काशिका/अष्टमोऽध्यायः/चतुर्थः पादः
अथ अष्टमाध्याये चतुर्थः पादः
रषाभ्यां नो णः समानपदे ।। <8-4-1> ।।
रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेन्निमित्तनिमित्तिनौ भवतः । आस्तीर्णम्, विस्तीर्णम्, अवपूर्णम् । षकारात्--कुष्णाति, पुष्णाति, मुष्णाति । षग्रहणमुत्तरार्थम्; ष्टुत्वेनैव हि सिद्धमेतत् ।
समानपद इति किम् ? अग्निर्नयति । वायुर्नयति ।
- ऋवर्णाच्चेति वक्तव्यम् * (म.भा.3-452)। तिसृणाम् । चतसृणाम् । मातॄणाम् । पितॄणाम् ।
रश्रुतिसामान्यनिर्देशात्सिद्धम् । वर्णभक्त्या च व्यवधानेऽपि णत्वं भवतीति क्षुभ्नादिषु(8-4-39/792) नृनमन---तृप्नोतिग्रहणं ज्ञापकम् ।
अथ वा---ऋवर्णादपि णत्वं भवतीत्येतदेवानेन ज्ञाप्यते ।।
</8-4-1>
अट्कुप्वाङ्नुम्व्यवायेऽपि ।। <8-4-2> ।।
अट्, कु, पु, आङ्, नुम्---इत्येतैर्व्यवायेऽपि रेफषकाराभ्यामुत्तरस्य नकारस्य णकार आदेशो भवति । अड्व्यवाये तावत्---करणम्, हरणम् । किरिणा । गिरिणा । कुरुणा । गुरुणा ।
कवर्गव्यवाये---अर्केण । मूर्खेण । गर्गेण । अर्घेण ।
पवर्गव्ययाये--दर्पेण । रेफेण । गर्भेण । चर्मणा । वर्मणा ।
आङ्व्यवाये---पर्याणद्धम् । निराणद्धम् ।
`अड्व्यवाये इति सिद्धे आङ्ग्रहणम् पदव्यवायेऽपि(8-4-38/1057)---इत्यस्य प्रतिषेधस्य बाधनार्थम् ।
नुम्व्यवाये--बृंहणम् । बृंहणीयम् ।
नुम्ग्रहणमनुस्वारोपलक्षणार्थं द्रष्टव्यम् । तेन तृंहणम्, तृंहणीयमित्यत्रानुस्वारव्यवाये नुमभावेऽपि णत्वं भवति । सत्यपि च नुमि यत्रानुस्वारो न श्रूयते, तत्र न भवति---प्रेन्वनम्, प्रेन्वनीयमिति ।
<K.6.606> व्यवायोपलक्षणार्थत्वादडादीनामिह व्यस्तैः समस्तैश्च व्यवायेऽपि णत्वं भवति ।।
</8-4-2>
पूर्वपदात्संज्ञायामगः ।। <8-4-3> ।।
<K.6.607>
पूर्वपदस्थान्निमित्तादुत्तरस्य गकारवर्जिताद् नकारस्य णकार आदेशो भवति संज्ञायां विषये । द्रुणसः । वार्ध्रीणसः । खरणसः । शूर्पणखा । संज्ञायामिति किम् ? चर्मनासिकः । अग इति किम् ? ऋगयनम् ।
<K.6.608> केचिदेतन्नियमार्थं वर्णयन्ति -- पूर्वपदात्संज्ञायामेव णत्वं नान्यत्रेति । समासेऽपि हि समानपदे निमित्तनिमित्तिनोर्भावादस्ति पूर्वेण प्राप्तिरिति । स च नियमः पूर्वपदसम्बन्धादुत्तरपदस्थस्यैव णत्वं निवर्त्तयति --- चर्मनासिकः इति, न तद्धितपूर्वपदस्थस्य --- खारपायणः, मातृभोगीणः, करणप्रियः इति ।
<K.6.609> `अगः इति योगविभागेन णत्वप्रतिषेधः, न नियमप्रतिषेध इति ।
अपरे तु --- पूर्वसूत्रे `समानमेव यन्नित्यं पदं तत्समानपदम् इत्याश्रयन्ति; समानग्रहणात् । तेषामप्राप्तमेव णत्वमनेन विधीयते । समासे <K.6.610> हि पूर्वपदोत्तरपदविभागादसमानपदत्वमप्यस्तीति ।।
</8-4-3>
वनं पुरगामिश्रकासिध्रकाशारिकाकोटराग्रेभ्यः ।। <8-4-4> ।।
`पूर्वपदात्संज्ञायाम् इति वर्तते । पुरगा, मिश्रका, सिध्रका, शारिका, कोटरा, अग्रे --- इत्येतेभ्यः पूर्वपदेभ्य उत्तरस्य वननकारस्य णकारादेशो भवति संज्ञायां विषये । पुरगावणम् । मिश्रकावणम् । <K.6.611> सिध्रकावणम् । शारिकावणम् । कोटरावणम् । अग्रेवणम् । `सिद्धे सत्यारम्भो नियमार्थः --- एतेभ्य एव परस्य
वनकारस्य णकारादेशो भवति, नान्येभ्य इति । कुबेरवनम् । शतधारवनम् । असिपत्रवनम् ।।
</8-4-4>
प्रनिरन्तः शरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि ।। <8-4-5> ।।
प्र, निर्, अन्तर्, शर, इक्षु, प्लक्ष, आम्र, कार्ष्य, खदिर, पीयूक्षा --- इत्येतेभ्य उत्तरस्य वननकारस्य संज्ञायामसंज्ञायामपि <K.6.612> णकारादेशो भवति । प्र --- प्रवणे यष्टव्यम् । निर् --- निर्वणे प्रतिधीयते । अन्तर् --- अन्तर्वणे । शर --- शरवणम् । इक्षु --- इक्षुवणम् । प्लक्ष --- प्लक्षवणम् । आम्र --- आम्रवणम् । कार्ष्य --- कार्ष्यवणम् । खदिर --- खदिरवणम् । पीयूक्षा --- पीयूक्षावणम् ।।
</8-4-5>
विभाषौषधिवनस्पतिभ्यः ।। <8-4-6> ।।
`वनम् इत्येव । ओषधिवाचि यत्पूर्वपदं वनस्पतिवाचि च तत्स्थान्निमित्तादुत्तरस्य वननकारस्य णकार आदेशो भवति विभाषा । <K.6.613> ओषधिवाचिभ्यस्तावत् --- दूर्वावणम्, दूर्वावनम् । मूर्वावणम्, मूर्वावनम् । वनस्पतिभ्यः --- शिरीषवणम्, शिरीषवनम् । बदरीवणम्, बदरीवनम् ।
