काशिका/चतुर्थोऽध्यायः/द्वितीयः पादः

            * अथ चतुर्थाध्याये द्वितीयः पादः *
तेन रक्तं रागात्‌ ।। 4-2-1 ।।
शुक्लस्य वर्णान्तरापादनमिह रञ्जेरर्थः । रज्यतेऽनेनेति रागः । तेनेति तृतीयासमर्थाद्रागविशेषवाचिनः शब्दात्‌ `रक्तम् इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । कषायेण रक्तं वस्त्रं काषायम् । माञ्जिष्ठम् । कौसुम्भम् ।
रागादिति किम् ? देवदत्तेन रक्तं वस्त्रम् ।
कथं काषायौ कर्णौ, हारिद्रौ कुक्कुटस्य पादाविति ? उपमानाद्भविष्यति - काषायाविव काषायौ, हारिद्राविव हारिद्रौ । द्वैपवैयाघ्रादञ्‌(4-2-12/1213) इति यावत्तृतीयासमर्थविभक्तिरनुवर्त्तते ।।
लाक्षारोचनाशकलकर्दमाट्ठक्‌ ।। 4-2-2 ।।
लाक्षादिभ्यो रागवचनेभ्यस्तृतीयासमर्थभ्यः `रक्तम् इत्येतस्मिन्नर्थे ठक्‌ प्रत्ययो भवति । अणोऽपवादः । लाक्षया रक्तं वस्त्रं लाक्षिकम् । रौचनिकम् । शाकलिकम् । कार्दमिकम् ।

  • शकलकर्दमाभ्यामणपीष्यते *(म.भा.2.270) । शाकलम् । कार्दमम् ।
  • नील्या अन्‌ वक्तव्यः * (म.भा.2.271)। नील्या रक्तं नीलं वस्त्रम् ।
  • पीतात्‌ कन्‌ वक्तव्यः * (म.भा.2.271)। पीतेन रक्तं पीतकम् ।
  • हरिद्रामहारजनाभ्यामञ्वक्तव्यः * (म.भा.2.271)। हारिद्रम् । माहारजनम् ।।

नक्षत्रेण युक्तः कालः ।। 4-2-3 ।।
तृतीया समर्थविभक्तिरनुवर्तते । तेनेति तृतीयासमर्थाद्‌ नक्षत्रविशेषवाचिनः शब्दाद्‌ `युक्तः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । योऽसौ युक्तः, कालश्चेत्स भवति ।
कथं पुनर्नक्षत्रेण पुष्यादिना कालो युज्यते ? पुष्यादिसमीपस्थे चन्द्रमसि वर्तमानाः पुष्यादिशब्दाः प्रत्ययमुत्पादयन्ति । पुष्येण युक्तः कालः । पुष्यसमीपस्थेन चन्द्रमसा युक्त इत्यर्थः । पौषी रात्रिः । पौषमहः । माघी रात्रिः । माघमहः ।
(म.भा.2.272)नक्षत्रेणेति किम् ? चन्द्रमसा युक्ता रात्रिः । काल इति किम् ? पुष्येण युक्तश्चन्द्रमाः ।।
लुबविशेषे ।। 4-2-4 ।।
पूर्वेण विहितस्य प्रत्ययस्य लुब्‌ भवति अविशेषे । न चेन्नक्षत्रयुक्तस्य कालस्य रात्र्यादिविशेषोऽभिधीयते । यावान्‌ कालो नक्षत्रेण युज्यतेऽहोरात्रस्तस्याविशेषे लुब्‌ भवति । अद्य पुष्यः । अद्य कृत्तिकाः ।
अविशेष इति किम् ? पौषी रात्रिः। पौषमहः ।।
संज्ञायां श्रवणाश्वत्थाभ्याम् ।। 4-2-5 ।।
अविशेषे लुब्विहितः पूर्वेण, विशेषार्थोऽयमारम्भः । श्रवणशब्दादश्वत्थशब्दाच्चोत्पन्नस्य प्रत्ययस्य लुब्‌ भवति संज्ञायां विषये । श्रवणा रात्रिः । अश्वत्थो मुहूर्त्तः ।
लुपि युक्तवद्भावः कस्मान्न भवति ? निपातनाद्‌ विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः(4-2-23/1225) इति ।
संज्ञायामिति किम् ? श्रावणी, आश्वत्थी रात्रिः ।।
द्वन्द्वाच्छः ।। 4-2-6 ।।
नक्षत्रद्वन्द्वात्तृतीयासमर्थाद्युक्ते काले छः प्रत्ययो भवति, विशेषे चाविशेषे च । राधानुराधीया रात्रिः । तिष्यपुनर्वसवीयमहः । अविशेषे - अद्य राधानुराधीयम् । अद्य तिष्यपुनर्वसवीयम् । लुपं परत्वाद्‌ बाधते ।।
दृष्टं साम ।। 4-2-7 ।।
तेनेति तृतीयासमर्थाद्‌ `दृष्टं साम इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । यद्‌ दृष्टं साम चेत्तद्भवति । क्रुञ्चेन दृष्टं क्रौञ्चं साम । वासिष्ठम् । वैश्वामित्रम् ।।
कलेर्ढक्‌ ।। 4-2-8 ।।
कलिशब्दात्तृतीयासमर्थाद्‌ `दृष्टं साम इत्येतस्मिन्नर्थे ढक्‌ प्रत्ययो भवति । अणोऽपवादः । कलिना दृष्टं
साम कालेयम् ।

  • सर्वत्राग्निकलिभ्यां ढग्वक्तव्यः * (म.भा.2.273)।। अग्निना दृष्टमाग्नेयम् । एवमग्नौ भवम्, अग्नेरागतम्, अग्नेः स्वम् - इति सर्वत्र ढगेव भवति । आग्नेयम्, तथा कालेयमपि प्रतिपत्तव्यम् ।
  • दृष्टे सामनि अण्वा डिद्भवतीति वक्तव्यम् * (म.भा.2.273)। उशनसा दृष्टं साम औशनसम्, औशनम् ।
  • जाते चार्थे योऽन्येन बाधितः पुनरण्विधीयते स वा डिद्भवतीति वक्तव्यम् * (म.भा.2.273)। प्राग्दीव्यतोऽण्‌(4-1-83/1073) प्राप्तः कालठञा(4-3-11/1381) बाधितः सन्धिवेलाद्यृतुनक्षत्रेभ्यः(4-3-16/1387) इति पुनर्विधीयते, स वा डिद्भवतीति वक्तव्यम् । शतभिषजि जातः शातभिषः, शातभिषजः ।
  • तीयादीकक् स्वार्थे वा वक्तव्यः * (म.भा.2.273)। द्वैतीयीकम्, तार्तीयीकम् । द्वितीयकम्, तृतीयकम् ।
  • न विद्यायाः * (म.भा.2.273)। द्वितीया, तृतीया विद्या ।
  • गोत्रादङ्कवदिष्यते * (म.भा.2.273)। दृष्टं सामेत्यस्मिन्नर्थे । औपगवेन दृष्टं साम औपगवकम् । कापटवकम् । गोत्रचरणाद्‌ वुञ्‌(4-3-126/1506) भवति ।

`दृष्टे सामनि जाते च द्विरण्डिद्वा विधीयते ।
तीयादीकक्‌ न विद्याया गोत्रादङ्कवदिष्यते ।।(म.भा.2.273)
वामदेवाड्‌ ड्यड्‌ड्यौ ।। 4-2-9 ।।
वामदेवशब्दात्तृतीयासमर्थाद्‌ `दृष्टं साम इत्येतस्मिन्नर्थे ड्यत्‌, ड्य इत्येतौ प्रत्ययौ भवतः । अणोऽपवादः । वामदेवेन दृष्टं साम वामदेव्यं साम । तित्करणं स्वरार्थम् ।
डित्करणं किमर्थम् ? ययतोश्चातदर्थे(6-2-156/3890) इति नञ उत्तरस्यान्तोदात्तत्वे विधीयमानेऽनयोर्ग्रहणं मा भूत्‌ । अननुबन्धकग्रहणपरिभाषया एकानुबन्धकग्रहणपरिभाषया चानयोर्निवृत्तिः क्रियते । अवामदेव्यम् ।
`सिद्धे यस्येति लोपेन किमर्थं ययतौ डितौ ।
ग्रहणं माऽतदर्थे भूद्वामदेव्यस्य नञ्स्वरे ।।(म.भा.2.274)
परिवृतो रथः ।। 4-2-10 ।।
तेनेति तृतीयासमर्थात्‌ `परिवृतः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, योऽसौ परिवृतो रथश्चेत्स भवति । वस्त्रेण परिवृतो रथः वास्त्रो रथः । काम्बलः । चार्मणः ।
रथ इति किम् ? वस्त्रेण परिवृतः कायः । समन्ताद्वेष्टितः परिवृत उच्यते । यस्य न कश्चिदवयवो वस्त्रादिभिर्वेष्टितः तत्र न भवति । तेनेह न - छात्त्रैः परिवृतो रथः ।।
पाण्डुकम्बलादिनिः ।। 4-2-11 ।।
पाण्डुकम्बलशब्दात्तृतीयासमर्थात्‌ `परिवृतो रथः इत्येतस्मिन्नर्थे इनिः प्रत्ययो भवति । अणोऽपवादः । पाण्डुकम्बली, पाण्डुकम्बलिनौ, पाण्डुकम्बलिनः । पाण्डुकम्बलशब्दो राजास्तरणस्य वर्णकम्बलस्य वाचकः ।
मत्वर्थीयेनैव सिद्धे वचनमणो निवृत्त्यर्थम् ।
द्वैपवैयाघ्रादञ्‌ ।। 4-2-12 ।।
द्वीपिव्याघ्रयोर्विकारभूते चर्मणी द्वैपवैयाघ्रे, ताभ्यां तृतीयासमर्थाभ्याम्‌ `परिवृतो रथः इत्येतस्मिन्नर्थेऽञ्‌ प्रत्ययो भवति । अमोऽपवादः । स्वरे विशेषः । द्वैपेन परिवृतो रथो द्वैपः । वैयाघ्रः ।।
कौमारापूर्ववचने।। 4-2-13 ।।
`कौमार इत्येतदण्प्रत्ययान्तं निपात्यतेऽपूर्ववचने । पाणिग्रहणस्यापूर्ववचनम् । उभयतः स्त्रियाम् अपूर्वत्वे निपातनमेतत् । अपूव्बपतिं कुमारीं पतिरुपपन्नः कौमारः पतिः । कुमारीशब्दाद्‌ द्वितीयासमर्थादुपयन्तरि प्रत्ययः । `अपूर्वपतिः कुमारी पतिमुपपन्ना कौमारी भार्या(म.भा.2.274) । प्रथमान्तादेव स्वार्थे प्रत्ययोऽपूर्वत्वे द्योत्ये ।
`कौमारापूर्ववचने कुमार्या अण्विधीयते ।
अपूर्वत्वं यदा तस्याः कुमार्यां भवतीति वा ।।(म.भा.2.275)
कुमार्यां भवः कौमारः पतिः, तस्य स्त्री कौमारी भार्येति सिद्धम् ।।
तत्रोद्‌धृतममत्रेभ्यः ।। 4-2-14 ।।
तत्रेति सप्तमीसमर्थादत्रवाचिनः शब्दात्‌ `उद्धृतम्‌ इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । भुक्तोच्छिष्टमुद्धृतमुच्यते, यस्योद्धरणमिति प्रसिद्धिः । अमत्रम् = भाजनं पात्रमुच्यते । शरावेषूद्धृतः शाराव ओदनः । माल्लिकः । कार्परः ।
अमत्रेभ्य इति किम् ? पाणावुद्धृत ओदनः । `तत्र इति सप्तमी समर्थविभक्तिः क्षीराड्ढञ्‌(4-2-20/1222) इति यावदनुवर्त्तते ।।
स्थण्डिलाच्छयितरि व्रते ।। 4-2-15 ।।
स्थण्डिलशब्दात्सप्तमीसमर्थात्‌ शयितर्यभिधेये यथाविहितं प्रत्ययो भवति, समुदायेन चेद्‌ व्रतं गम्यते । व्रतमिति शास्त्रितो नियम उच्यते । स्थण्डिले शयितुं व्रतमस्य स्थाण्डिलो भिक्षुः । स्थाण्डिलो ब्रह्मचारी ।
व्रत इति किम् ? स्थण्डिले शेते ब्रह्मदत्तः ।।
संस्कृतं भक्षाः ।। 4-2-16 ।।
तत्रेति सप्तमीसमर्थात्‌ `संस्कृतम् इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति यत्संस्कृतं भक्षाश्चेत्ते भवन्ति । खरविशदमभ्यवहारार्थं `भक्षम् इत्युच्यते । सत उत्कर्षाधानम् = संस्कारः । भ्राष्टे संस्कृता भक्षा भ्राष्ट्रा अपूपाः । कालशाः । कौम्भाः ।
भक्षा इति किम् ? पुष्पपुटे संस्कृतो मालागुणः ।।
शूलोखाद्यत् ।। 4-2-17 ।।
शूलशब्दादुखाशब्दाच्च सप्तमीसमर्थात्‌ `संस्कृतं भक्षाः इत्येतस्मिन्नर्थे यत्‌ प्रत्ययो भवति । अणोऽपवादः । शूले संस्कृतं शूल्यं मांसम् । उख्यम् ।।
दध्नष्ठक्‌ ।। 4-2-18 ।।
दधिशब्दात्सप्तमीसमर्थात्‌ `संस्कृतं भक्षाः इत्येतस्मिन्नर्थे ठक्‌ प्रत्ययो भवति । दधनि संस्कृतं दाधिकम् ।
ननु च संस्कृतार्थे प्राग्वहतेष्ठकं वक्ष्यति, तेनैव सिद्धम् ? न सिद्ध्यति; दध्ना हि तत्संस्कृतं तस्य दघिकृतमेवोत्कर्षाधानम्, इह तु दधि केवलमाधारभूतं द्रव्यान्तरेण लवणादिना संस्कारः क्रियते ।।
उदश्वितोऽन्यतरस्याम् ।। 4-2-19 ।।
उदश्विच्छब्दात्सप्तमीसमर्थात्‌ `संस्कृतं भक्षाः इत्येतस्मिन्नर्थेऽन्यतरस्यां ठक्‌ प्रत्ययो भवति । पक्षे यथाप्राप्तमण्‌ भवति । औदश्वितम् । औदश्वित्कम् ।
क्षीराड्‌ढञ्‌ ।। 4-2-20 ।।
क्षीरशब्दात्सप्तमीसमर्थात्‌ `संस्कृतं भक्षा इत्येतस्मिन्नर्थे ढञ्‌ प्रत्ययो भवति । अणोऽपवादः । क्षीरे संस्कृता क्षैरेयी यावागूः ।।
सास्मिन्पौर्णमासीति सञ्ज्ञायाम् ।। 4-2-21 ।।
सेति प्रथमासमर्थाद्‌ `अस्मिन्‌ इति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत्तत्प्रथमासमर्थं पौर्णमासी चेद्भवति । इतिकरणस्ततश्चेद्विवक्षा भवति । `संज्ञायाम् इति समुदायोपाधिः - प्रत्ययान्तेन चेत्संज्ञा गम्यत इति । मासार्धमाससंवत्सराणामेषा संज्ञा । पौषी पौर्णमासी अस्मिन्पौषो मासः । पौषोऽर्धमासः । पौषः संवत्सरः ।
इह न भवति - पौषी पौर्णमासी अस्मिन्दशरात्र इति । भृतकमासे च न भवति (म.भा.2.275)।
इतिकरणस्य संज्ञाशब्दस्य च तुल्यमेव फलं प्रयोगानुसरणं, तत्र किमर्थं द्वयमुपादीयते ? संज्ञाशब्देन तुल्यतामितिकरणस्य ज्ञापयितुम्, न ह्ययं लोके तथा प्रसिद्धः । संज्ञार्थत्वे तु सम्प्रति ज्ञापिते यत्तत्र तत्रोच्यते इतिकरणस्ततश्चेद्विवक्षेति तदुपपन्नं भवति ।
अथ पौर्णमासीति कोऽयं शब्दः ? पूर्णमासादण्‌, पौर्णमासी । अथ वा - पूर्णो माः पूर्णमाः, पूर्णमास इयं पौर्णमासी । मा इति चन्द्र उच्यते ।।
आग्रहायण्यश्वथाट्‌ठक्‌ ।। 4-2-22 ।।
`सास्मिन्पौर्णमासी इति सर्वमनुवर्तते । आग्रहायणीशब्दादश्वत्थशब्दाच्च प्रथमासमर्थात्पौर्णमास्युपाधिकाद्‌ अस्मिन्निति सप्तम्यर्थे ठक्‌ प्रत्ययो भवति । अणोऽपवादः । आग्रहायणिको मासः । अर्द्धमासः संवत्सरः । एवम् - आश्वत्थिकः ।।
विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः ।। 4-2-23 ।।
फाल्गुन्यादयः पौर्णमासीशब्दास्तेभ्यो विभाषा ठक्‌ प्रत्ययो भवति, सास्मिन्पौर्णमासीति संज्ञायाम्(4-2-21/1223) इत्येतस्मिन्विषये । नित्यमणि प्राप्ते पक्षे ठग्विधीयते । फाल्गुनो मासः, फाल्गुनिकः । श्रावणः, श्रावणिकः । कार्त्तिकः, कार्त्तिकिकः । चैत्रः, चैत्रिकः ।।
सास्य देवता ।। 4-2-24 ।।
सेति प्रथमासमर्थात्‌ `अस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत्प्रथमासमर्थं देवता चेत्सा भवति । यागसम्प्रदानं देवता देयस्य पुरोडाशादेः स्वामिनी, तस्मिन्नभिधेये प्रत्ययः । इन्द्रो देवताऽस्य ऐन्द्रं हविः । आदित्यम् । बार्हस्पत्यम् । प्राजापत्यम् । देवतेति किम् ? कन्या देवताऽस्य । कथमैन्द्रो मन्त्रः ? मन्त्रस्तुत्यमपि देवतेत्युपचरन्ति ।
कथम् - आग्नेयो वै ब्राह्मणो देवतेति ? उपमानाद् भविष्यति । महाराजप्रोष्ठपदाट्ठञ्‌(4-2-35/1238) इति यावत्‌ `सास्य देवता इत्यधिकारः । सेति प्रकृते पुनः समर्थविभक्तिनिर्देशः संज्ञानिवृत्त्यर्थः ।।
कस्येत्‌ ।। 4-2-25 ।।
</>
कशब्दो देवतायां प्रजापतेर्वाचकः, ततः पूर्वेणैवाण्प्रत्ययः सिद्धः, इकारादेशार्थं वचनम् । कस्य इकारादेशो भवति प्रत्ययसन्नियोगेन । कायं हविः । `कायमेककपालं निर्वपेत्‌(मै.सं.<3-15-10>) ।।
शुक्राद्‌ घन्‌ ।। 4-2-26 ।।
शुक्रशब्दात्‌ `सास्य देवता इत्यस्मिन्नर्थे घन्‌ प्रत्ययो भवति । अणोऽपवादः । शुक्रियं हविः । शुक्रियोऽध्यायः ।।
अपोनत्त्रपान्नप्तृभ्यां घः ।। 4-2-27 ।।
अपोनप्तृ, अपान्नप्तृ - इत्येताभ्यां घः प्रत्ययो भवति `सास्य देवता इत्यस्मिन्विषये । अणोऽपवादः । `अपोनप्त्रियं हविः(श.ब्रा.29.12), अपांनप्त्रियम् ।
अपोनपाद्‌, अपांनपादिति देवताया नामधेये एते, तयोस्तु प्रत्ययसन्नियोगेन रूपमिदं निपात्यते ।।
छ च ।। 4-2-28 ।।
</3-15-10>
अपोनप्तृ, अपान्नप्तृ - इत्येताभ्यां छकारः प्रत्ययो भवति `सास्य देवता इत्यस्मिन्विषये । अणोऽपवादः । `अपोनप्त्रीयं हविः(आप.श्रौ.<22-22-2>) । `अपान्नप्त्रीयम्(काठ.सं.12.6) । योगविभागः सङ्ख्यातानुदेशपरिहारार्थः ।

  • छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसङ्ख्यानम् * (म.भा.2.276)।। पैङ्गाक्षीपुत्रीयम् । तार्णबिन्दवीयम् ।।

</22-22-2>

  • शतरुद्राच्छश्च घश्च * (म.भा.2.276)। `शतरुद्रीयम्(तै.सं.<5-4-3>.1)।`शतरुद्रियम्(मै.<3-3-4>) ।।

महेन्द्राद्‌ घाणौ च ।। 4-2-29 ।।
</5-4-3>
महेन्द्रशब्दाद्‌ घाणौ प्रत्ययौ भवतः, चकाराच्छश्च, `सास्य देवता इत्यस्मिन्विषये । महेन्द्रो देवतास्य महेन्द्रियं हविः । `माहेन्द्रम्(तै.सं.<6-5-5>.3) । `महेन्द्रीयम्(काठ.सं.15.1) ।।
सोमाट्‌ ट्यण्‌ ।। 4-2-30 ।।
</6-5-5>
शोमशब्दात्‌ ट्यण्प्रत्ययो भवति `सास्य देवता इत्यस्मिन्विषये । अणोऽपवादः । णकारो वृद्ध्यर्थः ।
टकारो ङीबर्थः । सोमो देवतास्य सौम्यं हविः । सौम्यं सूक्तम् । `सौमी ऋक्‌ (मै.<1-7-4>)।।
वाय्वृतुपित्रुषसो यत्‌ ।। 4-2-31 ।।
</1-7-4>
वाय्वादिभ्यः शब्देभ्यो यत्प्रत्ययो भवति `सास्य देवता इत्येतस्मिन्विषये । अणोऽपवादः । वायुर्देवतास्य वायव्यम् । ऋतव्यम् । `पित्र्यम्(ऋ.<8-20-13>) । उषस्यम् ।।
द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च ।। 4-2-32 ।।
</8-20-13>
द्यावापृथिव्यादिभ्यश्छः प्रत्ययो भवति चकाराद्यत्‌ `सास्य देवता इत्यस्मिन्विषये । अणो ण्यस्य चापवादः । द्यौश्च पृथिवी च द्यावापृथिव्यौ देवते अस्य `द्यावापृथिवीयम्(मै.<1-8-10>), `द्यावापृथिव्यम्(तै.सं.<1-8-2>.1) । शुनश्च सीरश्च तौ देवते अस्येति `शुनासीरीयम्(काठ.सं.26.4), `शुनासीर्यम्(मै.<4-3-3>) । शुनः = वायुः । सीर = आदित्यः । मरुत्वान्देवतास्य `मरुत्वतीयम्(तै.सं.<4-4-2>.2), मरुत्वत्यम् । `अग्नीषोमीयम्(तै.सं.<1-8-1>.1), अग्नीषोम्यम् । `वास्तोष्पतीयम्(तै.सं.<3-4-10>.3), `वास्तोष्पत्यम्(मै.<1-5-13>) । `गृहमेधीयम्(ऋ.<7-56-14>) । `गृहमेध्यम्(काठ.सं.36.9) ।।
अग्नेर्ढक्‌ ।। 4-2-33 ।।
अग्निशब्दाद् ढक्‌ प्रत्ययो भवति `सास्य देवता इत्येतस्मिन्विषये । अणोऽपवादः । अग्निर्देवतास्य `आग्नेयोऽष्टाकपालः(काठ.सं.8.10) ।

  • प्राग्दीव्यतीयेषु तद्धितार्थेषु सर्वत्राग्निकलिभ्यां ढग्वक्तव्यः * (म.भा.2.277)।।

कालेभ्यो भववत् ।। 4-2-34 ।।
कालविशेषवाचिभ्यः शब्देभ्यो भववत्प्रत्यया भवन्ति `सास्य देवता इत्यस्मिन्विषये । `कालाट्ठञ्‌ इति प्रकरणे भवे प्रत्यया विधास्यन्ते, ते `सास्य देवता इत्यस्मिन्नर्थे तथैवेष्यन्ते, तदर्थमिदमुच्यते ।
वत्करणं सर्वसादृश्यपरिग्रहार्थम् । मासे भवं मासिकम् । आर्द्धमासिकम् । सांवत्सरिकम् । वासन्तम् । प्रावृषेण्यम् । तथा - मासो देवतास्य मासिकम् । आर्धमासिकम् । सांवत्सरिकम् । वासन्तम् । प्रावृषेण्यम् ।
महाराजप्रोष्ठपदाट्ठञ्‌ ।। 4-2-35 ।।
महाराजशब्दात्प्रोष्ठपदशब्दाच्च ठञ्‌ प्रत्ययो भवति `सास्य देवता इत्यस्मिन्विषये । महाराजो देवतास्य माहाराजिकम् । प्रौष्ठपदिकम् ।

  • ठञ्प्रकरणे तदस्मिन्वर्तत इति नवयज्ञादिभ्य उपसङ्ख्यानम् *(म.भा.2.277) ।

नवयज्ञोऽस्मिन्वर्तते नावयज्ञिकः कालः । पाकयज्ञिकः ।।
</1-8-10>

  • पूर्णमासादण्‌ * (म.भा.2.277)। पूर्णमासोऽस्यां वर्तते `पौर्णमासी तिथिः(मै.<5-6-9>) ।।

पितृव्यमातुलमातामहपितामहाः ।। 4-2-36 ।।
पितृव्यादयो निपात्यन्ते । समर्थविभक्तिः, प्रत्ययः, प्रत्ययार्थोऽनुबन्ध इति सर्वं निपातनाद्विज्ञेयम् । * पितृमातृभ्यां भ्रातर्यभिधेये व्यत्‌, डुलच्‌ - इत्येतौ प्रत्ययौ निपात्येते *(म.भा.2.277) । पितुर्भ्राता पितृव्यः । मातुर्भ्राता मातुलः । * ताभ्यां पितरि डामहच् * (म.भा.2.277)। * मातरि षिच्च * । ताभ्यामेव पितरि डामहच्‌ प्रत्ययो भवति - पितुः पिताः पितामहः, मातुः पिता मातामहः । मातरि षिच्च - पितामही, मातामही ।

  • अवेर्दुग्धे सोढदूसमरीसचो वक्तव्याः * (म.भा.2.278)। अवेर्दुग्धम् अविसोढम् अविदूसम् । अविमरीसम् ।।
  • तिलान्निष्फलात्पिञ्जपेजौ प्रत्ययौ वक्तव्यौ *(म.भा.2.278) । निष्फलस्तिलः तिलपिञ्जः । तिलपेजः ।

</5-6-9>

  • पिञ्जश्छन्दसि डिच्च * (म.भा.2.278)। तिल्पिञ्जः ।। `तिलपिञ्जं दण्डनं नडम्(अ.वे.<12-2-54>)

तस्य समूहः ।। 4-2-37 ।।
`तस्य इति षष्ठीसमर्थात्‌ `समूहः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । किमिहोदाहरणम् ? चित्तवदाद्युदात्तमगोत्रं यस्य च नान्यत्प्रतिपदं ग्रहणम् । अचित्ताट्ठकं(4-2-47/1256) वक्ष्यति - अनुदात्तादेरञ्‌(4-2-44/1253), गोत्राद्वुञ्‌(4-2-39/1246), प्रतिपदं च केदाराद्यञ्च(4-2-40/1248) इत्येवमादि, तत्परिहारेणात्रोदाहरणं द्रष्टव्यम् । काकानां समूहः काकम् । सौकम् । बाकम् । इनित्रकट्यचश्च(4-2-51/1260) इति यावत्समूहाधिकारः ।

  • गुणादिभ्यो ग्रामज्वक्तव्यः * । गुणग्रामः । करणग्रामः । गुण । करण । तत्त्व । शब्द । इन्द्रिय । आकृतिगणः ।।

भिक्षादिभ्योऽण्‌ ।। 4-2-38 ।।
`भिक्षा इत्येवमादिभ्यः शब्देभ्योऽण्‌ प्रत्ययो भवति `तस्य समूहः इत्येतस्मिन्विषये । अण्ग्रहणं बाधकबाधनार्थम् । भिक्षाणां समूहो भैक्षम् । गार्भिणम् । युवतिशब्दोऽत्र पठ्यते, तस्य ग्रहणसामर्थ्याद्‌ पुंवद्भावो न भवति - `भस्याऽढे तद्धिते(6-3-35/836) इति । युवतीनां समूहो यौवतम् ।
भिक्षा । गर्भिणी । क्षेत्र । करीष । अङ्गार । चर्मिन्‌ । धर्मिन्‌ । सहस्र । युवति । पदाति । पद्धति । अथर्वन्‌ । दक्षिणा । भूत ।।
गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्‌ वुञ्‌ ।। 4-2-39 ।।
गोत्रादिभ्यो वुञ्प्रत्ययो भवति `तस्य समूहः इत्येतस्मिन्विषये । अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यतेऽपत्यमात्रं न तु पौत्रप्रभृत्येव । औपगवानां समूहः औपगवकम् । कापटवकम् । उक्षन्‌--औक्षकम् । उष्ट्र--औष्ट्रकम् । उरभ्र--औरभ्रकम् । राजन्‌--राजकम् । राजन्य--राजन्यकम् । राजपुत्र--राजपुत्रकम् । वत्स--वात्सकम् । मनुष्य--मानुष्यकम् । अज--आजकम् । `प्रकृत्याऽके राजन्यमनुष्ययुवानः(7-1-1/1247,वा.) इति चलोपो न भवति - आपत्यस्य च तद्धितेऽनाति(6-4-151/1082) इति ।

