थः पर्यायान्तरस्यानुप्रयोगो न
विरुध्यते; यथा- मेघाद्यनेकार्थवृत्तेर्वराहकशब्दस्य प्रयोगे शूकरशब्दस्य प्रयोगः। तथा सन्दिग्धार्थस्य पिकशब्दस्य प्रयोगे कोकिलशब्दस्य ! स्वशब्दश्चायमनेकार्थः,
तत्रासत्यनुप्रयोगे किंविषयोऽयं प्रयुक्तः- इति सन्देह स्यात्।

36. अन्तरं बहिर्योगोपसंव्यानयोः। (1.1.36)
`बर्हिर्योगे' इति। बहिरित्यनेनानावृतदेश उच्यते। तेन योगो बर्हिर्योगः। स चानावृतस्य बाह्यस्य वस्तुनो भवति। `उपसंव्याने च' इति। उपसंवीयते परिधीयते यत्
तदुपसंव्यानम्- `कृत्यल्युटो बहुलम्' (3.3.113) इति कर्मणइ ल्युट्। अथ वा, संवीयते
पिधीयतेऽनेनेति संव्यानम्- `करणाधिकरणयोश्च' (3.3.117) इति ल्युट्। संव्यानस्य
समीपमुपसंख्यानम्। अबहिर्योगे सामर्थ्यात् तदेव वेदितव्यम्। `नगरबाह्याः' इति। अनेन बहिर्योगं दर्शयति- `परिधानीयमुच्यते' इति। उपसंव्यान्सयेदमुदाहरणमुपन्यस्तम्।
वस्त्रान्तरावृतवस्तु वस्त्वन्तरेणापिहितमुच्यते। अविशेषाभिधानऽपि यद्वस्त्रान्तरेणावृतम्, सामर्थ्यात् तदेवोपसंव्यानमुच्यते, नेतरत्। `न प्रावरणीयम्' इति। प्राव्रियतेऽपिधीयते-नेनेति प्रावरणीयम्, तन्नभिधीयते। तदभिधाने तस्य बहिर्योगत्वात्
बहिर्योग एवेदमुदाहरणं स्यादित्याभिप्रायः।
`अन्तरे तापसः प्रतिवसति' इति. अत्र संज्ञाया अभावात् सप्तम्याः स्मिन्नादेशो न भवति। ननु च जसीत्यनुवर्त्ते, तत् कस्मात् सप्तम्यन्तं प्रत्युदाहृतमित्यत आह-`गुणसूत्रस्य च' इत्यादि। `अपुरीति वक्तव्यम्' इति। अनन्तरं `गणसूत्रस्य च'
इत्यभिधानाद् गणसूत्रमेवैतद् वक्तव्यमिति गम्यते। यद्यपि गणसूत्रेऽन्तरशब्द पठ्यते,तथापि `प्रतिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (व्या.प.29) इति प्राकाराद्ब-हिर्वर्त्तिनी या पूस्तस्या अपि बहिर्योगोऽस्तीति तत्र वर्त्तमानस्य टाबन्तस्याप्यन्तराशब्दस्य सर्वनामसंज्ञा प्राप्नोति, तेनापुरीति वक्तव्यम्। तेनान्तरायामित्यत्र स्याण् न भवति। `विभाषाप्रकरणे' इत्यादि। उपसंख्यानशब्दस्येह प्रतिपादनमर्थः।
अस्मिन् विभाषाप्रकरणे तीयप्रत्ययान्तस्य सर्वनामसंज्ञायाः प्रतिपादनं कर्त्तव्यमि-
त्यर्थः। तत्रेदं प्रतिपादनम् `विभाषा जसि' (1.1.32) इत्यत्र `विभाषा' इति योग-
विभागः क्रियते, तत्र च `सर्वादीनि' `द्वन्द्वे' इति च निवृत्तम्, तेन तीयस्य
विभाषा सर्वनामसंज्ञा भविष्यतीति। न चैवं सत्यतिप्रसङ्गः; योगविभागदिष्टसिद्धेः
नापि `विभाषा द्वितीयतृतीयाभ्याम्' (7.3.115) इत्यस्य वैयर्थ्यापत्तिः; प्रपञ्चार्तत्वात्। ततः `जसि' द्वितीयो योगः। अत्र विभाषाग्रहणम्, सर्वादिग्रहणम्, द्वन्द्व
ग्रहणं चानुवर्त्तते।

37. स्वरादिनिपातमव्ययम्। (1.1.37)
स्वरादिषु स्वस्तिशब्दोऽस्तिशब्दश्च पठ्यते। तत्र स्वस्तिशब्दस्य किमर्थः पाठः? यावतास्तिशब्दपाठादेव तदन्तविधिना स्वस्तिशब्दस्यापि भविष्यति। `ग्रहणवता
प्रातिपदिकेन ' (व्या.प.89) इति तदन्तविधि प्रतिषेधान्न सिध्यतीत्येतत् तु नाशङ्कनीयम्, `अव्ययम्' इति महती संज्ञा क्रियते, अन्वर्थसंज्ञा यथा विज्ञायेतलिङ्गकारकसंक्याविशेषानुपादान्न व्येति= विविधत्वं न गच्छतीत्यव्ययम्। तस्याश्चोपसर्जनप्रतिषेधः, तदन्तविधिश्च प्रयोजनम्। तस्मादन्वर्थसंज्ञकरणादेव तदन्तस्यापि भविष्यति, स्वस्तिशब्दोऽपि न व्येत्येव, सत्यमेतत्;एवं त्वन्वर्थसंज्ञाकरणाल्लब्धस्तदन्तविधिरननोपद-
र्शितः। विस्पष्टार्थमुदाहरणमेतत्। `तसिलादिस्तद्धित एधाच्‌पर्यन्तः' इति। `पञ्च-
म्यास्तसिल्' (5.3.7) इत्यत प्रभृति`एधाच्च' (5.3.46) इत्येतत्पर्यन्तः।`शस्तसी'
इति। `बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्' (5.4.42) `प्रतियोगे पञ्चम्यास्तसिः' (5.4.44) `कृत्वसुच्' इति। `संख्यायः क्रियाभ्यावृत्तिगणने कृत्वसुच्' (5.4.17)इति। `द्वित्रिचतुर्भ्यः सुच्' (5.4.18) । `आस्थालौ' इति। `इण आसिः' (द.उ.9.81) इत्युणा-
दिसूत्रेण इणो धातोरासिप्रत्ययः। `अयाः' इत्युदाहरणम्। `प्रत्नपूर्वविश्वेमात्थाल् छन्दसि' (5.3.111) इति। `च्व्यर्थाश्च' इति। अभूततद्भावे `कृभ्यस्तियोगे सम्पद्य-
कर्त्तरि च्विः' (5.4.50) `विभाषा साति कात्र्स्न्ये' (5.4.52)। `आम्' इति। `किमे-
त्तिङव्ययधादाम्वद्रव्यप्रकर्षे' (5.4.11)। `निपाता वक्ष्यन्ते' इति। अथ कस्मात् ते स्वरादिषु न पठ्यन्ते ? कः पुरेवं गुणो भवति ? अवययसंज्ञायां निपातग्रहणं तथा हि
क्रियायोगे दृश्यते-`स्वः पश्यन्ति, स्वरारोहन्ति' इति। तत्र यदि चादयो निपाताः पठ्येरन्, तेषां सत्त्वेऽपि वर्त्तमानानामव्ययसंज्ञा प्रसज्येत।
`अव्ययम्' इत्यन्वर्थसंज्ञेयम्' इति दर्शयितुमाह- `सदृशम्' इति। त्रिषु
लिङ्गेषु स्त्रीपुंनपुंसकेषु सदृशं तुल्यम्, लिङ्गविशेषापरिग्रहाल्लिङ्गसामान्योपा-
दानाच्च। `सर्वासु च विभक्तिषु' इति। विभक्तिनिमित्तत्वाद् विभक्तिः। विभज्यते वा
प्रातिपदिकार्थ आभिरिति कर्मादीनि कारकाणि शक्तिरूपाणि विभक्तिशब्देनोच्यन्ते। `वच-
नेषु च' इति। वचनान्येकवचनद्विवचनबहुवचनानि। इहाभिधेयेऽभिधानोचाराद् एकाधिका
संख्या गृह्यते `यस्मान्न व्येति लिङ्गादिसंख्याविशेषानुपादानाद् विविधं नानात्वं न गच्छति तस्माद् अव्ययम्' इत्यन्वर्थता प्रतिपादिता भवति। प्रयोजनं पुनरुपसर्जनप्र-
तिषेधः, तदन्तविधिश्चेत्युक्तम्। तत्रोपसरजनप्रतिषेधः- `अत्युच्चैः, अत्युच्चैसौ, अत्युच्चैसः'। न ह्यत्र यथोपदर्शितार्थानुगमः सम्भवति। यत्र तु सम्भवति, तत्र
तदन्तस्याव्ययसंज्ञा भवत्येव; यथा- `परमस्वः, उत्तमस्वः' इति। अत्र हि स्वर्‌ शब्द-
स्य प्राधान्याल्लिङ्गादिविशेस्यासम्भवः। पूर्वत्र तूच्चैः शब्दस्य विपर्ययाद्वि-
पर्ययः।

38.तद्धितश्चासर्वविभक्तिः। (1.1.38)
प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणं भवतीत तद्धितान्त
स्य संज्ञा विज्ञायत इत्याह `तद्धितान्तः शब्दः'इति। `यस्मान्न सर्व' इत्यादि।
अत्रावयवकात्र्स्न्यवृत्तिः सर्वशब्दः। सर्वा निरवशेषा येषां त्रयाणां वचनानां विभ-
क्तिरिति संज्ञा कृता। तानि सर्वाणि यतो नोपत्पद्यन्त इत्यर्थः. `ततः,यतः' इति। तद्- यच्छपब्दात् पञ्चमीसमर्थात् `पञ्चम्यास्तसिल्' (5.3.7)इति तसिल्, `सुपो धातुप्रा
तिपदिकयोः' (2.4.71) इति सुब्लुक्;`प्राग्दिशो विभक्तिः' (5.3.1) इति
 विभक्तित्वात् त्यदाद्यत्वम्; `अतो गुणे' (6.1.97), पररूपत्वम्। `तत्र यत्र 'इति। `सप्तम्यास्त्रल्' (5.3.100 इति त्रल्। `तदा, यदा, सर्वदा' इति। `सर्वैकान्यकिंयत्तदः काले दा' (5.3.15)। सर्वे एते-ततः प्रभृतयः विभक्त्यर्थप्रधानाः। स च
विभक्तयर्थः प्रातिपदिकार्थः सम्पन्न इति प्रातिपदिकार्थे प्रथमैव भवति। सापि संख्याविशेषाभावान्न सर्वा। किं तर्हि? एकवचनमेव; तस्योत्सर्गत्वात्। तथा चोक्तम्-
`एकवचनमुत्सर्गतः करिष्यते' इति। तस्य `अव्ययादाप्सुपः' (2.4.82) लुक्। `एकः'
इति। अत्रासर्वविभक्तिकत्वमस्ति; एकत्वे द्वित्वायोगात्। अतद्धितत्वान्न भवति। `औपगवः' इति. अत्र तद्धितान्तस्य सर्वविभक्तियोगान्न भवति।।

39.कृन्मेजन्तः। (1.1.39)
 `स्वादुङ्कारं भुङ्क्ते' इति। `स्वादुमि णमुल्' (3.4.26)। `स्वादुमि' इत्यत एव
निर्देशादुपपदस्य मकारान्तत्वं निपात्यते। स्वादुमिति चार्थग्रहणम्। तेन सम्पन्नादावप्युपपदे णमुल् भवति। `वक्षे' इति। `वच परिभाषणे' (धा.पा.1063), `ब्रुवो वचिः'
(2.4.56)इति ब्रूञादेशो वा। `चोः कुः' (8.2.30) इति कुत्वम्।
`अन्तग्रहणम्' इत्यादि। `औपदेशिकप्रतिपत्त्यर्थम्' इति। नित्ययोगे
बहुव्रीहिविज्ञानादौपदेशिकप्रतिपत्तिः। उपदेशे भवमौपदेशिकम्।तस्य प्रतिपत्तिर्ज्ञानम् प्रयोजनं यस्य तत् तथा। एवं मन्यते- विनाप्यन्तग्रहणेन `येन विधिस्तदन्तस्य' (1.1.72) इति सामर्थ्याद्वा कृतस्तदन्तविधौ सिद्धे यदन्तग्रहणं क्रियते तस्यैतत् प्रयोजनम् नियोगतो यस्यैजन्तत्वमुपदेशावस्थायामेव भवति तस्यैव प्रतीतिर्यथा स्यादिति। `आधये' इति। दधातेराङ्पूर्वात् `उपसर्गे घोः किः' (3.3.92) इति किः, `आतो लोप इटि च' (6.4.34) इत्याकारलोपः, चतुर्थ्येकवचने `घेर्ङिति' (7.3.111) इति गुणः। `चिकीर्षदः' इति। करोतेः सन्, `अज्झनगमां सनि' (6.4.16) इति दीर्घः; `सनाशंसभिक्ष उः' (3.2.168) इत्युप्रत्ययः; अतो लोपः, शेषं पूर्ववत्। `कुम्भकारेभ्यः' इति। `कर्मण्यण्' (3.2.1) `उपपदमतिङ'(2.2.19) इति समासः; `बहुवचने झल्येत्' (7.3.103) इत्येत्त्वम्। ननु च लक्षमप्रतिपदोक्तपरिभाषयैव वा `असिद्धं बहिरङ्गमन्तरङ्गे' (व्या.प.42) इत्येव
वात्र संज्ञा न भविष्यति- विभक्तिप्रत्ययं ह्याश्रित्य विधीयमानत्वाद् गुणादिकार्यं बहिरङ्गम्, अव्ययसंज्ञा त्वन्तरङ्गम्, बाह्यस्य निमित्तस्यानाश्रयणात्, सत्यमेतत्; एवं त्वर्थप्रतिपत्तौ प्रतिपत्तिगौरवं स्यात्। अतस्तत्परिहारार्थमन्तग्रहणं कृतम्।।
40. क्त्वातोसुन्कसुनः। (1.1.40)
`कृत्वा,हृत्वा' इति। `समानुकर्तृकयोः पूर्वकाले' (3.4.21) इति क्त्वा। `
उदेतोः' इति। `इण् गतौ' (धा.1045) `सार्वधातुक' (7.3.84) इति गुणः। `अपाकर्त्तोः' इति। कृञः। `विसृपः'इति।`गम्लृ' (धा.942) `सृप्लृ' (धा.983) इतौ। `आतृदः' इति।
`तृदिर् हिंसानारदयोः' (धा.1447)

41. अव्ययीभावश्च। (1.1.41)
`उपाग्नि' इति। `अव्ययं विभक्ति' (2.1.6) इत्यादिना सामीप्येऽव्ययीभावः।
`अव्ययात्' (2.4.82) इत लुक्। अग्नेः समीपे उपाग्नीति। उपाग्नि मुखं यस्येत्यव्ययी-भावगर्भो बहुव्रीहिः।तत्र `मुखं स्वाङ्गम्' (6.2.167) इत्युत्तरपदान्तोदात्तत्वे
प्राप्ते`नाव्यय' (6.2.168) इति प्रतिषिद्धम्। `तस्मिन् प्रतिषिद्धे पूर्वपदप्रकृतिस्वरः' इति। `बहुव्रीहौ प्रकृत्या' (6.2.1) इत्यादिना तत् पुनरन्तोदात्तत्वम्,उपाग्निशब्दस्य समासस्वरेणान्तोदात्तत्वात्। `उपपयःकारः'इति। `कर्मण्यण्' (3.2.1) एवम्,
`उपपयः कामः' इत्यत्रापि। उपपयः कामो यस्येति बहुव्रीहिर्वायम्। काम्यत इति कामः, `अकर्त्तरि च कारके संज्ञायाम्' (3.3.19) इति कर्मण्यपि घञ्। `अनव्ययस्य' (वा.939) इति सत्त्वे प्रतिषिद्धे `कुप्वो क पौ च'(8.3.37) जिह्वामूलीयो भवति, विसर्जनीयो वा। अत्र मुखस्वरोपचारौ निर्वर्त्यमानौ प्रयोजनम्, न तु विधीयमानौ; लुक् पुनर्विधीयमानः। ननु चावययनिबन्धनमकजादिकार्यमस्त्येव,तत् कुतोऽयं कार्यनियमो लभ्यत इत्याह-
`सर्वम्' इत्यादि। `इदम्' इति। `तद्धितश्चासर्वविभक्तिः' (1.1.38)इत्यादिकम्।
किञ्चित् स्वरूपेणैव पठ्यते, कस्यचित् पर्यायान्तरेणार्थः। स त्वभिधेयधर्मेणोपचारा-दित्युच्यते। तत्र `कृम्भकारसन्ध्यरान्तः' इति `कृन्मेजन्तः' (1.1.39) इत्यस्यार्थःपठ्यते। क्त्वातोसुन्कसुनोऽव्ययीभावश्चेति स्वरूपेणैव। तसिलादिस्तद्धित एधाच्पर्य-
न्त इति यावत्। च्व्यर्थाश्चेति। असिमौणादिकं वर्जयित्वा। तद्धितश्चासर्वविभक्तिरि-
त्यस्यार्थः। `अनित्यत्वज्ञापनार्थम्' इति। प्रकृतत्वात् `संज्ञायाः' इति लभ्यते।
तेनाकजादौ कर्त्तव्ये संज्ञा न भवतीति। अज्ञाताद्यर्थविवक्षायामुपाग्निकमित्यत्रा-
कज् न भवति, क एव तु भवति। इह च उपकुम्भमात्मानं मन्यत उपकुम्भम्मन्यः,
`आत्ममाने खश्च' (3.2.83) इत खशि कृते `खित्यनव्ययस्य' (6.3.66)
इत्यनुवर्त्तमाने `अरुर्द्विषदजन्तस्य मुम्' (6.3.67) इति मुमः प्रतिषेधो न भवति। `इह च' इत्यादिना `अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः' इति यद्वक्ष्यति तस्यात्रावक्तव्यतां दर्शयति। सूर्यस्येत्यत्र `कर्तृकर्मणोः कृति' (2.3.65) इति षष्ठी।।

42. शि सर्वनामस्थानम्। (1.1.42)
`कुण्डानि' इत्यादि। `जश्शसोः शिः' (7.1.20) इति शिः, तस्य सर्वनामस्थान
त्वे सति `नंपुसकस्य' स्थानम्' इति। पूर्वाचार्यैरेवेयं प्रयोजनमन्तरेणापि महती
संज्ञा प्रणिता। तस्या इह यत् समाश्रयणम् तत् तत्कृतस्य शब्दानुशासनस्य दोषवत्त्वसूचनार्थम्। तत् पुनः स्वशास्त्रस्य पुनरुक्ततादोषपरिहारार्थम्। यदि हि तद्दोषवद्भवत्येवमस्य प्रणयनं युज्यते, नान्यथा।
  
43. सुजनपुंसकस्य। (1.1.43)
सुड़िति प्रत्याहाररग्रहणम्- सुशब्दादारभ्य आ औटष्टकारात्। तत्र पञ्चैव
वचनानयन्तर्भवन्तीत्याह -`सुडिति पञ्च वचनानि' इत्यादि। `नपुंसकादन्यत्र' इत्यादि। अनेनानपुंसकशब्दस्य पर्युदासतां दर्शयति। प्रसज्यप्रतिषेधे हि प्रतिषेधप्रधानमिदं
वाक्यं स्यात् - नपुंसकस्य न भवतीति। ततश्च यावती काचित् सुटः सर्वनामस्थानसंज्ञा-
प्राप्तिः, तस्याः सर्वस्याः प्रतिषेधः स्यात्। एवं हि `कुण्डानि तिष्ठन्ति'
इत्यत्र पूर्वेणापि संज्ञा न स्यात्। तस्यास्तु शसः शिरादेशोऽवकाशः। यद्यपि `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा (व्या.प.त19) इत्येतत्समाश्रयेण प्रसज्यप्रतिषेधे
ऽप्येष दोष- शक्यते परिहर्तुम्, तथापि प्रतिपत्तिगौरवदोषः स्यात्। तथा हि- विधिप्रतिषेधयोर्विरोधादेकेन वाक्येन तावच्छक्यो न विधातुमिति वाक्यभेदः कर्त्तव्यः- `सुट् सर्वनामस्थानसंज्ञो भवति। नपुंसकस्य च न भवति' इति। ततश्चासम्बद्धं प्रतिषेधवचन-
मिति पूर्वस्या अपि प्राप्तेरयं प्रतिषेधः सम्भाव्येत। ततस्तत्परिहारेणाभीष्टार्थ
प्रतिपत्तौ साध्यायां नियतभावी गौरवदोषः प्रसज्येत। तस्मात् सुखावबोधार्थं -
पर्युदास एवाश्रितः। नपुंसके न विधिः' इति। स्त्रीपुंसम्बन्धिनः सुट उपादानात्। `न प्रतिषेधः' इति। विधिप्रधानत्वात् प्रयुदासस्य। एतेन नपुंसकेऽस्य योगस्याव्यापारं दर्शयति- `तेन' इत्यादि। यत एव नुपंसके नास्य विधौ प्रतिषेधे वा व्यापारः, तेन जसो यः शिरादेशस्तस्य तेन पूर्वयोगेन संज्ञा भवत्येव; अप्रतिषिद्धत्वात्। `राजा' इति।
पूर्वद्दीर्घः। हल्ङ्यादिलोपः। `सामनी,वमनी'इति। `नपुंसकाच्च' (7.1.19) इति औङः
शीभावः। तत्र संज्ञाया अभावाद्दीर्घत्वं न भवति।

44. न वेति विभाषा। (1.1.44)
नवेति शब्दोऽयमेको निपातोऽप्यस्ति प्रतिषेधवाची, यथा-`नवा वक्तव्यं
भुक्तार्थत्वात्' इत्यादौ भाष्यवाक्ये। तस्येह यदि ग्रहणं स्यात् `विभाषा दिक्समासे बहुव्रीहौ' (1.1.28) इत्युक्त्वा `न बहुव्रीहौ' (1.1.29) इत्यत्र तु पुनः प्रति-
षेधोपादानमनर्थकं स्यात्। तस्मान्न निपातसमुदायोऽयमिति दर्शयन्नाह- `नेति प्रतिषे-
धः' इत्यादि। ननु चान्यत्र संज्ञासंज्ञिसम्बन्धप्रक्रियाया हि शास्त्रे शब्दस्यैव
ग्रहणं प्रसिद्धम्, यथा तरप्तमपौ घः' (1.1.22) `दाधा घ्वदाप्' (1.1.20) इति,
तथेहापि नवाशब्दयोरेव ग्रहणं युक्तम्। तत् कथं तदर्थयोः संज्ञा लभ्यत इत्याह-`इतिकरणः' इत्यादि। क्रियत इति करणः, इतश्चासौ करणश्चेतीतिकरणः, सोऽर्थस्य संज्ञिनो
निर्देशो यथा स्यादित्येवमर्थः। इतिशब्दो हि विपर्यासकृत्। यथा गवित्यर्थमाहेति गोशब्दात् परतः प्रयुज्यमान इतशब्दस्तमर्थपदार्थकत्वात् प्रच्याव्य शब्दपदार्थकत्वे
व्यवस्थापयति, तथा `नवा' शब्दाभ्यां परः इति शब्दः प्रयुज्यमानः, तौ स्वरूपपदार्थक-
त्वात्प्रच्याव्यार्थपदार्थकत्वे व्यवस्थापयति। तस्मादर्थनिर्देशार्थ एवेतिशब्दः कृत इति नवेति यावर्थौ प्रतीयेते प्रतिषेधविकल्पौ, तयोरेवेयं संज्ञा भवति; न नवाशब्द-
योः। `तत्र प्रतिषेधेन' इत्यादिना प्रतिषेधविकल्पयोः प्रवृत्तिक्रमं व्यापारबेदं च दर्शयति। `समीकृते' इति। तुल्यतामापादिते। `विकल्पः प्रवर्त्तते' इति। पक्षे कार्यसम्पादनाय। ननु च वाशब्द एव विकल्पार्थत्वेन लोके प्रसिद्धः, प्रदेशेष्वयमुपादीयमानो विकल्पेन कार्यं सम्पादयिषयति। तथा हि प्राप्ते वा कार्ये विकल्पः क्रियताम् ? यदि प्राप्ते? तत्र प्राप्तिरस्त्येवेति प्रतिषेध एव पक्षे कर्त्तव्यः। अथाप्राप्ते ? तत्र प्राप्तिपूर्वकत्वात् प्रतिषेधस्य तामन्तरेण स न युज्यत इति विधिरेव पक्षे
कर्त्तव्यः, न प्रतिषेधः। एतच्चोभयं वाशब्द एव शक्तः प्रयुज्यमानः सम्पादयितुम्।
तत् किमर्थमियं संज्ञा क्रियत इत्याह- `उभयत्र विभाषाः प्रयोजन्ति' इति। प्रकृतत्वात् संज्ञामिति गम्यते। `विभाषा श्वेः' (6.1.30) इत्यत्र प्रतिषेधमुखेन वाशब्दस्य
प्रवृत्तिः स्यात्? विधिमुखेन वा ? तत्र यदि प्रतिषेधमुखेन वा न भवतीत्येवं
प्रवृत्तिः ? प्राप्तिपूर्वकत्वात् प्रतिषेधस्य यत्र स एव तस्य विषय इति कित्स्वेव विकल्पेन प्रतिषेधायेदं प्रवर्त्तते। तत्र `वचिस्वपि' (6.1.15) इत्यादिना श्वयतेः
सम्प्रसारणस्य विहितत्वात्, न पित्सु; तत्र तस्य न केनचिद्विहितत्वात्. एकत्वच्चा-
स्य वाक्यस्य कित्सु च प्रतिषेधसम्पादन एव चरितार्थत्वात् नोपपद्यते पुनर्विधिमुखेन प्रवृत्तिः। अथ विधिमुखेन वा भवतीत्येवं प्रवृत्तिः स्यात् ? यत्र प्राप्तिर्ना-
स्ति स एव विधिविषय इति पित्स्वेव विकल्पेन विध्यर्थः प्रवर्त्तते;तत्र चरितार्थ-
त्वात् न कित्सु। संज्ञाविधाने तु न दोषः; तस्यां हि सत्यां प्रतिषेधः प्रवर्त्त-
मानो योऽसौ सम्प्रसारणनिमित्तानिमित्तभेदाद्विषय आसीत् तं समीकरोति। सर्वस्याः
सम्प्रसारणनिमित्ततया तुल्यतामापादयति।तस्मिन् समीकृते किति च पिति च विकल्पः प्रव-
र्त्तमानो विधिमुकेन सर्वत्र पाक्षिकं कार्यं सम्पादयति, सम्प्रसारणं पक्षे भवतीति। अप्राप्तिस्तु पक्षे स्थितैवेति सर्वमिष्टं सिध्यति। तस्मादुभयत्र प्राप्तावप्रा-
प्तौ विभाषार्थमियं संज्ञा विधीयते। शुशावेति। `टुओश्विगतिवृद्ध्योः' (धा.पा.1010), लिट्‌, णल्, संप्रसारणे कृते वृद्ध्यावादेशौ। `शुशुवतुः,शिश्वियतुः' इति।
`अचि श्नुधातु' (6.4.77) इत्यादिना इयङुवङौ।।

