काशिका/अष्टमोऽध्यायः/द्वितीयः पादः


अथ अष्टमाध्याये द्वितीयः पादः
पूर्वत्रासिद्धम् ।। <8-2-1> ।।
`पूर्वत्रासिद्धम् इत्यधिकारोऽयमा अध्यायपरिसमाप्तेः । यदित ऊर्ध्वमनुक्रमिष्यामः `पूर्वत्रासिद्धम् इत्येवं तद्वेदितव्यम् । तत्र येयं सपादसप्ताध्याय्यनुक्रान्ता एतस्यामयं पादोनोऽध्यायोऽसिद्धो भवति । इत उत्तरं चोत्तर उत्तरो योगः पूर्वत्रपूर्वत्रासिद्धो भवति=असिद्धवद्भवति । सिद्धकार्यं न करोतीत्यर्थः ।
तदेतदसिद्धत्ववचनमादेशलक्षणप्रतिषेधार्थम्, उत्सर्गलक्षणभावार्थं च । अस्मा उद्धर, द्वा अत्र, द्वा आनय, असा आदित्यः---इत्यत्र व्यलोपस्यासिद्धत्वात् आद्‌गुणः(6-1-87/69) इति, अकः सवर्णे दीर्घः(6-1-101/85) इति च न भवति । अमुष्मै, अमुष्मात्, अमुष्मिन्---इति उत्वस्यासिद्धत्वात् स्मायादयो भवन्ति ।
शुष्किका शुष्कजङ्घा च क्षामिमानौजढत्तथा ।
मतोर्वत्वे झलां जश्त्वे गुडलिण्मान्निदर्शनम् ।।
शुष्किकेति---अत्र शुषः कः(8-2-51/3030) इत्यस्यासिद्धत्वाद् उदीचामातः स्थाने यकपूर्वायाः(7-3-46/465) इत्येतन्न भवति ।
शुष्कजङ्घेति---न कोपधायाः(6-3-37/838) इति पुंवद्भावप्रतिषेधो न भवति ।
क्षामिमानिति---क्षामस्यापत्यं क्षामिः, क्षामो वा अस्यास्तीति क्षामी, क्षामिः, क्षामी वा यस्यास्तीति क्षामिमान् । क्षायो मः(8-2-53/3032) इत्यस्यासिद्धत्वात् मादुपधायाश्च(8-2-9/1897) इति वत्वं न भवति ।
औजढदिति--वहेर्निष्ठायामूढस्तमाख्यदिति णिच्, तदन्ताल्लुङ्‌; चङि(6-1-1/2315) इति द्विर्वचने कर्त्तव्ये ढत्वधत्वष्टुत्वढलोपानामसिद्धत्वाण्णौ च यष्टिलोपः, तस्य स्थानिवद्भावाद् ह्‌त इत्येतद् द्विरुच्यते । `अनग्लोपे(7-4-93/2316) इति प्रतिषेधात्सन्वदित्त्वं नास्ति, तेन औजढदिति भवति । औजिढत् इत्येतत्तु क्तिन्नन्तस्य ऊढिशब्दस्य भवति ।
गुडलिण्मानिति---गुडलिहोऽस्य सन्ति इति मतुप्, तत्र ढत्वजश्त्वपोरसिद्धत्वाद्‌ झयः(8-2-10/1898) इति वत्वं न भवति ।
येऽत्र षष्ठीनिर्द्देशाः, सप्तमीनिर्द्देशाः, पञ्चमीनिर्द्देशाश्च; तेषाम् षष्ठीस्थानेयोगा(1-1-49/38), तस्मिन्निति निर्दिष्टे पूर्वस्य(1-1-60/40), तस्मादित्युत्तरस्य(1-1-67/41) इति च कर्तव्ये नासिद्धत्वं भवति; `कार्यकालं हि संज्ञापरिभाषम्(व्या.प.58) इति पूर्वत्वमासां परिभाषाणां नास्तीति । विप्रतिषेधे परम्(1-4-2/175) इत्येषा तु परिभाषा येन पूर्वेण लक्षणेन सह स्पर्द्धते, परं लक्षणं तत्प्रति तस्यासिद्धत्वान्न प्रवर्तते । तथा च विस्फोर्यम्, अवगोर्यमिति गुणः परेण हलि च(8-2-77/354) इति दीर्घत्वेन न बाध्यते । अपवादस्य तु परस्यापि उत्सर्गे कर्तव्ये वचनप्रामाण्यादसिद्धत्वं न भवति । तेन दोग्धा, दोग्धुमित्यत्र घत्वस्यासिद्धत्वाद्‌ हो ढः(8-2-31/324) इति न भवति ।।
</8-2-1>
नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति ।। <8-2-2> ।।
नलोपः पूर्वत्रासिद्धो भवति सुब्विधौ, स्वरविधौ, संज्ञाविधौ, तुग्विधौ च कृति । विधिशब्दोऽयं प्रत्येकमभिसम्बध्यमानः स्वरसंज्ञातुकां विधेयत्वात्तैः कर्मषष्ठीयुक्तैर्भावसाधनोऽभिसम्बध्यते । सुपा तु सम्बन्धसामान्यवचनषष्ठ्यन्तेन कर्मसाधनः । तेन सुपः स्थाने यो विधिः, सुपि च परभूते, सर्वोऽसौ सुब्विधिरिति सर्वत्रासिद्धत्वं भवति ।
सुब्विधौ तावत्---राजभिः, तक्षभिरित्यत्र नलोपस्यासिद्धत्वाद् अतो भिस ऐस्‌(7-1-9/203) इति न भवति । राजभ्याम्, तक्षभ्याम्, राजसु, तक्षस्विति--सुपि च(7-3-102/202) इति, बहुवचने झल्येत्(7-3-103/205) इति दीर्घत्वम्, एत्त्वं च न भवति ।
स्वरविधौ---राजवतीत्यत्र नलोपस्यासिद्धत्वात् अन्तोऽवत्याः(6-1-220/3706) इति न भवति । पञ्चार्मम्, दशार्ममिति---अत्र नलोपस्यासिद्धत्वाद् अर्मे चावर्णं द्व्यच्त्र्‌यच्‌(6-2-90/3824) इति पूर्वपदस्याद्युदात्तत्वं न
भवति । पञ्चदण्डी---इत्यत्र नलोपस्यासिद्धत्वात् इगन्ते द्विगौ(6-2-29/3763) इति पूर्वपदप्रकृतिस्वरो न भवति ।
संज्ञाविधौ---पञ्च ब्राह्मण्यः, दश ब्राह्मण्य इति नलोपस्यासिद्धत्वाद् ष्णान्ता षट्‌(1-1-24/369) इति षट्‌संज्ञा भवति, ततश्च न षट्‌स्वस्रादिभ्यः(4-1-10/308) इति टापः प्रतिषेधो भवति । तदेतत्प्रयोजनं कथं भवति ? यदि `प्रतिकार्यं संज्ञाप्रवृत्तिः इत्येतद्दर्शनम् । या हि जश्शसोर्लुगर्था षट्‌संज्ञा प्रवृत्ता, तया स्त्रीप्रत्ययप्रतिषेधो न क्रियत इति सा पुनः प्रवर्तयितव्येति ।
तुग्विधौ---वृत्रहभ्याम्, वृत्रहभिरिति नलोपस्यासिद्धत्वाद् ह्रस्वस्य पिति कृति तुक्‌(6-1-71/2858) इति तुग्न भवति । अत्र केचित्---`सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य(व्या.प.12) इति तुकं प्रति नलोपस्यानिमित्तत्वाद् बहिरङ्गलक्षणेन वाऽसिद्धत्वात्तुग्विधिग्रहणमनर्थकमिति प्रतिपन्नाः, तत् क्रियते परिभाषाद्वयस्यानित्यत्वं ज्ञापयितुम् ।
कृतीति किम् ? वृत्रहच्छत्त्रम्, वृत्रहच्छाया---छे च(6-1-73/146) इति तुग्भवति । अत्र सिद्धे सत्यारम्भो नियमार्थः---एतेष्वेव नलोपोऽसिद्धो भवति, नान्यत्र । तेन राजीयति, राजायते, राजाश्वः--इति ईत्वम्, दीर्घत्वम्, एकादेशश्च सिद्धो भवति ।।
</8-2-2>
न मु ने ।। <8-2-3> ।।
मुभावो नाभावे कर्तव्ये नासिद्धो भवति । किं तर्हि ? सिद्ध एव । अमुना । मुभावस्यासिद्धत्वात् घिलक्षणो नाभावो न स्यात् । कृते तु नाभावे मुभावस्यासिद्धत्वात् सुपि च(7-3-102/202) इति दीर्घत्वं यत्प्राप्नोति, तत् `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य(व्या.प.12) इति न भवति ।
अथ वा---योगद्वयमिदमुभयार्थं तन्त्रेणोच्चारितम् ।
अथ वा---ने परतो यत्प्राप्नोति तस्मिन्कर्तव्ये मुभावो नासिद्ध इत्येष एवात्र सूत्रार्थः । ने तु कर्तव्ये मुभावस्य यत्सिद्धत्वं तदर्थतः संगृहीतम् । तेनात्र मुभावस्य सिद्धत्वान्नाभावश्च भवति, दीर्घत्वं च न भवति ।

  • एकादेशस्वरोऽन्तरङ्गः सिद्धो वक्तव्यः * । किं प्रयोजनम् ? अयायावेकादेशशतृस्वरैकाननुदात्तसर्वानुदात्तार्थम् । वृक्ष इदम्, प्लक्ष इदम् । अत्र प्रातिपदिकान्तसप्तम्येकवचनयोरुदात्तानुदात्तयोरेकादेशः, स एकादेश उदात्तेनोदात्तः(8-2-5/3658) इत्युदात्तः, तस्य सिद्धत्वं वक्तव्यम् । आन्तर्यतः अयादेश उदात्तो यथा स्यात् ।

आय्‌---कुमार्या इदम् । कथमिदमुदाहरणम् ? यदि उदात्तयणो हल्पूर्वात्(6-1-174/3720) इत्युदात्तत्वे कृते विभक्तेराटश्चैकादेशः, तदा भवतीदमुदाहरणम् । अथ तु कृते तत्रैकादेशे उदात्तयणो हल्पूर्वात्(6-1-174/3720) इति स्वरः ? तदा नैतदस्य प्रयोजनं भवति ।
आव्‌---वृक्षाविदम्, प्लक्षाविदम् ।
एकादेशस्वरः---गाङ्गेऽनूप इति गाङ्गेशब्दे एकारः एकादेश उदात्तेनोदात्तः(8-2-5/3658) इत्युदात्तः, तस्य सिद्धत्वाद्‌ यः पुनः एङः पदान्तादति(6-1-109/86) इति एकादेशः स एकादेश उदात्तेनोदात्तः(8-2-5/3658) इति, अतः स्वरितो वाऽनुदात्ते पदादौ(8-2-6/3659) इत्येतद्भवति ।
शतृस्वरः---तुदती । नुदती । `अदुपदेशात् इति लसार्वधातुकानुदात्तत्वे कृते एकादेशः, तदुदात्तस्य सिद्धत्वात् शतुरनुमो नद्यजादी(6-1-173/3719) `अन्तोदात्तात् इत्येष स्वरो भवति । `अनुमः इति प्रतिषेधो ज्ञापकः---एकादेशस्वरः शतृश्वरे सिद्ध इति । न हि सनुम्कं शत्रन्तं किञ्चिदेकदेशस्वरमन्तरेणान्तोदात्तमस्ति ।
एकाननुदात्तः । तुदन्ति । लिखन्ति । एकादेशस्वरस्य सिद्धत्वाद्‌, तेन अनुदात्तं पदमेकवर्जम्(6-1-158/3650) इति वर्ज्यमानता भवति ।
सर्वानुदात्तः---ब्राह्मणास्तुदन्ति, ब्राह्मणा लिखन्ति । एकादेशस्वरस्य सिद्धत्वात् कृते तस्मिन् तिङ्‌ङतिङः(8-1-27/3935) इति निघातो भवति । `अन्तरङ्गे इति वचनाद्बहिरङ्गस्यासिद्धत्वमेव---पचतीति, प्रपचतीति ।

  • संयोगान्तस्य लोपो रोरुत्वे सिद्धो वक्तव्यः * (म.भा.3-391)।

किं प्रयोजनम् ? `हरिवो मेदिनं त्वा(तै.4-7-14-4) । हरिव इति मतुबन्तमेतत्; तत्र छन्दसीरः(8-2-15/3600) इति वत्वे, संयोगान्तस्य लोपे च कृते मतुवसो रु सम्बुद्धौ छन्दसि(8-3-1/3628) इति रुत्वम्, तस्य संयोगान्तस्य लोपस्यासिद्धत्वाद् हशि च(6-1-114/166) इत्युत्वं न प्राप्नोति ।

