काशिका/षष्ठोऽध्यायः/द्वितीयः पादः
अथ षष्ठाध्याये द्वितीयः पादः
बहुव्रीहौ प्रकृत्या पूर्वपदम्।। <6-2-1>।।
पूर्वपदग्रहणमत्र पूर्वपदस्थे स्वरे उदात्ते स्वरिते वा वर्त्तते। बहुव्रीहौ समासे पूर्वपदस्य यः स्वरः स प्रकृत्या भवति स्वभावेनावतिष्ठते, न विकारमनुदात्तत्वमापद्यते। समासान्तोदात्तत्वे हि सति अनुदात्तं पदमेकवर्जम्(6-1-158/3650) इति सोऽनुदात्तः स्यादिति समासान्तोदात्तत्वापवादोऽयमारभ्यते । कार्ष्णोत्तरासङगाः । कृष्णो मृगः तस्य विकारः कार्ष्णः प्राणिरजतादिभ्योऽञ् इत्यञ्प्रत्ययान्तो ञित्स्वरेणाद्युदात्तः। यूपवलजः । यूपशब्द उणादिषु `कुसुयुभ्यश्च(उ.313-314) इति पप्रत्ययान्तः तत्र च दीर्घः इति, नित् इति च वर्त्तते,तेनाद्युदात्तः। ब्रह्मचारिपरिस्कन्दः। ब्रह्मचारिन्शब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः। स्नातकपुत्रः । स्नातशब्दः कन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः। अध्यापकपुत्रः। लित्स्वरेणाध्यापकशब्दो मध्योदात्तः। श्रोत्रियपुत्रः । श्रोत्रियशब्दो नित्त्वादाद्युदात्तः। मनुष्यनाथः। मनुष्यशब्दः तित्स्वरितम्(6-1-185/3799) इति स्वरितान्तः। उदात्तग्रहणं स्वरितग्रहणं चात्रानुवर्तते, तेन सर्वानुदात्ते पूर्वपदे विधिरेव नास्तीति समासान्तेदात्तत्वं भवति। समभाग इति समशब्दो हि सर्वानुदात्तः।।
</6-2-1>
तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः।।<6-2-2>।।
तत्पुरुषे समासे तुल्यार्थं तृतीयान्तं सप्तम्यन्तमुपमानवाचि अव्ययं द्वितीयान्तं कृत्यान्तं च यत्पूर्वपदं तत्प्रकृतिस्वरं भवति। तुल्यार्थ-तुल्यश्वेतः। तुल्यलोहितः। तुल्यमहान्। सदृक्श्वेतः । सदृग्लोहितः । सदृग्महान् । सदृशश्वेतः । सदृशलोहितः सदृशमहान्। एते कृत्यतुल्याख्या अजात्या इति कर्मधारयाः। तत्र तुल्यशब्दः यतोऽनावः(6-1-213/3701) इत्याद्युदात्तः । सदृक्शब्दः `समानान्ययोश्च(वा.261) इति क्विन्प्रत्ययान्तः , कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः सदृशशब्दोऽपि कञन्तो मध्योदात्तः । तुल्यार्थ ।
तृतीया-शङ्कुलया खण्डः शङ्कुलाखण्डः। किरिणा काणः किरिकाणः। शङ्कुपूर्वाल्लातेः घञर्थे कविधानम् इति वा कप्रत्ययान्तः शङ्कुलाशब्दोऽन्तोदात्तः। किरिशब्दोऽपि किरतेः कॄग़ॄशॄपॄकुटिभिदिच्छिदिभ्यश्च इतीकारप्रत्ययः, किदौणादिकः तेनासावन्तोदात्तः। तृतीया।
सप्तमी-अक्षेषु शौण्डोऽक्षशौण्डः। पानशौण्डः। `अशेर्देवने(उ.640) इति सप्रत्ययान्तोन्तोऽक्षशब्दोऽन्तोदात्तः। पानशब्दो ल्युडन्तो लित्स्वरेणाद्युदात्तः। सप्तमी ।
उपमान-शास्रीश्यामा। कुमुदश्येनी। हंसगद्गदा । न्यग्रोधपरिमण्डला। दूर्वाकाण्डश्यामा। शारकाण्डगौरी। उपमानानि सामान्यवचनैः इति समासः। शास्रीशब्दो ङीष्प्रत्ययान्तोऽन्तोदात्तः। कुमुदशब्दोऽपि कौ मोदते इति मूलविभुजादित्वात्कप्रत्ययान्तः,`नब्विषयस्यानिसन्तस्य(फि.सू.26) इति वाऽऽद्युदात्तः। हंसशब्दः `वॄतॄवदिहनिकमिकषिभ्यः सः(उ.349) इति सप्रत्ययान्तः। न्यग्रोहतोति न्यग्रोधः पचादित्वाद् अच्प्रत्ययान्तः, तस्य न्यग्रोधस्य च केवलस्य(7-3-5/1543) इति निपातनाद् हकारस्य धकारः मध्योदात्तत्वं च। दूर्वाकाण्डशरकाण्डशब्दौ षष्ठीतत्पुरुषावुत्तरपदाद्युदात्तौ। उपमान। अव्यय-अब्राह्मणः। अवृषलः। कुब्राह्मणः। कुवृषलः। निष्कौशम्बिः। निर्वाराणसिः। अतिमालः। एतान्यवयवान्याद्युदात्तानि। * अव्यये नञ्कुनिपातानामिति वक्तव्यम् *(म.भा.3-123) इह मा भूत् स्नात्वाकालक इति।
द्वितीया-मुहूर्त्तसुखम्। मुहूर्त्तरमणीयम्। सर्वरात्रकल्याणी। सर्वरात्रशोभना। अत्यन्तसंयोगे च(2-2-29/691) इति द्वितीयासमासः । मुहूर्त्तशब्दः पृषोदरादिरन्तोदात्तः । सर्वरात्रशब्दोऽप्यच्प्रत्ययान्तः । द्वितीया ।
कृत्य - भोज्योष्णम् । भोज्यलवणम् । पानीयशीतम् । हरणीयचूर्णम् । भोज्यशब्दौ ण्यदन्तोऽन्तस्वरितः। पानीयहरणीयशब्दयोः उपोत्तमं रिति(6-1-217/3733) इति ईकार उदात्तः।।
</6-2-2>
वर्णो वर्णेष्वनेते ।। <6-2-3>।।
प्रकृत्या पूर्वपदम्, तत्पुरुषे इति च वर्त्तते। वर्णं वर्णवाचि पूर्वपदं वर्णवाचिष्वेवोत्तरपदेषु एतशब्दवर्जितेषु
परतस्तत्पुरुषे समासे प्रकृतिस्वरं भवति। कृष्णसारङ्गः, लोहितसारङ्गः। कृष्णकल्माषः, लोहितकल्माषः । `कृषेर्वंर्णे(उ.291) इति कृष्णशब्दो नक्प्रत्ययान्तोऽन्तोदात्तः। लोहितशब्दोऽपि `रुहे रश्च लो वा(उ.381) इतीतन्प्रत्ययान्त आद्युदात्तः। वर्ण इति किम् परमकृष्णः । वर्णेष्वति किम् कृष्णतिलाः अनेत इति किम् कृष्णैतः। लोहितैतः।।
</6-2-3>
गाधलवणयोः प्रमाणे।। <6-2-4>।।
प्रमाणवाचिनि तत्पुरुषे समासे गाध, लवण- इत्येतयोरुत्तरपदयोः पूर्वपदं प्रकृतिस्वरं भवति। शम्बगाधमुदकम्।
अरित्रगाधमुदकम् । तत्प्रमाणमित्यर्थः। गोलवणम् । अश्वलवणम्। यावद् गवे दीयते तावदित्यर्थः। षष्ठीसमासा एते। तत्र `शमेर्बन्(उ.543) इति बन्प्रत्ययान्तत्वाच्छम्बशब्द आद्युदात्तः अरित्रशब्दः अर्त्तिलूधूसू(3-2-184/3165) इतीत्रप्रत्ययान्तो मध्योदात्तः। गोशब्दो डोप्रत्ययान्तोऽन्तोदात्तः। अश्वशब्दः `अशूप्रुषि(उ.157) इति क्वन्प्रत्ययान्त आद्युदात्तः। प्रमाणम् - इयत्तापरिच्छेदमात्रमिह द्रष्टव्यम्, न पुनरायाम एव । स्वरव्यङ्ग्यं च प्रमाणविशेषविषयत्वमेतेषाम्। प्रमाण इति किम् परमगधम् परमलवणम्।।
</6-2-4>
दायाद्यं दायादे ।। <6-2-5>।।
