काशिकाविवरणपञ्जिका/सप्तमोऽध्यायः/चतुर्थः पादः
← तृतीयः पादः | काशिकाविवरणपञ्जिका चतुर्थः पादः [[लेखकः :|]] |
अथ सप्तमोऽध्यायः
चतुर्थः पादः
1. णौ चड्युपधाया ह्वस्वः। (7.4.1)
`चङ्परे णौ परतः' इति। चङ् परो यस्माण्णेरिति स तथोक्तः। `अचीकरत्' इत्यादि। कृञ्, हृञ्, लूञ्, पञित्येतेभ्यो हेतुमण्णिच्, ततो लुङ्, च्लिः,`णिश्रि' (3.1.48) इत्यादिना च्लेश्चङ्, `णेरनिटि' (6.4.51) इति णिलोपः। अत्र द्विर्वचनोपधाह्रस्वत्वयोः प्राप्तयोः परत्वादुपधाह्रस्वत्वम्, ततो द्विर्वचनम्, ततश्च णौ कृतं सथानिवद्भवतीति कृ, हृ--इत्यादिकमविकृतधातुरूपमेव द्विरुच्यते। अत्र कृ, हृ--इत्येतयोरभ्यासस्य `उरत्' (7.4.66) इत्यत्त्वे कृते रपरत्वे हलादिशेषे च ततश्च `सब्वल्लधुनि' (7.4.93) इत्यादिना सन्वद्भावादित्त्वम्। पू, लू--इत्येतयोरपि ह्रस्वत्वे कृते `ओः पुयण्ज्यपरे' (7.4.80) इतीत्त्वम्। सर्वत्र `दीर्घो लघोः' (7.4.94) इति दीर्घत्वम्। `अत्र द्विर्वचनोपधाह्रस्वत्वयोः प्राप्तयोः' इत्यादि। अचीकरवित्यादिषूदाहरणेषु कृताकृतप्रसङ्गित्वाद्द्विर्वचनं नित्यमुपधाह्रस्वत्वमपि, तयोरुभयोः परत्वादुपधाह्रस्वत्वं भवति, तत्र कृते द्विर्वचनम्--इत्येष कार्याणां प्रवृत्तिक्रमः। मा भवानटिटदित्यत्र तु द्विर्वचनमेव नित्यम्, न ह्रस्वत्वं तु द्वितीयस्यै काचो द्विर्वचने कृते न प्राप्नोति; परेण टिशब्दरूपेण व्यवधानात्। तस्मान्मा भवानटिटदित्यत्र नित्यत्वाद्द्वितीयस्यैकाचो द्विर्वचनं प्रप्नोति। द्विर्वचने हि सति को दोषः स्यात्? इत्यत आह--`तथा च सति' इत्यादि। एवञ्च द्विर्वचने कृते चङ्परे णौ यदङ्गं तस्य ह्रस्वभाव्याकार उपधा भवति। असति च ह्रस्वत्वे मा भवानटिटदिति रूपं न सिध्यति। मायोग आण्निवृत्त्यर्थः। आटि तु सति नास्ति विशेषः। सत्यसति वा ह्रस्वत्वे `आटश्च' (6.1.90) इति वृद्ध्या भवितव्यमिति। भवच्छब्दः सन्देहनिरासार्थः। `नैष दोषः' इति। योऽनन्तरोक्तः स कथं लभ्यते? इत्याह--`ओणेॠदित्करणम्' इत्यादि। `ओणृ अपनयने' (धा.पा.454) इत्येतस्य ऋदित्करणस्यैतत्प्रयोजनम्--ऋदित्त्वान्नाग्लोपि (7.4.2) इत्यादिना ह्रस्वप्रतिषेधो यथा स्यादिति। यदि च नित्यमपि द्विर्वचनमुपधाह्रस्वत्वेन न बाध्यते, तदौणैॠदित्करणमनर्थकं स्यात्। द्विर्वचने हि कृते परेण णिशब्दरूपेण व्यवधानादेव ह्रस्वो न भविष्यति, किमोणेॠदित्करणेनेति? आचार्यप्रवृत्तिर्ज्ञापयति--नित्यमपि द्विर्वचनमुपधाह्रस्वत्वेन बाध्यत इति; यत ओणेॠदत्करणं करोति।
`णाविति किम्' इति। एवं मन्यते--णिग्रहणे चाकृते लुङ्चङादेशयोः कृतयोर्णिलोपे चाकृते वृद्ध्यावादेशयोश्चाकृतयोः, अलू इ+अत् इति स्थित ऊकरस्य ह्रस्वो मा भूदत्येवमर्थं वा णिग्रहणं क्रियते? ऊकारस्य वृद्धौ कृतायामौकारसय ह्रस्वो मा भूदित्येवमर्थं वा? एतच्चोभयमप्रयोजनम्; अत्रान्तरङ्गत्वाद्वृद्ध्यावादेशाभ्यामेव भवितव्यम्। अन्तरङ्गत्वं पुनस्तयोर्णिज्मात्राश्रयत्वात्; ह्रस्वस्य च बहिरङ्गत्वं चङाश्रयत्वादिति। `चङ्युपधाया ह्रस्व इत्युच्यमाने' इत्यादि। एतावत्युच्यमानेऽसति णिग्रहणे चङ्परे यदङ्गं तस्योपधाया ह्रस्वो भवतीत्येवमर्थः स्यात्। तथा चानवकाशो ह्रस्वोऽलीलवदित्यत्रान्तरङ्गामपि वृद्धिं बाधित्वा वचनसामर्थ्यादृकारस्यैव स्यात्। अथापि कथञ्चिद् वृद्धिर्न बाध्यते; एवमपि वृद्धौ कृतायामन्तरङ्गमप्यावादेशं बाधित्वौकारस्यैव प्रसज्येत; अन्यथा हि वचनमिदमनर्थकं स्यात्। `अदीदपत्' इति। अत्र ददातेर्णिचि लुङि चङि च कृते अ दा इ+अत् इति स्थिते वचनप्रामाण्यादनवकाशो ह्रस्वोऽन्तरङ्गमपि पुकं बाधित्वा प्रसज्येत, तसमिंश्च सति पुग्विहतनिमित्तत्वान्न स्यात्। `अपीपचदित्यादौ तु नैव ह्रस्वः स्यात्' इति। चङि परतो यदङ्गं पाचिप्रभृति तदीयाया उपधायाश्चाकारादेरह्रस्वभाविनीत्वात्। आदिशब्दोऽपीपठदित्यादिपरिग्रहार्थः। तस्माण्णाविति वक्तव्यम्।
`चङीति किम्' इति। एषोऽभिप्रायः--केवले णौ ह्रस्वो मा भूदित्येवमर्थं चङीत्युच्यते; नैतच्चङग्रहणस्य प्रयोजनमुपपद्यते; यस्मादाचार्यप्रवृत्तिर्ज्ञापयति--णावेव केवले ह्रस्वत्वं न भवतीति, यदयम् `मितां ह्रस्वः' (6.4.92) इति ह्रस्वत्वं शास्ति। ततः कारयति, हारयतीत्यादौ न भविष्यतीत्यभिप्रायः। यद्येतस्माज्ज्ञापकात् कारयतीत्यादौ ह्रस्वो न भवति, तदाऽचीकरदित्यत्रापि न स्यात्। अथात्र वचनसामर्थ्याद्भविष्यति? एवमपि कारयतीत्यादौ स्यादेव। न हि `मितां ह्रस्वः' (6.4.92) इत्युचयमाने सत्यचीकरदित्यादौ न भवतीत्येव विषयविभागः शक्यते विज्ञातुम्। तस्मात् चङ्ग्रहणं कर्त्तव्यम्। `उपधाग्रहणं किम्' इति। एवं मन्यते--अलोऽन्त्यस्य मा भूदित्येवमर्थमुपधाग्रहणं क्रियते, एतच्चाप्रयोजनम्; चङ्परे णौ यदङ्गं तस्याचीकरदित्यादावपि णावन्तरङ्गत्वाद् वृद्ध्यादिषु कृतेषु ह्रस्वभाव्यजन्त्यो न सम्भवति यत्राजन्ताण्णिजुत्पद्यते, किं पुनरपपठवित्यादौ यत्र हलन्ताण्णिजुत्पद्यते! तस्मादजन्त्यो ह्रस्वभावो नास्तीत्यन्तरेणाप्युपधाग्रहणं वचनादनव्त्यस्यैवोपधाभूतस्य ह्रस्वो भविष्यतीति। `अचकाङ्क्षत्, अववाञ्छत्' इति। `क्राक्षि वाक्षि माक्षि काङ्क्षायाम्' (धा.पा.667,668,669)। यद्यप्यजन्तो ह्रस्वभावी नास्ति, तथापि वचनादनन्त्यस्याचोकरदित्यादौ यथा भवति, तथा अचकाङ्क्षदित्यादावपि स्यात्। तस्मान्मा भूदेष दोष इत्युपधाग्रहणं क्रियत इत्यभिप्रायः। ननु चाङ्गस्य योऽच् तस्य चङ्परे णौ ह्रस्वो विधीयते, तत्र यद्यप्यनन्तरोऽज् न सम्भवति, तथापि `येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्' (व्या.प.46) इत्येकेन वर्णेनेति येन नाव्यवधानम्, अपि तु सर्वदा व्यवधानमेव; तेन व्यवहितेऽपि वचनप्रामाण्याद्भवितव्यम्। एकेनैव वर्णेन व्यवधानं सर्वत्र सम्भवति। सङ्घातेन तु व्यवधानं सम्भवति, न सम्भवति च। इहाचकाङ्क्षदित्यादौ सङ्घातेनैव व्यवधानम्, अतो नास्त्येव ह्रस्वप्रसङ्ग इति किमुधाग्रहणेन? इत्याह--`तदेतत्' इत्यादि। उपधाग्रहणमवश्यमुत्तरार्थं कर्त्तव्यम्। इह तु क्रियमाणे सत्यचकाङ्क्षदित्येवमर्थम् `येन नाव्यवधानम्' (व्या.प.46) इत्येषा परिभाषा नाश्रयितव्या भवति। उपधाग्रणेनैवात्र ह्रस्वस्य निवर्त्तितत्वादित्येष गुणो लभ्यते। तेनेहैव कृतम्, नोत्ररत्र।
`उपधाह्रस्वत्वे णेर्णिचयुपसंख्यानम्' इति। चङ्परे णौ परतो यो णिस्तस्मिन् परतोऽङ्गस्योपधापा ह्रस्वः उपसंख्येयः। `अवीवदत्' इति। वदेः `हेतुमति च' (3.1.26) इति णिच्, तदन्ताद्वादितवन्तं प्रयोजितवानिति पुनः `हेतुमति च' (3.1.26) इति णिच्, ततो लुङादिः,`णेरनिटि' (6.4.51) इति णिलोपः। किं पुनः कारण न सिध्यति, यावता णिलोपे कृते चङ्परे णावङ्गस्याकारो ह्रस्वभाविन्युपधा भवत्येव? इत्याह--`योऽसो' इत्यादि। `अचः परस्मिन् पूर्वविधौ' (1.1.57) अपि णिलोपस्य ह्रस्वत्वे कर्त्तव्ये स्थानिवद्भावाण्णिजव्यवधानाद् ह्रस्वो न प्राप्नोति। तेन वा णिलोपेनाग्लोप्यङ्गमेतद्भवति--तदेतस्माद्धेतोर्न हरसवत्वं प्राप्नोति। अग्लोपीत्यादिनानन्तरवक्ष्यमणिप्रतिषेधात् (7.4.4) `ण्याकृतिनिदशात् सिद्धम्' इत्युपसंख्यानं प्रत्याचष्टे--`णौ इति। ण्याकृतिरिति णिजातिर्निर्देशयते, न तु णिव्यक्तिः। तेन व्यक्तौ व्यवधानं न भवति, न हि जातौ; एकत्वाण्णिजातेः। न हि तयैव तस्या व्यवधानमुपपद्यते। ननु चोत्तरया ण्याकृत्या जात्याधारभूतया णिव्यक्त्या णिजात्याश्रयेऽपि व्यवधानमुपपद्यत एव? नैतत्; तस्यामपि व्यक्तौ जातेः समवायात्। एवं तादद्व्यवधानं ण्याकृत्याश्रये नास्ति। अग्लोपित्वमपि नास्त्येव; न ह्यत्र णिजातिव्यतिरेकेणाऽन्योऽग्विद्यते, यस्य लोपेनाग्लोप्यङ्गं स्यात्। न च ण्याकृतेर्लोपश्च; तस्याः श्रूयमाणत्वात्। न हि श्रूयमाणाया लोपे लपपद्यते; `अदर्शनं लोप' (1.1.60) इति वचनात्। ननु च जातिव्यतिरेकेणापि तदाश्रयभूता व्यकतिरग्विद्यत एव; न जातिव्यक्त्योरनन्यत्वमिति सांख्योयसिद्धान्तस्येहाश्रयणात्। अथ वा--ण्याकृतिनिर्देशे सत्युपधाह्रस्वत्वस्य ण्याकृतनिमित्तत्वेना श्रोयते। तेन गोबलीवरदन्यायेन तस्या ण्याकृतेर्निमित्तत्वेनोपात्ताया अन्यस्याको लोपः प्रतिषेधनिमित्तत्वेन विज्ञायते, स चेह नास्ति। तस्माण्ण्याकृतिनिर्देशात् सिद्धम्।।
2. नाग्लोपिशास्वृदिताम्। (7.4.2)
अगिति प्रत्याहारग्रहणम्। अको लोपोऽग्लोपः, स एषामस्तीति तान्यग्लोपीन्यङ्गानि। `शासु अनुशिष्टौ' (धा.पा.1075) ऋदिद्येषां तानि ऋदिन्ति `बाधृ विलोडने' (धा.पा.5) इत्येवमादीनि। `अममालत्, अममातरत्' इति। `तत्करोति तदाचष्टे' (ग.सू.187) इति णिच्, `णाविष्ठवत्कार्यं प्रातिपदिकस्य' (वा.813) इतीष्ठवद्भावः, `तुरिष्ठेमेयःसु' (6.4.154) इति टिलोपः, ततो लुङादिः। `अतयरराजत्' इत्यादौ, `प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च' (ग.सू.186) इति णिच्। `अन्वलुलोमत्' इति। `सत्यापपाशरूप' (3.1.25) इत्यादिना णिच्।
`अगेव केवलो यत्र' इत्यादि। इह द्विविधमगलोपयङ्गम्--क्वचिदगेव केवलो लुप्यते, अममालदित्यादौक्वचिद्धलचौ, अत्यरराजदित्यादौ। अगेव केवलो यत्र लुप्यते तत्राग्लोपस्य स्थानिवद्भावात् सिद्धम्। स्थानिवद्भावे सत्यग्लोपस्य व्यवधानादेव ह्रसवप्राप्तिः, तस्मान्न तदर्थमग्लोपीति वचनम्। इतरत्र तु हलचोरुभयोरप्यादेश इति सिध्यति, अस्थानिवद्भावात्। अजादेशसय हि परनिमित्तकस्य स्थानिवद्भाव उक्तः, न तु हलचोरादेशस्य। तस्माद्यत्र हलचोरादेशास्तदर्थमिदं वचनम्। अन्यार्थमेतत् क्रियमाणं यत्रागेव केवलो लुप्यते तदर्थमपि भविष्यतीति तदर्थमस्योदाहरणमुपन्यस्तम्। `अडुढौकत्' इत। `ककि वकि श्वकि त्रकि ढौकृ त्रौकृ ष्वष्क वस्क मस्क टिकृ टीकृ तिकृ रघि लघि गत्यर्थाः' (धा.पा.94,95,96,97,98,99,100,101,102,103,104,105,106,107,108)। `अभ्यासे चचं' (8.4.54) इति जश्त्वम्--डकारः।।
3. भ्राजभासभावदीपजवमीलपीडामन्यतरस्याम्। (7.4.3)
भ्राजिरयं भ्वादावनुदात्तेत् पठ्यते, आत्मनेपदी ऋकारानुबन्धः फणादिषु `टुभ्राजु टुभ्रासु दीप्तौ' (धा.पा.823,824) इति पठ्यते, फणादिभ्यः पुरस्ताच्च `एजृभ्रेजृ भ्राजृ दीप्तौ' (धा.पा.179,180,181) इति। तन्त्रान्तर्गचकार्यार्थः फणादिष्ववश्यमेवास्य पाठोऽङ्गीकर्त्तव्य इति तेनैव शबादेरपि गणकार्यस्य सिद्धत्वात्। अन्यत्रास्य पाठोऽनार्ष एव लक्ष्यते। `भासृ दीप्तौ' (धा.पा.624), `भा, व्यक्तायां वाचि' (धा.पा.612) `दीपी दीप्तौ' (धा.पा.150), `जीव प्राणधारणे' (धा.पा.562) `मील श्मील स्मील क्ष्मील निमेषणे' (धा.पा.517,518,519,520), `पीड अवगाहने' (धा.पा.1544)--एषां नित्ये ह्रस्वत्वे प्राप्ते विभाषेयमारभ्यते। `अबिभ्रजत्' इति। यधा ह्रस्वत्वम्, तदा पूर्ववत्सन्वद्बावेनेत्त्वम्। `अबीभवत्' इति। पूर्ववद्दीर्घः।
अथ भ्राजभासयोॠदित्करणं किमर्थम्, यावता तयोर्हि ऋदित्करमस्यैतत् प्रयोजनम्--ऋदित्त्वात् पूर्वसूत्रेण ह्रस्वप्रतिषेधो यथा स्यादिति। यदि विभाषया च तयोर्ह्रस्वत्वं विधीयते तदा ऋदित्करणमस्य वैयर्व्यमेव? इत्यत आह--`भ्राजभासोः' इत्यादि। `अपाणिनीयम्' इति। पाणिनेरिदं पाणिनीयम्, न पाणिनीयमपाणिनौयमिति; तेनानभ्युपगमात्; न तु तेनाकृतत्वात्। अन्यथा हि `बाधृ विलोडने' (धा.पा.5)--इत्येवमादीनामपि ऋदित्करणमपाणिनीयं स्यात्। प्रतिपादितं हि पूर्वम् (4.1.106 तमसूत्रे)---गणकारः पाणिनिर्न भवतीति। तथा च--अन्यो गणकारः अन्यश्च सूत्रकारः।।
4. लोपः पिबतेरीच्चाभ्यासस्य। (7.4.4)
ह्रस्वत्वे प्राप्ते तदपवादः पिबतेर्लोपो विधौयते, ईकारश्चाभ्यासस्येति। उपधाधिकारादुपधाया एव। पर्यायेण लोपेकारौ मा भूताम्--इत्येवमर्थमध्यासग्रहणम्। `अपीप्यत्' इति। `पा पाने' (धा.पा.925), णिच्, `शाच्छासाह्वाव्यावेपाम्' (7.3.37) इति युक्। ननु च नित्यत्वात् परत्वाच्च पूर्वमुपधालोपे कृतेऽनच्कत्वाद् द्विर्वचनेन न भवितव्यम्? इत्यत आह--`उपधालोपे कृते' इत्यादि। सुबोधम्। पिब्रतेः श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थः--अपापयदिति। `पा रक्षणे' (धा.पा.1056, `पै ओवै शोषणे' (धा.पा.920,921)--इत्येतयोस्तु निवृत्त्यर्थः स नोपपद्यते; तत्र ह्योकस्य लुग्विकरणत्वादेव न भविष्यति, अपरस्य तु लाक्षणिकत्वात्।।
5.तिष्ठतेरित्। (7.4.5)
अयमपि ह्रस्वापवादः। `ईच्चाभ्यागस्य' (7.4.4) इति निवृत्तम्। श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थ एव--अतास्थपदिति।।
6. जिघ्रतेर्वा। (7.4.6)
एषोऽपि ह्रस्वापवादः। अत्रापि श्तिपा निर्देशस्य तदेव प्रयोजनम्--अजाघ्रपदिति।।
7. उॠत्। (7.4.7)
अत्र ऋकारः स्थानित्वेनोपात्तः, तस्य चान्तरङ्गत्वादिररार एव प्राप्नुवन्ति, न हि बहिरङ्गो ह्रस्वः, तस्मात् तेषामपवादौ विज्ञायत इत्यत आह--`इररारामपवादः' इति। `उपघायाश्च' (7.1.101) इतीकारः, `पुगन्तलघूपघस्य' (7.3.86) इति गुणोऽकारः, `मृजेर्बृद्धिः' (7.2.114) इत्याकारः--इत्येते च ऋकारस्य स्थाने `उरण्रपरः' (1.1.51) इति रपरा भवन्तो यताक्रममिररारो भवन्ति, तेषामपवादः। `अचीकृतत्' इति। `कॄत संशब्देने' (धा.पा.1653), चुरादिः, णिच्। `अवीवृतत्' इति। `वृतु वर्त्तने' (धा.पा.758) `अमीमृजत्' इति। `मृजू शुद्धौ' (धा.पा.1066) हेतुमण्णिच्। ननु चान्तरङ्गत्वादिररार्भिरेव भवितव्यम्, अन्तरङ्गत्वं तु पुनस्तेषां ण्ज्मात्राश्रयत्वात्। ऋकारस्तु चङ्परं णिचमाश्रित्य भवतीति बहिरङ्गः। तत्कथं तेनेररारो बाध्यन्ते? इत्यत आह--`वचनसामर्थ्यात्' इत्यादि। यद्यन्तरङ्गत्वादिररारः स्युः, वचनस्य तदा वैयर्थ्य स्यात्; अनवकाशत्वात्। तस्मादन्तरङ्गा अपि ते बाध्यन्ते।