  • सिज्लोप एकादेशे सिद्धो वक्तव्यः * (म.भा.3-391)। अलावीत् । अपावीत् । इट ईटि(8-2-28/2266) इति सिज्लोपस्य सवर्णदीर्घत्वं भवति ।
  • निष्ठादेशः षत्वस्वरप्रत्ययविधीड्‌विधिषु सिद्धो वक्तव्यः * (म.भा.3-392)। वृक्णः, वृक्णवान् । निष्ठादेशस्य सिद्धत्वात् झलीति षत्वं न भवति । कुत्वं तु प्रत्यसिद्ध एवेति तद्भवति । स्वरप्रत्ययविधीड्‌विधिषु क्षीबशब्द उदाह्रियते । तत्र च निपातनमनेकधा समाश्रीयते---यदा क्षीबेर्निष्ठायामिटि कृते इत्‌---शब्दलोपो निपात्यते, तदा क्षीब इति संज्ञायामित्‌शब्दलोपस्यासिद्धत्वात् निष्ठा च द्व्यजनात्(6-1-205/3693) इत्येष स्वरो न प्राप्नोति; क्षीबे तरति क्षीबिक इति द्व्यज्लक्षणष्ठन्न प्राप्नोति; यदा तु तकारलोपो निपात्यते, तदा तस्यासिद्धत्वादिडागमः प्राप्नोति ।
  • प्लुतविकारस्तुग्विधौ छे सिद्धो वक्तव्यः * (म.भा.3-393)। अग्ना3 इच्छत्त्रम् । पटा3उच्छत्त्रम् । प्लुतविकारस्यासिद्धत्वात् छे च(6-1-73/146) इति ह्रस्वलक्षणो नित्यस्तुग् न प्राप्नोति ।
  • श्चुत्वं धुटि सिद्धं वक्तव्यम् * (म.भा.3-393)। `श्च्युतिर्‌ क्षरणे(धा.पा.41)---इत्ययं धातुः सकारादिः पठ्यते, तस्य श्चुत्वस्यासिद्धत्वाद् अट्‌श्च्योतति, रट्‌श्च्योतति इति डः सि धुट्‌(8-3-29/131) इति प्राप्नोति । अटतीत्यड्‌, रटतीति रड्‌---क्विबन्तोऽयम् । किमर्थं पुनरयं सकारादिः पठ्यते ? इह मधुश्च्योततीति मधुश्च्युत्‌---क्विबन्तः, मधुश्च्युतमाचष्टे इति णिच्‌---मधुश्च्ययति, मधुश्च्यतेः पुनः क्विपि कृते संयोगादित्वात् सलोपः, संयोगान्तत्वाद् यलोपः, चकारस्य कुत्वम्---मधुगिति सिद्धण् । शकारादौ पुनरेतस्मिन् संयोगान्तलोपेन यकारचकारयोर्लुप्तयोः शकारस्य षत्वे सति मधुडिति स्यात् ।
  • अभ्यासजश्त्वचर्त्वे एत्वतुकोः सिद्धे वक्तव्ये * (म.भा.3-393)। बभणतुः । बभणुः । अभ्यासजश्त्वस्यासिद्धत्वाद् अनादेशादेः इत्येत्त्वं प्राप्नोति । छिदेः---विचिच्छित्सति, उच्छेः---उचिच्छिषतीति अभ्यासादेशस्यासिद्धत्वात् छे च(6-1-73/146) इति तुग्न प्राप्नोति ।
  • द्विर्वचने परसवर्णत्वं सिद्धं वक्तव्यम् * (म.भा.3-393)। सयँय्यन्ता, सवँव्वत्सरः, यलँल्लोकम्, तलँल्लोकमिति परसवर्णस्यासिद्धत्वाद् यरः--(8-4-47/48) इति द्विर्वचनं न स्यात् ।
  • पदाधिकारश्चेल्लत्वघत्वढत्वनत्वरुत्वषत्वणत्वानुनासिकछत्वानि सिद्धानि वक्तव्यानि * (म.भा.3-393)। लत्वम्---गलो गलः । गरो गरः । घत्वम्‌---द्रोग्धा, द्रोग्धा । ढत्वम्---द्रोढा, द्रोढा । नत्वम्---नुन्नः, नुन्नः । रुत्वम्--अभिनोऽभिनः । अभिनदभिनत् । षत्वम्---मातुष्ष्वसा, मातुः स्वसा । पितुष्ष्वसा, पितुः स्वसा । णत्वम्--माषवापाणि, माषवापानि । अनुनासिक---वाङ्‌नयनम्, वाग्नयनम् । छत्वम्---वाक्छयनम्, वाक्शयनम् । लत्वादीनां विकल्पितानामसिद्धत्वात् कृते द्विर्वचने सत्युपरिष्टाद्विकल्पे सति गरो गलः, गलो गरः---इत्येवं रूपमपि द्विरुक्तं स्यात् । तदेतत्सर्वम् `न मु ने इति योगविभागेन साध्यते । `न इत्येतावदनिष्टे विषये पूर्वत्रासिद्धस्य प्रतिषेधार्थम् । ततः `मु नेइति, `न इत्येतदनुवर्तते ।।

</8-2-3>
उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ।। <8-2-4> ।।
उदात्तयणः स्वरितयणश्च परस्यानुदात्तस्य स्वरित आदेशो भवति । उदात्तयणः---कुमार्यौ, कुमार्यः । उदात्तनिवृत्तिस्वरेणायमीकार उदात्तः, तस्य स्थाने यणादेशः स उदात्तयण्, तस्मात् परस्यानुदात्तस्य स्वरित आदेशो भवति । स्वरितयणः---सकृल्ल्व्याशा । खलप्व्याशा । सकृल्लूः, खलपूः---इति कृत्स्वरेणान्तोदात्तौ, तयोः रोः सुपि(8-3-16/339) इति यणादेशः स उदात्तयण्, ततः परस्य सप्तम्येकवचनस्य स्वरितत्वम्, तस्य यणादेशः स्वरितयण्‌, तस्मात्स्वरितयणः परस्य आशा--शब्दाकारस्यानुदात्तस्य स्वरितो भवति ।
ननु च सप्तम्येकवचनस्य यदुदात्तयण इति स्वरितत्वम्, तदसिद्धं यणादेशे, तत्कथमयं स्वरितयण्‌ भवति ?
आश्रयात् सिद्धत्वं भविष्यति ।
यद्येवम्, उदात्तादनुदात्तस्य स्वरितः(8-4-66/3660) इति एतस्याप्याश्रयात्सिद्धत्वं प्राप्नोति, ततश्च दध्याशेत्यत्रापि स्वरितः स्यात् ? तस्मादयमेव यण्स्वरो यणादेशे सिद्धो वक्तव्यः ।।
केचित्तु ब्रुवते---उदात्तात्स्वरितयणोऽपि परस्यानुदात्तस्य स्वरितत्वं दृश्यते । तथा च तैत्तिरीयके शाखान्तरे पठ्यते---`यास्ते विश्वाः समिधः सन्त्यग्ने(तै.3-5-5-3) इति । `अग्ने इत्ययमकारः स्वरितः पठ्यते । तथा ब्राह्मणेऽपि--`दध्याशयति(तै.ब्रा.1-7-6-5) इत्याकारः स्वरितः पठ्यते इति ।
यथा तु वार्त्तिकं भाष्यं च, तथा उदात्तात्स्वरितयणः परस्यानुदात्तस्यानेन स्वरितत्वं न भवतीति स्थितम् । तथा च भाष्ये स्वरितयण्ग्रहणमिदं प्रत्याख्यायते; सकृल्ल्व्याशेत्येवमादावुदात्तयण इत्येवस्वरितस्य सिद्धत्वात् । स्वरितयण्व्यवधानमव्यवधानमेव, `स्वरविधौ व्यञ्जनमविद्यमानवत्(व्या.प.37) इति ।
तत्तु क्रियते---पूर्वस्मादपि विधौ स्थानिवद्भावाद् व्यवधानमस्ति, स्वरदीर्घयलोपेषु च लोपाजादेशस्य स्थानिवद्भावः प्रतिषिध्यते इति ।
उदात्तस्वरितयोरिति किम् ? बैदी आशा बैद्याशा । शार्ङ्गरव्याशा । अनुदात्तयणादेशोऽयम् । अनुदात्तस्येति किम् ? कुमार्यत्र । किशोर्यत्र । अत्रेत्ययमाद्युदात्तो लित्स्वरेण ।।
</8-2-4>
एकादेश उदात्तेनोदात्तः ।। <8-2-5> ।।
उदात्तेन सहानुदात्तस्य य एकादेशः स उदात्तो भवति । `अनुदात्तस्य इति वर्तते । अग्नी । वायू । वृक्षैः । प्लक्षैः ।
उदात्तेनेति किम् ? पचन्ति । यजन्ति । लसार्वधातुकानुदात्तत्वे कृते द्वयोरनुदात्तयोरयमेकादेशः; पररूपे कर्तव्ये स्वरितस्यासिद्धत्वात् ।।
</8-2-5>
स्वरितो वाऽनुदात्ते पदातौ ।। <8-2-6> ।।
अनुदात्ते पदादौ उदात्तेन सह य एकादेशः स स्वरितो वा भवत्युदात्तो वा । सु + उत्थितः=सूत्थितः । वि + ईक्षते=वीक्षते । वसुकः + असि =वसुकोऽसि ।
सूत्थित इति---सुशब्दः सुः पूजायाम्(1-4-94/555) इति कर्मप्रवचनीयः, तस्य प्रादित्वात्समासे सति अव्ययपूर्वपदप्रकृतिस्वरत्वेनाद्युदात्तः, शेषमनुदात्तमिति चानुदात्ते पदादावेकादेशो भवति ।
वीक्षते, वसुकोऽसीति---अत्रापि तिङ्‌ङतिङः(8-1-27/3935) इति निघाते कृतेऽनुदात्ते पदादावेकादेशः ।
स्वरितग्रहणं विस्पष्टार्थम् । उदात्ते हि विकल्पिते तस्मिन्नसत्यान्तर्यत एव स्वरितो भविष्यतीति ।
अनुदात्त इति किम् ? देवदत्तोऽत्र । पदादाविति किम् ? वृक्षौ । वृक्षाः ।।
</8-2-6>
नलोपः प्रातिपदिकान्तस्य ।। <8-2-7> ।।
`पदस्य इति वर्तते । प्रातिपदिकस्य पदस्य योऽन्त्यो नकारस्तस्य लोपो भवति । राजा । राजभ्याम् । राजभिः । राजता । राजतरः । राजतमः ।
प्रातिपदिकग्रहणं किम् ? अहन्नहिम् । अन्तग्रहणं किम् ? राजा, राजानौ, राजनः । प्रातिपदिकग्रहणमसमस्तमेव सुपां सुलुक्(7-1-39/3521) इति षष्ठ्या लुका निर्दिष्टम् ।

  • अह्नो नलोपप्रतिषेधो वक्तव्यः * (म.भा.3-394)। अहः । अहोभ्याम् । अहोभिः ।

रोऽसुपि(8-2-69/172), अहन्‌(8-2-68/443)---इति रेफरुत्वयोरसिद्धत्वाद् नलोपः प्राप्नोति, सावकाशं तदुभयं सम्बुद्धौ---हेऽहः, हे दीर्घाहो निदाघेति ? तत्र समाधिमाहुः---अहन्निति रुविधौ यदुपादीयते प्रथमैकवचनान्तमकृतलोपं तदावर्त्यते, तत्रैकयाऽऽवृत्त्या तदेव रूपं नलोपाभावार्थमन्वाख्यायते, द्वितीययापि तस्य रुर्विधीयते ।।
</8-2-7>
न ङिसम्बुद्ध्योः ।। <8-2-8> ।।
ङौ परतः सम्बुद्धौ च नकारलोपो न भवति । `आर्द्रे चर्मन्(तै.7-5-93) । लोहिते चर्मन् । सुपां सुलुक्(7-1-39/3561) इति ङेर्लुक् । सम्बुद्धौ---हे राजन् । हे तक्षन्‌ ।
एतस्मादेव नलोपप्रतिषेधवचनाद्‌ `अप्रत्ययः इति प्रत्ययलक्षणेन प्रातिपदिकसंज्ञा न प्रतिषिध्यते---इति ज्ञाप्यते; भसंज्ञा च न भवतीति । तथा च---राज्ञः पुरुषो राजपुरुष इत्यत्र नलोपश्च भवति, अल्लोपश्च न भवति ।

  • ङावुत्तरपदे प्रतिषेधस्य प्रतिषेधो वक्तव्यः * (म.भा.3-394)। चर्मणि तिला अस्य चर्मतिलः, हे राजवृन्दारक---इत्यत्र समुदायार्थसम्बोधनम्, न पूर्वपदार्थसम्बोधनं प्रतीयत इति सम्बुद्ध्यन्तं पूर्वपदं नैव समस्यते ।
  • वा नपुंसकानामिति वक्तव्यम् * (म.भा.3-395)। हे चर्मन्, हे चर्म ।।