45.इग्यणः सम्प्रसारणम्। (1.1.45)
`भूतः'इति। यत्र शास्त्रान्तरेण विहितो भूतविभक्त्या कार्यान्तरार्थमनूद्य-ते, यथा- `सम्प्रसारणस्य' (6.1.139) `सप्रसारणाच्च' (6.1.108)इति, तत्र
भूतः। `भावी वा' इति। यत्र भाव्यमानविभक्त्या विधानार्थं निर्दिश्यते, यथा `ष्यङः
सम्प्रसारणम्' (6.1.13) `वसोः सम्प्रसारणम्' (6.4.131) इति, तत्र भावी। अत्र हि
ष्यङः स्थानिको वसुस्थानिकश्चेङः नास्ति यस्य संज्ञा सूत्रस्य शाटकं वय' इति। स इग् यणः स्थाने भवति, यस्य भूतस्य सम्प्रसारणमित्येषा संज्ञा भवतीति। `इष्टम्, उप्तम्' इति। `वचिस्वपियजादीनां किति' (6.1.15) इत सम्प्रसारणम्। `गृहीतम्'इत्यत्रापि
`ग्रहिज्यावयि'(6.1.16) इत्यादिना सम्प्रसारणम्। `ग्रहोऽलिटि दीर्घः' (7.2.37) ।
`केचित्' इत्यादिना ये भाविनीं संज्ञां नाश्रयन्ति तन्मतं दर्शयति। कथं पुनरेकस्य
सूत्रस्यैतदर्थद्वयमेकेन वाक्येन लभ्यते? तन्त्रेण, आवृत्त्या वा। ननु च संज्ञाविधौशब्दस्यैव ग्रहणं प्रसिध्दमित्युक्तम्, ततो युक्तं वर्णस्यैव संज्ञित्वम्, अर्थस्यततु कथम् ? यथा `नवेति विभाषा' (1. .44) इति सूत्र इति चेत्? न युक्तम्; तत्रेतिकरण-
स्यार्थनिर्देशार्थस्य प्रयोगात्, इह तु स नास्तीत्ययुक्तम् । इहापि तन्त्रस्यावृ-
त्तेर्वा न्यायस्याश्रितत्वाद् युक्तमेव । अस्य च सूत्रार्थद्वयस्य विभक्तिविशेषनि-र्देशो लिङ्गम् । यदयं `ष्यडः सम्प्रसारणम्' (6 1.13) इत्यादौ विधिवाक्ये
भाष्यमानविभक्‌त्या निर्देशं करोति ततो ज्ञायते-`वाक्यार्थः संज्ञी' इति । यतश्च
`सम्प्रसारणस्य' (6.3.139) इत्यादौ भूतविभक्‌त्या निर्देशं करोति ततोऽवसीयते-
`वर्ण' इति । तस्माद् युक्तं वाक्यार्थस्यापि संज्ञित्वम्। किरूपोऽसौ वाक्यार्थः ? इत्याह-`स्थान्यदेशः' इत्यादि । तत्रेत्यादिना अनन्तरयोः सूत्रार्थयोर्विषयविभागं
दर्शयति--विधौ वर्णो न सम्भवतीति । `ष्यडः सम्प्रसारणम्' (6 1.13) इत्यादौ
विधिवाक्ये प्रथमः सूत्रार्थ उपतिष्ठते । अनवादे तु `सम्प्रसारणस्य'(6.3.139)
इत्यादौ विहितत्वाद्विधेयस्य प्रथमोऽकिञ्चित्कर इति द्वितीयः । `अदुहितराम्' इति ।
अत्र यणः स्थानिकत्वादिकः सम्प्रसारणसंज्ञया भाष्यम् । तस्यां च सत्यां `हलः'
(6.4.2) इति दीर्घत्वं प्रसज्येतीति चोद्यमपाकर्त्तुमाह-`संख्ययातानुदेशात्'इत्यादिइह स्थानिनो यणश्चत्वारः इकोऽप्यादेशाश्चत्वार एव, तेन संख्यातानुदेशेन भवितव्यम्
`यथासंख्यमनुदेशः' (1.3.10) इत्यादिना । ततश्च यकारस्य स्थाने य इवर्णस्तस्यैव
सम्प्रसारमसंज्ञा भवति । न चेह यकारस्य स्थान इवर्णः । किं तर्हि ? लकारस्य ।
तत् कुतस्तस्याः प्रसङ्गः ? `द्रुह प्रपूरणे' (धा. पा. 1014), लङ, `कर्मवत् कर्मणा
तुल्यक्रियः' (3.1.87) इत्यतिदेशे कर्मकर्तयस्मिनेपदम्, इट् । `न दुहस्नुनमां यक्चिणौ' (3.1.89) इति यकि प्रतिषिद्धे शप् । तस्यादादित्वाल्लुक् । अदुहि इति स्थिते
`तिङश्च' (5.3.56) इति तरप् । `किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे'(5 4.11)
इत्याम् । तरप इहोपन्यासोऽङ्गसंज्ञार्थः ।

46. आद्यतन्तौ टकितौ। (1.1.46)
`षष्ठी स्थानेयोगा' (1.1.49) इत्यस्याः परिभाषाया अयमपवादः। तेन
तत्सम्बन्धादस्यापि परिभाषात्वं विज्ञायते। यदि तर्ह्यादिष्टिद् भवत्यन्तः किद्भवति, तदा `चरेष्टः' (3.2.16) `आतोऽनुपसर्गे कः' (3.2.3) इत्यादयोऽपि प्रत्यया
आद्यन्तभूताः स्युओः। न च टितः प्रत्ययस्यादित्वे `टिड्ढाणञ्' (4.1.15) इति टितो
विधीयमानो ङीब् निरवकाश इत्याशङ्कनीयम्। यत्र हि प्रकृतेरेव सिद्धं टित्त्वं न
प्रत्ययस्य, नद़ड् भष़डित्येवमादौ, स तस्यावकाशो भविष्यतीति। टितश्च प्रत्ययस्या-
दित्वे सति कुरुचर इत्येवमादिरूपमेव सिध्येत्। कितस्त्वन्त्यत्वे आध्योः, विध्योरि-
त्यत्र `उपसर्गे घोः किः' (3.3.92) इति किप्रत्ययस्य प्रकृत्यन्तः-पातित्वाद्धातु-
ग्रहणेन ग्रहणे सति `उदात्तयणो हल्पूर्वात्' (6.1.174) इत्येष स्वरो न स्यात्। `नोङ धात्वोः' (6.1.175) इति प्रतिषेधादित्यत आह- `षष्ठीग्रहणस्य सिंहावलोकितन्यायेनोप-स्थानात्। नन्वेवमपि `गापोष्टक्' (3.2.8) `व्रीहिशाल्योर्ढक्' (5.2.2) इत्येतावाद्य न्तौ प्राप्नुतः, नैष दोषः, `पुरस्तादपवादा अनन्तरात् विधीन् बाधन्ते नोत्तरान्' (व्या.प.9) इति स्थानेयोगत्वस्यैवायमपवादो भविष्यति, न प्रत्ययपरत्वस्य। अपर आह-
आद्यन्तावयवौ, अवयवश्चावयविनमन्तरेण न सम्भवतीत्यवयविनमाक्षिप्य तौ वर्त्तेते।
ततश्चावयवावयविसम्बन्धे यलस्यादिरन्तो वावयवो विधीयते, सोऽवयवो षष्ठ्या निर्देष्ट-
व्य इति सामर्थ्यादवयवषष्ठ्या निर्दिष्टस्येति ज्ञायते। न चैवम्। `गापोष्टक्' (3.2.8) `व्रीहिशाल्योर्ढक्' (5.2.2) इत्येतौ प्रत्ययावाद्यन्तौ प्राप्नुतः, यस्मादिह
प्रकृतयोऽवयवषष्ठ्या निर्दिष्टाः, किं तर्हि ? सुपां सुपो भवन्तीति पञ्चम्यर्थे या षष्ठी तयेति। `भीषयते' इति। `ञिभी भये'(धा.पा.1084) हेतुमण्णिच्, `भियो
हेतुभये षुक्' (7.3.40) `भीस्म्योर्हेतुभये' (1.3.68) इत्यात्मनेपदम्।

47. मिदचोऽन्त्यात्परः। (1.1.47)
अत्र यदि `अचः' (4.3.31) इत्येषा पञ्चमी स्यात्, अन्त्यादित्यनया
पञ्चम्या समानाधिकरणत्वं स्यात्। ततः `नपुंसकस्य झलचः' (7.1.52) इति नुमीहैवा-
न्त्यादचः परः स्यात्- `कुण्डानि' इति; अस्ति ह्यत्र नपुंसकस्यान्त्योऽचः; पयांसी-
त्यत्र तु न स्यात्, `अलोऽन्त्यस्य ' (1.1.52) इति सकारस्यैव तु स्थाने स्यात्।
ह्यत्राजन्त्यः, किं तर्हि? सकारः। तस्मान्निर्धारणे षष्ठीयमिति दर्शयन्नाह-`अचाम्'इत्यादि। जातौ बहुवचम्। सूत्रेऽप्यच इत्येकवचनं जातावेव। यदि तर्हि निर्धारणषष्ठीयम्, अन्त्यस्याविशेषितत्वादविशेषेण यतः कुतश्चिदन्त्यात् परो मित् स्यात्; न हि
द्वीतीयमज्ग्रहणमस्ति, येनान्त्यो दिशेष्यते, नैष दोषः; समानजातीयस्यैव हि लोके
निर्धारणप्रतीतिर्भवति। तथा हि `कृष्णा गवां सम्पन्नश्रीरतमा' इत्युक्ते गौरेव
प्रतीयते; नाजा, नाप्यश्वा। तसस्मादिहाप्यचां मध्येऽन्त्यादचोऽवधेरित्यन्त्यत्वेन निर्धार्यमाणः समानजातीयोऽजेव। प्रतीयते। तेनाच एवान्त्यात् परो भविष्यति। स्थानेयोगित्वप्रत्ययपरत्वापवादार्थञ्चेदमारब्धम्। तत्र स्थानेयोगित्वापवादार्थम्-`शेमुचादीनाम्' (7.1.59) नुम् भवति, मुञ्चति। `नपुंकस् झलचः' (7..72)पयांसि।
प्रत्ययपरत्वापवादार्थम्‌- `रुधादिभ्यः श्नम्' (3.1.78),रुणद्धि। ननु च `पुरस्ताद-पवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् (व्या.प.9) इति स्थानेयोगित्वस्यैवापवादो युज्यते, न तु प्रत्ययपरत्वस्य, नैतदस्ति; एवं हि श्नमो मित्करणमनवकाशत्वादनर्थकं
स्यात्। श्रवणार्थत्वान्नानर्थकमिति चेत् ? नः; `तृणह इम्'(7.3.92) इति निर्देशात्। श्रवणार्थे ह्येतस्मिन् `तृणम् ह इम्' इति निर्देशः स्यात्। तस्मात् प्रत्ययपरत्व-
स्यापवादो युक्तः। यद्येवं `तन्मध्यपतितस्तद्‌ग्रहणेन गृह्यते' (व्या.प.21) इति
प्रकृत्यन्तः पातिनस्तद्‌ग्रहणेन ग्रहणादपरत्वाच्च श्नमः प्रत्ययसंज्ञा न स्यात्,
तथा च `लशक्वतद्धिते' (1.3.8) इति प्रत्ययादेः शकारस्य विधीयमानेत्संज्ञा न स्यात्, नैष दोषः; प्रत्ययाधिकारे विधीयमानत्वात् प्रत्ययसंज्ञा भविष्यति- सत्यप्यपरत्वे, सत्यपि प्रकृत्यन्तः पातित्वे; यथा-बहुजकचोरन्तोदात्तत्वम्। `बहुपटवः, उच्चकैः'
इत्यनयोरसति परत्वे सत्यं प्रत्ययसंज्ञायां `चितः' (6.1.163) इत्यन्तोदात्तत्वं
भवत्येव। `मस्जेः' इत्यादि। नकारस्योपधाया `अनुषङ्गः' इति पूर्वाचार्येः संज्ञा
कृता। `टुमस्जो शुद्धौ' (धा.पा.1416) इत्यस्य `मस्जिनशोर्झलि' (7.1.60)इति नुमं
वक्ष्यति। स च यद्यचोऽन्त्यात् परः स्यात् `स्कोः संयोगाद्योः' (8.2.29) इति सकार-
स्य `अनिदिताम्' (6.4.24) इति नकारस्य च लोपो न स्यात्; यथाक्रममनादित्वादनु-
धत्वाच्च। तस्मादन्त्याज्जकारात् पूर्वो जकारसकारयोर्मध्ये नुम् कर्त्तव्यः। यथा चान्त्यात् पूर्वो लभ्यते,तथा सप्तमे वक्ष्यते। `मग्नः' इति। `ओदितश्च' (8.2.45)इति
निष्ठानत्वम्, तस्यासिद्धत्वत् `चोः कुः' (8.2.30) इति कुत्वं जकारस्य गकारः।
`मङ्क्ता' इति अत्र पूर्ववद् गकारे कृते तस्य `खरि च' (8.4.55) इति चर्त्वं ककारः। `नश्चापदान्तस्य झलि' (8.3.24) इत्यनुस्वारः। `अनुस्वारस्य ययि परसवर्णः' (8.4.58) ङकारः। पूर्वभक्तश्चायं मिद् वेदितव्यः; अन्यथा `वहाभ्रे लिहः' (3.2.32) इति लिहः
खशि कृते `अरुर्द्विषदजन्तस्य' (6.3.67) इति मुमि कृते वहंलिह् इत्यत्र `मोऽनुस्वारः' (8.3.23) इति पदान्तस्य विधीयमानोऽनुस्वारो न स्यात्, अपदान्तत्वात्।

48.एच इग्घ्रस्वादेशे। (1.1.48)
परिभाषेयमादेशनियमार्था `ह्रस्वो नपुंसके प्रातिपदिकस्य'(1.2.47) इत्यादावु-पतिष्ठते। इहेम् एचोऽवयवसमाहारवर्णाः। तत्र `ए ऐ' इत्येतयोः पूर्वो भागो वर्णसमा-
नाकृतिर्मात्रात्मैव तालव्यः। अत एव `ए ऐ कण्ठ्यतालव्यौ' (आ.शि. 17) इति
शिक्षाकाराः पठन्ति; तदवयवोः कण्ठ्यतालव्यत्वात्। `ओऔ' इत्येतयोः पूर्वो भागस्तादृश एव, यादृश एकारैकारयोः। उत्तरस्तूवर्णसमानाकृतिर्मात्रिक ओष्ठ्यः। अत एव `ओ औ
कण्ठ्योष्ठ्यौ' (आ.शि।18) इति शिक्षाकाराः पठन्ति; तदवयवोः कण्ठ्योष्ठ्यत्वात्।
तत्र समुदायात्मनामेचां समुदायान्तरतमो ह्रस्वो नास्तीति तदवयवस्य योऽन्तरतमः, तनैव युक्तं भवितुम्। स पुनरकारा इकार उकारो वा। तत्र एकारैकारयोर्ह्रस्वो विधीयमानः
कदाचिदकारः स्यात्,कदाचिदिकारः। ओकारौकारयोरपि कदाचिकारः स्यात्, कदाचिदुकारः।
इकारोकारावेव यथायोगं यथा स्याताम्, कदाचिदप्यकारो मा भूदित्येवमर्थमिदमारभ्यते।
अत्र यद्यप्येचामिकां साम्यम्, तथापि संख्यातानुदेशो न भवति, यस्मादन्नेदं विधायकम्, किं तर्हि? नियामकम्। प्राप्तिपूर्वकश्च नियम इति ये प्राप्ता अन्तरतमा इक
एचो ह्रस्वास्तेषामनेन नियमः क्रियते। न च प्राप्तावृकारलृकाराविति कुतो यथासंख्य-
त्वम्? यद्येवम्, इण्णित्येव वक्तव्यम्, न त्वगिति, सत्यमेतत्; किन्त्वेवमुच्यमाने सन्देहः स्यात्- किं पूर्वेण णकारेण प्रत्याहारः ? उत परेण ? इति; तस्मादसन्देहार्थमिगित्युक्तम्। `अतिरि, अतिनु' इति। रायमतिक्रान्तं, नावमतिक्रान्तं ब्राह्मणकुलम्
`अत्यादयः क्रान्ताद्यर्थे द्वितीयया' (वा.91) इति `कुगति' (2.2.18) इत्या-
दिना समासः, `परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः' (2.4.26) इति पुंल्लिङ्गे
स्त्रीलिङ्गे च प्राप्ते `द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु तल्लिङ्गमेव भवति। `ह्रस्वो नपुंसके प्रातिपदिकस्य' (1.2.47) इति ह्रस्वः. इक् कण्ठतालव्यस्यैकारस्य
तालव्य इकारो भवति। कण्ठ्योष्ठ्यस्यौकारस्यौष्ठ्य उकारः। `उपगु' इति। गोः समीपमिति। `अव्ययं विभक्ति' (2.1.6) इत्यादिना सामीप्येऽव्ययीभावः। `गोस्त्रियोरुपसर्जनस्य' (1.2.48) इति ह्रस्वः। कण्ठ्योष्ठ्योकार्सयौष्ठ्य उकारः। एकारस्य तूदाहरणम्- हे
इतीमं शब्दमतिक्रान्तं ब्राह्मणकुलमतिहि। `अततिखट्वः' इति। पूर्ववत् प्रादिसमासे कृते `गोस्त्रिरुपसर्जनस्क' (1.2.48) इत्येवमादिना ह्रस्वोऽकार एव भवत्यन्तरतमः।
`दे3वदत्त' इति। अत्रामन्त्रित्सयादेरुदात्तादेशे कर्त्तव्ये `देवद3त्त' इत्यत्र च `गुरोरनृतोऽन्त्यस्य' (8.2.86) इत्यादिना प्लुतादेशे कर्त्तव्य इङ न भवति।।

49. षष्ठी स्थानेयोगा।। (1.1.49)
`योगनियमार्था' इति। योगनियमः सम्बन्धनियमः, सोऽर्थः प्रयोजनं यस्याः सा
तथोक्ता। यदि योगनियमार्थयम्- शास्त्रे या षष्ठी, सा स्थानेयोगैव् भवति, नान्ययोगे-
ति। एवं सति `ऊदुपधाया गोहः' (6.4.89) इत्येषापि षष्ठी स्थानेयोगैव स्यात्, नावयवादयविसम्बन्धयोगा। ततश्च `अलोऽन्त्यस्य' (1.1.52) इति स्थानषष्ठ्या अन्त्येऽप्युपसंहाराद् गोहश्चान्तस्य हकारस्य ऊकारः स्यात् । `उपधायाश्च' (7.1.101) इति वचनादुपधा-मात्रस्य चेत्यत आह-`इह शास्त्रे या षष्ठ्यनियतयोगा' इत्यादि। अनियमप्रसङ्गे
नियमोऽनया क्रियते। क्व चानियमप्रसङ्गः ? यत्र सन्देहः; यथा-`अस्तेर्भूः' (2.4.52)इति। अत्र हि किमस्तेः स्थाने? आहोस्विदनन्तरे ? इति सन्देहः, पूर्वत्र तूपधाया अवयवलक्षणस्य स्थानिनो विशिष्टावयविनो व्यवच्छिन्नत्वादवयवष्ठ्येवेयमिति निश्चितम्;
ततो नात्रास्या व्यापारः। `स्थानेयोगैव' इति। स्थान इति निमित्तसप्तमी, योगः
सम्बन्धः। तेनेदमुक्तं भवति-स्थाननिमित्तकसम्बन्धैवेति। एतदेव विस्पष्टीकुर्वन्नाह-`स्थाने योगस्य निमित्ते' इत्यादि। स्थानेयोगस् निमित्तभूते निमित्तत्वं प्राप्ते
सति सा वेदितव्या। भूतशब्दो ह्यत्र प्राप्तशब्दे वर्तते; यथा- `देवभूतः' इत्यत्र
देवत्वं प्राप्त इत्यर्थः। निमित्तग्रहणं कुर्वन् सूत्रे स्थानेयोगेति निमित्तसप्त-
मीयमिति दर्शयति। योगः पुनरिह स्थान्यादेशभावलक्षणः। कुत एतत्? तस्यैव स्थानि-
हेतुत्वात्। स्थानशब्दोभावसाधनः, स्थितिः स्थानम्। तत् पुनस्त्रिधा- `अपकर्षः,
निवृत्तिः,प्रसङ्गश्च' इति। गोस्थानेऽश्वो बध्यतामित्यपकर्षः स्थानशब्दस्यास्थेयः। `श्लेष्मणः स्थाने कटुकमौषधम्' इत्यत्र निवृत्तिः। `दर्भाणां स्थाने शरैरास्तकरित-
व्यम्' इति प्रसङ्गः। तत्राद्यावर्थाविह न सम्भवतः; नित्यत्वाच्छब्दार्थसम्बन्धस्य प्रथमो न सम्भवति; सामान्येनास्तेरुपदेशान्न द्वितीयः। तस्मात् तृतीय एवार्थ इति
मत्वाह-`स्तानशब्दश्च' इति। प्रसङ्गस्त्वर्थक्रियानिमित्तभूतस्य कालस्यावसरः। `
अस्तेस्थाने प्रसङ्गे' इति। अस्तेर्या क्रिया स्वार्थप्रतिपादनलक्षणा, तस्या
निमित्तभूतस्य कालस्यावसरः प्राप्त इत्यर्थः। प्रसङ्गे सम्बन्धस्य निमित्तभूत इत्यादिना सूत्रार्थस्योदाहरणे सम्भवं दर्शयति। `ब्रुवः' इति चोपलक्षणमात्रम्। अस्तेरि-
त्यादेरपि हि षष्ठी प्रसङ्ग एव सम्बन्धस्य निमित्तभाव उत्पन्ना।
के पुनर्बहवः षष्ठ्यर्थाः, यतः सम्बन्धान्तरविषयव्यवच्छेदनार्थं षष्ठ्या इदमुच्यते? इत्याह-`बहवो हि' इत्यादि। शब्दे हि समीपानन्तरविकारावयवादिनिमित्ताः
सम्बन्धाः सन्ति। न त्वपत्यापत्यवत्प्रभृतय इत्यतो `यावन्तः शब्दे सम्भवन्ति' इत्याह। अथ स्थानेयोग इत किमसमासः? अथ समासः? यद्यसमासः? तदा योगशब्दस्य
पुंल्लिङ्गत्वात् स्त्रीलिङ्गेन निर्देशः, षष्ठीशब्देन च सामानाधिकरण्यं न प्राप्नोति; योगस्याषष्ठीत्वात्। अतः समासः किं तत्पुरुषः ? आहोस्विद् बहुव्रीहिः ? यदि
तत्पुरुषः ? तौ च पूर्वोक्तौ दोषौ स्याताम्, सप्तम्या लुकप्रसङ्गश्च। अथ बहुव्रीहिः? एवमपि लुक्प्रसङ्गोऽत्रानिवार्य एवेत्यत आह-`षष्ठी स्थानेयोगा' इत्यादि।
गतार्थम्।