- द्व्यक्षरत्र्यक्षरेभ्य इति वक्तव्यम् *। इह मा भूत् --- देवदारुवनम् । भद्रदारुवनम् ।
- इरिकादिभ्यः प्रतिषेधो वक्तव्यः * । इरिकावनम् । मिरिकावनम् ।
फली वनस्पतिर्ज्ञेयो वृक्षाः पुष्षफलोपगाः । <K.6.614>
ओषध्यः फलपाकान्ता लता गुल्माश्च वीरुधः ।।
(इति) सत्यपि भेदे वृक्षवनस्पत्योरिहाभेदेन ग्रहणं द्रष्टव्यम् ।
</8-4-6>
<K.6.615>
अह्नोऽदन्तात् ।। <8-4-7> ।।
अदन्तं यत्पूर्वपदं तत्स्थान्निमित्तादुत्तरस्याह्नो नकारस्य णकार आदेशो भवति । पूर्वाह्णः । अपराह्णः ।
अदन्तादिति किम् ? निरह्नः । दुरह्नः । अह्नोऽह्न एतेभ्यः इत्यह्नादेशः । `अह्नः इत्यकारान्तग्रहणाद् दीर्घाह्नी शरद् इत्यत्र न भवति ।।
</8-4-7>
<K.6.616>
वाहनमाहितात् ।। <8-4-8> ।।
आहितवाचि यत्पूर्वपदं तत्स्थान्निमित्तादुत्तरस्य वाहननकारस्य णकार आदेशो भवति । इक्षुवाहणम् । `शरवाहणम् । दर्भवाहणम् । वाहने यद् आरोपितमुह्यते तदाहितमुच्यते । आहितादिति किम् ? दाक्षिवाहनम् । दाक्षिस्वामिकं वाहनमित्यर्थः ।।
</8-4-8>
पानं देशे ।। <8-4-9> ।।
पाननकारस्य पूर्वपदस्थान्निमित्तादुत्तरस्य देशाभिधाने णकार आदेशो भवति । पीयते इति पानम् । कृत्यल्युटो बहुलम् इति कर्मणि ल्युट् । क्षीरं पानं येषां ते क्षीरपाणाः उशीनराः । <K.6.617> मनुष्याभिधानेऽपि देशाभिधानं गम्यते । सुरापाणाः प्राच्याः । सौवीरपाणाः बाह्लीकाः । कषायपाणाः गन्धाराः ।
देश इति किम् ? दाक्षीणां पानं दाक्षिपानम् ।।
</8-4-9>
वा भावकरणयोः ।। <8-4-10> ।।
भावे करणे च यः पानशब्दस्तदीयस्य नकारस्य णकार आदेशो भवति वा पूर्वपदस्थान्निमित्तादुत्तरस्य । क्षीरपाणं वर्त्तते, क्षीरपानम् । कषायपाणम्, कषायपानम् । सुरापाणम्, सुरापानम् । करणे --- क्षीरपाणः कंसः । क्षीरपानः । * वाप्रकरणे गिरिनद्यादीनामुपसंख्यानम् * । गिरिणदी, गिरिनदी । चक्रणदी, चक्रनदी । चक्रणितम्बा,
चक्रनितम्बा ।।
</8-4-10>
<K.6.618>
प्रातिपदिकान्तनुम्विभक्तिषु च ।। <8-4-11> ।।
`वा इति वर्तते । प्रातिपदिकान्ते नुमि विभक्तौ च यो नकारस्तस्य पूर्वपदस्थान्निमित्तादुत्तरस्य वा णकार आदेशो भवति। प्रातिपदिकान्ते तावत् --- माषवापिणौ, माषवापिनौ । नुमि --- माषवापाणि, माषवापानि । व्रीहिवापाणि, व्रीहिवापानि । विभक्तौ --- माषवापेण, माषवापेन । व्रीहिवापेण, व्रीहिवापेन ।
पुर्वपदाधिकारादुत्तरपदस्य प्रातिपदिकस्थो योऽन्त्यो नकारस्तस्येदं णत्वमिष्यते । इह हि न भवति --- गर्गाणां भगिनी गर्गभगिनी । <K.6.619> यदा त्वेवं भवति -- गर्गाणां भगो गर्गभगः, गर्गभगोऽस्या अस्तीति गर्गभगिणी इति; तदा मातृभोगीणवत् नित्यमेव णत्वेन भवितव्यम् । माषवापिणी, माषवापिनी इत्यत्र तु `गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः इति कृदन्तेनैव समासे सति प्रातिपदिकस्य उत्तरपद्सयैव सतो नकारो भवति । तथात्र नुम्ग्रहणं कृतम् । स हि समुदायभक्तत्वादुत्तरपदस्यान्तो न भवति ।
<K.6.620> * युवादीनां प्रतिषेधो वक्तव्यः * । आर्ययूना । क्षत्रिययूना । प्रपक्वानि । दीर्घाह्नी शरत् ।।
</8-4-11>
<K.6.621>
एकाजुत्तरपदे णः ।। <8-4-12> ।।
एकाजुत्तरपदं यस्य स एकाजुत्तरपदः, तस्मिन्नेकाजुत्तरपदसमासे प्रातिपदिकान्तनुम्विभक्तिषु पूर्वपदस्थान्निमित्तादुत्तरस्य नकारस्य णकार आदेशो भवति । वृत्रहणौ । वृत्रहणः । नुमि---क्षीरपाणि । सुरापाणि । विभक्तौ---क्षीरपेण । सुरापेण ।
`णः इति वर्त्तमाने पुनर्णग्रहणं विकल्पाधिकारनिवृत्तेर्विस्पष्टीकरणार्थम् ।।
</8-4-12>
कुमति च । <8-4-13> ।।
कवर्गवति चोत्तरपदे प्रातिपदिकान्तनुम्विभक्तिषु पूर्वपदस्थान्निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति । वस्त्रयुगिणौ, <K.6.622> वस्त्रयुगिणः । स्वर्गकामिणौ । वृषगामिणौ । नुमि --- वस्त्रयुगाणि । खरयुगाणि । विभक्तौ --- वस्त्रयुगेण । खरयुगेण ।।
</8-4-13>
उपसर्गादसमासेऽपि णोपदेशस्य ।। <8-4-14> ।।
ण उपदेशे यस्यासौ णोपदेशः । णोपदेशस्य धातोर्यो नकारः तस्य उपसर्गस्थान्निमित्तादुत्तरस्य णकारादेशो भवति असमासेऽपि, समासेऽपि, प्रणमति, परिणमति । प्रणायकः, परिणायकः ।