</8-2-8>
मादुपधायाश्च मतोर्वोऽयवादिभ्यः ।। <8-2-9> ।।
मतोरिह कार्यित्वेनोपादानात् सामर्थ्यलब्धं प्रातिपदिकं तत् `मात् इति मकारावर्णाभ्यां विशिष्यते । मकारावर्णविशिष्टया चोपधया---इत्ययमर्थो भवति । मकारान्ताद्‌ मकारोपधादवर्णान्तादवर्णोपधाच्चोत्तरस्य मतोः `व इत्ययमादेशो भवति, यवादिभ्यस्तु परतो न भवति । मकारान्तात्---किंवान् । शंवान् । मकारोपधात्---शमीवान् । दाडिमीवान् । अवर्णान्तात्---वृक्षवान् । प्लक्षवान् । खट्‌वावान् । मालावान् । अवर्णोपधात्‌---पयस्वान् । यशस्वान् । भास्वान् ।
मादुपधायाश्चेति किम् ? अग्निमान् । वायुमान् । अयवादिभ्य इति किम् ? यवमान् । दल्मिमान् । ऊर्मिमान् ।
यव, दल्मि, उर्मि, भूमि, कृमि, क्रुञ्चा, वशा, द्राक्षा---एतेषाम् `मादुपधायाश्च इति प्राप्नोति । ध्रजि, ध्वजि, सञ्जि---इत्येतेषाम् छन्दसीरः(8-2-15/3600) इति । हरित, ककुत्, गरुत्‌---इत्येतेषाम् झयः(8-2-10/1898) इति । इक्षु, मधु, द्रुम, मण्ड, धूम---इत्येतेषाम् संज्ञायाम्(8-2-11/1899) इति । आकृतिगणश्च यवादिः ।
अकृतवत्वो मतुब्‌ यवादिषु द्रष्टव्यः । यस्य सति निमित्ते मतुपो वत्वं न दृश्यते स यवादिषु द्रष्टव्यः ।
इह नृमत इदं नार्मतमिति बहिरङ्गलक्षणत्वादवर्णोपधस्य मतुपो वत्वं न भवति ।।
</8-2-9>
झयः ।। <8-2-10> ।।
झयन्तादुत्तरस्य मतोः `व इत्ययमादेशो भवति । अग्निचित्वान् ग्रामः । उदश्वित्वान्घोषः । विद्युत्त्वान्बलाहकः । `इन्द्रो मरुत्वान्(आ.श्रौ.8-16-1) । दृषद्वान् देशः ।।
</8-2-10>
संज्ञायाम् ।। <8-2-11> ।।
संज्ञायां विषये मतोः `व इत्ययमादेशो भवति । अहीवती । कपीवती । ऋषीवती । मुनीवती ।।
</8-2-11>
आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती ।। <8-2-12> ।।
आसन्दीवद्, अष्ठीवत्, चक्रीवत्, कक्षीवद्, रुमण्वत्, चर्मण्वती---इत्येतानि संज्ञायां निपात्यन्ते । वत्वं पूर्वेणैव सिद्धम्, आदेशार्थानि निपातनानि ।
आसन्दीवदिति---आसनशब्दस्यासन्दीभावो निपात्यते । आसन्दीवान् ग्रामः । आसन्दीवदहिस्थलम् । आसनवानित्येवान्यत्र ।
अपरे त्वाहुः---आसन्दीशब्दोऽपि प्रकृत्यन्तरमेवास्ति । तथा चोक्तम्---औदुम्बरी राजासन्दी भवतीति, तस्य संज्ञायाम्(8-2-11/1899) इति वत्वेन सिद्धम्, आसन्दीवदित्येतत्प्रपञ्चार्थमिह पठ्यते ।
अष्ठीवदिति---अस्थ्नोऽष्ठीभावः । अष्ठीवानिति शरीरैकदेशसंज्ञा । अस्थिमानित्येवान्यत्र ।
चक्रीवदिति---चक्रशब्दस्य चक्रीभावो निपात्यते । चक्रीवान् राजा । चक्रवानित्येवान्यत्र । चक्रीवन्ति
सदोहविर्धानानि भवन्ति---इत्येतत्तु छान्दसत्वाद् अनुगन्तव्यम् ।
कक्षीवदिति---कक्ष्यायाः सम्प्रसारणं निपात्यते । कक्षीवान्नाम ऋषिः । कक्ष्यावानित्येवान्यत्र ।
रुमण्वदिति---लवणशब्दस्य रुमण्भावो निपात्यते । लवणवानित्येवान्यत्र ।
अपरे त्वाहुः---रुमन्निति प्रकृत्यन्तरमस्ति, तस्यैतन्निपातनं नलोपाभावार्थम्, णत्वार्थं च । मतोर्वा नुडर्थमिति ।
चर्मण्वतीति---चर्मणो नलोपाभावः, णत्वं च निपात्यते । मतोर्वा नुडागमः । चर्मण्वती नाम नदी । चर्मवतीत्येवान्यत्र ।।
</8-2-12>
उदन्वानुदधौ च ।। <8-2-13> ।।
`उदन्वान् इत्युदकशब्दस्य मतावुदन्भावो निपात्यते उदधावर्थे, संज्ञायां च विषये । उदन्वान्नाम ऋषिः, यस्यौदन्वतः पुत्रः । उदधौ---उदन्वात् । यस्मिन्नुदकं धीयते स एवमुच्यते ।
उदधाविति किम् ? उदकवान् घट इत्यत्र तु दधात्यर्थो न विवक्ष्यते, किं तर्हि ? उदकसत्तासम्बन्धसामान्यम् ।।
</8-2-13>
राजन्वान्सौराज्ये ।। <8-2-14> ।।
`राजन्वान् इति निपात्यते सौराज्ये गम्यमाने । शोभनो राजा यस्मिन्निति स राजन्वान् देशः । राजन्वती पृथ्वी । राजवानित्येवान्यत्र ।।
</8-2-14>
छन्दसीरः ।। <8-2-15> ।।
छन्दसि विषये इवर्णान्ताद्रेफान्ताच्चोत्तरस्य मतोर्वत्वं भवति । इवर्णान्तात्तावत्--`त्रिवती याज्यानुवाक्या भवति(काठ.11-1) । `हरिवो मेदिनं त्वा(तै.सं.4-7-14-4) । अधिपतिवती जुहोति । चरुरग्निवानिव । आरेवानेतु मा विशत् । `रयेर्मतौ इति सम्प्रसारणम् । `सरस्वतीवान् भारतीवान्(मै.3-10-6) । दधीवाँश्चरुः ।
`छन्दसि सर्वे विधयो विकल्प्यन्ते(पु.प.35) इतीह न भवति---सप्तर्षिमन्तम्, ऋषिमान्, ऋतीमान्, सूर्यं ते द्यावापृथिवीमन्तमिति ।
रेफान्तात्---गीर्वान् । धूर्वान् । आशीर्वान् ।।
</8-2-15>
अनो नुट्‌ ।। <8-2-16> ।।
`छन्दसि इति वर्तते । अनन्तादुत्तरस्य मतोर्नुडागमो भवति छन्दसि विषये । `अक्षण्वन्तः कर्णवन्तः सखायः(ऋ.10-71-7) । `अस्थन्वन्तं यदनस्था बिभर्त्ति(ऋ.1-164-4) । अक्षण्वता लाङ्गलेन । `शीर्षण्वती(अ.वे.10-1-2) । `मूर्धन्वती(तै.2-6-2-2) । नुटोऽसिद्धत्वात्तस्य च वत्वं न भवति, ततः परस्य च भवति ।।
</8-2-16>
नाद्‌ घस्य ।। <8-2-17> ।।
नकारान्तादुत्तरस्य घसंज्ञकस्य नुडागमो भवति छन्दसि विषये । सुपथिन्तरः । दस्युहन्तमः ।

  • भूरिदाव्नस्तुड्‌ वक्तव्यः * (म.भा.3-398)। `भूरिदावत्तरः(ऋ.8-5-39) ।
  • ईद्रथिनः * (म.भा.3-398)। रथिन ईकारान्तादेशो घ परतः । `रथीतरः(ऋ.1-84-5) । रथशब्दादेव वा मत्वर्थीयोऽयमीकारः `छन्दसीवनिपौ इति ।।

</8-2-17>
कृपो रो लः ।। <8-2-18> ।।
कृपेर्धातो रेफस्य लकारादेशो भवति । `रः इति श्रुतिसामान्यमुपादीयते । तेन यः केवलो रेफो यश्च ऋकारः, तयोर्द्वयोरपि ग्रहणम् । `लः इत्यपि सामान्यमेव; ततोऽयं केवलस्य रेफस्य स्थाने लकारादेशो विधीयते ।
ऋकारस्याप्येकदेशविकारद्वारेण लृकारः । एवं च लुटि च क्लृपः(1-3-93/2351) इत्येवमादयो निर्देशा
उपपद्यन्ते । कल्प्ता, कल्प्तारौ, कल्प्तारः । क्लृप्तः । क्लृप्तवान् ।
कृपा इत्येतत् `क्रपेः सम्प्रसारणं च(ग.सू.36) इति भिदादिषु पाठाद्भवति, तस्य हि कृतसम्प्रसारणस्य लाक्षणिकत्वात् इह कृप इति ग्रहणं नास्ति ।
कृपणकृपीटकर्पूरादयोऽपि क्रपेरेव द्रष्टव्याः । उणादयो बहुलम्(3-3-1/3169) इति वा कृपेरेव लत्वाभावः ।

  • वालमूलघ्वसुरालमङ्‌गुलीनां वा रो लमापद्यत इति वक्तव्यम् * (म.भा.3-398)। बालः, बारः । मूलम्, मूरम् । लघु, रघु । असुरः, असुलः । अलम्, अरम् । अङ्‌गुलिः, अङ्‌गुरिः ।
  • कपिलकादीनां संज्ञाछन्दसोर्वा रो लमापद्यत इति वक्तव्यम् *(म.भा.3-398) । कपिरकः, कपिलकः । तिल्पिलीकम्, तिर्पिरीकम् । लोमानि, रोमाणि । पांशुरम्, पांशुलम् । कर्म, कल्म । शुक्रः, शुक्लः ।

रलयोरेकत्वस्मरणमिति केचित् । किमिदमेकत्वस्मरणमिति ? समानविषयत्वमेव तयोः स्मर्यत इत्यर्थः ।।
</8-2-18>
उपसर्गस्यायतौ ।। <8-2-19> ।।
अयतौ परत उपसर्गस्य यो रेफस्तस्य लकार आदेशो भवति । प्लायते । पलायते । अत्र योऽयमेकादेशः, तस्य स्थानिवद्भावादयतेः, उपसर्गस्य च विभागे सति यद्ययतिग्रहणं रेफस्य विशेषणम्, तदा `येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्(व्या.प.46) इति एकेन वर्णेन व्यवधानेऽपि सति लत्वं भवति । तथा च पल्ययते इत्यत्रापि भवति ।
उपसर्गविशेषणे त्वयतिग्रहणे सिद्धमेवैतत्सर्वं प्रतेरपि तु व्यवहितेऽपि प्राप्नोति । तत्र केषाञ्चिद्दर्शनं भवितव्यमेव प्लत्ययत इति ।
प्रथमपक्षदर्शनाभिनिविष्टास्तु प्रत्ययत इत्येव भवतीति मन्यन्ते । अपरे तु प्रतिशब्दोपसृष्टस्यायतेः प्रयोगमेव नेच्छन्ति ।
निस्‌, दुस्‌---इत्येतयोस्तु रुत्वस्यासिद्धत्वाल्लत्वेन नैव भवितव्यम् । निरयणम् । दुरयणम् ।।
</8-2-19>
ग्रो यङि ।। <8-2-20> ।।
`गॄ इत्येतस्य धातो रेफस्य लकार आदेशो भवति यङि परतः । निजेगिल्यते, निजेगिल्येते, निजेगिल्यन्ते ।
भावगर्हायां ग्रो यङ्‌विहितः । केचित्--`ग्रः इति गिरेतेर्गृणातेश्च सामान्येन ग्रहणमिच्छन्ति । अपरे तु---गिरतेरेव न गृणातेः । गृणातेर्हि यङेव नास्ति; अनभिधानादिति ।
यङीति किम् ? निगीर्यते ।।
</8-2-20>
अचि विभाषा ।। <8-2-21> ।।
अजादौ प्रत्यये परतो ग्रो रेफस्य विभाषा लकारादेशो भवति । निगिरति, निगिलति । निगरणम्, निगलनम् । निगारकः, निगालकः ।
इयं तु व्यवस्थितविभाषा । तेन `गल इति प्राण्यङ्गे नित्यं लत्वं भवति; `गर इति विषे नित्यं न भवति । निगार्यते, निगाल्यत इति । णिलोपस्य स्थानिवद्भावाद् अचि विभाषा इति लत्वविकल्पः ।
`पूर्वत्रासिद्धे न स्थानिवत्(पु.वृ.112) इति एतदपि सापवादमेव; `तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति । अन्तरङ्गत्वाद्वा कृते लत्वविकल्पे णिलोपो भविष्यति । गिरौ, गिर इत्यत्र `धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् इति लत्वं न भवति । गिरतिर्वा लत्वविधावधिकृतः; गृणातेरेतद्रूपम् ।।
</8-2-21>
परेश्च घाङ्कयोः ।। <8-2-22> ।।
परि इत्येतस्य यो रेफस्तस्य घशब्देऽङ्कशब्दे च परतो विभाषा लकार आदेशो भवति । परिघः, पलिघः । पर्यङ्कः। पल्यङ्कः ।
घ इति स्वरूपग्रहणमत्रेष्यते, न तरप्तमपौ इति ।

  • योगे चेति वक्तव्यम् * (म.भा.3-400)। परियोगः, पलियोगः ।।

</8-2-22>
संयोगान्तस्य लोपः ।। <8-2-23> ।।
संयोगान्तस्य पदस्य लोपो भवति । गोमान् । यवमान् । कृतवान् । हृतवान् ।
इह श्रेयान्, भूयान्---इति रुत्वं परमप्यसिद्धत्वात् संयोगान्तस्य लोपं न बाधते ।
जश्त्वे तु नाप्राप्ते तदारभ्यत इति तस्य बाधकं भवति---यशः, पय इति ।
दध्यत्र, मध्वत्र---इत्यत्र तु यणादेशस्य बहिरङ्गलक्षणस्यासिद्धत्वात् संयोगान्तलोपो न भवति ।।
</8-2-23>
रात्सस्य ।। <8-2-24> ।।
संयोगान्तपदस्य यो रेफस्तस्मादुत्तरस्यान्तस्य सकारस्य लोपो भवति । गोभिरक्षाः । `प्रत्यञ्चमत्साः(ऋ.10-28-4) । क्षरतेः, त्सरतेश्च लुङि सिचश्छान्दसत्वादीडभावः; बहुलं छन्दसि(7-3-97/3586) इति वचनात् । दीर्घे सति रूपमेतत् ।
मातुः, पितुरिति--ऋत उत्‌(6-1-111/279) इति उत्त्वे कृते रपरत्वे च सति `रात्सस्य इति सलोपः ।
सिद्धे सत्यारम्भो नियमार्थः---रात्सस्यैव लोपो भवति, नान्यस्येति । ऊर्जेः---क्विप्, ऊर्क्‌ । मृजेर्लङि---अमार्ट्‌ ।।
</8-2-24>
धि च ।। <8-2-25> ।।
धकारादौ प्रत्यये परतः सकारस्य लोपो भवति । अलविध्वम्, अलविढ्‌वम् । अपविध्वम्, अपविढ्‌वम् । यद्यत्र सकारलोपो न स्यात्, सिचः षत्वे जश्त्वे च `विभाषेटः इति मूर्द्धन्याभावपक्षेऽपि न धकारः श्रूयेत ।
इतः प्रभृति सिचः सकारस्य लोप इष्यते । इह न भवति---चकाद्धि पलितं शिर इति । तथा पयो धावतीत्येवमादावपि न भवति । `सग्धिः(वा.सं.19-9), `बभ्धाम्(नि.5-12)इति छान्दसो वर्णलोपः ।
भाष्यकारस्त्वाह---चकाधीत्येव भवितव्यमिति । तेन पयो धावतीत्येवमादौ यत्नान्तरमास्थेयम् ।
`धि सकारे सिचो लोपश्चकाद्धीति प्रयोजनम् ।
आशाध्वं तु कथं जश्त्वं सकारस्य भविष्यति ।।
सर्वमेवं प्रसिद्धं स्याच्छ्रुतिश्चापि न भिद्यते ।
लुङश्चापि न मूर्धन्ये ग्रहणं सेटि दुष्यति ।।
घसिभसोर्न सिध्येत तस्मात्सिज्ग्रहणं न तत् ।
छान्दसो वर्णलोपो वा यथेष्कर्त्तारमध्वरे ।।(म.भा.3-403)
`निष्कर्त्तारमध्वरस्य(तै.4-2-7-3)इत्येवं प्राप्ते ।।
</8-2-25>
झलो झलि ।। <8-2-26> ।।
झल उत्तरस्य सकारस्य झलि परतो लोपो भवति । अभित्त, अभित्थाः । अच्छित्त । अच्छित्थाः ।
अवात्ताम्, अवात्त---इत्यत्र वा सिचः सकारलोपस्यासिद्धत्वात् सस्यार्धधातुके(7-4-49/2342) इति सकारस्य तकारः ।
झल इति किम् ? अमंस्त । अमंस्थाः । झलीति किम् ? अभित्साताम् । अभित्सत ।
अयमपि सिच एव लोपः, तेनेह न भवति---सोमसुत्‌ स्तोता । दृषत्स्थानमिति ।।
</8-2-26>
ह्रस्वादङ्गात् ।। <8-2-27> ।।
ह्रस्वान्तादङ्गादुत्तरस्य लोपो भवति झलि परतः । अकृत, अकृथाः । अहृत, अहृथाः ।
ह्रस्वादिति किम् ? अच्योष्ट । अप्लोष्ट । अङ्गादिति किम् ? अलाविष्टाम् । अलाविषुः ।
`झलि इत्येव---अकृषाताम् । अकृषत ।
अयमपि सिच एव लोपः, तेनेह न भवति---द्विष्टराम्, द्विष्टमामिति । सुजन्ताद् द्विशब्दात्तरप्तमपौ, अद्रव्यप्रकर्षे आतिशयिकः आम् प्रत्ययः ।।
</8-2-27>
इट ईटि ।। <8-2-28> ।।
इट उत्तरस्य सकारस्य लोपो भवति ईटि परतः । अदेवीत् । असेवीत् । अकोषीत् । अमोषीत् ।
इट इति किम् ? अकार्षीत् । अहार्षीत् । ईटीति किम् ? अलाविष्टाम् । अलाविषुः ।।
</8-2-28>
स्कोः संयोगाद्योरन्ते च ।। <8-2-29> ।।
पदस्यान्ते यः संयोगः झलि परतो वा संयोगः, तदाद्योः सकारककारयोर्लोपो भवति । लस्जेः---लग्नः, लग्नवान् । साधुलक् । मस्जेः---मग्नः ।
ककारस्य, तक्षः---तट्‌ । तष्टः, तष्टवान् । काष्ठतट्‌ ।