`तपरकरणम्' इत्यादि। असति हि तपरकरणे यत्र दीर्घः स्थानी, तत्रान्तरतम्याद्दीर्घः प्रसज्येत तस्मा द्दीर्घेऽपि स्थानिनि ह्रस्व एव यथा स्यादित्येवमर्थं तपरकरणम्। ननु `भाष्यमानोऽण् सवर्णान्न ग्रृह्णाति' (व्या.प.35) इति दीर्घस्यापि स्थानिनो ह्रस्व एव भविष्यति, न दीर्घः? इत्यत आह--`न चायं भाव्यमानः' इत्यादि। किं कारणम्? इत्यत आह--`आदेशान्तरनिवृत्त्यर्थम्' इति। इति। आदेशान्तरमिररारादि; तस्य निवृत्त्यर्थमीकारस्यास्मीयरूपेणैवाभ्यनुज्ञायते, न त्वपूर्व एव ऋकारो विधीयते, तत्कुतोऽस्य भाव्यमानता!।।
8. नित्यं छन्दसि। (7.4.8)
`अवीवृधत्' इति। `वृधु वृद्धौ' (धा.पा.759) हेतुमाण्णिच्, ततो लुङादिः। नित्यग्रहणं पूर्वसूत्रे वेत्येतदनुवृत्तेर्विज्ञापनार्थम्; अन्यथा हि तत्राप्यस्याननुवृत्तिर्विज्ञायेत।।
9. दयतेर्दिगि लिटि। (7.4.9)
`अवदिग्ये' इत्यादि। `देङ् रक्षणे' (धा.पा.962), लिट्, ङित्त्वादात्मनेपदम्, प्रथपुरुषः, `लिटस्तझयोरेशिरेच्' (3.4.81) इत्येशिरेचौ, एरनेकाचः' (6.4.82) इत्यादिना यणादेशः। `दयतेरिति देङो ग्रहणम्, न तु दय दान इत्यस्य' इति। ननु च `दय दानगतिरक्षणहिंसादानेषु' (धा.पा.481) इत्येतस्य ग्रहणं कस्मान्न भवति? इत्यत आह--`तस्य हि' इत्यादि। लिटीत्युच्यते, न च `दय दाने' (धा.पा.481)--इत्येतस्यानन्तरो लिडस्ति; यस्मात् तस्य `दयायासश्च' (3.1.37) इत्यनेनाम् विहितः। ननु च `अमन्त्रे' इति तत्रानुवर्त्तते, ततो मन्त्र आमोऽभावात् स्यादेवानन्तर्यम्? एवं मन्यते--यथादृष्टानुविधिश्छन्दसीति। न च `दय दाने' (धा.पा.481) इत्येतस्य मन्त्रे दिग्यादेशो दृश्यत इत्यभिप्रायः।
इहावदिग्ये--इत्यनवकाशात्वाद् दिग्यादेसे कृते पश्चाद् द्विर्वचनेन भवितव्यम्, यथा चख्यावित्यत्र `चक्षिङः ख्याञ्' (2.4.54) इति ख्याञादेशस्यानवकाशत्वात् तत्र कृते पश्चाद्द्विर्वचनम्, तथावदिग्ये इत्यत्रापि दिग्यादेशे कृते पश्चाद् द्विर्वचन केन बाध्येत? इति यश्चोदयेत्--तं प्रत्याह--`दिग्यादेशेन द्विर्वचनस्य बाधनमिष्यते' इति। कथं पुनरिष्यमाणमपि लभ्यते? नित्यग्रहणानुवृत्तेः। इह पूर्वसूत्रान्नित्यग्रहणमनुवर्त्तते, न चात्र विभाषा प्राप्नोति, यन्निवृत्त्यर्थ नित्यग्रहणं विज्ञायते। तस्मादन्यल्लिटि यत् कार्यं प्राप्नोति, तन्निवृत्त्यर्थं नित्यग्रहणं विज्ञायते; तेनैवमभिसम्बन्धः करिष्यते--`लिटि प्राप्नुवतां कार्याणां दिग्यादेश एव नित्यं भवति, नान्यत्कार्यम्'। इत्येवं द्विर्वचननिवर्त्तनं भवति। यणादेशस्तु लिटित्युच्यायं न विधीयत इति `एरनेकाचः' (6.4.42) इत्यचि भवति।।
10. ऋतश्च संयोगादेर्गुणः। (7.4.10)
`सस्वरतुः, सस्वरुः' इति। `स्वृ शब्दोपतापयोः' (धा.पा.932), `उरत्' (7.4.66) इत्यभ्यासस्यात्त्वम्, रपरत्वम्, हलादिशेषः। `दध्वरतुः, दध्वरुः' इति। `ध्वृ हूर्च्छने' (धा.पा.939)। `सस्मरतुः, सस्मरुः' इति। `स्मृ आध्याने' (धा.पा.807)। ननु च सर्वत्रैव साभ्यासमङ्गम्, न च तत् संयोगादि? नैष दोषः, `द्विष्प्रयोगो द्विर्वचनम्' इत्येषोऽत्र पक्षः, तत्र परस्याप्यङ्गसंज्ञा भवत्येव। अथापि `स्थाने द्विर्वचनम्' इत्यप्यदोषः; सर्वत्रैव हि लिट्यभ्यासः संयोगादित्वं विहन्ति, उच्यते चेदं वचनम्, तत्रैवं विज्ञास्यामः--प्राग्द्विर्वचनात् संयोगादित्वमस्ति, इह च द्विर्वचनात् प्राक् संयोगादित्वमस्ति। `चिक्षिपतुः, चिक्षिपुः' इति। `क्षि क्षये' (धा.पा.236), इयङादेशः।
`प्रतिषेधविषयेऽपि' इत्यादि। यः `क्ङिति च' (1.15) इत्यसय प्रतिषेधस्य विषयो न भवति थलादिः, तत्र `सार्वधातुकार्धधातुकयोः' (7.3.84) इत्येवं गुणः सिद्धः। तस्माद्गुणप्रतिषेधविषयेऽपि यथा स्यादित्ययमारम्भः वृद्धिविषयेऽपि परत्वाद्गुणेन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह--`वृद्धिविषये तु' इत्यादि। गुणस्यावकाशः--सस्वरतुः, सस्वरुरिति; ञ्णिति वृद्धेरवकाशः--स्वारकः, ध्वारक इति; सत्त्वार, दध्वारेत्यत्रोभयप्रसङ्गे पूर्वविप्रतिषेधेन वृद्धिरेव भवति।
अथ तपरकरणं किमर्थम्, दीर्घस्यापि मा भूदित्येवमर्थं चेत्? नैतदस्ति; भवितव्यमेव हि दीर्घस्योत्तरसूत्रेण--`स्तृञ् आच्छादने' (धा.पा.1484), आतस्तरतुः, आतस्तरुरिति। ननु चैतस्मात् तपरकरणान्न प्राप्नोत, सावकाशं चोत्तरवचनमसंयोगादौ--`कॄ विक्षेपे' (धा.पा.1409) निचकरतुः, निकरुरिति? यद्येवम्, एवे तर्हि न चेदं तपरकरणम्, किं तर्हि तसिनायं निर्देशः।
`संयोगादेः' इत्यादि। इहाङ्गप्रकरणादङ्गं संयोगादित्वेन विशिष्यते। न च करोतेः संयोगाद्यङ्गमिति न प्राप्नोति, तस्मात् संयोगोपधग्रहणं कर्त्तव्यमिति करोतेरपि यथा स्याद्गुणः। `सञ्चस्करतुः, सञ्चस्करुः' इति। `सम्पर्युपेभ्यः करोतौ भूषणे' (6.1.137) इति सुट्, स च `अडभ्यासव्यवायेऽपि' (6.1.136) इति वचनादभ्यासव्यवायेऽपि भवति। किं पुनः कारणमिह गुणो न सिध्यति, यावता सुटि कृते `तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' (व्या.प.21) इति करोतिः संयोगादर्भवति? इत्यत आह--`अत्र हि' इत्यादि। अनेन सुटो बहिरङ्गतां प्रतिपादयति। बहिरङ्गत्वे हि तस्य `असिद्धं बहिरङ्गमन्तरङ्गे' (व्या.प.42) इत्यन्तरङ्गे गुणे कर्त्तव्ये बहिरङ्गस्य सुटोऽसिद्धत्वात् संयोगादित्वं करोतेर्नोपपद्यते। पूर्वं धातुरुपसर्गेण युज्यते पश्चात् साधनेन' (जै.प.वृ.98) इत्यस्मिन्दर्शने धातूपसर्गयोः कार्यमन्तरङ्गमिति सुटोऽपि धातूपसर्ययोः कार्यत्वादन्तरङ्गता स्यात्। `पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण' (सी.प.128) इत्यस्मिन् दर्शने सुड्बहिरङ्गो भवति। तथा हि--अस्मिन् दर्शने निरुपसर्गस्यैव धातोरर्थः साधनेन युज्यत इति साधनाभिधायी पूर्व तावल्लिट् कर्त्तव्यः; तत्र कृते तदाश्रये द्विर्वचने कृते पश्चादुपसर्गयोगे `अडभ्यासवयवायेऽपि' (6.1.136) इति सुट् क्रियते। एवञ्च क्रियमाणे ह्यनेकपदाश्रितत्वात्, बह्वपेक्षत्वाच्च सुटो बहिरङ्गता प्रतिपाद्यते। गुणस्तु लिडुत्पत्तिसमनन्तरकालमेव प्राप्नोति, नापरं किञ्चिदपेक्षते; एकपदापेक्षत्वादल्पापेक्षत्वाच्चान्तरङ्गः, ततश्च तस्मिन् कर्त्तव्ये सुटोऽसिद्धत्वात् करोतिः संयोगाद्यङ्गं न भवति। तस्मादसौ न प्राप्नोति। `एवञ्च कृत्वा' इत्यादि। यत एवं सुड्बहिरङ्गः, एवञ्च कृत्वाऽन्तरङ्ग इटि कर्त्तव्ये तस्यासिद्धत्वादसंयोगादित्वात् करोतेरुपस्कृषीष्ट, संस्कृषीष्ट--इत्यतर `ऋतश्च संयोगादेः' (7.2.43) इतीडागमो न भवति। एतेन बहिरङ्गतैव सुटः प्रतिपादिता।
ननु चाङ्गाधिकारात् प्रत्यासत्तेरङ्गावयव एव संयोगो गृह्यते, कात्पूर्वग्रहणेन तत्र ज्ञापितमभक्तत्वं सुटः, ततश्चाभक्तत्वादेवासंयोगादित्वात् करोतेरिण्न भविष्यति, किमत्र बहिरङ्गत्वेनासिद्धत्वेनोपन्यस्तेन? सत्यमेतत्; एवं मन्यते--भवतु नाम करोतिभक्तत्वं सुटः, तथाप्यसिद्धत्वात् तस्य संस्कृषीष्ट--इत्यत्रेट्प्रसङ्गो न भविष्यतीति संयोगोपधग्रहणं कर्त्तव्यमिति। अस्यायमर्थः--संयोगोपधः करोतिरङ्गं गृह्यते येन तत् संयोगोपधग्रहणव्याख्यानं कर्त्तव्यमित्यर्थः। तत्रेदं व्याख्यानं कर्त्तव्यम्--चकारोऽत्र क्रियते, स च करोतेः संयोगोपधस्य समुच्चयार्थः। तेन तस्यापि सुटि कृते संयोगोपधस्य गुणो भविष्यतीति।।
11. ऋच्छत्यताम्। (7.4.11)
`ऋच्छ गतीन्द्रियप्रलयमूर्त्तिभावेषु' (धा.पा.1296)। अर्त्तेरप्यत्र प्रश्लेषः; बहुवचननिर्देशात्। अत एवाह--`ऋच्छतेरङ्गस्य, ऋ इत्येतस्य, ऋकारान्तानां च' इति। ऋकारान्ताः--`कृ विक्षेपे' (धा.पा.1409), `गॄ निगरणे' (धा.पा.1410) इत्येमादयः। `आनर्च्छतुः, आनर्च्छुः' इत्यादि। अतुसुसौ, गुणः, द्विर्वचनम्, अभ्यासकार्यं पूर्ववत्, `अत आदेः' (7.4.70) इति दीर्घः, `तस्मान्नुड् द्विहलः' (7.4.71) इति नुट्। `आरतुः' आरुः' इति। पूर्ववदभ्यासस्य दीर्घः, ततः पूर्वसवर्णेनेति।
`ऋच्छतेरलघूपधत्वात्' इत्यादि। अलघूपघत्वं तु तस्यान्तरङ्गत्वात्। `छे च' (6.1.73) इति तुकि कृते `संयोगे गुरु' (1.4.11) इति गुरुसंज्ञायां सत्यां गुरूपधत्वान्न प्राप्नोतीति वेदितव्यम्। `ऋतां तु' इत्यादि। ऋ ऋतां तु प्रतिषिद्ध एवेति गुणो विधीयत इत्यपेक्ष्यते। गुणप्रतिषेधस्तु तेषां `असंयोगास्लिट् कित्' (1.2.5) इति कित्त्वे सति `क्ङिति च' (1.1.5) इत्यनेन वेदितव्यः।
`वृद्धिविषये तु' इत्यादि। यथा `ऋतश्च संयोगावेः' (7.4.10) इति वृद्धिविषये पूर्वविप्रतिषेधेन वृद्धिरेवेध्यते, तथा ऋऋतामपीति। गुणस्यावकाशः--निचकरतुः, निचकरुरिति; वृद्धेरवकाशः--कारकः, हारक इति; निचकार, निजगारेत्यत्र वृद्धिविषये पूर्वविप्रतिषेधेन वृद्धिरेवेध्यते।।
12. शॄदॄप्रां ह्रस्वो वा। (7.4.12)
`शॄ हिंसायाम्' (धा.पा.1488) `दॄ विदारणे' (धा.पा.1490) `पॄ पालनपूरणयोः' (धा.पा.1489)--एषां पूर्वसूत्रेण नित्यो गुणो भवत्येव। `विशश्रतुः' इति। ह्रस्वत्वे कृते यणादेशः। `ह्रस्ववचनम्' इत्यादि। असति ह्रस्वग्रहणे वाश्चनेन विकल्पिते यस्मिन् पक्षे गुणो नास्ति तस्मिन् पक्षे `ऋत इद्धातोः' (7.1.100) इतीत्त्वं प्रसज्येत, `उदीष्ठ्यपूर्वस्य' (7.1.102) इत्युत्त्वञ्च। तस्मात् तन्निवृत्त्यर्थ ह्रस्व इत्युच्यते? ऋदिति कर्त्तव्ये ह्रस्वग्रहणमुत्तरार्थम्।
केचित् इत्यादि। कथं पुनरस्य प्रत्याच्यमाने विशश्रतुः--इत्येवमादीनि रूपाणि सिध्यन्ति? इत्याह--`श्रा पाके' इत्यादि। यद्यपि `आतो लोप इटि च' (6.4.64) इत्यकरलोपे कृते श्रादीनां विशश्रतुरित्येवमादीनि रूपाणि सिध्यन्तीति, तथाप्यर्थमेवो भवति; तदाऽयुत्त्तमस्य प्रत्याख्यानमित्याशङ्क्यानेकार्थत्वाद्धातूनामित्युक्तम्। `तथा च सति' इत्यादिना प्रत्यादिना प्रत्याख्यानं प्रत्याचष्टे। यदि सूत्रस्य प्रत्याख्यानं क्रियते, क्वासौ कृते विशशृषानिति रूपं न सिध्यति, तथा हि--यदि शृणातेर्ह्रस्वो न क्रियते, तदा विशशर्वानिति रूपं स्यात्। अथ श्रातेः, विशश्रिवानिति। तस्मादयुकतमस्य प्रत्याख्यानम्।।
13. केऽणः। (7.4.13)
अणिति पूर्वेम णकारेण प्रत्याहारग्रहणम्; अन्यथा `केऽचः' इत्येवं ब्रूयात्। अथ वा--अच इत्येतदपि न ब्रूयात्, अच एव हि हरस्वदीर्घल्पुता भवन्ति। `ज्ञका' इति। जानातीति ज्ञा, `इगुपधज्ञाप्रीकिरः कः' (3.1.135), तदन्ताट्टाप। अज्ञाता ज्ञेति `प्रागिवास् कः' (5.3.70)। अथ वा--अनुकम्पिता ज्ञेति `अनुकम्पायाम्' (5.3.76) इति कन् कनि कृते तदन्ताट्टाप्।
अथेह कस्मान्न भवति--`कृदाधारार्चिकलभ्यः कन्' (द.उ.3.18) इति रातेर्दधातेश्च कन्, तदन्ताट्टाप्--`राका, धाका' इत्यादि। सुबोधम्। निरनुबन्धस्येह ग्रहणान्निरनुबन्धकपरिभाषया कनो ग्रहणेन न [नास्ति--मुद्रिते] भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह--`न कपि' इत्यादि। यद्येषा परिभाषोपतिष्टते, तदा `न कपि' (7.4.14) इति प्रतिषेधोऽनर्थकः स्यात्। सानुबन्धकत्वादेव कपो ग्रहणं ग्रहणं न भविष्यतीत्यभिप्रायः।।
14. न कपि। (7.4.14)
`बहुकुमारीकः' इति। बह्व्यः कुमार्यो यस्य सः। `नद्यृतश्च' (5.4.156) इति कप्; अनुबन्धलोपः।
अथात्रास्मिन् ह्रस्वत्वे प्रतिषिद्ध उपसर्जनह्रस्वत्वं कस्मान्न भवति? अत ेव प्रतिषेधान्न भविष्यतीति चेत्? न; `अनन्तरस्य विधिरावा प्रतिषेधो वा' (व्या.प.19) इत्यनन्तरस्यैव ह्रस्वस्य ह्ययं प्रतिषेधो न सर्वस्य। कपीति वचनसामर्थ्यादुपसर्जनह्रस्वत्वमिति न भविष्यतीति चेत्? यत्र ह्युपसर्जनह्रस्वत्वस्य प्राप्तिरस्ति, `गोस्त्रियोरुपसर्जनस्य' (1.2.48) इति ह्रस्वशासने स्त्रीशब्देन स्त्र्यधिकारविहितानां प्रत्ययानां टाबादीनां ग्रहणात्। तस्माद्बहुकुमारीक इत्यत्रोपसर्जनस्य ह्रस्वत्वेन भवितव्यमित्यत आह--`गोस्त्रियोरुपसर्जनस्य' इत्यादि। कस्मान्न भवति? इत्याह--`समासार्थे हि' इत्यादि। उपसर्जनह्रस्वत्वं हि स्त्रीप्रत्ययान्तस्य समासप्रातिपदिकसय विधीयते, तद्धिधाने `ह्रस्वो नपुंसके प्रातिपदिकस्य' (1.2.47) इत्यतः प्रातिपदिकग्रहणानुवृत्तेः समासप्रातिपदिकस्यैव स्त्रीप्रत्ययान्तस्योपसर्जनह्रस्वः स्यात्। न च बहुकुमारीक इत्यादौ स्त्रीप्रत्ययान्तं समासप्रातिपदिसं भवति; यस्मात् `समासान्ताः' (5.4.68) इत्यधिकार एवायां कब्विधीयते। `समासान्ताः' इत्यत्रान्तग्रहणस्यैतत् प्रयोजनम्--समासस्यान्तोऽवचयो यथा स्यादिति, स च कथं समासस्यावयवो भवति? यदि तेन सह समाससंज्ञा भवति। कथञ्च तेन समाससंज्ञा भवति? यद्यकृते समासे समासार्थादुत्तरपदात् कब्भवति, पश्चात् कदन्तेन समासो भवति, नान्यथा। तस्मात् समासान्ताधिकारे कपो विधानात् समासार्थादुत्तरपदात् कपि कृते पश्चात् समासेन भवितव्यम्। ततश्च स्त्रीपरत्ययान्तमिह समासपरातपदेकं न भवतीति न भवत्युपसर्जनह्रस्वत्वम्।
15. आपोऽन्यतरस्याम्। (7.4.15)
`बहुखट्वाकः' इति। `शेषाद्विभाषा' (5.4.154) इति कप्।।
16. ऋदृशोऽङि गुणः। (7.4.16)
`क्ङिति च' (1.1.5) इति प्रतिषेधे प्राप्तेऽयं गुणो विधीयते। `अकरत्' इति। कृञो लुड्, च्लिः, `तिप्, `कृमृदृरुहिभ्यश्छन्दसि' (3.1.59) इति च्लेरङ। `असरत्' इति। `सृ गतौ' (धा.पा.935)। `आरत्' इति। `ऋ गतिप्रापणयोः' (धा.पा.936), `सर्त्तिशास्त्यर्त्तिभ्यश्च' (3.1.56) इति च्लेरङ्, अर्त्तेरजादित्वादाटि कृते `आटश्च' (6.1.90) इति वृद्धिः। `अदर्शत्' इत `इरितो वा' (3.1.57) इत्यङ्। अथ गुणग्रहणं किमर्थम्। अकार एव नोच्येत? नैवं शक्यम्; अकार इत्युच्यमाने दुशेरन्त्यस्य स्यात्। गुणग्रहणे तु सति संज्ञाविधाने नियम इतीक एव स्थाने भवति।।
17. अस्यतेस्थु क्। (7.4.17)
`आस्थत्' इति। `असु क्षेपणे' (धा.पा.1209) `अस्यतिवक्तिखक्यातिभ्योऽङ्' (3.1.52) इति च्लेरङादेशः।।