50.स्थानेऽन्तरतमः। (1.1.50)
परिभाषेयमादेशनियमार्था।`स्थाने प्राप्यमाणानाम्' इति। एतेन नेदं विधायकं
वाक्यम्, किं तर्हि? लक्षणान्तरेण प्राप्तानामनन्तरतमानामितरेषां च योऽन्तरतमः, स एव भवतीति नियमार्थमिति दर्शयति। विधायकत्वे हि `दधि मधु' इतादावपि प्रसज्यते।
किं पुनरत्रानिष्टम् ? यावतान्तरतम्याद् दधिमधुशब्दयोस्तावेवादेशौ भविष्यतः, तयोरप्यादेशयोरन्यौ दधिमधुशब्दौ यावादेशौ स्याताम्, तयोरप्यन्यावित्येवमपरिसमाप्तादेशपर-
म्पराविधानादनवस्था स्यात्। ततश्चार्थप्रत्यायनं प्रति शब्दानां विनियोगो न स्यात्,अन्वाख्यायकस्य शास्त्रस्य प्रवृत्त्यनुपरमात्। शास्त्रोपरतौ ह्यन्वाख्यातास्ते प्रयुज्यते, नान्यथेत्यनिष्टम्। ननु च सकृत्प्रवृत्तौ लक्षणस्य चरितार्तत्वात् पुनः
प्रवृत्तिर्न भविष्यति, नैतदस्तिच यत्र हि प्रयोजनार्था प्रवृत्तिस्तत्रैतदुक्तम्, इह पुनरकस्मादन्तरतमो विधीयत इत्यनुपरतैवास्य प्रवृत्तिः। नियमाकत्वेऽप्यस्य यदीदं विहितानां नियमं कुर्यात् ! अनर्थकमेव वचनं स्यात्। यो हि भुक्तवन्तं ब्रुयात्-
`मा भुङ्क्ष्य' इति,किं तस्य तेन कृतं स्यात् ! तस्मात् प्राप्यमाणावस्थायामेव
वाक्यान्तरः सह संहत्यानन कार्यं निर्वर्त्यते; तदेकदेशभूत्वादस्य। `सदृशतमः' इति।् अन्तरतमशब्दस्यार्थ कथयति।
`अर्थतः' इत्यादि। वतण्डशब्दात् स्त्रियामपत्यार्थे `वतण्डाच्च' (4.1.108) इति यञ्,तस्य `लुक् स्त्रियाम्'(6.4.14) इत्यकारलोपः, वतण्डी चासौ युवतिश्चेति
`पोटायुवति' (2.1.65) इत्यादिना समासः। तत्रानेन `पुंवत कर्मधारयः' (6.3.42)
इत्यादिना पुंवद्भावे कर्तव्ये सर्वः पुंशब्दः प्रसक्तः। तत्रानेन वतण्डापत्यार्थ-
स्य वतण्डी शब्दस्यार्थतोऽन्तरतमो वतण्डापत्यार्थ एव वातण्ड्यशब्दो भवति।
`पाकः' इत्यादौ भावे घञ्। `चकारस्य' इत्यादि। `वर्गाणां प्रथमा अल्पप्राणाः' (आपि.शि. 4.3.) इति चकारककारावल्पप्राणौ। `वर्गाणां प्रथमद्वितीयाः शषसविसर्जनीय-
जिह्वामूलीयोपध्मानीया यमौ च प्रथमद्वितीयौ विवृतकण्ठाः श्वासानुप्रदाना अघोषाः' (आपि.शि।4.2.) इत्यघोषौ। `जकारस्य' इत्यादि। `वर्गाणां तृतीयचतुर्था अन्तःस्था
हकारानुस्वारौ यमौ च द्वितीयचतुर्थौ नासिक्याश्च संवृकण्ठा नादानुप्रदाना घोषवन्तः'महाप्राणाः' इत्यल्पप्राणौ। `अमुष्मै, अमूभ्याम्' इति। अदसश्चतुर्थ्येकवचने भ्यामि च परतस्त्यदाद्यत्वम्,`अतो गुणे' (6.1.97) पररूपत्वम्, `सर्वनाम्नः स्मैः' (7.1.4) इति स्मैभावः। भ्यामि `सुपि च' (7.3.102) इति दीर्घः, ततो ह्रस्वस्य ह्रस्व उकारो
भवति, दीर्घस्य दीर्घः।
  `स्थाने इति वर्त्तमाने' इति। प्रकृतो हि स्थानशब्दः प्रसङ्गवाची। तदनुवृ-
त्तौ स्थाने प्राप्यमाणानामन्तरतमो भवति' इत्येषोऽर्थो लभ्यते। ननु च यत्रानेकमा-
न्तर्यं तत्र ताल्वादिस्थानत एवान्तर्यस्य बलीयस्त्वम्, तस्मात् तद् यथा स्यादिति
पुनस्ताल्वादिस्थानवाचिनः स्थानशब्दस्योपादानं क्रियते। यद्येवम्,स्थानकृतमेवेहान्तर्यं विशिष्टमुपात्तमिति प्रमाणादिकृतं परित्यक्तं स्यात् ? नैष दोषः, वाक्यभेदं हि कृत्वा तत्र सम्बन्धः क्रियते, स्थाने प्राप्यमाणानामन्तरतम आदेशो भवति। `स्थाने च भवति' इति पूर्वत्र वाक्ये प्रसङ्गवाची स्थाशब्दः, उत्तरत्र ताल्वादिस्थानवाची।
एवं वाक्यभेदेन सम्बन्धे सति, पूर्वस्मिन् वाक्ये स्थानादिकृतानामान्तर्याणां -
परिग्रहः प्रतीयते। द्वितीये तु तेषामेव बलाबलवत्त्वम्। `स्थाने' इति च निमित्तसप्तमी। तेनेदमुक्तं भवति- यत्रानेकमान्तर्यं तत्र स्थानेन निमित्तेन योऽन्तरतमः, स एव भवति। वाक्यभेदस्य च तमब्ग्रहणं लिङ्गम्। सादृश्ये प्रकर्षो हि तेन प्रतिपादयितुमिष्टः। स चानेकस्मिन् सादृश्ये सति सादृश्यान्तरापेक्षया भवति। एकवाक्यतायां च स्थानग्रहणेन सादृश्यान्तरे निरस्ते किमपेक्षया सादृश्यप्रकर्षः स्यात् ! तस्मात् तम-
ब्ग्रहणाद् वाक्यभेदोऽनुमीयते, अन्यथा हि तस्य वैयर्थ्यं स्यात्।
`चेता' इति। अत्रेकारस्य तालव्यत्वादेकारस्य कष्ठतालव्यत्वात् स्थानत
आन्तर्यम्; इकाराकारयोस्तु प्रमाणयोरपि मात्रिकत्वात्। `स्तोता' इति। अत्राप्युकार-स्यौष्ठ्यत्वादोकारस्य कण्ठ्यौष्ठ्यत्वात् स्थानत आन्तर्यम्। उकाराकायोस्तु
प्रमाणतः पूर्ववत्। तत्रासति पुनः स्थानग्रहणे, प्रमाणत आन्तर्यात् कदाचिदकारो गुणः स्यात्, स्थानत आन्तर्यात् कदाचिदेकारौ। पुनः स्थानग्रहणात् तु स्थानकृतस्यान्तर्यस्य बलीयस्त्वादेकारौकारौ एव भवतः, न कदाचिदकारः। `सोष्मणः, सोष्माण इति '
इत्यादि। इतिकरणो हेतौ; यस्मात् सोष्माणो द्वितीयस्तस्मात् सोष्मणो हकारस्य
द्वितीयाः प्रसक्ता इत्यर्थः। एवं `नादवतो नादवन्तः' इत्यादौ वाक्ये हेत्वर्थो
योज्यः। `शादय ऊष्माणः सस्थानेन द्वितीया हकारेण चतुर्थाः' इति शिक्षा (आ.शि.1.4.
8.10) । अत्र `शादय ऊष्माणः' वचनेन हकारस्य सोष्मत्वं प्रतिपादितम्। `सस्थानेन
द्वितीयाः' इत्यनेन तु वर्गद्वितीयानां खकारादीनाम्। `हकारेण चतुर्थाः' इत्यनेनापि वर्गचतुर्थानां धकारादीनाम्। समानं स्थानं यस्य स सस्थानः। `सस्थानेन' इति। इत्थ-
म्भूतलक्षणे तृतीया। सस्थानेन द्वितीया ऊष्मतया लक्ष्यन्ते। एतदुक्तं भवति- `यथा
सस्थान एवेषामूष्मा, एवमेतेऽपि वर्गाणां द्वितीया ऊष्माणः' इति। अथ वा - तुल्यार्थयोग एषा तृतीया, तुल्यशब्दस्त्वध्याहार्यः, तुल्यत्वमूष्मतया वेदितव्यम्। तत्र खकारस्य सस्थानो हकारः, छकारस्य शकारः, ठकारस्य षकारः, थकारस्य सकारः। फकारस्य
सस्थान ऊष्मा नास्ति। तस्मात् तस्यापि विशेषेणोष्मत्वं लक्ष्यन्ते, तत्सदृशत्वात्। तेन यथा हकार ऊष्मा एवं तेऽपीत्यर्थः। `नादवतः' इत्यादि। `वर्गाणां तृतीयचतुर्थाः' इत्यादिना पूर्वोक्तेन ग्रन्थेन तृतीयानां हकारस्य नादवत्त्वमुक्तम्। ये सोष्माणो `नादवन्तश्च' इति। सोष्मत्वं हकारस्य `शादय ऊष्माणः' (आ.शि.1.4.8) इत्यनेनाख्यातम्,चतुर्थानां तु `हकारेण चतुर्थाः' (आ.शि. 1.4.1) इत्यनेन नादवत्त्वम्, उभयेषां वर्गाणां तृतीयचतुर्था इत्यादिनैव पूर्वोक्तेन।

51. उरण् रपरः। (1.1.51)
अत्र त्रयः पक्षाः सम्भवन्ति- `उः स्थानेऽण् रपरत्वं चानेनोभयं विधीयते'
इत्येकः पक्षः। `लक्षणान्तरेण विहितस्याण उः स्थाने पश्चादनेन रपरत्वमात्रं क्रियते' इति द्वितीयः पक्षः। `उः स्थाने लक्षणान्तरेण विधीयमानोऽण विधानकाल एव तेन
लक्षणान्तरेण सह संहत्य रपरत्वविशिष्टोऽनेन भाव्यते' इति तृतीयः। तत्र यद्याद्यः
पक्ष आश्रीयते, ऋकारस्य स्थान उदात्तादयो न स्युः, अनेन बाधित्वात्; `कृति' इत्यत्र `ञ्नित्यादिनित्यम्' (6.1.197) इत्याद्युदात्तो न स्यात्, `प्रकृतम्' इत्यत्र
पूर्वपद्सयाद्युदात्तस्य `गतिरनन्तरः' (6.2.49)इति प्रकृतिस्वरे कृते `अनुदात्तं पदमेकवर्जम्' (6.1.198) इत्यनुदात्तो न स्यात्, `उदात्तानुदात्तस्य स्वरितः' (8.4.66)इति स्वरितश्च। यद्यचः स्थाने उदात्तादयो विधीयन्ते, तथापि तेषामन्योऽजवकाश इति
ऋवर्णस्थाने प्रतिपदोक्तोऽणेव रपरः स्यात्। ये चाप्यन्य ऋवर्णस्थाने प्रतिपदमादेशा उच्यन्ते, `ऋत इद्धातोः' (7.1.100) इत्येवमादिभिर्लक्षणान्तरैस्तेषु रपरत्वं न
स्यात्; ततश्च `किरति' इत्यादि न सिध्येत्।
अथ द्वितीयः पक्ष आश्रीयते, तरतेस्तृजादौ गुणो विधीयमानः प्रमाणत
आन्तरतम्याद् दीर्घस्य दीर्घ एव स्यात्, तथा च `तरिता' इत्यादि न सिध्येत्। किं च-
ण्वुलादौ वृद्धौ विधीयमानामृकारस्य केनचिद् वृद्धिसंज्ञकेनान्तरतम्यविशेषो नास्तीति सर्वे वृद्धिसंज्ञकाः पर्यायेण प्रसज्येरन्। तथा च पक्षे `नायकः, स्तावकः' इत्या-
द्यप्यनिष्टं रूपं स्यात्। इत्येवमाद्ययोः पक्षयोर्दोषवत्तां दृष्ट्वा, तृतीयं पक्षमाश्रित्याह- `उः स्थानेऽण् प्रसज्यमान एव'इत्यादि। एतेन लक्षणान्तरेण विधीयमान-
स्याणो विधानकाल एव तेन सह संहत्य रपरत्वविशिष्टस् विधावियं परिभाषा व्याप्रियत इति दर्शयति। एतच्च स्थानद्वयग्रहणस्यात्रानुवृत्तेर्लभ्यन्ते। पूर्वकेण हि स्थानग्रह-

णेनेहानुवृत्तौ `उः स्थाने' इत्यतदर्थरूपं लभ्यते। द्वितीयेन तु प्रसज्यमान
इत्येतत्। तथा हि- स्थानग्रहणं सप्तम्यन्तं प्रकृतमनुवर्त्तमाने तत्सामर्थ्यात् प्रथमान्तं सम्पद्यते, स्थानशपब्दश्चायं प्रसङ्गवाची। ततश्च यदा स्थानेनाण् विशिष्यते-`अण् स्थानम्' इति, तदा `अण् प्रसज्यमान एव' इत्येषोऽर्थो जायते।
`प्रसज्यमानः' इति। प्रसङ्गेनाभिसम्बध्यमान इति यावत्। `एव' इति। अवधारणं
पुनरत्र व्यवच्छेद फलत्वेन सर्ववाक्यानां सावधारणत्वाल्लभ्यते। कथं पुनरण् स्थानं
भवति? नैव हि स स्थानं भवति, तद्योगात्तु तत्र स्थानव्यपदेशो भवति, यथा-`यष्टीः
प्रवेशय' इत यष्टियोगात् पुरुषाणां व्यपदेश-। ननु च `स्थानेऽन्तरतमः' लभ्यते ? नैष दोषः, स्वरितत्वचिह्नाद्धि यो यत्रोपष्ठते, स तत्र सामर्थ्यात् तत्कार्ययोग्यस्यै-वार्थस्याभिधाता सन्नुपतिष्ठते। तेन यद्यपि पूर्वसूत्रे स्थानशब्दस्तवादिस्थानवचनः, तथापीहोपतिष्ठमानः प्रसङ्गवचन एवोपतिष्ठते। तेदवं यस्मान्नेदं स्वतन्त्रमणो रपरत्वविशिष्टस्य च विधायकम्। तस्मादाद्ये पक्षे यो दोषः स इह न भवति ततश्च लक्षणान्तरेण विहितस्याणः पश्चादनेन रपरत्वं न विधीयते, किं तर्हि? प्रसज्यमान एवाण् लक्षणान्तरेण तत्सहायं प्रतिपद्य रपरो भाव्यते। तेन द्वितीये पक्षे यो दोषः, सोऽप्यस्मिन्न भवत्येव। प्रसज्यमानस्यैव हि रपरत्वविधौ यथा ऋवर्णो रश्रुतिमान्‌, एवमादेशोऽपि
रश्रुतिमानेव भवति। ततश्चान्तरतम्यादृकारस्य रश्रुतिमतस्तादृश एव रश्रुतिमानेदेशो भवति। अन्ये गुणवृद्धिसंज्ञका व्यावर्तिता भवन्ति। यदि तर्हि प्रसज्यमान एव रपरो
भवति, अनेकल्त्वात् सर्वादेशः प्रसज्येत, नैष दोषः; यदयं `तरति' इति निर्देशं करोति; ततो ज्ञाप्यते-सर्वादेशो न भवतीति।
`कर्ता, हर्ता'इति। `डुकुञ् करणे'(धा.पा.1473) `हृञ् हरणे' (धा.पा.899)
आभ्यां `ण्वुल्तृचौ' (3.1.133) इति तृच्, `सार्वधातुकार्धकयोः' (7.3.84) इति गुणः, `अचो रहाभ्याम्' (8.4.46) इति द्वित्वम्। `किरति, गिरति' इति। `कृ विक्षेपे' (धा.पा.1410) `गृ निगरणे' (धा.पा.1411)- आभ्यां लट्, `शेषात् कर्तरि परस्मैपदम्' (1.3.78)इति तिप्, तुदादित्वाच्छः, `ऋत इद् धातोः' (7.1.100) इतीत्त्वम्। `द्वैमातुरः, त्रैमातुरः' इति। द्वयोर्मात्रोरपत्यम्, तिसृणां मातॄणामपत्यमिति `मातुरुत् संख्यासम्भद्रपूर्वायाः' (4.1.115) इत्यण्, उकारश्चान्तादेशः। `तद्धितेष्वचामादेः' (7.2.117) इति वृद्धिः। `खेयम्' इति। `ई च खनः' (3.1.111) इति क्यप्, इकारश्चान्तादेशः,
`आद्गुणः'(6.1.87)। `सौधातकिः' इति। `सुधातुरकङ च' (4.1.97) इतीञ्।
तत्संयोगेनाकङादेशः क्रियमाणो रपरो न भवति, अनण्त्वात्। अथ योऽत्राण्, स रपरः
कस्मान्न भवति ? अनादेश्त्वात्। समुदायो ह्यत्रादेशो न तदवयवः। नैष दोषः; यो हि
द्वयोः षष्ठीनिर्दिष्टयोः स्थाने भवति, लभते सोऽन्यतरव्यपदेशम्, यथा- देवदत्तस्य
पुत्रो देवदत्तायाः पुत्रः' इति।।

52.अलोऽन्त्यस्य। (1.1.52)
अल्ग्रहणमन्त्यस्य विशेषणम्, नादेशस्य; अन्यथा ह्यलन्त्यस्येत्येवं
ब्रूयात्। आदेशः पुनरत्रैकाल्लभ्यते। अन्यस्य `अनेकाल्शित् सर्वस्य' (1.1.55) इति सर्वादेशतां वक्ष्यति। `षष्ठीनिर्दिष्टस्य' इति। सामान्यवचनेऽपि `षष्ठी स्थानेयोगा' (1.149) इत्यधिकारात् स्थानषष्ठ्या निर्दिष्टस्येति वेदितव्यम्; अन्यथा टित्किन्मितोऽप्यवयवसम्बन्धषष्ठीनिर्दिष्टा विधीयमाना अन्त्यस्य स्युः। `इद् गोण्याः' (1.2.50) इति। येयं षष्ठी सान्त्यमलं नीयते- अन्त्यस्याल इत्त्वमिति। `प़ञ्चगोणिः' इति।
पञ्चभिर्गोणीभिः क्रीत इति `तद्धितार्थोत्तरपदसमाहारे च' (2.1.51) इति समासः। `तेन
 क्रीतम्' (5.1.37) इति `प्राग्वहतेष्ठक्' (4.4.1) `अध्यर्धपूर्वद्विगोर्लुगसंज्ञा-याम्' (5.1.28) इति तस्य लुक्। यद्यलोऽन्त्यस्य षष्ठीनिर्दिष्टस्यादेशो भवति,`
इदोऽय् पुंसि' (7.2.111) इत्यतः `इदः' इत्यनुवृत्तेः `हलि लोपः'(7.2.113)
विधीयमान इद्रूपस्य योऽन्त्यस्तस्य स्यात्। तथा च - आभ्यामिति न सिध्येत्, नैष
दोषः; `नानार्थकेऽलोऽन्त्यविधिरनभ्यासविकारेषु' (व्या.प.62) इति परिभाषया न
भविष्यति।।

53.ङिच्च। (1.1.53)
`होतापोतारौ' इति। होतृपोतृशब्दयोर्द्वन्द्व, आनङ्, औप्रत्यये परतः `ऋतो
ङिसर्वनामस्थानयोः' (7.3.110) इति गुणः, रपरत्वं च। `अप्तृन्तृच्' (6.4.11)
इत्यादिना दीर्घः। `मातापितरौ' इति। `पिता मात्रा' (1.2.70) इति यस्मिन् पक्ष एक-
शेषो नास्ति, तत्रेदमुदाहरणम्। यदि ङिदादेशोऽनेकालप्यन्त्यस्य भवति, एवं सति तातङ-
प्यन्त्यस्य भवतीत्यत आह-`तातङि' इत्यादि। तत्र गुणप्रतिषेधार्थम् चिनुतादित्यादौ। अत्र हि सार्वधातुकलक्षणस्य गुणस्य प्राप्तिः। वृद्धिप्रतिषेधार्थम्- मृष्टादिति।
अत्र हि `मृजेर्वद्धिः' (7.2.114) इति वृद्धिप्राप्तिः। तदेवं गुणवृद्धिप्रतिषेधे
चरितार्थत्वात् तातङो ङित्करणस्य सावकाशत्वे सति तस्मिन परत्वात `अनेकाल्शित्सर्व-
स्य' (1.1.55) इत्यनेन तातङ सर्वादेशो भवति। ङिच्चेत्यस्यावकाशः-
`होतापोतारौ' इत्यादि। अनेकालित्यादेरवकाशो योन ङित्-`अस्तेर्भूः' (2.4.52),
भवितेत्यादि।
`जीवतात्' इत्यादावुभयप्राप्तौ परत्वदनेकाल्त्वात् तातङ सर्वादेशो भवति, `
जीवताद् भवान्' `जीवतात् त्वम्' इति। जीवतादिति `आशिषि लिङलोटौ' (3.3.173) इति
लोट्, तिप्, `एरुः' `तु ह्योस्तातङ्' (7.1.35) इत्यादिना तातङ।।

54. आदे परस्य। (1.1.54)
अलोऽन्त्यस्यापवादोऽयम्। शास्त्रे न क्वचित् परस्येतुच्चार्य कार्यं विधीयते। ततश्च निर्विषयमेतदित्यभिप्रायेणाह-`क्व च' इत्यादि। `यत्र पञ्चमीनिर्देशः'इति। `तस्मादित्युत्तरस्य' (1.1.67) इति वचनाद् यत्र पञ्चमीनिर्देशस्तत्र परस्य कार्यं शिष्यते। `आसीनः' इति। `आस उपवेशने' (धा.पा.1021), लट्, अनुदात्तेत्वादात्मनेपदम्, शानच्, अदादित्वाच्छपो लुक्। `द्वीपम्, अन्तरीपम्' `समीपम्' इति। द्विर्गता
अन्तर्गताः सङ्गता' आपोऽस्मिन्निति विगृह्य बहुव्रीहिः। `ऋक्पूः' (5.4.74) इत्यादिना अकारप्रत्ययः समासान्तः।।

55. अनेकाल्शित्सर्वस्य। (1.1.55)
शितः शकारानुबन्धेनानेकाल्त्वेऽपि शिदिति पृथक्करणं `नानुबन्धकृतमनेकाल्त्वम्'(व्या.प.14) इति ज्ञापनार्थम्। तस्य तु प्रयोजनम्-- `दिव उत्' (6.1.131) इत्या-दिषु सर्वादेशाभावः।।

56. स्थानिवदादेशोऽनल्विधौ। (1.1.56)
स्थानं प्रसङ्गः, स च पूर्वमुक्तस्वरूपः। अतिदेशोऽनेकप्रकारः- निमित्ताति-
देशः; व्यपदेशातिदेशः, शास्त्रातिदेशः, रूपातिदेशः, कार्यातिदेशश्चेति। तत्र
तावन्निमित्तमशक्यमतिदेष्टुम, न हि धात्वादिधर्माः शब्दप्रवृत्तिनिमित्तभूता धात्वादिव्यक्त्याश्रिता वस्त्वन्तरमादेशं प्रापयितुम्, प्रापयितुं पार्यन्ते; यथा-
ब्राह्मणवदस्मिन् क्षत्रिये वर्त्तितव्यमिति ब्राह्मणशब्दप्रवृत्तिनिमित्तं न शक्यं क्षत्रिये प्रापयितुम्, तद्वत् तस्मादशक्यत्वात् नेह निमित्तादेश आश्रीयते। नापि
व्यपदशातिदेशः; संज्ञासंज्ञिसम्बन्धादभिन्नत्वात्। संज्ञासंज्ञिसम्बन्धे हि वत्करण-
स्यानर्थक्यं स्यात्, विनापि तेन तत्सिद्धेः। अप्रधानत्वाच्च नात्र व्यपदेशातिदेशो युक्त आश्रीयतुम्। अत एव शास्त्रातिदेशोऽपि। अप्रधानत्वं तु तयोरपि कार्यं
प्रत्यङ्गभूतत्वात्। रूपातिदेशस्याप्याश्रयणमयुक्तम्' निष्फलत्वात्। यदि ह्यादेशस्य स्थानिनोरूपमतिदिश्येत; आदेशस्य वैयर्थ्यं स्यात्। `द्विर्वचनेऽचि' (1.1.59) इत्यत्र रूपातिदेशेऽपि न भवत्यादेशवैयर्थ्यम्, द्वर्वचनादुत्तरकालं श्रवणार्थत्वात्। तस्मादतिदेशान्तराश्रयणस्यायुक्तत्वात् कार्यातिदेश आश्रीयते। `स्थानिना तुल्यं वर्तते' इति। तत्तुल्यकार्यत्वात्, `तेन तुल्यम्' (5.1.115)। `स्थान्याश्रयेषु' इति।
स्थानी आश्रय एषामिति बहुव्रीहिः। `अनलाश्रयेषु' इति। अल आश्रय एषामिति बहुव्रीहि
कृत्वा न अळाश्रयाणि अनलाश्रयाणीति ऩञ्समासः। अनन्तरोक्तमेवार्थं विस्पष्टीकर्तृमाह- `स्थान्यलाश्रयाणि' इत्यादि। स्थानी अल् आश्रयोयेषां तानि तथोक्तानि। आश्रयग्रह-णेन सूत्रे योऽल्विधिशब्दः, सोऽलाश्रयो विधिरल्विधिरित्युत्तरपदलोपी समास इति
दर्शयति। स पुनः समासो मयूरव्यंसकादित्वात् समासं कृत्वा नञ्समासः कृतः। न
अल्विधिरनल्विधिः' इति। पुनरलाश्रयो विधिः ? यो वर्णमात्राश्रितः। यस्तु समुदाया-
श्रितः सोऽनलाश्रयः। कार्यशब्देन क्मसाधनेन विधिशब्दस्यार्थमाचक्षाणः `विधीयते'
इति विधिरिति तस्य कर्मसाधत्वं दर्शयति।
`किमुदाहरणय्'इति प्रश्नः। `धात्वाद्यादेशाः प्रयोजनम्' इत्युत्तरम्।
प्रयुज्यतेऽनेनेति प्रयोजनम्, उदाहरणेन च प्रयुज्यत इति। अर्थात् प्रश्नानुरूपं
प्रतिवचनम्।
ननु चार्धधातुके परतो भाव्यमादेशाभ्याम्, तत्र किमत्रादेशेनेत्यत आह-
`आर्धधातुके विषये' इति। `प्रकृत्य' इत्यादि। `कुगति' (2.2.18) इत्यादिना समासः,
`समासेऽनञ्पूर्वे क्त्वो ल्यप्' (7.1.37)।
`दधिकम्' इति। दध्ना संस्कृतमिति `दध्नष्ठक्' (4.2.18)। `अद्यतनम्' इति।
`सायंचिरम्' (4.3.23) इत्यादिना ट्युप्रत्ययः, तुडागमश्च, योरनादेशः।
`अकुरुताम्,अकुरुतम्' इति। कृञो लङ्, `तस्थस्थमिपाम्' (3.4.101) इत्यादिना तसस्ताम्, थसस्तम्, तनादित्वात् `तनादिकृञ्भ्य उः' (3.1.79), धातोर्गुणः। `अत उत्
सार्वधातुके' (6.4.110)।
ग्रामो वृ स्वम्, जनपदो नः स्वम्' इति। युष्मदस्मदोः षष्ठी, `बहुवचनस्य
वस्नसौ' (8.1.21) इति वस्नसादेशौ।
  `वत्करणं किम्' इति ? विनापि तेन तदर्थो गम्यते, यथा `असंयोगाल्लिट्
कित्' (1.2.5) इत्यादावित्यभिप्रायः। `स्थानो' इत्यादि। प्रायेण ह्यस्मिन् पादे `वृद्धिरादैच्' (1.1.1) इत्यादीनि सूत्राणि संज्ञासंज्ञिसम्बन्धार्थान्येव दृष्टानि। अतोऽसति वत्करणे स्थान्यादेशस्य संज्ञा विधीयत इति विज्ञायते। तदेवं मा विज्ञायी-
त्येवमर्थं वत्करणम्। किमर्थं पुनः स्थान्यादेशस्य संज्ञा नेष्यत इत्याह-- `स्वाश्रयमपि' इत्यादि। संज्ञा हिसंज्ञिप्रत्ययनार्था न स्वतः कार्यं प्रतिपद्यते, अपि तु तत्प्रत्यायितः संज्ञीति। अत्र यदि स्थान्यादेशस्य संज्ञा स्यात्, आदेशस्यैव हि
संज्ञिनः कार्यं स्यात्,न संज्ञाभूतस्य स्थानिनः। ततश्च `आङो यमहनः' (1.3.28) इति
वधेरादत्मनेपदं स्यात्, न हन्तेः।वत्करणे तु सत्यतिदेशोऽयं भवति, अतिदेशेन चान्य-
सम्बन्धिकार्यमन्यत्र सम्पाद्यते;न तु तत्र स्वाश्रयं निवर्त्त्यते। तथा हि `ब्राह्मणवदस्मिन् क्षत्रिये वर्त्ततव्यम्' इत्यतिदेशे तद्‌ब्राह्मणसम्बन्धिकार्यं क्षत्रिये भाव्यते। न तु ब्राह्मणस्य यत् स्वाश्रयमग्रभोजनादि तद्‌व्यावर्त्त्यते। स्वाश्रयमपीत्यपिशब्दादतिदेशप्रापितमादेशे पराश्रितमपि। `आहत' इति। हन्तेरलुङ, `हनः सिच्'
(1.2.14) इति कित्त्वम्। `अनुदात्तोपदेश' (6.4.37) इत्यादिनाऽनुनासिकलोपः। `ह्स्वादङ्गात्' (8.2.27) इति सिचो लुक्। `आवधिष्ट' इति । `आत्मनेपदेष्वन्यतरस्याम्' (3.1.54) इति वधादेशः, इट्, `अतो लोपः' (6.4.48) षत्वष्टुत्वे।
`आदेशग्रहणं किम्' इति। सथानीति सम्बन्धिशब्दोऽयम्। तत्र यथा `पितृवत्
स्थूलः' इत्युक्तेऽन्तरेणाप्यत्र पुत्रग्रहणं सम्बन्धिशब्दत्वात् पुत्र इति गम्यते,तथा स्थानिवदित्युक्ते विनाप्यादेशग्रहणेन सम्बन्धिशब्दत्वादादेश एव स्थानिवद्
भवतीति विज्ञायत इत्यभिप्रायः। `आनुमानिकस्य' इत्यादि। `अस्तेर्भूः' (2.4.52) इत्यादौ स्थान्यपि शब्देन साक्षात् प्रत्याय्यते, आदेशोऽपि। पचत्वित्यत्र स्थान्यपि,
आनुमानिक आदेशोऽपि। तथा हि- `एरुः' (3.4.86) इत्यत्र न वस्तुत इकार एव स्थानी
, अपि तु तिशब्दः। नाप्युकारमात्र आदेशः, तर्हि ? तुशब्दः। लाघवार्थं तु तदेकदेशयो-रिकारोकारयोरुच्चारणम्। तेनैकदेशद्वारेण समुदायस्य समुदाय एवादेशो विधीयते। तत्र
यथा विषाणेनैकदेशेनोपलब्धेन विषाणी समुदायोऽनुमीयते, तथैकदेशेनेकारेणोकारेण तिशब्दस्तुशब्दश्च। अत्र च शास्त्रे यस्य च क्रियाबिसम्बन्धः साक्षाच्छब्दादेव प्रतीयते,
यस्य च कुतश्चिदर्थप्रकरणादेरनुमीयते,तयोः पूर्वस्य प्राधान्यमितरस्य विपर्यय
इष्यते। तथा हि- `सहयुक्तेऽप्रधाने' (2.3.19) इत्यत्र वृत्तिकारः `पुत्रेण सहागतः' इत्याद्युदाहृत्य वक्ष्यति- `पितुरत्र क्रियादिसम्बन्धः शब्देनोच्यते, पुत्रस्य तु प्रतीयमान इति तस्याप्राधान्यम्' इति। प्रधानेतरयोश्च सन्निधाने प्रधानस्यैव
कार्येण सम्प्रत्ययो युक्तः। तथा चाह- `प्रधाने कार्यसम्प्रत्ययात् सिद्धम्' इति।
अत्र हि यद्यादेश इत नोच्येत, ततो य आदेशशब्देनोपादाय विधीयमानत्वात् प्राधान्यमनुभवति तस्यैव स्थानिवद्भावः स्यात्, नाप्रधानस्यानुमानिकस्य। तस्मात् तस्यापि स्थानि-वद्भावो यथा स्यादित्येवमादेशग्रहणम्। तेन पचत्वित्यादावपि `सुप्तिङन्तं पदम्' (1.414) इति पदसंज्ञा सिद्धा भवति। कुतः पुनरेतववसीयते ? `एरुः' (3.4.86) इत्यनेनैकदेश-द्वारेण तुःशब्दः समुदायो विधीयते, न पुनर्यथाश्रुतमिकारमात्रस्योकारमात्रमेवेति; पचत्वित्यत्र पदसंज्ञाकार्योपलब्धेः, तद्धि न विना पदसंज्ञया, सापि न विना तिङवद्
भावेन, सोऽपि न विना समुदायोदेशेनेति। तस्मिन् हि सति स्थानिवद्भावेन यत्न-
प्रतिपादितेन तिङभावो लभ्यते; नान्यथेति गतमेतत्। अथानुमानिके गृहीते कथमितरस्य
ग्रहणं लभ्यते? एवं मन्यते स्थानिवदित्येतावानेको योगः कर्त्तव्यः, एतेन योगेनादेशः प्रधानभूतः सम्बन्धिशब्दत्वाल्लभ्यते। तत आदेश द्वितीयो योगः, आनुमानिकस्य स्थानि-
वद्भावाय। अत्र च स्थानिवदिति वर्त्तते। एवमुभयोः प्रत्यक्षानुमानशिष्ट्योर्ग्रहणमुपपद्यते।
`अनल्विधौ' इति। द्वयोरपि योगयोः शेषभूतः। `द्युपथित्यदादेशा' इत्यादि। `दिव औत्' `पथिमथ्यृभुक्षामात्' (7.1.85), `त्यदादीनामः' (7.1.102) इत्येते `
हल्ङ्याब्भ्यः' (6.1.68) सुलोपे कर्त्तव्ये न स्थानिवद्भवन्ति; तस्य हल्मात्रमाश्रित्य प्रवृत्तेरलाश्रयत्वात्।।