उपसर्गादिति किम् ? प्रगता नायका अस्माद् देशात् प्रनायको देशः । असमासेऽपीति किम् ? पूर्वपदाधिकारात् समास एव स्यादिति तदधिकारनिवृत्तिद्योतनार्थम् । णोपदेशस्येति किम् ? प्रनर्दति । प्रनर्दकः ।।
</8-4-14>
हिनुमीना ।। <8-4-15> ।।
हिनु, मीना---इत्येतयोरुपसर्गस्थान्निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति । प्रहिणोति, प्रहिणुतः । प्रमीणाति, प्रमीणीतः ।
`हिनुमीनाग्रहणे विकृतस्यापि भवति(म.भा.3-458); अजादेशस्य स्थानिवत्त्वात् ।।
</8-4-15>
आनि लोट् ।। <8-4-16> ।।
`आनि इत्येतस्य लोडादेशस्योपसर्गस्थान्निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति । प्रवपाणि । प्रयाणि । परियाणि ।
लोडिति किम् ? प्रवपानि मांसानि ।।
</8-4-16>
नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च ।। <8-4-17> ।।
`नि इत्येतस्योपसर्गस्थान्निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति गद, नद, पत, पद, घु, मा, स्यति, हन्ति, याति, वाति, द्राति, प्साति, वपति, वहति, शम्यति, चिनोति, देग्धि---इत्येतेषु परतः । गद---प्रणिगदति, परिणिगदति । नद---प्रणिनदति, परिणिनदति । पत---प्रणिपतति, परिणिपतति । पद---प्रणिपद्यते, परिणिपद्यते । घु---प्रणिददाति, परिणिददाति । प्रणिदधाति, परिणिदधाति ।
माङ्---प्रणिमिमीते, परिणिमिमीते । मेङ्---प्रणिमयते, परिणिमयते । `मा इति माङ्मेङोर्ग्रहणमिष्यते ।
स्यति---प्रणिष्यति, परिणिष्यति । हन्ति---प्रणिहन्ति, परिणिहन्ति । याति---प्रणियाति, परिणियाति । वाति---प्रणिवाति, परिणिवाति । द्राति---प्रणिद्राति, परिणिद्राति । प्साति---प्रणिप्साति, परिणिप्साति । वपति---प्रणिवपति, परिणिवपति । वहति---प्रणिवहति, परिणिवहति । शाम्यति---प्रणिशाम्यति, परिणिशाम्यति । चिनोति---प्रणिचिनोति, परिणिचिनोति । देग्धि---प्रणिदेग्धि, परिणिदेग्धि ।
अड्व्यवायेऽपि नेर्गदादिषु णत्वमिष्यते । प्रण्यगदत्, परिण्यगदत् ।।
</8-4-17>
शेषे विभाषाऽकखादावषान्त उपदेशे ।। <8-4-18> ।।
`नः इति वर्त्तते, `उपसर्गात् इति च । अककारादिः, अखकारादिः, अषकारान्तश्च उपदेशे यो धातुः स शेषः; तस्मिन्परत उपसर्गस्थान्निमित्तादुत्तरस्य नेर्नकारस्य विभाषा णकार आदेशो भवति । प्रणिपचति, प्रनिपचति । प्रणिभिनत्ति, प्रनिभिनत्ति ।
अकखादाविति किम् ? प्रनिकरोति । प्रनिखादति । अषान्त इति किम् ? प्रनिपिनष्टि । उपदेशग्रहणं किम् ? इह च प्रतिषेधो यथा स्यात्---प्रनिचकार, प्रनिचखाद, प्रनिपेक्ष्यतीति । इह च मा भूत्---विशेः प्रणिवेष्टा, प्रणिवेक्ष्यति ।।
</8-4-18>
अनितेः ।। <8-4-19> ।।
अनितेर्नकारस्योपसर्गस्थान्निमित्तादुत्तरस्य णकारादेशो भवति । प्राणिति । पराणिति ।।
</8-4-19>
अन्तः ।। <8-4-20> ।।
`अनितेः इति वर्तते, उपसर्गस्थान्निमित्तादुत्तरस्यानितिनकारस्य पदान्ते वर्तमानस्य णकारादेशो भवति । हे प्राण् । हे पराण् । `पदान्तस्य इति प्रतिषेधस्यापवादोऽयम् । अन्तश्च पदापेक्षो गृह्यते ।
केचित्तु पूर्वसूत्र एवैतदन्तग्रहणँ सामीप्यार्थमभिसम्बध्नन्ति । निमित्तसमीपस्थस्यैकवर्णव्यवहितस्यानितिनकारस्य पदान्ते वर्तमानस्य णकारादेशो यथा स्यात् । इह मा भूत्---पर्यनितीति । तैर्द्वितीयमपि पदान्तस्य णत्वार्थमन्तग्रहणमाश्रयितव्यमेव ।
येषां तु `प्रर्यणितीति भवितव्यम् इति दर्शनम्, तेषां पूर्वसूत्रे नार्थोऽन्तग्रहणे न ।।
</8-4-20>
उभौ साभ्यासस्य ।। <8-4-21> ।।
साभ्यासस्यानितेरुपसर्गस्थान्निमित्तादुत्तरस्योभयोर्नकारयोर्णकार आदेशो भवति । प्राणिणिषति, प्राणिणत् । पराणिणिषति, पराणिणत् ।
`पूर्वत्रासिद्धीयमद्विर्वचने(पु.प.92) इत्येतस्मिन् सति पूर्वेणैव कृतणत्वस्य द्विर्वचने कृते सिद्धमेतदन्तरेणापि वचनम् ? एतत्तु नाश्रयितव्यमिति सूत्रमिदमारभ्यते । तेन औजढदिति सिद्धं भवति ।।
</8-4-21>
हन्तेरत्पूर्वस्य ।। <8-4-22> ।।
अकारपूर्वस्य हन्तिनकारस्य उपसर्गस्थान्निमित्तादुत्तरस्य णकार आदेशो भवति । प्रहण्यते, परिहण्यते । प्रहणनम्, परिहणनम् ।
अत्पूर्वस्येति किम् ? प्रघ्नन्ति । परिघ्नन्ति । तपरकरणं किम् ? चिणि---प्राघानि । पर्यघानि ।।
</8-4-22>
वमोर्वा ।। <8-4-23> ।।