18. श्वयतेरः। (7.4.18)
`अश्वत्' इति। `टु ओश्वि गतिवृद्ध्योः' (धा.पा.1010)। `जॄस्तम्भुभ्रुचु' (3.2.58) इत्यादिनाङ् द्वयोरकारयोः पररूपत्वम्।।
19. पतः पुम्। (7.4.19)
`अपप्तत्' इति। `शल हुल पत्लृ गतौ (धा.पा.843,844,845), पुषादिनाङ। मकारो देशविध्यर्थः।।
20. वच उम्। (7.4.20)
`अवोचत्' इति। `वच परिभाषणे' (धा.पा.1842), `अस्यतिक्तिख्यातिभ्यः' (3.1.52) इत्यादिनाङ्। मकारसय तदेव प्रयोजनम्।।
21. शीङः सार्वधातुके गुणः। (7.4.21)
अप्राप्तविषयत्वाद्गुणविधानस्य ङिति सार्वधातुक एतद्विधानम्। पिति तु सामान्यलक्षणैनैव गुणः सिद्धः। लोट्, `आडुत्तमस्य पिच्च' (3.4.92) इत्याटि--शयै, शयावह इत। तस्माद्यत्र गुणो न प्राप्नोति तत्र विधीयते। `शेरते' इति। अदादित्वाच्छपो लुक् `त्मनेपदेष्वनतः' (7.1.5) इति झकारस्यादादेशः। अत्र `शीङो रुट्' (7.1.6) रुडागमो भवति।
`शिश्ये' इति। लिट्, `लिट् च' (3.4.115) इत्यार्धधातुकसंज्ञा, उत्तमपुरुषस्यैकवचनम्, प्रथमपुरुषस्यैकवचनं वा। यदा प्रथमपुरुस्यैकवचनं तदैश्, पूर्ववदेव द्विर्वचनम्, `एरनेकाचोऽसंयोगपूर्वस्य' (6.4.82) इति यणादेशः; अन्यदेट्, टेरेत्त्वम्। अथ गुणग्रहणं किमर्थम्, न `शीङः सार्वधातुके एत' इत्येंवोच्येत? एवं मन्यते--`शीङः' इति सानबन्धकनिर्देशे षष्ठ्युच्यारिता, निवृत्तिधर्मा चानुबन्धः तस्येत्संज्ञायां लोपेन निवृत्तौ प्राप्तायामयमन्यप्रकारो निवृत्तेरवज्ञायेत। तस्य नान्येत्संज्ञा निवर्त्तिका, किं तर्हि? एकारः। एवं तर्हि ङकारस्य स्थान एकार आपद्यते। तस्माद्गुणग्रहणं त्विकमुपस्थापयति। ङकारस्तु तेनैव हेतुना निवर्त्तत इति यद्येवम्, ङकारो नोच्चारयिष्यते, `झियः' इति निर्देशः करिष्यते? नैष शक्यम्; एवं हि निर्देशे सति यङ्लुक्यपि स्यात्--शेशीत, शेश्यतीति।।
22. अयङिय क्ङिति। (7.4.22)
`शय्यते' इति। `सार्वधातुके यक्' (3.1.67)। `शाशय्यते' इति यङ्, परत्वान्नित्यत्वाच्च द्विर्वचनात् प्रागयङादेशः, ततः शय्येत्यस्य द्विर्वचनम्, `दीर्घोऽकितः' (7.4.83) इत्यभ्याससय दीर्घत्वम्। `प्रशय्य' इति। `समानकर्तृकयोः पूर्वकाले क्त्वा' (3.4.21), `कुगतिप्रादयः' (2.2.18) इति समासः, `समासेऽनञ्पूर्वे क्त्वो ल्यप्' (7.1.37) `येम्' इति। `ञचो यत्' (3.1.97)। `शय्या' [नास्ति--काशिकायाम्] इति। `सज्ञायां समजनि' (3.3.99) इत्यादिना क्यप्।।
23. उपसर्गाद्ध्रस्व ऊहते। (7.4.23)
`समुह्य गतः' इति। `ऊह वितर्के' (धा.पा.648)। यद्यपि यजादित्वात् किति सम्प्रसारणेनैतत् सिध्यति, तथाप्यूहेरपि दीर्घस्याश्रवणं तथा स्यादित्येवमर्थमिदं ह्रस्वविधानम्।
`समीह्यते' इति। `ईह चेष्टायाम्' (धा.पा.632)। `समूहितः' इति। क्तः। `समूहयोऽयमर्थः' इति। `ऋहलोर्ण्यत्' (3.1.124)। `अण इत्येव' इत्यादि। `केऽणः' (7.4.13) इत्यतोऽण्ग्रहणमनुवर्त्तते। `आ उह्यते ओह्यते, समोह्यते' इति। ह्रस्वत्वं न भवति। यद्यव्ग्रहणमनुवर्त्तते, तदा ह्रस्वविधानमनर्थकं स्यात्, उपसर्गादूहतेरुदिति वक्तव्यम्? नानर्थकम्; उत्तारार्थत्वात्--`एतेलिङि' (7.4.24) इति वक्ष्यति, तत्र `ह्रस्वः' इत्येतस्यानुवृत्तिर्यथा स्यात्।।
24. एतेर्लिङि। (7.4.24)
`उदियात्' इति। `इण् गतौ' (धा.पा.1045), आशिषि लिङ, `स्कोः संयोगाद्योरन्ते च' (8.2.29) इति सकारलोपः। `अभीयात्' इति। सवर्णदीर्घत्वेऽकृते ह्रस्वः। `आशिषि लिङि' इत्यादिना सूत्रस्य विषयं दर्शयति। सार्वधातुके हि लिङि दीर्घत्वमिणो न सम्भवतीति नात्रास्योपयोगः। यत्राकृत्सार्वधातुकयोर्दीर्घत्व (7.4.25) मापद्यते; तत्र दीर्घत्वे कृतेऽनेन ह्रस्वो भवति।
25. अकृत्सार्वधातुकयोर्दीर्घः। (7.4.25)
`भृशायते' इति। `भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः' (3.1.12) इति क्यङ्। `सुखायते' इति। `सुखादिभ्यः कर्त्तृवेदनायाम्' (3.1.18) इति क्ङ्। `चीयते' इति। कर्मणि लकारः, `सार्वधातुके यक्' (3.1.67)। `चेचीयते' इति। `गुणो यङ्लुकोः' (7.4.82) इत्यभ्यासस्य गुणः। `तोष्टूयते' इति। `ष्टुञ् स्तुतौ' (धा.पा.1043), `शर्पूर्वाः खयः' (7.4.61) इति खयः शेषः। `चीयात्, स्तूयात्' इति। आशिषि लिङ्।
`प्रकृत्य' इति। पूर्ववल्ल्यप्। स च `कृदतिङ्' (3.1.93) इति कृत्संज्ञकः। ननु च दीर्घश्रुत्याऽजित्येतस्मिन्नुपस्थिते तेनाङ्गं विशिष्यते तत्र विशेषणेन च तदन्तविधिरित्यजन्तस्याङ्गस्य दीर्घत्वेन भवितव्यमिति, इह `ह्रस्वस्य पिति कृति' (6.1.71) तुकि कृतेऽजन्तता नास्ति, ततश्चानजन्ततत्वादेव दीर्घत्वेन भवितव्यमिति, इह `ह्रस्वस्य पिति कृति' (6.1.71) तुकि कृतेऽजन्तता नास्ति, ततश्चानजन्तत्वादेव दीर्घत्वं न भविष्यति, किमेतन्निवृत्त्यर्थेनाकृद्ग्रहणेन? इत्यत आह--`परत्वात्' इत्यादि। तुकोऽवकाशः--अग्निचिदिति, दीर्घस्यावकाशः--चीयत इति; प्रकृत्य, प्रहृतय--इत्यत्रोभयप्राप्तौ सति, असत्यकृद्ग्रहणे परत्वाद्दीर्घत्वेन तुग्बाध्येत। तस्मादकृद्ग्रहणं कर्त्तव्यम्।
`चिनुयात्' इति। विध्यादिलिङ्, स च `तिङशित्सार्वधातुकम्' (3.4.113) इति सार्वधातुकसंज्ञकः।
`उरुया, धृष्णुया' इति। उरु धुष्णुशब्दयोस्तृतीयैकवचने `सुपां सुलुक्' (7.1.39) इत्यादिना याभावः।।
26. च्वौ च। (7.4.26)
`शुचीकरोति' इति। `उभूततद्भावे' (5.4.50) इत्यादिना च्विः। चकारः पूर्वापेक्षया समुच्चयार्थः।।
27. रीडृतः। (7.4.27)
यिग्रहणमनुवर्त्तते, अकृत्सार्वधातुकयोरिति च। `मात्रीयति' इति। `सुप आत्मनः क्यच्' (3.1.8)। `पित्रीयते' इति। `कर्त्तुः क्यङ् सलोपश्च' (3.1.11) इति क्यङ्। `चेक्रीयते' इति। करोतेर्यङ्। `पित्र्यम्' इति। `पितुर्यच्च' (4.3.79) इति यत्प्रत्ययः; रीङादेशे कृते `यस्येति च' (6.4.148) इतीकारलोपः।
कथं पुनः क्ङितोत्युचयमाने तत्रादेशो भवति? इत्याह--`क्ङितीत्येतदिह निवृत्तम्' इति। यद्येवं यिग्रहणस्यापि निवृत्तिः प्राप्नोति, तदेकयोगनिर्दिष्टत्वात्? नैतदस्ति; स्वरितत्वप्रतिबद्धा हि शब्दानामनुवृत्तिः। इह च यिग्रहणस्यैव स्वरितत्वं प्रतिज्ञायत इति तदेवानुवर्त्तते, क्ङिद्ग्रहणस्य स्वरितत्वं न प्रतिज्ञायत इति न तदिहानुवर्त्तते।
`चेकीर्यते' इति। `कृ विक्षेपे' (धा.पा.1409), `ऋत इद्धातोः' (7.1.100) इतीत्त्वे रपरत्वम्। `हलि च' (8.2.77) इति दीर्घः। `निजेगिल्यते' इति। `गॄ निगरणे' (धा.पा.1410), `लुपसद' (3.1.24) इत्यादिना यङ्, `यो यङि' (8.2.20) इति लत्वं रेफस्य। अथ दीर्घग्रहणं किमर्थम्, न रिङित्येवोच्येत, `अकृत्सार्वधातुकयोः' (7.4.25) इतिदीर्घत्वेनैव सिद्धमिति, तत्राप्ययमर्थः--उत्तरसूत्रे पुना रिङ्ग्रहणं न कर्त्तव्यं भवति, एतदेव हि तत्रानुवर्त्तिष्यते? न सिध्यति; नाप्राप्ते दीर्घत्वे रिङारभ्यमाणस्तस्य बाधकः स्यात्। भवतु नाम ऋकारस्य यो दीर्घस्तस्य बाधकः, यस्तु कृत आदेशे स्थान्यन्तरस्य प्राप्नोति तस्य कथं बाधकः, न ह्यस्मिन् प्राप्ते रिङारभ्यते? एवं तर्हि मन्दधियां सुखप्रतिपत्त्यर्थ दीर्घोच्चारणम्। ङकारोऽन्त्यादेशार्थः।।
28. रिङ् शयग्लिङक्षु। (7.4.28)
अत्रापि यिग्रहणम्, अकृत्सार्वधातुकं चानुवर्त्तते। तत्र सम्भवव्यभिचाराल्लिङ एव विशेषणाम् न शयकोः। `आद्रियते, आध्रियते' इति। `दृङ् आदरे' (धा.पा.1411), `धृङ् अवस्थाने' (धा.पा.1412) आङ्पूर्वः, तुदादित्वाच्छः। `क्रियात्' इति। `आशिषि लिङ्' (3.3.173)। `बिभृयात्' इति। अत्र बिध्यादिलिङ्, जुहोत्यादित्वात् श्लुः, `श्लौ' (6.1.10) इति द्विर्वचनम्, `भृञामित्' (7.4.76) इतीत्त्वमभ्यासस्य। `कृपीष्ट' इति। `आशिषि लिङ्' (3.3.173)। `उश्च' (1.2.12) इति कित्त्वाद्गुणाभावः।।
29. गुणोऽर्तिसंयोगाद्योः। (7.4.29)
`ऋ गतिप्रापणयोः' (धा.पा.936), `ऋ सृ गतौ' (धा.पा.1098,1099)--इत्येतयोर्भोवादिकजौहोत्यादिकयोर्ग्रहणम्। `छन्दोवत् सूत्राणि भवन्ति' (म.भा.) इत्यतः `बहुलं छन्दसि' (2.4.73) इति शयो लुकं कृत्वाऽर्त्तिति निर्देशः कृतः; अन्यथा हि यद्युच्छतीति निर्देशः क्रियेत, एवं सति जौहोत्यादिकस्य ग्रहणं न स्यात्। अथापीयर्त्तिनिर्देशः क्रियते, एवमपि भौवादिकस्य ग्रहणं न स्यात्। `ऋ' इत्येतन्निर्देशस्तु न कृतः, वैचित्र्यार्थः। पूर्वेण रिङः प्राप्तस्यायमपवादः। `श इत्यसम्भवान्निवृत्तम्' इति। असम्भवस्त्वर्त्तिसंयोगाद्योरशविकरणत्वात्। `अर्यते' इति। यक्। `अर्यात्' इति। आशिषि लिङ्।
अथ संस्क्रियते, संस्क्रियादित्यत्र कस्मान्न भवति, भवति हि करोतिरपि सुटि कृते संयोगाद्यङ्गम्? इत्यत आह--`इहेत्यादि। बहिरङ्गत्वं तु सुटो द्विपदाश्रयत्वात्। गुणस्य पुनरन्तरङ्गत्वमेकपदाश्रयत्वात्। `असिद्धं बहिरङ्गमन्तरङ्गे' (व्या.प.42) इति सुटोऽसिद्धत्वात् संयोगादित्वमङ्गस्य नास्ति। अथापि कथञ्चित् सुटसिद्धत्वं स्यात्, एवमप्यभक्तत्वात् सुटः संयोगादित्वं नास्ति, अतो गुणो न प्रवर्त्तते। अङ्गाधिकारादङ्गावयवः संयोगो गृह्यते। न ह्यत्राभक्तत्वे सुटोऽङ्गावयवः संयोग उपपद्यते। `इयृयात्' इति। `ऋ गतौ' (धा.पा.1098), विध्यादिलिङ्। जुहोत्यादित्वाच्छपः श्लुः, `श्लौ' (6.1.10) इति द्विर्वचनम्, `अर्त्तिपिपर्त्त्योश्च' (7.4.77) इत्यभ्यासस्येत्त्वम्, `अभ्यासस्यासवर्णे' (6.4.78) तीयङ्, `लिङः सलौपोऽनन्त्यस्य' (7.2.79) इति सलोपः।
`अर्त्तिसंयोगाद्योरत्' इति कर्त्तव्ये गुण ग्रहणं वैचित्र्यार्थम्।।
30. यङि च। (7.4.30)
पूरवेम प्राप्तस्य रीङोऽयमपवादः। `अरार्यते' इति। यङ गुणः, रपरत्वम्। `अजादेर्द्वितीयस्य (6.1.2) इति द्विर्वचनम्; हलादिशेषः, `दीर्घोऽकितः' (7.4.83) इति दीर्घत्वम्। ननु चार्त्तेरहलादित्वाद्यङ न प्राप्नोति? इत्यत आह--`अर्त्तेः' इत्यादि।
भवतु नामोपसंख्यानाद्यङ्, रेफादेश्तु द्विर्वचनेन न भवितव्यम्, `न न्द्राः संयोगादयः' (6.1.3) इति प्रतिषेधात्? इत्यत आह--`न न्द्राः संयोगादयः' इति। उक्तं हि ततर--यकारपरस्य रेफस्य प्रतिषेधो वक्तव्यः। तस्माद्रेफादेर्यं इत्येतस्य द्विर्वचनं भवति। `जङ्घन्यते' इति। `नुगतोऽनुनासिकान्तस्य' (7.4.85) इति नुक्, `अभ्यासाच्च' (7.3.55) इति कुत्वम्।।
31. ई घ्रध्मोः। (7.4.31)
अत्र दीर्घोच्चारणं किमर्थम्, दीर्घो यथा स्यात्, ह्रस्वो मा भूत्? नैतदस्ति; ह्रस्वस्यापि हि विधाने अकृत्सार्वधातुकयोर्दीर्घः' (7.4.25) इत्येवं सिध्यति, `च्वौ च' (7.4.26) इति यथायोगं दीर्घो भविष्यति? एवं तर्ह्येतज्ज्ञापयति--`संज्ञापूर्वको विधिरनित्यः' (व्या.प.64) इति। तेन स्वायम्भुवमिति सिद्धं भवति।।
32. अस्य च्वौ। (7.4.32)
`च्वौ च' (7.4.26) इति दीर्घस्यापवादः।।
33. क्यचि च्। (7.4.33)
`अकृत्सार्वधातुकयोर्दीर्घः' (7.4.25) इत्यस्यायमपवादः। चकारः `अस्य' (7.4.32) श्यनुकर्षणार्थः। अथ पॄथग्योगकरणं किमर्थम्, नास्य `च्चिक्यचोः' इत्येकयोग एव क्रियताम्? इत्यत आह--`पृथग्योगकरणम्' इत्यादि। `न च्छन्दस्यपुत्रम्य' (7.4.35) इत्येवमाद्युत्तरकार्यं क्यचि यथा स्यात्, च्वौ मा भूत्--इत्येवमर्थो योगविभागः कृतः।।
34. अशनायोदन्यधनायाबुभुक्षापिपासागर्थैषु। (7.4.34)
भोक्तुमिच्छा बुभुक्षा। पातुमिच्छा पिपासा। गर्धनं गर्धः। अभिकाङ्क्षेत्यर्थः।।
35. न च्छन्दस्यपुत्रस्य। (7.4.35)
`क्यचि यदुक्तं तन्नभवति' इति। किं पुनस्तत्? इत्याह--`दीर्घत्वमीत्वञ्च' इति। ननु च `अनन्तरस्य विधिर्वा भनत प्रतिषेधो वा' (व्या.प.19) इत्यनन्तरस्य ईत्वस्य प्रतिषेधेन भवितव्यम्, न तु व्यवहितस्य दीर्घत्वस्य? नैष दोषः; `अश्वाधस्यात्' (7.4.37) इत्यश्वाघयोराद्वचनं ज्ञापकम्--दीर्घत्वस्याप्ययं प्रतिषेधो भवतीति; अन्यथा दीर्घत्वेनैव सिद्धत्वादाकारकरणमनर्थकं स्यात्। `मित्रयुः' इति। `क्याच्छन्दसि' (3.2.170) इत्युप्रत्ययः; `अतो लोपः' (6.4.48) इत्यकारलोपः।
`अपुत्रादीनामिति वक्तव्यम्' ति। पुत्रादीनां प्रतिषेधो न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--`क्यचि च' (7.4.33) इत्यस्यानन्तरं पुत्रस्येति वक्तव्यम्, किमर्थमिदम्? `नच्छन्दसि' इति प्रतिषेधं वक्ष्यति तद्बाधनार्थम्। एवं `अपुत्रस्य' इति नञ् उच्चारयितव्यो न भवति। तदिदं `क्यचि च' (7.4.33) इत्यस्यानन्तरं पुत्रस्येति वक्तव्ये यदिहापुत्रस्येति वचनं तत् पूत्रादीनां प्रतिषेधो यथा स्यादित्येवमर्थम्। एतच्च पुत्रस्योपलक्षणत्वाल्लभ्यते।।
36. दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति। (7.4.36)
37. अश्वाघस्यात्। (7.4.37)
`एतदेवाद्ववचनं ज्ञापकम्' इत्यादि। कथं कृत्वा ज्ञापकम्? यदि `न च्छन्दसि' (7.4.35) इत्यनन्तरस्यैवेत्वस्यायं प्रतिषेधः तदाऽद्वचनमनर्थकं स्यात्, `अकृत्सार्वधातुकयोः' (7.4.25) इत्यनेनैव सिद्धत्वात्, कृतञ्च, तस्मादेतज्ज्ञापयति--दीर्घस्याप्ययं प्रतिषेधो भवतीति।।
38. देवसुम्नयोर्यजुषि काठके। (7.4.38)
`न च्छन्दसि' (7.4.35) इति प्रतिषेधे प्राप्ते देवसुम्नयोरिदमारभ्यत आद्वचनम्। `काठके' इति। यजुष एवैतद्विशेषणम्। कठस्येदं यजुः काठकम्--`गोत्रचरणाद्वञ्' (4.3.126)।।
39. काव्यध्वरपृतनस्यचिं लोपः। (7.4.39)
`काव्यन्तः' इति। `अलोऽन्त्यस्य' (1.1.52) लोपः। क्यजन्ताच्छतृप्रत्ययः, तदन्ताज्जस।।
40. द्यतिस्यतिमास्थामिति किति। (7.4.40)
छन्दसि, यजुषि, ऋचीति सर्व निवृत्तम्; तेन सामान्येनायं विधिः। `दो अवखण्डने' (धा.पा.1148), `षो अन्तकर्मणि' (धा.पा.1147)। `मा माने' (धा.पा.1062), `माङ माने' (धा.पा.1142), `मेङप्रणिदाने' (धा.पा.961)--`गामादाग्रहणेष्वविशेषः' (व्या.प.124) इति त्रयाणामपि ग्रहणम्। `ष्ठा गतिनिवृत्तौ' (धा.पा.928)। तत्राद्यस्य `दो दद्घोः' (7.4.46) इति दत्त्वे प्राप्ते शेषाणां `घुमास्था' (6.4.66) इत्यादिसूत्रेण ईत्त्वे प्राप्त इत्त्वं विधीयते।।