तत्पुरुषे समासे दायादशब्द उत्तरपदे दायाद्यवाचि पूर्वपदं प्रकृतिस्वरं भवति। विद्यादायादः। धनदायादः। संज्ञायां समजनिषद(3-3-99/3276) इति विद्याशब्दः क्यप्प्रत्ययान्तः। उदात्तः इति च तत्र वर्त्तते,तेनायमन्तोदात्तः। `कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युः(उ.248) इति बहुलवचनात् केवलादपि धाञः क्युप्रत्ययः तेन धनशब्दः प्रत्ययस्वरेणाद्युदात्तः । अथ विद्यादायाद इति केन षष्ठी? स्वामीश्वराधिपतिदायाद(2-3-39/639) इति । यद्येवम्, `प्रतिपदविधाना च षष्ठी न समस्यते(वा.89) इति समासप्रतिषेधः प्राप्नोति ? एवं तर्हि शेषलक्षणैवात्र षष्ठी, तस्यास्तु सप्तमी विधीयमाना बाधिका मा विज्ञायीति पुनरभ्यनुज्ञायते । दायाद्यमिति किम् परमदायादः। अत्र समासान्तोदात्तत्वमेव भवति ।।
</6-2-5>
प्रतिबन्धि चिरकृच्छ्रयोः।। <6-2-6>।।
तत्पुरुषे समासे चिरकृच्छ्रयोरुत्तरपदयोः प्रतिबन्धिवाचि पूर्वपदं प्रकृतिस्वरं भवति। गमनचिरम्। गमनकृच्छ्रम्। व्याहरणचिरम्। व्याहरणकृच्छ्रम्। गमनव्याहरणशब्दौ ल्युडन्तौ,तयोर्लित्स्वरः। गमनं च यच्चिरं चेति विशेषणसमासोऽयम्, मयूरव्यंसकादिर्वैष द्रष्टव्यः। गमनं हि कारणविकलतया चिरकालभावि कृच्छ्रयोगि वा प्रतिबन्धि जायते। प्रतिबन्धीति किम्? मूत्रकृच्छ्रम्।।
</6-2-6>
पदेऽपदेशे।।<6-2-7>।।
अपदेशः - व्याजः, तद्वाचिनि तत्पुरुषे समासे पदशब्द उत्तरपदे पूर्वपदं प्रकृतिस्वरं भवति। मूत्रपदेन प्रस्थितः। उच्चारपदेन प्रस्थितः। मूत्रशब्दः `सिविमुच्योष्टेरू च(उ.612) इति ष्ट्रन्प्रत्ययान्तः, मूत्रयतेर्वा घञन्त आद्युदात्तः। उच्चारशब्दोऽपि घञन्तः थाथघञ्क्ताजबित्रकाणाम्(6-2-144/3878) इत्यन्तोदात्तः । विशेषणसमासोऽयम्, मयूरव्यंसकादिर्वा । अपदेश इति किम्? विष्णोः पदं विष्णुपदम् ।।
</6-2-7>
निवाते वातत्राणे।। <6-2-8>।।
निवातशब्दे उत्तरपदे वातत्राणवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। कुट्येव निवातम् कुटीनिवातम्, अर्थाभाव इत्यव्ययीभावः । निरुद्धो वातोऽस्मिन्निति वा निवातमिति बहुव्रीहिः। तत्र कुड्यादिहेतुके निवाते कुड्यादयो वर्तमानाः समानाधिकरणेन निवातशब्देन सह समस्यन्ते। कुटी-शमीशब्दौ गौरादिङीषन्तावन्तोदात्तौ। कुड्यशब्दोऽपि कवतेर्यत् डिकिच्च इति यत्प्रत्ययान्त आद्युदात्त इत्येके। ड्यक्प्रत्ययान्तोऽन्तोदात्त इत्यपरे।
वातत्राण इति किम् राजनिवाते वसति। सुखं मातृनिवातम्। निवातशब्दोऽयं पार्श्ववाची रूढिशब्दः,तत्रोभयत्र
षष्ठीसमासः।
</6-2-8>
शारदेऽनार्तवे।।<<6-2-9>>।।
ॠतौ भवमार्तवम्। अनार्तववाचिनि शारदशब्दे उत्तरपदे तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। रज्जुशारदमुदकम्। दृषत्शारदाः सक्तवः। शारदशब्दोऽयं प्रत्यग्रवाची, तस्य नित्यसमासः, अस्वपदविग्रह इष्यते। सद्यो रज्जूद्धृतमुदकं प्रत्यग्रमनुपहतं रज्जुशारदमुच्यते। रज्जुशब्दः `सृजेरसुम् च(उ.15) इति उप्रत्ययान्त आदिलोपश्च। `धान्ये नित् इति च तत्र वर्त्तते,तेनाद्युदात्तः। दृषत्-शब्दः `दृणातेः षुग् ह्रस्वश्च(उ.136) इति इदिक्प्रत्यान्तोऽन्तोदात्तः । अनार्त्तव इति किम् परमशारदम्। उत्तमशारदम्। शरदि ऋतुविशेषे भवं यत्तदिह शारदम्।।
</6-2-9>
अध्वर्युकषाययोर्जातौ।। <6-2-10>।।
अध्वर्यु, कषाय-इत्येतयोर्जातिवाचिनि तत्पुरुषे समासे पूर्वंपदं प्रकृतिस्वरं भवति। प्राच्याध्वर्युः। कठाध्वर्युः। कलापाध्वर्युः। एते समानाधिकरणसमासा जातिवाचिनो नियतविषयाः। तत्र प्राच्यशब्दो यत्प्रत्ययान्त आद्युदात्तः। कठशब्दः पचाद्यचि व्युत्पादितः, ततः कठेन प्रोक्तमिति वैशम्पायनान्तेवासिभ्यश्च(4-3-104/1484) इति णिनिः,तस्य कठचरकाल्लुक्(4-3-107/1487) इति लुक्। कलापिना प्रोक्तमिति कलापिनोऽण्(4-3-108/1488) तस्मिन् इनण्यनपत्ये(6-4-164/1245) इति प्रकृतिभावे प्राप्ते `नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकौथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानम्(वा.469) इति टिलोपः। तदेवं कलापशब्दोऽन्तोदात्तः । सर्पिर्मण्डकषायम् । उमापुष्पकषायम् । दौवारिककषायम् । षष्ठीसमासव्युत्पादिता रूढिशब्दा एते। तत्र सर्पिर्मण्डशब्दः, उमापुष्पशब्दश्च षष्ठीसमासावन्तोदात्तौ । दौवारिकशब्दोऽपि द्वारे नियुक्तः इति ठकि सत्यन्तोदात्त एव । जाताविति किम् परमाध्वर्युः। परमकषायः।।
</6-2-10>
सदृशप्रतिरूपयोः सादृश्ये।। <6-2-11>।।
सदृश, प्रतिरूप - इत्येतयोरुत्तरपदयोः सादृश्यवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। पितृसदृशः। मातृसदृशः । पितृमातृशब्दावुणादिष्वन्तोदात्तौ निपातितौ । षष्ठीसमासार्थं च सदृशग्रहणमिह तदलुकि षष्ठ्याः प्रयोजयति,दास्याः सदृशः वृषल्याः सदृश इति। अत्र दासी - वृषलीशब्दयोरन्तोदात्तत्वाद् उदात्तयणो हल्पूर्वात्(6-1-174/3720) इति विभक्तिरन्तोदात्ता । पितृप्रतिरूपः । मातृप्रतिरूपः । सादृश्य इति किम्? परमसदृशः उत्तमसदृशः। समासार्थोऽत्र पूज्यमानता, न सादृश्यम् ।।
</6-2-11>
द्विगौ प्रमाणे।। <6-2-12>।।
द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। प्राच्यसप्तशमः । गान्धारिसप्तशमः । सप्तशमाः प्रमाणमस्येति मात्रच उत्पन्नस्य `प्रमाणे लः(वा.558) `द्विगोर्नित्यम्(वा.559) इति लुक्। प्राच्यश्चासौ सप्तशमश्चेति प्राच्यसप्तशमः। प्राच्यशब्द आद्युदात्तः। गान्धारिशब्दः कर्दमादित्वादाद्युदात्तः मध्योदात्तो वा। द्विगाविति किम्? व्रीहिप्रस्थः। प्रमाण इति किम्? परमसप्तशमः ।।
</6-2-12>
गन्तव्यपण्यं वाणिजे।। <6-2-13>।।