57. अचः परस्मिन् पूर्वविधौ।। (1.1.57)
किमर्थमिदमुच्यते ? अनल्विधौ स्थानिवद्भावः उक्तः, अल्विध्यर्थमिदम्। पटयतीत्यादौ `अत उपधायाः' (7.2.116) इति वृद्धिरलाश्रया; अकारस्योपधाया अल्त्वात्। तस्मात् पूर्वेण न प्राप्नोतीत्येके एव परनिमित्तक एव पूर्वविधावेव कर्त्तव्ये स्थानिवद् भवतीति नियमार्थमित्यन्ये।
`अच इति स्थानिनिर्देशः' इति। `अचः' इत्यनेन स्थानषष्ठ्यन्ततां दर्शयति। `परस्मिन्निति सप्तमीति' इति। न परसप्तमी, परशब्देनैव परस्योक्तत्वादित्यभिप्रायः। `
पूर्वविधौ' इति, `विषय' इति। प्रकृतत्वात् स्थानवद्भावस्येति गम्यते, पूर्वविधौ विषये स्थानिवद्भवति, नान्यस्मिन्नित्यर्थः। पूर्वस्य विधिः पूर्वविधिः। विधि-
शब्दश्चायं कर्मसाधनः-- विधियत इति विधिः। भावसाधनो वा-- विधानं विधिरिति। कर्म-
साधने ह्येतस्मिन् पूर्वस्येति शेषलक्षणा षष्ठी। पूर्वस्य व्यवस्थितस्य लब्धसत्ताक-
स्य सम्बन्धिनि कार्ये कर्त्तव्य इत्यर्थः। भावसाधने तु `पूर्वस्य ' इति कृद्योग-
लक्षणा कर्मणि षष्ठी। पूर्वस्यापरिनिष्पन्नस्य विधाने कर्त्तव्य इत्यर्थः।
पूर्वस्मिन् विधातव्य इति यावत्।
पूर्वत्वं पुनरिहादेशापेक्षम्, अजपेक्षम्, निमित्तापेक्षं वा; एषामेवादेशा-
दीनामिह सन्निधानात्। तत्रादेशः स्वरितत्वात् सन्निहितः, इतरयोस्त्वत्रैव सूत्र उपादानात्। ननु च त्रिष्वप्येषु दोषः, तत्कथमादेशाद्यपेक्षया पूर्वत्वं शक्यमाश्रयि-
तुम्, आदेशापेक्षे हि पूर्वत्व आश्रीयमाणे `पटयति' इत्यादौ स्थानिवद्भावो न सिध्यति; लोपो हि तत्रादेशः, न च तेन पूर्वपरता सम्भवति; तस्याभावरूपत्वात्।
स्यादेतत्- लोपस्य यः स्थानी तदपेक्षया पौर्वापर्यमस्तीतित तद्‌द्वारेणादे-
शापेक्षयाप्यौपचारिकं तद् भविष्यतीति वार्तमेतत्; बहुखद्‌वकादिषु मुख्ये पौर्वा-
पर्ये सत्यौपचारिककल्पनाया अयुक्तत्वात्। `व्यक्तिः पदार्थः' इत्यस्य दर्शनस्याश्रयणाददोषः। व्यक्तौ हि पदार्थे प्रतिलक्ष्यं लक्षणं प्रवर्त्तते। तत्र यदि पटयतीत्या-दिष्वौपचारिकत्वात् पौर्वापर्यस्य स्थानिवद्भावो न स्यात्, यदेतद्विषयं लक्षणं -
तस्यानवकाशत्वाद् वैयर्थ्यं स्यात्, अयं तर्हि दोषः प्रथमस्तावत्पक्षोऽयुक्तः।
द्वितीये तु काममेष दोषो न भवति। तथा हि - तत्र योऽचः पूर्वस्तस्य विधौ कर्त्तव्ये स्थानिवद्भवतीत्येषः सूत्रार्थः, इह च `न य्वाभ्यां पदान्ताभ्याम' (7.3.3) इति
वचनात् प्रगेवैजागमाद् यणादेशेन भवितव्यम्। तेन नास्त्यैचोरजपेक्षं पूर्वत्वमिति न भवति स्थानिवद्भावः, तदभावादैचोरायावावपि न प्राप्नुतः; किन्त्वत्र `अचः' इत्येतदा-
देशविशेषणार्थं षष्ठ्यन्तं प्रतिज्ञातम्, न तु पञ्चम्यन्तम्। तदा चाचः तदा पञ्चम्य-न्तं सम्पद्यते। अयं तर्हि दोषः-- इह `तन्वन्ति' इत्युप्रत्ययस्य यणादेशकृत इट्
प्राप्नोति, न ह्यत्राचः पूर्वस्य व्यवस्थितस्य किञ्चित्कार्यं विधीयते; यतो यणादेशस्य स्थानिवद्भावादिडागमो न स्यात्। तृतीये तु पक्षे यणादेश एव निमित्तात् पूर्वः। तस्य व्यवस्थितस्येटि विधातव्ये स्थानिवद्भावो लभ्यत इति न भवति तन्वन्तीत्यत्रेट्
प्रसङ्गः; किन्त्वाद्ये पक्षे यो दोषः, स इहापि प्रसज्येत। `वैयाकरणः, सौवश्वम्'
इत्यत्रापि य्वौ निमित्तात् पूर्वौ भवत इति। ननु च निमित्तात् पूर्वस्य कार्ये विधातव्ये स्थानिवद्भाव उच्यते, न चेह निमित्तात् पूर्वयोर्व्योः किञ्चित् कार्यं विधीयते। न ह्यायावादेशौ य्वोः कार्यम्, किं तर्हि ? ऐचः,नैतदस्ति; ऐचो हि यत् कार्यं
तद् य्वोरपि सम्बन्धि भवत्येव, तयोस्तद्भक्तयोस्तदवयवभूतत्वात्।
अत्रोच्यते-- आद्यन्तयोः पक्षयोर्यो दोष उक्तः, स तावन्न भवति; यस्माद् बहिरङ्गावैचौ, तद्धितश्रयत्वादङ्गाश्रयत्वाच्च; अन्तरङ्गावायावौ, तद्धितनिरपेक्षत्वाद् वर्णाश्रयत्वाच्च। `असिद्धं बहिरङ्गमन्तरङ्गे' (व्या.42) इत्यसिद्धत्वादैचोरायावौ नभ भविष्यतः। इतरस्मिन्नपि पक्षे यो दोष उक्तः, सोऽपि न भवत्येव; तत्र कर्मसाधने सर्वमिष्टं न सिध्यतीति भावसाधनोप्याश्रीयते। तेन तन्वन्तीत्यत्रेट एवापरिनिष्पन्न-
स्याचः पूर्वस्य विधाने कर्त्तव्ये स्थानिवद्भावः सिद्धो भवति। कर्मसाधनेऽप्यदोषः; यणादेश एवात्राचः पूर्वः, तस्य विधाने कर्त्तव्ये एव। न हि यणादेशात् पूर्वस्य
व्यवस्थितस्य कस्यचिदिड् विधीयते, किं तर्हि ? यणादेशस्यैव। भावसाधने तु तस्मिन्न
दोषः; यणादेशात् पूर्वस्यापरिनिष्पन्नस्येट एव विधानात्। तस्मात् तत्रापि पक्षे भावसाधन एव विधिशब्दोऽङ्गीकर्त्तव्यः।
`पटयति' इति। `तत्करोति तदाचष्टे' इति णिच्, `णाविष्ठवत् प्रातिपदिकस्य'
(वा.813)इति टिलोपः। ननु चात्र व्यवधानात् पूर्वत्वं न सम्भवति; नैष दोषः; व्यवहितेऽपि हि पूर्वशब्दो वर्त्तते, यथा-`मथुरायाः पूर्वं पाटलिपुत्रम्' इति। ननु च
द्वितीया समर्थाण्णिजुत्पद्यते, तत्रान्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदसंज्ञायां सत्यां जश्त्वे सति पडयतीति भवितव्यम्। टिलोपस्य स्थानिवद्भावाज्‌जश्त्वं न भवतीति चेत्, न; जश्त्वविधौ स्थानिवद्भावप्रतिषेधात्, नैष दोषः; `तदाचष्टे' इत्यत्र हि
तदिति न द्वितीयासमर्थादिति, कुतस्तर्हि ? कर्मणि इति। कुत एतत् ? अर्थनिर्देश-
परत्वात्। एतदुक्तं भवति- कर्मसंज्ञकात् तदाचष्ट इत्यस्मिन्नर्थे णिज् भवतीति।
तस्मादसुबन्धाण्णिजुत्पत्तेः पदसंज्ञाया अभावाज्‌जश्त्वं न प्रवर्त्तते। `अवधीत्'
इति। हन्तेर्लुङ, `हनो वध लुङि' (2.4.42) इति वधशब्दोऽदन्त आदेशः, `अतो लोपः' (6.4.48), `आर्धधातुकस्येट्' (7.2.35), `अस्तिसिचोऽपृक्त' (7.3.96) इतीट्,`इट ईटि'
(8.2.28) इति सिचो लोपः। `हलन्तलक्षण' इति। `वदव्रज' (7.2.3) इत्यादेः
सूत्राद्धल्ग्रहणानुवृत्तेः `अतो हलादेर्लघोः' (7.2.7) इति वृद्धिर्हलन्तलक्षणा। `बहुखट्‌वकः' इति। ननु च `स्वरविधिं प्रति न स्थानिवद्भवति' इति प्रतिषेधं वक्ष्यति,
अतः स्थानिवद्भावस्य प्राप्तिरेव नास्तीत्ययुक्तमेतदुदाहरणम्, नैतत्; विशेषे हि स
प्रतिषेधः--स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद् भवतीति। न चायं लोपाजादेशः स्वरो न भवतीति खकाराकारस्योदात्तत्वं न भवति। `कपि पूर्वम्' (6.2.173) इत्युत्तर-
पदान्तोदात्तत्वमेव भवति।
`प्रश्नः' इति। `यजयाचयतवितच्छप्रच्छ' (3.3.90) इत्यादिना नङ। `तुकि न
स्थानिवद्भवति' इति। तुकि कर्त्तव्ये न स्थानिवद्भवतीत्यर्थः। यदि हि स्याच् छकारमात्रस्य शादेशे कृते स्थानिवद्भावाद्विहितस्य तुकः श्रवणं स्यादित्येके, एतच्चायुक्तम्; अत्र ह्यन्तरङ्गत्वात् `छे च' (6.1.73) इति तुकैव प्राग् भवितव्यम्।न चात्रेद-
मस्ति `वार्णादाङ्गं बलीयः' (व्या.परि.39) इति, नानाश्रयत्वात। यत्र ह्येकं निमित्तमाश्रित्ययुगपद् वार्णमाङ्गं च प्राप्नोति, तत्रेदमुपतिष्ठते, यता-- `इयाय' इति।
अत्राकारमाश्रित्याभ्यासेकारस्य `इको यणचि' (6.1.77) इति यण् प्राप्नोति, `अभ्यास-
स्यासवर्ण्ये' (6.4.78) इतीयङ च। तत्र `वार्णादाङ्गं बलीयः' (व्या.परि.39) इत्यस्योपस्थानादियङेव भवति। प्रश्न इत्यत्र तु शादेशमनुनासिकमाश्रयति, तुक् पुनश्छकारम्;
अतो नानाश्रयत्वान्नोपतिष्ठते। तस्मात् तुकात्र भवितव्यमेव। अवश्यं चैतदेवं विज्ञेयम्; अन्यथा `च्छ्वोः शूडनुनासिके च' (6.4.19) इत्यत्र यद्वक्ष्यति वृत्तिकारः--
`अन्तरङ्गत्वात् `छे च' (6.1.73) इति तुकि कृते सतुक्कस्यायमादेशः' इति, तद्विरुध्यते।
अन्ये तु व्याचक्षते--`च्छवोः शूडनुनासिके च' (6.4.19) इति सूत्रे `सतुक्क-
स्य च्छकारस्य निर्देशः' इत्येव केनचिदाचार्येण शिष्याः प्रतिपादिताः, केनचित्तु
`तुग्विरहितस्य शुद्धस्य' इत्येवम्, उभयं चैतत् प्रमाणम्। द्वैतत्वे तत्राङ्गेन वा च्छ्वौ विशेष्येते, छकारवकाराभ्यां वाङ्गमिति। तत्राद्ये पक्षेऽङ्गस्य यश्छस्तस्य शादेश इति। वाक्यार्थः; सतुक्कस्य च स्थानित्वेनोपादानात्। अन्तरङ्गे तुकि कृते
?`नानार्थके अलोऽन्त्यविधिः' (व्या.प.62) इति तदन्तविध्यभावात् समुदायस्यैवादेशो भवति। यदा शकारविधौ सतुक्कस्य च्छकारस्य निर्देशः, प्रश्न इत्येतत् तदानीमज्ग्रहण-
स्याप्रत्युदाहरणमेव; तुकः पुनः प्रसङ्गाभावात्। यदा तु च्छकारवकाराभ्यामङ्गं
विशेष्यते, तदा छकारान्तस्याङ्गस्य स्थानित्वम्। अस्मिन् पक्षे शविधौ शुद्ध एव छकार उपात्तो वेदितव्यः। अन्तरङ्गत्वात् तु पूर्वं तुकि कृते पश्चादलोऽन्त्यपरिभाषाया उपस्थानात् उपस्थानात् छकारमात्रस्य शकारः। तस्मिन् कृते निमित्ताभावात् तुको
निवृत्तिः; यथा-- स्थातेत्यत्र षत्वनिवृत्तौ ष्टुत्वस्य। अत्र पक्षे प्रश्न
इत्येतत् प्रत्युदाहरणमज्ग्रहणस्य। यद्यत्र स्थानिवद्भावः स्यात्, तुकः प्रत्यावृत्तिर्भवेत्; निमित्तसद्भावात्, यथा-- `प्रत्यष्ठात्' इत्यत्र ष्टुत्वस्य। `तुकि न
स्थानिवद्भवति' इत्यस्यायमर्थः- योऽसौ निमित्ताभावान्निवृत्तस्तुगासीत्, तमेव
पश्चात् प्रत्यावर्त्तमानं प्रति न स्थानिवद्भवतीति पुनः प्रत्यावृत्तिरेव।
`पूर्वविधिः' इति। ननु च यद्यत्र तुकः प्रत्यावृत्तिः स्यान् नङो ङित्करणम-र्थकं स्यात्। तद्धि प्रच्छः प्रसारणार्थ वा विच्छेर्गुणप्रतिषेधार्थ वा क्रियते।
तत्र प्रच्छेर्नङि सम्प्रसारणेन न भवितव्यम्; `प्रश्ने चासन्नकाले' (3.2.117) इति
निपातनात्। यदि च स्थानिवद्भावे सति तुकः प्रत्यावृत्तिः स्यात्र् ततो गुणप्रतिषेधार्तमपि स्यात्, अलघूपधत्वादेव गुणो न भविष्यति, ततश्चानर्थकमेवैतत् स्यात्? नानर्थकम्; `अनित्यमागमशास्त्रम्' (व्या.प.99) इति ज्ञापनार्थत्वात्। अनित्यत्वज्ञपाने
त्वागमशासनस्य `स्नक्रमोरनात्मनेपदनिमित्ते' (7.2.36) इत्यत्र यद्वक्ष्यति--
`क्रमेस्तु कर्तर्यात्मनेपदविषयादसत्यात्मनेपदे कृति प्रतिषेधो वक्तव्यः' इति, तन्न वक्तव्यं इति। `उछि उञ्छे' (धा.पा.215), `विछ गतौ' (धा.पा.1424), `सनाद्यन्ता
धातवः' (3.1.32) इत्येवमादयो निर्देशाश्चोपन्ना भवन्ति।
`आक्राष्टाम्' इति। `कृष विलेखने' (धा.पा. 990) आङ्पूर्वाल्लुङ; च्लिः, `
स्पृशमृशकृषतृपदृपां सिज् वा' (वा.207) इत्युपसंख्यानात् क्सस्यापवादः पक्षे सिच्, ततस्ताम् `अनुदात्तस्य चदुपधस्यान्यतरस्याम्' (6.1.59) इत्यमागमः, यणादेशः,
`वदव्रजः' (7.2.3) इत्यादिना वृद्धिः।
`वैयाघ्रपद्यः' इति। व्याघ्रस्यैव पादावस्येति बहुव्रीहिः। `पादस्य लोपोऽहस्त्यादिभ्यः' (5.4.138) इत्यन्तलोपः। व्याघ्रपादिति स्थिते गर्गादित्वाद् यञ्, `
पादः पत्' (6.4.130) इति पद्भावः। `आदीध्ये' इति। अदादित्वाच्छपो लुक्। अथात्र
टेरेत्त्वात् प्रागेव कस्माल्लोपो न भवति ? स्यात्, यदि `परस्मिन्' इत्युच्यमाने तु स्थानिवद्भावाभावात् कृते टेरेत्त्वे न प्राप्नोतीत्यनित्यो लोपः। टेरेत्त्वं तु
कृताकृतप्रसङ्गित्वान्नित्यम्। तस्मात् तदेव पूर्वं भवति।
`हे गौः'इति। `गोतो णित्' (7.1.90) इति णित्त्वात् सर्वनामस्थानस्य
`अचो ञ्णिति' (7.2.115) वृद्धिः। `सम्बुद्धिलोपे कर्त्तव्ये' इति। `एङ ह्रस्वात्
सम्बुद्धेः' (6.1.69) इत्यनेन। `बाभ्रव्यस्य' इति। बभ्व्रोरपत्यमिति `मधुबभ्व्रो-
र्बाह्मणकौशिकयोः' (4.1.106) इति यञ्, `ओर्गुणः' (6.4.146) `वान्तो यि प्रत्यये'
(6.1.79) इति वान्तादेशः, आदिवृद्धिः, बाभ्रव्य इति स्थिते `वृद्धाच्छः' (4.2.114) `यस्येति च' (6.4.148) इत्यकारलोपः। `अवादेशो न स्थानिवद्भवति' इति। ननु चासत्यपि
स्थानिवद्भावे `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' (व्या.परि.12) इति न भवितव्यमेवात्र यलोपेन, तथा हि-- यकारादववादेशेनात्मलाभः प्रतिलब्धः इति नोत्सहते स तं बाधितुम्; नैतदस्ति; सङ्घातो ह्यत्र सन्निपातलक्षणः, नावयवो हल्; सत्यपि वा तस्य
सन्निपातलक्षणत्वे न भवत्येव दोष-; अनित्यत्वात् सन्निपातलक्षणपरिभाषायाः। अनित्य-
त्वं तु `न लोपः सुप्स्वर' (8.2.2) इत्यादौ सूत्रे ज्ञापयिष्यतते। `नैधेयः' इति। निपूर्वो डुधाञ् (धा.पा.1092), `उपसर्गे घोः किः' (3.3.92), आतो लोपः,निधि इति स्थिते द्वयचः `इतश्चानिञः' (4.1.122) इति ढक्। ननु पूर्वस्माद् विधिः पूर्वविधिरिति पञ्चमीसमासस्याप्यभीष्टत्वात् पूर्वस्मादपि विधौ कर्त्तव्ये स्थानिवद्भावेन भाव्यम्,
तथा हि `ठस्येकः' (7.3.50) इत्यत्र वक्ष्यति- `मथितं पण्यमस्य माथितिक इत्यत्र
यस्येति लोपे कृते `इसुसुक्तान्तात्कः' (7.3.51) इति स्थानिवद्भावादिकस्य कादेशः
प्राप्तः; सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न भवति,अकारलोपस्य स्थानि-
वद्भावत्वात्; पूर्वस्मादपि विधौ स्थानिवद्भवति" इति। तदेवं यस्मात् पूर्वस्मादपि
विधौ स्थानिवद्भावोऽनेन भवति, तस्मात् ` हे गौः' इत्यादिष्वपि स्थानिवद्भावेन भवितव्यमेवेत्ययुक्तान्येतानि प्रत्युदारणानि, नैष दोषः; इत्यादिष्वपि स्थानिवद्भावेन भवितव्यमेवेत्ययुक्तान्येतानि प्रत्युदाहरणानि, नैष दोषः; पूर्वस्माद् विधौ
कर्त्तव्येयः स्थानिवद्भावाः,तस्यानिवत्वात्। अत एव चानित्यत्वादप्रधानभूतोऽसाविति वृत्तावस्य सूत्रस्य पूर्वस्मादिति न प्रतिपादितस्तदेवा प्राधान्यस्य दर्शयितुम्। कुतः पुनस्तस्यानित्यत्वमवसितम्? `निष्ठायां सेटि' (6.4.52) इत्यत्र सेड्ग्रहणात् ।तदेवमर्थं क्रियते- इटि कृते णिलोपो यथा स्यादिति। यदि ह्यकृत एव तस्मिन् णिलोपः
स्यात्, कारितमित्यत्रेडागमो न स्यात्; `एकाच' इति प्रतिषेधात्। तथा च तत्र
वक्ष्यति-- " सेडिति किम? `संज्ञापितः पशुः' `सनीवन्तर्ध' (7.2.49) इति ज्ञपेरिड्
विकल्प्यते। `यस्य विभाषा' (2.7.15) इति निष्ठायामिट्प्रतिषेधः। अथ पुनरेकाच इति
तत्रानुवर्त्तते, तत्र निष्ठायाम् `अत्र भवितव्यमिडागमेन' इति। सेड्ग्रहणमनर्थकं
स्यात्; तत् क्रियते कालावधारणार्थम्। इडागमे कृते णिलोपो यथा स्यात्" इति। अकृते
तस्मिंष्टिलोपे सति कारितमित्यत्र `एकाच उपेदेशेऽनुदात्तात्' (7.2.10) इति प्रतिषेधः इटः प्रसज्येत। यदि च रपूर्वस्माद् विधौ कर्त्तव्ये नित्यं स्थानिवद्भावः स्यात्, णिलोपस्य स्थानिवद्भावे सत्यनेकाचत्वादिट्प्रतिषेधस्य प्रसङ्ग एव नास्तीति
सेड्ग्रहणम् न कुर्यात्, कृतं च; ततोऽवसीयते-- `पूर्वस्माद् विधानित्यः स्थानि-
वद्भावः' इति। तेन गौरित्यादिषु पूर्वस्माद् विधौ कर्त्तव्ये स्थानिवद्भावो न भवति।
अथ विधिग्रहणं किमर्थम्, यावता पूर्वस्येत्येवं सिद्धम? तथा हि, कार्यापे-
क्षया षष्ठी भविष्यति-पूर्वस्य विधौ कर्त्तव्य इति, नैतदस्ति; असति हि विधिग्रहणे यदि पूर्वस्येत्युच्येत, पूर्वस्येत्युच्येत, पूर्वस्माद् विधौ स्थानिवद्भावो न
स्यात्। अथ पूर्वस्मादित्युच्येत, पूर्वस्य विधौ न स्यात्। विधिग्रहणे सति षष्ठीसमासः पञ्चमीसमासश्च लभ्यत इति सर्वत्र सिध्यति। तस्मात् समासद्वयार्थं विधिग्रहणं
कर्त्तव्यम्।।