`अवदाय' इति। पूर्ववत् क्त्वो ल्यप्। `अवदाता' इति। तृच्।
द्यतिस्यतति श्तिपा निर्देशोऽयं यङलुग्निवृत्त्यर्थः। तेन तयोर्यथाप्राप्तमेव भवति--दादत्तः, दादत्तवान्, सासीतः, सासीतवान्।
तपरकरणं मुखसुखार्थम्, न तु दीर्घनिवृत्त्यर्थम्। `भाव्यमानोऽण् सवर्णान्न गृह्णाति' (व्या.प.35) इति दीर्घस्याप्राप्तेः।।
41. शाच्छोरन्यतरस्याम्। (7.4.41)
`शो तनूकरणे' (धा.पा.1145), `छो छेदने' (धा.पा.1146)।
`श्यतेरित्त्वं व्रते नित्यम्' इति। ब्रत इति नोत्तरपदं गृह्यते, किं तर्हि? विषयः। व्रतविषये श्यतेर्नित्यमित्त्वं भवति। `संशितो ब्राह्मणः' इति। आचारविशेषे व्रताख्ये यत्नवानेवोच्यते संशितव्रत इति। संशितं यत्नेन सम्यक् प्रतिपादितं व्रतं यस्य येन वा स एवमुच्यते। ननु च व्रतविषये विधौयमानेनेत्त्वेनैव व्रतस्य द्योतितत्वाद्व्रतशब्दस्य प्रयोगो न प्राप्नोति? नैष दोषः; अन्यत्र हीत्वं भवत्येव, व्रते तु नित्यमाख्यायते, सोऽयं सामान्यशब्दो भवति। अत्र विशेषार्थो व्रतश्ब्दः प्रयुज्यते। परनिपातस्त्वाहितग्न्यादित्वाद्द्रष्टव्यः। `व्यवस्थितविभाषाविज्ञानात् सिद्धम् इति।
एतदागमवाक्येन द्रढयितुमाह--`देवत्रातः' इत्यादि। `त्रैङ् पालने' (धा.पा.965), क्तः। `नुदविदोन्दत्राघ्रह्रीभ्योऽन्यतरस्याम्' (8.2.56) इति संज्ञाविषये नत्वं न भवत्येव--देवैस्त्रातो देवत्रातः, देवशब्दोऽत्र संज्ञोपलक्षणार्थः। केवलस्यापि त्रातशब्दस्य संज्ञायां न नत्वं प्रतिपद्यते। एवं सज्ञाया अन्यत्रोभयं भवति--त्राणः, प्रात इति। `गलः' इति। गिरतेः पचाद्यच्। `ग्रो यङि' (8.3.20), `अचि विभाषा' (8.2.21) इति प्राण्यङ्गे नित्यं लत्वम्--गल इति। विषे तु भवत्येव--गर इति। `ग्राहः' इति। ग्राहेः `विभाषा ग्रहः' (3.1.143) इति णप्रत्ययः। जलचरे नक्रे नित्यं णप्रत्ययो भवति--ग्राह इति। आदित्यसोमादिषु पचाद्यज्भवत्येव--ग्रह इति। `इतियोगे च सद्विधिर्न भवति' इति। वर्षतीति धावति, हन्तीति पलायते इति--`लक्षमहेत्वोः क्रियायाः' (3.2.123) इति सत्संज्ञकौ शतृशानचावितियोगे न भवत एव, व्यवस्थितविभाषया। तत्र `नन्वोर्विभाषा' (3.2.121) इत्यतो विभाषाग्रहणमनुवर्त्तते--अर्जयन् वसति, अधीयानो वसति। तत्रासतीति योगे नित्यावेव तौ भवतः। ननु चेतिशब्देनैव हेत्वर्थस्य द्योतितत्वाद्वर्षतीति, हन्तीत्येवमादौ सद्विधिर्न भविष्यति, यत्र त्वितिशब्दो न प्रयुज्यते तत्र भवत्येव--अर्जयन् वसतीत्यादौ, तदत्र विभाषाधिकारनन्तरेणापि विभाषा लभ्यत एव; अतो विभाषाग्रहणं नानुवर्त्त्यमेव, तस्मादनुदाहरणमेतद्व्यवस्थितविभाषायाः? इदं तर्ह्युदाहरणम्--करिष्यामीति व्रजतीति। अत्र `लृट् शेषे च' (3.3.13) इति चकारात् क्रियायामुपपदे क्रियार्थायां लृट्, तस्य लृटः सद्विधिर्न भविष्यतीति; व्यवस्थितविभाषया। अप्रथमासमानाधिकरणेनेतियोगादन्यत्र नित्यं भवति--करिष्यन्तं पश्येति, प्रथमासमानाधिकरणे तु विकल्पः--ब्राह्मणः करिष्यन् ब्राह्मणः करिष्यतीति।
`मिथः' इत्यादि। मिथ इति सहभावेन। देवत्रातगलग्राहादयस्त्राणगरग्रहादिभिः सहैकस्मिन् विषये विकल्पेन नान्वाख्यायन्त इत्यर्थः। `गवाक्षः' इति। `सर्वत्र विभाषा गोः' (6.1.122) इत्यनुवर्त्तमाने `अवङ् स्फोटायनस्य' (6.1.123) इति वातायने नित्यमवङ् भवति, प्राण्यङ्गो तु गोऽक्षमित्यत्र न भवति; अन्यत्रोभयम्--गवाक्षम्, गोऽक्षमिति। `संशितव्रतः' इति। व्रते नितयमित्त्वम्। अन्यत्र विकल्पेन--निशितम्, निशातं शस्त्रम्। तीक्ष्णमित्यर्थः। तदेतत् सर्वं व्यवस्थितविभाषया लभ्यते। क्वचिद्विधिरेव, क्वचित् प्रतिषेध एव, क्वचिदुभयमपीत्येवंविधा विविधार्थे स्थितां विभाषा व्यवस्थितविभाषा। एतच्च विविधमवस्थानमाकृतौ पदार्थे वेदितव्यम्। तत्र हि सर्व लक्ष्यराशिमेकीकृत्याभिसंक्षिप्य तदुभयमुपदिश्यते। विधिः प्रतिषेधश्च जातौ पदार्थ उभयमपि भवतीत्येतावतोऽर्थस्य प्रतिपादने शास्त्रस्य व्यापारः। यस्तु क्वचिदर्थे विधिरेव, क्विचित् प्रतिषेध एव, क्वचिदुभयमित्यसङ्करेण व्यवस्थानम्, एतच्चाविच्छिन्नाचार्यपारम्पर्योपदेशाल्लभ्यते।।
42. दधातेर्हिः। (7.4.42)
धुमास्था' (6.4.66) इति सूत्रेणेत्त्वे प्राप्ते दधातेर्हिरादेशो विधीयते। श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थः। तेन यङ्लुगन्तस्य हिरादेशो न भवति--दाधीतः, दाधीतवान्, दाधीत्वेति।।
43. जहीतेश्च क्त्वि। (7.4.43)
पूर्ववदीत्त्वे प्राप्ते क्त्वाप्रत्यये हिरादेशो विधीयते। यद्यपि `हि गतौ' (धा.पा.1257) इत्यस्यापि हित्वेति सिध्यति, तथापि जहातेरिकारनिवृत्त्यर्थ वचनम्।
अथ किमर्थं जहातेरिति श्तिपा निर्देशः, न `हः' एवोच्यते? इत्याह--`जहातेः' इत्यादि। एतेन `ओहाङ् गतौ' (धा.पा.1089) इत्यस्य निवृत्त्ये निर्देशः क्रियत इति दर्शयति। यदि हि `हः' इति निर्देशः स्यात्, तदा तस्य साधारणत्वाज्जिहातेरपि स्यात्। जहातेरिति श्तिपा निर्देशे तु न भवति। अनेन जहातिरेव निर्दिश्यते, न जिहातिः। न हि तस्यैवंविधो निर्देशे यङ्लुगन्तस्य न भवति--जाहात्वेति। ईत्वमप्यत्र न भवति; तद्विधावपि श्तिपा निर्देशात्। अत्र चेटि कृते `आतो लोप इटि च' (3.4.64) इत्याकारलोपः।।
44. विभाषा छन्दसि। (7.4.44)
45. सुधितवसुधितनेमधितधिष्वधिषीय च। (7.4.45)
चकारेण छन्दसीत्यनुकृष्यते। `इडागमो वा' इति। यदेडागमस्तदा `आतो लोप इटि च' (6.4.64) इत्याकारलोपः। `सुधितम्' इति, `कुगतिप्रादयः' (2.2.18) इति समासः। `वसुधितम्' इति। विशेषणसमासः। पूर्ववदाकारलोपः। `नेमधितम्' इति। `सामि' (2.1.27) इति द्वितीयासमासः। सामीति तत्रार्थग्रहणमित्युक्तम्। नेमशब्दश्चायं सामिशब्दपर्यायः। `धिष्व' इति। `थासः से' (3.4.80), `सवाभ्यां वामौ' (3.4.91) इति वकारः। `द्विर्वचनाभावः' इति। `श्लौ' (6.4.112) इत्यकारलोपः; घकारस्य `खरि च' (8.4.55) इति चर्त्वम्--तकारः, `दधस्तथोश्च' (8.2.38) इत्यभ्यासस्य भष्भावेन धकारः। `धिषीय' इति। आशिषि लिङ्, `इटोऽत्' (3.4.106) इत्यत्त्वम्।।
46. दो दद्घोः। (7.4.46)
छन्दसीति निवृत्तम्; पूर्वसूत्रे चकारेणानुकृष्टत्वात्। `दत्तः दत्तवान्' इति। क्तक्तवतू। `दत्तिः' इति। क्तिन्। `धीतः, धीतवान्' इति। पूर्ववदीत्त्वम्।
अथ `दधातेर्हिः' (7.4.42) इति हिरादेशः कस्मान्न भवति? इत्यत आह--`घेट एतद्रूपम्' इत्यादि। `धेट् पाने' (धा.पा.902) इत्यस्य रूपम्, न दधातेः। तेन हिरादेशो न भवतीति भावः। `दातम्' इति। `दाप् लवने' (धा.पा.1059) इत्येतस्यैतद्रूपम्; तस्य घुसंज्ञा नास्ति; `अदाप्' (1.1.20) इति प्रतिषेधात्।
`दो दद्घोः' इति जश्त्वेनायं न्र्देशः, तत्र न ज्ञायते--किं तककारान्तोऽयमादेशः? आहोस्विद्दकारान्तः? उत धकारान्तः? अथ थकारान्त इति वा?--इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह--`अयमादेशः' इत्यादि। कथं ज्ञायते? इत्याह--`एवं ह्युक्तम्' इत्यादि। यद्ययमादेशस्तकारान्तः स्यात्, सुदत्तेत्यत्र `इकः काशे' (6.3.123) इत्यनुवर्त्तमाने `दास्ति' (6.3.124) इती दीर्घत्वं स्यात्। अथ दकारान्तः, तदा `रदाभ्याम्' (8.2.42) इति निष्ठानत्वं स्यात्। अथ धकारान्तः, तदा `झषस्तथोर्घोऽधः' (8.2.40) इति झषन्ताद्धत्वमापद्येत निष्ठातकारस्य। `थान्तेऽदोषः' इति। नञोऽत्र प्रश्लेषः। थान्ते दोषो नास्तोत्यर्थः। `तस्मात्' इत्यादि। यस्मात् त्रिषु पूर्षकेषु पक्षेषु दोषः, तस्मात्थान्तोऽयमादेशः। उदाहरणे दत्तः, दत्तवानिति `खरि च' (8.4.55) इति चर्त्वम--थस्य तः।
`यदि तु' इत्यादि। द्वौ पक्षौ भाध्ये `दस्ति' (6.3.124) इत्यत्र दर्शितौ--`दा' इत्येतस्मिंस्तकारादौ, तकारान्ते वेति। तत्र यदि तकारान्ते `दा' इत्येतस्मिन् दीर्घत्वं भवतीति--एष पक्ष आश्रीयते, तदैव दीर्घत्वप्राप्तिदोषः। यदि तु तकारादौ `दा' इत्येतस्मिन् दीर्घत्वं भवतीति--एष पक्ष आश्रीयते, तदा तान्तेऽप्यदोषः। यत्र तकारादित्वम्, `दा' इत्येतस्य, तत्र दीर्घत्वं भवत--नीत्तम्, वीत्तमित्यादौ, न तु सुदत्तादौ। तस्मात् पाक्षिको दीर्घप्राप्तिदोषः। `दान्तधान्तयोरपि' इत्यादि। तकारादिसन्नियोगेन हि दान्तधान्तावादेशाविमौ विहितौ नोत्सहेते तद्विघातनिमित्ततामुपगन्तुम्। तस्माद्दान्तधान्तयोरप्यदोषः।
`अवदत्तम्' इत्यादि। आदिकर्मणि=क्रियारम्भे। आदिभूतक्रियाक्षण इत्यर्थः। अत्र `अच उपसर्गात्तः' (7.4.47) इति तकारादेशे प्राप्त एतेऽवदत्तादयो निपात्यन्ते। `आदिकर्मणि' इति च सर्वेषां विशेषणम्, न तु प्रदत्तमित्यस्यैव। आदिकर्मणोऽन्यत्र `अच उपगर्गात्तः' (7.4.47) इति तकारादेशो भवति, न तु दद्भावः--अवत्तम्, वीत्तम्, सूत्तम्, अनूत्तमिति।
`अनुपसर्गाः' इत्यादि। अथ वा--अवादयो ददातिं प्रत्युपसर्गसंज्ञका एव न भवन्ति; तद्वाच्यायाः क्रियया अन्या या क्रिया गमिर्वाच्या तद्विषयत्वात्--अवगतं दत्तमवदत्तमित्येवमन्यत्रावगन्तव्यम्। तस्माद् गमिं प्रत्युपसर्गसंज्ञका एते, न ददातिं प्रति। तथा ह्युक्तम्--यं प्रति क्रियायृक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्तीति। तस्मादुपसर्गसंज्ञाया अभावान्नैवात्र तकारः प्रसजेदिति किं निपातनेन!।।
47. अच उपसर्गात्तः। (7.4.47)
ददादेशस्यायमपवादः। `त इत्ययमादेशो भवति' इति। अकार उच्चारणार्थः। प्रत्तमित्यादावाकारस्य तकारे कृते दकारस्य चर्त्वम्--तकारः `नीत्तम्' इति। `दस्ति' (6.3.124) इति दीर्घत्वम्। `अवदात्तम्' इति। `दैप् शोधने' (धा.पा.924) इत्येतस्यैतद्रूपम्।
`आदेरलः प्राप्नोति' इति। `आदेः परस्य' (1.1.54) इति वचनात्। `अच इत्येतद्द्विरावर्त्तयितव्यम््' इति। `अचः' इत्येतस्य द्विरावृत्तावचोऽच इति द्वे शब्दरूपे भवतः। तत्रैकं पञ्चम्यन्तम्; अपरं षष्ठ्यन्तम्। तत्रैकेनोपसर्गो विशिष्यते--अजन्तादुपसर्गादिति। इतरेणापि स्थानी निर्दिश्यत इत्येवमाकारस्यायमादेशो भवति। `द्वितकारो वा' इति। अथ वा--`अच उपसर्गात्तः' इति। द्वितकार एव संयोगादेशो निर्दिश्यते, तेनास्यानेकास्त्वात् सर्वस्यैव भवति, यदि तर्हि द्वितकारकोऽयं निर्देशस्तदा `अपो भि' (7.4.48) इत्यनेनापि सर्वादेशः प्राप्नोति, नेकाल्त्वादित्याह--`अषो भि' इत्यादि। `अपो भि' इत्यत्र पञ्चम्यन्तमच इत्यनुवर्त्तते, तेन सत्यप्यनेकाल्त्वे `तस्मादित्युत्तरस्य' (1.1.67) इति पकारमात्रस्य भविष्यति, न सर्वस्येति।
`द्यतेः' इत्यादि। द्यतेरित्यस्यावकाशः--यत्राजन्त उपसर्गो न भवति--निर्दितम्, दुर्दितमिति; अस्यादेशस्यावकाशः--अजन्तादुपसर्गात् परो योऽन्यो घुसंज्ञकः--`डुदाञ् दाने' (धा.पा.1091), अवत्तम्, परीत्तमिति; अजन्तादुपसर्गादुत्तरस्य द्यतेरुभयप्रसङ्गे सति तकार एव भवति विप्रतिषेधेन--अवत्तम्, प्रत्तमिति।।
48. अपो भि। (7.4.48)
`अद्भिः' इति। `झलां जशोऽन्ते' (8.2.39) इति जश्त्वम्--तकारस्य दकारः। `द्वितकारपक्षे तु पूर्वस्यापि `झलां जश्झशि' (8.4.53) इति जश्त्वम्--दकारः। `झरो झरि सवणं' (8.4.65) इति पूर्वदकारलोपः।
`सुवः' [`स्ववः' इति। काशिका] इत्यादि। सुवस्, स्वतवस्, मास, उवस्--इत्येतेषां च भकारादौ परतस्त इत्ययमादेश इष्यते च्छन्दसि विषये। स च `व्यत्ययो बहुलम्' (3.1.85) इत्यनेनैव लभ्यत इति वेदितव्यम्।।
49. सः स्यार्धधातुके। (7.4.49)
अत्रापि द्वितकारपक्षेऽनेकाल्त्वात् सर्वादेशः प्राप्नोति, तस्मात् `अचः' इति। पञ्चम्यन्तमनुवर्त्तनीयमिति। अथ वा--`निर्दिश्यमानस्यादेशा भवन्ति' (व्या.प.106) इति सकारस्यैव भविष्यति। `वत्स्यति' इति। `वसनिवासे' (धा.पा.1942)। `जिघत्सति' इति। अदेः सन्, `लुङ्सनोर्घस्लृ' (2.4.37) इति तस्य घस्लादेशः। `वक्ष्यति' इति। `वच परिभाषणे' (धा.पा.1842), `चोः कुः' (8.2.30) इति कुत्वम्। `घासः, वासः' इति। भावे घञ्, `घञपोश्च' (2.4.38) इत्यदेर्घस्लादेशः। `आस्से, वस्से' इति। `आस उपवेशने' (धा.पा.1021), `वस आच्छादने' (धा.पा.1023), अनुदात्तेत्त्वादात्मनेपदम्, `चासः से' (3.4.80), अदादित्वाच्छपो लुक्।
अथ `सः स्यतिङ्' इति कस्मान्नोक्तम्? नैवं शक्यम्; इहापि न स्यात्--व्यतिवत्सीष्ठा इति।।
50. तासस्त्योर्लोपः। (7.4.50)
`अनद्यतने लुट्' (3.3.15) तासिः, सिप्। `कर्त्तासे' इति। `थासः से' (3.4.80)। `त्वमसि' इति। `स भुवि' (धा.पा.1065), पूर्ववच्छपो लुक्। `व्यतिसे' इति। `कर्त्तरि कर्मव्यतीहारे' (1.3.14) इत्यात्मनेपदं भवति। `थासः से' (3.4.80), `श्नसोरल्लोपः' (6.4.111) इत्यकारलोपः।
अथ `आदेशप्रत्यययोः' (8.3.59) इति षत्वं कस्मान्न भवति? इत्यत आह--`अस्तेरकारसकारयोः' इत्यादि। अकारसकारयोर्हि लुप्तयोः प्रत्ययमात्रमवशिष्यते, तदेव पदम, अतः `सात्पदाद्योः' (8.3.111) इति प्रतिषेधात् षत्वं न भविष्यतीति भावः।।
51. रि च। (7.4.51)
`कर्त्तारौ, कर्त्तारः' इति। लुट्, तस्, झिः, `लुटः प्रथमस्य डारौरसः' (2,4,85) इति तसो झेश्च यथाक्रमं रौरसौ भवतः। `अध्येतारौ, अध्येतारः' इति। इङो ङित्त्वादत्मनेपदम् आताम्, झः तयोश्च पूर्ववद्रौरसौ। अस्ते रेफादिप्रत्ययो न सम्भवतीति नास्त्युदाहरणम्। केचित्तु--`व्यतिरे' इत्युदाहरणं दर्शयन्ति; एतच्च च्छब्दस्येवं प्रयोगो यद्यसति ततो युक्तम्, अथ तु नास्त्येवं सत्ययुक्तम्। `इरयो रे' (6.4.76) इति रेभावश्छन्दसि विधीयते, `यथादृष्टानुविधिश्छन्दसि' (व्या.प.68) इति। चकारः पूर्वापेक्षया समुच्चयार्थः।।
52. ह एति। (7.4.52)