  • वृद्धाच्चेति वक्तव्यम् * (म.भा.2.278)। वृद्धानां समूहो वार्द्धकम् ।।

केदाराद्यञ्च ।। 4-2-40 ।।
केदारशब्दाद्‌ यञ्प्रत्ययो भवति, चकाराद्‌ वुञ्‌ च, `तस्य समूहः इत्येतस्मिन्विषये । अचित्तलक्षणस्य ठकोऽपवादः । केदाराणां समूहः कैदार्यम् । कैदारकम् ।

  • गणिकायाश्च यञ्वक्तव्यः * (म.भा.2.279)। गणिकानां समूहो गाणिक्यम् ।।

ठञ्‌ कवचिनश्च ।। 4-2-41 ।।
कवचिन्शब्दाट्ठञ्‌ प्रत्ययो भवति `तस्य समूहः इत्येतस्मिन्विषये । कवचिनां समूहः कावचिकम् ।
चकारः केदारादित्यस्यानुकर्षणार्थः - केदाराणां समूहः कैदारिकम् ।।
ब्राह्मणमाणववाडवाद्यन्‌ ।। 4-2-42 ।।
ब्राह्मणादिभ्यः शब्देभ्यो यन्प्रत्ययो भवति `तस्य समूहः इत्येतस्मिन्विषये । नकारः स्वरार्थः । ब्राह्मणानां समूहो ब्राह्मण्यम् । माणव्यम् । वाडव्यम् ।

  • यन्प्रकरणे पृष्ठादुपसङ्ख्यानम् * (म.भा.2.279)। पृष्ठानां समूहः पृष्ठ्यः षडहः ।
  • अह्नः खः क्रतौ * (म.भा.2.279)। अह्नां समूहः `अहीनः क्रतुः(काठ.सं.24.10) । क्रताविति किम् ? आह्नः । खण्डिकादिषु दर्शनादञ्भवति ।
  • पर्श्वा णस्वक्तव्यः * (म.भा.2.279)। पर्शूनां समूहः पार्श्वम् । पदसंज्ञकत्वाद्‌ गुणो न भवति ।
  • वातादूलः * । वातानां समूहो वातूलः ।।

ग्रामजनबन्धुसहायेभ्यस्तल्‌ ।। 4-2-43 ।।
ग्रामादिभ्यस्तल्प्रत्ययो भवति `तस्य समूहः इत्येतस्मिन्विषये । ग्रामाणां समूहः ग्रामता । जनता । बन्धुता । सहायता ।

  • गजाच्चेति वक्तव्यम् * (म.बा.2.279)। गजानां समूहो गजता ।।

अनुदात्तादेरञ्‌ ।। 4-2-44 ।।
अनुदात्तादेः शब्दादञ्प्रत्ययो भवति `तस्य समूहः इत्येतस्मिन्विषये । कपोतानां समूहः कापोतम् । मायूरम् । तैत्तिरम् ।।
खण्डिकादिभ्यश्च ।। 4-2-45 ।।
`खण्डिका इत्येवमादिभ्यः शब्देभ्योऽञ्‌ प्रत्ययो भवति `तस्य समूहः इत्येतस्मिन्विषये । आद्युदात्तार्थमचित्तार्थं च वचनम् । खण्डिकानां समूहः खाण्डिकम् । वाडवम् । क्षुद्रकमालवशब्दोऽत्र पठ्यते । क्षुद्रकाश्च मालवाश्चेति क्षत्त्रियद्वन्द्वः । ततः पूर्वेणैवाञि सिद्धे वचनं गोत्रवुञ्बाधनार्थम् ।
ननु च परत्वादञा वुञ्‌ बाधिष्यते, न च गोत्रसमुदायो गोत्रम्, न च तदन्तविधिरत्रास्ति ? एवं तर्हि एतज्‌ ज्ञापयति - वुञि पूर्वंविप्रतिषेधः, सामूहिकेषु च तदन्तविधिरस्तीति । प्रयोजनम् - औपगवकं कापटवमिति वुञ्‌ भवति, वानहस्तिकं गौधेनुकमिति च तदन्तविधिः ।
`क्षुद्रकमालवात्‌ इत्येतावता योगविभागेन पूर्वविप्रतिषेधस्तदन्तविधिश्च ज्ञापितः, पुनरस्यैव नियमार्थमुच्यते `सेनासंज्ञायाम् इति। क्षुद्रकमालवात्सेनासंज्ञायामेवाञ्भवति । क्षौद्रकमालवी सेना । क्षौद्रकमालवकमन्यत्‌ ।(म.भा.2.281)
`अञ्सिद्धिरनुदात्तादेः कोऽर्थः क्षुद्रकमालवात्‌ ।
गोत्राद्‌वुञ्‌ न च तद्‌गोत्रं तदन्तान्न च सर्वतः ।।
    ज्ञापकं स्यात्तदन्तत्वे तथा चापिशलेर्विधिः ।
सेनायां नियमार्थं च यथा बाध्येत चाञ्‌ वुञा ।।(म.भा.2.281)
खण्डिका । वडवा । * क्षुद्रकमालवात्सेनासंज्ञायाम् * (ग.सू.82)। भिक्षुक । शुक । उलूक । श्वन्। युग । अहन्‌ । वरत्रा । हलबन्ध ।।
चरणेभ्यो धर्मवत्‌ ।। 4-2-46 ।।
चरणशब्दाः कठकलापादयः, तेभ्यः षष्ठीसमर्थेभ्यः समूहे धर्मवत्‌ प्रत्यया भवन्ति । गोत्रचरणाद्‌ वुञ्‌(4-3-126/1506) इत्यारभ्य प्रत्यया वक्ष्यन्ते, तत्रेदमुच्यते - `चरणाद्धर्माम्नाययोः(4-3-126/1506) इति, तेन धर्मवदित्यतिदेशः क्रियते । वतिः सर्वसादृश्यार्थः । कठानां धर्मः काठकम् । कालापकम् । छान्दोग्यम् । औक्थिक्यम् । आथर्वणम् । तथा समूहेऽपि - काठकम् । कालापकम् । छान्दोग्यम् । औक्थिक्यम् । आथवर्णम् ।।
अचित्तहस्तिधेनोष्ठक्‌ ।। 4-2-47 ।।
अचित्तार्थेभ्यो हस्तिधेनुशब्दाभ्यां च ठक्‌ प्रत्ययो भवति `तस्य समूहः इत्येतस्मिन्विषये । अणञोरपवादः । अपूपानां समूह आपूपिकम् । शाष्कुलिकम् । हास्तिकम् । धैनुकम् ।

  • धेनोरनञ इति वक्तव्यम् * (म.भा.2.281)। आधेनवम् ।

केशाश्वाभ्यां यञ्छावन्यतरस्याम् ।। 4-2-48 ।।
केश, अश्व इत्येताभ्यां यथासङ्ख्यं यञ्‌, छ इत्येतौ प्रत्ययौ भवतोऽन्यतरस्याम् `तस्य समूहः इत्येतस्मिन्विषये । केशानां समूहः कैश्यम् । कैशिकम् । अश्वानां समूह आश्वम् । अश्वीयम् ।।
पाशादिभ्यो यः ।। 4-2-49 ।।
पाशादिभ्यो यः प्रत्ययो भवति `तस्य समूहः इत्येतस्मिन्विषये । पाशानां समूहः पाश्या । तृण्या ।
पाश । तृण । धूम । वात । अङ्गार । पोत । बालक । पिटक । पिटाक । शकट । हल । नड । वन ।।
खलगोरथात्‌ ।। 4-2-50 ।।
खलगोरथशब्देभ्यो यः प्रत्ययो भवति `तस्य समूहः इत्येतस्मिन्विषये । खलानां समूहः खल्या । गव्या । रथ्या ।
पाशादिष्वपाठ उत्तरार्थः ।।
इनित्रकट्यचश्च ।। 4-2-51 ।।
खलगोरथशब्देभ्यो यथासङ्ख्यम् `इनि `त्र `कट्यच्‌ इत्येते प्रत्यया भवन्ति `तस्य समूहः इत्येतस्मिन्विषये । खलिनी । गोत्रा । रथकट्या ।।

  • खलादिभ्य इनिर्वक्तव्यः * (म.भा.2.282)। डाकिनी । कुण्डलिनी । कुटुम्बिनी ।
  • कमलादिभ्यः कण्डच्‌ प्रत्ययो भवति * । कमलखण्डम् । अम्भोजखण्डम् ।

कमल । अम्भोज । पद्मिनी । कुमुद । सरोज । पद्म । नलिनी । कैरविणी । कमलादिराकृतिगणः ।।

  • नरकरितुरङ्गाणां स्कन्धच्‌ प्रत्ययः * । नरस्कन्धः । करिस्कन्धः । तुरङ्गस्कन्धः ।।
  • पूर्वादिभ्यः काण्डः प्रत्ययो भवति * । पूर्वकाण्डम् । तृणकाण्डम् । कर्मकाडम् ।।<विषयो देशे ।। 4-2-52 ।।

`समूहः इति निवृत्तम् । षष्ठी समर्थविभक्तिरनुवर्त्तते । तस्येति षष्ठीसमर्थाद्‌ `विषयः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, योऽसौ विषयो देशश्चेत्स भवति ।
विषयशब्दोऽयं बह्वर्थः । क्वचिद्‌ ग्रामसमुदाये वर्तते - विषयो लब्ध इति । क्वचिदिन्द्रियग्राह्ये - चक्षुर्विषयो रूपमिति । क्वचिदत्यन्तशीलिते ज्ञेये - देवदत्तस्य विषयोऽनुवाक इति । क्वचिदन्यत्राभावे - मत्स्यानां विषयो जलमिति । तत्र देशग्रहणं ग्रामसमुदायप्रतिपत्त्यर्थम् । शिबीनां विषयो देशः शैबः । औष्ट्रः ।
देश इति किम् ? देवदत्तस्य विषयोऽनुवाकः ।।
राजन्यादिभ्यो वुञ्‌ ।। 4-2-53 ।।
राजन्यादिभ्यः शब्देभ्यो वुञ्प्रत्ययो भवति `विषयो देशे इत्येतस्मिन्नर्थे । अणोऽपवादः । राजन्यानां विषयो देशः राजन्यकः । दैवयानकः । आकृतिगणश्चायम् । मालवानां विषयो देशः मालवकः । वैराटकः । त्रैगर्तकः ।
राजन्य । देवयान । शालङ्कायन । जालन्धरायण । आत्मकामेय । अम्बरीषपुत्र । वसाति । बैल्ववन । शैलूष । उदुम्बर । बैल्वत । आर्जुनायन । सम्प्रिय । दाक्षि । ऊर्णनाभ ।।
भौरिक्याद्यैषुकार्यादिभ्यो बिधल्भक्तलौ ।। 4-2-54 ।।
भौरिक्यादिभ्य ऐषुकार्यादिभ्यश्च यथासङ्ख्यं विधल्‌, भक्तल्‌ इत्येतौ प्रत्ययौ भवतः `विषयो देशे इत्येतस्मिन्विषये । अणोऽपवादः । भौरिकिविधः । वैपेयविधः । ऐषुकार्यादिभ्यः - ऐषुकारिभक्तः । सारस्यायनभक्तः ।
भौरिकि । वैपेय । भौलिकि । चैटयत । काणेय । वाणिजक । वालिज । वालिज्यक । शैकयत । वैकयत । इति भौरिख्यादिः ।।
ऐषुकारि । सारस्यायन । चान्द्रायण । द्व्याक्षायण । त्र्यायण । औडायन । जौलायन । खाडायन । सौवीर । दासमित्रि । दासमित्रायण । शौद्रायण । दाक्षायण । शयण्ड । तार्क्ष्यायण । शौभ्रायण । सायण्डि । शौण्डि । वैश्वमाणव । वैश्वधेनव । नद । तुण्डदेव । विशदेव ।।
सोऽस्यादिरितिच्छन्दसः प्रगाथेषु ।। 4-2-55 ।।
`सः इति समर्थविभक्तिः । `अस्य इति प्रत्ययार्थः । `आदिः इति प्रकृतिविशेषणम् । इतिकरणो विवक्षार्थः । `छन्दसः इति प्रकृतिनिर्देशः । `प्रागाथेषु इति प्रत्ययार्थविशेषणम् । `सः इति प्रथमासमर्थात्‌ `अस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत्प्रथमासमर्थं छन्दश्चेत्तदादिर्भवति, यत्तदस्येति निर्दिष्टं प्रगाथाश्चेत्ते भवन्ति । इतिकरणस्ततश्चेद्विवक्षा । पङ्‌क्तिरादिरस्य पाङ्‌क्तः प्रगाथः । आनुष्टुभः । जागतः ।
आदिरिति किम् ? अनुष्टुभ्मध्यमस्य प्रगाथस्य । छन्दस इति किम् ? उदुत्यशब्द आदिरस्य प्रगाथस्य । प्रगाथेष्विति किम् ? पङ्‌क्तिरादिरस्यानुवाकस्य । प्रगाथशब्दः क्रियानिमित्तकः क्वचिदेव मन्त्रविशेषे वर्तते । यत्र द्वे ऋचौ प्रग्रथनेन तिस्रः क्रियन्ते स प्रग्रथनात्प्रकर्षगानाद्वा `प्रगाथः इत्युच्यते ।।

  • छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसङ्ख्यानम् * (म.भा.2.283)। त्रिष्टुबेव त्रैष्टुभम् । जागतम् ।।