वाणिजशब्द उत्तरपदे तत्पुरुषे समासे गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिस्वरं भवति। मद्रवाणिजः। काश्मीरवाणिजः। गान्धारिवाणिजः। मद्रादिषु गत्वा व्यवहरन्तीत्यर्थः। सप्तमीसमासा एते। तत्र मद्रशब्दो रक्प्रत्ययान्तत्वादन्तोदात्तः। काश्मीरशब्दोऽपि पृषोदरादिषु मध्योदात्तः। गान्धारिशब्दः कर्दमादिषु पठ्यते,तत्र कर्दमादीनां वा इति पक्षे आद्युदात्तो भवति,द्वितीयो वा। पण्य-गोवाणिजः। अश्ववाणिजः । गोशब्दोऽन्तोदात्तः।
अश्वशब्द आद्युदात्तः। गन्तव्यपण्यमिति किम्? परमवाणिजः उत्तमवाणिजः।।
</6-2-13>
मात्रोपज्ञोपक्रमच्छाये नपुंसके।। <6-2-14>।।
मात्रा, उपज्ञा, उपक्रम, छाया -एतेषूत्तरपदेषु नपुंसकवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। भिक्षामात्रं न ददाति याचितः। समुद्रमात्रं न सरोऽस्ति किञ्चन । मात्रशब्दोऽयं वृत्तिविषय एव तुल्यप्रमाणे वर्त्तते । तत्र भिक्षायास्तुल्यप्रमाणमित्यस्वपदविग्रहः षष्ठीसमासः । तत्र भिक्षाशब्दः गुरोश्च हलः(3-3-103/3280) इत्यप्रत्ययान्तोऽन्तोदात्तः। समुद्रशब्दोऽपि फिषि `पाटलापालङ्काम्बासागरार्थानाम्(फि.सू.2) इत्यन्तोदात्त एव। उपज्ञा - पाणिनोपज्ञम् अकालकं व्याकरणम् । व्याड्युपज्ञं दुष्करणम् । आपिशल्युपज्ञं गुरुलाघवम् । षष्ठीसमासा एते। तत्र पाणिनोऽपत्यमित्यणन्तः पाणिनशब्दः प्रत्ययस्वरेणान्तोदात्तः। व्याडिरिञन्तत्वादाद्युदात्तः। तद्वदापिशलिः।
उपक्रम - आढ्योपक्रमं प्रासादः। दर्शनीयोपक्रमम्। सुकुमारोपक्रमम् । नन्दोपक्रमाणि मानानि। एतेऽपि षष्ठीसमासा एव। तत्रैत्यैनं ध्यायन्तीत्याढ्यः। `घञर्थे कविधानम्(वा.306) इति कप्रत्यय आङ्पूर्वाद् ध्यायतेः पृषोदरादित्वाद् हस्य ढत्वम्। तदयमाढ्यशब्दः थाथादिस्वरेण(6-2-144/3878)अन्तोदात्तः । दर्शनीयशब्दो रित्त्वादुपोत्तमोदात्तः । सुकमारशब्दो नञ्सुभ्याम्(6-2-172/3906) इत्यन्तोदात्तः। नन्दशब्दः पचाद्यचि व्युत्पादितः। उपज्ञोपक्रमान्तस्य तत्पुरुषस्य नपुंसकलिङ्गता उपज्ञोपक्रमं तदाद्याचिख्यासायाम्(2-4-21/824) इति । छाया - इषुच्छायम् । धनुश्छायम् । इषुशब्दः `इषेः किञ्च(उ.13) इत्युप्रत्ययान्तः तत्र च `धान्ये नित्(उ.9) इति वर्त्तते,तेनाद्युदात्तः। धनुःशब्दोऽपि `नब्विषयस्यानिसन्तस्य(फि.सू.26) इत्याद्युदात्त एव । इषूणां छायेति षष्ठीसमासः। छाया बाहुल्ये(2-4-22/825) इति नपुंसकलिङ्गता। नपुंसक इति किम्? कुड्यच्छाया।।
</6-2-14>
सुखप्रिययोर्हिते।। <6-2-15>।।
सुख, प्रिय - इत्येतयोरुत्तरपदयोर्हितवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति । गमनसुखम् ।
वचनसुखम् । व्याहरणसुखम् । सुख । प्रिय - गमनप्रियम् । वचनप्रियम् । व्याहरणप्रियम् । समानाधिकरणसामसा एते । तत्र सुखप्रियशब्दौ तद्धेतावायत्यां प्रीतिकरे वर्तेते। तद्धि हितं यदायत्यां प्रीतिं करोति । गमनादिषु ल्युडन्तेषु लित्स्वरः । हित इति किम्? परमसुखम् । परमप्रियम् ।।
</6-2-15>
प्रीतौ च।। <6-2-16>।।
प्रीतौ गम्यमानायां सुख, प्रिय - इत्येतयोरुत्तरपदयोस्तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति । ब्राह्मणसुखं पायसम् । छात्त्रप्रियोऽनध्यायः। कन्याप्रियो मृदङ्गः। सुख प्रिययोः प्रीत्यव्यभिचारादिह प्रीतिग्रहणं तदतिशयप्रतिपत्त्यर्थम् । ब्राह्मणच्छात्त्रशब्दौ प्रत्ययस्वरेणान्तोदात्तौ । कन्याशब्दः स्वरितान्तः । प्रीताविति किम् ? राजसुखम् । राजप्रियम् ।।
</6-2-16>
स्वंस्वामिनि।। <6-2-17>।।
स्वामिन्शब्द उत्तरपदे तत्पुरुषे समासे स्ववाचि पूर्वपदं प्रकृतिस्वरं भवति । गोस्वामी । अश्वस्वामी । धनस्वामी । अश्वधनगवां कथित एव स्वर । स्वमिति किम् ? परमस्वामी ।।
</6-2-17>
पत्यावैश्वर्ये।। <6-2-18>।।
पतिशब्द उत्तरपदे एश्वर्यवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरं भवति । गृहपतिः । सेनापतिः । नरपतिः। धान्यपतिः। गेहे कः(3-1-144/2906)इति प्रकृतिस्वरेणान्तोदात्तो गृहशब्दः । सह इनेन वर्त्तते इति बहुव्रीहौ
प्रकुत्या पूर्वपदम्(6-2-1/3735) इति सेनाशब्द आद्युदात्तः । `नॄ नये(धा.पा.1496) एतस्माद् ॠदोरप्(3-3-57/3232) इति अप्प्रत्ययान्त आद्युदात्तो नरशब्दः। धान्यमन्तःस्वरितम् । ऐश्वर्यमिति किम् ब्राह्मणो वृषलीपतिः। वृषल्या भर्तेत्यर्थः।।
</6-2-18>
नभूवाक्चिद्दिधिषु ।। <6-2-19>।।
पतिशब्द उत्तरपदे ऐश्वर्यवाचिनि तत्पुरुषे समासे भु, वाक्, चित्, दिधिषु - इत्येतानि पूर्वपदानि प्रकृतिस्वराणि न भवन्ति । पूर्वेण प्राप्तः स्वरः प्रितषिध्यते । भूपतिः । वाक्पतिः । चित्पतिः । दिधिषूपतिः । षष्ठीसमासा एते समासस्वरेणान्तोदात्ता भवन्ति।।
</6-2-19>
वा भुवनम्।। <6-2-20>।।
पतिशब्द उत्तरपदे ऐश्वर्यवाचिनि तत्पुरुषे समासे भुवनशब्दः पूर्वपदं वा प्रकृतिस्वरं भवति । भुवनपतिः । पूर्वपदप्रकृतिस्वरपक्षे आदिरुदात्तः। `रञ्जेः क्युन्(उ.246) इति वर्त्तमाने `भूसूधुभ्रस्जिभ्यश्छन्दसि(उ.247) इति क्युन्प्रत्ययान्तो भुवनशब्द आद्युदात्तो व्युत्पादितः । कथं भुवनपतिरादित्य इति? उणादयो बहुलम्(3-3-1/3169) इति बहुलवचनाद्भाषायामपि प्रयुज्यते ।।
</6-2-20>
आशङ्काबाधनेदीयस्सु संभावने ।। <6-2-21>।।
प्रकृत्या पूर्वपदम् तत्पुरुषे इति वर्त्तते। आशङ्क, आबाध, नेदीयस् - इत्येतेषूत्तरपदेषु सम्भावनवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति । अस्तित्वाध्यवसायः-सम्भावनम् । गमनाशङ्कं वर्त्तते । गमनमाशङ्क्यते इति सम्भाव्यते । वचनाशङ्कम् । व्याहरणाशङ्कम् । आबाध-गमनाबाधम् । वचनाबाधम् । व्याहरणाबाधम् । गमनं बाध्यत इति सम्भाव्यते । नेदीयस्-गमननेदीयः । व्याहरणनेदीयः । गमनमतिनिकटतरमिति सम्भाव्यते । सम्भावन इति किम्? परमनेदीयः । पूर्वपदानि ल्युडन्तान्युक्तस्वरणि ।।
</6-2-21>