  • झलि सङीति वक्तव्यम् * । किमिदं सङीति ? सनः सप्रभृति महिङो ङकारेण प्रत्याहारः । इह मा भूत्‌--काष्ठशक्स्थातेति । थकारे झलि ककारस्य संयोगादेर्लोपः प्राप्नोति । तदत्र शकेः क्विबन्तस्य प्रयोग एव नास्तीत्याह---`काष्ठशगेव नास्ति, कुतोऽयं काष्ठशकि तिष्ठेत् इति !

वास्यर्थम्, काक्वर्थम्---इत्यत्रापि बहिरङ्गलक्षणस्य यणादेशस्यासिद्धत्वात् संयोगादिलोपो न भवति ।
स्कोरिति किम् ? नर्नर्ति । वर्वर्ति । संयोगाद्योरिति किम् ? पयः शक् ।
</8-2-29>
चोः कुः ।। <8-2-30> ।।
चवर्गस्य कवर्गादेशो भवति झलि च परतः, पदान्ते च । पक्ता, पक्तुम्, पक्तव्यम्, ओदनपक् । वक्ता, वक्तुम्, वक्तव्यम्, वाक् ।
क्रुञ्चेत्यत्र सङीति वचनाद् ञकारस्य चकारे झलि कुत्वं न भवति, ---युजिक्रुञ्चां च(3-2-59/373) इति निपातनाद्वा ।
नकारोपधो वा धातुरयं रेफरहितश्च `क्रुञ्च कौटिल्याप्लीभावयोः(धा.पा.186) इति पठ्यते । नकारलोपे हि निकुचित इति दृश्यते । `युजिक्रुञ्चां च इति तस्यैव रेफोऽधिकः, नकारस्य लोपाभावश्चेति निपात्यते । तत्रानुस्वारस्य, परसवर्णस्य चासिद्धत्वात् ञकार एव नास्तीति कुत्वं न भविष्यति ।।
</8-2-30>
हो ढः ।। <8-2-31> ।।
हकारस्य ढकारादेशो भवति झलि परतः, पदान्ते च । सोढा, सोढुम्, सोढव्यम् । जलाषाट्‌ । वोढा, वोढुम्, वोढव्यम् । प्रष्ठवाट्‌ । दित्यवाट्‌ ।।
</8-2-31>
दादेर्धातोर्घः ।। <8-2-32> ।।
दकारादेर्धातोर्हकारस्य धकारादेशो भवति झलि परतः, पदान्ते च । दग्धा, दग्धुम्, दग्धव्यम् । काष्ठधक्‌ । दोग्धा, दोग्धुम्, दोग्धव्यम् । काष्ठधक् ।
दादेरिति किम् ? लेढा, लेढुम्, लेढव्यम् । गुडलिट् ।
`धातोः इति दादिसामानाधिकरणमेतन्न, किं तर्हि ? तद्विशेषणमवयवषष्ठ्यन्तम्---धातोरवयवो यो दादिः शब्दस्तदवयवस्य हकारस्येति । किं कृतं भवति ? अधोगित्यत्रापि घकारः सिद्धो भवति ।
कथं दोग्धा, दोग्धुमिति ? व्यपदेशिवद्भावात् ।
अथ वा---धातूपदेशे यो दादिरित्येवं विज्ञायते । तथा च---दामलिहमिच्छति दामलिह्यति, दामलिह्यतेः क्विप्प्रत्ययः, दामलिडित्यत्रापि न भवति ।।
</8-2-32>
वा द्रुहमुहष्णुहष्णिहाम् ।। <8-2-33> ।।
द्रुह, मुह, ष्णुह, ष्णिह--इत्येतेषां धातूनां हकारस्य वा घकारादेशो भवति झलि परतः, पदान्ते च । द्रुह्‌--द्रोग्धा, द्रोढा । मित्रध्रुक्, मित्रध्रुट्‌ । मुह्‌---उन्मोग्धा, उन्मोढा । उन्मुक्, उम्मुट्‌ । ष्णुह---उत्स्नोग्धा, उत्स्नोढा । उत्स्नुक्, उत्स्नुट्‌ । ष्णिह---स्नेग्धा, स्नेढा । स्निक्, स्निट् ।
द्रुहेर्दादित्वाद् घत्वं नित्यं प्राप्तम्, इतरेषामप्राप्तमेव घत्वं विकल्प्यते ।।
</8-2-33>
नहो धः ।। <8-2-34> ।।
नहो हकारस्य धकारादेशो भवति झलि परे पदान्ते च । तद्धम्, नद्धुम्, नद्धव्यम् । उपानत् । परीणत् ।।
</8-2-34>
आहस्थः ।। <8-2-35> ।।
आहो हकारस्य थकारादेशो भवति झलि परतः । इदमात्थ । किमात्थ ।
आदेशान्तरकरणम्---झषस्तथोर्धोऽधः(8-2-40/280) इत्यस्य निवृत्त्यर्थम् ।
`झलि इत्येव---आह, आहतुः, आहुः ।

  • हृग्रहोर्भश्छन्दसि हस्येति वक्तव्यम् * (म.भा.3-404)। `गर्दभेन सम्भरति(तै.सं.5-1-5-5) । ग्रभीता । जभ्रिरे । `उद्‌ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन्(तै.सं.1-1-13-1) ।।

</8-2-35>
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ।। <8-2-36> ।।
व्रश्च, भ्रस्ज, सृज, मृज, यज, राज, भ्राज---इत्येतेषाम्, छकारान्तानाम्, शकारान्तानां च षकार आदेशो भवति झलि परतः, पदान्ते च । व्रश्च---व्रष्टा, व्रष्टुम्, व्रष्टव्यम् । मूलवृट्‌ । भ्रस्ज---भ्रष्टा, भ्रष्टुम्, भ्रष्टव्यम् । धानाभृट्‌ । सृज्‌---स्रष्टा, स्रष्टुम्, स्रष्टव्यम् । रज्जुसृट्‌ । मृज---मार्ष्टा, मार्ष्टुम्, मार्ष्टव्यम् । कंसपरिमृट्‌ । यज---यष्टा, यष्टुम् , यष्टव्यम्, उपयट् । राज्‌---सम्राट् । स्वराट्‌ । विराट्‌ ।।
राजभ्राजोः पदान्तार्थं ग्रहणम्, झलादिराभ्यामिटा पर्यवपद्यते । केचित्तु---राष्टिः, भ्राष्टिरिति क्विन्नन्तमिच्छन्ति ।
छकारान्तानाम्, प्रच्छ---प्रष्टा, प्रष्टुम्, प्रष्टव्यम् । शब्दप्राट्‌ ।
च्छ्‌वोः शूडनुनासिके च(6-4-19/2561) इत्यत्र `क्ङिति इत्यनुवर्त्तते---इति छग्रहणमिह क्रियते ।
शकारान्तानाम्, लिश्‌---लेष्टा, लेष्टुम्, लेष्टव्यम् । लिट्‌ । विश्‌---वेष्टा, वेष्टुम्, वेष्टव्यम् । विट्‌ ।।
</8-2-36>
एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः ।। <8-2-37> ।।
धातोरवयवो य एकाच् झषन्तः तदवयवस्य बशः स्थाने भष्‌ आदेशो भवति झलि सकारे ध्वशब्दे च परतः पदान्ते च ।
अत्र चत्वारो बशः स्थानिनः, भषादेशाश्चत्वार एव; तत्र संख्यातानुदेशे प्राप्ते डकारस्य स्थानिनोऽभावाद् ढकारादेशो न भवति ? आन्तर्यतो व्यवस्था विज्ञास्यते ।।
बुध्‌---भोत्स्यन्ते । अभुद्ध्वम् । अर्थभुत्‌ । गुह---निघोक्ष्यते । न्यघूढ्‌वम् । पर्णघुट्‌ । दुह---धोक्ष्यते । अधुग्ध्वम् । गोधुक् ।
अजर्घाः--गृधेर्यंङ्‌लुगन्तस्य लङि सिपि लघूपधगुणे कृते सिपो हल्ङ्यादिलोपे च धातोरवयवस्यैकाचो बशः स्थाने भष्भावः, ततो वकारस्य जश्त्वम्, दश्च(8-2-75/2468) इति रुत्वम्, रो रि(8-3-14/173) इति पूर्वरेफस्य लोपः, ढ्रलोपे पूर्वस्य दीर्घोऽणः(6-3-111/174) इति दीर्घत्वम् ।
गर्दभयतेरप्रत्ययः---गर्धप् ।
एकाच इति किम् ? दामलिहमिच्छति दामलिह्यति, दामलिह्यतेरप्रत्ययः, दामलिट्‌ । असत्येकाज्ग्रहणे, `धातोः इत्येतद् बशो विशेषणं स्यात् ।
बश इति किम् ? क्रुध---क्रोत्स्यति । झषन्तस्येति किम् ? दास्यति । स्ध्वोरिति किम् ? बोद्धा, बोद्धुम्, बोद्धव्यम् । धकारस्य वकारोपसृष्टस्य ग्रहणं किम् ? दादद्धि । `दध धारणे(धा.पा.8)---इत्येतस्य यङ्‌लुकि लोटि हुझल्भ्यो हेर्धिः(6-4-101/2425) इति धिभावे सत्येतद्भवति ।
</8-2-37>
दधस्तथोश्च ।। <8-2-38> ।।
`दध इति दधातिः कृतद्विर्वचनो निर्दिश्यते । तस्य झलन्तस्य बशः स्थाने भष्‌ आदेशो भवति तकारथकारयोः परतः, चकारात् स्ध्वोश्च परतः । धत्तः । धत्थः । धत्से । धत्स्व । धद्ध्वम् ।
वचनसामर्थ्यादातो लोपस्य स्थानिवद्भावो न भवति । अभ्यासजश्त्वस्य चासिद्धत्वम् ।
तथोरिति किम् ? आनन्तर्यात् स्ध्वोरेव विज्ञायेत । चकारस्तयोरनुवृत्त्यर्थः ।
`झषन्तस्य इत्येव---दधाति ।।
</8-2-38>
झलां जशोऽन्ते ।। <8-2-39> ।।
झलां जश आदेशा भवन्ति पदस्यान्ते वर्तमानानाम् । वागत्र । श्वलिडत्र । अग्निचिदत्र । त्रिष्टुबत्र ।
अन्तग्रहणं झलीत्येतस्य निवृत्त्यर्थम् । वस्ता । वस्तव्यम् ।।
</8-2-39>
झषस्तथोर्धोऽधः ।। <8-2-40> ।।
झष उत्तरयोस्तकारथकारयोः स्थाने धकार आदेशो भवति, दधातिं वर्जयित्वा । लब्धा । लब्धुम् । लब्धव्यम् । अलब्ध । अलब्धाः । दुह---दोग्धा । दोग्धुम् । दोग्धव्यम् । अदुग्ध । अदुग्धाः । लिह---लेढा । लेढुम् । लेढव्यम् । अलीढ । अलीढाः । बुध्‌---बोद्धा । बोद्धुम् । बोद्धव्यम् । अबुद्ध । अबुद्धाः ।
अध इति किम् ? धत्तः । धत्थः ।।
</8-2-40>
षढोः कः सि ।। <8-2-41> ।।
षकारढकारयोः ककारादेशो भवति सकारे परतः । षकारस्य, पिष्‌--पेक्ष्यति । अपेक्ष्यत् । पिपक्षति। ढकारस्य, लिह--लेक्ष्यति । अलेक्ष्यत् । लिलक्षति ।
सीति किम् ? पिनष्टि । लेढि ।।
</8-2-41>
रदाभ्यां निष्ठातो नः पूर्वस्य च दः ।। <8-2-42> ।।
रेफदकाराभ्यामुत्तरस्य निष्ठातकारस्य नकार आदेशो भवति पूर्वस्य च दकारस्य । रेफान्तात्तावत्---आस्तीर्णम् । विस्तीर्णम् । विशीर्णम् । निगीर्णम् । अवगूर्णम् । दकारात्---भिन्नः, भिन्नवान् । छिन्नः, छिन्नवान् ।
रदाभ्यामिति किम् ? कृतः, कृतवान् ।
`र इत्यत्र रश्रुतिसामान्यं नोपादीयते, किं तर्हि ? व्यञ्जनमात्रम् । रेफसामान्यनिर्देशेऽपि सति रेफात्परा याऽज्भक्तिस्तद्व्यवधानान्नत्वं न भवति ।
निष्ठेति किम् ? कर्ता, हर्ता । त इति किम् ? चरितम् । मुदितम् । पूर्वस्येति किम् ? परस्य मा भूत्‌---भिन्नवद्भ्याम् । भिन्नवद्भिः ।
इह कृतस्यापत्यं कार्तिरिति वृद्धेर्बहिरङ्गलक्षणाया असिद्धत्वात् नत्वे कर्त्तव्ये रेफस्यासिद्धत्वम् ।।
</8-2-42>
संयोगादेरातो धातोर्यण्वतः ।। <8-2-43> ।।
संयोगादिर्यो धातुराकारान्तो यण्वान् तस्मादुत्तरस्य निष्ठातकारस्य नकारादेशो भवति । प्रद्राणः, प्रद्राणवान् । म्लानः, म्लानवान् ।
संयोगादेरिति किम् ? यातः, यातवान् । आत इति किम् ? च्युतः, च्युतवान् । प्लुतः, प्लुतवान् । धातोरिति किम्
? निर्यातः । निर्वातः । यण्वत इति किम् ? स्नातः, स्नातवान् ।।
</8-2-43>
ल्वादिभ्यः ।। <8-2-44> ।।
`लूञ्‌ छेदने(धा.पा.1484)---इत्येतत्प्रभृति `वॄञ् वरणे(धा.पा.1487) इति यावत् वृत्करणेन समापिता ल्वादयो गृह्यन्ते । तेभ्य उत्तरस्य निष्ठातकारस्य नकारादेशो भवति । लूनः, लूनवान्, धूनः । धूनवान् । जीनः, जीनवान् ।