`कर्त्ताहे' इति। कृञो लुट्, आत्मनेपेदम्, उत्तमपुरुषैकवचनम्, इट्, टेेत्त्वम्। अत्र सकारस्यानेन हः। `व्यतिहे' इति। अस्तेः `कर्त्तरि कर्मव्यतिहारे' (1.4.14) इत्यात्मनेपदम्, पूर्ववदकारलोपः। `एति' इति। तपरकरणं सप्तम्यामयादेशपरीहारार्थम्। अयादेशे हि सति सन्देहः स्यात्--कस्यायं निर्देश इति--किमयादेशस्य? अथैकारस्य?।।
53. यीवर्णयोर्द्दीधीवेव्योः। (7.4.53)
स्वरितत्वाल्लोपोऽनुवर्त्तते, न त्वनन्तरो हकारः, तस्यास्वरितत्वाप्रतिज्ञानात्। यकारे त्विकार उच्चारणार्थः। यिश्च इवुर्णश्च तौ योवर्णौ तयोः परतः `दीधीङ् दीप्तिदेवनयोः' (धा.पा.1076) `वेवीङ् वेतिनां तुल्ये' (धा.पा.1077)--इत्यनयोर्लोपो भवति, स च `अलोऽन्त्यस्य' (1.1.52) इत्यन्त्यस्य। यकारादौ श्रवणे प्राप्त इवर्णादौ `एरनेकाचः' (6.4.82) इति यणादेशे प्राप्ते लोपवचनमिदम्। `आदीध्य, आवेव्य' इति। ल्यप्। `आदीध्यत, आवेवित' इति। `भावकर्मणोः' (1.3.13) इत्यात्मनेपदम्, `सार्वधातुके यक्' (3.1.67)। `आदीधित, आवेवित' इति। `भावकर्मणोः' (1.3.13) इत्यात्मनेपदम्, `सार्वधातुके यक्' (3.1.67)। `आदीधित, आवेवित' इति। तृच्। `आदीध्यनमादेव्यनम्' इति। ल्युट्, `दौधीवेवीटाम््' (1.1.6) इति गुणनिषेधाद्यणादेशः। अत्र यद्यपि निमित्त्योः कार्यिणोः समानत्वम्, तथापि यथासंख्यं न भवति; अस्वरतत्वात्। वर्णग्रहणमिवर्णे श्रूयमाणे यथा स्यात्, इह मा भूत्--आदीधयतेः, आवेवयतेर्णिजन्ताण्णवुल्, आदीध्यकः, आदेव्यकः। अत्र हि नित्यत्वाण्णिलोपे कृते प्रत्ययलोपलक्षणन (1.1.62) प्राप्नोति, अतो वर्णग्रहणान्न भवति।।
54. सनि मीमाघुरभलभशकपतपदामच इश्। (7.4.54)
`सः स्यार्धधातुके' (7.4.49) इत्यतः सीत्यनुवर्त्तते, तच्च सोन विशेषणम्। `मीति मीनातिमिनत्योः' इति। `मीञ् हिंसायाम्' (धा.पा.1476), `डुमिञ् प्रक्षेपणे' (धा.पा.1250)--इत्येतयोः। ननु च `मी' इत्येतस्मिन्नुच्चार्यमाणे मिनोतेर्ग्रहणं नोपपद्यते? नैवम्; अस्यापि `अज्झनगमां सनि' (6.4.16) इति दीर्घत्वे कृते मीत्येवं रूपं भवति। एवमपि लक्षणप्रतिपदोक्तपिभाषया (व्या.प.3) तस्य ग्रहणं नोपपद्यते? नैतदस्ति; अत्र हि घुसंज्ञकत्वात् `घु' इत्यस्य पूर्वनिपातमकुर्वतैतत् सूचितम्--यथा पूर्वनिपात इह नापेक्ष्यते, तथान्यदपि किञ्चिच्छास्त्रीयं वचनमिति। तेनेयं परिभाषा नापेक्ष्यत इति युक्तं मिनोतेरपि ग्रहणम्। `मा हि गामादाग्रहणेष्वविशेषः' इति। मेङप्रभृतीनां पूर्वोक्तानां त्रयाणां ग्रहणम्। `घु' इति घुसंज्ञकौ `दा' `धा'--इत्यतौ गृह्यते। `रभ राभस्ये' (धा.पा.974), `डुलभष् प्राप्तौ' (धा.पा.975), `शक्लृ शक्तौ' (धा.पा.1261), `शल हुल पत्लृ गतौ' (धा.पा.843,844,845), `पद गतौ' (धा.पा.1169)--एषामचः स्थाने सकारादौ प्रत्यये सनीस् भवति।
अच इत्यस्य ग्रहणं सर्वादेशो मा भूदित्येवमर्थम्। असति हि तस्मिन्ननेकाल्त्वात् सर्वादेशः स्यात्। `प्रमित्सनि' इति। `अत्र लोपोऽब्यासस्य' (7.4.58) इत्यभ्यासलोपः, `सः स्यार्धधातुके' (7.4.49) इति तस्य सः। `अपमित्सते' इति। `पूर्ववत्सनः' (1.3.62) इत्यात्मनेपदम्। एवं आरिप्सते' `आलिप्सते' इत्यत्रापि। `खरि च' (8.4.55) इति चर्त्वम्--भकारस्य पकारः, `त्कोः संयोगाद्योरन्ते च' (8.2.29) इति सलोपः।।
55. आप्ज्ञप्यृधामीत्। (7.4.55)
`ईप्सति' इति। `आप्लृ व्याप्तौ' (धा.पा.1260)। `ज्ञीप्सति' इति। `ज्ञा अवबोधने' (धा.पा.1507), णिच्, `अर्त्ति' (7.3.36) इत्यादिना पुक्, `मारणतोपणनिशामनेषु ज्ञा' (धा.पा.811) `मिच्च' इति मित्संज्ञायां ह्रस्वः, `णेरनिटि' (6.4.51) इति णिलोपः। `ईर्त्सति' इति। `ऋधु वृद्धौ' (धा.1271), ईकारः, रपरत्वं च, श्रकारस्य `खरि च' (8.4.55) इति चर्त्वम्--तकारः।
इह च ज्ञापिनाङ्गेनाज्विशेषयितव्यः, न त्वचा ज्ञापिः, व्यभिचाराभावात्। न हि ज्ञपरजन्ततां व्यभिचरति। अचि तु ज्ञपिनाङ्गेन विशिष्यमाणे सर्वस्य ज्ञपिसम्बन्धिनोऽच ईत्त्वेन भवितव्यम्, तथा च णेरपीत्त्वे कृते ज्ञीप्सतीति न सिध्येदित्येतच्चोद्यमाशङ्क्याह--`ज्ञपेर्द्वावचौ' इत्यादि। तत्रेत्त्वास्यावकाशोऽजाद्यः, णिलोपस्यावकाशः--कारणा, हारणा; द्वितीयस्याच उभयप्रसङ्गे णिलोप एव भवति पूर्वविप्रतिषेधेन--ज्ञीप्सतीति। `इतरस्य' इति। अकारस्य। `अर्दिधिषति' इति। लघूपधगुणः, रपरत्वम्, `अजादेर्द्वितीयस्य' (6.1.2) इति `धि' इत्येतद्द्विरुच्यते। रेफस्य तु द्विर्वचनं न भवति; `न न्द्राः संयोगादयः' (6.1.3) इति प्रतिषेधात्। अभ्यासस्य जश्त्वम्--जकारः। तकारो मुखसुखार्थः।।
56. दम्भ इच्च। (7.4.56)
contin...
56. दम्भ इच्च। (7.4.56)
`धिप्सति, धीप्सति' इति। `दन्भु दम्भे' (धा.पा.1270)। तस्य यदा `सनीवन्तर्ध' (7.2.49) इत्यादिनेण्न क्रियते, सनि सकारादाविकारः, ईकारश्च, `हलन्ताच्च' (1.2.10) इति कित्त्वादनुनासिकलोपः, भकारस्य चर्त्त्वे पकारः।।
57. मुचोऽकर्मकस्य गुणो वा। (7.4.57)
`मोक्षते' इति। `मुच्लू मोक्षणे' (धा.पा.1430)। `चोः कुः' (8.2.30) इति कुत्वम्; `इण्कोः' (8.3.57) इति षत्वम्, `कर्मवत्कर्मणा' (3.1.87) इत्यदिना कर्मवदतिदेशादात्मनेपदम्। `स्वयमेव' इति वचनं कर्मकर्त्तृत्वप्रदर्शनार्थम्। वत्सं मोक्तुमिच्छति, स मोक्तुमिष्यमाणो मुक्तिक्रियां प्रत्यानुकूल्यं यदा प्रतिपद्यते तदा स्वतन्त्रत्वादस्मिन् कर्मणि कर्त्तृत्वेन विवक्षिते मुचिरकर्मको भवति।
अथ गुणग्रहणं किमर्थम्, नोदित्येवोच्येत? नमु चैदं सत्योकारश्चकारस्य स्थाने `अलोऽन्त्यस्य' (1.1.52) प्राप्नोति, गुणग्रहणादिक एव भवति, संज्ञाविधाने नियमात्? नैतदस्ति; अच इत्यनुवर्त्तते। तेनान्त्यस्य न भविष्यति। एवं तर्ह्येतज्ज्ञापयति--अच इति निवृत्तमिति। तेन `अत्र लोपोऽभ्यासस्य' (7.4.58) इत्यत्रातोऽभ्यासस्य लोपो न भवति। सति त्वजधिकारे, मा भूत् तस्यानुवृत्तिरपार्थिकेत्यच एव लोपः स्यात्।।
58. अत्र लोपोऽभ्यासस्य। (7.4.58)
अत्रेत्यनेन यन्निर्दिश्यते तद्दर्शयितुमाह--`यदेतत्' इत्यादि। अथात्रग्रहणं किमर्थम्? `सनि मीमा' (7.4.54) इत्यादौ प्रकरणे यथा स्यात्; ददौ, ददतुरित्यादौ मा भूदिति चेत्? न; यदि ह्येतत् प्रयोजनमभिमतं स्यात् `सनि मीमाधुरभलभशकपतपदामच इसभ्यासलोपश्च' इत्येवमुद्दिश्येत, एवमिहैव प्रकरणे भदिष्यति, नान्यत्र, ततो निष्प्रयोजनमत्रग्रहणमित्यत आह--`सनि मीमाधुरभलभ' इत्यादि। `विषयावधारणार्थम्' इति। अभ्यासलोपविषयस्य नियमार्थमित्यर्थः। तामेव तस्य विषयनियमार्थतां दर्शयितुमाह--`अत्रैव' इत्यादि। अत्रेत्यनेनेसादिविषयो निर्दिश्यते। इसादिविषय एवाभ्यासलोपो यथा स्यादिति नियमेन यद्व्यवच्छिन्नं तद्दर्शयितुमाह--`सन्वद्भावविषये न भवति' इति। `अमीमपत्' इति। `भीञ् हिंसायाम्' (धा.पा.1476) `मीनातिमिनोतिदीङां ल्यपि च' (6.1.50) इत्यात्त्वम्, णिच्, पूर्ववत् पुक्, लुङः, च्लेश्चङ्, णिलोपः, उपधाह्रस्वत्वम्, द्विर्वचनम्, अट्, `सन्वल्लघुनि चङ्परे' (7.4.93) इत्यादिना सन्वद्भावे `सन्यतः' (7.4.79) इतीत्त्वम्, `दीर्घो लघोः' (7.4.94) इति दीर्घः। `अदीदपत्' इति। `डुदाञ् दाने' (धा.पा.1091) पूर्ववण्णिजादिः। अत्रग्रहणादिहाभ्यासलोपो न भवति।
कथं पुनः सन्यभ्यासलोप उच्यमान इह प्राप्नोति, यन्निवृत्त्यर्थमत्रग्रहणं क्रियते? इत्याह--`सन्वल्लघुनि' इत्यादि। यथैव हि सन्वद्भावातिदेशादित्त्वं भवति, एवमभ्यासलोपः स्यात्। इहालोन्त्यपरिभाषया `अलोऽन्त्यस्य' (1.1.52) लोपेन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुंमाह--`सर्वस्य' इत्यादि। कथं पुनः सर्वस्य लभ्यते? इत्यत आह--`तदर्थमेव' इत्यादि। एतेनैवकारेण विषयावधारणार्थतां निरस्यति। यद्येवम्, सन्वद्भावविषयेऽपि प्राप्नोति? एवं मन्यते--सन्वद्भावविषयेऽप्यभ्यासलोपप्रसङ्गः परिहर्तु शक्यते। तत्र सन्वदिति सनाश्रयकार्यमतिदिश्यते। न चाभ्यासलोपः सनमेवापेक्षते, किं तर्हि? इस्भावादिकमपि। तदभावादसत्यप्यत्रग्रहणेऽमीमपदित्यादिष्वभ्यासलोपो न भविष्यति। तस्मादतिरिच्यत एवात्रग्रहणमिति न कर्त्तव्यमेव। तत् क्रियते--सर्वस्याभ्यासलोपो यथा स्यादिति।
कथं पुनः क्रियमाणेऽप्यत्रग्रहणे सर्वस्य लोपो लभ्यते? ग्रन्थाधिक्यादर्थाधिक्यमित्येके। अत्रग्रहणेन महत् सूत्रं प्रयणतैतत् सूचितम्--महतः स्थानिनोऽयं लोपः कर्त्तव्यः। एवञ्चायं महतः स्थानिनः कृतो भवति यदि सर्वस्याभ्यासलोपः क्रियते, नान्यथेत्यन्ये।
`नानार्थकेऽलोन्त्यविधिरित्यपरे' इति। के पुनस्ते? ये विषयावधारणार्थतामत्रग्रहणस्य वर्णयन्ति ते वेदितव्याः। अनर्थकत्वमभ्यासस्य स्थाने द्विर्वचनपक्षे वेदितव्यम्। अत्र हि यस्य स्थाने यच्छब्दान्तरं विधीयते तत् समस्तमेवार्थवत्। एकदेशस्त्वभ्यासोऽनर्थक एव। द्विष्प्रयोगद्विर्वचनपक्षेऽप्यनर्थान्तरवाचित्वादनर्थान्तरवाचित्वादनर्थकताभ्यासस्य।।
59. ह्वस्वः। (7.4.59)
`डुढौकिषते, तुत्रौकिषते' इति। ढौकृ, त्रौकृ--इत्येताभ्यामनुदात्तेत्त्वादात्मनेपदिभ्यां सन्, `पूर्ववत्सनः' (1.3.62) इत्यात्मनेपदम्। `अडुढौकत्, अतुत्रौकत्' इति। आभ्यामेव ण्यन्ताभ्यां लुङ्, पूर्ववच्चङादिकार्यम्। `डुढौके, तुत्रौके' इति। लिट, एकवचनम्, तस्यैश्।
`अभ्यासस्यानचि' इत्यादि। अभ्यासस्य यत् कार्यं विधीयते तदनचिपरे भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--`वा चरिचलिपतिददोनामच्याक्याभ्यासस्य' (वा.658) इत्यागमविघानसामर्थ्याद्धलादिशेषेण न भवितव्यम्। हलादिशेषे हि सत्यादेशस्यागमस्य च कश्विद्विशेषो नास्तीत्यादेशमेव विदध्यात्। एवञ्च--अभ्यासलोपाभावात् पारिशेध्यादचोऽन्यत्रैव भविष्यति।।
60. हलादिः शेषः। (7.4.60)
`हलादिः' इति। हल् चासावादिश्चेति हलादिः--कर्मधारयोऽयम्, न तु षष्ठीसमासः--हलामादिर्हलादिः। यदि षष्ठीसमासः स्यात्, तदायमर्थः स्यात्--अभ्यासस्य यै हलस्तेषामादिः शिष्यत इति। तथा च--आनक्षतुः, आनक्षुरित्यत्र `अक्षू व्याप्तौ' (धा.पा.654) इत्यस्याजादित्वाद्द्वितीयस्यैकाचोऽभावात् प्रथमस्यैकाचो द्विर्वचने कृते यद्यप्यभ्यासादिः ककारो न भवति, तथापि हलादिर्भवति, तस्य शेषः प्रसज्येत। कर्मधारये तु न दोषः, तत्राभ्यासापेक्षं हलादित्वं विधीयते, न चात्र ककारोऽभ्यासादिः। तस्मात् कर्मधारयोऽयम्। `जग्लौ' `मम्लौ' इति। `ग्लै हर्वक्षये' (धा.पा.903), `म्लै गात्रविनामे' (धा.पा.904), `आदेच उपदेशेऽशिति' (6.1.45) इत्यात्त्वम्, `आत औ णलः' (7.1.34) इत्यौत्त्वम्। `आटतुः' आटुः' इति। `अत आदेः' (7.4.70) इत्यभ्यासस्य दीर्घत्वे कृते सवर्णदीर्घत्वम्।
ननु च शेषोऽवस्थानम्, तच्चानेः सिद्धमेव, तत्किमर्थ विधीयते? इत्याह--`आदिशेषनिमित्तोऽयम्' इत्यादि। आदिशषो निमित्तं यस्य लोपस्य स तथोक्तः। न ह्यत्रादेः शेषो विधीयते, किं तर्हि? तन्निमित्तोऽयमनादेर्लोपो विधीयते। सिद्ध एव ह्यादेरवस्थाने हलादिशेष इतीदं विधीयमानं नियमार्थं विज्ञायते--आदेरेव हलोऽवस्थानं भवति, त्वनादेरिति एवमादिशेषनिमित्तमनादेरदर्शनं विहितं भवति। यदि तर्ह्यादिशेषनिमित्तोऽयमनादेर्लोपो विधीयते, एवं सत्यादुतुराटुरित्यत्र लोपो न भवति; निमित्ताभावात्, अभ्यासस्य हलेव तावदादिर्नास्ति, कुतः पुनस्तस्य शेषः? इत्यत आह--`तत्र' इत्यादि। अनादिलोपे कर्त्तव्येऽभ्यासजातिराश्रीयते, नाभ्यासव्यक्तिः। तेन यद्यपि सर्वास्वभ्यासव्यक्तिषु हलादिर्न वर्त्तते, तथापि क्वचिदपि पपाचेत्यादौ वर्त्तमानो हलादिरनादेः सर्वत्राटतुः, आटुरित्येवमादावपि निवृत्तिं करोति; अभ्यासजातेरभिन्नत्वात्। यैव हि पपाचेत्यादावभ्यासजातिः, सैवाटतुः आटुरित्यादावपि।
`अपरे तु' इत्यादि। आटतुः, आटुरित्यादावनादेर्लोपं प्रतिपादयितुमपरे ब्रुवत इति। शेषशब्दोऽयं नावस्थानमात्रमाह, किं तर्हि? निवृत्त्या विशिष्टमवस्थानम्, यद्येवम्, अवस्थानस्य विशेष्यत्वात् प्राधान्यम्, निवृत्तेस्तु विशेषणावादप्राधान्यम्। तथा च--परधानानुयायित्वादप्राधान्यं गुणानाम्। यत्रैवाभ्यासस्य हलादेरवस्थानं पपाचेत्यादौ, तत्रैदानादेर्हलो निवृत्त्या भवितव्यम्; ततः स एव दोषः--आटतुः, आटुरित्यादावनादेर्हलो निवृत्तिर्न प्राप्नोतीति? अत आह--`तदवस्थानम्' इत्यादि। यद्यपि निशेष्यभूतं तदवस्थानं शेषशब्देनाभिधीयत इत्युक्तितः प्रधानम् तथाप्यविधेयत्वादप्रधानम्। अविधेयत्वं तु तस्य सिद्धत्वात्। निवृत्तरेव विशेषणभूतापि विधेयत्वात् प्रधानम्। तथा चोक्तम्--सिद्धमुपकारकं परार्थमङ्गम्, साध्योऽनुपकारकस्त्वङ्गीति कृत्वा प्रधानम्। तत्र निवृत्तौ विधेयत्वात् प्रधानभूतायामयमस्य सूत्रस्यार्थो जायते--`अभ्यासस्यानादेर्हलो निवृत्तिर्भवति' इति। ततश्चासौ विधेयत्वात् प्राधान्यमापन्ना सती किमित्यादेरविधेयामप्रधानभूतामनिवृत्तिमपेक्षिध्यते। केन कारणेनापेक्षिष्यते? न केनचिदित्यर्थः। न हि प्रधानस्य गुणानुयायित्वं युक्तम्। तस्मादसत्यपि हलादेरवस्थानेऽवादेर्लोपेन भवितव्यमिति भावः।।
61. शर्पूर्वाः खयः। (7.4.61)
पूर्वेण शरां सेषे प्राप्ते खयां शेष आरभ्यते। अनादिशेषश्चायमादिशेषं बाधते। न हि शरामवस्थाने खयां शेषशब्दो विशेषणमुपपद्यते। स हि निवृत्त्या विशिष्टमवस्थानमाह--इत्युक्तम्। न चोभयोरवस्थाने निवृत्त्या विशिष्टमवस्थानं भवति। तस्मादादिशेषस्यायमनादिशेषोऽपवादः। `चुश्चोतिषति' इति। `श्चुतिर्क्षरणे' (धा.पा.41), सन्, इट्। `तिष्ठासति' इति। `षष्ठा गतिनिवृत्तौ' (धा.पा.928)। `पिस्पन्दिषते' इति। `स्पदि किञ्चिच्चलने' (धा.पा.14), अनुदात्तेत्, इदित्वान्नुम्, `पूर्ववत्सनः' (1.4.62) इत्यात्मनेपदम्।
`सस्नौ' इति। `ष्णा शौचे' (धा.पा.1052)। पूर्वेवण्णल औत्वम्।