58. न पदानतद्विर्वचनरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु। (1.1.58)
अत्रापि विधिशब्दो भावसाधनः कर्मसाधनश्च। स च प्रत्येकमभिसम्बध्यते। तत्र
यथायोगं क्वचित् भावसाधन आश्रीयते, क्वचित् कर्मसाधनः। तत्र द्विर्वचनविधौ भावसाधनः, तत्र हि तदेव विधातव्यम्, न हि तस्यावस्थितस्य किञ्चित् कार्यम्। अन्यत्र तु कर्मसाधनः। तत्र हि व्यवस्थितस्य पदान्तादेः कार्यान्तरविधानात्।
`कौ स्तः, यौ स्तः' इति। अस्तेर्लट्, तस्, अदादित्वाच्छपो लुक्, पूर्वविधा-वावादेशे यणादेशे च कर्त्तव्ये स्थानिवत् स्यादिति। कथं पुनः स्थानिवत् स्यात्,
यावता पदसंस्कारायैव प्रयुक्तत्वाद् व्याकरणस्य ? `स्तः' इत्यादिकं पदं पदान्तरनिर-
पेक्षमेव संस्क्रियते, अनादिष्टादचो यः पूर्वः, तस्य विधिं प्रति स्थानिवद्भावेन
भवितव्यम्। न चायं प्रकारः पदानतरनिरपेक्षे पदसंस्कारे सम्भवति; `स्तः' इत्यादिके
पदे संस्क्रियमाणे कावित्यादेः पदान्तररस्यासन्निधानात्। किं पुनरिदं राजशासनम्--
पदसंस्कारायैव शब्दानुशासनं कर्त्तव्यमिति ? अथ शास्त्रकारस्यैवायमभिप्रायः ? इति
चेत्, न; शास्त्रकारेण दि `युष्मद्यपपदे समानाधिकरणे स्थानिन्यपि मध्यमः' (1.4.105)इति युष्मदाद्युपपदे मध्यमादिपुरुषविधानाद् वाक्यसंस्कारप्रयुक्तमपि शास्त्रमेतदिति सूचितम्। अत्र `कौ' इत्यादिकं पदं प्रागेव व्यवस्थाप्य `स्तः' इत्यादेः पदस्य
संस्कारे क्रियमाणेऽनादिष्टावचः पूर्वं औकारादिर्भवतीति स्थानिवद्भावः स्यात्। अतः प्रतिषेध उच्यते।
ननु च `दध्यत्र' इत्येवमादौ' प्रतिषिद्धेऽपि स्थानिवद्भावे बहिरङ्गस्य यणादेशस्यासिद्धत्वादन्तरङ्गं द्वर्वचनं न प्राप्नोति। तत् किमित्येवमाह-- `अस्माद्वच-
नात् भवति' इति। न च शक्यं वक्तुम्--" स्थानिवद्भावप्रतिषेधात् `असिद्धं बहिरङ्गम्'(व्या.प.42) इत्येषा न प्रवर्त्तते" इति। यत्रोभयमेकपदाश्रयम्-- `पट्व्यौ पट्व्यः
शुच्यौ शुच्यः' इत्येवमादौ,तत्र स्थानिवद्भावप्रतिषेधस्यार्थवत्त्वान्‌नैष दोषः।
द्विर्वचनमेव बहिरङ्गम्; बह्वपेक्षत्वात्। तथा ह्यच उत्तरस्य योरऽनचीति च त्रितयं तदपेक्षते। यणादेशस्त्विकोऽचीति द्वयमेव।
`वरे' इति। ननु चात्र समासे सति सप्तम्या लुका भवितव्यम्। तत् कथं वरे
इति निर्देशः? अत एव निपातनादलुगित्यदोषः। अन्ये त्वीकारप्रश्लेषोऽत्रेति
वर्णयन्ति। एवं च सम्बन्धं कुर्वन्ति--`वरे योऽजादेशस्तस्य विधिं प्रति न
स्थानिवत्, ईविधिं च प्रति न स्थानवत्' इति। तेनामलक्याः फलं विकार इति नित्यं
वृद्धशरादिभ्यः' (4.3.144) इति मयट्, तस्य `फले लुक्' (4.3.163) इति लुक्, अतः
`लुक् तद्धितलुकि' (1.2.49) गौरादिलक्षणस्य ङीषो लुकि कृते तस्य स्थानिवद्भावात् `
यस्येति च' (6.4.148) इति लोपः प्राप्नोति। ईकारे परतो यो विधिस्तं प्रति स्थानिवद्भावप्रतिषेधान्न भवति। ननु चाजादेशः परनिमित्तकः लोपः पूर्वविधौ स्थानिवद्भवतीत्यु-
च्यते, न च लुका पौर्वापर्यमस्तीत्यत एव स्थानिवद्भावो न भविष्यति? तदप्रयोजनमीकार-
प्रश्लेषस्य। लोपेनापि तर्हि पौर्वापर्यं नास्तीति पटयतीत्यादावपि स्थानिवद्भावो न
स्यात्। अथ तत्र स्थानिद्वारकं पौर्वापर्यं सम्भवति, इहापि तथा स्यात्। ये त्वीकार-प्रश्लेषं नेच्छन्ति, त आयलक्याः फलं विकार आमलकमित्येतदर्थं नेति योगविभागं
कुर्वन्ति।
`यायावरः' इति। अत्यर्थं यातीति `धातोरेकाचः' (3.1.22) इत्यादिना यङ,
द्विर्वचनम्, अभ्यासस्य ह्रस्वः, `दीर्घोऽकितः' (7.4.83) इति दीर्घः, ततो वरच्च, अतो लोपे कृते `लोपो व्योर्वलि' (6.1.66) इति यकारलोपः। `अतो लोपः परनिमित्तकः' इति।आर्धधातुके परतो विधानात्। यद्यतो लोपः परनिमित्तकः, ततः `अचो यत्' (3.1.97)
इत्यत्र `अज्‌ग्रहणं किम्, यावता हलन्ताण्ण्यतं वक्ष्यति' इति चोद्यं समुत्थाप्य `
अजन्तभूतपूर्वावपि यथा स्यात्--- दित्स्यं धित्स्यम्' इति यद् वक्ष्यति तद् विरुध्यते; न हि परनिमित्तकेऽतो लोपेऽजन्तभूतपूर्वाद् यतो विधिः सम्भवति, प्राक्कृदुत्प-
त्तेरतो लोपस्याभावात्, अभावस्तु परस्य निमित्तस्याभावात्? पक्षे भेदादविरोधः। तत्र ह्यार्धधातुक इति वर्त्तते। `आर्धधातुके' इति विषयप्तमी चैषा, परसप्तमी चेति पक्ष-द्वयम्; आर्धधातुकसमान्यविवक्षायां सामान्येन पौर्वापर्यं न सम्भवतीति विषयसप्तमी भवति आर्धधातुकव्यक्तिविवक्षायां तु व्यक्तेः पौर्वापर्यं सम्भवतीति परसप्तमी। यदा
तु व्यक्तिद्वारकं सामान्यस्य पौर्वापर्यं विवक्ष्यते; तदापि परसप्तम्येव।
तत्राद्ये पक्ष आर्धधातुके विषयभूते प्रागेव यदुत्पत्तेरतो लोपो भवति, इतरत्र तु
तस्मिन्नुत्पन्ने। तत्र `अचो यत्' (3.1.97) इत्यत्र यदज्ग्रहणस्य प्रयोजनं वक्ष्यति, तत् पूर्वं पक्षमाश्रित्य। यत् पुनरिहातो लोपः परनिमित्तक इत्युक्तम्, तदितरं
पक्षम्। तस्माद् विषयभेदादविरोधः। परसप्तमीपक्षे तु तत्राज्ग्रहणं विस्पष्टार्थमेव वेदितव्यम्।
कथं पुनर्ज्ञायते परसप्तमीपक्षोऽपि तत्राभिमत इति ? `अनुदात्तेतश्च हलादेः' (3.2.149) इत्यादिग्रहणात्। तद्ध्येवमर्थं क्रियते-- हलन्तादित्येवं मा
विज्ञायीति। एवं हि विज्ञायमाने जुगुप्सनः, मीमांसनः इत्यत्र युज् न स्यात्; अजन्त-
त्वात्। यदि च `आर्धधातुके' इति विषयसप्तम्येवैषाभिमता स्यात्, न परसप्तमीतदाऽऽदिग्रहणमनर्थकं स्यात्; आर्धधातुके विषयेऽकारलोपे कृते जुगुप्सतिमीमांसत्योरपि हलन्तत्वात्। तस्मादादिग्रहणाद् विज्ञायते-- परसप्तमीपक्षोऽपि तत्राभीष्ट इति। विषयसप्तमीपक्षे तु तत्रादिग्रहणं विस्पष्टार्थमेव द्रष्टव्यम्।
`कण्डूतिः' इति । `कण्ड्वादिभ्यो यक्' (3.1.27) `स्त्रियां क्तिन्' (3.3.94) । `चिकीर्षकः, जिहीर्षकः' इति। चिकीर्षजिहीर्षशब्दाभ्यां ण्वुल्। `शिशेः, पिषेश्च' इति। `शिष्लु विशेषणे' (धा.पा.1452)`पिष्लृ संचूर्णने' (धा.पा.1453)। हित्वधित्व-ष्टुत्वजश्त्वेष्विति। `सेर्ह्यपिच्च' (3.4.87) इति हेरादेशे कृते `हुझल्भ्यो
हेर्धिः' (6.4.101) ति धिरादेशः। `ष्टुना ष्टुः' (8.4.41) इति ष्टुत्वम्, `झलां जश् झशि' (8.4.53) इति जश्त्वम्। ननु चात्र स्थानिवद्भावस्य प्राप्तिरेव नास्ति; यो ह्यनादिष्टादचः पूर्वस्तस्य विधौ स्थानिवद्भवतीत्युच्यते, न चामानादिष्टादचः पूर्वः, तत् किं प्रतिषेधेन ? नैष दोषः; स्थानिनो नाकरस्याऽनादिष्टाजपेक्षं पूर्वत्वम-
स्तीति तदादेशोऽप्यनुस्वारः स्थानिवद्भावादनादिष्टादचः पूर्व इति लभ्यते।
`शिषन्ति' इत्यादि। किमर्थं पुनरुदाहरणान्तरोपन्यासः, यावता शिण्ढीत्याद्य-न्तरोक्तमेवेदं युक्तमुदाहरण् ? एवं मन्यते-- यदि तदेवोदाह्रियते तदा यत्र परसवर्ण-
स्तत्रानुस्वारेण भवितव्यम्,तत्रैव हि स विधीयते; ततश्च नान्तरीयकत्वात् परसवर्ण-
विधौ स्थानिवद्भावप्रतिषेधेऽनुस्वारविधावपि स्थानिवद्भावप्रतिषेधः कृत एव, ततोऽ-
नुस्वारग्रहणं पृथङ न कर्त्तव्यमिति कस्यचिद् भ्रान्तिः स्यात्। तस्माद् यत्र
परसवर्णो न सम्भवति, तदेवोदाहरणं युक्तमिति।
`प्रतिदिव्ना' इति। दिवेः `कनिन्युवृषि' (द.उ.6.51) इत्यादिना कनिन् प्रत्यये रूपम्। `हलि च' इति। `उपधायाञ्च' (8.2.78) इत्येतदिदानीन्तनकुलेखकैः प्रमादाल्लिखितम्। तथा हि `उपधायाञ्च' (8.2.78)इत्यत्र वक्ष्यति " प्रतिदीव्न इत्यत्र तु `हलि च' (8.2.77) इति दीर्घत्वम्" इति। ननु च स्थानिवद्भावे प्रतिषिद्धेऽपि `न भकुर्छु-राम्' (8.2.79) इति दीर्घत्वप्रतिषेधेनात्र भवितव्यम्, तत् किमित्येवमाह--`अस्माद् वचनाद् भवति' इति। न च स्थानिवद्भावप्रतिषेधसामर्थ्यादत्र प्रतिषेधो न भवतीति शक्यं परिकल्पयितुम्; स्थानिवद्भावप्रतिषेधस्य पिपठीरित्यत्रार्थत्वात्। अत्र हि
पिपठिषतेः क्विपि कृतेऽतो लोपे रुत्वे च, रुत्वं पुनरस्य पूर्वत्रासिद्धमिति षत्व-
स्यासिद्धत्वात्, यदि स्थानिवद्भावो न प्रतिषिध्येत, ततोऽकारलोपस्य स्थानिवद्-
भावात् `र्वोरुपधाया दीर्घ इकः' (8.2.76) इत्यधिकाराद् रेफवकारान्तस्य भस्य
दीर्घत्वं प्रतिषिध्यते। न चैतद् रेफवकारान्तं भसंज्ञकम्, अपि तु नाकरान्तमिति।
`सग्धिः' इति। समाना ग्धिरिति विशेषणसमासः। `समानस्य च्छन्दस्यमूर्ध' (6.3.84) इति सभावः। `बब्धाम्' इति। `भस भर्त्सनदीप्त्योः' (धा.पा.1100), `अभ्यासे चर्च' (8.4.54) इत्यभ्यासभकारस्य जश्त्वं बकारः।
`चक्षतुः, जक्षुः' इति। `लिट्यन्यतरस्याम्' (2.4.40) इति घस्लादेशः, `
कुहोश्च'(7.4.62) इत्यभ्यासघकारस्य चुत्वं झकारः; तस्य पूर्ववज्जश्त्वं जकारः। बहुवचने घस्लादेश इति। `लुङ सनोर्घस्लु' (2.4.37) इत्यनेन। `बहुखट्वकः' इति। अत्र
स्थानिवद्भावाद् `ह्रस्वान्तेऽन्त्यात्पूर्वम्' (6.2.174) इति, खकारस्योदात्तत्वं न भवति। `कपि पूर्वम्' (6.2.173) इति ट्वशब्दस्याकारास्यैव भवति।
`किर्योः, गिर्योः' इति। `र्वोरुपधाया दीर्घ इकः' (8.2.76) `हलि च' (8.2.77) इति दीर्घत्वं न भवति। एतच्च व्युत्पत्तिपक्षमाश्रित्योक्तम्, `कृग्रोरिच्च' इति किरिगिरिशब्दौ व्युत्पाद्येते। अव्युत्पत्तिपक्षे त्वसत्यपि स्थानिवद्भावे धातुत्वाभावान्न भवत्येव दीर्घत्वम्। तथा ह्यव्युत्पत्तिपक्षमाश्रित्य `उपधायाञ्च' (8.2.78)इत्यत्र वक्ष्यति--`उणादयऽव्युत्पन्नानि प्रातिपदिकानि' (हे.प.103) इति किर्यो-
गिर्योरित्येवमादिषु दीर्घो न भवति' इति। `वाय्वोः' इति। `लोपो व्योर्वलि'(6.1.66) इति यलोपो न भवति।

59.द्वर्वचनेऽचि। (1.1.59)
पूर्वं कार्यातिदेशः कृतः, इदानीं तु रूपातिदेशार्थमिदमारभ्यते। अथ वा
निमित्तात् पूर्वमित्येतस्मिन् पक्षेऽनन्तरसूत्रेण द्विर्वचनविधिं प्रति प्रतिषेधः प्राप्तः इत्यस्यारम्भो वेदितव्यः। `द्विर्वचनेऽचि' (1.1.59) इति समानाधिकरणे सप्तम्यौ। तत्राज् विशेष्यः, द्विर्वचनं विशेषणम्। विशेषणविशेष्यभावस्य च प्रयोजनं `दुद्यूषति' इति प्रत्युदाहरण दर्शयिष्यते। कथं पुनरज् द्विर्वचनशब्देनोच्यते ?
द्वर्वचननिमित्तत्वात्। अत एव वृत्तावाह-- `द्विर्वचननिमित्तेऽचि' इति। भवति हि
तन्निमित्तत्वात् ताच्छब्द्यम, यथा -- `आर्युर्घुतम्' इति। परसप्तमी चेयमपीति
`यस्मिनन् विधिस्तदादावल्ग्रहणम्' (व्या.प.127) इति अजादाविति द्रष्टव्यम्। परस्मिन्निति च प्रकृत्वात् परस्मिन्नजादाविति गम्यते।
अथ वा - द्वर्वचनस्य प्रत्ययविशेषनिमित्त्वाद् द्विर्वचनग्रहणेन प्रत्ययः सन्निधापितः, तेनाजादौ प्रत्यय इति प्रतीयते। यदि तर्ह्यजादावजादेशः स्थानिवद्भवति, `पपौ' इति न सिध्यति, न ह्यजादावादेशः, किं तर्हि? अच्येव; इहापि व्यपदेशिवद्भावेना-जादित्वमस्तीत्यदोषः। इह तर्हि न सिध्यति-- `चक्रतुः' इति; अच्येव तु यणादेशो विधीयते, न त्वजादौ ? नैष दोषः; यो ह्यत्राचि यणादेशो विधीयते सोऽजादावपि भवत्येव। यदि द्विर्वचननिमित्तेऽच्यजादेशः स्थानिवद्भवति सर्वस्यामवस्थायां द्विर्वचनादुत्तरकालमपि स्यादित्यत आह--`द्विर्वचन एव कर्त्तव्ये' इति। एवकारेण द्विर्वचन क्रिया-
कालात् कालान्तरे स्थानिवद्भावस्याभावं दर्शयति। कथं पुनरेतल्लभ्यते, यावतैकं
द्विर्वचनग्रहणम्, तेन चाज् विशेषितः ? एवं मन्यते-- द्वितीयमपि द्विर्वचनग्रहणमन-
न्तरसूत्रादिहानुवर्त्तते।
अथ वा- द्विर्वचनञ्चेत्येकशेषं कृत्वा `द्विर्वचने' इति निर्देशः कृतः।
तत्रैकेन द्विर्वचनग्रहणेन `द्वर्वचननिमित्तेऽचि' इत्थेषोऽर्थो लभ्यते। द्वितीयेन तु `द्विर्वचन एव कर्त्तव्ये' इति। इह द्विर्वचने कर्त्तव्ये स्थानिवद्भावो
विधीयते इत द्विर्वचनकार्यार्थं एवैष प्रतीयते। साच्कस्य द्विर्वचनं विधीयमानमनच्क-
स्य न प्राप्नोति युज्यते द्विर्वचनकार्यार्थत्वमस्य। `द्वर्वचनकार्यार्थत्वमस्य। `द्विर्वचनकार्यार्थे त्वस्मिन् --`चक्रतुः,चक्रुः' इत्यत्रास्यानच्कस्य द्विर्वचने कृते सतीष्टमभ्यासरूपं न सिध्यति' इतिव्यामोहाद् यो मन्यते, तं प्रत्याह--
`रूपातिदेशश्चायम्' इति। `च' शब्दोऽवधारणे, रूपातिदेश एव, न कार्यातिदेश इत्यर्थः। कुतः पुनरेष निश्चयः-स `रूपातिधेशश्चायम्' इति ? अज्ग्रहणात्। तस्य ह्येतत् प्रयोजनम्-- `जेघ्रीयते देध्मीयते' इत्यत्र मा भूदिति। यदि चायं द्विर्वचनकार्यातिदेशः स्यान्न रूपातिदेशः; अज्ग्रहणमनर्थकं स्यात्। भवत्वत्र स्थानिवद्भावः, तथापि न कश्चि-द्विशेषः। तथा हि-- यद्यप्यत्र स्थानिवद्भावः, एवमपि द्विर्वचनकार्येण भवितव्यम्; अथापि न स्थानिवद्भावः, एवमपि भवितव्यम्--उभयत्रापि साच्कत्वात्, ततश्च कथमेतत्
प्रत्युदाहरणम् ? तदेतदज्ग्रहणं कथमर्थवद् भवति? यद्येष रुपादेशः ररूपेऽस्यातिदि-
श्यमाने यद्यज्ग्रहणं न क्रियते तदिहापि रूपातिदेशे सति ध्रा इति, ध्मा इति च द्वि-र्वचनं स्यात्, तथाऽनिष्टमभ्यासरूपं प्रसज्येत। तस्मादज्ग्रहणाद् रूपातिदेशोऽय-
मिति निश्चीयते। यद्येवम्, भेदनिबन्धनो वतिर्नं प्राप्नोति; स्थान्येव हि पुनरात्मीयं रूपं प्रापित इति कुतो भेदः ? आतिदेशिकानामतिदेशिकत्वेन रूपभेदस्य विवक्षितत्वाददोषः।
`द्विर्वचन एव कर्त्तव्ये' इति यदुक्तं तस्यार्थं विस्पष्टीकर्तुमाह--`नियतकालः' इति। कृते द्विर्वचने इत्यादिना तदेव नियकालत्वं दर्शयति।
`जघ्नतुः' इति। `अभ्यासाच्च' (7.3.55) इति हकारस्य कुत्वम्।
`आटिटत्' इति। अटतेर्हेतुमति णिच्; लुङ्, चङ, `चङि' (6.1.11) इति `अजादे-
र्द्वितीयस्य' (6.1.2) इति द्विर्वचनम्। `आडजादीनाम्'(6.4.72) इत्याड् भवति।
`निनय' इत्यादि। `णलुत्तमो वा' (7.1.91) इति यदा णित्त्वं नास्ति तदा गुणः, यदा णित्वं तदा वृद्धिः।
`जग्ले,मग्ले' इति। `ग्लै हर्षक्षये' (धा.पा. 904), `म्लै गात्रविनामे' (धा.पा.904) `आदेश उपदेशेऽशिति' (6.1.45) इत्यात्त्वम्। भावे आत्मनेपदम्, `लिटस्तझयो-रेशिरेच्' (3.4.81)इत्येश्। `श्रवणमाकारस्य न भवति' इति। यदा कालावधिपरिग्रहार्थं
द्विर्वचनग्रहणं न क्रियते, तदोत्तरकालमपि स्थानिरूपं प्रसज्येत, ततश्चाकारस्य श्रवणमेव स्यात्। आतो लोपस्य तु गोद इत्येवमाद्यवकाशः। श्रूयमाणे चाकारे परेण सह
वृद्धिः स्यात्। `दुद्युषति' इति। दिवेः `सनीवन्तर्ध' (7.2.49) इत्यादिना यदा पक्ष इडागमो न क्रियते तदा `इको झल्' (1.2.9) `हलन्ताच्च' (1.2.10) इति कित्त्वम्, ततः
`च्छ्वोः शूडनुनासिके च' (3.4.19) इत्यूठ्। स च द्विर्वचननिमित्तं न भवति। तत्र यदि द्विर्वचननिमित्तत्वेन नाज् विशेष्यते, ऊठि परतो यो यणादेशस्तस्यापि स्थानिवद्भावः स्यात्। एवं चाभ्यासरूपमिवर्णान्तं श्रूयेत। द्विर्वचननिमित्तच्परिग्रहे तु `द्यु' इत्यस्य द्विर्वचनं भवति। तत्र हलादिशेषह्रस्वत्वयोर्दुद्यूषतीत्यभ्यासरूपमुकारा-
न्तं सिध्यति।।

60. अदर्शनं लोपः।(1.1.60)
`अदर्शनम्' इत्यादि। ननु चादर्शनानुपलब्धिशब्दावनुपलब्धिसामान्यवचनौ। अश्रवणानुपच्चारणशब्दौत्वनुपलब्धिविशेषवचनौ। तथा ह्यश्रवणादिशब्दोच्चारणे शब्दस्यैवानुपलब्धिः प्रतीयते, नानुपलब्धिमात्रम्, न च सामान्यविशेषशब्दानामेकार्थता, तत्
किमित्येवमाह-- `अनर्थान्तरम्' इति। एवं मन्यते- सामान्यशब्द अपि प्रकरणवशाद्
विशेषे वर्तन्ते। इह च शब्दा व्युत्पाद्यत्वेन प्रकृताः, तस्माद् यद्यप्यदर्शनानुपलब्धिशब्दौ सामान्यवचनौ, तथापीह प्रकरणसामर्थ्याद् विशेषे शब्दानुपलब्धावेव
वर्त्तेते।
इह वृद्धिरित्यादिकाः संज्ञा शब्दानां विहिताः। तद्वदिहाप्यदर्शनमित्यस्यैव शब्दस्य `लोपः' इत्येषा संज्ञा स्यात्। ततश्च लोपप्रदेशेष्वदर्शनशब्दस्यैवोपस्थानात् स एवादेशः स्यादित्यत आह-- `एतैः शब्दैः' इत्यादि। कथं पुरेतल्लभ्यते ? एवं मन्यते-- `नवेति विभाषा' (1.1.44) इत्यत इतिकरणोऽर्थनिर्दशार्थोऽनुवर्त्तते। तेन ह्यवधारणं गम्यते, यथा--- `क्रिया हि द्रव्यं विनयति नाद्रव्यम्' इति। विनापीकरणेन शब्द-स्वरूपस्य संज्ञा सिध्यत्येव, यथा-- `तरप्तमपौ घः' (1.1.22) इत्यत्र। तस्मादिति-
करणानुवृत्तिसामर्थ्याददर्शनमिति योऽर्थः प्रतीयते, तस्यैवेषा संज्ञा, न शब्दस्य।
किञ्च `लोपः' महती संज्ञा क्रियते यथान्वर्थसंज्ञा विज्ञायेत। लोपनं लोपः; अनुपलब्धिरनुच्चारणमित्यर्थः। न चादर्शनमित्येतच्छब्दरूपमेवाभावात्मकम्, किं तर्हि ? तदर्थः। तस्मादन्वर्थसंज्ञाविज्ञानादर्थस्यैवैषा संज्ञा। यदि तर्ह्यर्थस्यैवैषा
संज्ञा, ततोऽतिप्रसङ्गः। सर्वो हि शब्दः स्वविषयादन्यत्र न दृश्यते। ततश्च `त्रपुजतु' इत्यत्र क्विपोऽदर्शनस्य लोपसंज्ञा स्यात्। एव़ञ्च सति `प्रत्ययलोपे प्रत्यय-
लक्षणम्' (1.1.62) इति ह्रस्वस्य पिति कृति तुक्' (6.1.71) इति तुक् प्रसज्यत
इत्यत आह-- `प्रसक्तस्य' इत्यादि। तर्हयदर्शनमात्रस्यैषा संज्ञा ? न किं तर्हि ? शास्त्रादर्थाद्वा कुतश्चित् प्रसक्तस्य यददर्शनं तस्यैव। तदिह न केनचित्प्रकारेण
क्विप्प्रसङ्गोऽस्ति, तत्कुतोऽस्तिप्रसङ्गः ? कतं पुरेष विशेषो लभ्यते, यावता नेहप्रसक्तग्रहणमस्ति, नापि तत् कृतम् ? एवं मन्यते-- `स्थानिवत्' इत्यतः स्थानिग्रहण-मिहाप्यनुवर्तते, स्थानी, प्रसङ्गवन्, प्रसक्तः-- इति पर्याया ह्येते। तेनायमर्थो लभ्यते-- प्रसक्तस्य यददर्शनं तस्येयं संज्ञेति।
`गौधेरः' इति। `गोधाया ढ्रक्' (4.1.129) एयादेशः, `लोपो व्योर्वलि' (6.1.76) इति यकारस्य शास्त्रेण प्रसक्तस्य लोपः। `पचेरन' इत्यत्रापि सीयुटः शास्रेण। एवम-
न्यत्रापि यथायोगं प्रसक्तता वेदितव्या। `जीरदानुः' `आस्त्रेमाणम्' इति। पूर्वपद् वकारस्य लोपः। `स्त्रिवु गतिशोषणयोः' (धा.पा. 1109) यस्य `सर्वधातुभ्यो मनिन्' (5.5.584) इति मनिन्प्रत्ययान्तस्य द्वितीयैकवचन उपधादीर्गेणैत्वे चकृते `आस्रेमाणम्'
इति। `अपरस्यानुबन्धादेः' इति। ककारादेरनुबन्धस्य। आदिशब्देन सीयुट्सकारस्य।