  • ऋकारल्वादिभ्यः क्तिन्निष्ठावद्भवतीति वक्तव्यम् * (म.भा.3-407)। कीर्णिः । गीर्णिः । शीर्णिः । लूनिः । पूनिः ।।
  • दुग्वोर्दीर्घश्चेति वक्तव्यम् * (म.भा.3-407)। दु--आदूनः । गु---विगूनः ।

पूञो विनाश इति वक्तव्यम् * (म.भा.3-407)। पूना यवाः । विनष्टा इत्यर्थः । विनाश इति किम् ? पूतं धान्यम् ।

  • सिनोतेर्ग्रासकर्मकर्तृकस्येति वक्तव्यम् * (म.भा.3-407)। सिनो ग्रासः स्वयमेव । ग्रासकर्मकर्तृकस्येति किम् ? सिता पाशेन सूकरी । ग्रासोऽपि यदा कर्मैव भवति न कर्मकर्ता, तदा न भवति---सितो ग्रासो देवदत्तेनेति ।।

</8-2-44>
ओदितश्च ।। <8-2-45> ।।
ओकारेतो धातोरुत्तरस्य निष्ठातकारस्य नकारादेशो भवति । ओलस्जी---लग्नः, लग्नवान् । ओविजी---उद्विग्नः, उद्विग्नवान् । `ओप्यायी वृद्धौ(धा.पा.488)---आपीनः, आपीनवान् ।
स्वादय ओदितः । षूङ्‌---सूनः, सूनवान् । दूङ्‌---दूनः, दूनवान् । दीङ्‌---दीनः, दीनवान् । डीङ्‌---डीनः, डीनवान् । धीङ्‌---धीनः, धीनवान् । मीङ्‌---मीनः, मीनवान् । रीङ्‌---रीणः, रीणवान् । लीङ्‌---लीनः, लीनवान् । व्रीङ्‌---व्रीणः, व्रीणवान् ।।
</8-2-45>
क्षियो दीर्घात् ।। <8-2-46> ।।
क्षियो धातोर्दीर्घादुत्तरस्य निष्ठातकारस्य नकारादेशो भवति । क्षीणाः क्लेशाः । क्षीणो जाल्मः । क्षीणस्तपस्वी । क्षियः निष्ठायामण्यदर्थे(6-4-60/3014), वाऽऽक्रोशदैन्ययोः(6-4-61/3081) इति दीर्घत्वं भवति ।
दीर्घादिति किम् ? अक्षितमसि मामेक्षेष्ठाः । अक्षितमिति क्तप्रत्ययो भावे, भावश्च ण्यदर्थ इति दीर्घाभावः ।
ह्रस्वस्यापि हि धात्वनुकरणस्य इह इयङा निर्द्देशः ।
क्षियः निष्ठायामण्यदर्थे(6-4-60/3014) इत्यत्र दीर्घग्रहणं क्रियते ।
विपरभ्यां जेः(1-3-19/2385) इत्येवमादौ तु धातुत्वमनुकार्यगतं सदप्यविवक्षितत्वात् जिरूपसामान्यानुकरणं द्रष्टव्यम् ।।
</8-2-46>
श्योऽस्पर्शे ।। <8-2-47> ।।
श्यायतेरुत्तरस्य निष्ठातकारस्यास्पर्शे नकार आदेशो भवति । शीनं घृतम् । शीनं मेदः । शीना वसा ।
अस्पर्श इति किम् ? शीतं वर्तते । शीतो वायुः ।
शीतमुदकम्---इत्यत्र गुणभूतोऽपि स्पर्शो नत्वप्रतिषेधस्य सम्प्रसारणस्य च निमित्तं भवति ।
गुणे च स्पर्शे प्रतिषेधोऽयम्, न रोगे, तेन प्रतिशीन इत्यत्र नत्वं भवत्येव ।।
</8-2-47>
अञ्चोऽनपादाने ।। <8-2-48> ।।
अञ्चतेरुत्तरपदस्य निष्ठातकारस्य नकारादेशो भवति न चेदपादानं तत्र भवति । समक्नौ शकुनेः पादौ । तस्मात्पशवो न्यक्नाः ।
अनपादान इति किम् ? उदक्तमुदकं कूपात् । व्यक्तमित्येतदञ्जे रूपम् ।।
</8-2-48>
दिवोऽविजिगीषायाम् ।। <8-2-49> ।।
दिव उत्तरस्य निष्ठातकारस्य नकारादेशो भवति अविजिगीषायामर्थे । आद्यूनः । परिद्यूनः ।
अविजिगीषायामिति किम् ? द्यूतं वर्तते । विजिगीषया हि तत्राक्षपातनादि क्रियते ।।
</8-2-49>
निर्वाणोऽवाते ।। <8-2-50> ।।
`निर्वाणः इति निस्पूर्वाद् वातेरुत्तरस्य निष्ठातकारस्य नकारो निपात्यते, न चेद्वाताधिकरणो वात्यर्थो भवति । निर्वाणोऽग्निः । निर्वाणः प्रदीपः । एष निर्वाणो भिक्षुः ।
अवात इति किम् ? निर्वातो वातः । निर्वातं वातेन ।
निर्वाणः प्रदीपो वातेन---इत्यत्र तु प्रदीपाधिकरणो वात्यर्थः, वातस्तु तस्य करणमिति भवत्येव नत्वम् ।।
</8-2-50>
शुषः कः ।। <8-2-51> ।।
शुषेर्धातोरुत्तरस्य निष्ठातकारस्य ककारादेशो भवति । शुष्कः, शुष्कवान् ।।
</8-2-51>
पचो वः ।। <8-2-52> ।।
पचेर्धातोरुत्तरस्य निष्ठातकारस्य वकारादेशो भवति । पक्वः, पक्ववान् ।।
</8-2-52>
क्षायो मः ।। <8-2-53> ।।
क्षै-धातोरुत्तरस्य निष्ठातकारस्य मकारादेशो भवति । क्षामः, क्षामवान् ।।
</8-2-53>
प्रस्त्योऽन्यतरस्याम् ।। <8-2-54> ।।
प्रपूर्वात् स्त्यायतेरुत्तरस्य निष्ठातकारस्यान्यतरस्यां मकारादेशो भवति । प्रस्तीमः, प्रस्तीमवान् । प्रस्तीतिः, प्रस्तीतवान् ।
यदा मत्वं नास्ति, तदा संयोगादेरातो धातोर्यण्वतः(8-2-43/3017) इत्यस्य पूर्वत्रासिद्धत्वात् सम्प्रसारणं प्रथमं क्रियते; तत्र कृते निमित्तव्याघातान्नत्वं न भवति ।।
</8-2-54>
अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः ।। <8-2-55> ।।
फुल्ल, क्षीब, कृश, उल्लाघ---इत्येते निपात्यन्ते, न चेदुपसर्गादुत्तरा भवन्ति । फुल्ल इति---`ञिफला विशरणे(धा.पा.516) इत्येतस्माद्धात्तोरुत्तरस्य निष्ठातकारस्य लकारो निपात्यते । उत्वमिडभावश्च सिद्ध एव ।
क्तवत्वन्तस्याप्येतल्लत्वमिष्यते । फुल्लः, फुल्लवान् इति ।
क्षीबकृशोल्लाघा इति---क्षीविकृशिभ्यामुत्पूर्वाच्च लाघेः क्तप्रत्ययस्य तलोप इडभावश्च निपात्यते । कृते वा इटि इच्छब्दलोपः । क्षीबः । कृशः । उल्लाघः ।
अनुपसर्गादिति किम् ? प्रफुल्ताः सुमनसः । प्रक्षीवितः । प्रकृशितः । प्रोल्लाघितः । लाघेरुदोऽन्य उपसर्गः प्रतिषिध्यते ।