`हन्तेः इति वर्तते । वकारमकारयोः परतो हन्तिनकारस्योपसर्गस्थान्निमित्तादुत्तरस्य वा णकारादेशो भवति । प्रहण्वः, परिहण्वः; प्रहन्वः, परिहन्वः । प्रहण्मः, परिहण्मः;प्रहन्मः, परिहन्मः ।।
</8-4-23>
अन्तरदेशे ।। <8-4-24> ।।
अन्तः शब्दादुत्तरस्य हन्तिनकारस्यात्पूर्वस्य णकारादेशो भवति अदेशाभिधाने । अन्तर्हण्यते । अतर्हणनं वर्तते ।
अदेशे इति किम् ? अन्तर्हननो देशः ।
`अत्पूर्वस्य इत्येव---अन्तर्घ्नन्ति ।
तपरकरणं किम् ? अन्तरघानि ।।
</8-4-24>
अयनं च ।। <8-4-25> ।।
`अन्तरदेशे इति वर्तते । अयननकारस्य चान्तः शब्दादुत्तरस्य णकारादेशो भवति अदेशाभिधाने । अन्तरयणं वर्तते । अन्तरयणं शोभनम् ।
`अदेशे इत्येव---अन्तरयनो देशः ।।
</8-4-25>
छन्दस्यृदवग्रहात् ।। <8-4-26> ।।
`पूर्वपदात् इति वर्तते । ऋकारान्तादवग्रहात् पूर्वपदादुत्तरस्य णकारादेशो भवति छन्दसि विषये । `नृमणाः(ऋ.1-167-5) । `पितृयाणम्(ऋ.10-2-7) ।
अत्र हि नृमणाः, पितृयाणमिति ऋकारोऽवगृह्यते ।
अवग्रहग्रहणं किमर्थमुच्यते, यावता `संहिताधिकार आ अध्यायपरिसमाप्तेः(8-2-108) इत्युक्तम् ? विषयोपलक्षणार्थमवग्रहग्रहणम् । अवगृह्यमाणाद्यथा स्याद्, अनवगृहमाणान्मा भूत् । अपदान्ते चावग्रहो नास्ति ।।
</8-4-26>
नश्च धातुस्थोरुषुभ्यः ।। <8-4-27> ।।
`नस् इत्येतस्य नकारस्य णकारादेशो भवति धातुस्थान्निमित्तादुत्तरस्योरुशब्दात्सुशब्दाच्च छन्दसि विषये । धातुस्थात्तावत्---`अग्नेरक्षा णः(ऋ.7-15-13) । `शिक्षा णो अस्मिन्(ऋ.7-32-26) । ऊरुशब्दात्--`ऊरुणस्कृधि(ऋ.8-75-11) । <K.6.636> षुशब्दात्---`अभीषु णः सखीनाम्(ऋ.4-31-3) । `ऊर्ध्व ऊषु ण ऊतये(ऋ.1-36-13) । अस्मदादेशोऽयं नस्शब्दः, बहुवचनस्य वस्नसौ(8-1-21/405) इति ।।
</8-4-27>
उपसर्गाद् बहुलम् ।। <8-4-28> ।।
उपसर्गस्थान्निमित्तादुत्तरस्य नसो नकारस्य णकारादेशो भवति बहुलम् । प्र णः शूद्रः । प्रणसः, प्र णः राजा । न च भवति --- प्र नः मुञ्चतम्।
बहुलग्रहणाद्भाषायामपि भवति । प्रणसं मुखम् । उपसर्गाच्च इति नासिकाया नसादेशः ।।
</8-4-28>
कृत्यचः ।। <8-4-29> ।।
कृत्स्थो यो नकारोऽच उत्तरस्तस्योपसर्गस्थान्निमित्तादुत्तरस्य णकारादेशो भवति । अन, मान, अनीय, अनि, इनि,
निष्ठादेश---एते णत्वं प्रयोजयन्ति । अन---प्रयाणम्, परियाणम् । प्रमाणम्, परिमाणम् । मान---प्रयायमाणम्, परियायमाणम् । अनीय---प्रयाणीयम्, परियाणीयम्, अनिः---अप्रयाणिः, अपरियाणिः । इनि---प्रयायिणौ, परियायिणौ । निष्ठादेशः---प्रहीणः, परिहीणः; प्रहीणवान्, परिहीणवान् ।
अच इति किम् ? प्रमग्नः, परिभुग्नः । `भुजो कौटिल्ये(धा.पा.1418), अस्य निष्ठाप्रत्ययः ओदितश्च(8-2-45/3019) इति निष्ठानत्वम्, चोः कुः(8-2-30/378) इति कुत्वे सिद्धम्---परिभुग्न इति ।
- कृत्स्थस्य णत्वे निर्विण्णस्योपसंख्यानं कर्त्तव्यम् * (म.भा.3-460)। निर्विण्णोऽस्मि खलसङ्गेन । निर्विण्णोऽहमत्र वासेन ।।
</8-4-29>
णेर्विभाषा ।। <8-4-30> ।।
ण्यन्ताद्यो विहितः कृत्प्रत्ययः तत्स्थस्य नकारस्योपसर्गस्थान्निमित्तादुतरस्य विभाषा णकारादेशो भवति । प्रयापणम्, प्रयापनम् । परियापणम्, परियापनम् । प्रयाप्यमाणम्, प्रयाप्यमानम् । प्रयापणीयम् । प्रयापनीयम् । अप्रयापणिः, अप्रयापनिः । प्रयापिणौ, प्रयापिनौ ।
विहितविशेषणं किम् ? प्रयाप्यमाणमित्यत्र यका व्यवधानेऽपि यथा स्यादिति ।।
</8-4-30>
हलश्चेजुपधात् ।। <8-4-31> ।।
`कृत्यचः इति वर्त्तते । हलादिर्यो धातुरिजुपधस्तस्मात्परो यः कृत्यप्रत्ययः तत्स्थस्य नकारस्याच उत्तरस्योपसर्गस्थान्निमित्तादुत्तरस्य विभाषा णकारादेशो भवति । प्रकोपणम्, प्रकोपनम् । परिकोपणम्, परिकोपनम् ।
हल इति किम् ? प्रेहणम्, प्रोहणम् । इजुपधादिति किम् ? प्रवपणम्, परिवपणम् । `कृत्यचः इति नित्ये प्राप्ते विकल्पः ।
अच इत्येव---परिभुग्नः ।
इजुपधस्य सर्वस्य हलन्तत्वादिह हल्ग्रहणमादिविशेषणम् ।।
</8-4-31>
इजादेः सनुमः ।। <8-4-32> ।।
`हलः इति वर्तते, तेनेह सामर्थ्यात्तदन्तविधिः । इजादेः सनुमो हलन्ताद्धातोर्विहितो यः कृत्, तत्स्थस्य नकारस्योपर्गस्थान्निमित्तादुत्तरस्य णकारो भवति । प्रेङ्खणम् । परेङ्खणम् । प्रेङ्गणम्, परेङ्गणम् । प्रोम्भणम्, परोम्भणम् ।