61. प्रत्ययस्य लुक्‌श्लुलुपः। (1.1.61)
यथा वृद्धिशब्दस्तद्भावितानमतद्भावितानामपि संज्ञा, तथा लुगित्यादिका
अप्यतद्भावितस्यापि संज्ञाः प्राप्नुवन्ति, ततश्च संज्ञासंकरः स्यात्। संज्ञासंकरे हि सति संकीर्येरन्नित्यत आह-- `अनेकसंज्ञाविधानाच्च' इत्यादि। यद्यतद्भावितस्या-
प्येताः संज्ञाः स्युः, अनेकसंज्ञाकरणमर्थकं स्यात्; एकस्यैव सर्वकार्यसिद्धः।
तस्मादनेकसंज्ञाविधानाद् यददर्शनं यया संज्ञयोच्चारितया भावितम्= निष्पादितं, तस्यैव प्रत्ययादर्शनस्य सा संज्ञा, नान्यस्येति न भवति संकरः। एवं तर्हीतरेतराश्रयदोषः प्राप्नोति, तथा हि-- संज्ञया विशिष्टमदर्शनं भाव्यम्, सति च तस्मिन् प्रत्यया-
दर्शने संज्ञया भाव्यमित्यत आह-- `विधिप्रदेशेषु च' इत्यादि। तददर्शनं विधीयते यस्य विहितस्य लुगित्येवमादिकाः संज्ञा भवन्तीति भाविन्याः संज्ञया विज्ञानान्न भवतीतरेतराश्रयदोषः।
`अत्ति' इति। `अदिप्रभृतिभ्यः शपः' (2.4.72) इति शपो लुक्। `जुहोति' इति।
`जुहोत्यादिभ्यः श्लुः' (2.4.75)। `वरणाः' इति। वरणानां वृक्षाणामदूरभवो ग्राम इति। `प्राग्दीव्यतोऽण्' (4.1.83) तस्य `वरणादिभ्यश्च' (4.2.82) इति लुप्।
`अगस्तयः, कुण्डिनाः' इति। यदि प्रत्ययग्रहमं न क्रियेत, आगस्त्यस्याप-
त्यानि बहूनि `ऋष्यन्धकवृष्णिकुरुभ्यः' (4.1.114) इति ऋष्यण्। कुण्डिन्या अपत्यानि बहूनि गर्गादित्वाद् यञ् (4.1.165), तयोरागस्त्यकौण्डिन्यशब्दयोर्जसि परतो यदा `
आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्' (2.4.70) इति लुक् क्रियते,अगस्तिकुण्डिनचौ
चादेशौ; तदा वैषम्यादेकैकस्य षष्ठीनिर्दिष्टस्य स्थानिनस्त्रय आदेसाः पर्यायेण
स्युः। तत्र यदा लुक् क्रियते तदा विभक्तिमात्रस्य श्रवणं प्राप्नोति। अथाप्यलोऽ-
न्त्यस्य स्यात् ?एवमप्यागस्त्यः,कौण्‍डिन्यः इति स्यात्; अगस्तयः, कुण्डिना इति चेष्यते। यदाप्यागस्त्यशब्दस्य कुण्डिनजादेशः, कौण्डिन्यशब्दस्य चागसत्यादेशः, तथाप्यनिष्टमेव प्राप्नोति। आगस्त्यशब्दस्य हि जसन्तस्य अगस्तयइति रूपमिष्यते, कौण्डिन्यशब्दस्य तु कुण्डिना इति। अत एवागस्तयः कुण्डिना इत्यनयानुपूर्व्या तयोरुपन्यासः।
अथाप्यान्तरतम्यादागस्त्यशब्दस्यागस्तिशब्द एवादेशो भवति, न कुण्डिनजिति?
कौण्डिन्यशब्दस्यापि कुण्डिनजादेशो भवति, नागस्तिशब्द इति ? एवमपि नैवानिष्टापत्ते-
र्मुक्तिः। तथा हि-- एवं ह्यगस्तयः, कुण्डिना इति च सिध्यति, तथापि प्राग्दीव्यतीये-ऽजादौ प्रत्यये विवक्षिते सति `वृद्धाच्छः' (4.2.114) इति च्छोः न स्यात्,अवृद्ध-त्वात्। प्रकृतेः। प्रत्ययग्रहणे तु सति तददर्शनस्यैवेयं संज्ञा विहितेति तस्यैव लुग् भवति। परिजादिप्रत्ययविवक्षायामपि `गोऽत्रेऽलुगचि' (4.1.89) इति लुकि
प्रतिषिद्धे वृद्धाच्छप्रत्ययश्च। अगस्तीनां छात्रा आगस्तीया इति। कौण्डिन्यशब्दात् तु सत्यपि लुकि `कण्वादिभ्यो गोत्रे' (4.2.111) इत्यणेव भवति-- कौण्डिन्याश्चात्रा इति। तेन तत्र छप्रत्ययाभावदोषो न प्रसञ्जनीयः।

62. प्रत्ययलोपे प्रत्ययलक्षणम्। (1.1.62)
`प्रत्ययलक्षणम्' इति। प्रत्ययो लक्षणं यस्येति कार्येऽन्यपदार्थे बहुव्रीहिः। प्रत्ययनिमित्तमित्यादिना सूत्रारम्भस्य प्रयोजनमाह।
ननु च स्थानिवद्भावनाप्येतत् सिध्यति, नैतदस्ति; अलाश्रयमपि हि प्रत्ययलोपे प्रत्ययलक्षणं कार्यमिष्यते। तथा ह्यग्निचिदित्यत्र `ह्रस्वस्य पिति कृति तुक्' (6.1.71) इत्यलाश्रयोऽपि तुग् भवत्येव। `अग्निचित्' इति। `अग्नौ चेः'
(3.2.9) इति क्विप्। अधोगिति हल्ङ्यादिसूत्रेण तिलोपः; अदादित्वाच्छपो लुक् (2.4.72) `दादेर्धातोर्घः' (8.2.32) इति धत्वम्, `एकाचो बशो भष्' (8.2.37) इत्यादिना भष् धकारः, `झलाञ्जशोऽन्ते' (8.2.39) इति जश्त्वम्, घकारस्य गकारः,तस्य `वावसाने' (8.4.56) इति चर्त्वं ककारः।
`प्रत्ययः' इति। `वर्तमाने' इति पूर्वसूत्रात्। `आहो यमहनः' (1.3.28)इत्या-त्मनेपदम्। `गमहन' (6.4.99) इत्यादिनोपधालोपः। `हो हन्तेः' (7.3.54) इति घःष। `
संग्मीय' इति। संपूर्वाद् गमेः `समो गमि' (1.3.29) इत्यादिनात्मनेपदम्। `इटोऽत्' (3.4.146) इत्यद्भावः। `बहुलं छन्दसि' (2.4.73) इति शपो लुक्। पूर्ववदुपधालोपः।
`अनुनासिकलोपो न भवति' इति। `अनुदात्तोपदेश' (6.4.37) इत्यादिना।
`रैकुलम्' इति। षष्ठीसमासः। `गोहितम्' इति। `चतुर्थी' (2.1.36) इत्यादिना। अस्त्यत्र षष्ठीचतुर्थ्येकवचनयोः प्रत्ययर्लोपः; किं त्वयावादेशयोरचि विधानात्
तद्विधौ वर्ण आश्रयीते, न तु प्रत्ययः। तेन वर्णनिमित्तकौ तौ न प्रत्ययनिमित्त-
काविति न भवतः। ननु च चात्र प्रत्ययस्य लोपः क्रियते, किं तर्हि ? लुक्, नैतदस्ति; लोपशब्दोऽपि सामान्येन तद्भावितस्यातद्भावितस्य चाऽदर्शनस्य संज्ञा। तस्माल्लुगपि लोपो भवत्येव।।

63. न लुमताङ्गस्य। (1.1.63)
`लुमता' इति। लुशबोद यस्मिन्निस्ति स लुमान्। कः पुनरसौ ? लुगित्यादिसंज्ञाशब्दः। करणे चेयं तृतीया, हे तौ व, इत्थम्भूतलक्षणे वा। लुमता करणेन लुप्ते
प्रत्यये, तेन हेतुना वा, तदुपलक्षितेन वेत्यर्थः। अथ प्रत्य इत्येतत् कुतो लभ्यते ? प्रत्ययादर्शनस्यैव लुगादिसंज्ञाविधानात्।
`लुमताशब्देन लुप्ते प्रत्यये यदङ्गम्' इति। तत् पुनस्तमेव प्रत्ययं
निमित्तमाश्रित्य येनाङ्गसंज्ञा प्रतिलब्धा तद् वेदितव्यम्।तस्य प्रत्ययलक्षणं
कार्यं न भवतीत्यविशेषाभिधानेऽपि प्रत्यासत्तेर्य एवासौ लुमता लुप्तः प्रत्ययोऽङ्गसंज्ञाया निमित्तं तल्लक्षणमिति गम्यते। `गर्गाः' इति. `गर्गादिभ्यो यञ्' (4.1.105) `यञञोश्च' (2.4.64) इति बहुषु लुक्। अत्र `तद्धितेष्वलचामादेः' (7.2.117) इति
वृद्धिर्न भवति। `मृष्टः' इति। मृजेस्तदस्, अदादित्वाच्छपो लुक्, व्रश्चादिसूत्रेण षत्वम्, ष्टुत्वम्, `मृजेर्वृद्धिः' (7.2.114) इति वृद्धिर्न भवति। `जुहुतः' इति। तसि परतो जुहोत्यादिभ्यः श्लौ कृते सार्वधातुकलक्षणो गुणो न भवति। सर्वत्र यमेव प्रत्ययमाश्रित्याङ्गसंज्ञा जाता स एव वृद्ध्यादेः कार्यस्य निमित्तम्। इह च विशेषस्यानाश्रणान्न केवलमङ्गाधिकारविहितं कार्यं प्रतिषिध्यते; अपि त्वनङ्गा4धिकारविहितमपि। तेन गर्गाः, बिदाः, उष्ट्रग्रीवा इत्यत्र `ञ्नित्यादिर्नित्यम्' (6.1.197) इत्याद्युदात्तत्वमनङ्गाधिकारविहितमपि न भवति। इह च -- अत्रय इति तद्धितस्य `कितः' (6.1.165) इत्यन्तोदात्तत्वम्। गर्गाः, बिदा इति यथाक्रमं गर्गादियञ्। `अनृष्यान्नतर्ये विददिभ्योऽञ्' (4.1.104) इत्यञ्। `यञञोश्च' (2.4.64) इति लुक्।
उष्ट्रग्रीवा इति। `इवे प्रतिकृतौ(5.3.96) इति विहितस्य कनो `देवपथादिभ्यश्च' (5.3.100) इति लुप्। अत्रय इति अत्रेरपत्यार्थे `इतश्चानिञः' (4.1.122) इति विहितस्य ढकः `अत्रिभृगुकुत्सवसिष्ठ' (2.4.65) इत्यादिना बहुषु लुक्। `पञ्च, सप्त' इति। `ष़ड्-
भ्यो लुक्' (7.1.22) इति जश्शसोर्लुक्। `पयः साम'इति। अत्रापि `स्वमोर्नपुंसकात्'
(7.3.23) इति। अत्र यद्यपि लुमता लुप्तः प्रत्ययः, तन्निमित्ता चाङ्गसंज्ञा, तथापि प्रत्ययलक्षणेन `सुप्तिङ्गन्तं पदम्' (1.4.14) इति पदसंज्ञा भवत्येव; यस्मान्नासाव-ङ्गस्य कार्यम्, अपि तु सविभक्तिकस्य समुदायस्य प्रत्ययस्य हि पूर्वभागोऽङ्गम्. न चेह तस् लुमता यो लुप्तः प्रत्यमाश्रित्याह्गसंज्ञा भवति तमेवाश्रित्य पदसंज्ञा
प्राप्नोति। पदसंज्ञायञ्चेह सत्यां पय इत्यत्र `ससजुषो रुः' (8.2.66) इति रुत्वम्। खरवसनियोर्विसर्जनीयश्च पदकार्यं भवति। `पञ्च, सप्त,साम' इति। अत्रापि `नलोपः प्रा-
तिपदिकान्तस्य' (8.2.7) इति नलोपः पदसंज्ञाकार्यम्। `कार्यते' इति। ण्यन्तात्
कर्मणि लकारः, `सार्वधातुके यक्' (3.1.67) अत्र न लुमता प्रत्ययो लुप्तः किं तर्हि ? `णेरनिटि'(6.4.51) इति; अत्र `आतो लोपः' (6.4.64) इत्यस्माल्लोपग्रहणानुवृत्तेः। तेन प्रत्ययलक्षणा वृद्धिर्भवत्येव।।

64. अचोऽन्त्यादि टि। (1.1.64)
`अन्त्यादि'इति बहुव्रीहिः अचां मध्ये योऽन्त्योऽच्,स आदिर्यस्य शब्दरूप-
स्य तत् तथोक्तम्। ननु चान्त्यशब्दोऽत्राचामित्येतदपेक्षत इत्यसामर्थ्यादादिशब्देन सह समासो न प्राप्नोति, नैष दोषः; अन्त्यशब्दो हि सम्बन्धिशब्दः, सम्ब्नधिशब्दानां नित्यसापेक्षत्वेन गमकत्वात् सापेक्षत्वेऽपि समासो भवति, यथा देवदत्तस्य गुरुकुल-
मिति।
`निर्धारणे षष्ठी' इति। `यतश्च निर्धारणम्' (2.3.41) इत्यनेन यदि निर्धारणे षष्ठीयम्, एवं हि सति निर्धारणमनेकसन्निपाते भवतीत्यच इत्येकवचनं न स्यात्।
बहुत्वद्बहुवचनेन भवितव्यमित्यत आह -- `जातावेकवचनम्' इति। जातेरेकत्वादिति भावः।
`अचां सन्निविष्टानां योऽन्त्योच्' इति। कथं पुनरजित्येष विशेषो लभ्यते, यावता नेह द्वितीयमज्ग्रहणम्, नापि प्रकृतम् ? एवं मन्यते -- समानजातीयस्यैव लोके निर्धारणं प्रसिद्धम्। तथा हि, कृष्णा गवां सम्पन्नक्षीरतमेति द्वितीयं गोशब्दमन्तरेणापि गौरेव प्रतीयते। तस्मादिहापि यद्यपि द्वितीयमज्ग्रहणं नास्ति, तथापि समानजातीयोऽजेव
निर्धार्यमाणोऽवसीयत इति। अन्ते भवोऽन्त्यः, दिगादित्वात् यत्। `तदादि' इति। स
आदिर्यस्येति विग्रहः। `इच्छब्दः' इत्यादिनि रूपोदाहरणानि। कार्यं पुनरिच्छब्दस्य
टिसंज्ञायामग्निचितमाचष्ट इति णिचि कृते `णाविष्टवत् प्रातिपदिकस्य' (वा.813) इति
टिलोप अग्निं चयतीति।
`आताम्, आथाम्' इति। अनयोस्तु टिसंज्ञाकार्यम्-- `टित आत्मनेपदानां टेरे'(3.4.97) टेरेत्वम्। `पचेते, पचेथे' इति कार्योदाहरणे। अथ वहिमहिङोरिकारस्य कथं
टिसंज्ञा, यावता न सोऽस्ति यस्य सोऽन्त्यः, अजादिरिति व्यपदिश्यते ? नैष दोषः; `आद्यन्तवदेकस्मिन्' (1.1.21) इतिव्यपदेशिद्भावेनादिः, अन्त्य इति व्यपदेशो भविष्यति।

65. अलोऽन्त्यात्पूर्व उपधा। (1.1.65)
अलोऽन्त्यादितिसमानाधिकरणे पञ्चम्यौ। `धात्वादौ वर्णसमुदाये'इति। ननु च नेह वर्णसमुदाय ग्रहणमस्ति, नापि तत् प्रकृतम्। तत् कथमेषोऽर्थो लभ्यते ? अन्त्यग्रहणात्, समुदायस्यैवान्त्योऽल् भवति, न केवलः। तस्मादन्त्यग्रहणादेषोऽर्थो लभ्यते।
`अलेव' इति।एवकारकरणादेवाल्समुदायो व्यवच्छिद्यते। ननु च नेह द्वितीय-
मल्ग्रहणमस्ति, तदल्सुमुदायस्याप्येषा संज्ञा कसमान्न भवति ? लोकतश्च। लोके
ह्यमीषां बाह्मणानामन्त्यात् पूर्व आनीयतामित्युक्तएक एवान्त्यात् पूर्व आनीयते, न समुदायः । एवमप्यल एव व्यवहितस्य कस्मादेषा संज्ञा न भवति ? व्यहितेऽपि पूर्वशब्दो वर्त्तत एव। अत एव लौकिकाद् दृष्टान्तात्-- लोके ह्यन्त्यात् पूर्वमानयेत्युक्ते न कश्चिद् व्यवहितमानयति, अपि त्वननतरमेव। यदि ह्यल एवैषा संज्ञा, नाल्समुदायस्य,
`ऋतश्च संयोगादेर्गुणः'(7.4.10) इत्यत्र यद् वक्ष्यति-- `संयोगादिगुणविधाने संयोगोपधग्रहणं कर्त्तव्यम्' इति, तद्व्याहन्यते; न ह्यल एवोपधासंज्ञायामनेकानन्तरहल्समुदायात्मनः संयोगस्योपधात्वमुपपद्यते। संयोगावयवस्योपधात्वादवयवधर्मेण समुदायस्य तथा
व्यपदेश इत्यविरोधः। भवति ह्यवयवधर्मेण समुदायस्य तथा व्यपदेशः, यथा--
आढ्यमिदं नगरमिति ।
अथ वा- संयोगस्याल्पूर्वत्वोपलक्षणार्थं तत्रोपधाग्रहणं द्रष्टव्यम्। अकार इत्यादीनि रूपोदाहरणानि। कार्यं त्वकारस्योपधासंज्ञायां पाचकः, पाठक इत्यत्र `अत उपधायाः' (7.2.116) इति वृद्धिः। इकारलृकारयोस्तु भेदकः, छेदकः, वर्त्तकः वर्द्धक इति। अत्र `पुगन्तलघूपधस्य' (7.3.86) इति गुणः।
`शिष्टः' इति। `शासु अनुशिष्टौ' (धा.पा.1075), निष्ठा, `शास इदङ हलोः' (6.4.34) इति उपधाया इत्त्वम्। तत्र हि `अनिदिताम्' (6.4.24) इत्यादेः सुत्रादुपधाग्रहणमनुवर्त्तते। `शासिवसि' (8.3.60) इत्यादिना षत्वम्। `समुदायात्' इत्यादि। अकारसकारसमुदायात्। पूर्वस्य शकारस्योपधासंज्ञा मा भूदित्यर्थः। यदि हि स्यात्,तस्यैवेत्त्वं स्यात्।।

66. तस्मिन्नित निर्दिष्टे पूर्वस्य। (1.1.66)
किमर्थमिदम् ? `इको यणचि' (6.1.77) इत्येवमादावचीत्येवमादेराधाराधेयभावः
प्रत्यासत्तिनिबन्धनः, यथा -- गङ्गायां घोषः प्रतिवसतीति। अत्र गङ्गायाः सा च प्रत्यासत्तिर्यथा पूर्वमपेक्ष्य भवति, तथा परमपि। ततदश्च दध्युदकादिषु न ज्ञायते-- किं पूर्वस्येकः प्रत्यासत्तिभाजो यणादेशः, उत परस्येति। तत्र सन्देहेसति नियमार्थेयं परिभाषाऽऽरभ्यते। यद्येवं सन्देहविषय इयमारभ्यत इति यत्र सन्देहस्तत्रोपतिष्ठते,
ततश्च दध्युदकमिति सिद्धं स्यात्; इदं तु न सिध्यति-- दध्यत्रेति। ननु च विनैव परि-
भाषैतत् सिद्धम्, न ह्यत्र सन्देहोऽस्ति। इदं तर्हि न सिध्यति-- समिदत्रेति, अग्निचिदत्रेति। यदि हि यत्र सन्देहो नास्ति, तत्रैषा परिभाषा न स्यादिहानुपस्थानात्,
व्यवधानेऽपि यणादेशः स्यादेव। तस्मादसन्देहविषयेऽप्येषा परिभाषा यथा भवति स यत्नःकर्त्तव्यः। एष क्रियते-- इह (तस्मिन्निति) `सप्तमीनिर्दिष्टे पूर्वस्य' (1.1.66)
तावत् सूत्रं कर्त्तव्यम्; इयतैवाभिलषितार्थसिद्धेः। तत्राप्ययमर्थः-- स्वरूपग्रहणशङ्कां निराकर्तुमितिकरणो न कर्त्तव्यो भवति। न हि क्वचिच्छास्त्रं सप्तमीनिर्दिष्टः शब्दः श्रूयते, येन स्वरूपग्रहणमाशङ्क्येत। सोऽयमल्पेन सूत्रेण सिद्धे यन्महत्
सूत्रं करोति तन्महाविषयेयं परिभाषेति। सूचनार्थम्। एवं च महाविषयेयं भवति यदि
सर्वत्र-- सन्देहविषये, अन्यत्र च प्रवर्त्तते।
स्यादेतत्-- "सप्तमीनिर्दिष्ट" इत्युच्यमाने सप्तम्या यद्यप्यधिकरणं निर्दि-श्यते, तथापि तस्याधेयप्रधानत्वात् `इको यणचि' (6.1.77) इत्यत्राचि योल्व्यवस्थित-स्तस्मिन् यणादेशो विज्ञायते, ततश्चेहैव स्यात् दधि भुङ्क्त इति, इह तु न स्यात्-- दध्यत्रेति; यथान्यासे त्वेष दोषो नास्ति, तस्मात् महत् सूत्रं प्रणीतम्' इति, नैतदस्ति; यदयं `दाधाघ्वदाप्' (1.2.20) इति निर्देशं करोति, तज्ज्ञापयति-- अधिकरण
एव यणादेशादिकार्यं भवति, न त्वाधेय इति। अपि च-यथान्यासेऽप्यधिकरणस्यादेयप्रधानत्वादाधेय एव यणादेशादिकार्यं तेन सर्वत्रैषा परिभाषोपतिष्ठत इति सर्वमिष्टं सिद्धं भवति।
इह `स्वं रूपं शब्दस्याशब्दसंज्ञा'(1.1.68) इति स्वरूपस्यैव ग्रहणेन
भवितव्यम्। ततश्च यत्रैव तस्मिन्नित्येतत् पदमुच्चार्यते तत्रैवेयं परिभाषा स्यात् `तस्मिन्नणि च यष्माकास्माकौ' (4.3.2) इति। अस्ति ह्यत्र तस्याः परिभाषायाः
परनिवृत्तिः प्रयोजनम्-- यौष्माकीणं युष्मभ्यं देहि, आस्माकीनमस्मभ्यं देहीति।
युष्मभ्यं देहि यौष्माकीणम्, अस्मभ्यं देह्यास्माकीनमिति। `इको यणचि' (6.1.77)
इत्येवमादौ त्वेषा नोपतिष्ठते,इत्यत आह-- `तस्मिन्' इति।
`सप्तम्यर्थनिर्देशे' इति। एवं मन्यते-- इतिकरणो ह्यत्र कृतः, स च स्वरूप-
पदार्थकत्वं निरस्यार्थपदार्थकत्वं तस्मिन्नित्यस्य सम्पादयति, तेनार्थस्यैव ग्रहणं भवति। स त्वर्थोऽवश्यं येन केनचिचछब्देन निर्देष्टव्य इति नानार्थकत्वात् सामान्यवाचिना तस्मिन्नित्यनेन पदेन निर्दिष्ट इति।
ननु च शब्दस्यार्थेन पौर्वापर्यं न सम्भवतीत्यर्थेनासम्भवात् तद्वाचिना
शब्देन विज्ञास्यत इत्यदोषः। अत्रेदं चोद्यते-- अर्थस्य ग्रहणं यथा स्यात् स्वरूपस्य च ग्रहणं मा भूदित्येवमर्थमितिकरणः क्रियते, तच्च स्वरूपग्रहणम् `तस्मिन्नणि च
युष्माकास्माकौ'
(4.3.2) इति सूत्रेण सम्भाव्यते; यदि च स्वरूपग्रहणं स्यात्, तत्रैव पूर्वग्रहणं कुर्यात्, न च कृतम्; तसमादवगम्यते-- अन्तरेणापीतिकरणमर्थस्यैव ग्रहणं भविष्यति, न स्वरूपस्येति नार्थस्तेन ?. स्तयमेतत्; ये तु मन्दवुद्ध्य एव प्रतिपत्तुमसमर्थास्तान् प्रति सुखावबधनार्थमितिकरणः क-तः। निर्दिष्टग्रहणमिदर्थस्य विशेषणम्। इह च
शास्त्रे `इको यणचि' (6.1.77) इत्यादिषु वाक्येषु यत्र सप्तम्यर्थोऽस्ति तत्रासौ
निर्दिष्ट एव सर्वत्र। तदपार्थकं निर्दिष्टग्रहणविशेषणं व्यभिचाराभावादित्यत आह--
`निर्दिष्टग्रहणम्' इत्यादि। आनन्तर्यमव्यवधानमर्थो यस्य तत् तथोक्तम्। कथं पुनस्त-दानन्तर्यार्थं भवति ? ततस्तत्प्रतीतेः। तथा हि दिशिरयमुच्चारणक्रियः, निःशब्दोऽ-
प्ययमिह नैरन्तर्यं द्योतयति। तत्र निरन्तरं दिष्टः= निर्दिष्ट इति प्रादिसमासे
कृते स्फुटमेनानन्तरमुच्चारितमिति प्रतीयते।
किमर्थं पुनरानन्तर्यमाश्रितमित्यत आह-- अग्निचिदत्रेत्यादि। पूर्वशब्दोऽ-यं व्यवहितेऽपि वर्त्तते। तत्र यद्यानन्तर्य नाश्रीयते ततो व्यवहितेऽपि स्यादित्यभिप्रायः। ननु च `अचि' इत्यौपश्लेषिकमधिकरणं विज्ञायते, न च व्यवहितमुपश्लिष्टं
भवति, तत् किमानन्तर्यार्थेन निर्दिष्टग्रहणेन ? असदेतत्; असति हि निर्दिष्ट्‌ग्रहणऔपश्लेषिकमधिकरणमेव न शक्यं विज्ञातुम्। यस्मात् पूर्वशब्दो व्यवहितेऽपि
वर्त्तमानः परस्यैव निवृत्तिं करोति, न व्यवहितपूर्वस्यापि। निर्दिष्टग्रहणे तु सति, सप्तम्या औपश्लेषिकाधिकरणाभिधायिन्याः प्रत्यासत्तिरुपादीयते। सा च पूर्वग्रहणेन न निवर्त्त्यते, परनिवृत्तिरेव क्रियत इत्येषोऽर्थो लभ्यते। तेन व्यवहितस्य कार्यंन भवति। उत्तरार्थं च निर्दिष्टग्रहणं कर्त्तव्यमेव।।