  • उत्फुल्लसम्फुल्लयोरिति वक्तव्यम् * (म.भा.3-409)। उत्फुल्लः । सम्फुल्लः ।

परिकृश इत्यत्र यः परिशब्दः स क्रियान्तरयोगात् कृशिं प्रत्यनुपसर्ग एव---परिगतः कृशः परिकृश इति ।।
</8-2-55>
नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् ।। <8-2-56> ।।
नुद, विद, उन्दी, त्रा, घ्रा, ह्री---इत्येतेभ्य उत्तरस्य निष्ठातकारस्य नकार आदेशो भवति अन्यतरस्याम् । नुद--- नुन्नः, नुत्तः । विद---विन्नः, वित्तः । उन्द---समुन्नः, समुत्तः । त्रा---त्राणः, त्रातः । घ्रा---घ्राणः, घ्रातः । ह्री---ह्रीणः, ह्रीतः ।
`ह्रो इत्येतस्याप्राप्तं नत्वम्, इतरेषां नित्यं प्राप्तं विकल्प्यते ।
`विद विचारणे(धा.पा.1451) इत्यस्य विदेरिह ग्रहणमिष्यते । एवं ह्युक्तम्---
वेत्तेस्तु विदितो निष्ठा विद्यतेर्विन्न इष्यते ।
विन्तेर्विन्नश्च वित्तश्च भोगवित्तश्च विन्दतेः ।। इति ।।
</8-2-56>
न ध्याख्यापॄमूर्च्छिमदाम् ।। <8-2-57> ।।
ध्या, ख्या, पॄ, मूर्च्छि, मद---इत्येतेषां निष्ठातकारस्य नकारादेशो न भवति । ध्यातः, ध्यातवान् । ख्यातः, ख्यातवान् । पूर्त्तः, पूर्त्तवान् । मूर्त्तः, मूर्त्तवान् । मत्तः, मत्तवान् । रदाभ्याम्(8-2-42/3016), संयोगादेः(8-2-43/3017) इति च प्राप्तः प्रतिषिद्ध्यते ।।
</8-2-57>
वित्तो भोगप्रत्यययोः ।। <8-2-58> ।।
`वित्त---इति विदेर्लाभार्थादुत्तरस्य क्तस्य नत्वाभावो निपात्यते भोगे प्रत्यये चाभिधेये । वित्तमस्य बहु । धनमस्य बह्वित्यर्थः । धनं हि भुज्यत इति भोगोऽभिधीयते ।
प्रत्यये---वित्तोऽयं मनुष्यः । प्रतीत इत्यर्थः । प्रतीयत इति प्रत्ययः । भोगप्रत्यययोरिति किम् ? विन्नः ।।
</8-2-58>
भित्तं शकलम् ।। <8-2-59> ।।
`भित्तम् इति निपात्यते शकलं चेत्तद्भवति । भित्तं तिष्ठति । भित्ते प्रपतति । शकलपर्यायोऽयम् ।
अत्र भिदिः क्रिया शब्दव्युत्पत्तेरेव निमित्तम् । भिदिक्रियाविवक्षायां हि शकलविषये भिन्नं भित्तमित्येव भवति ।।
</8-2-59>
ऋणमाधमर्ण्ये ।। <8-2-60> ।।
`ऋणम् इति `ऋ इत्येतस्माद्धातोरुत्तरस्य निष्ठातकारस्य नकारो निपात्यते आधमर्ण्यविषये ।
अधम ऋणे अधमर्णः, एतस्मादेव निपातनात्सप्तम्यन्तेनोत्तरपदेन समासः, तद्भाव आधमर्ण्यम् । यद्येवम्, उत्तमर्ण इति न सिध्यति ? नैष दोषः; कालान्तरदेयविनिमयोपलक्षणार्थं चेदमुपात्तम् । तेन उत्तमर्ण इत्यपि हि भवति । ऋणं ददाति । ऋणं धारयति ।
आधमर्ण्ये इति किम् ? ऋतं वक्ष्यामि नानृतम् ।।
</8-2-60>
नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि ।। <8-2-61> ।।
नसत्त, निषत्त, अनुत्त, प्रतूर्त, सूर्त, गूर्त---इत्येतानि छन्दसि विषये निपात्यन्ते । नसत्त--निषत्तेति---सदेर्नञ्पूर्वान्निपूर्वाच्च नत्वाभावो निपात्यते । नसत्तमञ्जसा । नसन्नमिति भाषायाम् । `निषत्तः(ऋ.1-58-3) । निषण्ण इति भाषायाम् ।
अनुत्तमिति--उन्देर्नञ्पूर्वस्य निपातनम् । `अनुत्तमा ते मघवन्(ऋ.1-165-9) । अनुन्नमिति भाषायाम् ।
प्रतूर्तमिति---त्वरतेः, `तुर्वी इत्येतस्य वा निपातनम् । `प्रतूर्तं वाजिनम्(तै.4-1-2-1) । प्रतूर्णमिति भाषायाम् ।
सूर्तमिति---`सृ इत्येतस्य उत्वं निपात्यते । सूर्ता गावः । सृता गाव इति भाषायाम् ।
गूर्त्तमिति---`गुरी इत्येतस्य नत्वाभावो निपात्यते । `गूर्त्ता अमृतस्य(वा.सं.6-34) । गूर्णमिति भाषायाम् ।।
</8-2-61>
क्विन्प्रत्ययस्य कुः ।। <8-2-62> ।।
पदस्य(8-1-16/401) इति वर्त्तते । क्विन्प्रत्ययस्य सर्वत्र पदान्ते कुत्वमिष्यते । क्विन्प्रत्ययो यस्माद्धातोः स क्विन्प्रत्ययः, तस्य पदस्यालोन्त्यस्य कवर्गादेशो भवति । स्पृशोऽनुदके क्विन्(3-2-58/432) । घृतस्पृक् । हलस्पृक् । मन्त्रस्पृक् ।
`क्विनः कुः इति वक्तव्ये प्रत्ययग्रहणं कृतम्(म.भा.3-411)---बहुव्रीहिविज्ञानार्थम् । क्विन्प्रत्ययो
यस्माद्विहितस्तस्मादन्यस्मिन्नपि प्रत्यये कुत्वं यथा स्यात्---मा नो अस्राक् । मा नो अद्राक् । सृजिदृशिभ्यां हि क्विन्विहितः, तयोर्लुङि कुत्वमेतत् । माड्योगेऽपि छान्दसत्वादडागमः । ईट्‌ च न भवति---बहुलं छन्दसि(7-3-97/3586) इति ।
तथा दृग्भ्याम्, दृग्भिरिति---क्विबन्तस्यापि दृशेः कुत्वं भवति । एवं च सति रज्जुसृड्‌भ्यामित्यत्रापि कुत्वं प्राप्नोति ।
अथ तु नेष्यते ? प्रतिविधानं कर्तव्यमिति ।।
</8-2-62>
नशेर्वा ।। <8-2-63> ।।
`पदस्य इति वर्तते । नशेः पदस्य वा कवर्गादेशो भवति । सा वै जीवनगाहुतिः, `सा वै जीवनडाहुतिः(मै.1-4-13) । नशेरयं सम्पदादित्वाद् भावे क्विप् । जीवस्य नाशो जीवनक्, जीवनट् । षत्वे प्राप्ते कुत्वविकल्पः ।।
</8-2-63>
मो नो धातोः ।। <8-2-64> ।।
मकारान्तस्य धातोः पदस्य नकारादेशो भवति । प्रशान् । प्रतान् । प्रदान् । शमितमिदमादीनां क्विप्‌, अनुनासिकस्य क्विझलोः क्ङिति(6-4-15/2666) इति दीर्घत्वम् । नत्वस्यासिद्धत्वान्नलोपो न भवति ।
म इति किम् ? भित् । छित् । धातोरिति किम् ? इदम् । किम् ।
`पदस्य इत्येव---प्रतामौ । प्रतामः ।।
</8-2-64>
म्वोश्च ।। <8-2-65> ।।
मकारवकारयोश्च परतः मकारान्तस्य धातोर्नकारादेशो भवति । `अगम्न तमसः पारम्(वा.सं.12-73) । अगन्व । गमेर्लङि बहुलं छन्दसि(2-4-73/3400) इति शपो लुक् । जगन्वान् । विभाषा गमहनजनविदविशाम्(7-2-68/3099) इति क्वसाविडागमस्याभावः ।
अपदान्तार्थ आरम्भः ।।
</8-2-65>
ससजुषो रुः ।। <8-2-66> ।।
सकारान्तस्य पदस्य `सजुष्‌ इत्येतस्य च रुर्भवति । सकारान्तस्य---अग्निरत्र । वायुरत्र । सजुषः---`सजूर्ऋषिभिः(ऋ.मै.2-8-1) । `सजूर्देवेभिः(ऋ.7-34-15) । जुषेः क्विपि सपूर्वस्य रूपमेतत् ।।
</8-2-66>
अवयाः श्वेतवाः पुरोडाश्च ।। <8-2-67> ।।
अवयाः, श्वेतवाः, पुरोडाः---इत्येते निपात्यन्ते । अवपूर्वस्य यजेः, श्वेतपूर्वस्य वहेः, पुरस्पूर्वस्य दाशतेः मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्‌(3-2-71/3414), अवे यजः(3-2-72/3415) इति ण्विनि कृते `श्वेतवहादीनां डस्पदस्य(वा.263) डस्प्रत्यये निपातनान्येतानि ।
किमर्थं तर्हि निपातनम्, यावता पूर्वेणैव रुः सिद्धः, दीर्घत्वमपि अत्वसन्तस्य चाधातोः(6-4-14/425)---इति ? सम्बुद्धौ दीर्घार्थमेते निपात्यन्ते । अत्वसन्तस्य चाधातोः(6-4-14/425)---इत्यत्र हि `असम्बुद्धौ इति वर्त्तते । हे अवयाः । हे श्वेतवाः । हे पुरोडाः ।
चकारोऽनुक्तसमुच्चयार्थः । हे उक्थशाः ।।
</8-2-67>
अहन् ।। <8-2-68> ।।
`अहन् इत्येतस्य पदस्य रुर्भवति । अहोभ्याम् । अहोभिः । नलोपमकृत्वा निर्देशो ज्ञापकः---नलोपाभावो यथा स्यादिति । दीर्घाहा निदाघः, हे दीर्घाहोऽत्रेति ।
अहन्‌---इत्यत्र तु लाक्षणिकत्वादहन्--शब्दस्य रुर्न भवति ।

  • अह्नो रुविधौ रूपरात्रिरथन्तरेषूपसङ्ख्यानं कर्त्तव्यम् *(म.भा.3-411) । अहोरूपम् । अहोरात्रः । अहो रथन्तरम् । रोऽसुपि(8-2-69/172) इत्यस्यापवादो रुत्वमुपसङ्ख्यायते ।

अपर आह---सामान्येन रेफादौ रुत्वं भवति । अहो रम्यम् । अहो रत्नानीति ।।
</8-2-68>
रोऽसुपि ।। <8-2-69> ।।
`अहन् इत्येतस्य रेफादेशो भवत्यसुपि परतः । अहर्ददाति । अहर्भुङ्‌क्ते ।
असुपीति किम् ? अहोभ्याम् । अहोभिः ।
ननु चात्रापि प्रत्ययलक्षणेन सुबस्ति---अहर्ददाति, अहर्भुङ्‌क्ते इति ? नैतदस्ति; उक्तमेतत्---`अह्नो रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति(म.भा.3-412) इति, नायमहः शब्दः सुप्परो भवति ।
यत्र तु लोपशब्देन लुप्यते तत्र प्रत्ययलक्षणं भवत्येव, यथा---हे दीर्घाहोऽत्र, दीर्घाह निदाघ इति । अत्र हि हल्ङ्याब्भ्यः(6-1-68/252) इति लोपेन प्रत्ययस्य निवृत्तिः ।।
</8-2-69>
अम्नरूधरवरित्युभयथा छन्दसि ।। <8-2-70> ।।
अम्नस्‌, ऊधस्, अवस्‌---इत्येतेषां छन्दसि विषये उभयथा भवति---रुर्वा, रेफो वा । अम्नस्---`अम्न एव(मै.1-6-10), अम्नरेव । ऊधस्--- `ऊधरेव(ऋ.10-100-11), `ऊध एव(काठ.7-5-20) । अवस्---अवरेव, `अव एव(अ.वे.20-25-2) । यदा रुत्वं तदा भोभगोअघोअपूर्वस्य योऽशि(8-3-17/167) इति यकारः ।

  • छन्दसि भाषायां च विभाषा प्रचेतसो राजन्युपसङ्ख्यानं कर्तव्यम् * (म.भा.3-412)। `प्रचेता राजन्(ऋ.1-24-14), `प्रचेतो राजन्(तै.1-5-11-3) ।
  • अहरादीनां पत्यादिषूपसंख्यानं कर्तव्यम् * (म.भा.3-412)। अहर्पतिः, अहः पति । गीर्पतिः । गीः पतिः । धूर्प्पतिः । धूः पतिः ।

विसर्जनीयबाधनार्थमत्र पक्षे रेफस्यैव रेफो विधीयते ।।
</8-2-70>
भुवश्च महाव्याहृतेः ।। <8-2-71> ।।
`भुवस्---इत्येतत् महाव्याहृतेछन्दसि विषये उभयथा भवति---रुर्वा, रेफो वा । भुवरित्यन्तरिक्षम्, भुव इत्यन्तरिक्षम् ।
महाव्याहृतेरिति किम् ? `भुवो विश्वस्य भुवनेषु यज्ञियः(ऋ.10-50-4) ।
`भुवः इत्येतदव्ययमन्तरिक्षवाचि महाव्याहृतिः ।।
</8-2-71>
वसुस्रंसुध्वंस्वनडुहां दः ।। <8-2-72> ।।
ससजुषोः(8-2-66/162) इत्यतः `स इति वर्तते, तेन सम्भवाद्व्यभिचाराच्च वसुरेव विशेष्यते, न स्रंसुध्वंसू; व्यभिचाराभावाद् । असम्भवाच्चानडुह्शब्दः । वस्वन्तस्य पदस्य सकारान्तस्य स्रंसु, ध्वंसु, अनडुह्‌---इत्येतेषां च दकारादेशो भवति । वसु---विद्वद्भ्याम्, विद्वद्भिः । पपिवद्भ्याम्, पपिवद्भिः । स्रंसु---उखास्रद्भ्याम्, उखास्रद्भिः । ध्वंसु---पर्णध्वद्भ्याम्, पर्णध्वद्भिः । अनडुह्‌---अनडुद्भ्याम्, अनडुद्भिः ।
स इत्येव---विद्वान्, पपिवान् ।
नकारस्य न भवति रुत्वे नाप्राप्ते इदमारभ्यत इति तद्बाध्यते । संयोगान्तलोपस्तु नैवमिति तेनैतदेव दत्वं बाध्यते ।
अनुडुहोऽपि ढत्वमनेन बाध्यते ।
नुमस्तु विधानसामर्थ्यान्न भवति---अनड्‌वान्, हे अनड्‌वन्निति । `पदस्य इत्येव---विद्वांसौ, विद्वांसः ।।
</8-2-72>
तिप्यनस्तेः ।। <8-2-73> ।।
तिपि परतः सकारान्तस्य पदस्य अनस्तेर्दकार आदेशो भवति । अचकाद् भवान् । अन्वशाद् भवान् ।
तिपीति किम् ? चकास्तेः क्विप्, चकाः । अनस्तेरिति किम् ? आप एवेदं सलिलं सर्वमाः । आ इत्यस्तेर्लङि तिपि बहुलं छन्दसि(7-3-97/3586) इति ईड्‌ न कृतः ।।
</8-2-73>
सिपि धातो रुर्वा ।। <8-2-74> ।।
सिपि परतः सकारान्तस्य पदस्य धातोः `रुः इत्ययमादेशो भवति, दकारो वा । अचकास्त्वम्, अचकात्त्वम् । अन्वशास्त्वम्, अन्वशात्त्वम् ।
धातुग्रहणं चोत्तरार्थं रुग्रहणं च ।।
</8-2-74>
दश्च ।। <8-2-75> ।।
दकारान्तस्य धातोः पदस्य सिपि परतो रुर्भवति, दकारो वा । अभिनत्त्वम्, अभिनस्त्वम् । अच्छिनत्त्वम्, अच्छिनस्त्वम् ।।
</8-2-75>
र्वोरुपधाया दीर्घ इकः ।। <8-2-76> ।।
रेफवकारान्तस्य धातोः पदस्य उपधाया इको दीर्घो भवति । गीः । धूः । पूः । आशीः ।
वकारग्रहणमुत्तरार्थम् । उपधाग्रहणं किम् ? अत्रैव प्रत्युदाहरणे भशब्दाकारस्य मा भूत् ।
`धातोः इत्येव---अग्निः, वायुः । `पदस्य इत्येव---गिरौ, गिरः ।।
</8-2-76>
हलि च ।। <8-2-77> ।।
हलि च परतः रेफवकारान्तस्य धातोरुपधाया इको दीर्घो भवति । आस्तीर्णम् । विस्तीर्णम् । विशीर्णम् । वकारान्तस्य---दीव्यति । सीव्यति ।
`धातोः इत्येव---दिवमिच्छति दिव्यति । चतुर इच्छति चतुर्यति ।
`इकः इत्येव---स्मर्यते । भव्यम् ।
अपदान्तार्थोऽयमारम्भः ।।
</8-2-77>
उपधायां च ।। <8-2-78> ।।
`हलि इत्यनुवर्त्तते । धातोरुपधाभूतौ यौ रेफवकारौ हल्परौ तयोरुपधाया इको दोर्घो भवति । हुर्छा---हूर्छिता । मुर्छा---मूर्छिता । उर्वी---ऊर्विता । धुर्वी---धूर्विता ।
`हलि इत्येव---चिरि, जिरि, चिरिणोति । जिरिणोति ।
इह कस्मान्न भवति---`री गतौ(धा.पा.1501)---रिर्यतुः, रिर्युः, `वी गत्यादिषु(धा.पा.1049)---विव्यतुः, विव्युरिति ? यणादेशस्य स्थानिवत्त्वात् असिद्धत्वाच्च बहिरङ्गलक्षणत्वेन हल्परौ रेफवकारौ न भवतः ।
चतुर्यिता---इत्यत्रापि बहिरङ्गलक्षणत्वादतो लोपस्य(6-4-48/2308) धातोरुपधाभूतो रेफो न भवति ।
प्रतिदीव्ना---इत्यत्र तु हलि च(8-2-77/354) इति दीर्घत्वम्; दीर्घविधौ लोपाजादेशस्य स्थानिवद्भावप्रतिषेधात् । `असिद्धं बहिरङ्गमन्तरङ्गे(व्या.प.42) इत्येतत्तु नाश्रयितव्यम् ।
`उणादयोऽव्युत्पन्नानि प्रातिपदिकानि(है.प.103) इति जिव्रिः, किर्योः, गिर्योरित्येवमादिषु दीर्घो न भवति ।।
</8-2-78>
न भकुर्छुराम् ।। <8-2-79> ।।
रेफवकारान्तस्य भस्य कुर्‌, छुर्‌---इत्येतयोश्च दीर्घो न भवति । धुरं वहति धुर्यः । धुरि साधुर्धुर्यः । कुर्‌---कुर्यात् । छुर्‌---छुर्यात् । दिव्यम् ।
रेफवकाराभ्यां भविशेषणं किम् ? प्रतिदीव्ना । प्रतिदीव्ने ।।
</8-2-79>
अदसोऽसेर्दादु दो मः ।। <8-2-80> ।।
अदसोऽसकारान्तस्य वर्णस्य दात्परस्य अवर्णादेशो भवति दकारस्य च मकारः । अमुम्, अमू, अमून् । अमुना । अमूभ्याम् । `भाव्यमानेनाप्युकारेण सवर्णानां ग्रहणमिष्यते(पु.प.21)---इत्येकमात्रिकस्य मात्रिकः, द्विमात्रिकस्य द्विमात्रिक आदेशो भवति ।
असेरिति किम् ? अद इच्छति अदस्यति ।