पूर्वे भूतपूर्वे।। <6-2-22>।।
पूर्वशब्दे उत्तरपदे भूतपूर्ववाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति । आढ्यो भूतपूर्व आढ्यपूर्वः। पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्त्तते तत्र, विशेषणं विशेष्येण(2-1-57/736) इति समासः। मयूरव्यंसकादिर्वा द्रष्टव्यः। दर्शनीयपूर्वः । सुकुमारपूर्वः । भूतपूर्व इति किम्? परमपूर्वः । उत्तमपूर्वः । अत्र परमश्चासौ पूर्वश्चेति समासः, न तु परमो भूतपूर्व इति। तथा च सत्युदाहरणमेव भवति।।
</6-2-22>
सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये।। <6-2-23>।।
सविध, सनीड, समर्याद, सवेश, सदेश - इत्येतेषूत्तरपदेषु सामीप्यवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। मद्रसविधम्। गान्धारिसविधम्। काश्मीरसविधम्। मद्रसनीडम्। गान्धारिसनीडम्। काश्मीरसनीडम् । मद्रसमर्यादम् । गान्धारिसमर्यादम्। काश्मीरसमर्यादम्। मद्रसवेशम्। गान्धारिसवेशम्। काश्मीरसवेशम्।
मद्रसदेशम् । गन्धारिसदेशम् । काश्मीरसदेशम् । पूर्वपदान्युक्तस्वराणि । सविधादीनां सह विधयेत्येवमादिका व्युत्पत्तिरेव केवलम् । समीपवाचिनस्त्वेते समुदायाः। मद्राणां सविधम् -समीपमित्यर्थः। सामीप्य इति किम्? सह मर्यादया वर्त्तते समर्यादं क्षेत्रम्। देवदत्तस्य समर्यादं देवदत्तसमर्यादम् । सविधादिष्विति किम्? देवदत्तसमया ।।
</6-2-23>
विस्पष्टादीनि गुणवचनेषु ।। <6-2-24>।।
विस्पष्टादीनि पूर्वपदानि गुणवचनेषूत्तरपदेषु प्रकृतिस्वराणि भवन्ति । विस्पष्टकटुकम् । विचित्रकटुकम् । व्यक्तकटुकम् । विस्पष्टलवणम् । विचित्रलवणम् । व्यक्तलवणम् । विस्पष्टं कटुकमिति विगृह्य सुप्सुपा इति समासः। विस्पष्टादयो ह्यत्र प्रवृत्तिनिमित्तस्य विशेषणम् । कटुकादिभिश्च शब्दैर्गुणवद् द्रव्यमभिधीयते
इत्यसामानाधिकरण्यम्, अतो नास्ति कर्मधारयः । विस्पष्टशब्दो गतिरनन्तरः(6-2-49/3783) इत्याद्युदात्तः, विचित्रशब्दोऽप्यव्ययस्वरेण । विचित्तशब्दमन्ये पठन्ति, सोऽपि बहुव्रीहिस्वरेणाद्युदात्त एव । व्यक्तशब्दः उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य(8-2-4/3657) इत्यादिस्वरितः । ये चात्रापरे पठ्यन्ते, तत्र सम्पन्नशब्दस्थाथादिस्वरेणान्तेदात्तः । पटु-पण्डितशब्दौ प्रत्ययस्वरेणान्तोदात्तौ । कुशलशब्दः कृत्स्वरेणान्तोदात्तः । चपलशब्दश्चित्स्वरेणान्तोदात्तः, `चुपेरञ्चोपधायाः(उ.116) इत्यत्र हि चिदिति वर्तते । निपुणशब्दस्थाथादिस्वरेणान्तोदात्तः, कुणेरिगुपधलक्षणः कप्रत्ययोऽयम् । विस्पष्टादीनीति किम्? परमलवणम् । उत्तमलवणम् । गुणवचनेष्विति किम्? विस्पष्टब्राह्मणः । विस्पष्ट । विचित्र । व्यक्त । सम्पन्न । कटु । पण्डित। कुशल। चपल। निपुण। विस्पष्टादिः।।
</6-2-24>
श्रज्यावमकन्पापवत्सु भावे कर्मधारये।। <6-2-25>।।
श्र, ज्य, अवम्, कन्- इत्येतेषु पापशब्दवति चोत्तरपदे कर्मधारये समासे भाववाचि पूर्वपदं प्रकृतिस्वरं भवति । गमनश्रेष्ठम् । गमनश्रेयः । ज्य - वचनज्येष्ठम्, वचनज्यायः । अवम् - गमनावमम्, वचनावमम् । कन् - गमनकनिष्ठम्, गमनकनीयः । पापवत् - गमनपापिष्ठम्, गमनपापीयः । ल्युडन्तान्येतानि पूर्वपदानि लित्स्वरेणाद्युदात्तानि । श्रज्यकनामादेशानां ग्रहणमिति सामर्थ्यात्तद्वदुत्तरपदं गृह्यते। आदिष्विति किम्? गमनशोभनम्। भाव इति किम् गम्यतेऽनेनेति गमनम्,तत् श्रेयो गमनश्रेयः। कर्मधारये इति किम्? गमनं श्रेयो गमनश्रेयः।।
</6-2-25>
कुमारश्च ।। <6-2-26>।।
कुमारशब्दः पूर्वपदं कर्मधारये समासे प्रकृतिस्वरं भवति । कुमारश्रमणा । कुमारकुलटा । कुमारतापसी । कुमारशब्दोऽन्तोदात्तः । अत्र केचिल्लक्षणप्रतिपदोक्तपरिभाषया कुमारः श्रमणादिभिः(2-1-70/755) इत्यत्रैव समासे स्वरमेतमिच्छन्ति। केचित्पुनरविशेषेण सर्वत्रैव कर्मधारये।।
</6-2-26>
आदिः प्रत्येनसि।। <6-2-27>।।
कर्मधारये इति वर्त्तते। प्रतिगत एनसा, प्रतिगतमेनो वा यस्य स प्रत्येनाः । तस्मिन्नुत्तरपदे कर्मधारये कुमारस्यादिरुदात्तो भवति। कुमारप्रत्येना । उदात्तः इत्येतदत्र सामर्थ्याद्वेदितव्यम् । पूर्वपदप्रकृतिस्वर एव ह्ययमादेरुपदिश्यते ।।
</6-2-27>
पूगेष्वन्यतरस्याम्।। <6-2-28>।।
पूगाः-गणाः, तद्वाचिन्युत्तरपदे कर्मधारये समासे कुमारस्यान्यतरस्यामादिरुदात्तो भवति। कुमारचातकाः। कुमारलोहध्वजाः। कुमारबलाहकाः। कुमारजीमूताः। चातकादयः पूगशब्दाः, तेभ्यः पूगाञ्ञ्यो ग्रमणीपूर्वात्(5-3-112/2066) इति ञ्यः प्रत्ययः, तस्य तद्राजस्य बहुषु(2-4-62/1193) इति लुक्। अत्र यदाऽऽद्युदात्तत्वं न भवति, तदा कुमारश्च(6-2-26/3760) इति पूर्वपदप्रकृतिस्वरत्वमेके कुर्वन्ति। ये तु तत्र प्रतिपदोक्तस्य ग्रहणमिच्छन्ति तेषां समासान्तोदात्तत्वमेव भवति।।
</6-2-28>
इगन्तकालकपालभगालशारावेषु द्विगौ ।। <6-2-29>।।
इगन्त उत्तरपदे कालवाचिनि कपाल, भगाल, शराव - इत्येतेषु च द्विगौ समासे पूर्वपदं प्रकृतिस्वरं भवति। इगन्त-पञ्चारत्निः । दशारत्निः। पञ्चारत्नयः प्रमाणमस्य दशारत्नयः प्रमाणमस्येति तद्धितार्थे द्विगुः, `प्रमाणे लः(वा.558) `द्विगोर्नित्यम्(वा.559) इति मात्रचो लोपः। इगन्त । काल - पञ्चमास्यः । दशमास्यः। पञ्च मासान्भृतो भूतो भावी वेति तद्धितार्थे द्विगोर्यप् । पञ्चवर्षः । दशवर्षः । वर्षाल्लुक् च(5-1-88/1753) इति