67. तस्मादित्युत्तरसस्य। (1.1.67)
किमर्थमिदम् ? `तिङ्ङतिङः' (8.1.28) इति याऽत्र सा तु न कारकविभक्तिः, किंतर्हि ? `दिक्शब्दादञ्चूत्तरपद' (2.3.29) इति दिग्योगलक्षणा। दिक्शब्दस्त्वध्या-
हार्यः, तत्र किं पूर्वशब्दमध्याहृत्यातिङः पूर्वस्य निघातः क्रियते ? उत परशब्दम-
ध्याहृत्य परस्य ? इति सन्देहे सति परिभाषेयं नियमाऱ्ताऽऽरभ्यते।
`निर्दिष्टग्रहणमनुवर्त्तते'इति। तेन तस्यानन्तर्यार्थत्वाद्वयवहितस्य
कार्यं न भवतीति भावः। इहापीतिकरणोऽर्थनिर्देशार्थः क्रियते। तेन पञ्चम्यर्थग्रहणं भवति, न तु शब्दस्वरूपस्येत्यभिप्रायेणाह-- `तस्मात्' इति। `पञ्चम्यर्थनिर्देशः'
इति। ननु च पूर्वसूत्रादेवेतिकरणोऽनुवर्तिष्यते, तत् किमर्थः पुनरिहेतिकरणः ? अनेन प्रकारेण पूर्वसूत्रादेकदेशोऽनुवर्त्तत इति ज्ञापनार्थ-। तेनेतिशब्दवन्निर्दिष्ट-ग्रहणमनुवर्त्तेतेत्येतदाख्यातं भवति।
अन्यस्त्वाह-- "इतिकरणं त्विहावधेरवधिमत्तन्त्रतां निवर्त्तयति। तेनावधेरे-वोत्तरस्य विज्ञायते, नावधिमतः। स्वरूपग्रहणनिरासार्थस्त्वितिकरणो न भवति; स्वरूपा-भावात्। यदपि `तस्माच्छसो नः पुंसि' (6.1.103) इति, तत्रापि पूर्वसवर्णदीर्घात्
पूर्वः शस् न सम्भवतीति न भवति सन्देहः। तस्मादवधेरवधिमत्तन्त्रतानिरासार्थ एवेति-
शब्दः' इति, अत्रोच्यते; यद्यवधेरेवोत्तरस्य कार्यं यथा स्यादवधिमतो मा भूदित्येवम-र्थं इतिकरणोऽवधेरवधिमत्तन्त्रतामपाकर्तुं क्रियते, नार्थस्तेन; लोकत एव
तत्सिद्धेः; लोके हि तस्माच्छात्रादुत्तरो भोज्यतामित्युक्तेरवधेरेवोत्तरो भोज्यते, नावधिमतः। तदिहापि विनापीतिकरणेनावधेरेवोत्तरस्य कार्यं भविष्यति; नावधिमतः।
यदप्युक्तम्-- "तसमाच्छसो नः पुंसि' (6.1.103) इत्यत्रापि पूर्वसवर्णदीर्घात्
पूर्वः शस् न सम्भवति" इति, तदप्ययुक्तम्;तथा ह्यशब्दादिशब्दाच्च शसि परतः
पूर्वसवर्णदीर्घत्वे पूर्वत्र च वृक्षादिशब्दे शसन्ते व्यवस्थापिते गच्छत आन्
वृक्षानुपलभते गच्छतो वृक्षानानुपलभत इत्यत्र पूर्वसवर्णदीर्घात् पूरवं शश्
सम्भवत्येव।
अथ यत्रोभयनिर्देशस्तत्र कस्य कार्येण भवितव्यम् ? तत्र यानवकाशा सेतरस्याः षष्ठीं प्रकल्पयिष्यति, अतः षष्ठीनिर्दिष्टस्य कार्यं भविष्यति। यथा `आने मुक्' (7.2.82) इत्यत्र सप्तमी निरवकासा `अतो येयः' (7.2.80) इत्यत इति पञ्चम्याः
पूर्वसूत्रे सावकाशायाः षष्ठीत्वं प्रकल्पयिष्यति। तथा `ईदासः' (7.2.83) इति पञ्च-
म्याऽऽन इति पूर्वसूत्रे सावकाशायाः सप्तम्याः। यत्रोभे सावकासे तत्र परत्वात्
पञ्चमी सप्तम्याः षष्ठीं प्रकल्पयिष्यति। यथा-- `आमि सर्वनाम्नः सुट्' (7.1.52) इति`आज्जसेरसुक्' (7.1.50) इत्यत्र पञ्चमी सावकाशा। `आमि' इति सप्तम्युत्तरार्था।
तत्रादिति पञ्चमी आमीति सप्तम्याः षष्ठीत्वं प्रकल्पयति, तेन सर्वनाम्न उत्तरस्यामः सुड् भवति। इह तु `दीर्घात्' (6.1.75) `पदान्ताद्वा' (6.1.76) इति, यद्यपि
`च्छे च' (6.1.73) इति सप्तमी पूर्वसूत्रे सावकाशा, तथापि तस्याः स्वरित्त्वात्
पूर्वयोगादनुवृत्ताया निरवकाशत्वम्। अतः सा च सप्तमी पञ्चम्याः षष्ठीत्वं प्रकल्पयिष्यति। पञ्चमी तु पौर्वपर्यं प्रकल्प्य सावकाशा निवर्त्तते। तेनायं सूत्रार्थो भवति- दीर्घादुत्तरो यच्छः, तस्मिन् परतः पूर्वस्य दीर्घस्यैव तुग् भवतीति। `सार्वधा-
तुके यक्' (7.1.67) इत्यत्र निरवकाशापि सप्तमी धातोरिति पञ्चम्याः सावकाशाया अपि
षष्ठीत्वं न प्रकल्पयति; अन्यथा हि धातोरेवादेशा यगादयः स्युः। ततश्च `परश्च' (3.1.2) इत्यस्यानुवृत्तस्य बाधाद् यगादीनां चानुबन्धकरणस्य वयर्थ्यं प्रसज्येत। न हि
धात्वादेशत्वे सति तेषां परत्वमुपपद्यते तु ते धातोः परे भवन्ति।।

68. स्वं रूपं शब्दस्याशब्दसंज्ञा। (1.1.68)
`शास्त्रे स्वमेव' इत्यादि। शास्त्रग्रहणं लोकेऽर्थस्यैव ग्राह्यत्वात्। शब्दस्येति `कृत्यानां कर्तरि वा' (2.3.71) इति कर्त्तरि षष्ठी, शब्दः स्वमेव रूपं
ग्राहयति बोधयति, प्रत्याययतीत्यर्थः। कः पुनः शब्दस्य स्वरूपस्य च भेदः ? येन शब्दस्येत व्यतिरेकनिबन्धना षष्ठी भवति। परमार्थतो वस्तुगतो नास्त्येव भेदः। तथा हि--
स्वं रूपं शब्दस्य स्वभावः। तच्चेत् ततोऽर्थान्तरं स्याच् शब्दस्य वैस्वभाव्यमेव
स्यात्। असत्यपि तु वास्तवे भेदे बुद्धिविरचितं भेदमाश्रित्य षष्ठी भवति।
बुद्धिर्हि स्वबीजपरिपाकवशादाकारविशेषपरिग्रहवत्युपजायमाना वस्तुनोऽसत्यपि भेदे भेदमापादयति, यथा-- राहोः शिरः, स्वस्य स्वभाव इति। `न बाह्योऽर्थः' इति
एवकारेण यद्व्यवच्छिन्नं तद्दर्शयति।
अतिप्रसक्तस्यापवादमाह--`अशब्दसंज्ञा' इत्यादि। किमर्थं पुनरिदमारभ्यत
इत्याह-- `शब्देन' इत्यादि। शब्देनोच्चारितेनार्थः कार्योपयोगितया गम्यते, न शब्द-
स्वरूपम्। तथा हि-- गौरुपलभ्यतमित्युक्तेऽर्थमेवोपलब्धुमाद्रियते, न शब्दस्वरूपम्; व्याकरणे तु प्रत्ययविधानादिकार्यमर्थस्य न सम्भवति; तेन सह शब्दस्य पौर्वापर्याभावात्। न चार्थाद् विहितेन प्रत्ययेन कश्चित् प्रकृतोपयोगः। तेन `अग्नेर्ढक्' (4.2.
33) इत्युक्ते नायं संप्रत्ययो भवति। अग्निशब्दस्य योऽर्थः, स इह कार्यी, तस्येदं कार्यं विधीयत इति। ततश्च तस्यार्थस्य ये वाचकाः विधेयमिति। यथा --आकृतिवादिनां
गौर्दुह्यतामिति शब्देन जातौ चोदितायां तत्र तत्कार्यासम्भवात् तदाधारायां व्यक्तौ संभवात् तत्साहचर्याच्च तस्यामेव व्यक्तौ संप्रत्ययो भवति, न जातौ; तथेहापि तन्मा
भूत् तद्वाचिनां संप्रत्यय इत्येवमर्थमिदमारभ्यते। तद्वाचिनामिति कर्मणि षष्ठी।
तद्वाचिनो मा विज्ञायीत्येवमर्थमिदमारभ्यत इत्यर्थः।
तत्र केचिदाहुः-- स्वरूपस्य पर्यायाणां च कार्ये प्रसक्ते श्रूयमाणस्यैव
तद् यथा स्यात्, पर्यायाणां भूदिति नियमार्था परिभाषेयमिति।
अन्ये तु-- " लिङ्गवती परिभाषा भवति' , यथा, `इको गुणवृद्धी' (1.1.3)
इति गुणवृद्धी लिङ्गम्। विध्यन्तरशेषभूता वा; यथा-- `विप्रतिषेधे परं कार्यम्' (कात.प.67) इति परस्य विध्यन्तरस्य शेषभावमापद्यते। न वास्या लिङ्गं विध्यन्तरशेषभावो
वा विद्यत इति संज्ञासूत्रमिदम्" इति प्रतिपन्नाः। यद्यपि वृत्तौ संज्ञाशब्दो
नोच्चारिनः, तथापि `स्वमेव रूपं शब्दस्य ग्राह्यम्' इत्येवं ब्रुवता वृत्तिकारेण संज्ञैवेत्याख्यातं भवति। अग्निशब्दादौ शब्दान्तरैः साधारणमपि रूपमस्ति शब्दत्वादि, असाधारणमपि अग्निशब्दत्वादि, तत्र साधारणरूपव्युदासेनासाधारणस्याग्निशब्दत्वादि-
रूपस्य परिग्रहार्थं `स्वम्' ग्रहणम्। तद्धि स्वमेव तस्य रूम्, इतरत् पुनः परस्यापि। प्रतीति प्रत्यनुपदेशाच्छब्दस्य स्वरूपमेवासन्नम्, नार्थः; विपर्ययात्, अहेयत्वा-
च्च, तन्नित्यसम्बन्धित्वाच्च। तथा ह्यनुकरणशब्दा ह्यर्थं जहति, न तु स्वरूपम्। असाधारणञ्च रूपम्,अर्थस्तु साधारणः; शब्दान्तरैरपि प्रत्यायमानत्वात्।
तदेवमासन्नत्वान्नित्यसम्बधित्वादसाधारणत्वाच्च रूपमेव शब्दस्य स्वम्,
नार्थः। ततश्च स्वग्रहणादेव रूपपरिग्रहे सिद्धे व्याकरणे रूपवदर्थोऽप्यङ्गीक्रियत इति ज्ञापनार्थं रूपग्रहणम्। तेन-- `अर्थवद्‌ग्रहणेन नानर्थकस्य' (व्या.प.1) इत्येतदुपपन्नं भवति। शब्दानुशासननप्रस्तावादेव च शब्दस्येति सिद्धे शब्दग्रहणम्-- यत्र शब्दपरो निर्देशस्तत्र स्वरूपं गृह्यते, नार्थपरो निर्देश इति ज्ञापनार्थम्। तेन `
स्वे पुषः' (3.4.40) इत्यत्र स्वरूपस्य ग्रहणं न भवति। अर्थपरत्वं तु निर्देशस्याविच्छिन्नपारम्पर्यादाचार्योपदेशाद्‌विज्ञायते।
`आग्नेयम्' इति। अग्निर्देवताऽस्येत्यत्रार्थे ढक्।
`औदश्वित्कम्' इति। आत्राप्युदश्विता संस्कृतमित्यत्रार्थे ढक्। `उदश्वितो-
ऽन्यतरस्याम्' (4.2.19) इत्यत्र `दध्नष्ठक्' (4.2.18) इत्यस्यानुवत्तेः, `इसुसु-
क्तान्तात्कः' (7.3.51) इति ठकः कादेशः।
`घग्रहणेषु' इत्यादि। यदि घुप्रभृतिरपि संज्ञाशब्द स्वरूपस्य ग्राहकः
स्यात् `उपसर्गे घोः किः' (3.2.92) इत्यत्र यद्यपि धात्वधिकारस्तथापि घुग्रहणाद् घुशब्दात् किप्रत्ययः स्यात्। उपसर्गग्रहणं तु प्राद्युपलक्षणार्थ स्यात्। यथा-- `अञ् नासिकायाः संज्ञायां, नसञ्चास्थूलात्' (5.4.118) `उपसर्गाच्च' (5.4.119) इत्यत्र। कुमारीघ इत्यत्र च घ इति संज्ञाशब्देन स्वरूपप्रत्यायने सति `घरूपकल्प' (6.4.43)
इत्यादिन घशब्दे परतो ह्रस्वत्वं प्रसज्येत।
ननु च संज्ञाविधानसामर्थ्यात् संज्ञायाः स्वरूपग्रहणं न भवति, संज्ञा हि संज्ञिनः प्रत्यायनार्था क्रियते; यदि संज्ञाशब्दोऽपि स्वरूपं प्रत्याययेत् संज्ञाविधानमनर्थकं स्यात्, नैतदस्ति; संज्ञाविदानसामर्थ्याद्धि संज्ञिनं प्रत्याययेत्, परिभाषाविधानसामर्थ्याच्च स्वरूपम्। तस्मात् प्रतिषेधः कर्त्तव्यः ? न कर्त्तव्यः,
ज्ञापकात् संज्ञाशब्दो रूपस्य ग्राहको न भविष्यति। यदयं `ष्णान्ता षट्' (1.4.24)
इति षकारान्तायाः संख्यायाः षट्संज्ञां विदधाति,तज्ज्ञापयति- संज्ञाशब्दः स्वरूपस्य ग्राहको न भवतीति; अन्यथा हि `ष़ड्भ्यो लुक्' (7.1.22) इत्यत्र षट्शब्देन
 स्वरूपस्य प्रत्यायितत्वात् ततोऽपि लुग् भवतीति षकारन्तायायः संख्यायाः षडिति
संज्ञा न कुर्यात्। षट्शब्दो हि षकारान्ता संख्या, नान्या, सत्यमेतत्; तथापि येषां
ज्ञापकद्वारेणार्थप्रतिपत्तौ प्रतिपत्तिगौरवं स्यात्, तान् प्रतितत्परिहाराययाशब्द-
संज्ञेति प्रतिषेधः कृतः। शब्दग्रहणम्- व्याकरणे या संज्ञा तस्या एव प्रतिषेधो न
लौकिक्या इति प्रदर्शनार्थम्।
`सित्त्दविशेषाणाम्' इत्यादि। यत्र विशेषाणां ग्रहणमिष्यते तत्र सकार इत्संज्ञकः कर्त्तव्यः `वृक्षस्य,मृगस्'इति। `ततो वक्तवयः' इत्यादि। सिन्निर्देशं कृत्वा ततः प्रथमेऽध्यायेऽन्यत्र वा परिभाषेयं कर्त्तव्या-- सित्तद्विशेषाणामित्यादि। यस्य सकार इत्संज्ञकः, स तद्विशेषाणां वृक्षादिविशेणाणां खदिरादीनां प्रतिपादक इति वक्तव्यम्। एवं `पित्पर्यायवचनस्य च स्वाद्यर्थम्' (कात्या.वा.519) इत्यादावपि वेदितव्यम् न्यायादपि चैतत् प्रतिपाद्योऽर्थः सिध्यति। यथा सिध्यति तथा यथावससं पुरस्तात् प्रतिपादयिष्यामः सुखावबोधनार्थं सित्तद्विशेषाणामित्यादिग्रन्थोपन्यासः।।

69. अणुदित्सवर्णस्य चाप्रत्ययः। (1.1.69)
संज्ञासूत्रमिदम्, न परिभाषा। साहि नियमार्था भवति। न चाणुदितां सवर्णाना-
मन्येषांच ग्रहणं प्राप्तम्, येन सवर्णानामेव ग्रहणं भवतीति नियमः क्रियते- `परेण णकारेण प्रत्याहारग्रहणम्' इति। तेन ऋकारादयोऽपि सवर्णानां ग्राहकाः सिध्यन्तीत्यभिप्रायः। परेण च णकारेण प्रत्याहारग्रहणम् `अ इ उ ण्' इत्यत्र प्रतिपादितम्। पूर्वसूत्रात् `स्वं रूपम्' इत्येतदिहानुवर्त्तते। तच्चार्थाद्विभक्तिविपरिणामो भवतीति
षष्ठ्यन्तं सम्पद्यते। तेन स्वस्यापि रूपस्याण् गृह्यस्याण उदिच्च ग्राहको भवतीति
दर्शयन्नाह-- `स्वस्य च रूपस्य' इति। `आद्गुणः' इत्यादि। यथेह भवति देवेन्द्र इति,
तथा खट्वेन्द्र इत्यत्राप्याद्गुणो भवति। `अस्य च्वौ' (7.4.32) यथा पटीभवतीत्यत्रे-
त्वं भवति तथा मालीभवतीत्यत्रापि। `यस्येति च' (6.4.148)। यथा दिक्षिरित्यत्र लोपो भवति, तथा चौडिरित्यत्रापि। बाह्वादित्वाच्चूडाशब्ददिञ्। `स्वरानुनासिक्य' इत्यादि। उदात्तः सूत्रे गृह्यमाणः स्वरान्तरभिन्नस्यापि ग्राहको भवति। एवमनुदात्तः
स्वरितश्च। तथा सानुनासिको निरनुनासिकस्य, सोऽपि तस्य।
`दीर्घो न भवति' इति। यदि `अप्रत्ययः' इति प्रतिषेधो न स्यात् प्रत्ययोऽपि सवर्णानां ग्राहकः स्यात्। ततश्च दीर्घोऽपि स्यात्। ननु चात्यल्पमिदमुच्यते- `
अप्रत्ययः' इति, अप्रत्ययादेशटित्किन्मित इति वक्तव्यम्। प्रत्यये प्रत्युदाहृतम्। आदेशे--- `इदम इश्' (5.3.3), अस्मात्= इतः, `पञ्चम्यास्तसिल्' (5.3.7) इति
तसिल्, अस्मिन् = इह, `इदमो हः' (5.3.11)। अत्र हि सवर्णग्रहणे सति यद्यकृते
त्यदाद्यत्व इश्‌भावस्तदान्तरतम्यात् त्रिमात्र इकारः प्राप्नोति, अथ कृतेऽर्द्धच-
तुर्थमात्रः। यदि `अतो गुणे' (6.1.97) पररूपत्वेऽकृतेतदापि; अथ कृते ततोऽर्द्धतृ-तीयमात्रः। अथ वा- अर्द्धचतुर्थमात्रोऽर्द्धतृकतीयमात्रश्च नास्ति ततो द्विमात्र-
स्त्रिमात्रश्च स्यात। टित्-- `आर्धधातुकस्येड् वलादेः' (7.2.35), लविता, सवर्णग्रहणे सति दीर्घोऽपि स्यात्। कित् भुवो वुग् लुङलिटोः' (6.4.88) बभूव, अत्र सानुनासि-कोऽपि स्यात्। सन्ति हि यणः सानुनासिका निरनुनासिकाश्च। मित्-- `चतुरनुडुहोरामुदा-त्तः', (7.1.98) `अम् सम्बुद्धौ' (7.1.99), अनड्‌वन्-- अत्र दीर्घोऽपि स्यात्। तत् तर्ह्येवं वक्तव्यम् ? न वक्तव्यम्; चकारोऽत्र क्रियते, सोऽनुक्तप्रतिषेधसमुच्च-
यार्थो भविष्यति। तेन येषामादेशादीनां ग्राहकत्वं नेष्यते ते सवर्णानां ग्राहका न
भविष्यन्ति।
अन्ये त्वाहुः- "`अप्रत्यः' इति नेह संज्ञाग्रहणम्, किं तर्हि ? अन्वर्थग्रहणम्। प्रतीयते विधीयते=उत्पाद्यत इति प्रत्ययः। तेनाप्रत्यय इत्यस्यायमर्थो भवति--`भाव्यमानोऽण् सवर्णान् न गृह्णाति (व्या.प35)इति। हशादयोऽपि भाव्यन्ते= उत्पाद्यन्त इति तेऽपि प्रत्ययाः, तेन ते सवर्णानां ग्राहका न भवन्ति" इति। चैश्चकारस्य
प्रयोजनं वक्तव्यम्। `स्वं रूपम्' इत्यस्यानुकर्षणं तस्य प्रयोजनमिति चेत्, न; चानुकृष्टत्वादुत्तरत्र तदनुवृत्तिर्न स्यात्। न चैतत्प्रयोजनमुपपद्यते; स्वरितत्वादेवानुवृत्तिसिद्धेः।
अथ मतम्-- `प्रथमान्तं स्वमित्येतत्प्रकृतं षष्ठीनिर्दिष्टेन चेहार्थः, तस्माच्चकाररे कृते यत्नात् षष्ठ्यन्तता तस्य यथा स्यादित्येवमर्थश्चकारः' इति, एतदपि नास्ति; अर्थादेव हि विभ्कतिविपरिणामसिद्धेः।।


70. तपरस्तत्कालस्य। (1.1.70)
तःपरो यस्मात् सोऽयं तपर इति बहुव्रीहिं दर्शयति, तादपि परस्तपर इति पञ्च-मीतत्पुरुषं च। स पुनः पञ्चमीति योगविभागात् समास इति वेदितव्यः। कथं पुनरेतत् समासद्वयं लभ्यते, यावतैकस्परशब्दः ? एकस्याप्यावृत्त्या द्विधा भेदो भविष्यतीत्यदोषः। अत्र हि बहुव्रीहेर्लिङ्गम्--`अतो भिस ऐस्' (7.1.9) इति तपरकरणम्। न ह्यत्र पञ्चमी
तत्पुरुष उपपद्यते। अवर्णो ह्यत्र तपरोऽभिमतः, न भिस्। यदि चेह पञ्चमीतत्पुरुषः
स्यात्, तर्हि भिस् तपरः स्यात्; यतस्तपरो वर्ण इहोच्यते, न चासौ वर्णः, किं तर्हि ? तत्समुदायः। पञ्चमीतत्पुरुषे तु लिङ्गम्--`वृद्धिरादैच्' (1.1.1) इति तपरकरणम्।
न ह्यत्र बहुव्रीहिर्युज्यते। यदि बहुव्रीहिः स्यात् तदाऽऽकारस्य तपरत्वं स्यात्,न चाऽऽकारार्थं तपरकरणम्‌, अपि त्वैजर्थम्. एतच्च तत्रैव प्रतिपादितम्।
सवर्णस्येति वर्त्तते, वर्णस्य च सवर्णो न भवति, ननु वर्णसमुदायस्य; तस्मादविशेषाभिधानेऽपि वर्ण एव तपरो विज्ञायत इत्याह-- `तपरो वर्णः' इति। तत्कालस्येति बहुव्रीहिः-- स कालोऽस्येति। अयुक्तोऽयं निर्देशः। तथा हि -- तच्छब्देन तपरः परामृश्यते, तपरश्च वर्णः। कालस्तु क्रियाविशेष इष्यते। तथा ह्युक्तम्---
आदित्यग्रहनक्षत्रपरिस्पन्दमथापरे।
भिन्नमावृत्तिभेदेन कालं कालविदो विदुः।। (वा.प.3.9.76) इति।
तत् कुतो वर्णक्रियाविशेषाभिधायिनोस्तपरकालशब्दयोः सामानाधिकरण्यम् ? एवं
तत्काल इव कालो यस्य स तत्काल इति। अस्यार्थं दर्शयितुमाह-- `आत्मना' इत्यादि।
यद्यपि तपरकरणसन्निधानादिहात्मशब्दस्य तत्र वृत्तिर्युक्ता; तथापीह साहचर्यात् तत्सहचरितायामुच्चारणक्रियायां कालाख्यायां स वर्त्तते। कुत एतत् ? तपरेण वर्णेन क्रियायास्तुल्यत्वानुपपत्तेः। सम्भवति साहचर्यात् ताच्छब्द्यम्। तदेतदुक्तं भवति- तपर-
वर्णसहचरितया क्रियया तुल्यकालस्येति यादृशी तपरवर्णस्योच्चारणक्रिया तादृगुच्चारण-
क्रिया यस्येति यावत्। `गुणान्तरयुक्तस्य' इति। यन गुणेन धर्माख्येनोदात्तादिना
विशिष्ट उच्चारितस्ततोऽन्यैरुदात्तादिभिर्गुणैः सम्बद्धस्येत्यर्थः।
`स्वस्य च रूपस्य' इति। इहापि तदनुवृत्तेः। इहेदं सूत्रं नियमार्थं वा स्यात् ? विध्यर्थं वा ? यद्यणित्यनुवर्त्तते,ततः पूर्वेणैव `सिद्धे सत्यारम्भो नियमा-
र्थो भवति'--- (कात्य.प.62)तपरोऽण् तत्कालस्यैव ग्राहको भवति, नान्यस्येति।
अथाणिति निवृत्तम्, ततो विध्यर्थम्।
तत्राद्ये पक्षे `विड्वनोरनुनासिकस्यात्' (6.4.41) इत्याकारो दीर्घस्तपरो
निरनुनासिकः सूत्र उपात्तः `भेदका गुणाः' इत्यस्मिन् दर्शने सानुनासिकस्य ग्राहको न स्यात्; अनण्त्वात्। ततश्च निरनुनासिक एवादेशः स्यात्। इतरत्र तु पक्षे सत्यपि भेदकत्वे गुणानामेष दोषो न भवतीति मन्यमानो द्वितीयं पक्षमाश्रित्याह-- `विध्यर्थमिदम्' इति। कथं विध्यर्थमित्याह-- `अणिति नानुवर्त्तते' इति। `अणामन्येषां च ' इत्यादि। युक्तं यदन्येषामेव तपराणां ग्रहणकशास्त्रमिति तेषां पूर्वेण ग्रहणस्यासिद्धत्वात्। अणां तु पूर्वेणैव सिद्धे ग्राहकत्वे कथममित्यत आह--- `अतो भिस ऐस्' इत्यादि।
स्यादेतत्, इहापि तत् प्रवृत्तमेवानवकाशत्वादित्यत आह-- `अत पराः' इत्यादि।`आद्गुणः' (1.3.87) इत्यादावतपरा अणोऽवकाशः।अस्य त्वनणस्तपरा दीर्घाः। यथा `विड्-
वनोरनुनासिकस्यात्' (1.4.41)इति। ये त्वणस्तपराः, तेषूभयप्राप्तौ परत्वादिदमेव ग्रहणकशास्त्रं प्रवर्त्तत इत्यभिप्रायः।
`वृक्षै प्लक्षैः' इति। तृतीयाबहुवचनं भिस्।`अतो बिस ऐस्' ((7.1.9)
इत्यैसादेशः; वृद्धिरेचि' (6.1.88) इति वृद्धिः। `अब्जाः गोजाः' इति। `जनी प्रादु-
र्भावे' (धा.पा.1149) अप्सु जायते, गोषु जायत इति-- `दजनसनकखनक्रमगमो विट्' (3.2.6)।
`खट्वाभिः' इति। कतं पुनरेतत् प्रत्युदाहरणम्, यावता `अन्तादिवच्च' (6.1.85) इत्यन्तादिवद्भावे भवितव्यमेवात्रैस्भावेन, तपरकरणस्य तु य्तरैकादेशो नास्ति
तद्‌वयवच्छेद्यं भविष्यति-- `कीलालपाभिः, सोमपाभिः' इत्यादि ? नैष दोषः;
अन्तदिवच्च' (6.1.85) इत्यत्र वक्ष्यति--- `वर्णाश्रयविधावन्तादिवद्भावो नेष्यते'
इति। तथा हि-- खट्वाभिरितद्यत्रान्तवद्भावाभावात् `अतो भिस ऐस्' (7.1.9) न भवतीति।
अथ वा -- `अतः' इत्यत्राकारद्वयप्रश्लेषः कृतः, श्रूयमाणादतो यथा स्यात्।