  • अदसोऽनोस्र इति वक्तव्यम् *(म.भा.3-414)। ओकाररेफयोरपि प्रतिषेधो यथा स्यादिति । अदोऽत्र । अदः कुलम् ।

तदर्थं केचित्सूत्रं वर्णयन्ति---अः सेर्यस्य सोऽयमसिः---यत्र सकारस्य अकारः क्रियत इति, तेन त्यदाद्यत्वविधाने एतद् अन्यत्र न भवतिव्यमेवेति ।
अद्र्यादेशे कथम् ?
`अदसोऽद्रेः पृथङ्‌ मुत्वं केचिदिच्छन्ति लत्ववत् ।
केचिदन्त्यसदेशस्य नेत्येकेऽसेर्हि दृश्यते ।।(म.भा.3-414)
यैः `असे इति सकारस्य प्रतिषेधः क्रियते, `अनन्त्यविकारेऽन्त्यसदेशस्य(व्या.प.63) इति च परिभाषा नाश्रीयते; तेषामुभयोरपि मुत्वेन भवितव्यम्---अमुमुयङ्‌, अमुमुयञ्चौ, अमुमुयञ्च इति; यथा---चलीक्लृप्यत इति लत्वम् ।
ये तु परिभाषामाश्रयन्ति, तेषामन्त्यसदेशस्यैव भवितव्यम्--- अदमुयङ्‌, अदमुयञ्चौ, अदमुयञ्च इति ।
येषां तु `त्यदाद्यत्वविषय एव मुत्वेन भवितव्यम् इति दर्शनम्, तेषामत्र न भवितव्यम्---अदद्र्यङ्‌, अदद्र्यञ्चौ, अदद्र्यञ्च इति ।
दादिति किम् ? अलोऽन्त्यस्य मा भूत्‌---अमुया, अमुयोः ।।
</8-2-80>
एत ईद्बहुवचने ।। <8-2-81> ।।
अदसो दकारादुत्तरस्य एकारस्य ईकारादेशो भवति, दकारस्य च मकारो बहुवचने=बहूनामर्थानामुक्तौ । अमी । अमीभिः । अमीभ्यः । अमीषाम् । अमीषु ।
`बहुवचने इत्यर्थनिर्देशोऽयम्, पारिभाषिकस्य हि बहुवचनस्य ग्रहणे अमी इत्यत्र न स्यात् ।
</8-2-81>
वाक्यस्य टेः प्लुत उदात्तः ।। <8-2-82> ।।
अधिकारोऽयम् । वाक्यस्य टेरिति, प्लुत इति च, उदात्त इति च---एतत्त्रयमप्यधिकृतं वेदितव्यमापादपरिसमाप्तेः । यदित ऊर्ध्वमनुक्रमिष्यामो वाक्यस्य टेः, प्लुतः, उदात्तः---इत्येवं तद्वेदितव्यम् । वक्ष्यति---प्रत्यभिवादेऽशूद्रे(8-2-83/94) अभिवादये देवदत्तोऽहम्, भो आयुष्मानेधिदेवदत्त3 ।
पदाधिकारोऽनुवर्तत एव ।
वाक्यग्रहणमनन्त्यस्य पदस्य प्लुतनिवृत्त्यर्थम् ।
टिग्रहणं व्यञ्जनान्तस्यापि टेरचः प्लुतो यथा स्यात्---अग्निचि3दिति ।।
</8-2-82>
प्रत्यभिवादेऽशूद्रे ।। <8-2-83> ।।
प्रत्यभिवादो नाम यदभिवाद्यमानो गुरुराशिषं प्रयुङ्‌क्ते, तत्राशूद्रविषये यद्वाक्यं वर्त्तते तस्य टेः प्लुत उदात्तो भवति । अभिवादये देवदत्तोऽहम्, भो आयुष्मानेधि देवदत्त3 ।
अशूद्र इति किम् ? अभिवादये तुषजकोऽहम्, भो आयुष्मानेधि तुषजक ।

  • स्त्रियामपि प्रतिषेधो वक्तव्यः * (म.भा.3-416)। अभिवादये गार्ग्यहम्, भो आयुष्मती भव गार्गि ।

असूयकेऽपि केचित् प्रतिषेधमिच्छन्ति---अभिवादये स्थाल्यहं भोः, आयुष्मानेधि स्थालिन् ! यावच्च तस्यासूयकत्वं
न ज्ञायते, तावदेव प्रत्यभिवादवाक्यम् । तस्मिंस्त्वसूयकत्वेन निर्ज्ञाते प्रत्यभिवाद एव नास्ति, कुतः प्लुतः ! तथा चोक्तम्---असूयकस्त्वं जाल्म, न त्वं प्रत्यभिवादनमर्हसि, भिद्यस्व वृषल स्थालिन्निति ।
अभिवादनवाक्ये यत् सङ्कीर्तितं नाम, गोत्रं वा, तद् यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्र प्लुतिरिष्यते । इह न भवति---देवदत्त कुशल्यसि । देवदत्त आयुष्मानेधीति ।

  • भोराजन्यविशां वेति वक्तव्यम् * (म.भा.3-416)। भो अभिवादये देवदत्तोऽहम्, आयुष्मानेधि देवदत्त भोः3, आयुष्मानेधि देवदत्त भोः । राजन्य---अभिवादये इन्द्रवर्माहं भोः, आयुष्मानेधीन्द्रवर्म3न्, आयुष्मानेधीन्द्रवर्मन् । विश्‌---अभिवादये इन्द्रपालितोऽहं भोः, आयुष्मानेधीन्द्रपालित3, आयुष्मानेधीन्द्रपालित ।।

</8-2-83>
दूराद्धूते च ।। <8-2-84> ।।
दूराद्धूते यद्वाक्यं वर्तते तस्य टेः प्लुतो भवति स चोदात्तः । आह्वानम्=हूतम्, शब्देन सम्बोधनम् । आगच्छ भो माणवक देवदत्त3 । आगच्छ भो माणवक यज्ञदत्त3 ।
दूरं यद्यप्यपेक्षाभेदादनवस्थितम्, तथापि हूतापेक्षं यत्तदाश्रीयते इति, यत्र प्राकृतात् प्रयत्नाद्यत्नविशेष आश्रीयमाणे शब्दः श्रूयते=तद् दूरम् ।
हूतग्रहणं च सम्बोधनमात्रोपलक्षणार्थं द्रष्टव्यम् । तेन यत्राप्याह्वानं नास्ति, तत्रापि प्लुतिर्भवति---सक्तून्पिब देवदत्त3 । पलायस्व देवदत्त3 इति ।
अस्याश्च प्लुतेरेकश्रुत्या समावेश इष्यते ।
दूरादिति किम् ? आगच्छ भो माणवक देवदत्त ।
दूरादाह्वाने वाक्यस्यान्ते यत्र सम्बोधनपदं भवति तत्रायं प्लुत इष्यते । तेनेह न भवति---देवदत्त आगच्छ ।।
</8-2-84>
हैहेप्रयोगे हैहयोः ।। <8-2-85> ।।
हैहेप्रयोगे दूराद्धूते यद्वाक्यं वर्त्तते तत्र हैहयोरेव प्लुतो भवति । है3 देवदत्त, देवदत्त है3 । हे3 देवदत्त, देवदत्त हे3 ।
पुनर्हैहयोर्ग्रहणमनन्त्ययोरपि यथा स्यात् ।।
</8-2-85>
गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् ।। <8-2-86> ।।
प्रत्यभिवादेऽशूद्रे(8-2-83/94)---इत्येवमादिना यः प्लुतो विहितः, तस्यैवायं स्थानिविशेष उच्यते । ऋकारवर्जितस्य गुरोरनन्त्यस्य, अपिशब्दादन्त्यस्यापि टेरेकैकस्य सम्बोधने वर्तमानस्य प्लुतो भवति प्राचामाचार्याणां मतेन । दे3वदत्त, देवद3त्त, देवदत्त3 । य3ज्ञदत्त, यज्ञद3त्त, यज्ञदत्त3 ।
गुरोरिति किम् ? वकारात्परस्य मा भूत् । अनृत इति किम् ? कृष्णमि3त्त्र, कृष्णमित्त्र 3 ।
एकैकग्रहणं पर्यायार्थम् ।
प्राचामिति ग्रहणं विकल्पार्थम् । आयुष्मानेधि देवदत्त । तदनेन यदेतदुच्यते---`सर्व एव प्लुतः साहसमनिच्छता विभाषा कर्त्तव्यः(म.भा.3-420) इति, तदुपपन्नं भवति ।।
</8-2-86>
ओमभ्यादाने ।। <8-2-87> ।।
अभ्यादानम्=प्रारम्भः । तत्र य ओम्‌शब्दः तस्य प्लुतो भवति । ओ3म् `अग्निमीळे पुरोहितम्(ऋ.1-1-1) ।
अभ्यादाने इति किम् ? `ओमित्येतदक्षरमुद्‌गीथमुपासीत(छां.उ.1-1-1) ।।
</8-2-87>
ये यज्ञकर्मणि ।। <8-2-88> ।।
`ये इत्येतस्य यज्ञकर्मणि प्लुतो भवति । ये3 यजमाहे ।
यज्ञकर्मणीति किम् ? `ये यजामह इति पञ्चाक्षरम्(तै.1-6-11-1)---इति स्वाध्यायकाले मा भूत् ।
ये यजामहे---इत्यत्रैवायं प्लुत इष्यते । इह हि न भवति---`ये देवासो दिव्येकादशस्थ(ऋ.1-139-91) इति ।।
</8-2-88>
प्रणवष्टेः ।। <8-2-89> ।।
`यज्ञकर्मणि इति वर्तते । यज्ञकर्मणि टेः प्रणव आदेशो भवति ।
क एष प्रणवो नाम ? पादस्य वा, अर्धर्चस्य वान्त्यमक्षरमुपसंगृह्य तदाद्यक्षरशेषस्य स्थाने त्रिमात्रमोकारम्, ओङ्कारं वा विदधति तं प्रणवमित्याचक्षते । `अपां रेतांसि जिन्वतो3म्(ऋ.8-44-16) । `देवान् जिगाति सुम्नयो3म्(ऋ.3-27-1) ।
टिग्रहणं सर्वादेशार्थम् । ओकारः सर्वादेशो यथा स्यात्, व्यञ्जनान्ते अन्तस्य मा भूदिति ।
`यज्ञकर्मणि इत्येव---`अपां रेतांसि जिन्वति(ऋ.8-44-16) ।।
</8-2-89>
याज्यान्तः ।। <8-2-90> ।।
याज्या नाम ये याज्याकाण्डे पठ्यन्ते मन्त्राः, तेषामन्त्यो यष्टिः स प्लवते यज्ञकर्मणि । `स्तोमैर्विधेमाग्नये3(ऋ.8-43-11) । `जिह्वामग्ने चकृषे हव्यवाह3म्(तै.4-4-4-1) ।
अन्तग्रहणं किम् ? याज्या नाम ऋचः काश्चिद्वाक्यसमुदायरूपाः; तत्र यावन्ति वाक्यानि तेषां सर्वेषां टेः प्लुतः प्राप्नोति; सर्वान्त्यस्यैवेष्यते, तदर्थमन्तग्रहणम् ।।
</8-2-90>
ब्रूहिप्रेष्यश्रौषड्‌वौषडावहानामादेः ।। <8-2-91> ।।
ब्रूहि, प्रेष्य, श्रौषट्‌, वौषट्‌, आवह---इत्येतेषामादेः प्लुतो भवति यज्ञकर्मणि । `अग्नयेऽनुब्रू3हि(श.ब्रा.2-5-3-12) । प्रेष्य---अग्नये गोमयान्प्रे3ष्य । श्रोषट्‌---`अस्तु श्रौ3षट्‌(तै.1-6-11-1) । वौषट्‌--`सोमस्याग्ने वीहि3वौ3षट्‌(ऐ.ब्रा.4-5-4-6) । आवह---`अग्निमा3वह(तै.ब्रा.3-5-1-2) ।
`आवह देवान्यजमानाय(तै.ब्रा.3-5-3-2)---इत्येवमादावयं प्लुतो न भवति; `सर्वे विधयश्छन्दसि विकल्प्यन्ते(पु.प.35) इति ।।
</8-2-91>
अग्नीत्प्रेषणे परस्य च ।। <8-2-92> ।।
अग्नीधः प्रेषणम्=अग्नीत्प्रेषणम्, तस्मादेवादेः प्लुतो भवति परस्य च । `आ3 श्रा3वय(तै.1-6-11-2) । ओ3श्रा3वय ।
अत्रैवायं प्लुत इष्यते । तेनेह न भवति---`अग्नीदग्नीन्विहर बर्हिस्तृणीहि(तै.6-3-1-2)इति । तदर्थं केचिद्वक्ष्यमाणं `विभाषा इत्यभिसम्बध्नन्ति, सा च व्यवस्थितविभाषेति । अपर आह---`सर्व एव प्लुतः साहसमनिच्छता विभाषा विज्ञेयः(म.भा.3-420) इति ।
इह तु---उद्धर3 उद्धर, अभिहर3 अभिहरेति छान्दसः प्लुतव्यत्ययः ।
`यज्ञकर्मणि इत्येव---ओ श्रावय ।।
</8-2-92>
विभाषा पृष्टप्रतिवचने हेः ।। <8-2-93> ।।
पृष्टप्रतिवचने विभाषा हेः प्लुतो भवति । अकार्षीः कटं देवदत्त ? अकार्षं हि3, अकार्षं हि । अलावीः केदारं देवदत्त ? अलाविषं हि3, अलाविषं हि ।
पृष्टप्रतिवचन इति किम् ? कटं करिष्यति हि । हेरिति किम् ? करोमि ननु ।।
</8-2-93>
निगृह्यानुयोगे च ।। <8-2-94> ।।
स्वमतात्प्रच्यावनम्=निग्रहः । अनुयोगः=तस्य मतस्याविष्करणम् । तत्र निगृह्यानुयोगे यद्वाक्यं वर्त्तते तस्य टेः प्लुतो भवति विभाषा । `अनित्यः शब्दः इति केनचित्प्रतिज्ञातम्, तमुपालिप्सुरुपपत्तिभिर्निगृह्या
साभ्यसूयमनुयुङ्‌क्ते---अनित्यः शब्द इत्यात्थ3, अनित्यः शब्द इत्यात्थ । अद्य श्राद्धमित्यात्थ3, अद्य श्राद्धमित्यात्थ । अद्यामावास्येत्यात्थ3, अद्यामावास्येत्यात्थ । अद्य अमावास्येत्येवं वादी युक्त्या प्रच्याव्य स्वमतादेवमनुयुज्यते ।।
</8-2-94>
आम्रेडितं भर्त्सने ।। <8-2-95> ।।
वाक्यादेरामन्त्रितस्य(8-1-8/2143) इति भर्त्सने द्विर्वचनमुक्तम्, तस्याम्रेडितं प्लवते । चौरचौर3, वृषलवृषल3, दस्योदस्यो3, घातयिष्यामि त्वा बन्धयिष्यामि त्वा ।