सङ्ग्रामे प्रयोजनयोद्‌धृभ्यः ।। 4-2-56 ।।
`सोऽस्य इति समर्थविभक्तिः, प्रत्यायार्थश्चानुवर्तते । प्रथमासमर्थविशेषणं प्रयोजनं योद्धारश्च । प्रत्ययार्थविशेषणं सङ्ग्रामः । प्रयोजनवाचिभ्यो योद्धृवाचिभ्यश्च शब्देभ्यः प्रथमासमर्थेभ्योऽस्येति षष्ठ्यर्थे
सङ्ग्रामेऽभिधेये यथाविहितं प्रत्ययो भवति । भद्रा प्रयोजनमस्य सङ्ग्रामस्य भाद्रः सङ्ग्रामः । सौभद्रः । गौरिमित्रः । योद्धृभ्यः - अहिमाला योद्धारोऽस्य सङ्ग्रामस्य आहिमालः । स्यान्दनाश्वः । भारतः ।
सङ्ग्राम इति किम् ? सुभद्रा प्रयोजनमस्य दानस्य । प्रयोजनयोद्धृभ्य इति किम् ? सुभद्रा प्रेक्षिकाऽस्य सङ्ग्रामस्य ।।
तदस्यां प्रहरणमिति क्रीडायां णः ।। 4-2-57 ।।
तदिति प्रथमासमर्थात्‌ `अस्याम् इति सप्तम्यर्थे णः प्रत्ययो भवति, यत्तदिति निर्दिष्टं प्रहरणं चेत्तद्भवति । यदस्यामिति निर्दिष्टं क्रीडा तद् चेत्सा भवति । इतिकरणस्ततश्चेद्विवक्षा । दण्डः प्रहरणमस्यां क्रीडायां दाण्डा, मौष्टा ।
प्रहरणमिति किम् ? माला भूषणमस्यां क्रीडायाम् । क्रीडायामिति किम् ? खड्‌गः प्रहरणमस्यां सेनायाम् ।।
घञः सास्यां क्रियेति ञः ।। 4-2-58 ।।
`सा इति समर्थविभक्तिः । `अस्याम् इति प्रत्ययार्थः स्त्रीलिङ्गः । `क्रिया इति प्रकृत्यर्थविशेषणम् । `घञः इति `प्रकृतिनिर्देशः । इतिकरणो विवक्षार्थः । घञन्तात्क्रियावाचिनः प्रथमासमर्थात्‌ `अस्याम् इति सप्तम्यर्थे स्त्रीलिङ्गे ञः प्रत्ययो भवति । `घञः इति कृद्ग्रहणम्, तत्र गतिकारकपूर्वमपि गृह्यते । श्येनपातोऽस्यां वर्तते श्यैनम्पाता । तैलम्पाता ।
घञ इति किम् ? श्येनपतनमस्यां वर्तते । क्रियेति किम् ? प्राकारोऽस्यां वर्तते ।
अथ समर्थविभक्तिः प्रत्ययार्थश्च कस्मात्पुनरुपादीयते, यावता द्वयमपि प्रकृतमेव ? क्रीडायामित्यनेन तत्सम्बद्धम्, अतस्तदनुवृत्तौ क्रीडानुवृत्तिरपि सम्भाव्येत । सामान्येन चेदं विधानम् । दण्डपातोऽस्यां तिथौ वर्तते दाण्डपाता तिथिः । मौसलपाता तिथिः ।।
तदधीते तद्वेद ।। 4-2-59 ।।
तदिति द्वितीयासमर्थाद्‌ `अधीते, `वेद इत्येतयोरर्थयोर्यथाविहितं प्रत्ययो भवति । छन्दोऽधीते छान्दसः । वैयाकरणः । नैरुक्तः । निमित्तानि वेद नैमित्तः । मौहूर्तः । औत्पातः ।
द्विस्तद्‌ग्रहणमधीयानविदुषोः पृथग्विधानार्थम् ।।
क्रतूक्थादिसूत्रान्ताट्ठक्‌ ।। 4-2-60 ।।
क्रतुविशेषवाचिभ्य उक्थादिभ्यश्च सूत्रान्ताच्च ठक्प्रत्ययो भवति `तदधीते तद्वेद इत्यस्मिन्विषये । अणोऽपवादः । अग्निष्टोममधीते वेद वा आग्निष्टोमिकः । वाजपेयिकः । उक्थादिभ्यः - औक्थिकः । लौकायतिकः । सूत्रान्तात्‌ - वार्त्तिकसूत्रिकः । साङ्ग्रहसूत्रिकः ।

  • सूत्रान्तादकल्पादेरिष्यते * । कल्पसूत्रमधीते काल्पसूत्रः, अणेव भवति । उक्थशब्दः केषुचिदेव सामसु रूढः । यज्ञायज्ञीयात्परेण यानि गीयन्ते, न च तान्यधीयाने प्रत्यय इष्यते, किं तर्हि ? सामलक्षणे औक्थिक्ये वर्तमान उक्थशब्दः प्रत्ययमुत्पादयति । उक्थमधीते, औक्थिकः । औक्थिक्यमधीत इत्यर्थः । औक्थिक्यशब्दाच्च प्रत्ययो न भवत्येव; अनभिधानात् ।
  • विद्यालक्षणकल्पसूत्रान्तादिति वक्तव्यम् * (म.भा.2.284)। वायसविद्यिकः । सार्पविद्यिकः । गौलक्षणिकः । आश्वलक्षणिकः । मातृकल्पिकः । पाराशरकल्पिकः ।

विद्या च नाङ्गक्षत्त्रधर्मसंसर्गत्रिपूर्वा * । अङ्गविद्यामधीते आङ्गविद्यः । क्षात्त्रविद्यः । धार्मविद्यः । सांसर्गविद्यः । त्रैविद्यः ।

  • आख्यानाख्यायिकेतिहासपुराणेभ्यष्ठग्वक्तव्यः * (म.भा.2.284)। आख्यानाख्यायिकयोरर्थग्रहणम्, इतिहासपुराणयोः स्वरूपग्रहणम् । यावक्रीतिकः । प्रैयङ्गविकः । वासवदत्तिकः । सौमनोत्तरिकः । ऐतिहासिकः । पौराणिकः ।
  • सर्वसादेर्द्विगोश्च लः * (म.भा.2.284)। सर्ववेदः । सर्वतन्त्रः । सादेः - सवार्त्तिकः । ससङ्ग्रहः । द्विगोः - द्विवेदः । पञ्चव्याकरणः ।
  • अनुसूर्लक्ष्यलक्षणे च * (म.भा.2.284)। अनुसूर्नाम ग्रन्थः, तमधीते आनुसुकः । लाक्षिकः । लाक्षणिकः ।
  • इकन्बहुलं पदोत्तरपदात्‌ * पूर्वपदिकः ।
  • शतषष्टेः षिकन्‌ पथो बहुलम् * (म.भा.2.284)। शतपथिकः । शतपथिकी । षष्टिपथिकः । षष्टिपथिकी । बहुलग्रहणादणपि भवति - शातपथः, षाष्टिपथः ।

उक्थ । लोकायत । न्याय । न्यास । निमित्त । पुनरुक्त । निरुक्त । यज्ञ । चर्चा । धर्म । क्रमेतर । श्लक्ष्ण । संहिता । पद । क्रम । सङ्घात । वृत्ति । सङ्ग्रह । गुणागुण । आयुर्वेद । * सूत्रान्तादकल्पादेः * (ग.सू.83)* विद्यालक्षणकल्पान्तात्*(ग.सू.84) । * विद्या चानङ्गक्षत्त्रधर्मसंसर्गत्रिपूर्वा *(ग.सू.85)। * आख्यानाख्यायिकेतिहासपुराणेभ्यष्ठक्‌ *(ग.सू.86)। * सर्वसादेर्द्विगोश्च लः *(ग.सू.87)। * अनुसूर्लक्ष्यलक्षणे च *(ग.सू.88)। * द्विपदी---ज्योतिषि *(ग.सू.89)। अनुपद । अनुकल्प । अनुगुण । * इकन्बहुलं पदोत्तरपदात्‌ *(ग.सू.90)। * शतषष्टेः षिकन्‌ पथो बहुलम् *(ग.सू.91)।।
क्रमादिभ्यो वुन्‌ ।। 4-2-61 ।।
`क्रम इत्येवमादिभ्यः शब्देभ्यो वुन्प्रत्ययो भवति `तदधीते तद्वेद इत्यस्मिन्विषये । अणोऽपवादः । क्रमकः । पदकः ।
क्रम । पद । शिक्षा । मीमांसा । सामन् ।।
अनुब्राह्मणादिनिः ।। 4-2-62 ।।
अनुब्राह्मणशब्दादिनिः प्रत्ययो भवति `तदधीते तद्वेद इत्यस्मिन्विषये । अणोऽपवादः । ब्राह्मणसदृशोऽयं ग्रन्थोऽनुब्राह्मणम् । तदधीते अनुब्राह्मणी, अनुब्राह्मणिनौ, अनुब्राह्मणिनः ।
मत्वर्थे अत इनिठनौ(5-2-115/1922) इति इनिना सिद्धम् ? तत्रैतस्माट्ठन्नपि प्राप्नोति । अनभिधानान्न भविष्यति ? अमो निवृत्त्यर्थं तर्हि वचनम् ।।
वसन्तादिभ्यष्ठक्‌ ।। 4-2-63 ।।
`वसन्त इत्येवमादिभ्यष्ठक्प्रत्ययो भवति `तदधीते तद्वेद इत्यस्मिन्विषये । अणोऽपवादः । वसन्तसहचरितोऽयं ग्रन्थो वसन्तः, तमधीते वासन्तिकः । वार्षिकः ।
वसन्त । वर्षाशरदम् । हेमन्त । शिशिर । प्रथम । गुण । चरम । अनुगुण । अपर्वन्‌ । अथर्वन्‌ ।।
प्रोक्ताल्लुक्‌ ।। 4-2-64 ।।
प्रोक्तसहचरितः प्रत्ययः `प्रोक्तः । प्रोक्तप्रत्ययान्तादध्येतृवेदित्रोरुत्पन्नस्य लुग्भवति । पाणिनिना प्रोक्तं पाणिनीयम्, तदधीते पाणिनीयः ।
आपिशलः । स्त्रियां स्वरे च विशेषः - पाणिनीया ब्राह्मणी ।।
सूत्राच्च कोपधात्‌ ।। 4-2-65 ।।
सूत्रवाचिनः ककारोपधादुत्पन्नस्य प्रत्ययस्य लुग्भवति । अप्रोक्तार्थ आरम्भः । पाणिनीयमष्टकं सूत्रम्, तदधीते अष्टकाः पाणिनीयाः। दशका वैयाघ्रपदीयाः । त्रिकाः काशकृत्स्नाः ।

  • सङ्ख्याप्रकृतेरिति वक्तव्यम् * (म.भा.2.285)। इह मा भूत्‌ - महावार्त्तिकं सूत्रमधीते माहावार्त्तिकः । कालापकमधीते कालापकः ।