71.आदिरन्त्येन सहेता। (1.1.71)
स्वरूपविधिपरिहारायारम्भः।इदमपि संज्ञासूत्रम्। अनादिभूत वस्त्वपेक्ष्य तत्पूर्ववस्तुन आदित्वं न भवति, अन्त्यभूतं वस्त्वपेक्ष्य ततः परस्यान्त्यत्वम्। न
चेहाद्यन्तयोः परस्परापेक्षे आद्यन्तत्वे युज्येते। एवं हि सति वस्त्वन्तरस्य
संज्ञिनो भावादादिरन्त्येन सहितः स्वर्यैव संज्ञा स्यात्। ततश्च `स्वं रूपम्' (1.1.68) इत्येतस्येहानुवृत्तये स्वरितत्वासङ्गो वृता स्यात्। तस्मादाद्यन्तशब्दाभ्यां
सामर्थ्यादाद्यन्तव्यतिरेकेण तन्मध्यपाति वस्तु संज्ञित्वेनाक्षिप्तमिति मत्वाह-- `तन्मध्यपतितानाम्' इति। जाताविदं बहुवचनम्; अन्यथा ह्येङ शब्द ओकारस्य संज्ञा न
स्यात्।
ननु चाद्यन्तशब्दाभ्यां नियतदेशावयवावभिधीयते, अवयवाश्चावयविनः समुदाय-
रूपस्य सम्बन्धिन इति सम्बन्धिशब्दत्वादाद्यन्तशब्दाभ्यां तस्यैव संज्ञित्वेना-
क्षेपो युक्तः। अकत एवं वक्तव्यम्-- `तन्मध्यपतितानां समुदायस्य' इति। एवं मन्यते-- यदयम् `तस्मादित्युत्तरस्य' (1.1.67)इत्यादौ वर्णानां समुदाये परतो यकारं यणादेशं कृत्वा निर्देशं करोति, ततो गम्यते-- न वर्णसमुदायः संज्ञीति, किं तर्हि ?
प्रत्येकं वर्णा एवेति; अन्यथा वर्णसमुदाये संज्ञिनि परतो वर्णमालां यणादेशं कृत्वा निर्देशं कुर्यादिति। असम्भवात् स न कृत इति चेत्, न; वर्णमालात्मन आदेशस्य सम्भवात्। तर्हि समुदाये संज्ञिनि कार्यमेव न सम्भवतीति चेत्, यदि च समुदाये परतः
कार्यं न सम्भवति वर्णा एव प्रत्येकं सन्तु संज्ञिनः; तत्र कार्यं सम्भवति, किं समुदायेन ? `टा' इत्यनेन ग्रहणं मा भूदिति। ननु च सोऽपि तावतोऽवधेरन्त एव, न;
तावतोऽवधेरविवक्षितत्वात्। टकारो ह्ययम् `टाङसिङसामिनात्स्याः' (7.1.12) `द्वितीयाटौस्त्वेनः' (2.4.34) इत्यत्र तृतीयैकवचनस्य विशेषणार्थः, न तु प्रत्याहारार्थः।
अथादिग्रहणं किमर्थम् ? अन्त्येन सह समुदाय एव संज्ञा मा भूदिति, नैतदस्ति; `आवृत्तिधर्माणो हि संज्ञाशब्दा भवन्ति'। आदिरेव प्रदेशवाक्येष्वावर्त्तते, न
समुदायः; तस्मादन्तरेणाप्यादिग्रहणं सामर्थ्यादादेरेवान्त्यसहितस्य संज्ञात्वं
विज्ञायते, न समुदायस्य। एवं तर्हि सामर्थ्यलब्धस्यैवार्थस्य विस्पष्टीकरणार्थमादि-
ग्रहणम्।
अथ सहग्रहणं किमर्थम्, यावता तृतीययैव सहार्थो गम्यते, यथा-- `वृद्धो यूना' (1.2.65) इत्यत्र ? नैतदेवम्; इत्थम्भूतलक्षणेऽपि तृतीयाऽस्ति। तस्यां च सत्यामादिरेवान्त्येनेत्संज्ञकेनोपलक्षितः संज्ञा स्यात्। ततश्च प्रदेशेष्वक इति, इक इति, अचि इति च समुदायाद्विभक्तिर्न स्यात्, निरर्थकत्वेनाप्रातिपदिक्तवात्। `सह' ग्रहणात् तु सहभूता संज्ञेति समुदायस्य संज्ञात्वेनार्थत्त्वात् प्रातिपदिकत्वे सति
विभक्तिर्लभ्यते।
इद्ग्रहणं तु `अचि' इत्यत्रानित्संज्ञकेन `चटतव' इत्यनेन चकारेण संज्ञा मा भूदित्येवमर्थम्। अन्त्यत्वं तस्य पूर्ववत्, न समुदायापेक्षया। एवं तर्हि
`हलन्त्यम्' (1.3.3) इतीत्संज्ञा प्राप्नोति, तदर्थं `न विभक्तौ तुस्माः' (1.3.4)
इत्यत्र नेति योगविभागः कर्त्तव्यः।

72. येनविधिस्तदन्तस्य। (1.1.72)
`स्वं रूपं शब्दस्येत्यस्यायमपवादः'। इदमपि संज्ञासूत्रम्। न तु परिभाषा। न ह्यत्र नियमरूपता परिभाषाधर्मो विद्यते। `येन' इति करमए तृतीया। विधीयते = अपूर्व
एव क्रियते इति विधिः कर्मसाधनः; उपसर्गे घोः किः' (3.3.92) इति किप्रत्ययान्तः।
तदन्तस्य' इति। सोऽन्तोऽस्येति बहुव्रीहिः। तदित्यनेन स एव करणभूतः शब्दः प्रत्यवमृश्यते। अनतशब्दोऽयमवयववाची, अवयवश्च समुदायस्य भवति। अतश्च तस्यैवेयं
संज्ञा विज्ञायत इत्याह--- `समुदायस्य संज्ञा भवति' इति।
`अवश्यलाव्यम्' इति। `अवश्यपाव्यम्' इति। `लूञ् छेदने' (धा.पा.1484),
`पूञ् पवने' (धा.पा.1483) वृद्धौ कृतायाम् `वान्तो यि प्रत्यये' (6.1.79) इत्यावादेशः, मयूरव्यंसकादित्वात् समासः; `लुम्पेदवश्यमः कृत्येः' (काशिका.6.1.144) इति मकारलोपः।
अथेह कस्मादेजन्तस् संज्ञा न सम्भवति, `एचोऽयवायावः' (6.1.78) इति ? किञ्चस्यात् ? `चयनं चायको लवनं लावकः' इत्यत्रानेकाल्त्वादयादयः सर्वादेशाः स्युः, नैष दोषः; `निर्दिश्यमानस्यादेशा भवन्ति' (व्या.प.106) इत्येच एव भविष्यन्ति, न सर्वस्यतदन्तस्य। अथ वा-- अस्य योगस्यैवं विधो विषय एव न भवति, ततो नायमिह प्रवर्तते। तथा हि येनेति करणे तृतीयेत्युक्तम्, न चाकर्तृकं करणमस्तीति कर्त्ताप्याश्रितः। स

पुनरिह सम्बन्धिशब्दत्वादन्तशब्देनावयववाचिना सन्निधापितः समुदायो विज्ञाप्यते। प्रकृतत्वात् स्वरूपं च कर्ता च त्रिभिः प्रकारैः सन्निहितो भवति। क्वचिन्निर्देशात्-- `ईदूदेद्‌द्विचनम्' (1.1.11) इति, अत्र द्विवचनं कर्तृभूतं निर्दिष्टम्। तथा
हीदादिभिः करणैः प्रगृह्यसंज्ञां विदधाति। क्वचित् प्रकरणात्--यथा `एरच्' (3.3.56) इति, अत्र `धातोः' (3.1.91) इत्यधिकाराद्‌धातुः प्रकरणात् कर्त्ता सन्निहितः। स इकारेण करणेनाचं विदधाति। क्वचिच् सामर्थ्यात्-- यथा `इको झल्' (1.2.9)
इति, अत्र धातोरेव सन् विधीयते, नान्यसमादिति सामर्थ्याद्धातुः कर्ता सन्निहितः; स
इका करणेन सनः कित्त्वं विदधाति। तदेवम्, `ईदूदेद्‌द्विवचम्' (1.1.11) इत्यादौ
कर्तृकरणयोरुभयोरपि विद्यमानत्वात् सोऽस्य सूत्रस्य विषय इति तत्र तदन्तविधिर्भवति। `एचोऽयवायावः' (6.1.78) इत्यत्र तु न केनचित् कर्त्ता सन्निहितः प्रकारेण, न
चाकर्तृकं करणं सम्भवति;तस्मात् कर्तृकरणयोरुभयोरप्यसन्निहितत्वाननायमस्य सूत्रस्य विषय इति न सम्भवति तदन्तविधिः।
`वक्तव्यः' इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यायम्-- `द्वितीया श्रित' 2.1.24) इत्यादौ सुपा श्रितादयो विशिष्यन्ते,न श्रितादिभिः सुप्। विशेषणेन च
तदन्तविधिः, न विशेष्येण। यस्मादयेनेति करणे तृतीया, करणं च परतन्त्रं परार्थं भवति, न विशेष्यम्, तस्माद्विशिष्टैः श्रितादिभिस्तदन्तविधिर्न भवति। `नडादिभ्यः फक्'
इति। अत्रापि प्रकृतेन प्रातिपदिकेन नडादयो विशिष्यन्ते, न नडादिभिः प्रातिपदिकम्
अतोऽत्रापि नास्ति तदन्तविधिरिति।
`उगिद्वर्णग्रहणवर्जम्' इति। उगिता वर्णेन च प्रातिपदिकं विशिष्यते।
विशेषणेन च तदन्तविधिर्भवत्येव।
`यस्मिन् विधिः' इत्यादि। तदन्तविधौ प्राप्ते तदादिविधिरुच्यते। यस्मिन्नि-
ति सप्तमीनिर्दिष्टे तदादिविधिं दर्शयति। यत्राल्ग्रहणे सप्तमीनिर्दिष्टे पूर्वस्य विधिस्तत्र तदादौ वेदितव्यः। अलादावित्यर्थः। यदि तर्हि तत्रापि तदन्तिविधिः स्यात्, इहैव स्यात्-- श्रियाविति,इह तु न स्यात्-- `श्रियः' इति ? तदादिविधौ तु
सतीहापि भवति, स्वस्य च रूपस्येति श्रियावित्यत्रापि भवत्येव।

73.वृद्धिर्यस्याचामादिस्तद्‌वृद्धम्। (1.1.73)
`यस्येति समुदाय उच्यते' अचां मध्ये यस्यादिर्वृद्धिसंज्ञकस्तस्यैव शब्दरूपस्य संज्ञा विधीयते। तच्च नियोगतः समुदायात्मकमेवेति सामर्थ्याद् यस्येति सामान्यप-देनापि समुदाय एवाभिधीयते। संज्ञिनिर्देशार्थं यस्येति वचनम्। अचां मध्य इत्यादिना वृद्धिसंज्ञिनः समुदायादेकदेशस्य निर्धारणं दर्शयन्नचामित्यस्य निर्धारणषष्ठीत्वं
दर्शयति। आदिशब्दस्त्विहोपक्रमे वर्त्तते, उपक्रमम्यते इत्युपक्रमः, प्रथमत उच्चारित इत्यर्थः। अचामिति बहुवचननिर्देशाद् यस् बहूनामचां मध्ये वृद्धिसंज्ञक आदिभूतः,
तस्यैव वृद्धसंज्ञया भवितव्यम्; न तु यस्य द्वयोर्मध्ये इति चोद्यमपाकर्तुमाह--
`अचाम्' इत्यादि।
यदि तर्ह्यचामिति निर्धारणषष्ठीयम्, एवं सति समानजातीयस्यैव निर्धारणं भवतीत्यचां मध्ये वृद्धिकोऽजेव यथा स्यादित्येषोऽर्थः स्यात्। तथा च सत्याकारो
यस्यादिस्तस्य संज्ञा न स्यादाश्वलायन इत्यादेः, न ह्याकारस्य मुख्यमच्त्वमस्ति;
अक्ष्वसन्निवेशात्। उपचरितं तु स्यात् ; `अणुदित्सवर्णस्य चाप्रत्ययः' (1.1.69)
इत्येनेनानचोऽपि सतोऽच्कार्यकरणात्। न च मुक्ये सति गौणस्याश्रयणं युक्तम्, गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययात्, नैष दोषः; व्याप्तेर्न्यायादाकारस्यापि गौणमच्त्वमाश्रित्य भविष्यति,अन्यथा ह्यैज्ग्रहणमेव कुर्यात्, न वृद्धिग्रहणम्। `शालीयः,
मालीयः, इत्यादि। अत्र वृद्धसंज्ञायां सत्याम् `वृद्धाच्छः' श्(4.2.114) इति च्छो भवति।
ननु च शालामालाशब्दयोः कापटुशब्दस्य च संज्ञया न भवितव्यम्, न ह्येषां
वृद्धिसंज्ञक आदिः,किं तर्हि ? हल्,नैतदेवम्; विद्यमानोऽपि ह्यत्र हल् नापेक्ष्यते,अजपेक्षस्यादित्वस्याश्रयणात्। एतदेव ह्यज्ग्रहणस्य प्रयोजनम्। कतं नाम तदपेक्ष-
यादित्वं विज्ञायेतेति ? अन्यथा तत्र कर्तव्यमेव स्यात्। अज्ग्रहणे क्रियमाणे सत्यमर्थो भवति। अचां मध्ये यस्य यो वृद्धिसंज्ञकोऽजेवादिभूत इति। अन्येभ्योऽज्भ्यो
यस्य वृद्धिसंज्ञकः प्रागुच्चार्यत इति यावत्। तेन शालाशब्दादेरपि संज्ञा सिध्यति।
`साभासन्नयनः' इति। अत्र वृद्धिसंज्ञाभावादणेव भवति, न तु च्छः। यदि पुनरा-दिग्रहणं न क्रियेत ततो यस्याप्यचां मध्ये वृद्धिसंज्ञकः कश्चित् सभासन्नयनादेस्त-
स्याप्येषा संज्ञा स्यात्। अत्र यद्यपि वृद्धिशब्दः श्रूयते, तथापि तल्लिङ्गकपरि-
भाषा नोपतिष्ठते। यसमाद् यत्र नियतस्थानिके गुणवृद्धी विधीयते तत्र स्थानिनियमार्थासा व्याप्रियते। एतच्च प्रागेवोक्तम्. न चेह गुणवृद्ध्योर्विधानम्, अतो नात्र
व्यापारस्तस्याः। तेन यस्याप्यनियतस्थानिको वृद्धिसंज्ञक आदिभूतः, तस्यापि संज्ञा
सिद्धा भवति। `वा नामधेयस्य' इत्यादि। ये पुरुषैर्व्यवहाराय संकीर्त्यमानाः शब्दा
देवदत्त इत्येवमादयः, तेषामेषा संज्ञा वेदितव्या। तेष्वेव नामधेयशब्दो रूढः,न तु ये जात्यादिनिमित्तका गवादिशब्दा अनादिव्यवहारान्तः पातिनस्तेषु। ननु च
काश्यादिपाठात् `काश्यादिभ्यः' (4.2.116) ठञ्‌ञिठाभ्यां भवितव्यम्, तदयुक्तं
देवदत्तीय इति च्छप्रत्ययान्तस्योदाहरणम्, नैष दोषः; यो हि देवैदत्तो देवदत्त इति
क्रियानिमित्तको देवदत्तशब्दः, तस्यैव तत्र पाठः,न संज्ञाशब्दस्य। तेन संज्ञाभूताद्देवदत्त शब्दाद् यदा वृद्धसंज्ञा तदा छो भवति,अन्यथा त्वण्। `गोत्रान्तात्' इत्यादि। तथाऽसमस्तात्त केवलाद्‌गोत्रप्रत्ययान्ताद् वृद्धाच्छप्रत्ययो भवति तथा समस्ताद-वृद्धादपि। `घृतरौढिः' इति। `समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपद-लोपश्च' (वा.83) इति समासः। एवमुत्तर रूढस्यापत्यम्, पाणिनस्यापत्यम्-- `अत इञ्'
(4.1.95) इतीञ्। बाह्वादिषु `सम्भूयोऽम्भसः सलोपश्च' (ग.सू.66) इति पठ्यते।
काश्यपशब्दो बिदादित्वादञन्तः। `जैह्वाकाताः, हारितकाताः' इति। कात्यशब्दो गर्गादियञन्तः। जिह्वाचपलः कात्यः, जिह्वाकात्यः। हरितभक्षः कात्यः हरितकात्यः, ताभ्यामौत्सर्गिक एवाण्, `यस्येति च' (6.4.148)इत्यकारस्य लोपः; `आपत्यस्य च तद्धितेऽनाति'
(6.4.151) इति यकारस्य।।

74. त्यदादीनि च। (1.1.74)
`उत्तरार्थम्' इति। उत्तरसूत्रेऽस्य प्रयोजनवत्त्वात् यद्यनुवर्त्तते,एतद-र्थमपि कस्मान्न भवतीत्याह-- `इह न सम्बध्यते' इति। यदीहापि सम्बध्येत तदायमर्थः
स्यात्--- `त्यदादीनि यस्याचामादिभूतानि तद्‌वद्धम्' इति। ततश्च त्वत्पुत्र इत्यादावेव स्यात्, केवालानां च त्यदादीनां न स्यादित्यभिप्रायः। ननु च त्वत्पुत्रो
मत्पुत्र इत्यादावुपसर्जनानि त्यदादीनि, उपसर्जनानां च तेषां त्यदादित्वं
निवर्तितम्, तत् कुतोऽयं प्रसङ्गः ? यदि यस्याचामादेरित्येतदिह सम्बध्यते तदा
सत्युपसर्जनत्वे वचनात् त्यदादावेव संज्ञा स्यात्, न केवलानामिति मन्यते; कथं
पुनरिहानुवर्तमानं शक्यमसम्बन्धुम् ? स्वसम्ब्नधानुवृत्तेः। `वृद्धिर्यस्याचामादिस्तद्‌वृद्धम्' (1.1.73) इति त्यदादीनि च वृद्धिसंज्ञकानि भवन्ति। `वृद्धिर्यस्याचामादिस्तद्‌वृद्धम्' इति तद्‌वृद्धम्, `एङ प्राचां देशे' (1.1.75) यस्याचामादिग्रहणमनुवर्त्तते। वृद्धिग्रहणं निवृत्तम्. एवं वृद्धिग्रहणं निवृत्तम्। एवं वृद्धिशब्देन
सम्बन्धमनुवर्त्तमानं न शक्यते त्यदादिभिः सम्बन्धुम्। `त्वादायनिः, मादायनिः' इति। `उदीचां वृद्धादगोत्रात्' (4.1.157) इति फिञ्‌, `प्रत्ययोत्तरपदयोश्च' (7.2.97)
इति युष्मदस्मदोस्त्वामादेशौ। चकारोऽनुक्तसमुच्चयार्थः। तेन `वा नामधेयस्य' (वा.15) इत्यादि वक्तव्यं न भवति।।
 
75. एङ् प्राचां देशे। (1.1.75)
`प्राचां देशाभिधाने' इति। प्राचां सम्बन्धी यो देशस्तदभिधान इत्यर्थः।
एतेन प्राचामिति देशविशेषणं न विकल्पार्थमिति दर्शयति। प्राचां मतेनेत्यस्याविवक्षितत्वादित्याख्यातं भवति।
`एणीपचनीयः' इत्यादि। एणीपचन इत्यादिभ्यच्छः। `आहिच्छत्रः' इति,
`कान्यकुब्जः' इति अहिच्छत्रकान्यकुब्जशब्दाभ्यामणेव भवति। `देवदत्तः' इति। वृद्धा-धिकारे विहितो `वाहीकग्रामेभ्यश्च' (4.2.117) इति ठञ्‌ञिठौ न भवतः, काश्यपादि-
पाठादपि तौ न भवतः; क्रियानिमित्तको हि देवदत्तशब्दस्तत्र पठ्यते संज्ञाशब्दस्य
चेदं प्रत्युदाहरणम्। एतच्च यदा `वा नामधेयस्य' (वा. 15) इति वृद्धसंज्ञा नास्ति;
तदा वेदितव्यम्। `गौमताः'इति। अत्र सर्वमस्ति न तु देशाभिधानम्। तथा हि गोमती नदी प्रग्देशे, न देशः। न हि नदी देशग्रहणेन गृह्यते;`नदीदेशोऽग्रामाः' (2.4.7)
इत्यत्र नद्याः पृथग्ग्रहणात्।
`एङ् प्राचां देशे' इति। `उदीचां वृद्धादगोत्रात्' (4.1.157) इत्येवमादिषु प्रागुदञ्चौ श्रूयेते, तयोश्च विभागो न विज्ञायते। अतस्तत्परिज्ञानायाह-- `
प्रागुदञ्चौ' इत्यादि। शरावती नाम नदी , तस्याः पूर्वेण व्यवस्थितो देशः प्राग्देशः, उत्तरेण उदग्देशः। तौ शरावती विभजते = विभागेन व्यवस्थापयति तस्यां हि मर्यादायां सत्यां तयोर्विभागः परिज्ञायते। किमर्थं विभजते ? `विदुषां शब्दसिद्ध्यर्थम्'
इति। पण्‍डितानां वैयाकरणानां शब्दव्युत्पत्त्यर्थम्। कतं विभजते ? `हंसः क्षीरोदकं यथा'। क्षीरोदकमिति `जातिरप्राणिनाम्' (2.4.6) इत्येकवद्भावः। क्वचित् क्षीरोदके
इति पाठः। सः `सर्वो द्वन्द्वो विभाषयैकवद्भवति' (व्या.प.91) इति वेदितव्यः। यथा
हंसः क्षीरमुदकं च मिश्रीभावमुपगतं पृथगसङ्करेण व्यवस्थापयति, तथा शरावती प्रागुदञ्चौ। यत्-तदोर्नित्याभिसम्बन्दात् सेति वचनादनुक्तमपि येत्येतल्लभ्यते। या विभजते सा नोऽस्मान् पातु रक्षतु। प्रसिद्धस्तु पाठो यत्र श्लोके प्रागुदीचाविति, तत्राऽचः `उद ईत्' (6.4.139) इति भसंज्ञकस्योच्यमानः कथमीकारः ? कथं च `उगिदचां
सर्वनामस्थानेऽधातोः' (7.1.70) इति नुम न भवतीति चिन्त्यम्। अत्र वर्णयन्ति--
`अच्प्रत्यन्ववपूर्वात् सामलोम्नः' (5.4.75) इत्यत्राजितियोगविभागेनाच्प्रत्ययः
कृतः, तेनात्राचि परतो भसंज्ञामीत्वं भवति। नुम् न भवति; अचा सर्वनामस्थानस्य
व्यवहितत्वादिति।
अनये तु प्रागुदीचमिति समाहारे कुर्वन्ति। तेषां `द्वन्द्वाच्चुदषहान्तात् समाहारे' (5.4.106) इति टचि समासान्ते कृते पूर्ववदीकारो नुमभावश्च भवति।
क्वचित्तु प्रागुदीच इति पाटः। तत्रावयवदेशापेक्षया बहुत्वविवक्षायां बहुवचनम्।
प्राग्देशानुदग्देशाश्च विभजत इत्यर्थः।
श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धपादविरचितायां
काशिकाविवरणपञ्जिकायां

प्रथमाध्यायस्य
प्रथमः पादः
------------