`सिद्धे सत्यारम्भो नियमार्थः(का.प.62)---इजादेरेव सनुमः, नान्यस्मादिति । प्रमङ्गनम्, परिमङ्गनम् ।
`हल इत्यधिकाराद् ण्यन्ते नित्यं विद्ध्यर्थमेतन्न भवति ।।
</8-4-32>
वा निंसनिक्षनिन्दाम् ।। <8-4-33> ।।
`उपसर्गात् इति वर्त्तते । निंस, निक्ष, निन्द---इत्येतेषां नकारस्योपसर्गस्थान्निमित्तादुत्तरस्य वा णकारादेशो भवति । प्रणिंसनम्, प्रनिंसनम् । प्रणिक्षणम्, प्रनिक्षणम् । प्रणिन्दनम्, प्रनिन्दनम् । णोपदेशत्वादेतेषां नित्ये प्राप्ते विकल्पः ।।
</8-4-33>
न भाभूपूकमिगमिप्यायीवेपाम् ।। <8-4-34> ।।
भा, भू, पू, कमि, गमि, प्यायी, वेप---इत्येतेषामुपसर्गस्थात् निमित्तादुत्तरस्य कृत्स्थस्य नकारस्य णकारादेशो न भवति । भा---प्रभानम्, परिभानम् । भू---प्रभवनम्, परिभवनम् ।
पू---प्रपवनम्, परिपवनम् । पूग्रहणेन पूञ्ग्रहणं द्रष्टव्यम् । पूङो हि भवत्येव णत्वम्---प्रपवणं सोमस्येति ।
कमि---प्रकमनम्, परिकमनम् । गमि---प्रगमनम्, परिगमनम् । प्यायी---प्रप्यायनम्, परिप्यायनम् ।
वेप---प्रवेपनम्, परिवेपनम् ।
- ण्यन्तानां भादीनामुपसंख्यानं कर्तव्यम् *(म.भा.3-462) । प्रभापनम्, परिभापनम् ।।
</8-4-34>
षात् पदान्तात् ।। <8-4-35> ।।
षकारात्पदान्तादुत्तरस्य नकारस्य णकारादेशो न भवति । निष्पानम् । दुष्पानम् । सर्पिष्पानम् । यजुष्पानम् ।
षादिति किम् ? निर्णयः । पदान्तादिति किम् ? कुष्णाति । पुष्णाति ।
पदे अन्तः पदान्तः---इति सप्तमीसमासोऽयम्, तेनेह न भवति---सुसर्पिष्केण, सुयजुष्केण । शेषाद्विभाषा(5-4-154/891) इति कप् ।।
</8-4-35>
नशेः षान्तस्य ।। <8-4-36> ।।
`न इति वर्तते । नशेः षकारान्तस्य णकारादेशो न भवति । प्रनष्टः, परिनष्टः । षान्तस्येति किम् ? प्रणश्यति, परिणश्यति ।
<K.6.644> अन्तग्रहणं षान्तभूतपूर्वमात्रस्यापि यथा स्यात्---प्रनङ्क्ष्यति, परिनङ्क्ष्यति ।।
</8-4-36>
पदान्तस्य ।। <8-4-37> ।।
पदान्तो यो नकारस्तस्य णकारादेशो न भवति । वृक्षान्, प्लक्षान्, अरीन्, गिरीन् ।।
</8-4-37>
पदव्यवायेऽपि ।। <8-4-38> ।।
पदेन व्यवायः पदव्यवायः = पदव्यवधानम् । पदेन व्यवायेऽपि सति निमित्तनिमित्तिनोर्नकारस्य णकारादेशो न भवति । माषकुम्भवापेन । <K.6.645> चतुरङ्गयोगेन । प्रावनद्धम् । पर्यवनद्धम् । प्रगान्नयामः । परिगान्नयामः ।
- पदव्यवायेऽतद्धित इति वक्तव्यम् * । इह मा भूत् --- आर्द्रगोमयेण । शुष्कगोमयेण । गोश्च पुरीषे इति मयट् । स्वादौ पूर्वपदमिति गोशब्दः पूर्वपदम्, तेन व्यवायः ।।
</8-4-38>
क्षुभ्नादिषु च ।। <8-4-39> ।।
`न इति वर्तते । `क्षुभ्ना इत्येवमादिषु शब्देषु नकारस्य णकारादेशो न भवति । क्षुभ्नाति । अजादेशस्य स्थानिवद्भावादिहापि प्रतिषेधो भवति । क्षुभ्नीतः । क्षुभ्नन्ति । <K.6.646> नृनमनः । पूर्वपदात्संज्ञायाम् इति प्राप्तिः । छन्दस्यृदवग्रहात् इति च प्राप्नोति । नन्दिन्, नन्दन, नगर --- एतान्युत्तरपदानि संज्ञायां प्रयोजयन्ति ।
हरिनन्दी । हरिनन्दनः । गिरिनगरम् । नृतिर्यङि प्रयोजयति --- नरीनृत्यते । तृप्नु --- तृप्नोति ।
नर्तन, गहन, नन्दन, निवेश, निवास, अग्नि, अनूप --- एतान्युत्तरपदानि प्रयोजयन्ति । परिनर्तनम्, परिगहनम् इति, संज्ञायाम् --- पूर्वपदात्संज्ञायाम् इति प्राप्नोति । परिनन्दनम् इत्यत्र उपसर्गादसमासेऽपि इति प्राप्नोति । <K.6.647> शरनिवेशः । शरनिवासः । शराग्निः । दर्भानूपः । इत्येताः संज्ञाः । * आचार्यादणत्वं च *। आचार्यभोगीनः । आचार्यानी । * इरिकादिभ्यो वनोत्तरपदेभ्यः संज्ञायाम् * । इरिका, तिमिर, कुबेर, हरि, कर्मार --- इत्युत्तरपदवनशब्दस्थस्य संज्ञायाम् । क्षुभ्नादिराकृतिगणः । अविहितलक्षणो णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः ।।
</8-4-39>
स्तोः श्चुना श्चुः ।। <8-4-40> ।।
सकारतवर्गयोः शकारचवर्गाभ्यां सन्निपाते शकारचवर्गावादेशौ भवतः । स्तोः श्चुनेति यथासंख्यमत्र नेष्यते । सकारस्य शकारेण, चवर्गेण, द्वाभ्यामपि सन्निपाते शकारो भवति । तवर्गस्यापि च शकारेण, चवर्गेण च सन्निपाते
चवर्गो भवति । आदेशे तु यथासंख्यमिष्यते---सकारस्य शकारः , तवर्गस्य च चवर्ग इति ।