ठञो लुक् । काल । कपाल - पञ्चकपालः । दशकपालः । कपाल । भगाल - पञ्चभगालः । दशभगालः । भगाल । शराव - पञ्चशरावः । दशशरावः । संस्कृतं भक्षाः(4-2-16/1217) इति तद्धितार्थ एते समासाः द्विगोर्लुगनपत्ये(4-1-88/1080) इति कृताण्प्रत्ययलोपा द्रष्टव्याः। इगन्तादिष्विति किम्? पञ्चभिरश्वैः क्रितः पञ्चाश्वः दशाश्वः। द्विगाविति किम् परमारत्निः परमशारावः । पञ्चारत्नयो दशारत्नय इति च यण्गुणयोर्बहिरङ्गलक्षणयोरसिद्धत्वात् स्थानिवद्भावाद्वा द्विगुस्वर इगन्तलक्षणः प्रवर्त्तते ।।
</6-2-29>
बह्वन्यतरस्याम्।। <6-2-30>।।
बहुशब्दः पूर्वपदमिगन्तादिषूत्तरपदेषु द्विगौ समासेऽन्यतरस्यां प्रकृतिस्वरं भवति । पूर्वेण नित्ये प्राप्ते विकल्पः । बह्वरत्निः । बहुमास्यः । बहुकपालः । बहुभगालः । बहुशरावः । बहुशब्दोऽन्तोदात्तः, तस्य प्रकृतिस्वरे कृते यत्र यणादेशास्तत्र उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य(8-2-4/3657) इत्येष स्वरो भवति ।।
</6-2-30>
दिष्टिवितस्त्योश्च ।। <6-2-31>।।
दिष्टि - वितस्ति, इत्येतयोरुत्तरपदयोर्द्विगौ समासे पूर्वपदमन्यतरस्यां प्रकृतिस्वरं भवति । पञ्चदिष्टिः । पञ्चवितस्तिः । दिष्टिवितस्त्योः प्रमाणे, तेनात्र मात्रचो लुक् ।।
</6-2-31>
सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात् ।। <6-2-32>।।
सप्तम्यन्तं पूर्वपदं सिद्ध, शुष्क, पक्व, बन्ध - इत्येतेषूत्तरपदेषु प्रकृतिस्वरं भवति, सा चेत्सप्तमी कालान्न भवति । सांकाश्यसिद्धः । काम्पिल्यसिद्धः। सांकाश्य-काम्पिल्यशब्दौ ण्यप्रत्ययान्तावन्तोदात्तौ। फिषि तु `सांकाश्यकामिपल्यनासिक्यदार्वाघाटानामन्तः पूर्व वा(फि.सू.65) इति पठ्यते, तत्र मध्योदात्तावपि भवतः। शुष्क - ऊकशुष्कः। निधनशुष्कः। ऊकशब्दो बहुलवचनादवतेः कक्प्रत्ययान्तोदात्तः। निधनशब्दो निधाञः क्युप्रत्यये मध्योदात्तः । पक्व - कुम्भीपक्वः। कलशीपक्वः। भ्राष्ट्रपक्वः। कुम्भीकलशीशब्दौ ङीषन्तावान्तोदात्तौ। भ्राष्ट्रशब्दः ष्ट्रन्प्रत्ययान्त आद्युदात्तः। बन्ध - चक्रबन्ध । चारकबन्धः । चक्रशब्दोऽन्तोदात्तः । चारकशब्दो ण्वुलन्त आद्युदात्तः । अकालादिति किम् पूर्वाह्णसिद्धः। अपराह्णसिद्धः । सप्तमीस्वरः कृत्स्वरेण बाधितः पुनरयं विधीयते ।।
</6-2-32>
परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु।। <6-2-33>।।
परि, प्रति, उप, अप - इत्येते पूर्वपदभूता वर्ज्यमानवाचिनि अहरवयववाचिनि रात्र्यवयववाचिनि चोत्तरपदे प्रकृतिस्वरा भवन्ति । परित्रिगर्त्तं वृष्टो देवः । परिसीवोरम् । चपरिसार्वसेनि । प्रति- प्रतिपूर्वाह्णम् । प्रत्यपराह्णम् । प्रतिपूर्वरात्रम् । प्रत्यपररात्रम् । उप - उपपूर्वाह्णम् । उपापराह्णम् । उपपूर्वरात्रम् । उपापररात्रम् । अप - अपत्रिगर्त्तं वृष्टो देवः। अपसौवीरम् । अपसार्वसेनि । `निपाता आद्युदात्ताः उपसर्गाश्चिभिवर्जम्(फि.सू.80) इति आद्युदात्तानि पूर्वपदानि । तत्पुरुषे बहुव्रीहौ च सिद्धत्वादव्ययीभावार्थोऽयमारम्भः। तत्र अपपरी वर्जने(1-4-88/596) वर्त्तेते इति तयोरेव वर्ज्यमानमुत्तरपदम्, नेतरयोः । अहोरात्रावयवा अपि वर्ज्यमाना एव तयोर्भवन्तीति न पृथगुदाह्रियते । वर्ज्यमानाहोरात्रावयवेष्विति किम्? प्रत्यग्नि शलभाः पतन्ति। परिवनमित्यत्र वनं समासे(6-2-178/3912) इत्येतद्भवति ।।
</6-2-33>
राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु।। <6-2-34>।।
राजन्यवाचिनां बहुवचनान्तानां यो द्वन्द्वोऽन्धकवृष्णिषु वर्त्तते तत्र पूर्वपदं प्रकृतिस्वरं भवति । श्वाफल्कचैत्रकरोधकाः । शिनिवासुदेवाः । श्वफल्कशब्दः, चैत्रकशब्दश्च ऋष्यन्धकवृष्णिकुरुभ्यश्च(4-1-114/1117) इति अणन्तावन्तोदात्तौ । शिनिशब्द आद्युदात्तः, स तदपत्येष्वभेदेन वर्त्तते । राजन्य इति किम्? द्वैप्यहैमायनाः । द्वीपे भवा इति द्वीपादनुसमुद्रं
यञ्(4-3-10/1380) । हैमेरपत्यं युवा हैमायनाः । अन्धकवृष्णय एते, न तु राजन्याः । राजन्यग्रहणमिहाभिषिक्तवंश्यानां क्षत्त्रियाणां ग्रहणार्थम् । एते च नाभिषिक्तवंश्याः । बहुवचनग्रहणं किम्? सङ्कर्षणवासुदेवौ। द्वन्द्व इति किम्? वृष्णीनां कुमारा वृष्णिकुमाराः। अन्धकवृषणिष्विति किम् कुरुपञ्चालाः ।।
</6-2-34>
संख्या ।। <6-2-35>।।
द्वन्द्व समासे संख्यावाचि पूर्वपदं प्रकृतिस्वरं भवति । एकादश । द्वादश । त्रयोदश ।
`इण्भीकापाशल्यतिमर्चिभ्यः कन्(उ.330) इति नित्त्वादाद्युदात्त एकशब्दः । त्रेस्रयस् आदेशोऽन्तोदात्तो निपात्यते।।
</6-2-35>
आचार्योपसर्जनश्चान्तेवासी ।। <6-2-36>।।
आचार्योपसर्जनान्तेवासिनां यो द्वन्द्वस्तत्र पूर्वपदं प्रकृतिस्वरं भवति । आपिशलपाणिनीयाः । पाणिनीयरौढीयाः । रौढीयकाशकृत्स्नाः। कृत्स्नाः । अपिशलस्यापत्यमापिशलिराचार्यः, अत इञ्(4-1-95/1095) तेन प्रोक्तम्(4-3-101/1481)अपिशलम्, इञश्च(4-2-112/1333) इत्यण्, तदधीयते येऽन्तेवासिनस्तेऽप्यापिशलाः, प्रोक्ताल्लुक् इति तस्य तद्धितस्याध्येतरि विहितस्य लुक्। क्रियते। आपिशलेर्वा छात्त्रा आपिशाला इत्युभयथाप्याचार्योपसर्जनश्चान्तेवासी भवति । आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणार्थम् - सकलो द्वन्द्व आचार्योपसर्जनो यथा विज्ञायते, इह मा भूत् - पाणिनीयदेवदत्तौ। आचार्योपसर्जन इति किम्? छान्दसवैयाकरणाः । अन्तेवासीति किम्? आपिशलपाणिनीये शास्रे ।।
</6-2-36>
कार्तकौजपादयश्च।। <6-2-37>।।