`खर्पूर्वाः' इत्यादि। `उचिच्छिवति' इति। `उच्छी विवासे' (धा.पा.216), सन् उछिष् इति स्थिते द्विर्वचनं प्राप्नोति, तुक् च; तत्र वर्णाश्रयेणान्तरङ्गत्वात् तुक्। तस्मान् कृते, द्विर्वचनं प्राप्नोति, चुत्वञ्च, ततर परत्वात् द्विर्वचने कर्त्तव्ये चुत्वस्यासिद्धत्वाद्द्विर्वचनं प्राप्नोति छिष्शब्दस्य। तत्र छकारस्य शेषो न प्राप्नोति; अशर्पूर्वत्वात्। न ह्यं तकारः अर्भवति, ततश्च पूर्वेण हलादिशेषे कृते सत्यभासे तकारः श्रूर्यत। अथापीदमस्ति--`पूर्वत्रासिद्धोयमद्विर्वचने' (जै.प.वृ.70) इति चुत्वं पश्चाद्द्विर्वचनं क्रियते, तथापि हलादिशेषेण छकारे निवृत्ते `निमित्तापाये नैमित्तिकस्याप्यपायः' (व्या.प.47) इति चुत्वे निवृत्ते उचिच्छिषतीत्यतर तकार एवाभ्यासे श्रूयेत। तस्मात् खर्पूर्वाः खय इति वक्तव्यन्। एवं हि सति च्छकारस्य शेषे कृते तकारो निवर्त्तत इति न भवत्यनिष्टप्रसङ्गः।।
62. कुहोश्चुः। (7.4.62)
`चखान' इति। `खनु अवदारणे' (ध.पा.878), द्विर्वचनम्, तस्य चुत्वम्--छकारः, `अभ्यासे चर्च' (8.4.54) इति छकारस्य चकारः। `जघाति' इति। `लिट्यन्यतरस्याम्' (2.4.40) इत्यदेर्घस्लादेशः, अभ्यासस्य चुत्वम्। नादवतो महाप्राणस्य स्थाने तादृश एव झकारः, तस्यापि जश्त्वम्--जकारः। `जहार' इति। `हृञ् हरणे' (धा.पा.899)। `जिहीर्षति' इति। `इको झल्' (1.2.9) इति सनः कित्त्वम्, `अज्झनगमां (6.4.16) इति दीर्घत्वम्, `ऋत इद्धातोः' (7.1.100) इतोत्त्वम्, रपरत्वम्, `हलि च' (8.2.77) इति दीर्घत्वम्, हीर्ष-इत्यस्य द्विर्वचनम्।।
63. न कवतेर्यङि। (7.4.63)
पूर्वेण प्राप्तस्य चुत्वस्यायं निषेधः। `कोकूयते' इति। `अकृत्सार्वधातुकयोः' (7.4.25) इति दीर्घः, `गुणो यङ्लुकोः' (7.4.82) इत्यभ्यासस्य गुणः।
अथ विकरणनिर्देशः किमर्थः, न `कोः' इत्येवोच्येत? इत्यत आह--`कवतेः' इत्यादि। `कुङ् शब्दे' (धा.पा.1401) इति तौदादिकः, `कु शब्दे' (धा.पा.1042) इत्यादादिकः, `कुङ्' (धा.पा.151) इति मौदादिकः शब्दार्थ एव; तत्र भौवादिकस्य ग्रहणं यथा स्यात्, इतरयोर्मा भूदित्येवमर्थो विकरणनिर्देशः। ननु चानयोर्निवृत्तेरेतत् फलम्--चोकूयत इत्येतदपि रूपं यथा स्यादिति, एतच्च `कोः' इत्यपि निर्देशे निरनुबन्धकपरिभाषया कौतेरेव निरनुवन्धकस्य ग्रहणे सति सिध्यत्येव, तस्मात् `कोः' इत्येवं निर्देशः कर्त्तव्यः? नैतदेवम्; सत्यपि हि शब्दार्थत्वे भिद्यत एवैषामभिधेयम्। तथा हि--कवतिस्तावदव्यक्तशब्दे वर्त्तते--उष्ट्रः कोकूयत इति; कुवतिरप्यार्त्तस्वरे वर्त्तते--चोकूयते बृषल इति, पोडित इत्यर्थः; कौतिस्तु शबदमात्रे। तस्माद्विशिष्यटार्थस्य परिग्रहो यथा स्यादित्येवमर्थो विकरणनिर्देशः कर्त्तव्यः। ननु लुग्विकरणपरिभाषया कौतेर्न भविष्यतीति, तत्किमर्थं तन्निवृत्तयर्थता विकरणस्योपपद्यते? एवं मन्यते--कुवतिनिवृत्त्यर्थोऽवश्यं विकरणनिर्देशः कर्त्तव्यः, सोऽन्यार्थः क्रियमाणः कौतेर्निवृत्त्यर्थोऽपि भवति, तेन लुग्विकरणपरिभाषा (व्या.प.50) अत्र कौतेर्निवृत्त्यर्थमाश्रयितव्या न भवति।
`चुकुवे' इति। पूर्ववत् तशब्दस्यैच् `अचि श्नुधातु' (6.4.77) इत्यादिनोवङ्।।
64. कृषेश्छन्दसि। (7.4.64)
`करीकृष्यते' इति। `कृष विलेखने' (धा.पा.990) `रीगृहुपधस्य' (7.4.90) इति रीगागमः।।
65. दाधर्तिदर्घर्तिदर्घर्षिबोभूतुतेतिक्तेऽलष्यापनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतः सरीसृपतंवरीवृजनमर्मृज्यागनीगन्तीति च। (7.4.65)
चकारश्छन्दसीत्यनुकर्षणार्थः। `धारयतेः' इति। `धृञ् धारणे' (धा.पा.900) `धृङ् अवस्थाने' (धा.पा.1412) `धृङ् अवध्वंसने' (धा.पा.960)--इत्येताषां ण्यन्तानां ग्रहणम्, `धृङो वा' इति। अनन्तरोक्तयोरण्यन्तयोः। `श्लौ यङ्लुकि वा' इति। तत्र तावत् `दाधर्त्ति इति--यदा धारयतेः श्लौ निपात्यते, तदा णिलोपोऽभ्यासस्य दीर्घत्वं निपात्यते। यदा तु यङ्लुकि, तदाऽनेकाच्त्वाद्यङ् न प्राप्नोति, सोऽपि निपात्यते, उपधाह्रस्वत्वञ्च। णिलोपस्त्वार्धधातुकत्वादेव यङः `णेरनिटि' (6.4.51) इत्येवं सिद्धः। भ्यासस्य दीर्घत्वमपि `दीर्घोऽकितः' (7.4.83) इत्येवं सिद्धम्। `दर्धर्ति, दर्धर्षि' इति। अत्रापि यदा धारयतेः श्लौ तदाऽभ्यासस्य रुगागमो णिलोपश्च। श्लुस्तु सर्वत्र `बहुलं छन्दसि' (2.4.76) इत्यनेनैव वेदितव्यः। यदा तु यङ्लुकि, तदा `दीर्घोऽकितः' (7.4.83) इत्यनेन दीर्घत्वे प्राप्ते तदभावश्च निपात्यते। यदा धृङः--दाधर्तीति श्लौ निपात्यते, तदा द्विर्वचने कृतेऽभ्यासस्य दीर्घत्वं निपात्यते। यदा तु तस्यैव धृङो यङ्लुकि तदाऽस्यासस्य `ऋतश्च' (7.4.92) इति प्राप्तस्य रुगादेरभावो निपात्यते। `दर्घर्ति, दर्घर्षि' इति। अत्रापि यदा धृङ्, श्लौ, तदाभ्यासस्य रुगागमो निपात्यते; यदा तु यङलुकि, तदा पूर्ववत् प्राप्तस्य दीर्घस्याभावो निपात्यते, न तु रुगागमः; तस्य हि `रुग्रिकौ च लुकि' (7.4.91) इत्येवं सिद्धत्वात् परस्मैपदं च व्यत्ययो बहुलम्' (3.1.85) इति।
`बोभूतु' इति। `अन्यत्र' इति। लोट्प्रथमपुरुषस्यैकवचनापेक्षमन्यत्वं वेदितव्यम्। `बोभवीति' इति। अदादित्वाच्छपो लुक् `बहुलं छन्दसि' (2.4.73) इति बहुलवचनत्वाद्भवति; `यङो वा' (7.3.94) इति पक्षे ईट्।
`तेतिषते' इति। `तिजेः' इति। `तिज निशाने' (धा.पा.971) इत्येतस्य। ननु च यङो ङित्त्वात् प्रत्ययलक्षणेनात्मनेपदं (1.1.62) सिद्धम्, एतत् किमर्थं निपात्यते? इत्याह--`यङो ङित्त्वात्' इत्यादि। ज्ञापनार्थमात्मनेपदं सिद्धम्। ज्ञापनार्थमात्मनेपदं निपात्यत इति दर्शयति। ज्ञापनस्य तु प्रयोजनम्--अन्यत्र यङ्लुगन्तादात्मनेपदं न भवतीति--भावः, बोभवीतीति।
`अलर्षि' इति। `ऋ सृ गतौ' (धा.पा.1098,1099)--इत्यस्य जौहोत्यादिकस्य `उरत्' (7.4.66) इत्यत्त्वे कृते रपरत्वे च हलादिशेषः प्राप्नोति, तदपवादौ रेफस्य लत्वं निपात्यते। किं पुनः कारणं सिपा निर्देशोऽयमतन्त्रमित्येवं व्याख्यायते? इत्याह--`तिप्यपि' इत्यादि।
`फणतेः' इति। `फण गतौ' (धा.पा.821)--इत्येतस्य। `स्यन्देः' इति। `स्यन्दू प्रस्रवणे' (धा.पा.761)--इत्येतस्य। किमर्थं पुनः सम्पूर्वस्यातन्त्रत्वं व्याख्यायते? इत्याह--`अत्रापि हि' इत्यादि।
`करिक्रत्' इति। `डुकृञ् करणे' (धा.पा.1472)। यणादेशे कृतेऽनृकारान्तत्वात् `ऋतश्च' (7.4.92) इत्यभ्यासस्य रिगागमो न प्राप्नोति, स निपात्यते।
`क्रन्देः' इति। `कदि क्रदि क्लदि आह्वाने रोदने च' (धा.पा.772,773,774) इत्येतस्य। कथं पुनर्ज्ञायते लुङीत्येतन्निपातनम्? इत्याह--`अस्य हि' इत्यादि। यस्माल्लुङन्तेन क्रन्दतेरर्थो निर्दिश्यते, ततो ज्ञायते--लुङयेतन्निपातनमिति। अत्र चाभ्यासस्य रीगागमो निपात्यत एव।
`विभर्त्तेः' इति। `डुभृञ् धारणपोषणयोः' (धा.पा.1087) इत्यस्य।
`ध्वरतेः' इति। `ध्वृ हूर्च्छने' (धा.पा.939)।
`द्युतेः' इति। `द्युत दीप्तौ' (धा.पा.741) इत्यस्य। `सम्प्रसारणाभावः' इति। `द्युतिस्वाप्योः सम्प्रसारणम्' (7.4.67) इति सम्प्रसारणं प्राप्नोति, अतस्तदभावो निपात्यते।
`तरतेः' इति। `तॄ प्लवनतरणयोः' (धा.पा.969) इत्यस्य।
`सृपेः' इति। `गम्लृ सृप्लृ गतौ' (धा.पा.982,983) इत्यस्य।
`वृजेः' इति। `वृजो वर्जने' (धा.पा.1812) इत्येतस्य।
`मर्मृज्य' ति। `मृजू शुद्धौ' (धा.पा.1066) इत्येतस्य णलि रूपम्। `आगनीगन्ति' इति। एतदपि सटि तिपि।
इतिकरणस्य प्रकारार्थतां दर्शयितुमाह--`एवम्प्रकाराणाम्' इत्यादि। दाधर्त्तिप्रभृतीनामिव येषां छन्दस्यलाक्षणिकं कार्यं दृश्यते त एवम्प्रकारा दाधर्त्तिसदृशा इत्यर्थः। के पुनस्ते? गलगर्त्तीत्येवमादयः। `गॄ निगरणे' (धा.पा.1410) इत्येतस्य यङ्लुकि श्लौ वा गलगर्त्तीति रूपम्, अभ्यासस्य चर्त्त्वामावः, हलादिशेषापवादः, रेफस्य लत्वं च निपात्यते।।
66. उरत्। (7.4.66)
छन्दसीति निवृत्तम्; पूर्वसूत्रे च कारानुकृष्टत्वात्। `ववृते, ववृधे, शशृधे' इति। `वृतु वर्त्तने' (धा.पा.758), `वृधु वृद्धौ' (धा.पा.759), `शृधु शब्दकुत्सायाम्' (धा.पा.760), लिट्; तत्राद्ययोरनुदात्तेत्त्वादात्मनेपदम्, इतरत्र स्वरितेत्त्वात्; पूर्ववदेव द्विर्वचनम्, हलादिशेषे च कृत ऋवर्णान्ततयामुपजातायामद्भावः, रपरत्वम्, हलादिशेषः।
`नर्नर्त्ति, नरिनर्त्ति, नरीनर्त्ति' इत्येवमादौ `ऋदुपधस्य च' (7.4.90) इति, `रुग्रिकौ च लुकि' (7.4.91) इति वा परत्वादपवादेषु कृतेषु रीगादिषु ऋवर्णान्ताभावादनेन न भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह--`नर्नर्ति' इति।।
67. द्यूतिस्वप्योः सम्प्रसारणम्। (7.4.67)
हलादिशेषे प्राप्ते तस्यापवादौ द्युतिस्वाप्योः सम्प्रसारणमारभ्यते। `विदिद्युते' इति। `द्युत दीप्तौ' (धा.पा.741), लिट्, अनुदात्तेत्त्वादात्मनेपदम्; तत्र सम्प्रसरणमनेन, `सम्प्रसारणाच्च' (6.1.108) इति परपूर्वत्वम्। `व्यद्युतत्' ति। ण्यन्ताल्लुङ; श्लेश्चङ्, णिलोपः उपधाह्रस्वत्वम्, द्विर्वचनम्, अडागमः। `विदिद्युतिषते, विदिद्योतिषते' इति। सन्, `रलो व्युपधात्' (1.2.26) इत्यादिना विकल्पेन कित्त्वम्। यदा कित्त्वं नास्ति, तदा लघूपधगुणः, `पूर्ववत्सनः' (1.3.62) इत्यात्मनेपदम्। `सुस्वापयिषति' इति। `ञिष्वप् शये' (धा.पा.1068), णिच्, तदन्तात् सन्।
किं कारणं ण्यन्तस्योदाहरणमुपन्यस्तम्? इत्यत आह--`स्वपिर्ण्यन्तो गृह्यते' इति। तेन ण्यन्तस्योदाहरणमुपदर्शितमित्यभिप्रायः। ण्यन्तस्य ग्रहणं स्वापेरिति निर्देशादेव विज्ञायते। न ह्यण्यान्तस्यैवंविधो निर्देश उपपद्यते। अपि च--अण्यन्तस्य योऽब्यासस्तस्यानेनैव शास्त्रेण सम्प्सारणं सिद्धम्। तथा हि--लिटि तावत् `लिट्यभ्यासस्योभयेषाम्' (6.1.17) इत्यनेनैव सिद्धम्, सनि तु `रुदविद' (1.2.8) इत्यादिना सनः कित्त्वे सति वच्यादिसूत्रेण (6.1.15) कृतसम्प्रसारण एव सुपिभूतो द्विरुच्येत, यङ्यपि `स्वपिस्यमिव्येञां यङि' (6.1.19) इति कृतसम्प्रसारण एवासौ द्विरुच्यते। तस्मादण्यन्तस्यानेन शास्त्रेण सम्प्रसारणस्य सिद्धत्वात् स्वापिर्ण्यन्तो गृह्यते।
यदि स्वापिर्ण्यन्तो गृह्यते। तदा स्वापयतेर्ण्वुल्--स्वापकः, स्वापकमिच्छतीति क्यच्, स्वापकीय इति स्थिते स्वापकीयितुमिच्छतीति सन्--सिध्वापकीयिषति, अत्रापि सम्प्रसारणं प्राप्नोति? इत्याह--`तस्य' इत्यादि। तस्य स्वापेरभ्यासस्य नि मत्तं यः प्रत्ययस्तेनानन्तर्ये सत्यव्यवधान इदं सम्प्रसारणमिष्यते, तेन सिध्वापकीयिषतीत्यत्र न भवति। न ह्यभ्यासनिमित्तं यः प्रत्ययः इह स स्वापेरनन्तरः; ण्वुला क्यचा च व्यवधानात्।
कथं पुनरभ्यासनिमित्तेन प्रत्ययेनानन्तर्ये सति सम्प्रसारणं लभ्यते, यावता नायं विशेषः सूत्रोपात्तः? एवं मन्यते--अभ्यासेनाभ्यासनिमित्तं यः प्रत्ययः सन्निधापितः, तस्य प्रत्ययविशेषनिमित्तत्वात्; तत्र लेनाभ्यासनिमित्तेन प्रत्ययेन स्वापिरङ्गं विशिष्यते--अभ्यासनिमित्ते प्रत्यये यदङ्गं स्वापिरिति। एवञ्च विशेष्यविशेषणभावे सक्यभ्यासनिमित्ते प्रत्ययेऽनन्तरे सति स्वापेरङ्गस्य योऽभ्यासस्तस्यैव सम्प्रसारणेन भवितव्यम्। न तु व्यवहितेन प्रत्ययान्तरेण हि यो व्यवहितः प्रत्ययः सन्नभ्यासे निमित्त तदपेक्षया स्वापिरङ्गं भवति, न च सिध्वापव्यवहितेन प्रत्ययान्तरेण हि यो व्यवहितः प्रत्ययः सन्नभ्यते निमित्तं तदपेक्षया स्वापिरङ्गं भवति, न च सिध्वापकौयिषतत्यभ्यासनिमित्तं यः प्रत्ययः स स्वारेरङ्गस्यानन्तरः, यस्तु स्वापेरनन्तरो ण्वुल् तदपेक्षया स्वापिरङ्ग भवति, न चासावभ्यासनिमित्तं भवति। इह तर्हि कस्मान्न भवति--स्वपनं स्वापो घञ्, स्वापं करोतति णिच्, स्वापयितुमिचछतीति सन् सिष्वापयिषतीति? उच्यते; अकारलोपश्य स्थानिवद्भावात् स्वापेर्योऽभ्यासस्तस्य सम्प्रसारणेन भवितव्यम्। न चाकारलोपस्य स्थानिवद्भावे सति स्वापेरभ्यासः, किं तर्हि शब्दान्तरस्य स्वाप इत्येतस्य।।
68. व्यथो लिटि। (7.4.68)
`विव्यथे' इति। `व्यथ भयचलनयोः' (धा.पा.764), अनुदात्तेत्त्वादात्मनेपदम्। अथ यकारस्य हलादिशेषेण निवृत्त्या भवितव्यम्, वकारस्य सम्प्रसारणेन? इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह--`यकारस्य' इत्यादि।
`वाव्यथ्यते' इति। यङ्।।
69. दीर्घ इणः किति। (7.4.69)
इणो ह्रस्वस्यैव श्रवणे प्राप्ते दीर्घत्वं विधीयते। `ईयतुः ईयुः' इति। ननु च परत्वात् `इणो यण्' (6.4.81) इति यणादेशे सत्यनच्कत्वात् द्विर्वचनं न प्राप्नोतीत्यत आह--`इणो यण्' इत्यादि। स्थानिवद्भावस्तु `द्विर्वचनेऽचि' (1.1.59) इत्यनन। स च नियतकाले द्विर्वचन एव कर्त्तव्ये कृते च तस्मिन्नादेशरूप एवावतिष्ठते। `इयाय, इययिथ' इति। णलि थलि चेति यथाक्रमं वृद्धिगुणयोः कृतयोः स्थानिवद्भावाद्द्विर्वचनमिकारः, तस्य `अभ्यासस्यासवर्णे, (6.4.78) इतीयङ्।।
70. अत आदेः। (7.4.70)
लिटीत्यनुवर्त्तते। किद्ग्रहणं तु निवृत्तम्। `अतो गुणे' (6.1.97) इति पररूपत्वे प्राप्ते दीर्घत्वमारभ्यते। तपरकरणं स्वभावत एव यो ह्रस्वस्तस्य दीर्घो यथा तेनोपदेशे वो दीर्घस्तस्य ह्रस्वत्वे कृतेऽपि दीर्घो न भवति--`आच्छि आयामे' (धा.पा.209), आच्छ, आच्छतुः, आच्चुरिति। लिट्, तिपो णल्, तसोऽतुम्, झेरुस्, द्विर्वचने हलादिशेषे `ह्रस्वः' (7.4.59)। किञ्च स्याद् यद्यत्र दीर्घः स्यात्? `तस्मास्रुड्द्विहलः' (7.4.71) इति नुट् स्यात्। `आदेः' इति वचनादिहान्तस्य दीर्घो न भवति--पपाचेत्यादौ।।
71. तस्मान्नुड्द्विहलः। (7.4.71)
द्वौ हलौ यस्य तद्द्विहल्। `आनङ्ग, आनङ्गतुः, आनङ्गुः' इति। `अगि रगि लगि गत्यर्थाः' (धा.पा.146,144,145), इदित्त्वान्नुम्। `आनञ्ज, आनञ्जतुः, आनञ्जुः' इति। `अन्जू व्यक्तिम्रक्षणकान्तिगतिषु' (धा.पा.1458)।