कोपधादिति किम् ? चतुष्टयमधीते चातुष्टयः ।।
छन्दोब्राह्मणानि च तद्विषयाणि ।। 4-2-66 ।।
प्रोक्तग्रहणमनुवर्तते । छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाण्येव भवन्ति । अध्येतृवेदितृप्रत्ययविषयाणि । अनन्यभावो विषयार्थः, तेन स्वातन्त्र्यमुपाध्यन्तरयोगो वाक्यं च निवर्तते । कठेन प्रोक्तमधीयते कठाः । मौदाः । पैप्पलादाः । आर्चाभिनः । वाजसनेयिनः ।
ब्राह्मणानि खल्वपि - ताण्डिनः । भाल्लविनः । शाट्यायनिनः । ऐतरेयिणः ।
ब्राह्मणग्रहणं किम्, यावता छन्द एव तद्‌ ? ब्राह्मणविशेषप्रतिपत्त्यर्थम्, इह तद्विषयता मा भूत्‌ - याज्ञवल्क्येन प्रोक्तानि ब्राह्मणानि याज्ञवल्क्यानि । सौलभानि (म.भा.2.285)।
चकारोऽनुक्तसमुच्चयार्थः । कल्पे - काश्यपिनः । कौशिकिनः । सूत्रे - पाराशरिणो भिक्षवः । शैलालिनो नटाः
(म.भा.2.286)। कर्मन्दिनः । कृशाश्विनः ।
छन्दोब्राह्मणानीति किम् ? पाणिनीयं व्याकरणम् । पैङ्गी कल्पः ।।
तदस्मिन्नस्तीति देशे तन्नाम्नि ।। 4-2-67 ।।
`तत्‌ इति प्रथमा समर्थविभक्तिः । `अस्मिन्‌ इति प्रत्ययार्थः । `अस्ति इति प्रकृत्यर्थविशेषणम् । इतिकरणो विवक्षार्थः । `देशेतन्नाम्नि इति प्रत्ययार्थविशेषणम् । तदिति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत्प्रथमासमर्थमस्ति चेत्तद्भवति, यदस्मिन्निति निर्दिष्टं देशश्चेत्स तन्नामा भवति - प्रत्ययान्तनामा, इतिकरणस्ततश्चेद्विवक्षा । उदुम्बरा अस्मिन्‌ देशे सन्ति औदुम्बरः । बाल्बजः । पार्वतः । मत्वर्थीयापवादो योगः ।।
तेन निर्वृत्तम् ।। 4-2-68 ।।
`तेन इति तृतीयासमर्थात्‌ `निर्वृत्तम् इत्यस्मिन्विषये यथाविहितं प्रत्ययो भवति देशनामधेये गम्यमाने । `देशे तन्नाम्नि(4-4-67>-70) इति चतुर्ष्वपि योगेषु सम्बध्यते । सहस्रेण निर्वृत्ता साहस्री परिखा । कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी । हेतौ कर्तरि च यथायोगं तृतीया समर्थविभक्तिः ।।
तस्य निवासः ।। 4-2-69 ।।
`तस्य इति षष्ठीसमर्थात्‌ `निवासः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति देशनामधेये गम्यमाने । निवसत्यस्मिन्निति निवासः । ऋजुनावां निवासो देश आर्जुनावो देशः । शैबः । औदिष्ठः ।।
अद्‌रभवश्च ।। 4-2-70 ।।
पूर्वा समर्थविभक्तिरनुवर्तते । तस्येति षष्ठीसमर्थाद्‌ `अदूरभवः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । विदिश्या अदूरभवं नगरं वैदिशम् । हैमवतम् ।
चकारः पूर्वेषां त्रयाणामर्थानामिह सन्निधानार्थः । तेनोत्तरेषु चत्वारोऽप्यर्थाः सम्बद्ध्यन्ते ।।
ओरञ्‌ ।। 4-2-71 ।।
चत्त्वारोऽर्था(4-2-67>-70) अनुवर्तन्ते । उवर्णान्तात्प्रातिपदिकाद्यथाविहितं समर्थविभक्तियुक्तादञ्‌ प्रत्ययो भवति `तदस्मिन्नस्ति इत्येवमादिष्वर्थेषु । अणोऽपवादः । अरडु - आरडवम् । कक्षतु - काक्षतवम् । कर्कटेलु - कार्कटेलवम् । नद्यास्तु परत्वान्मतुब्भवति - इक्षुमती ।
अञधिकारः - प्राक्‌ सुवास्त्वादिभ्योऽणः(4-2-77/1289) ।।
मतोश्च बह्वजङ्गात्‌ ।। 4-2-72 ।।
बह्वज्‌ अङ्गं यस्यासौ बह्वजङ्गो मतुप्‌, तदन्तात्प्रातिपदिकादञ्प्रत्ययो भवति चातुरर्थिकः । अणोऽपवादः । ऐषुकावतम् । सैध्रकावतम् ।।
बह्वजङ्गादिति किम् ? आहिमतम् । यावमतम् ।
अङ्गग्रहणं बह्वजिति तद्विशेषणं यथा विज्ञायते, मत्वन्तविशेषणं मा विज्ञायीति । मालावतां निवासो मालावतम् ।।
बह्वचः कूपेषु ।। 4-2-73 ।।
बह्वचः प्रातिपदिकादञ्‌ प्रत्ययो भवति चातुरर्थिकः कूपेष्वभिधेयेषु । अणोऽपवादः । यथासम्भवमर्थाः सम्बध्यन्ते । दीर्घवरत्रेण निर्वृत्तः कूपः, दैर्घवरत्रः । कापिलवरत्रः ।।
उदक्च विपाशः ।।। 4-2-74 ।।
विपाश उत्तरे कूले ये कूपास्तेष्वभिधेयेष्वञ्‌ प्रत्ययो भवति चातुरर्थिकः । अणोऽपवादः । अबह्वजर्थ आरम्भः । दत्तेन निवृत्तः कूपो दात्तः । गौप्तः ।
उदगिति किम् ? दक्षिणतो विपाशः ।
कूपेष्वणेव - दात्तः । गौप्तः । स्वरे विशेषः । महती सूक्ष्मेक्षिका वर्तते सूत्रकारस्य ! ।।
सङ्कलादिभ्यश्च ।। 4-2-75 ।।
`कूपेषु इति निवृत्तम् । `सङ्कल इत्येवमादिभ्योऽञ्‌ प्रत्ययो भवति चातुरर्थिकः । अणोऽपवादः ।
यथासम्भवमर्थसम्बन्धः । सङ्गतः कलः सङ्कलः, सङ्कलेन निवृत्तः साङ्कलः । पौष्कलः ।
सङ्कल । पुष्कल । उद्वप । उडुप । उत्पुट । कुम्भ । विधान । सुदक्ष । सुदत्त । सुभूत । सुनेत्र । सुपिङ्गल । सिकता । पूतीकी । पूलास । कूलास । पलाश । निवेश । गवेष । गम्भीर । इतर । शर्मन्‌ । अहन्‌ । लोमन्‌ । वेमन्‌ । वरुण । बहुल । सद्योज । अभिषिक्त । गोभृत्‌ । राजभृत्‌ । गृह । भृत । भल्ल । माल । वृत्‌ ।।
स्त्रीषु सौवीरसाल्वप्राक्षु ।। 4-2-76 ।।
`देशे तन्नान्नि इत्यस्य विशेषणम् - सौवीरादयः, स्त्रीत्वं च । ङ्याप्प्रातिपदिकादञ्‌ प्रत्ययो भवति चातुरर्थिकः । अणोऽपवादः । सौवीरे स्त्रीलिङ्गे देशे वाच्ये साल्वे प्राचि । सौवीरे तावत्‌ - दत्तामित्त्रेण निर्वृत्ता नगरी दात्तामित्त्री । साल्वे - विधूमाग्निना निर्वृत्ता वैधूमाग्नी । प्राचि खल्वपि - ककन्देन निर्वृत्ता काकन्दी । माकन्दी । माणिचरी । जारुषी ।।
सुवास्त्वादिभ्योऽण्‌ ।। 4-2-77 ।।
`सुवास्तु इत्येवमादिभ्योऽण्‌ प्रत्ययो भवति चातुरर्थिकः । अञ उवर्णान्तलक्षणस्य कूपलक्षणस्य चापवादः । सुवास्तोरदूरभवं नगरं सौवास्तवम् । वार्णवम् ।
अण्ग्रहणं नद्यां मतुपो बाधनार्थम् । सौवास्तवी नदी ।
सुवास्तु । वर्णु । भण्डु । खण्डु । सेचालिन्‌ । कर्पूरिन्‌ । शिखण्डिन्‌ । गर्त । कर्कश । शटीकर्ण । कृष्ण । कर्क । कर्कन्धूमती । गोह्य । अहिसक्थ । वृत्‌ ।।
रोणी ।। 4-2-78 ।।
रोणीशब्दादण्प्रत्ययो भवति चातुरर्थिकः । यथासम्भवमर्थसम्बन्धः । कूपलक्षणस्याञोऽपवादः । रोणीति कोऽयं निर्देशः, यावता प्रत्ययविधौ पञ्चमी युक्ता ? सर्वावस्थप्रतिपत्त्यर्थमेवमुच्यते - रोणीशब्दः सर्वावस्थोऽण्प्रत्ययमुत्पादयति, केवलस्तदन्तश्च । रौणः । आजकरोणः । सैंहिकरोणः ।।
कोपधाच्च ।। 4-2-79 ।।
ककारोपधाच्च प्रातिपदिकादण्प्रत्ययो भवति चातुरर्थिकः । यथासम्भवमर्थसम्बन्धः । कूपलक्षणस्योवर्णलक्षणस्य चाञोऽपवादः । कार्णच्छिद्रिकः कूपः । कार्णवेष्टकः । कृकवाकुना निर्वृत्तं कार्कवाकवम् । त्रैशङ्कवम् ।।
वुञ्छण्कठजिलसेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाश्मसखिसङ्काशबलपक्षकर्णसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः ।। 4-2-80 ।।
वुञादयः सप्तदश प्रत्ययाः, अरीहणादयोऽपि सप्तदशैव प्रातिपदिकगणाः । आदिशब्दः प्रत्येकमभिसम्बध्यते । तत्र यथासङ्ख्यं सप्तदशभ्यः प्रातिपदिकगणेभ्यः सप्तदश प्रत्यया भवन्ति चातुरर्थिकाः । अणोऽपवादः । यथासम्भवमर्थसम्बन्धः । अरीहणादिभ्यो वुञ्प्रत्ययो भवति । आरीहणकम् । द्रौघणकम् ।
अरीहण । द्रुघण । खदिर । सार । भगल । उलन्द । साम्परायण । क्रौष्ट्रायण । भास्त्रायण । मैत्त्रायण । त्रैगर्त्तायन । रायस्पोष । विपथ । उद्दण्ड । उदञ्चन । खाडायन । खण्ड । वीरण । काशकृत्स्न । जाम्बवन्त । शिंशपा । किरण । रैवत । बैल्व । वैमतायन । सौसायन । शाण्डिल्यायन । शिरीष । बधिर । अरीहणादिः ।।
कृशाश्वावादिभ्यश्छण्प्रत्ययो भवति । कार्शाश्वीयः । आरिष्टीयः ।
कृशाश्व । अरिष्ट । अरीश्व । वेश्मन्‌ । विशाल । रोमक । शबल । कूट । रोमन्‌ । वर्वर । सुकर । सूकर । प्रतर । सदृश । पुरग । सुख । धूम । अजिन । विनता । अवनत । विकुघास । अरुस्‌ । अवयास । मौद्‌गल्य । कृशाश्वादिः ।।
ऋश्यादिभ्यः कः प्रत्ययो भवति । ऋश्यक । न्यग्रोधकः ।
ऋश्य । न्यग्रोध । शिरा । निलीन । निवास । निधान । निवात । निबद्ध । विबद्ध । परिगूढ । उपगूढ । उत्तराश्मन्‌ । स्थूलबाहु । खदिर । शर्करा । अनडुह । परिवंश । वेणु । वीरण । ऋश्यादिः ।।
कुमुदादिभ्यष्ठच्प्रत्ययो भवति । कुमुदिकम् । शर्करिकम् ।
कुमुद । शर्करा । न्यग्रोध । इत्कट । गर्त । बीज । अश्वत्थ । बल्वज । परिवाप । शिरीष । यवाष । कूप । विकङ्कत । कुमुदादिः ।।
काशादिभ्य इलः प्रत्ययो भवति । काशिलम् । वाशिलम् ।
काश । वाश । अश्वत्थ । पलाश । पीयूष । विश । तृण । नर । चरण । कर्दम । कर्पूर । कण्टक । गृह । काशादिः ।
तृणादिभ्यः शः प्रत्ययो भवति । तृणशः । नडशः ।
तृण । नड । बुस । पर्ण । वर्ण । चरण । अर्ण । जन । बल । लव । वन । तृणादिः ।
प्रेक्षादिभ्य इनिप्रत्ययो भवति । प्रेक्षी । हलकी ।
प्रेक्षा । हलका । बन्धुका । ध्रुवका । क्षिपका । न्यग्रोध । इर्कुट । प्रेक्षादिः ।
अश्मादिभ्यो रप्रत्ययो भवति । अश्मरः ।
अश्मन्‌ । यूष । रूष । मीन । दर्भ । वृन्द । गुड । खण्ड । नग । शिखा । अश्मादिः ।
सख्यादिभ्यो ढञ्‌ प्रत्ययो भवति । साखेयम् । साखिदत्तेयम् ।
सखि । सखिदत्त । वायुदत्त । गोहित । भल्ल । पाल । चक्रपाल । चक्रवाल । छगल । अशोक । करवीर । सीकर । सकर । सरस । समल । सख्यादिः ।
सङ्काशादिभ्यो ण्यप्रत्ययो भवति । साङ्काश्यम् । काम्पिल्यम् ।
संकाश । काम्पिल्य । समीर । कश्मर । शूरसेन । सुपथिन्‌ । सक्थच । यूप । अंश । एग । अश्मन्‌ । कूट । मलिन । तीर्थ । अगस्ति । बिरत । चिकार । विरह । नासिका । सङ्काशादिः ।
बलादिभ्यो यः प्रत्ययो भवति । बल्यः। कुल्यम् ।
बल । वुल । तुल । उल । डुल । कवल । वन । कुल । बलादिः ।।
पक्षादिभ्यः फक्‌ प्रत्ययो भवति । पाक्षायणः । तौषायनः ।
पक्ष । तुष । अण्ड। कम्बलिक । चित्र । अश्मन्‌ । अतिस्वन्‌ । पथिन्पन्थच । पक्षादिः ।
कर्णादिभ्यः फिञ्प्रत्ययो भवति । कार्णायनिः । वासिष्ठायनिः ।
कर्ण । वसिष्ठ । अलुश । शल । डुपद । अनडुह्य । पाञ्चजन्य । स्थिरा । कुलिश । कुम्भी । जीवन्ती । जित्व । आण्डीवत्‌ । कर्णादिः ।
सुतङ्गमादिभ्य इञ्प्रत्ययो भवति । सौतङ्गमिः । मौनिचित्तिः ।
सुतङ्गम । मुनिचित्त । विप्रचित्त । महापुत्र । श्वेत । गडिक । शुक्र । विग्र । बीजवापिन्‌ । श्वन्‌ । अर्जुन । अजिर । जीव । सुतङ्गमादिः ।
प्रगदिन्नादिभ्यो ञ्यः प्रत्ययो भवति । प्रागद्यम् ।
प्रगदिन्‌ । मगदिन्‌ । शरदिन्‌ । कलिव । खडिव । गडिव । चूडार । मार्जार । कोविदार । प्रगद्यादिः ।
वराहादिभ्यः कक् प्रत्ययो भवति । वाराहकम् । पालाशकम् ।
वराह । पलाश । शिरीष । पिनद्ध । स्थूण। विदग्ध । विजग्ध । विभग्न । बाहु । खदिर। शर्करा । वराहादिः ।।
कमुदादिभ्यष्ठक्‌ प्रत्ययो भवति । कौमुदिकम् ।
कुमुद । गोमथ । रथकार । दशग्राम । अश्वत्थ । शाल्मली । कुण्डल । मुनिस्थूल । कूट । मुचुकर्ण । कुमुदादिः ।
शिरीषशब्दोऽरीहणादिषु कुमुदादिषु वराहादिषु च पठ्यते, औत्सर्गिकोऽपि तत इष्यते, तस्य च वरणादिषु दर्शनाल्लुब्भवति । तथा चोक्तम् - शिरीषाणामदूरभवो ग्रामः शिरीषाः, तस्य वनं शिरीषवनमिति ।।
जनपदे लुप्‌ ।। 4-2-81 ।।
`देशे तन्नाम्नि इति यश्चातुरर्थिकः प्रत्ययो भवति, तस्य देशविशेषे जनपदेऽभिधेये लुब्भवति । ग्रामसमुदायः = जनपदः । पञ्चालानां निवासो जनपदः पञ्चालाः। कुरवः । मत्स्याः । अङ्गाः । वङ्गाः । मगधाः । सुह्माः । पुण्ड्राः ।
इह कस्मान्न भवति - उदुम्बरा अस्मिन्सन्ति, औदुम्बरो जनपदः, वैदिशो जनपद इति ? तन्नाम्नीति वर्त्तते । न चात्र लुबन्तं तन्नामधेयं भवति ।।
वरणादिभ्यश्च ।। 4-2-82 ।।
`वरण इत्येवमादिभ्य उत्पन्नस्य चातुरर्थिकस्य प्रत्ययस्य लुब्‌भवति । अजनपदार्थ आरम्भः । वरणानामदूरभवं नगरं वरणाः । शृङ्गी । शाल्मलयः । चकारोऽनुक्तसमुच्चयार्थ आकृतिगणतामस्य बोधयति । कटुकबदर्या अदूरभवो ग्रामः कटुकबदरी । शिरीषाः काञ्ची ।
वरणाः । पूर्वौ गौदौ । आलिङ्ग्यायन । पर्णी । शृङ्गी । शाल्मलयः । सदाण्वी । वणिकि । वणिक । जालपद । मथुरा । उज्जयिनी । गया । तक्षशिला । उरशा । आकृत्या ।।
शर्कराया वा ।। 4-2-83 ।।
शर्कराशब्दादुत्पन्नस्य चातुरर्थिकस्य प्रत्ययस्य वा लुब्भवति ।
वाग्रहणं किम्, यावता शर्कराशब्दः कुमुदादिषु वराहादिषु च पठ्यते, तत्र पाठसामर्थ्यात्प्रत्ययस्य पक्षे श्रवणं भविष्यति ? एवं तर्हि एतज्ज्ञापयति - शर्कराशब्दादौत्सर्गिको भवति, तस्यायं विकल्पितो लुबिति । शर्करा । शार्करम् । गणपाठाच्च श्रवणम्, उत्तरसूत्रे विहितौ च द्वौ प्रत्ययौ । तदेवं षड्‌ रूपाणि भवन्ति - शर्करा, शार्करम्, शर्करिकम्, शार्करकम्, शार्करिकम्, शर्करीयमिति ।।
ठक्छौ च ।। 4-2-84 ।।
शर्कराशब्दाट्ठक्‌, छ इत्येतौ प्रत्ययौ भवतश्चातुरर्थिकौ । यथासम्भवमर्थसम्बन्धः । शार्करिकम् । शर्करीयम् ।।
नद्यां मतुप्‌ ।। 4-2-85 ।।
नद्यामभिधेयायां मतुत्प्रत्ययो भवति चातुरर्थिकः । तन्नाम्नो देशस्य विशेषणं नदी । उदुम्बरा यस्यां सन्ति उदुम्बरावती । मशकावती । वीरणावती । पुष्करावती । इक्षुमती । द्रुमती ।
इह कस्मान्न भवति - भागीरथी, भैमरथी ? मतुबन्तस्यातन्नामधेयत्वात्‌ ।
मध्वादिभ्यश्च ।। 4-2-86 ।।
`मधु इत्येवमादिभ्यः शब्देभ्यो मतुप्प्रत्ययो भवति चातुरर्थिकः । अनद्यर्थ आरम्भः । मधुमान्‌ । विसवान्‌ ।
मधु । विस । स्थाणु । मुष्टि । इक्षु । वेणु । रम्य । ऋक्ष । कर्कन्धु । शमी । किरीर । हिम । किशरा । शर्पणा । मरुत् । मरुव । दार्वाघाट । शर । इष्टका । तक्षशिला । शक्ति । आसन्दी । आसुति । शलाका । आमिधी । खडा । वेटा । मध्वादिः ।।
कुमुदनडवेतसेभ्यो ड्‌मतुप्‌ ।। 4-2-87 ।।
`कुमुद, `नड, `वेतस इत्येतेभ्यः शब्देभ्यो ड्‌मतुप्‌ प्रत्ययो भवति चातुरर्थिकः । कुमुद्वान्‌ । नड्‌वान्‌ । वेतस्वान्‌ ।