कार्तकौजपादयो ये द्वन्द्वास्तेषु पूर्वपदं प्रकृतिस्वरं भवति । प्रकृतिस्वरपूर्वपदाः कार्तकौजपादयो भवन्ति । विभक्त्यन्तानां पाठो वचनविवक्षार्थः। चकारो द्वन्द्वाधिकारानुवृत्त्यर्थः कार्तकौजपौ । कृतस्यापत्यम्, कुजपस्यापत्यम् - इत्यणन्तावेतौ । सावर्णिमाण्डूकेयौ । सावर्णिरिञन्तः । अवन्त्यश्मकाः । अवन्तेरपत्यानि बहूनि तन्निवासो जनपदोऽवन्तयः । तथा अश्मकाः । पैलश्यापर्णेयाः। युवद्वन्द्वोऽयम् । पीलाया अपत्यं पैलः, तस्यापत्यं युवेति अणो द्व्यचः(4-1-156/1180) इति विहितस्य फिञः पैलादिभ्यश्च(2-4-59/1084) इति लुक्। श्यापर्णशब्दो बिदादिः, तस्यापत्यं स्री श्यापर्णी,तदपत्यं युवा श्यापर्णेयः। बहुवचनमतन्त्रम्, तेन पैलश्यापर्णेयावित्यत्रापि भवति। कपिश्यापर्णेयाः। कपिरन्तोदात्तः,तस्यापत्यम्,बहुत्वे कपिबोधादाङ्गिरसे(4-1-107/1119) इत्युत्पन्नस्य यञः यञञोश्च(2-4-64/1108) इति लुक्,तेनात्र बहुत्वमाश्रीयत एव। शैतिकाक्षपाञ्चालेयाः। शितिकाक्षो नाम ऋषिः,तस्यापत्यमिति ऋष्यण्,तदपत्ये यूनि य इञ् तस्य ण्यक्षत्त्रियार्षञितो यूनि(2-4-58/1276) इति लुक्। पाञ्चालस्यापत्यं स्त्री पाञ्चाली,तदपत्यं युवा पाञ्चालेयः। अत्रापि बहुवचनमविवक्षितमिति शैतिकाक्षपाञ्चालेयावित्यत्रापि भवति। कटुकवार्चलेयाः। कटुकस्यापत्यमिति अत इञ्(4-1-95/1095), तस्य बह्वच इञः प्राच्यभरतेषु(2-4-66/1148) इति बहुषु लुक्। वर्चलाया अपत्यं वार्चलेयः। शाकलशुनकाः। शकलस्यापत्यं शाकल्यः,तस्य छात्त्राः शाकलाः। कण्वादिभ्यो गोत्रे(4-2-111/1332) इत्यण्। शुनकस्यापत्यमिति बिदादिभ्योऽञ्(4-1-104/1106) तस्य बहुषु लुक्। शाकलशणका इति केचित्पठन्ति। तेषां शणकशब्दादुत्पन्नस्येञः बह्वच इञः प्राच्यभरतेषु(2-4-66/1148) इति बहुषु लुक्। शुनकधात्रेयाः। धात्र्या अपत्यं धात्रेयाः। शणकबाभ्रवाः। बभ्रोरपत्यं बाभ्रवः। आर्चाभिमौद्गलाः। ऋचाभेन प्रोक्तमधीयते आर्चाविनः। वैशम्पायनान्तेवासित्वाद् णिनिः। मुद्गलः कण्वादिः,तदपत्यस्य छात्त्रा मौद्गलाः। कुन्तिसुराष्ट्राः। कुन्तेः सुरष्ट्रस्य चापत्येषु बहुषु तन्निवासे वा जनपदे द्वन्द्वोऽयम्। कुन्तिचिन्तिशब्दावन्तोदात्तौ। चिन्तिसुराष्ट्राः। कुन्तिसुराष्ट्रवत्। तण्डवतण्डाः। पचाद्यच्प्रत्ययान्तावन्तोदात्तावेतौ गर्गादिषु पठ्येते। तत्रापत्यबहुत्वे यञो लुक् क्रियते। गर्गवत्साः। अत्रापि अपत्यबहुत्वे यञो लुक्। अविमत्तकामविद्धाः। अविमत्तशब्दो नञ्स्वरेणाद्युदात्तः। द्वयोरप्येतयोरपत्येषु बहुषु इञः बह्वच इञः
प्राच्यभरतेषु(2-4-66/1148) इति लुक् क्रियते। बाभ्रवशालङ्कायनाः। बभ्रोरत्यं बाभ्रवः । शलङ्कुशलङ्कं च इति शालङ्कायनः। बाभ्रवदानच्युताः। दानच्युतशब्दादिञः `बह्वचः इति लुक्।
कठकालापाः। कठेन प्रोक्तमधीयते कठाः। वैशम्पायनान्तेवासित्वाद् णिनिः,तस्य कठचरकाल्लुक्(4-3-107/1487)। कलापिना प्रोक्तमधीयते कालापाः, कलापिनोऽण्(4-3-108/1488) इत्यण्प्रत्ययः, तस्मिन् इनण्यनपत्ये(6-4-164/1245) इति प्रकृतिभावे प्राप्ते नान्तस्य टिलोपे `सब्रह्मचारिपीठसर्पि(वा.469) इत्यादिनोपसंख्यानेन टिलोपः। कौथुमलौकाक्षाः। लोकाक्षेण प्रोक्तमधीयते लौकाक्षाः,लौकाक्षस्य वाऽपत्यं लौकाक्षिः,तस्य छात्त्रा लौकाक्षाः। स्त्रीकुमारम्। स्त्रीशब्दोऽन्तोदात्तः। मौदपैप्पलादाः । मुदस्यापत्यं मौदिः,तस्य छात्त्रा मौदाः। तथा पैप्पलादाः। मौदपैप्पलादा इति द्विः पठ्यते,तस्य प्रयोजनम् - पक्षे समासान्तोदात्तत्वमेव यथा स्यादिति। वत्सजरत्।वत्सश्चवत्सजरत्। वत्सश्च जरच्च,वत्सशब्दोऽन्तोदात्तः।
सौश्रुतपार्थवाः । सुश्रुतस्य पृथोश्च छात्त्राः। प्राग्दीव्यतोऽण्(4-1-83/1073)। जरामृत्यु। याज्यानुवाक्ये। यजेर्ण्यत्। यजयाच(7-3-66/2882) इति कुत्वाभावः। तित्स्वरितम्(6-1-185/3729) इत्यन्तस्वरितः । अनुवाक्येति वचेरनुपूर्वाद् ण्यत्। आचार्योपसर्जनान्तेवासिनामिह पाठः प्रपञ्चार्थः।।
।। <6-2-37>।।
महान् ब्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु।।<6-2-38>।।
प्रकृत्या पूर्वपदम् इति वर्त्तते, द्वन्द्वे इति निवृत्तम्। महानित्येतत्पूर्वपदं व्रीहि, आपराह्ण, गृष्टि, इष्वास, जाबाल, भार, भारत, हैलिहिल, रौरव, प्रवृद्ध इत्येतेषूत्तरपदेषु प्रकृतिस्वरं भवति। महाव्रीहिः। महापराह्णः।
महावृष्टिः। महेष्वासः। महाजाबालः। महाभारः। महाहैलिहिलः। महारौरवः। महाप्रवृद्धः। महच्छब्दोऽन्तोदात्तः, तस्य प्रतिपदोक्तो यः समासः सन्महत्परमोत्तमोत्कृष्टाः(2-1-61/740) इति,तत्रैष स्वरः। तेनैषां षष्ठीसमासेऽन्तोदात्त एव भवति - महतो व्रीहिः महद्व्रीहिरिति। कर्मधारयेऽनिष्ठा(6-2-46/3780) इत्ययमपि श्रेण्यादिसमासे विधिरिति प्रवृद्धशब्द इह पठ्यते।।
</6-2-38>
क्षुल्लकश्च वैश्वदेवे ।। <6-2-39>।।
क्षुल्लक इत्येतत्पूर्वपदम्, महांश्च, वैश्वदेव उत्तरपदे प्रकृतिस्वरं भवति। क्षुल्लकवैश्वदेवम्। महावैश्वदेवम्। क्षुधं लातीति क्षुल्लः। तस्मादज्ञातादिषु प्रागिवात्केऽन्तोदात्तः क्षुल्लकशब्दः।।
</6-2-39>
उष्ट्रः सादिवाम्योः ।। <6-2-40>।।
उष्ट्रशब्दः पूर्वपदं सादिवाम्योरुत्तरपदयोः प्रकृतिस्वरं भवति। उष्ट्रसादि । उष्ट्रवामि । उष्ट्रशब्द `उषेः ष्ट्रन्(उ.4-162) प्रत्ययान्त आद्युदात्तः । कर्मधारयोऽयम्,षष्ठीसमासो वा।।
</6-2-40>
गौः सादसादिसारथिषु ।। <6-2-41>।।
गोशब्दः पूर्वपदं साद,सादि,सारथि - इत्येतेषूत्तरपदेषु प्रकृतिस्वरं भवति। गोः सादः गोसादः। गां सादयतीति वा गोसादः। गोः सादिः गोसादिः। गोसारथिः।।
</6-2-41>
कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरुपापारेवडवातैतिलकद्रूः पण्यकम्वलो दासीभारणां च ।। <6-2-42>।।