`ऐऔच्' (मा.सू.4) इत्यत्र `प्रत्याहारे वर्णेषु ये वर्णैकदेशा वर्णान्तरसमानाकृतयः, तेषु तत्कार्यं न भवति, तच्छायानुकारिणो हि ते, न पुनस्त एव; पृथक्प्रयत्ननिर्वर्त्त्यं हि वर्णमिच्छन्त्याचार्याः' इत्युक्त्वा `नुड्विधिलादेशविनामेष्वृकारे प्रतिविधातव्यम्' इत्युक्तम्। तत्रावसरप्राप्त्या ऋकारे नुङ्विधौ प्रतिविधानमाह--`ऋकारैकदेशो रेफौ हल्ग्रहणेन गृह्यते' इति। `आनुधतुः, आनृधुः' इति। `ऋधु वृद्धौ' (धा.पा.1271)। कथं पुनर्वर्मआत्मकानां हला ग्रहणेनावर्णात्मक ऋकारैकादेशो रेफो गृह्यते? द्विहल्ग्रहणसाममर्थ्यादिति भावः।
अत्र `तस्मान्नुट्' इत्येवं वक्त्व्यम्। न चैवं सत्याटतुः, आटुरित्यादौ नुट्प्रसङ्गो भवति; अश्नोतेरित्यस्य नियमार्थत्वात्--अद्विहलो यदि भवति नुट् तदाश्नोतेरेव, नान्यस्येति। अश्नाति निवृत्त्यर्थं तदेतन्नाशङ्कनीयम्; यद्येतावत् प्रयोजनं स्यात् `नाश्नः' इत्येवं ब्रूयात्। तस्मान्नियम एवास्य प्रयोजनम्। तदेवमन्तरेणापि द्विहल्ग्रहणं सिद्धे यतो द्विहल्ग्रहणं करोति तस्यैतत् प्रयोजनम्--द्विहल्समानाकृतेरपि यथा स्यात्। यस्याप्येको हल् मुख्योऽवयवो द्वितीयस्त्वमुख्यस्तच्छायानुकारित्वादुपचारेण हलव्यपदेशार्हः, तस्यापि यथा स्यादित्येवमर्थम्। एतस्य कथं ल्यते? यद्यत्र द्विहल इत्येवंश्रुतिस्तच्छायानुकारिण्यपि ऋकारावयवे रेफे वर्त्तते, नान्यथा। तस्माद्द्विहल्ग्रहणसामर्थ्यादत्र हल्ग्रहणेन ऋकारैकदेशो रेफो गृह्यते; अन्यथा द्विहल्ग्रहणमनर्थकं स्यात्।।
72. अश्नोतेश्च। (7.4.72)
अद्विहलार्थोऽयमारम्भः। `व्यान शे' इति। `अशू व्याप्तौ' (धा.पा.1264), अनुदात्तेत्त्वादात्मनेपदम्, त, एश्।
अश्नोतेरिति विकरणनिर्देशः `अश भोजने' (धा.पा.1523) इत्येतस्य क्रैयादिकस्य निवृत्तये। चकारो नुडागमानुकर्षणार्थः।।
73. भवतेरः। (7.4.73)
`बभूव' इति। `भुवो वुग्लुङ्लिटोः' (6.4.88) इति वृक्। `अनुबभूवे' इति। कर्मण्यात्मनेपदम्। श्तिपा निर्देशी यङ्लुग्निवृत्त्यर्थः--वोभावेति।।
74. ससूवेति निगमे। (7.4.74)
`सूतेः' इति। `षूङ् प्राणिगर्भविमोचने' (धा.पा.1031)--इत्येतस्य। `सुषुवे' इति। ङित्त्वादात्मनेपदम्; उवङ्।
इतिकरणमेवम्प्रकाराणामन्येषामुपसङग्रहार्थम्। तेन जाग्रमः, अदर्शमेत्यादि सिद्धं भवति। जाग्रम इति जागर्त्तेरग्निपात्यते। अदर्शमेति लङि दृशेः पश्यादेशाभावः। जागृम्, अपश्यामेति भाषायामॄ। दाधर्त्त्यादिषु ससूवग्रहयणं न कृतम्; वैचित्र्यार्थम्।।
75. णिजां त्रयाणां गुणः श्वौ। (7.4.75)
बहुवचननिर्देशादाद्यर्थो गम्यत इत्यत आह--`एवाम्' इत्यादि। `णिजिर् शौचपोषणयोः' (धा.पा.1093), `विजिर् पृथग्भावे' (धा.पा.1094), `विष्लृ व्याप्तौ' (धा.पा.1095)--इत्येते णिजादयो जौहोत्यादिकाः।
`त्रिग्रहणमुत्तरार्थम्' इति। `भृञामित्' (7.4.76) इतीत्त्वम्। त्रयाणामेव यथा स्यादधिकानां मा भूदित्येवमर्थं त्रिग्रहणम्। एतदर्थमपि कस्मान्न भवति? इत्यत आह--`एवाम्' इत्यादि। यद्यत्र त्रिग्रहणं क्रियते निजादीनामन्ते बृत्करणं किमर्थम्? एतद्गणकारः प्रष्टव्यः, न सूत्रकारः। `अन्यो हि गणकारोऽन्यश्च सूत्रकारः' इत्युक्तं प्राक्। गणकारेणापि वैचित्र्यार्थं वृत्करणं कृतमिति वेदितव्यम्। विचित्रा हि गणस्य कृतिर्गणकारेण।
अथ गुणग्रहणं किमर्थम्, एकार एव नोच्येत? अशक्यमेवेदं वक्तुम्; एवं ह्युच्यमाने द्वेव्यमपि कश्चिद्विजानीयात्--हलादिशेषापवादोऽयं निजादीनामेकर इति। गुणग्रहणे हि संज्ञाविधाने नियम इतीक एव भवति, हलस्तु हलपादिशेषेण निवृत्तिर्भवति।।
76. भृञामित्। (7.4.76)
`डु भृञ् धारणपोषणयोः' (धा.पा.1087), `माङ् माने' (धा.पा.1088), `ओहाङ् गतौ' (धा.पा.1089)--इत्येते भृञादयो जौहोत्यादिका एव। `मिमीते, जिहीते' इति। `ई हल्यघोः' (6.4.113) इतीत्त्वम्।।
77. अर्तिपिपर्त्योश्च। (7.4.77)
`इयर्ति, पिपर्ति' इति। `ऋ सृ गतौ' (धा.पा.1098,1099) `पॄ पालनपूरणयोः' (धा.पा.1086), जुहोत्यादिकत्वाच्छपः श्लुः गुणः द्विर्वचनम्, `उरत्' (7.4.66) इत्यत्त्वम्, अनेनेत्त्वम्, रपरत्वञ्च। अर्त्तेः `अभ्यासस्यासवर्णे' (6.4.78) इतीयङ्। अथार्तिग्रहणं किमर्थम्, यावता निजादिभ्योऽयं परः पठ्यते। ये च निजादिब्य परे ते सर्व एव च्छान्दसाः, तथा हि तान् पठित्वा छन्दसीत्युक्तम्। छान्दसत्वाच्चार्तेः `बहुलं छन्दसि' (7.4.78) इत्येवं सिद्धम्? एवं तर्ह्येतज्ज्ञापयति--भाषायामप्यर्त्तेः प्रयोगो भवतीति।।
78. बहुलं छन्दसि। (7.4.78)
`विविष्टि' इति। `वश कान्तौ' (धा.पा.1080), `बहुलं छन्दसि' (2.4.76) इति शपः श्लुः, व्रशस्चादिसूत्रेण (8.2.36) षत्वम्। `विवक्ति' इति। `वच परिभाषणे' (धा.पा.1842)। `सिषक्ति' इति। `सच समवये' (धा.पा.997), `सच सेचने' (धा.पा.163) इति वा। `जिगर्त्ति, जिघर्त्ति' इति। `गृ घृ सेचने' (धा.पा.937,938)। सर्वत्र पूर्ववच्छपः श्लुः।
`जजनम्, दधनम्' इति। `जन जनने' (धा.पा.1105), `धन धान्ये' (धा.पा.1104)। लुङ्मिपोऽम्, जुहोत्यादित्वाच्छपः श्लुः; `बहुलं छन्दस्यामाङ्योगेऽपि' (6.4.75) इत्यङ्निषेधः।।
79. सन्यतः। (7.4.79)
`पिपक्षति' इत्यादि। पचियज्यो रूपे। `पिपासति' इति। पातेः, पिबतेर्वा।
`लुलूषति' इति। `लूञ् छेदने' (धा.पा.1483)। `इको झल्' (1.2.9) इति कित्त्वाद्गुणाभावः। `सनि ग्रहगुहोश्च' (7.2.12) इतीट्प्रतिषेधः। तपरकरणं किमर्थम्? पापच्यतेः सन् पापचिषत इत्यत्र मा भूत्। किं पुनः कारणमत्र ह्रस्वो न भवति? दीर्घविधानसामर्थ्यात्। यदि `सनि योऽभ्यासः' इत्येवं विज्ञायेत, [विज्ञायते-प्रा.मु. पाठः] ततो मुखसुखार्थम्।।
80. ओः पुयण्यज्यपरे। (7.4.80)
`पुयण्जि' [नास्ति--काशिका] इति। पुयण्जामेकवद्भावं कृत्वा सप्तम्या निर्देशः। `अपरे' [नास्ति--काशिका] इति। अः परो यस्मात् पुयण्जस्तदपरमवर्णपरमित्यर्थः। `पिपविषते' इति। पूङ् पदने' (धा.पा.966) सन्, `स्मिपूङ्रञ्च्वशां सनि' (7.2.74) इतीट्, गुणावादेशौ। स्थानिवद्भावात् `पू' इत्यस्य द्विर्वचनम्, स्थानिवद्भावस्तु `द्विर्वचनेऽचि' (1.1.59) इत्यनेन। `पिपावयिषति' इति। पूङो ण्यन्तात् सन्। अत्रापि स्थानिवद्भावात् `पू' इत्येतद्द्विरुच्यते। `बिभावयिषति' इति। `भू सत्तायाम्' (धा.पा.1) ण्यन्तात् सन्।
`यियावयिषति' इति। यौतेर्ण्यन्तात् सन्। `सनौवन्तं (7.2.49) इत्यादेनेठ्। `रिरावयिषति; लिलावयिषति' इति। रौतिलुनातिभ्यां ण्यन्ताभ्यां सन्।
`जिजावयिषति' इति। `जु' इति सौत्रो धातुः (3,2,150); `जुचंक्रम्य' (3.2.150) इत्यादौ पाठात्। तस्मात् ण्यन्तात् सन्।
कथं पुनः पिपादयिषतीत्यादावुकारान्तताऽभ्यासस्य, यावता णौ परतोऽन्तरङ्गत्वाद्वृद्ध्यावादेशयोः कृतयोर्वकारान्तस्याद्विर्वचनेन भवितव्यम्, स्थानिवद्भावादुकारान्तस्य द्विर्वेचनं भविष्यतीति चेत्? न; न हि णौ कृतस्य स्थानिवद्भावो भवति। णेरद्विर्वचननिमित्तत्वादित्यत आह--`एतदेव' इत्यादि। न हि णिचमन्तरेण पुयण्जोवर्णपराः सर्वे सम्भवन्ति। तत्र हि यदि णौ कृतस्य स्थानिवद्भावो न स्यात्, तदा येषां णिचमन्तरेण पुयण्जोऽवर्णपराः सर्वे सम्भवति। तत्र हि यदि मऔ कृतस्य स्थानिवद्भवो न स्यात्, तदा येषां णिचमन्तरेणावर्णपरता न सम्भवति, तेषामुवर्णान्तोऽभ्यासो न स्यात्, उच्यते चेदं `ओः पुयज्जयपरे' इति वचनम्। तस्मादेतज्ज्ञापकम्--अद्विर्वचननिमित्त्ेऽपि णौ स्थानिवद्भवतीति। तेन तुतावयिषति, बिभावयिषतीत्यादि सिद्धं भवति। केषाञ्च पुनर्णिचमन्तरेणावर्णपरता न सम्भवति? यकारपकाराभ्यामन्येषां सर्वेषामेव। `पापचिषते' इति। `अतो लोपः' (6.4.48) इत्यकारलोपः, `यस्य हलः' (6.4.49) इति यकारस्य। `तुतावयिषति' [`अवतुतावयिषति' इति काशिकापदमञ्जर्योः पाठः] इति। `तु' इति सौधो धातुः; `तुरुस्तुशम्यमः' (7.3.95) इत्यादौ सूत्रे पाठात्। `जुहावयिषति' इति। `हु दाने' (धा.पा.1083) ण्यन्तात् तस्मात् सन्। `बुभूषति' इति। पूर्ववदिङ्गुणयोरभावः।।
81. स्रवतिश्रृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा। (7.4.81)
`सु स्रु गतौ' (धा.पा.940) `श्रु श्रवणे' (धा.पा.942) `दु द्रु गतौ' (दा.पा.944,945)`प्रुङ्प्लुङ् च्युङ् गतौ' (धा.पा.957,958,956) `सिस्रावयिषति' इत्यादि। एभ्यो ण्यन्तेभ्यः सर्वत्र सन्।
ननु च सकारादिना वर्णेनात्र यणो व्यवधानम्, अत्रावर्णपरे यणि परत इत्त्वमुच्यमानं व्यवधाने कथं भवति? इत्याह--`वचनसामर्थ्यात्' इति। सवत्रैव हि सकारादिनैकवर्णेन व्यवधानम्, उच्यते चेदं वचनम्, तस्मादत्र वचनसामर्थ्यादेकेन वर्णेन व्यवधानमाश्रीयते; अन्यथा हि वचनमिदमनर्थकं स्यात्। `पूर्वसूत्रेण' इत्यादेनाऽप्राप्तविभाषेयमिति दर्शयति।
`शुश्रुषति' [शुश्रूयते--काशिका] इति। पूर्ववदिङ्गुणयोरभावः। श्तिपः निर्देशो धातुनिर्देशार्थः, न यङलग्निवृत्त्यर्थः। अत्र गुणे कृत उकारान्तताभावादित्त्वं न भवतीति। `सोस्रविषति'।।[नास्ति--कीशिका]
82. गुणो यङ्लुकोः। (7.4.82)
अभ्यसस्य गुणोऽयं विधीयते। तेन यद्यप्यत्र लुक्शब्दोऽयं सामान्यः, तथापि यङ्लुक एव सम्प्रत्ययो भवति। न ह्यत्र लुक्यभ्यासः सम्भवतीति मत्वाऽऽह--`यङि यङ्लुकि च' इत्यादि। `चौक्रुशीति' `क्रुश आह्वाने' (धा.पा.856) यङ्, तस्य `यङोऽचि च' (2.4.74) इति लृक्, `यङो वा' (7.3.94) इतीट्, `न लुमताङ्गस्य' (1.1.63) इति प्रत्ययलक्षणनिषेधाद्यङो लुकि कृते गुणो न प्राप्नोतीति लुग्ग्रहणम्। `पुगन्तलघुपधस्य च' (7.3.86) इति प्राप्तोऽपि गुणः `नाभ्यस्तस्याचि पिति सार्वधातुके' (7.3.87) इति निषिध्यते।।
83. दीर्घोऽकितः। (7.4.83)
`यंयम्यते' इति। `यम उपरमे' (धा.पा.984), `नुगतोऽनुनासिकान्तस्य' (7.4.85) इति नुक्।
`ननु च' इत्यादिनाऽकित इत्येतत्प्रत्याचष्टे। यंयम्यत इत्यत्र मा भूदित्येवमर्थं `अकितः' इत्युच्यते। अत्र ह्यपवादत्वान्नुकि कृतेऽनजन्तत्वादेव दीर्घो न भविष्यतीति नार्थोऽकित इत्यनेन। `एवं तर्हि' इत्यादिना `अभ्यासविकारेष्वपवादा नोत्सर्गान् विधीन् बाधन्ते' (व्या.प.23) इत्येतां परिभाषां ज्ञापयितुं `अकितः' इत्येतदुच्यत इति दर्शयति। `डोढौक्यते' इति। `ढौकृ गतौ' (धा.पा.98) इत्यस्य यङि कृते हलादिशेषे च `ह्रस्वः' (7.4.59) इति ह्रस्वत्वम्, पूर्वसूत्रेण गुणः। तत्रासत्यस्मिन् ज्ञापके पिपासतीत्येवमादौ सावकाशं ह्रस्वत्वं `दीर्घोऽकितः' (7.4.83) इत्येनेन सन्ध्यक्षरे दीर्घत्वेन बाध्येत। दीर्घस्य दीर्घविधाने प्रयोजनाभावाद्दीर्घो न भविष्यतीति चेत्? नैतत्; अस्ति हि दीर्घस्य दीर्घविधाने प्रयोजनम्, किं तत्? ह्रस्वो मा भूदिति। एवं चासत्यस्मिन् ज्ञापके `अचीकरत्' इत्यत्राप्यचिक्षणदित्यादौ सावकाशमित्त्वम् `दोर्घो लघोः' (7.4.94) इति दीर्घत्वेन बाध्येत। `मीमांसते' इत्यादावसत्यस्मिन् ज्ञापके पिपक्षतीत्यादौ सावकाशं `सन्यतः' (7.4.79) इतीत्त्वं मान्बधादिसूत्रेण (3.1.6) विहितेन दीर्घत्वेन बाध्यते। `अजीगणत्' इत्यत्राप्यसत्यास्मेन् ज्ञापके पपाठेत्यादौ सावकाशो हलादिशेषः `ई च गणः' (7.4.97) इतीत्त्वेन बाध्यते। अस्मिंस्तु सति तर्वमेतन्न बाध्यते। ननु चासति प्रयोजने ज्ञापकं भवति; अस्ति चास्य प्रयोजनम्, किं तत्? धातुकित्त्वमपेक्ष्य जहातेर्मा भूत्--जाहाति, जाहेतीति? नैतदस्ति; यदि ह्येतत् प्रयोजनं स्यात्, तदा `अहाकः' इति प्रतिषेधं कुर्यात्। किञ्च `अकितः' इत्यभ्यासस्य विशेषणं भवितुमर्हति, यद्यभ्यासावस्थायां कित्त्वमुपजायते। न च जहातेः कित्त्वमभ्यासमपेक्षते, पूर्वमेव हि तदभ्यासाद्भवति। तस्माज्जहातेः--जाहाति, जाहेतीति रूपेण भवितव्यम्। ततश्च `अकितः' इति वचनं ज्ञापकमेव। कित्करणं तु जहातेः `हश्च व्रीहिकालयोः' (3.1.148) इत्यत्र सामान्यग्रहणाविघातार्थम्। अथ दीर्घग्रहणं किमर्थम्; आदित्येव नो्येत/ नैवं शक्यम्, `अकितः' इत्यस्य ज्ञापकता नोपपद्यते। सति हि दीर्घग्रहणे नुकि कृतेऽनजन्तत्वादेव हि दीर्घस्य प्राप्तिर्नास्तीति `अकितः' इति प्रतिषेधस्य ज्ञापकत्वमुपपद्यते। आकारस्तु विधीयमानोऽजन्तस्याभ्यासस्य स्यादिति `अकितः' इत्यस्य ज्ञापकत्वं न स्यात्। तस्माद्दीर्घग्रहणं कर्त्तव्यम्।।
84. नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्। (7.4.84)
`वन्चु चन्चु तन्चु त्वन्चु भ्रुन्चु ग्लुन्चु [`मुन्चु' इति प्रा.मु. न्यासपाठः] गत्यर्थाः' (धा.पा.189-194)। `स्रन्सु ध्वन्सु अवस्रंसने' (धा.पा.754,755), `कस गतौ' (धा.पा.860) `शल हुल पत्लृ गतौ' (धा.पा.843-845), `स्कन्दिर् गतिशोषणयोः' (धा.पा.979)। `वनीवच्यते' इति। `अनिदिताम्' (6.4.24) इत्यादिनानुनासिकलोपः। `वनीवञ्चीति' इति। अत्र न भवत्यनुनासिकलोपः। यङी लुप्तत्वात् `न लुमताङ्गस्य' (1.1.63) इति प्रत्ययलक्षणनिषेधात्। अथ नीकि कृते ह्रस्वत्वं कस्मान्न भवति? दीर्घोच्चारणसामर्थायत्।।
85. नुगतोऽनुनासिकान्तस्य। (7.4.85)
`दीर्घोऽकितः' (7.4.83) इत्यनेन दीर्घत्वे प्राप्ते वचनमिदमारभ्यते। `तन्तन्यते' इत्यादीनि तमिगमियमिरमीणां रूपाणि।
यदि नुक् क्रियते, यम्यम्यते इत्यादौ `नश्चापदान्तस्य झलि' (8.3.24) इति झल्युच्यमानोऽनुस्वारो न सिध्यति, अझल्परत्वात्? इत्यत आह--`नुगित्ये तत्' इत्यादि। कथं पुनर्नुगित्येतदनुस्वारोपलक्षणार्थं शक्यते द्रष्टुम्? इत्याह--`स्थानिना हि' इत्यादि। नुका हि स्थानिनाऽत्रादेशोऽनुस्वार उपलक्ष्यते। तस्मादनुस्वार एवागमोऽत्र विधीयते, न तु नुक्। यम्यम्यत इत्यादौ यद्यप्यझल्परताऽस्ति, तथाप्यनुस्वारः सिध्यति।