  • महिषाच्चेति वक्तव्यम् * (म.भा.2.288)। महिष्मान्नाम देशः ।।

नडशादाड्‌ ड्‌वलच्‌ ।। 4-2-88 ।।
नडशादशब्दाभ्यां ड्‌वलच्‌ प्रत्ययो भवति चातुरर्थिकः । यथासम्भवमर्थसम्बन्धः । नड्‌वलम् । शाद्वलम् ।।
शिखाया वलच्‌ ।। 4-2-89 ।।
शिखाशब्दाद्वलच्‌ प्रत्ययो भवति चातुरर्थिकः । यथासम्भवमर्थसम्बन्धः । शिखावलं नाम नगरम् । मतुप्प्रकरणेऽपि शिखाया वलचं(5-2-113/1920) वक्ष्यति, तददेशार्थं वचनम् ।।
उत्करादिभ्यश्छः ।। 4-2-90 ।।
उत्कर इत्येवमादिभ्यश्छः प्रत्ययो भवति चातुरर्थिकः । यथासम्भवमर्थसम्बन्धः । उत्करीयम् । शफरीयम् ।
उत्कर । सम्फल । शफर । पिप्पल । पिप्पलीमूल । अश्मन्‌ । अर्क । पर्ण । सुपर्ण । खलाजिन । इडा । अग्नि । तिक । कितव । आतप । अनेक । पलाश । तृणव । पिचुक । अश्वत्थ । शकाक्षुद्र । भस्त्रा । विशाला । अवरोहित । गर्त्त । शाल । अन्य । जन्या । अजिन । मञ्च । चर्मन्‌ । उत्क्रोश । शान्त । खदिर । शूर्पणाय । श्यावनाय । नैव । बक । नितान्त । वृक्ष । इन्द्रवृक्ष । आर्द्रवृक्ष । अर्जुनवृक्ष । उत्करादिः ।।
नडादीनां कुक्‌ च ।। 4-2-91 ।।
`नड इत्येवमादीनां कुगागमो भवति, छश्च प्रत्ययश्चातुरर्थिकः । यथासम्भवमर्थसम्बन्धः । नडकीयम् । प्लक्षकीयम् ।
नड । प्लक्ष । बिल्व । वेणु । वेत्र । वेतस । तृण । इक्षु । काष्ठ । कपोत । * क्रुञ्चाया ह्रस्वत्वं च * (ग.सू.92)। * तक्षन्नलोपश्च * (ग.सू.93)।
शेषे ।। 4-2-92 ।।
`शेषे इत्यधिकारोऽयम् । यानित ऊर्ध्वं प्रत्ययाननुक्रमिष्यामः, शेषेऽर्थे ते वेदितव्याः ।
उपयुक्तादन्यः शेषः । अपत्यादिभ्यश्चतुरर्थपर्यन्तेभ्योऽन्योऽर्थः शेषः (म.भा.2.291)। तस्येदंविशेषा ह्यपत्यसमूहादयः, तेषु घादयो मा भूवन्निति शेषाधिकारः क्रियते ।
किञ्च - सर्वेषु जातादिषु घादयो यथा स्युरनन्तरेणैवार्थादेशेन सम्बन्धित्वेन कृतार्थता मा ज्ञायीति साकल्यार्थं शेषवचनम् । वक्ष्यति - राष्ट्रावारपाराद्‌ घखौ(4-2-93/1313) । राष्ट्रियः । अवारपारीणः । `शेषे इति लक्षणं चाधिकारश्च । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । दृषदि पिष्टाः दार्षदाः सक्तवः । उलूखले क्षुण्णः औलूखलो यावकः । अश्वैरुह्यते आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्ष इति ।।
राष्ट्रावारपाराद्‌ घखौ ।। 4-2-93 ।।
`राष्ट्र `अवारपार इत्येताभ्यां यथासङ्ख्यं घ-खावित्येतौ प्रत्ययौ भवतः । राष्ट्रियः । अवारपारीणः । * विगृहीतादपीष्यते * (म.भा.2.291)अवारीणः । पारीणः । * विपरीताच्च * (म.भा.2.291)पारावारीणः ।
प्रकृतिविशेषोपादानमात्रेण तावत्प्रत्यया विधीयन्ते । तेषां तु जातादयोऽर्थाः समर्थविभक्तयश्च पुरस्ताद्वक्ष्यन्ते ।
ग्रामाद्यखञौ ।। 4-2-94 ।।
ग्रामशब्दाद्य, खञ्‌ इत्येतौ प्रत्ययौ भवतः । ग्राम्यः । ग्रामीणः ।।
कत्त्र्यादिभ्यो ढकञ्‌ ।। 4-2-95 ।।
`कत्त्रि इत्येवमादिभ्यो ढकञ्‌ प्रत्ययो भवति । कात्त्रेयकः । औम्भेयकः ।
कत्त्रि । उम्भि । पुष्कर । पुष्कल । मोदन । कुम्भी । कुण्डिन । नगर । वञ्जी । भक्ति । माहिष्मती । चर्मण्वती । ग्राम । उख्या । * कुड्याया यलोपश्च *(ग.सू.94) । कत्त्र्यादिः ।।
कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु ।। 4-2-96 ।।
कुलकुक्षिग्रीवाशब्देभ्यो यथासङ्ख्यं `श्वन्‌, `असि, `अलङ्कार इत्येतेषु जातादिष्वर्थेषु ढकञ्‌ प्रत्ययो भवति । कौलेयको भवति श्वाचेत्‌, कौलोऽन्यः । कौक्षेयको भवत्यसिश्चेत्‌, कौक्षोऽन्यः । ग्रैवेयको भवत्यलङ्कारश्चेत्‌, ग्रैवोऽन्यः ।।
नद्यादिभ्यो ढक्‌ ।। 4-2-97 ।।
`नदी इत्येवमादिभ्यो ढक्‌ प्रत्ययो भवति । नादेयम् । माहेयम् ।
पूर्वनगरीशब्दोऽत्र पठ्यते । पौर्वनगरेयम् ।
केचित्तु पूर्वनगिरीति पठन्ति, विच्छिद्य च प्रत्ययं कुर्वन्ति - पौरेयम्, वानेयम्, गैरेयमिति; तदुभयमपि दर्शनं
प्रमाणम् ।
नदी । मही । वाराणसी । श्रावस्ती । कौशाम्बी । नवकौशाम्बी । काशफरी । खादिरी । पूर्वनगरी । पावा । मावा । साल्वा । दार्वा । दाल्वा । वासेनकी । * वडवाया वृषे* (ग.सू.95) ।।
दक्षिणापश्चात्पुरसस्त्यक्‌ ।। 4-2-98 ।।
दक्षिणा, पश्चात्‌, पुरस्‌ इत्येतेभ्यस्त्यक्‌ प्रत्ययो भवति शैषिकः । दाक्षिणात्यः । पाश्चात्त्यः । पौरस्त्यः ।
कापिश्याः ष्फक्‌ ।। 4-2-99 ।।
कापिशीशब्दात्‌ ष्फक्‌ प्रत्ययो भवति शैषिकः । षकारो ङीषर्थः । कापिशायनं मधु । कापिशायनी द्राक्षा ।।

  • बाह्ल्युर्दिपर्दिभ्यश्चेति वक्तव्यम् * (म.भा.2.292)। बाह्लायनी । और्दायनी । पार्दायनी ।।

रङ्कोरमनुष्येऽण्‌ च ।। 4-2-100 ।।
रङ्कुशब्दादण्‌ प्रत्ययो भवति, चकारात्ष्फक्च शैषिकोऽमनुष्येऽभिधेये । राङ्कवो गौः । राङ्कवायणो गौः ।
अमनुष्य इति किम् ? राङ्कवको मनुष्यः ।
ननु च रङ्कुशब्दः कच्छादिषु पठ्यते, तत्र च मनुष्यतत्स्थयोर्वुञ्‌(4-2-134/1358) इति मनुष्ये परत्वाद्वुञैव भवितव्यम्, कच्छादिपाठादमनुष्येऽणपि सिद्धः, किमिह मनुष्यप्रतिषेधेनाण्ग्रहणेन च ? तदुच्यते; नैवायं मनुष्यप्रतिषेधः, किं तर्हि ? नञिवयुक्तन्यायेन मनुष्यसदृशे प्राणिनि प्रतिपत्तिः क्रियते । तेन राङ्कवः, कम्बल इति ष्फग्न भवति ।
विशेषविहितेन च ष्फकाऽणो बाधा मा भूदित्यण्ग्रहणमपि क्रियते ।।
द्युप्रागपागुदक्प्रतीचो यत्‌ ।। 4-2-101 ।।
दिव, प्राच्‌, अपाच्‌, उदच्‌, प्रत्यच्‌ इत्येतेभ्यो यत्प्रत्ययो भवति शैषिकः । दिव्यम् । प्राच्यम् । अवाच्यम् । उदीच्यम् प्रतीच्यम् ।
अव्ययात्तु कालवाचिनः परत्वात्‌ ट्युट्युलौ भवतः । प्राक्तनम् ।
कन्थायाष्ठक्‌ ।। 4-2-102 ।।
कन्थाशब्दाट्ठक्‌ प्रत्ययो भवति शैषिकः । कान्थिकः ।।
वर्णौ वुक्‌ ।। 4-2-103 ।।
`कन्थायाः इत्येव । वर्णौ या कन्था तस्या वुक्‌ प्रत्ययो भवति शैषिकः । ठकोऽपवादः । वर्णुर्नाम नदस्तत्समीपो देशो वर्णुः । तद्विषयार्थवाचिनः कन्थाशब्दादयं प्रत्ययः । तथाहि जातं हिमवत्सु कान्थकम् ।
अव्ययात्त्यप्‌ ।। 4-2-104 ।।
अव्ययात्‌ त्यप्‌ प्रत्ययो भवति शैषिकः ।
`अमेहक्वतसित्रेभ्यस्त्यब्विधिर्योऽव्ययात्स्मृतः ।
  निनिर्भ्यां ध्रुवगत्योश्च प्रवेशो नियमे तथा ।।(म.बा.2.292)
अमात्यः । इहत्यः । क्वत्यः । इतस्त्यः । तत्रत्यः । यत्रत्यः ।
परिगणनं किम् ? औपरिष्टः । पौरस्तः । पारस्तः । वृद्धात्तु छो भवति - आरातीयः ।

  • त्यब्नेर्ध्रुवे * (म.भा.2.293)। नियतं ध्रुवम् - नित्यम् ।
  • निसो गते * (म.भा.2.293)। निर्गतो वर्णाश्रमेभ्यो निष्ट्यश्चण्डालादिः ।

</12-2-54>

  • आविसश्छन्दसि * (म.भा.2.293)। आविस्‌ शब्दाच्छन्दसि त्यप्प्रत्ययो भवति । `आविष्ट्यो वर्द्धते चारुरासु(ऋ.<1-95-5>)।
  • अरण्याण्णो वक्तव्यः * (म.भा.2.293)। आरण्याः सुमनसः ।
  • दूरादेत्यः * (म.भा.2.293)। दूरेत्यः पथिकः ।
  • उत्तरादाहञ्‌ । * (म.भा.2.293)। औत्तराहम् ।।