सकारस्य शकारेण सन्निपाते---वृक्षश्शेते । प्लक्षश्शेते । तस्यैव चवर्गेण---वृक्षश्चिनोति, प्लक्षश्चिनोति । वृक्षश्छादयति, प्लक्षश्छादयति ।
तवर्गस्य शकारेण---अग्निचिच्छेते, सोमसुच्छेते । तस्यैव चवर्गेण---अग्निचिच्चिनोति, सोमसुच्चिनोति । अग्निचिच्छादयति, सोमसुच्छादयति । अग्निचिज्जयति, सोमसुज्जयति । अग्निचिज्झकारम्, सोमसुज्झकारम् । अग्निचिञ्ञकारः, सोमसुञ्ञकारः । मस्जेः---मज्जति । भ्रस्जेः---भृज्जति व्रश्चेः---वृश्चति । यजः---यज्ञः । याचेः---याच्ञा ।
शात्(8-4-44/112) इति प्रतिषेधो ज्ञापकः---संख्यातानुदेशाभावस्य ।
`स्तोः श्चौ इति सप्तमीनिर्देशो न कृतः; पूर्वेण परेण च श्चुना सन्निपाते श्चुत्वं यथा स्यादिति ।।
</8-4-40>
ष्टुना ष्टुः ।। <8-4-41> ।।
`स्तोः इति वर्त्तते । सकारतवर्गयोः षकारटवर्गाभ्यां सन्निपाते षकारटवर्गावादेशौ भवतः । तत्रापि तथैव संख्यातानुदेशाभावः । षकारेण सकारस्य---वृक्षष्षण्डे । प्लक्षष्षण्डे । तस्यैव टवर्गेण---वृक्षष्टीकते, प्लक्षष्टीकते । वृक्षष्ठकारः, प्लक्षष्ठकारः ।
तवर्गस्य षकारेण---पेष्टा । पेष्टुम् । पेष्टव्यम् । कृषीष्ट । कृषीष्ठाः । तस्यैव टवर्गेण---अग्निचिट्टीकते, सोमसुट्टीकते । अग्निचिट्ठकारः, सोमसुट्ठकारः । अग्निचिड्डीनः, सोमसुड्डीनः । अग्निचिढ् ढौकते, सोमसुढ् ढौकेते । अग्निचिण्णकारः, सोमसुण्णकारः । अत्ट्--अट्टति । अद्ड्---अड्डति ।।
</8-4-41>
न पदान्ताट्टोरनाम् ।। <8-4-42> ।।
पदान्ताट्टवर्गादुत्तरस्य स्तोः ष्टुत्वं न भवति `नाम् इत्येतद्वर्जयित्वा । श्वलिट्साये । मधुलिट् तरति ।
पदान्तादिति किम् ? `ईड स्तुतौ(धा.पा.1020)---ईट्टे । टोरिति किम् ? सर्पिष्टमम् । अनामिति किम् ? षण्णाम् ।
अत्यल्पमिदमुच्यते । * अनाम्नवतिनगरीणामिति वक्तव्यम् * (म.भा.3-463)। षण्णाम् । षण्णवतिः । षण्णवतिः । षण्णगरी ।।
</8-4-42>
तोः षि ।। <8-4-43> ।।
`न इति वर्तते । तवर्गस्य षकारे यदुक्तं तन्न भवति । अग्निचित्षण्डे । भवान्षण्डे । महान्षण्डे ।।
</8-4-43>
शात् ।। <8-4-44> ।।
`तोः इति वर्तते । शकारादुत्तरस्य तवर्गस्य यदुक्तं तन्न भवति । प्रश्नः । विश्नः ।।
</8-4-44>
यरोऽनुनासिकेऽनुनासिको वा ।। <8-4-45> ।।
पदान्तग्रहणमनुवर्तते । यरः पदान्तस्यानुनासिके परतो वाऽनुनासिकादेशो भवति । वाग्नयति, वाङ्नयति । श्वलिण्नयति, श्वलिड् नयति । अग्निचिन्नयति, अग्निचिद् नयति । त्रिष्टुम्नयति, त्रिष्टुब्नयति ।
`पदान्तस्य इत्येव---वेद्मि । क्षुभ्नाति ।
- यरोऽनुनासिके प्रत्यये भाषायां नित्यवचनं कर्तव्यम् * (म.भा.3-464)। वाङ्मयम् । त्वङ्मयम् । व्यवस्थितविभाषाविज्ञानात् सिद्धम् ।।
</8-4-45>
अचो रहाभ्यां द्वे ।। <8-4-46> ।।
`यरः इति वर्तते । अच उत्तरौ यौ रेफहकारौ ताभ्यामुत्तरस्य यरो द्वे भवतः । अर्क्कः । मर्क्कः । ब्रह्म्मा ।
अपह्न्नुते ।
अच इति किम् ? किन् ह्नुते । किम् ह्मलयति ।।
</8-4-46>
अनचि च ।। <8-4-47> ।।
`अचः इति वर्तते, `यरः इति च । अनच्परस्य=अच उत्तरस्य यरो द्वे वा भवतोऽनचि परतः । दद्ध्यत्र । मद्ध्वत्र ।
अच इत्येव--स्मितम् । ध्मातम् ।
- यणो मयो द्वे भवत इति वक्तव्यम् * (म.भा.3-464)। केचिदत्र `यणः इति पञ्चमी, `मयः इति षष्ठीति व्याचक्षते । तेषामुल्क्का, वाल्म्मीक इत्युदाहरणम् । अपरे तु `यणः इति षष्ठी, `मयः इति पञ्चमीति, तेषां दध्य्यत्र, मध्व्वत्रेत्युदाहरणम् ।
- शरः खयो द्वे भवत इति वक्तव्यम् *(म.भा.3-464) । अत्रापि यदि `शरः इति पञ्चमी, `खयः इति षष्ठी; तदा स्त्थाली, स्त्थातेत्युदाहरणम् । अथ वा---खय उत्तरस्य शरो द्वे भवतः । वत्स्सः, इक्ष्षुः, क्ष्षीरम्, अप्स्सराः ।
- अवसाने च यरो द्वे भवत इति वक्तव्यम् * (म.भा.3-464)। वाक्क्, वाक् । त्वक्क्, त्वक् । षट्ट्, षट् । तत्त्, तत् ।।
</8-4-47>
नादिन्याक्रोशे पुत्त्रस्य ।। <8-4-48> ।।
आदिनिपरत आक्रोशे गम्यमाने पुत्त्रशब्दस्य न द्वे भवतः । अनचि च(8-4-47/48) इति प्राप्तिः प्रतिषिध्यते । पुत्रादिनी त्वमसि पापे ।
आक्रोश इति किम् ? तत्त्वकथने द्विर्वचनं भवत्येव---पुत्त्रानत्तीति पुत्त्रादिनी । शिशुमारी व्याघ्री ।
- तत्परे चेति वक्तव्यम् *(म.भा.3-464) । पुत्रपुत्रादिनी त्वमसि पापे ।