कुरुगार्हपत, रिक्तगुरु, असूतजरती, अश्लीलदृढरूपा, पारेवडवा, तैतिलकद्रू, पण्यकम्बल - इत्येते समासास्तेषां दासीभारादीनां च पूर्वपदं प्रकृतिस्वरं भवति। कुरुणां गार्हपतं कुरुगार्हपतम्। `कृग्रोरुच्च(उ.24) इति कुरुशब्दः कुप्रत्ययान्तोऽन्तोऽदात्तः। कुरुवृज्योर्गार्हपत इति वक्तव्यम् । वृजीनां गार्हपतं वृजिगार्हपतम्। वृजिशब्द आद्युदात्तः। रिक्तो गुरुः रिक्तगुरुः। रिक्ते विभाषा(6-1-208/3696) इति पूर्वपदमाद्युदात्तम्,अन्तोदात्तं वा । असूता जरती असूतजरती। अश्लीला दृढरूपा अश्लीलदृढरुपा। अश्लीलशब्दो नञ्समासत्वादाद्युदात्तः। श्रीर्यस्यास्ति तत् श्लीलम्,सिध्मादेराकृतिगणत्वाल्लच् । कपिलकादित्वाच्चलत्वम्। अश्लीलदृढरूपेति हि संस्थानमात्रेण शोभना
निःश्रीका लावण्यविरहितोच्यते। पारेवडवेव पारेवडवाः, निपातनादिवार्थे समासो विभक्तयलोपश्च। पारशब्दो धृतादित्वादन्तोदात्तः। तैतिलानां कद्रूः तैतिलकद्रूः। तितिलिनोऽपत्यं छात्त्रो वा तैतिल इत्यणन्तः। पण्यकम्बलः। पण्यशब्दो यदन्तत्वादाद्युदात्तः। * पण्यकम्बलः संज्ञायामिति वक्तव्यम् *। अन्यत्र पणितव्ये कम्बले समासान्तोदात्तत्वमेव । कम्बले समासान्तोदात्तत्वमेव। प्रतिपदोक्ते हि कृत्यानां समासे द्वितीया कृत्या इत्येष विहितः स्वरितः। दास्या भारो दासीभारः। देवहूतिः। देवजूतिः। देवसूतिः। देवनीतिः। अन्तोदात्तं पूर्वपदम्। वसुनीतिः। वसुशब्द आद्युदात्तः। `शॄस्वृस्निहित्रप्यसिवसि(उ.10) इत्यत्र हि `धान्ये नित्(उ.9) इति वर्त्तते। ओषधिः। ओषो धीयतेऽस्यामिति कर्मण्यधिकरणे च(3-3-93/3271) इति किप्रत्ययः। ओषशब्दो घञन्तत्वादाद्युदात्तः। चन्द्रमाः - `चन्द्रे मोऽसिः(उ.677) इत्यसिप्रत्ययान्तोऽयम्। चन्द्रशब्दस्तु रक्प्रत्ययान्तत्वादन्तोदात्तः। यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरत्वमिष्यते, न च विहितम्, स सर्वो दासीभारादिषु द्रष्टव्यः।।
</6-2-42>
चतुर्थ्री तदर्थे।। <6-2-43>।।
चतुर्थ्यन्तं पूर्वपदं तदर्थ उत्तरपदे तदभिधेयार्थं यत्तद्वाचिन्युत्तरपदे प्रकृतिस्वरं भवित। तदिति चतुर्थ्यन्तस्यार्थः परामृश्यते। यूपदारु। कुण्डलहिरण्यम् । यूपशब्द आद्युदात्तः। `कुसुयुभ्यश्च(उ.314) इत्यत्र निदिति वर्त्तते। कुण्डलशब्दोऽपि `वृषादिभ्यश्चित्(उ.112) इति कलप्रत्ययान्तोऽन्तोदात्तः। रथदारु। वल्लीशब्द आद्युदात्तः। `हनिकुषिनीरमिकाशिभ्यः क्थन्(उ.167) ङीषः स्वरेणान्तोदात्तः । तदर्थ इति किम् ? कुबेरबलिः। प्रकृतिविकारभावे स्वरोऽयमिष्यते।।
</6-2-43>
अर्थे।। <6-2-44>।।
चतुर्थी इति वर्तते। अर्थशब्द उत्तरपदे चतुर्थ्यन्तं पूर्वपदं प्रकृतिस्वरं भवति। मात्रे इदं मात्रर्थम्। पित्रर्थम्। देवतार्थम्। अतिथ्यर्थम्। मातृपितृशब्दावन्तोदात्तावुणादिषु निपातितौ। देवताशब्दो लित्स्वरेण मध्योदात्तः। अतिथिरिति अतेरिथिन् इतिथिन्प्रत्ययान्तः। तदर्थविशेषा एव दारुहिरण्यादयो भवन्ति,न त्वर्थशब्दवाच्यं सामान्यमित्यतदर्थार्थोऽयमारम्भः। केचित्पुनराहुः-ज्ञापकार्थमिदम्, एतदनेन ज्ञाप्यते - पूर्वो विधिः प्रकृतिविकृत्योः समासे भवति। अश्वघासः, श्वश्रूसुरमित्यत्र सत्यपि तादर्थ्ये न भवति।।
</6-2-44>
क्ते च।। <6-2-45>।।
क्तान्ते चोत्तरपदे चतुर्थ्यन्तं पूर्वपदं प्रकृतिस्वरं भवति। गोहितम्। अश्वहितम्। मनुष्यहितम्। गोरक्षितम्। अश्वरक्षितम्। वनं तापसरक्षितम्। अश्वशब्द आद्युदात्तः, मनुष्यशब्दोऽन्तस्वरितः,परिशिष्टपूर्वपदमन्तोदात्तम्। गोभ्यो रक्षितमिति सम्प्रदाने चतुर्थी।।
</6-2-45>
कर्मधारयेऽनिष्ठा ।। <6-2-46>।।
कर्मधारये समासे क्तान्त उत्तरपदेऽनिष्ठान्तं पूर्वपदं प्रकृतिस्वरं भवति। श्रेणिकृताः। ऊककृताः। पूगकृताः। निधनकृताः। श्रोणिशब्द आद्युदात्तः। ऊकपूगशब्दावन्तोदात्तौ। निधनशब्दोऽयं मध्योदात्तः।
</6-2-46>
अहीने द्वितीया।। <6-2-47>।।
अहीनवाचिनि समासे क्तान्त उत्तरपदे द्वितीयान्तं पूर्वपदं प्रकृतिस्वरं भवति। कष्टश्रितः। त्रिशकलपतितः। ग्रामगतः। कष्टशब्दोऽन्तोदात्तः। त्रीणि शकलान्यस्येति त्रिशकलः, बहुव्रीहिस्वरेणाद्युदात्तः। ग्रामशब्दो नित्स्वरेणाद्युदात्तः। अहीन इति किम्? कान्तारातीतः। योजनातीतः।
- द्वितीयानुपसर्ग इति वक्तव्यम् *(म.भा.3-126)। इह मा भूत् - सुखप्राप्तः, दुःखप्राप्तः। सुखापन्नः ,दुःखापन्नः। अन्तः,थाथ- इत्यस्यापवादोऽयम्।।
</6-2-47>
तृतीया कर्मणि।। <6-2-48>।।
कर्मवाचिनि क्तान्त उत्तरपदे तृतीयान्तं पूर्वपदं प्रकृतिस्वरं भवति। अहिहतः, वज्रहतः। महाराजहतः। नखनिर्भिन्ना। दात्रलूना। `आङि श्रिहनिभ्यां ह्रस्वश्च(उ.587) इति अहिरन्तोदात्तो व्युत्पादितः। केचिदाद्युदात्तमिच्छन्ति। वज्रो रक्प्रत्ययान्तः। महाराजष्टच्प्रत्ययान्तः। नास्य खमस्तीति बहुव्रीहौ नकुलनख इति नखशब्दो निपातितः। तेन नञ्सुभ्याम्(6-2-172/3906) इत्यन्तोदात्तः। दात्रशब्दः दाम्नीशस(3-2-182/3162) इति ष्ट्रन्प्रत्ययान्तः। कर्मणीति किम्? रथेन यातो रथयातः। गत्यर्थत्वात्कर्तरि क्तः ।।
</6-2-48>
गतिरनन्तरः ।। <6-2-49>।।
क्ते कर्मणि इति वर्त्तते। कर्मवाचिनि क्तान्त उत्तरपदे गतिरनन्तरः पूर्वपदं प्रकृतिस्वरं भवति। प्रकृतः। प्रहृतः।
अनन्तर इति किम्? अभ्युद्धृतः। समुद्धृतः। समुदाहृतः। व्यवहितस्य गतेरयं स्वरो न भवति । अनन्तरे पुनरिष्यते। कारकपूर्वस्य तु सति शिष्टत्वात् थाथादिस्वर एव भवति दूरादागत इति । अनन्तरग्रहणसामर्थ्यादेव `कृद्ग्रहणे गतिकारकपूर्वस्यापि(व्या.प.126) इत्येतन्नाश्रीयते। कर्मणीत्येव - प्रकृतः कटं देवदत्तः। थाथादिस्वरापवादो योगः।।
</6-2-49>
तादौ च निति कृत्यतौ।। <6-2-50>।।
तकारादौ च तुशब्दवर्जिते निति कृति परतो गतिरनन्तरःप्रकृतिस्वरो भवति। प्रकर्ता । प्रकर्तुम् । प्रकृतिः। प्रकर्ता इति तृन्नन्तः। कृत्स्वरबाधनार्थं वचनम्। तादाविति किम्? प्रजल्पाकः। नितीति किम्? प्रकर्त्ता । तृजन्तः।