ऐषमोह्यः श्वसोऽन्यतरस्याम् ।। 4-2-105 ।।
ऐषमस्‌, ह्यस्‌; श्वस्‌ इत्येतेभ्योऽन्यतरस्यां त्यप्प्रत्ययो भवति शैषिकः । ऐषमस्त्यम्, ऐषमस्तनम् । ह्यस्त्यम्, ह्यस्तनम् । श्वस्त्यम्, श्वस्तनम् । श्वसस्तुट्‌ च(4-3-15/1385) इति ठञपि तृतीयो भवति - शौवस्तिकम् ।।
तीररूप्योत्तरपदादञ्ञौ ।। 4-2-106 ।।
तीरोत्तरपदाद्‌ रूप्योत्तरपदाच्च प्रातिपदिकाद्‌ यथासङ्ख्यमञ्‌, ञ इत्येतौ प्रत्ययौ भवतः शैषिकौ । अणोऽपवादौ । काकतीरम् । पाल्वलतीरम् । रूप्योत्तरपदात्‌ - वार्करूप्यम् । शैवरूप्यम् । तीररूप्यान्तादिति नोक्तम्, बहुच्प्रत्ययपूर्वाद्‌ मा भूदिति । बाहुरूप्यम् । अणेव भवति ।।
दिक्पूर्वपदादसंज्ञायां ञः ।। 4-2-107 ।।
असंज्ञायामिति प्रकृतिविशेषणम् । दिक्पूर्वपदात्प्रातिपदिकादसंज्ञाविषयाद्‌ ञः प्रत्ययो भवति शैषिकः । अणोऽपवादः । पौर्वशालः । दाक्षिणशालः । आपरशालः ।
असंज्ञायामिति किम् ? पूर्वैषुकामशमः । अपरैषुकामशमः । दिक्सङ्ख्ये संज्ञायाम्(2-1-50/727) इति समासः । प्राचां ग्रामनगराणाम्(7-3-14/1400) इत्युत्तरपदवृद्धिः । पदग्रहणं स्वरूपविधिनिरासार्थम् ।।
मद्रेभ्योऽञ्‌ ।। 4-2-108 ।।
`दिक्पूर्वपदात्‌ इत्येव । दिक्पूर्वपदान्मद्रशब्दादञ्‌ प्रत्ययो भवति शैषिकः । पौर्वमद्रः । आपरमद्रः । दिशो मद्राणाम्(7-3-13/1399) इति पर्युदासादादिवृद्धिरेव ।।
उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात्‌ ।। 4-2-109 ।।
दिग्ग्रहणं निवृत्तम् । उदीच्यग्रामवाचिनः प्रातिपदिकाद्‌ बह्वचोऽन्तोदात्ताद्‌ अञ् प्रत्ययो भवति शैषिकः । अणोऽपवादः । शैवपुरम् । माण्डवपुरम् ।।
उदीच्यग्रामादिति किम् ? माथुरम् । बह्वच इति किम् ? ध्वजी । ध्वाजम् । अन्तोदात्तादिति किम् ? शार्करीधानम् । शर्करीधानशब्दे लित्स्वरेण धानशब्द उदात्तः ।।
प्रस्थोत्तरपदलद्यादिकोपधादण्‌ ।। 4-2-110 ।।
प्रस्थोत्तरपदात्‌ पलद्यादिभ्यः ककारोपधाच्च प्रातिपदिकादण्‌ प्रत्ययो भवति शैषिकः । उदीच्यग्रामलक्षणस्याञोऽपवादः । माद्रीप्रस्थः । माहकीप्रस्थः । पलद्यादिभ्यः - पालदः । पारिषदः । ककारोपधात्‌ - नैलीनकः । चैयातकः । पलद्यादिषु यो वाहीकग्रामस्ततष्ठञ्ञिठयोः (4-2-117/1341)अपवादः, यथा - गौष्ठी, नैतकीति ।
गोमतीशब्दः पठ्यते, ततः रोपधेतोः प्राचाम्(4-2-123/2347) इति वुञोऽपवादः । वाहीकशब्दः कोपधोऽपि पुनः पठ्यते परं छं (4-2-114/1337) बाधितुम् । अण्ग्रहणं बाधकबाधनार्थम् ।
पलदी । परिषत्‌ । यकृल्लोमन्‌ । रोमक । कालकूट । पटच्चर । वाहीक । कलकीट । मलकीट । कमलकीट । कमलभिदा । गोष्ठी कमलकीर । बाहुकीट । नैतकी । परिखा । शूरसेन । गोमती । उदयान । पलद्यादिः ।।
कण्वादिभ्यो गोत्रे ।। 4-2-111 ।।
गोत्रमिह न प्रत्ययार्थः, न च प्रकृतिविशेषणम् । तर्ह्येवं सम्बध्यते - कण्वादिभ्यो गोत्रे यः प्रत्ययो विहितस्तदन्तेभ्य एवाण्‌ प्रत्ययो भवति शैषिकः । छस्यापवादः । काण्वाश्छात्त्राः । गौकक्षाः ।।
इञश्च ।। 4-2-112 ।।
`गोत्रे इत्येव । गोत्रे य इञ्विहितस्तदन्तात्प्रातिपदिकादण्प्रत्ययो भवति शैषिकः । छस्यापवादः । दाक्षाः । प्लाक्षाः । माहकाः ।
गोत्र इत्येव - सौतङ्गमेरिदं सौतङ्गमीयम् ।।
न द्वयचः प्राच्यभरतेषु ।। 4-2-113 ।।
द्वयचः प्रातिपदिकात्प्राच्यभरतगोत्रादिञन्तादण्‌ प्रत्ययो न भवति । पूर्वेण प्राप्तः प्रतिषिद्ध्यते । पैङ्गीयाः । प्रौष्ठीयाः । चैदीयाः । पौष्कीयाः । काशीयाः । पाशीयाः ।
द्व्यच इति किम् ? पान्नागाराः । प्राच्यभरतेष्विति किम् ? दाक्षाः ।
काशीया इति कथमुदाहृतम् । यावता काश्यादिभ्यष्ठिञ्ञिठाभ्यां (4-2-116/1340)भवितव्यम् ? नैतदस्ति; देशवाचिनः काशिशब्दस्य तत्र ग्रहणम्, चैदिशब्देन साहचर्यात्‌ । गोत्रात्तु वृद्धाच्छः(4-2-114/1337) एव भवति ।
ज्ञापकादन्यत्र प्राच्यग्रहणेन भरतग्रहणं न भवतीति स्वशब्देन भरतानामुपादानं कृतम् ।।
वृद्धाच्छः ।। 4-2-114 ।।
`गोत्रे इति नानुवर्त्तते । सामान्येन विधानम् । वृद्धात्प्रातिपदिकाच्छः प्रत्ययो भवति शैषिकः । अणोऽपवादः । गार्गीयः । वात्सीयः । शालीयः । मालीयः ।
अव्ययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधींस्तु (4-2-104>,106,109,110)परत्वाद् बाधते ।।
भवतष्ठक्छसौ ।। 4-2-115 ।।
`वृद्धात्‌ इत्येव । भवच्छब्दात्‌ वृद्धात्‌ ठक्‌, छस्‌ - इत्येतौ प्रत्ययौ भवतः शैषिकौ छस्यापवादौ । सकारः पदसंज्ञार्थः । भवतस्त्यदादित्वाद्‌ वृद्धसंज्ञा । भावत्कः । भवदीयम् ।
अवृद्धात्तु भवतः शतुरणेव भवति - भावतः ।।
काश्यादिभ्यष्ठञ्ञिठौ ।। 4-2-116 ।।
`काशि इत्येवमादिभ्यः ठञ्‌, ञिठ इत्येतौ प्रत्ययौ भवतः शैषिकौ । इकार उच्चारणार्थः । ञकार एवोभयत्र विपर्यस्तदेशोऽनुबन्धः । स्त्रीप्रत्यये विशेषः । काशिकी, काशिका । बैदिकी, बैदिका ।
`वृद्धात्‌ इत्यत्रानुवर्त्तते । ये त्ववृद्धाः पठ्यन्ते, वचनप्रामाण्यात्तेभ्यः प्रत्ययविधिः ।
देवदत्तशब्दः पठ्यते, तस्य एङ्‌ प्राचां देशे(1-1-75/1338) इति वृद्धंसज्ञा - दैवदत्तिकः । वाहीकग्रामस्य तु नास्ति वृद्धसंज्ञा - दैवदत्तः । कथं भाष्य उदाहृतम् - `वा नामधेयस्य वृद्धसंज्ञा वेदितव्या; देवदत्तीया, दैवदत्ताः इति, यावता वृद्धसंज्ञापक्षे काश्यादित्वाट्ठञ्ञिठाभ्यां भवितव्यम् ? तत्रैवं वर्णयन्ति - `वा नामधेयस्येति व्यवस्थितविभाषेयम्, सा छे कर्त्तव्ये भवति, ठञ्ञिठयोर्न भवति इति ।
काशी । चेदि । संज्ञा । संवाह । अच्युत । मोहमान । शकुलाद । हस्तिकर्षू । कुदामन्‌ । हिरण्य । करण । गोधाशन । भौरिकि । भौलिङ्गि । अरिन्दम । सर्वमित्त्र । देवदत्त । साधुमित्त्र । दासमित्त्र । दासग्राम । सौधावतान । युवराज । उपराज । सिन्धुमित्त्र । देवराज । * आपदादिपूर्वपदात्कालात्‌ * (ग.सू.96)। आपत्कालिकी, आपत्कालिका । और्ध्वकालिकी, और्ध्वकालिका । तात्कालिकी, तात्कालिका ।।
वाहीकग्रामेभ्यश्च ।। 4-2-117 ।।
`वृद्धात्‌ इत्येव । वाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठञ्ञिठौ प्रत्ययौ भवतः शैषिकौ छस्यापवादौ । शाकलिकी, शाकलिका । मान्थाविकी, मान्थविका ।।
विभाषोशीनरेषु ।। 4-2-118 ।।
`वृद्धात्‌ इति वर्तते, `वाहीकग्रामेभ्यः इति च । उशीनरेषु ये वाहीकग्रामास्तद्वाचिभ्यो वृद्धेभ्यः प्रातिपदिकेभ्यो विभाषा ठञ्ञिठौ प्रत्ययौ भवतः । आह्वजालिकी, आह्वजालिका, आह्वजालीया । सौदर्शनिकी, सौदर्शनिका, सौदर्शनीया ।।
ओर्देशेठञ्‌ ।। 4-2-119 ।।
`वृद्धात् इति नानुवर्त्तते, उत्तरसूत्रे पुनर्वृद्धग्रहणात् । उवर्णान्ताद्‌ देशवाचिनः प्रातिपदिकात्‌ ठञ्‌ प्रत्ययो भवति शैषिकः। नैषादकर्षुकः । शाबरजम्बुकः । देश इति किम् ? पटोश्छात्त्राः पाटवाः ।
ठञ्ञिठयोः प्रकरणे ठञः केवलस्यानुवृत्तिर्न लभ्यत इति ठञ्ग्रहणं कृतम् ।।
वृद्धात्प्राचाम् ।। 4-2-120 ।।
`ओर्देशे इत्येव । उवर्णान्ताद्‌ वृद्धात्प्राग्देशवाचिनः प्रातिपदिकाट्ठञ् प्रत्ययो भवति शैषिकः ।
आढकजम्बुकः । शाकजम्बुकः । नापितवास्तुकः (म.भा.2.297)। पूर्वेणैव ठञि सिद्धे नियमार्थं वचनम् - वृद्धादेव प्राचामवृद्धान्न भवतीति । मल्लवास्तु - माल्लवास्तवः ।।
धन्वयोपधाद्‌ वुञ्‌ ।। 4-2-121 ।।
`वृद्धात्‌ इति वर्तते, देश इति च । धन्ववाचिनो यकारोपधाच्च देशाभिधायिनो वृद्धात्प्रातिपदिकाद्‌ वुञ्‌ प्रत्ययो भवति शैषिकः । धन्वशब्दो मरुदेशवचनः । पारेधन्वकः । ऐरावतकः । योपधात्‌ - साङ्काश्यकः (म.भा.2.297)। काम्पिल्यकः ।।
प्रस्थपुरवहान्ताच्च ।। 4-2-122 ।।
`वृद्धात्‌ इत्येव, `देशे इति च; अन्तशब्दः प्रत्येकमभिसम्बद्ध्यते । प्रस्थ, पुर, वह इत्येवमन्तादेशवाचिनः प्रातिपदिकाद्‌ वृद्धाद्‌ वुञ्प्रत्ययो भवति शैषिकः । छस्यापवादः । मालाप्रस्थकः । नान्दीपुरकः (म.भा.2.298)। कान्तीपुरकः । पैलुवहकः । फाल्गुनीवहकः ।
पुरान्तो रोपधः, तत उत्तरसूत्रेणैव सिद्धमप्रागर्थमिह ग्रहणम् ।।
रोपधेतोः प्राचाम् ।। 4-2-123 ।।
`वृद्धात्‌ इत्येव, `देशे इति च । तद्विशेषणं प्राग्ग्रहणम् । रोपधादीकारान्ताच्च प्राग्देशवाचिनो वृद्धाद्‌ वुञ्‌ प्रत्ययो भवति शैषिकः । छस्यापवादः । पाटलिपुत्रकाः । ऐकचक्रकाः । ईतः खल्वपि - काकन्दी, काकन्दकः । माकन्दी, माकन्दकः ।
प्राचामिति किम् ? दात्तामित्त्रीयः ।
तपरकरणं विस्पष्टार्थम् ।।
जनपदतदवध्योश्च ।। 4-2-124 ।।
`वृद्धात्‌ इत्येव, `देशे इति च । तद्विशेषणं जनपदतदवधी । वृद्धाज्जनपदवाचिनस्तदवधिवाचिनश्च प्रातिपदिकाद्‌ वुञ्‌ प्रत्ययो भवति शैषिकः । छस्यापवादः । आभिसारकः । आदर्शकः । जनपदावधेः खल्वपि - औपुष्टकः । श्यामायनकः ।
तदवधेरपि जनपद एव गृह्यते, न ग्रामः । किमर्थं तर्हि ग्रहणम् ? बाधकबाधनार्थम् । गर्त्तोत्तरपदाच्छं बाधित्वा वुञेव जनपदावधेर्भवति । त्रैगर्त्तकः ।।
अवृद्धादपि बहुवचनविषयात्‌ ।। 4-2-125 ।।
`जनपदतदवध्योः इत्येव । अवृद्धाद्‌, वृद्धाच्च जनपदात्तदवधिवाचिनश्च बहुवचनविषयात्प्रातिपदिकाद्‌ वुञ्प्रत्ययो भवति शैषिकः । अण्छयोरपवादः । अवृद्धाज्जनपदात्तावत्‌ - अङ्गाः । वङ्गाः । कलिङ्गाः । आङ्गकः । वाङ्गकः । कालिङ्गकः । अवृद्धाज्जनपदावधेः - अजमीढाः । अजक्रन्दाः । आजमीढकः । आजक्रन्दकः । वृद्धाज्जनपदात्‌ - दार्वाः । जाम्ब्वाः । दार्वकः । जाम्ब्वकः । वृद्धाज्जनपदावधेः - कालञ्जरः । वैकुलिशाः । कालञ्जरकः । वैकूलिशकः ।
विषयग्रहणमनन्यत्र भावार्थम् । जनपदैकशेषबहुत्वे मा भूत्‌ । वर्तन्यः । वार्तनः ।
अपिग्रहणं किम् । यावता वृद्धात्पूर्वेणैव सिद्धम् ? तक्रकौण्डिन्यन्यायेन बाधा मा विज्ञायीति समुच्चीयते ।।
कच्छाग्निवक्त्रगर्त्तोत्तरपदात्‌ ।। 4-2-126 ।।
`देशे इत्येव । उत्तरपदशब्दः प्रत्येकमभिसम्बद्ध्यते । कच्छाद्युत्तरपदाद्देशवाचिनः प्रातिपदिकाच्च वृद्धादवृद्धाच्च वुञ्‌ प्रत्ययो भवति शैषिकः । छाणोरपवादः । दारुकच्छकः । पैप्पलीकच्छकः । काण्डाग्नकः । वैभुजाग्नकः । ऐन्द्रवक्त्रकः । सैन्धुवक्त्रकः । बाहुगर्तकः । चाक्रगर्तकः ।।
धूमादिभ्यश्च ।। 4-2-127 ।।
धूमादिभ्यो देशवाचिभ्यः प्रातिपदिकेभ्यो वुञ्‌ प्रत्ययो भवति शैषिकः । अणादेरपवादः । धौमकः । खाण्डकः ।
पाथेयशब्दः पठ्यते, तस्य योपधात्वादेव वुञि सिद्धे सामर्थ्याददेशार्थं ग्रहणम् ।
तथा विदेहानर्तशब्दयोर्जनपदलक्षणे वुञि सिद्धेऽदेशार्थः पाठः । विदेहानां क्षत्त्रियाणां स्वं वैदेहकम् । आनर्तकम्