- वा हतजग्धपर इति वक्तव्यम् * (म.भा.3-464)। पुत्त्रहती, पुत्रहती । पुत्त्रजग्धी । पुत्रजग्धी ।
- चयो द्वितीयाः शरि पौष्करसादेः * (म.भा.3-465)। चयो द्वितीया भवन्ति शरि परतः पौष्करसादेराचार्यस्य मतेन । तकारस्य थकारः--वथ्सः । ककारस्य खकारः---ख्षीरम् । पकारस्य फकारः---अफ्सराः ।
</8-4-48>
शरोऽचि ।। <8-4-49> ।।
`न इति वर्तते । शरोऽचि परतो न द्वे भवतः । अचो रहाभ्याम्(8-4-46/59) इति प्राप्तिः प्रतिषिध्यते । कर्षति । वर्षति । आकर्षः । अक्षदर्शः ।
अचीति किम् ? दर्श्श्यते ।
</8-4-49>
त्रिप्रभृतिषु शाकटायनस्य ।। <8-4-50> ।।
त्रिप्रभृतिषु वर्णेषु संयुक्तेषु शाकटायनस्याचार्यस्य मतेन द्वित्वं न भवति । इन्द्रः । चन्द्रः । उष्ट्रः । राष्ट्रम् । भ्राष्ट्रम् ।।
</8-4-50>
सर्वत्र शाकल्यस्य ।। <8-4-51> ।।
शाकल्याचार्यस्य मतेन सर्वत्र द्विर्वचनं न भवति । अर्कः । मर्कः । ब्रह्मा । अपह्नते ।।
</8-4-51>
दीर्घादाचार्याणाम् ।। <8-4-52> ।।
दीर्घादुत्तरस्याचार्याणां मतेन न द्वित्वं भवति । दात्रम् । पात्रम् । मूत्रम् । सूत्रम् ।
</8-4-52>
झलां जश्झशि ।। <8-4-53> ।।
झलां स्थाने जशादेशो भवति झशि परतः । लब्धा, लब्धुम्, लब्धव्यम् । दोग्धा, दोग्धुम्, दोग्धव्यम् । बोद्धा, बोद्धुम्, बोद्धव्यम् ।
झशीति किम् ? दत्तः । दत्थः । दध्मः ।।
</8-4-53>
अभ्यासे चर्च ।। <8-4-54> ।।
अभ्यासे वर्त्तमानानां झलां चरादेशो भवति, चकाराज्जश्च । चिखनिषति । चिच्छित्सति । टिठकारयिषति । तिष्ठासति । पिफकारयिषति । बुभूषति । जिघत्सति । डुढौकिषते ।
प्रकृतिचरां प्रकृतिचरो भवन्ति---चिचीषति । टिटीकिषते । तितनिषति ।
प्रकृतिजशां प्रकृतिजशो भवन्ति---जिजनिषते । बुबुधे । ददौ । डिड्ये ।।
</8-4-54>
खरि च ।। <8-4-55> ।।
खरि च परतो झलां चरादेशो भवति । झल्ग्रहणं नानुवर्तते; पूर्वसूत्रे चानुकृष्टत्वात् । भेत्ता, भेत्तुम्, भेत्तव्यम् । युयुत्सते । आरिप्सते । आलिप्सते ।।
</8-4-55>
वावसाने ।। <8-4-56> ।।
`झलाम्, `चर् इति वर्तते । अवसाने वर्तमानानां झलां वा चरादेशो भवति । वाक्, वाग् । त्वक्, त्वग् । श्वलिट्, श्वलिड् । त्रिष्टुप्, त्रिष्टुब् ।।
</8-4-56>
अणोऽप्रगृह्यस्यानुनासिकः ।। <8-4-57> ।।
अणोऽप्रगृह्यसंज्ञस्यावसाने वर्तमानस्य वाऽनुनासिकादेशो भवति । दधिँ, दधि । मधुँ, मधु । कुमारीँ, कुमारी ।
अण इति किम् ? कर्तृ । हर्तृ । अप्रगृह्यस्येति किम् ? अग्नी । वायू ।।
</8-4-57>
अनुस्वारस्य ययि परसवर्णः ।। <8-4-58> ।।
अनुस्वारस्य ययि परतः परसवर्ण आदेशो भवति । शङ्किता, शङ्कितुम्, शङ्कितव्यम् । उञ्छिता, उञ्छितुम्, उञ्छितव्यम् । कुण्डिता, कुण्डितुम्, कुण्डितव्यम् । नन्दिता, नन्दितुम्, नन्दितव्यम् । कम्पिता, कम्पितुम्, कम्पितव्यम् ।
इह कुर्वन्ति, वृषन्ति---इत्यत्र णत्वस्यासिद्धत्वात्पूर्वं नकारस्यानुस्वारः क्रियते, तस्यापि परसवर्णेन पुनर्नकार एव भवति, तस्याप्यसिद्धत्वात् पुनर्णत्वं न भवति । एवमनुस्वारीभूतो णत्वमतिक्रामतीति ।
ययीति किम् ? आक्रंस्यते । आचिक्रंस्यते ।।
</8-4-58>
वा पदान्तस्य ।। <8-4-59> ।।
पदान्तस्यानुस्वारस्य ययि परतो वा परसवर्णादेशो भवति । तङ्कथञ्चित्रपक्षण्डयमानन्नभः स्थ्म्पुरुषोऽवधीत्, तं कथं चित्रपक्षं डयमानं नभः स्थं पुरुषोऽवधीत् ।।
</8-4-59>
तोर्लि ।। <8-4-60> ।।
तवर्गस्य लकारे परतः परसवर्णादेशो भवति । अग्निचिल्लुनाति । सोमसुल्लुनाति । भवाँल्लुनाति । महाँल्लुनाति ।।
</8-4-60>
उदः स्थास्तम्भोः पूर्वस्य ।। <8-4-61> ।।
`सवर्णः इति वर्तते । उद उत्तरयोः स्था, स्तम्भ---इत्येतयोः पूर्वसवर्णादेशो भवति । उत्थाता, उत्थातुम्,
उत्थातव्यम् । स्तम्भेः खल्वपि---उत्तम्भिता, उत्तम्भितुम्, उत्तम्भितव्यम् ।
स्थास्तम्भोरिति किम् ? उत्स्नाता ।
- उत्पूर्वस्य स्कन्देश्छन्दस्युपसंख्यानम् * (म.भा.3-465)। अग्ने दूरमुत्कन्दः ।
- रोगे चेति वक्तव्यम् * (म.भा.3-465)। उत्कन्दको नाम रोगः । कन्दतेर्वा धात्वन्तरस्यैतद्रूपम् ।।
</8-4-61>
झयो होऽन्यतरस्याम् ।। <8-4-62> ।।