  • भर्त्सने पर्यायेणेति वक्तव्यम् * । चौर3चौर । चौरचौर3 । तदर्थमाम्रेडितग्रहणं द्विरुक्तोपलक्षणार्थं वर्णयन्ति ।।

</8-2-95>
अङ्गयुक्तं तिङाकाङ्‌क्षम् ।। <8-2-96> ।।
`अङ्ग इत्यनेन युक्तं तिङन्तमाकाङ्‌क्षं भर्त्सने प्लवते । अङ्ग कूज3, अङ्ग व्याहर3, इदानीं ज्ञास्यसि जाल्म ।
तिङिति किम् ? अङ्ग देवदत्त मिथ्या वदसि । आकाङ्‌क्षमिति किम् ? अङ्ग पच । नैतदपरमाकाङ्‌क्षति ।
`भर्त्सने इत्येव---अङ्गाधीष्व ओदनं ते दास्यामि ।।
</8-2-96>
विचार्यमाणानाम् ।। <8-2-97> ।।
प्रमाणेन वस्तुपरीक्षणम्=विचारः, तस्य विषये विचार्यमाणानां वाक्यानां टेः प्लुतो भवति । `होतव्यं दीक्षितस्य गृहा3इ(तै.6-1-4-5) । होतव्यं न होतव्यमिति विचार्यते । तिष्ठेद्यूपा3इ । अनुप्रहरेद्यूपा3इ । यूपे तिष्ठेत्‌, यूपे अनुप्रहरेदिति विचार्यते ।।
</8-2-97>
पूर्वं तु भाषायाम् ।। <8-2-98> ।।
भाषायां विषये विचार्यमाणानां पूर्वमेव प्लवते । अहिर्नु3 रज्जुर्नु3 । लोष्टो नु3 । कपोतो नु । प्रयोगापेक्षं पूर्वत्वम् ।
इह भाषाग्रहणात् पूर्वयोगश्छन्दसि विज्ञायते ।।
</8-2-98>
प्रतिश्रवणे च ।। <8-2-99> ।।
प्रतिश्रवणम्=अभ्युपगमः, प्रतिज्ञानम् । श्रवणाभिमुख्यं च तत्राविशेषात् सर्वस्य ग्रहणम् । प्रतिश्रवणे यद्वाक्यं वर्तते तस्य टेः प्लुतो भवति । गां मे देहि भोः, अहं ते ददामि3 । नित्यः शब्दो भवितुमर्हति, देवदत्त भोः किमात्थ3 ।।
</8-2-99>
अनुदात्तं प्रश्नान्ताभिपूजितयोः ।। <8-2-100> ।।
अनुदात्तः प्लुतो भवति प्रश्नान्ते, अभिपूजिते च । अगम3: पूर्वा3न् ग्रामा3न् अग्निभूता3इ, पटा3 उ ?
अगनिभूते, पटो---इत्येतयोः प्रश्नान्ते वर्त्तमानयोरनुदात्तः प्लुतो भवति ।
`अगमः इत्येवमादीनां तु अनन्त्यस्यापि प्रश्नाख्यानयोः(8-2-105/3624) इति स्वरितः प्लुतो भवति ।
अभिपूजिते---शोभनः खल्वसि माणवक3 ।
</8-2-100>
चिदिति चोपमार्थे प्रयुज्यमाने ।। <8-2-101> ।।
`अनुदात्तम् इति वर्त्तते । `चित्‌---इत्येतस्मिन्निपाते उपमार्थे प्रयुज्यमाने वाक्यस्य टेरनुदात्तः प्लुतो भवति । प्लुतोऽप्यत्र विधीयते, न गुणमात्रम् । अग्निचिद्भाया3त् । राजचिद्भायात्3 । अग्निरिव भायात्, राजेव भायादित्यर्थः ।
उपमार्थे इति किम् ? कथञ्चिदाहुः । प्रयुज्यमान इति किम् ? अग्निर्माणवको भायात् ।।
</8-2-101>
उपरिस्विदासीदिति च ।। <8-2-102> ।।
`अनुदात्तम् इति वर्त्तते । `उपरिस्विदासीत्---इत्येतस्य टेरनुदात्तः प्लुतो भवति । `अधः स्विदासी3त् उपरिस्विदासी3त्(तै.ब्रा.2-8-95) ।
अधः स्विदासीत्---इत्यत्र विचार्यमाणानाम्(8-2-97/3616) इत्युदात्तः प्लुतः । उपरिस्विदासीत्---इत्यत्र तु अनेनानुदात्तः ।।
</8-2-102>
स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु ।। <8-2-103> ।।
स्वरितः प्लुतो भवति आम्रेडिते परतः असूयायाम्, सम्मतौ, कोपे, कुत्सने च गम्यमाने । वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु(8-1-8/2143) इत् द्विर्वचनमुक्तम्, तत्रायं प्लुतविधिः ।
असूयायां तावत्---माणवक3माणवक अभिरूपक3अभिरूपक रिक्तं त आभिरूप्यम् ।
सम्मतौ---माणवक3माणवक अभिरूपक3अभिरूपक शोभनः खल्वसि ।
कोपे---माणवक3माणवक अविनीतक3अविनीतक इदानीं ज्ञास्यसि जाल्म ।
कुत्सने---शाक्तीक3शाक्तीक याष्टीक3याष्टीक रिक्ता ते शक्तिः ।

  • असूयादिषु वावचनं कर्त्तव्यम् * (म.भा.3-420)। माणवक माणवक---इत्येवमाद्यपि यथा स्यात् ।।

</8-2-103>
क्षियाशीः प्रैषेषु तिङाकाङ्‌क्षम् ।। <8-2-104> ।।
`स्वरित इति वर्तते । क्षिया=आचारभेदः, आशीः=प्रार्थनाविशेषः, शब्देन व्यापारणम्=प्रैषः---एतेषु गम्यमानेषु तिङन्तमाकाङ्‌क्षं यत्तस्य स्वरितः प्लुतो भवति । आकाङ्‌क्षतीत्याकाङ्‌क्षम्, तिङन्तमुत्तरपदमाकाङ्‌क्षतीत्यर्थः ।
क्षियायां तावत्---स्वयं रथेन याति3 उपाध्यायं पदातिं गमयतीति । स्वयं ओदनं ह भुङ्‌क्ते 3 उपाध्यायं सक्तून्पाययति । पूर्वमत्र तिङन्तमुत्तरपदमाकाङ्‌क्षतीति साकाङ्‌क्षं भवति ।
आशिषि---सुताँश्च लप्सीष्ट3 धनं च तात । छन्दोऽध्येषीष्ट3 व्याकरणं च भद्र ।
प्रैषे---कटं कुरु3 ग्रामं च गच्छ । यवान् लुनीहि3 सक्तूंश्च पिब ।
आकाङ्‌क्षमिति किम् ? दीर्घं ते आयुरस्तु । अग्नीन्विहर ।।
</8-2-104>
अनन्त्यस्यापि प्रश्नाख्यानयोः ।। <8-2-105> ।।
पदस्येति वर्तते, स्वरितमिति च । अनन्त्यस्यापि अन्त्यस्यापि पदस्य टेः प्लुतो भवति प्रश्ने, आख्याने च । अगम3: पूर्वा3न्‌ ग्रामा3न् अग्निभूत3इ । पट3उ । सर्वेषामेव पदानामेष स्वरितः प्लुतः । अन्त्यस्य अनुदात्तं प्रश्नान्ताभिपूजितयोः(8-2-100/3619) इति । अनुदात्तोऽपि पक्षे भवति ।
आख्याने---अगम3: पूर्वा3न् ग्रामा3न् भोः3 ।।
</8-2-105>
प्लुतावैच इदुतौ ।। <8-2-106> ।।
दूराद्धूतादिषु प्लुतो विहितः, तत्र ऐचः प्लुतप्रसङ्गे तदवयवभूताविदुतौ प्लुतौ । ऐ3तिकायन । औ3पमन्यव । अत्र यदेवर्णोवर्णयोः, अवर्णस्य च समविभागः, तदा इदुतौ द्विमात्रावनेन प्लुतौ क्रियेते ।
`प्लुतौ इति हि क्रियानिमित्तोऽयं व्यपदेशः---इदुतौ प्लवेते, वृद्धिं गच्छत इत्यर्थः । तावती च सा प्लुतिर्भवति, यया तावेचौ त्रिमात्रौ सम्पद्येते ।
यदा त्वर्धमात्रावर्णस्याध्यर्धमात्रा इवर्णोवर्णयोः, तदा तावर्धतृतीयमात्रौ क्रियेते इति ।
भाष्ये तूक्तम्---`इष्यते एव चतुर्मात्रः प्लुतः(म.भा.3-421) इति । तत्कथम् ? समप्रविभागपक्षे इदुतोरनेन त्रिमात्रः प्लुतो विधीयते ।।
</8-2-106>
एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ ।। <8-2-107> ।।
एचोऽप्रगृह्यस्यादूराद्धूते प्लुतविषयस्यार्धस्याकार आदेशो भवति स च प्लुतः, उत्तरस्येकारोकारावादेशौ भवतः ।
विषयपरिगणनं कर्त्तव्यम्---

  • प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्विति वक्तव्यम् * (म.भा.3-421)। प्रश्नान्ते---अगम3: पूर्वा3न् ग्रामा3न्‌ अग्निभूता3इ, पटा3उ । अभिपूजिते---भद्रं करोषि माणवक3 अग्निभूता3इ ,पटा3उ । विचार्यमाणे---`होतव्यं दीक्षितस्य गृहा3इ(तै.6-1-4-5) । प्रत्यभिवादे---आयुष्मानेधि अग्निभूता3इ ,पटा3उ । याज्यान्ते---`उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे। स्तोमैर्विधेमाग्नया3इ(ऋ.8-43-11) ।

सोऽयमाकारः प्लुतो यथाविषयमुदात्तः, अनुदात्तः, स्वरितो वेदितव्यः । इदुतौ पुनरुदात्तावेव भवतः ।
परिगणनं किम् ? विष्णुभूते विष्णुभूते3 घातयिष्यामि त्वा । आगच्छ भो माणक विष्णुभूते ।
परिगणने च सति `अदूराद्धूते इति न वक्तव्यम् ।
पदान्तग्रहणं तु कर्त्तव्यम् । इह मा भूत्‌---भद्रं करोषि गौरिति ।
अप्रगृह्यस्येति किम् ? शोभने खलु स्तः खट्‌वे3 ।

  • आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः * (म.भा.3-422)। `अग्ना3इ पत्नीव3:(वा.सं.8-10) ।

</8-2-107>
तयोर्य्वावचि संहितायाम् ।। <8-2-108> ।।
तयोरिदुतोर्यकारवकारादेशौ भवतोऽचि संहितायां विषये ।
`संहितायाम् इत्येतच्चाधिकृतम् । इत उत्तरमाध्यायपरिसमाप्तेर्यद्वक्ष्यामः संहितायामित्येवं तद्वेदितव्यम् ।
अग्ना3याशा । पटा3वाशा । अग्ना3यिन्द्रम् । पटा3वुदकम् ।
अचीति किम् ? अग्ना3इ । पटा3उ ।
संहितायामिति किम् ? अग्ना3इ इन्द्रम् । पटा3उ । उदकम् ।
इदुतोरसिद्धत्वात् इको यणचि(6-1-77/47) इति न प्राप्नोतीत्ययमारम्भः ।
अथापि कथञ्चित्तयोः सिद्धत्वं स्यात् ? एवमपि सवर्णदीर्घत्व(6-1-101/85)निवृत्त्यर्थम्, शाकल(6-1-127/91)निवृत्त्यर्थं च वक्तव्यमेतत् ।
अथापि तन्निवृत्त्यर्थं यत्नान्तरमस्ति ? तथापि यण्स्वरनिवृत्त्यर्थमिदमारभ्यते । यणादेशस्यासिद्धत्वात् उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य(8-2-4/3657) इत्येष स्वरो न भवति ।।
`किं नु यणा भवतीह न सिद्धं य्वाविदुतोर्यदयं विदधाति ।
तौ च मम स्वरसन्धिषु सिद्धौ शाकलदीर्घविधी तु निवर्त्यौ ।।
इक्तु यदा भवति प्लुतपूर्वस्तस्य यणं विदधात्यपवादम् ।
तेन तयोश्च न शाकलदीर्घौ यण्स्वरबाधनमेव तु हेतुः ।।(म.भा.3-423)
इति श्रीवामनाचार्यविरचितायां काशिकावृत्तौ
               अष्टमाध्यायस्य द्वितीयः पादः
</8-2-108>