समुद्रशब्दः पठ्यते, तस्य नावि मनुष्ये च वुञिष्यते - सामुद्रिका नौः । सामुद्रको मनुष्यः । अन्यत्र न भवति - सामुद्रं जलमिति ।
धूम । खण्ड । शशादन । आर्जुनाद । दाण्डायनस्थली । माहकस्थली । घोषस्थली । माषस्थली । राजस्थली । राजगृह । सत्रासाह । भक्षास्थली । मद्रकूल । गर्त्तकूल । आञ्जीकूल । द्व्याहाव । त्र्याहाव । संहीय । वर्वर । वर्चगर्त । विदेह । आनर्त्त । माठर । पाथेय । घोष । शिष्य । मित्त्र । वल । आराज्ञी । धार्तराज्ञी । अवयात । तीर्थ । * कूलात्सौवीरेषु * (ग.सू.97)। * समुद्रान्नावि मनुष्ये *(ग.सू.98) । कुक्षि । अन्तरीप । द्वीप । अरुण । उज्जयिनी । दक्षिणापथ । साकेत ।
नगरात्कुत्सनप्रावीण्ययोः ।। 4-2-128 ।।
नगरशब्दात्‌ वुञ्‌ प्रत्ययो भवति शैषिकः कुत्सने प्रावीण्ये च गम्यमाने । प्रत्ययार्थविशेषणं चैतत्‌ - कुत्सने प्रावीण्ये च जातादौ प्रत्ययार्थ इति । कुत्सनम् = निन्दनम् । प्रावीण्यम् = नैपुण्यम् ।।
केनेदं मुषितः पन्था गात्रे पक्ष्मालिधूसरः ।
इह नगरे मनुष्येण सम्भाव्यत एतन्नागरकेण । चौरा हि नगरका भवन्ति ।
केनेदं लिखितं चित्रं मनोनेत्रविकाशि यत्‌ ।
इह नगरे मनुष्येण सम्भाव्यत एतन्नागरकेण । प्रवीणा हि नागरका भवन्ति ।
कुत्सनप्रावीण्ययोरिति किम् ? नागरा ब्राह्मणाः । कत्त्र्यादिषु तु संज्ञाशब्देन साहचर्यात्संज्ञानगरं पठ्यते, तस्मिन्‌ नागरेयकमिति प्रत्युदाहार्यम् ।।
अरण्यान्मनुष्ये ।। 4-2-129 ।।
अरण्यशब्दाद्‌ वुञ्‌ प्रत्ययो भवति शैषिको मनुष्येऽभिधेये । औपसङ्ख्यानिकस्य णस्यापवादः । आरण्यको मनुष्यः ।

  • पथ्यध्यायन्यायविहारमनुष्यहस्तिष्विति वक्तव्यम् * (म.भा.2.299)। आरण्यकः पन्थाः । आरण्यकोऽध्यायः । आरण्यको न्यायः । आरण्यको विहारः । आरण्यको मनुष्यः । आरण्यको हस्ती ।
  • वा गोमयेषु * । आरण्याः, आरण्यका गोमयाः ।

एतेष्विति किम् ? आरण्याः पशवः ।।
विभाषा कुरुयुगन्धराभ्याम् ।। 4-2-130 ।।
कुरु, युगन्धर इत्येताभ्यां विभाषा वुञ्‌ प्रत्ययो भवति शैषिकः । कौरवकः, कौरवः । यौगन्धरकः, यौगन्धरः (म.भा.2.300)। जनपदशब्दावेतौ, ताभ्याम् `अवृद्धादपि इति नित्ये वुञि प्राप्ते विकल्प उच्यते ।
कुरुशब्दः कच्छादिष्वपि पठ्यते, तत्र वचनादणपि भविष्यति । सैषा युगन्धरार्था विभाषा । मनुष्यतस्थयोः(4-2-134/1358)तु कुरुशब्दान्नित्य एव वुञ्प्रत्ययो भवति । कौरवको मनुष्यः, कौरवकमस्य हसितमिति(म.भा.2.300) ।।
मद्रवृज्योः कन्‌ ।। 4-2-131 ।।
मद्रवृजिशब्दाभ्यां कन्‌ प्रत्ययो भवति शैषिकः । जनपदवुञोऽपवादः । मद्रेषु जातः मद्रकः । वृजिकः ।।
कोपधादण्‌ ।। 4-2-132 ।।
`देशे इत्येव । ककारोपधात्प्रातिपदिकादण्प्रत्ययो भवति शैषिकः । जनपदवुञोऽपवादः । अन्यत्र जनपदं मुक्त्वा पूर्वेणैव कोपधादणि सिद्धम् । ऋषिकेषु जातः आर्षिकः । माहिषिकः ।
अण्ग्रहणमुवर्णान्तादपि स्यात्‌ - इक्ष्वाकुषु जातः ऐक्ष्वाकः ।।
कच्छादिभ्यश्च ।। 4-2-133 ।।
`देशे इत्येव । `कच्छ इत्येवमादिभ्यो देशवाचिभ्योऽण्प्रत्ययो भवति शैषिकः । वुञादेरपवादः । काच्छः । सैन्धवः । वार्णवः ।
कच्छशब्दो न बहुवचनविषयः, तस्य मनुष्यतत्स्थयोर्वुञर्थः पाठः । विजापकशब्दः पठ्यते,तस्य कोपधत्वादेवाणि
सिद्धे इह ग्रहणमुत्तरार्थम् ।
कच्छ । सिन्धु । वर्णु । गन्धार । मधुमत्‌ । कम्बोज । कश्मीर । साल्व । कुरु । रङ्कु । अणु । खण्ड । द्वीप । अनूप । अजवाह । विजापक । कुलून । कच्छादिः ।।
मनुष्यतत्स्थयोर्वुञ्‌ ।। 4-2-134 ।।
`कच्छादिभ्यः इत्येव । मनुष्ये मनुष्यस्थे च जातादौ प्रत्ययार्थे कच्छादिभ्यो वुञ्‌ प्रत्ययो भवति । अणोऽपवादः । काच्छको मनुष्यः । काच्छकमस्य हसितं, जल्पितम् । काच्छिका चूडा । सैन्धवको मनुष्यः । सैन्धवकमस्य हसितं, जल्पितम् । सैन्धविका चूडा ।
मनुष्यतत्स्थयोरिति किम् ? काच्छो गौः । सैन्धवो वार्णवः ।।
अपदातौ साल्वात्‌ ।। 4-2-135 ।।
साल्वशब्दः कच्छादिषु पठ्यते, ततः पूर्वेणैव मनुष्यतत्स्थयोर्वुञि सिद्धे नियमार्थं वचनम् । अपदातावेव मनुष्ये मनुष्यस्थे च साल्वशब्दाद्‌ वुञ्प्रत्ययो भवति । साल्वको मनुष्यः । साल्वकमस्य हसितं, जल्पितम् ।
अपदाताविति किम् ? साल्वः पदातिर्व्रजति ।।
गोयवाग्वोश्च ।। 4-2-136 ।।
गवि यवाग्वां च जातादौ प्रत्ययार्थे साल्वशब्दाद्‌ वुञ्प्रत्ययो भवति शैषिकः । कच्छाद्यणोऽपवादः । साल्वको गौः । साल्विका यवागूः । साल्वमन्यत्‌ ।।
गर्त्तोत्तरपदाच्छः ।। 4-2-137 ।।
`देशे इत्येव । गर्त्तोत्तरपदाद्देशवाचिनः प्रातिपदिकाच्छः प्रत्ययो भवति शैषिकः । अणोऽपवादः । वाहीकग्रामलक्षणं च प्रत्ययं परत्वाद्‌ बाधते । वृकगर्त्तीयम् । शृगालगर्त्तीयम् । श्वाविद्‌गर्त्तीयम् ।
उत्तरपदग्रहणं बहुच्पूर्वनिरासार्थम् - बाहुगर्तम् ।।
गहादिभ्यश्च ।। 4-2-138 ।।
`गह इत्येवमादिभ्यः प्रातिपदिकेभ्यश्छः प्रत्ययो भवति शैषिकः । अणादेरपवादः । गहीयः । अन्तःस्थीयः । देशाधिकारेऽपि सम्भवापेक्षं विशेषणम्, न सर्वेषाम् । `मध्यमध्यमं चाण्‌ चरणे इति पठ्यते, तस्यायमर्थः मध्यशब्दः प्रत्ययसन्नियोगेन मध्यममापद्यते । मध्यमीयाः । चरणे तु प्रत्ययार्थेऽण्‌ भवति - माध्यमा इति । तदेतद्विशेष एव स्मर्यते पृथिवीमध्यस्य मध्यमभावः । चरणसम्बन्धेन निवासलक्षणोऽणिति च (म.भा.2.301)।

  • मुखपार्श्वतसोर्लोपश्च * । मुखतीयम् । पार्श्वतीयम् ।
  • कुग्जनस्य परस्य च * । जनकीयम् । परकीयम् ।
  • देवस्य चेति वक्तव्यम् * । देवकीयम् ।
  • वेणुकादिभ्यश्छण्‌ वक्तव्यः * । आकृतिगणोऽयम् । वैणुकीयम् ।

वैत्रकीयम् । औत्तरपदकीयम् । प्रास्थकीयम् । माध्यमकीयम् ।
गह । अन्तःस्थ । सम । विषम । * मध्यमध्यमं चाण्यरणे * (ग.सू.99)। उत्तम । अङ्ग । वङ्ग । मगध । पूर्वपक्ष । अपरपक्ष । अधमशाख । उत्तमशाख । समानशाख । एकग्राम । एकवृक्ष । एकपलाश । इष्वग्र । इष्वनी । अवस्यन्दी । कामप्रस्थ । खाडायनि । कावेरणि । शैशिरि । शौङ्गि । आसुरि । आहिंसि । आमित्रि । व्याडि । वैदजि । भौजि । आढ्यश्वि । आनृशंसि । सौवि । पारकि । अग्निशर्मन्‌ । देवशर्मन्‌ । श्रौति । आरटकि । वाल्मीकि । क्षेमवृद्धिन्‌ । उत्तर । अन्तर । * मुखपार्श्वंतसोर्लोपः * (ग.सू.100)। * जनपरयोः कुक्च *(ग.सू.101) । * दैवस्य च * (ग.सू.102)। * वेणुकादिभ्यश्छण्‌ *(ग.सू.103) । गहादिः ।।
प्राचां कटादेः ।। 4-2-139 ।।
`देशे इत्येव । तद्विशेषणं प्राग्ग्रहणम् । प्राम्देशवाचिनः कटादेः प्रातिपदिकाच्छः प्रत्ययो भवति शैषिकः । अणोऽपवादः । कटनगरीयम् । कटघोषीयम् । कटपल्वलीयम् ।।
राज्ञः क च ।। 4-2-140 ।।
असम्भवाद्देशाधिकारः, न विशेषणम् । राज्ञः ककारश्चान्तादेशो भवति छश्च प्रत्ययः । राजकीयम् ।
आदेशमात्रमिह विधेयम्, प्रत्ययस्तु वृद्धाच्छः(4-2-114/1337) इत्येव सिद्धः ।।
वृद्धादकेकान्तखोपधात्‌ ।। 4-2-141 ।।
`देशे इत्येव । वृद्धाद्देशवाचिनोऽक, इक इत्येवमन्तात्‌ खकारोपधाच्च प्रातिपदिकाच्छः प्रत्ययो भवति शैषिकः । कोपधलक्षणस्याणोऽपवादः । वाहीकग्रामलक्षणस्य च प्रत्ययस्य, `रोपधेतोः प्राचाम् इति च । अकान्तात्तावत्‌ - आरीहणकीयम् । द्रौघणकीयम् । इकान्तात्‌ - आश्वपथिकीयम् । शाल्मलिकीयम् । खोपधात्‌ - कौटिशिखीयम् । आयोमुखीयम् ।।

  • अकेकान्तग्रहणे कोपधग्रहणं सौसुकाद्यर्थम् * । सौसुकीयम् । मौसुकीयम् । ऐन्द्रवेणुकीयम् ।।

कन्थापलदनगरग्रामह्रदोत्तरपदात्‌ ।। 4-2-142 ।।
`देशे इत्येव, `वृद्धात्‌ इति च । कन्थाद्युत्तरपदाद्देशवाचिनो वृद्धात्प्रातिपदिकाच्छः प्रत्ययो भवति शैषिकः । वाहीकग्रामादिलक्षणस्य प्रत्ययस्यापवादः । दाक्षिकन्थीयम् । माहिकिकन्थीयम् । दाक्षिपलदीयम् । माहिकिपलदीयम् । दाक्षिनगरीयम् । माहिकिनगरीयम् । दाक्षिग्रामीयम् । माहिकिग्रामीयम् । दाक्षिह्रदीयम् । माहिकिह्रदीयम् ।।
पर्वताच्च ।। 4-2-143 ।।
पर्वतशब्दाच्छः प्रत्ययो भवति शैषिकः । अणोऽपवादः । पर्वतीयो राजा । पर्वतीयः पुरुषः ।।
विभाषाऽमनुष्ये ।। 4-2-144 ।।
पर्वतशब्दाच्छः प्रत्ययो भवति वा, अमनुष्ये वाच्ये । पूर्वेण नित्ये प्राप्ते विकल्प उच्यते - पर्वतीयानि फलानि, पार्वतानि फलानि । पर्वतीयमुदकम्, पार्वतमुदकम् । अमनुष्ये इति किम् ? पर्वतीयो मनुष्यः ।।
कृकणपर्णाद्भारद्वाजे ।। 4-2-145 ।।
`देशे इत्येव । भारद्वाजशब्दोऽपि देशवचन एव, न गोत्रशब्दः । प्रकृतिविशेषणं चैतन्न प्रत्ययार्थः । कृकणपर्णशब्दाभ्यां भारद्वाजदेशवाचिभ्यां छः प्रत्ययो भवति शैषिकः । कृकणीयम् । पर्णीयम् ।
भारद्वाज इति किम् ? कार्कणम् । पार्णम् ।।
              इति श्रीजयादित्यविरचितायां काशिकावृत्तौ
                   चतुर्थाध्यायस्य द्वितीयः पादः