झय उत्तरस्य हकारस्य पूर्वसवर्णादेशो भवति अन्यतरस्याम् । वाग्घसति, वाग् हसति । श्वलिड् ढसति, श्वलिड् हसति । अग्निचिद्धसति, अग्निचिद् हसति । सोमसुद्धसति, सोमसुद् हसति । त्रिष्टुब्भसति । त्रिष्टुब् हसति ।
झय इति किम् ? प्राङ् हसति । भवान्हसति ।।
</8-4-62>
शश्छोऽटि ।। <8-4-63> ।।
`झयः इति वर्त्तते, `अन्यतरस्याम् इति च । झय उत्तरस्य शकारस्याटि परतश्छकारादेशो भवति अन्यतरस्याम् । वाक्छेते, वाक् शेते । अग्निचिच्छेते, अग्निचित् शेते । सोमसुच्छेते, सोमसुत् शेते । श्वलिट् छेते, श्वलिट् शेते । त्रिष्टुप्छेते, त्रिष्टुप् शेते ।
- छत्वममीति वक्तव्यम् * (म.भा.3-465)।
किं प्रयोजनम् ? तच्छ्लोकेन, तच्छ्मश्रुणा---इत्येवमर्थम् ।।
</8-4-63>
हलो यमां यमि लोपः ।। <8-4-64> ।।
`अन्यतरस्याम् इति वर्तते । हल उत्तरेषां यमां यमि परतो लोपो भवति अन्यतरस्याम् । शय्य्या इत्यत्र द्वौ यकारौ, क्रमजस्तृतीयः; तत्र मध्यमस्य वा लोपो भवति---शय्या, शय्य्या ।
अदितेरपत्यमादित्य इत्यत्र तकारात्पर एको यकारः, `यणो मय(वा.956) इति क्रमजो द्वितीयः, तत्र मध्यमस्य वा लोपो भवति । आदित्यः, आदित्य्यः । आदित्यो देवता अस्य स्थालीपाकस्येति आदित्य्यः, आदित्य इति । अत्रापि द्वौ यकारौ; क्रमजस्तृतीयः; तत्र मध्यमस्य मध्य मयोर्वा लोपो भवति ।
हल इति किम् ? आन्नम् । यमामिति किम् ? अग्निः । अर्ध्यम् । यमीति किम् ? शार्ङ्गम् ।।
</8-4-64>
झरो झरि सवर्णे ।। <8-4-65> ।।
`हलः इति वर्तते, `अन्यतरस्याम् इति च । हल उत्तरस्य झरो झरि सवर्णे परतो लोपो भवति अन्यतरस्याम् । प्रत्तम्, अवत्त्तमित्यत्र त्रयस्तकाराः, क्रमजश्चतुर्थः; तत्र मध्यमस्य मध्यमयोर्वा लोपो भवति ।
मरुत्त्त इत्यत्र चत्वारस्तकाराः, क्रमजः पञ्चमः; तत्र मध्यमस्य मध्यमयोर्मध्यमानां वा लोपो भवति । मरुच्छब्दस्य हि उपसंख्यानसामर्थ्याद्(वा.67) अच उपसर्गात्तः(7-4-47/3078) इति तत्वं भवति ।
झर इति किम् ? शार्ङ्गम् । झरीति किम् ? प्रियपञ्च्ञा । अल्लोपस्य च `पूर्वत्रासिद्धे न स्थानिवत्(पु.वृ.112) इति स्थानिवद्भावप्रतिषेधादत्र चकारस्य ञकारे लोपः स्यात् ।
सवर्ण इति किम् ? तर्प्ता, तर्प्तुम्, तर्प्तव्यम् । सवर्णग्रहणसामर्थ्यादिह सङ्ख्यातानुदेशो न भवति, सवर्णमात्रे लोपो विज्ञायते । तेन शिण्ढि, पिण्ढि इति ढकारे डकारस्य लोपो भवति ।।
</8-4-65>
उदात्तादनुदात्तस्य स्वरितः ।। <8-4-66> ।।
उदात्तादुत्तरस्यानुदात्तस्य स्वरितादेशो भवति । गार्ग्यः । वात्स्यः । पचति । पठति ।
अस्य स्वरितस्यासिद्धत्वाद् अनुदात्तं पदमेकवर्जम्(6-1-158/3650) इत्येतन्न प्रवर्त्तते । तेनोदात्तस्वरितावुभावपि श्रूयेते ।।
</8-4-66>
नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम् ।। <8-4-67> ।।
उदात्तोदयस्य स्वरितोदयस्य चानुदात्तस्य स्वरितो न भवति । पूर्वेण प्राप्तः प्रतिषिध्यते, अगार्ग्य---काश्यप---गालवानां मतेन । उदात्त उदयो यस्मात्स उदात्तोदयः । उदात्तपर इत्यर्थः । एवं स्वरितोदयः ।
उदात्तोदयस्तावत्---गार्ग्यस्तत्र । वात्स्यस्तत्र । तत्रशब्द आद्युदात्तः, तस्मिन्नुदात्ते परतो गार्ग्यशब्दः स्वरितो न भवति ।
स्वरितोदयः---गार्ग्यः क्व । वात्स्यः क्व । क्वशब्दः स्वरितः, तस्मिन्परतोऽनुदात्तः स्वरितो न भवति ।
अगार्ग्यकाश्यपगालवानामिति किम् ? गार्ग्यस्तत्र । गार्ग्यः क्व । तेषां हि मतेन स्वरितो भवत्येव ।
`उदात्तस्वरितपरस्य इति वक्तव्य उदयग्रहणं मङ्गलार्थम् । अनेकाचार्यसङ्गीर्तनं पूजार्थम् ।।
</8-4-67>
अ अ इति ।। <8-4-68> ।।
एकोऽत्र विवृतः, अपरः संवृतः, तत्र विवृतस्य संवृतः क्रियते । अकारो विवृतः संवृतो भवति । वृक्षः । प्लक्षः ।
इह शास्त्रे कार्यार्थमकारो विवृतः प्रतिज्ञातः, तस्य तथाभूतस्यैव प्रयोगो मा भूदिति संवृतप्रत्यापत्तिरियं क्रियते ।
दीर्घप्लुतयोश्चानेन विवृतेनाकारेण ग्रहणं नेष्यते । तेन तयोः संवृतो न भवति ।
संवृतेन च सर्वगुणस्य मात्रिकस्य ग्रहणमिष्यते । तेन सर्वगुणः प्रत्यापद्यते ।।
इष्ट्युपसंख्यानवती शुद्धगणा विवृतगूढसूत्रार्था ।
व्युत्पन्नरूपसिद्धिर्वृत्तिरियं काशिका नाम ।।
इति श्रीवामनाचार्यकृतायां काशिकावृत्तौ अष्टमाध्यायस्य तुरीयः पादः
</8-4-68>
****** काशिकावृत्तिरियं समाप्ता ******