एवं `अनुस्वारस्य ययि परसवर्णः' (8.4.58) प्राप्नोति, इष्यते च पक्षेऽनुस्वारस्य श्रवणम्, तन्न सिध्यति, अपवान्तत्वात्? इत्यत आह--`पदान्तवच्च' इत्यादि। पदान्तवदनुस्वारो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--तदन्तविधिर्नवानुनासिकान्तस्यानुस्वारो भवतीति नार्थोऽन्तग्रहणेन, तत्क्रियते--पदान्तस्यानुत्वारस्य यो धर्मा स नुकोऽपि स्यादित्येवमर्थम्; तेनानुस्वारस्य पक्षे श्रवणं भविष्यतीति।
`तेतिम्यते' इति। `तिम ष्टिम आर्द्रीभावे' (धा.पा.1123,1124)।
अथ तपरकरणं किमर्थम्, यावता नास्ति किञ्चिदन्यदस्य व्यावर्त्यमिति सर्वत्र ह्रस्वाभावात्? इत्यत आह--`तपरकरणम्' इत्यादि। वर्त्तमानस्य दीर्घस्याभावाद्भूतपूर्वस्यापि दीर्घस्य निवृत्त्यर्थं तपरकरणं भविष्यतीति। `बाभाम्यते' इति। `भाम क्रोधे' (धा.पा.441)।।
86. जपजभदहदशभन्जपशां च। (7.4.86)
अनुनासिकार्तोऽयमारम्भः। `जप जल्प व्यक्तायां वाचि' (धा.पा.397,398), `जभि जृभी गात्रविनामे' (धा.पा.388,389) `दह भस्मीकरणे' (धा.पा.991), `दन्श दशने' (धा.पा.989) `भव्जो आमर्दने' (धा.पा.1453), `पशिः' सौत्रो धातुः। `जञ्जप्यते' इत्यादिषु `दंदश्यते' इति पर्यन्तेषु `लुपसद' (3.1.24) इत्यादिना यङ्। इतरत्र सामान्यलक्षणेन' (3.1.22)।।
87. चरफलोश्च। (7.4.87)
`चर गतौ' (धा.पा.559)। `ञि फला विशरणे' (धा.पा.516), `फल निष्यत्तौ' (धा.पा.530)-द्वयोरपि ग्रहणम्। निष्यत्त्यर्थस्याकार उच्चारणार्थः, नानुबन्धः, प्रयोजनाभावात्, ततश्च निरनुबन्धकपरिभाषया (व्या.प.53) निरनुबन्धस्य निष्पत्त्यर्थस्यैवास्य ग्रहणं प्राप्नोति, न विशरणार्थस्य? नैष दोषः; चकारोऽत्र क्रियते, स च विशरणार्थस्य समुच्चयार्थो भविष्यति। `चञ्चूर्यते' इति। `लुपसद' (3.1.24) इत्यादिना यङ। उत्तरसूत्रेणाकारस्योकारे कृते `हलि च' (8.2.77) इति दीर्घः। योगभाग उत्तरार्थः।।
88. उत्परस्यातः।(7.4.88)
`अभ्यासस्य मा भूत्' इति। असति परग्रहणेऽभ्यासाधिकारादभ्यासस्यैव स्यादित्यभिप्रायः। `अलोऽन्त्यस्य मा भूत्' इति। यदि `अतः' इति नोच्येत, ततोऽलोऽन्त्य (1.1.52) परिभाषयाऽभ्यासात्परस्य धातुरूपस्य योऽन्त्योऽल् तस्य स्यादिति मन्यते।
अथ तपरकरणं किमर्थम्, यावता मात्रिकस्य स्थान आन्तरतम्याद्विधीयमानो मात्रिक एव भविष्यति? इत्यत आह--`तपरकरणम्' इत्यादि। असति तपरकरण उकारे कृते चञ्चूर्ति, पम्फुल्तीत्यत्र `पुगन्तलघूपधस्य' (7.3.86) इति गुणः स्यात्, स मा भूदित्येवम्रथं तपरकरणं क्रियते। ननु चञ्चूर्तीत्यत्र दीर्घत्वमेव गुणस्य बाधको भविष्यति, तत्किमेतन्निवृत्त्यर्थेन तपरकरणेन? इत्यत आह--`दीर्घत्वम्' इत्यादि। असिद्धत्वं तु `पूर्वत्रासिद्धम्' (8.2.1) इत्यनेन। यदि तर्हि लक्षणान्तरेण प्राप्तो गुणस्तपरकरणेन निवर्त्तते, गुणवद्दीर्घत्वमपि न स्यात्/ नैष दोषः; तपरकरणे हि दीर्घत्वमपि सिद्धमिति। तेन दीर्घस्य निवृत्तिर्न शक्यते वक्तुम्। तथा च --`अत उत् सार्वधातुके' (6.4.110) इति तपरकरणेन दीर्घत्वमशक्यं निवर्त्तयितुमिति मन्यमानेन `न भकुर्च्छुराम्' (8.2.79) इति करोतेर्दीर्घत्वप्रतिषेध आरभ्यते। अत इति तपरकरणमिह मा भूत्--फलन्तं प्रयुङ्क्ते फालयति, फालयतेः क्विप्, तदन्तात् `आचारे पुनः सर्वप्रातिपदिकेभ्यः' (वा.186?) इति क्विप्, तदन्ताद्यङ्--पन्फाल्यते, पम्फालोति। कथञ्च प्राप्नोति? एकदेशविकृतस्यानन्यत्वात्।।
89. ति च। (7.4.89)
अयङलुगर्थोऽयमारम्भः। `चूर्त्तिः' इति। `स्त्रियां क्तिन्' (3.3.94) पूर्ववद्दीर्घः। `प्रकृल्ताः' इति। `निष्ठा, तदन्ताट्टाप्; जस्। `वचनसामर्थ्यादिह नाभिसम्बध्यते' इति। यदीह यङ्लुग्ग्रहणमभ्यासग्रहणञ्चाभिसम्बध्येत, ततो वचनस्य वैयर्थ्यं स्यात्। पूर्वेणैव यङयङ्लुकोरभ्यासस्य सिद्धत्वादित्यभिप्रायः।।
90. रीगृदुपधस्य च। (7.4.90)
`वरीवृत्यते' इत्यादीनि वृतिवृधिनृतीनां (धा.पा.758,759.1116) रूपाणि। `रीगृत्वत इति वक्तव्यम्' इति। ऋदुपधादन्यस्यापि ऋत्वतो रीगादयो यथा स्युरित्येवमर्थो व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्--चकारोऽत्र क्रियते, स च ऋदुपधादन्यस्यापि ऋत्वतः समुच्चयार्थः, तेन वृश्चतिप्रभृतीनामपि ऋत्वतां रीगादयो भवन्तीति।
`रीगृत्वतः' इति सूत्रं न कृतम्; वैचित्र्याथम्।
`ऋदुपधस्य' इति तपरकरणमसन्देहार्थम्। उकारे परतो यणादेशे कृते सन्देहः स्यात्--किमृकारोपधस्य? अथ वा रेफोपधस्येति?।।
91. रुग्रिकौ च लुकि। (7.4.91)
92. ऋतश्च। (7.4.92)
लुकीत्येव। चकारेण रीगादयोऽनुकृष्यन्ते। `चर्कर्ति' इति। `डुकृञ् करणे' (धा.पा.1472) `जर्हति' इति। `हृञ् हरणे' (धा.पा.899)।
`किरतेश्चाकर्ति' इति। `कॄ विक्षेपे' (धा.पा.1409), इत्यस्य।
`किरतिम्' इत्यादि। किरतिग्रहणमुपलक्षणार्थम्। तेन `गृ निगरणे' (धा.पा.1410) इत्येवमादेरपि ऋकारान्तस्य ग्रहणं वेदितव्यम्। `चर्करीतान्तम्' इति। यङ्लुगन्तमित्यर्थः। यङ्लुक एव पूर्वाचार्यप्रणीतैषा संज्ञा `चर्करीतम्। इति। `पचति' इति। लट्प्रथमपुरुषस्यैकवचनम्। एतदप्युपलक्षणार्थमेव। वचनान्तराणामपि ह्यत्र ग्रहणम्। तेन `कॄ' इत्येवमादिकमॄकारान्तं यो लट्प्रथमपुरुषैकवचनादौ नये=चाकर्तीत्येवमादीनि रूपाणि प्रापयेत्, सम्पादयेदितय्रथः. `प्राप्तिज्ञं तमहं मन्ये' इति। प्राप्तिं जानातीति प्राप्तिज्ञः। इह तु रुगादीनां प्रकृतत्वात् तत्प्राप्तिं यो जानाति स प्राप्तिज्ञो वेदितव्यः। मन्यं=अवगच्छा। `प्रारब्धस्तेन संग्रहणः' इति। अनेन प्राप्तितायां हेतुमाह। सम्यग्गृह्यते ज्ञापये लक्षणमनेनेति संग्रहः=व्याकरणशास्त्रम्। प्रकर्षेणारब्धः प्रारब्धः; बहुभ्यो बहुशः श्रवणात्।
का पुनरसां प्राप्तिर्यत्परिज्ञानाय प्राप्तिज्ञमवगच्छामीत्याह--`तत्रेयम्' इत्यादि। द्वयमिह प्रकृतम्--अङ्गम् अभ्यासश्चेति। ऋत इति विशेषणमुपात्तम्; तत्र यद्यप्युमयं प्रकृतं तथाप्यृत इत्येतदङ्गस्यैव विशेषणम्, नाभ्यासस्य। कुतः? तपरकरणसामर्थ्यात्। सर्वत्रैव ह्यभ्यासस्य `ह्रस्वः' (7.4.59) इति ह्रस्वत्वेन भवितव्यम्; अतो दीर्घस्याम्यासस्याभावात्। यदि `ऋतः' इत्येदभ्यासस्य विशेषणं स्यात्, तदा तपरकरणमनर्थकं स्यात्। तस्मात् तपरकरणसामर्थ्यादङ्गस्यैव विशेषणमृत इत्येतत्, नाभ्यासस्य। एवञ्च सति किरतेरप्राप्तिः; रुगादीनां तपरकरणेन व्यावर्त्तितत्वात्। आदिशब्देन रिगादीनां परिग्रहः। `तथा चाप्राप्तिः किरते रुगादीनाम्' इति ब्रुवर्ततदुक्तं भवति--करोतिप्रभृतीनामेव ह्रस्वान्तानां परिशेष्यात् प्राप्तिरिति।।
93. सन्वल्लघुनि चङ्परेऽनग्लोपे। (7.4.93)
`सन्यतः' (7.4.79) इत्यादिना सूत्रत्रयेण यदभ्यासस्य सनि कार्यं भवति तल्लघुनि चङ्पर इत्यतिदिश्यते। `लघुनि' `चङ्परे' इति। व्यधिकरणे सप्तम्यौ--चङपरे णौ परतो यत् पूर्वं लघु तस्मिन् परतो योऽभ्यासस्तस्य सन्वद्भवतीति। `चङपरे' इति बहुव्रीहिः--चङ् परो यस्मादिति तच्चङ्परम्; न तु चङ् चासौ परश्चेति तत्पुरुष. तेन सामर्थ्याण्ण्यन्तस्यैवायमतिदेशो विज्ञायते; अन्यथा हि यदि प्रकृत्यन्तस्यायमतिदेशः स्यात्, तदा `सन्वच्चङि' इत्येवं ब्रूयात्। `अनन्लोपे' इति। `चङ्परे' इत्यस्यैतद्विशेषणम्। अगिति प्रत्याहारग्रहणम्। अको लोपोऽग्लोपः, स यस्य नास्ति तदनग्लोपम्। `अपीपचत्' इति। पचेर्णित्, लुङ्, च्लेश्चङ्, उपधाह्रस्वत्वम्, द्विर्वचनमभ्यासकार्यम्, हलादिशेषे च कृतेऽनेन सन्वद्भावः, `सन्यतः' (7.4.79) इतीत्त्वम्, उत्तरसूत्रेण (7.4.94) दीर्घत्वम्।
`अततक्षत्, अररक्षत्' इति। अत रेफतकारयोः संयोगपरत्वाद् गुरुसंज्ञायां सत्यां न भवति सन्वद्भावः। `अजजागरत्' इति। अत्र जकाराकारस्य दीर्घत्वाद्गुरुत्वम्।
`अत्र केचित्' इत्यादि। तेषां `अजीजागरत्' इति भवितव्यम्। किं पुनः कारं त एवमिच्छन्ति, यावता लघुनि चङ्पर इत्यच्यते, व्यवहितश्चात्र लघुनि चङ्परे? इत्यत आह--`सर्वत्रैव' इत्यादि। `अचीकरत्' इत्यादावपि ककारादिना वर्णेन व्यवधानाल्लघोरानन्तर्यमभ्यासे नास्ति; उच्यते चेदं वचनम्, अतो वचनप्रामाण्या द्वय्वधान एव सन्वद्भावेन भवितव्यम््। ततश्च यथा `अचीकरत्' इत्यादौ व्यवधानेऽपि भवति, तथेहापि व्यवधाने सन्वत्कार्येण भवितव्यम्। अथ चेद्व्यवधानान्न भवति, अत्रापि न स्यादिति भावः। `तदसत्' इति। `अजजागरत्' इत्यत्र गृशब्दं लघुमाश्रित्य यत् सनवद्भावमिच्छन्ति, सर्वत्रैवेत्यादिना च यत् कारणमुक्तम्, तदुभयमत्राशोभनम्; अयुक्तत्वात्। कथम्? इतयाह--`येन' इत्यादि। एकेन वर्णेन व्यवधानमस्ति सर्वत्र। वर्णसङ्घातेन व्यवधानमस्ति नास्ति च। तत्र `येन नाव्यधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्' (व्या.प.46) इति यन्नियतभाव्येकेन वर्णेन व्यवधानमशक्यं परिहर्त्तुम्, तदेवाश्रीयते, न तु वर्णसङ्गातेन। `अजजागरत्' इत्यत्र वर्णसङ्घातेन व्यवधानम्।
यदि तर्हि वर्णसङ्घातेन व्यवधानं नाश्रीयते, व्यञ्जनसङ्घातेन व्यवधाने न सिद्धयति? इत्यभिप्रायेणाह--`कथमचिक्षणत्' इत्यादि। `क्षणु हिंसायाम्' (धा.पा.1465) इत्येतस्यैतद्रूपम्। अत्रापि ज्ञापकेन सिद्ध्यतीत्यत आह--`आचार्यप्रवृत्तिः' इत्यादि। क्षणोतिना ये सदृशाः संयोगादयस्त एवञ्जातीयाः। क्षणोतिप्रकारः इत्यर्थः। तेषां यदीत्त्वं न स्यात्, तदा तद्बाधनार्थं `अत्स्मृदॄत्वरप्रथभ्रद' (7.4.95) इत्यादिनात्त्वं न विदध्यात्, विदधाति च। तस्मादेतदेवात्त्वविधानलक्षणमाचार्यप्रवृत्तिर्ज्ञापयति--`भवत्येवञ्जातीयकानामित्त्वम्' इति।
`अहं पपच' इति। उत्तमे णलि यदा `णलुत्तमो वा' (7.1.91) इति णित्त्वं नास्ति तदेदं प्रत्युदाहरणं भवति। अत्र लघुपरतोऽक्षरम्, न तु चङ्परम्। `अचकमत' इत्यादि। कमेश्चोपसंख्यानम्' (वा.208) इति `कमु कान्तौ' (धा.पा.443) इत्येतस्मात् प्रकृत्यन्तादेव लुङ्, चङ्। `अचकथत्' इति। `कथ वाक्यप्रबन्धे' (धा.पा.1851) चुरादावदन्तः। अत्र `अतो लोपः' (6.4.48) इत्यकारलोपः। अत्र त्वग्लोपस्य स्थानिवद्भावे सति व्यवधानेऽपि न स्यात्। अतः प्रत्युदाहरणान्तरमाह--`दृषदमाख्यदददृषत्' इति। `तत्करोति तदाचष्टे' (वा.200?) इति णिच्। `णाविष्ठवत् कार्यं प्रातिपदिकस्य' (वा.811) इतीष्ठवद्भावाट्टिलोपः। अत्राज्झलोर्लोपः, नाक एव केवलस्येति नास्त्यत्र स्थानिवद्भावः। अन्यार्थं त्वग्लोप इति क्रियमाणमचकथदित्यत्रापि सन्वद्भावं निवर्त्तयतीत्यस्योपन्यासः।
`अवीवदत्' इति। वदतेर्ण्यन्ताद् वादितवन्तं प्रयोजितवानिति `हेतुमति च' (3.1.26) इति णिच्, पुनर्णिच्युत्पन्ने `णेरनिटि' (6.4.51) इति णिलोपे कृते सत्यप्यग्लोप्यङ्गं भवति, अतो न भवितव्यं सन्वद्भावेनेति यो मन्यते, तं प्रत्याह--`वादितवन्तं प्रयोजितवान्' इत्यादि। `चङ्परे' इत्यादिना णिलोपस्याग्लोपित्वेनानाश्रयणे कारणमाह। `चङपरे' इत्यनेन हि सन्वद्भावनिमित्तेन णिजातिराक्षिप्ता। तस्माद्गोबलीवर्दन्यायेन णिजातिर्निमित्तत्वेनाश्रीयते। अतो णिजातेरन्यस्याको लोपः प्रतिषेधनिमित्तत्वेन परिगृह्यते, न तु तस्या एव णिजातेः। तस्माण्णिलोपस्याग्लोपित्वेनानाश्रयणात् तल्लोपेऽग्लोप्यङ्गं न भवति। अतो भवत्येवात्र सन्वद्भावः। सन्वदित्यतिदेशेन यथाचीकरदित्यादावभ्यासस्येत्त्वं भवति तथामीमपदित्यादावप्यभ्यासलोपेन मीमादीनां भवितव्यमिति यश्चोदयेत्, तं प्रत्याह--`मीमादीनाम्' इत्यादि। आदिशब्देन ध्वादीनां ग्रहणम्। `किञ्च' इत्यादिना परीहारान्तरम्। सन्वदित्यतिदेशेन हि सनाश्रयणेव कार्यमतिदिश्यते। सनाश्रयञ्च किं कार्यम्? यत् सनमपेक्षते, नापरं किञ्चित्। न च `अत्र लोपेऽभ्यासस्य' (7.4.58) इत्यनेन विधीयमानो लोपः सनमेवापेक्षते, किं तर्हि? इस्भावादिकमपि। आदिशब्देन ध्वादीनां ग्रहणम्।
`किञ्च' इत्यादिना परोहारान्तरम्। सन्वदित्यतिदेशेन हि सनाश्रयमेव कार्यमतिदिश्यते। सनाश्रयञ्च किं कार्यम्? यत् सनमपेक्षते, नापरं किञ्चित्। न च `अत्र लोपेऽभ्यासस्य' (7.4.58) इत्यनेन विधीयभानो लोपः सनमेवापेक्षते, किं तर्हि? इस्भावादिकमपि। आदिशब्देन--`अब्ज्ञप्यृधामीत्' (7.4.55) इतीत्त्वम्, `मुचोऽकर्मकस्य' (7.4.57) इति गुणश्च परिगृह्यते। तेन `अभीमपत्' इत्यादाविसादेशो न भवति। अभ्यासलोपेऽपि न भवतीत्यभिप्रायः।।
94. दीर्घो लघोः। (7.4.94)
95. अत्स्मृदॄत्वरप्रथम्रदस्तृस्पशाम्। (7.4.95)
`स्मृ चिन्तायाम्' (धा.पा.933), `दृ भये' (धा.पा.808), `ञि त्वरा सम्भ्रमे' (धा.पा.775), `प्रथ प्रख्याने' (धा.पा.1553), `म्रद मर्दने' (धा.पा.767), `स्तृञ् आच्छादने' (धा.पा.1484), `स्पशबाधनस्पर्शनयोः' (धा.पा.887)।
अथ `अददरत्' इत्यत्र `दीर्घो लघोः' (7.4.94) इति दीर्घत्वं कस्मान्न भवतीत्याह--`तपरकरणसामर्थ्यात्' इत्यादि। अनेनैव हि लक्षणेन दीर्घो औव प्राप्नोति, यस्य निवृत्तिस्तपरकरणेन क्रियते; `भाव्यमानोऽण् सवर्णान् न गृह्णाति' (व्या.पा.35)। इति भाव्यमानानां सवर्णानामग्रहणात् सर्वत्र स्थादिनो ह्रस्वत्वाच्च। तत्र यदि लक्षणान्तरेणापि प्राप्नुक्तो दीर्घस्य निवर्त्तकं तपरकरणं न स्यान्निरर्त्तकमेव तपरकरणं स्यात्। तस्मात् तपरकरणसामर्थ्यादिति कृते `दीर्घो लघोः' (7.4.94) इति दीर्घो न भवतीति भावः।।
96. विभाषा वेष्टिचेष्ट्योः। (7.4.96)
`वेष्ट वेष्टने' (धा.पा.255), `चेष्ट चेष्टायाम्' (धा.पा.256)--एतयोरभ्यासस्य लघुपरता नास्तीत्यप्राप्त एव सन्वद्भाव इति अनेन विभाषाऽकारो विधीयते।।
97. ई च गणः। (7.4.97)
`गण संख्याने' (धा.पा.1853) चुरादावदन्तः। तत्राकारात् `अतो लोपः' (6.4.48) इति लोपे कृतेऽनग्लोप इति वचनादप्राप्तयोरेव सन्बद्भावदीर्घयोरिवमीत्वं विधीयते।
चकारो विभाषेत्यनुकर्षणार्थः।।
इति बोधसत्त्वदेशीयाचायं श्रीजिनेन्द्रवुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायां सप्तमाध्यायस्य
चतुर्थः पादः
समाप्तश्च सप्तमोऽध्यायः
- - -