कृद्ग्रहणमुपदेशे ताद्यर्थम् । इहापि यथा स्यात् - प्रलपिता, प्रलपितुमिति। अताविति किम्? आगन्तुः।।
</6-2-50>
तवै चान्तश्च युगपत् ।। <6-2-51>।।
तवैप्रत्ययस्यान्त उदात्तो भवति गतिश्चानन्तरः प्रकृतिस्वर इति एतदुभयं युगपद्भवति। अन्वेतवै। परिस्तरितवै। परिपातवै। `तस्मात् पिता नाभिचरितवै(तै.सं.5-6-3-1)। उपसर्गा आद्युदात्ता अभिवर्जमित्यभिरन्तोदात्तः। कृत्स्वरापवादो योगः ।।
</6-2-51>
अनिगन्तोऽञ्जतौ वप्रत्यये ।। <6-2-52>।।
अनिगन्तो गतिः प्रकृतिस्वरो भवत्यञ्चतौ वप्रत्यये परतः। प्राङ्, प्राञ्चौ, प्राञ्चः। स्वरितो वानुदात्तेऽपदादौ(8-2-6/3659) इत्ययमेकादेश उदात्तः स्वरितो वा । पराङ् ,पराञ्चौ,पराञ्चः(तै.सं.3-1-10-3)। अनिगन्त इति किम्? प्रत्यङ्, प्रत्यञ्चौ , प्रत्यञ्चः । कृदुत्तरपदप्रकृतिस्वर इह भवति । वप्रत्यय इति किम्? उदञ्चनः। चोरनगन्तोऽञ्चतौ वप्रत्यय इत्येष स्वरो भवति विप्रतिषेधेन। पराचः। पराचा।।
</6-2-52>
न्यधी च ।। <6-2-53>।।
नि,अधि,इत्येतौ चाञ्चतौ वप्रत्यये प्रकृतिस्वरौ भवतः। न्यङ्, न्यञ्चौ, न्यञ्चः। उदात्तस्वरिवतयोर्यणः स्वरितोष?नुदात्तस्य(8-2-4/3657)इत्यञ्चतेरकारः स्वरितः। अध्यङ्, अध्यञ्चः। अधीचः। अधीचा।।
</6-2-53>
ईषदन्यतरस्याम्।। <6-2-54>।।
ईषत् इत्येतत्पूर्वपदमन्यतरस्यां प्रकृतिस्वरं भवति। ईषत्कडारः। ईषत्पिङ्गलः। ईषदित्ययमन्तोदात्तः। ईषद्भेद इत्येवमादौ कृत्स्वर एव भवति।।
</6-2-54>
हिरण्यपरिमाणं धने।। <6-2-55>।।
हिरण्यपरिमाणवाचि पूर्वपदं धनशब्द उत्तरपदेऽन्यतरस्यां प्रकृतिस्वरं भवति। द्विसुवर्णधनम्। द्वौ सुवर्णौ परिमाणमस्य द्विसुवर्णं तदेव धनमिति कर्मधारयः। बहुव्रीहावपि परत्वाद्विकल्प एव भवति। द्विसुवर्णधनः। हिरण्यग्रहणं किम्? प्रस्थधनम्। परिमाणग्रहणं किम्? काञ्चनधनम्। धन इति किम्? निष्कमाला।।
</6-2-55>
प्रथमोऽचिरोपसम्पत्तौ।। <6-2-56>।।
प्रथमशब्दः पूर्वपदमचिरोपसम्पत्तौ गम्यमानायामन्यतरस्यां प्रकृतिस्वरं भवति। अचिरोपसम्पत्तिः-अचिरोपश्लेषः, अभिनवत्वम् प्रथमवैयाकरणः- अभिनववैयाकरणः। सम्प्रति व्याकरणमध्येतुं प्रवृत्त इत्यर्थः । प्रथमशब्दः `प्रथेरमच्(उ.757) इति चित्त्वादन्तोदात्तः। अचिरोपसंपत्ताविति किम्? प्रथमवैयाकरणः। वैयाकरणानामाद्यो मुख्यो वा यः स नित्यमन्तोदात्त एव।।
</6-2-56>
कतरकतमौ कर्मधारये।। <6-2-57>।।
कतशब्दः कतमशब्दश्च पूर्वपदं कर्मधारये समासेऽन्यतरस्यां प्रकृतिस्वरं भवति। कतरकठः। कतमकठः। कर्मधारयग्रहणमुत्तरार्थम्, इह तु प्रतिपदोक्तत्वादेव सिद्धम्।।
</6-2-57>
आर्यो ब्राह्मणकुमारयोः।। <6-2-58>।।
आर्यशब्दः पूर्वपदं ब्राह्मणकुमारशब्दयोः कर्मधारये समासेऽन्यतरस्यां प्रकृतिस्वरं भवति। आर्यब्राह्मणः। आर्यकुमारः। आर्यशब्दो ण्यदन्तोऽन्तस्वरितः।
आर्य इति किम् परमब्राह्मणः। परमकुमारः। ब्राह्मणकुमारयोरिति किम्? आर्यक्षत्त्रियः। कर्मधारये इत्येव - आर्यस्य ब्राह्मणः आर्यब्राह्मणः।।
</6-2-58>
राजा च ।। <6-2-59>।।
राजा च पूर्वपदं ब्राह्मणकुमारयोरुत्तरपदयोः कर्मधारये समासेऽन्यतरस्यां प्रकृतिस्वरं भवति। राजब्राह्मणः। राजकुमारः। कर्मधारय इत्येव - राज्ञो ब्राह्मणो राजब्राह्मणः। राजकुमारः। पृथग्योगकरणमुत्तरार्थम्।।
</6-2-59>
षष्ठी प्रत्येनसि ।। <6-2-60>।।
राजा इति वर्त्तते अन्यतरस्याम् इति च । षष्ठ्यन्तो राजशब्दः पूर्वपदं प्रत्येनस्युत्तरपदेऽन्यतरस्यां प्रकृतिस्वरं भवति। राज्ञः प्रत्येनाः राजप्रत्येनाः। षष्ठीति किम्? राजा चासौ प्रत्येनाश्च राजप्रत्येनाः।।
</6-2-60>
क्ते नित्यार्थे ।। <6-2-61>।।
क्तान्त उत्तरपदे नित्यार्थे समासे पूर्वपदमन्यतरस्यां प्रकृतिस्वरं भवति। नित्यप्रहसितः। सततप्रहसितः। कालाः(2-1-28/690) इति द्वितीयासमासोऽयम्। नित्यशब्दः `त्यब्नेर्ध्रुवे(वा.434) इति त्यबन्त आद्युदात्तः। सततम् इति -यदा भावे क्तस्तदा थाथादिस्वरेणान्तोदात्तः। नित्यार्थ इति किम्? मुहूर्त्तप्रहसितः।
</6-2-61>
ग्रामः शिल्पिनि ।। <6-2-62>।।
ग्रामशब्दः पूर्वपदं शिल्पिवाचिन्युत्तरपदेऽन्यतरस्यां प्रकृतिस्वरं भवति। ग्रामनापितः। ग्रामकुलालः। ग्रामशब्द आद्युदात्तः। ग्राम इति किम्? परमनापितः। शिल्पिनीति किम्? ग्रामरथ्या।।
</6-2-62>
राजा च प्रशंसायाम् ।। <6-2-63>।।
राजाशब्दः पूर्वपदं शिल्पिवाचिन्युत्तरपदे प्रशंसायां गम्यमानायामन्यतरस्यां प्रकृतिस्वरं भवति। राजनापितः।
राजकुलालः। कर्मधारये राजगुणाध्यारोपेणोत्तरपदार्थस्य प्रशंसा। षष्ठीसमासे च राजयोग्यतया तस्य । राजेति किम्? परमनापितः। प्रशंसायामिति किम्? राजनापितः। शिल्पिनीत्येव - राजहस्ती।।
</6-2-63>
आदिरुदात्तः ।। <6-2-64>।।
आदिरुदात्तः इत्येतदधिकृतम्। इत उत्तरं यद्वक्ष्यामः, तत्र पूर्वपदस्यादिरुदात्तो भवतीत्येवं तद्वेदितव्यम्। वक्ष्यति -
सप्तमीहारिणौ धर्म्येऽहरणे(6-2-65/3799) इति। स्तूपेशाणः। मुकुटेकार्षापणम् । याज्ञिकाश्वः। वैयाकरणहस्ती। दृषदिमाषकः।
आदिः इति प्रागन्ताधिकारात् (6-2-143/3877)। उदात्तः इति प्रकृत्या भगालम्(6-2-137/3871) इति यावत्।।
</6-2-64>
सप्तमीहारिणौ धर्म्येऽहरणे ।। <6-2-65>।।
सप्तम्यन्तं हारिवाचि च पूर्वपदं धर्म्यवाचिनि हरणशब्दादन्यस्मिन्नुत्तरपदे आद्युदात्तं भवति। हारीति देयं यः स्वीकरोति सोऽपिधीयते। धर्म्यम् इत्याचारनियतं देयमुच्यते। धर्मो ह्यनुवृत्त आचारः ,तस्मादनपेतं तेन वा प्राप्यमिति। स्तूपेशाणः। मुकुटेकार्षापणम्। हलेद्विपदिका। हलेत्रिपदिका । दृषदिमाषकः । संज्ञायाम् इति सप्तमीसमासः, कारनाम्नि च(6-3-10/968) इति विभक्तेरलुक् । हारिणि - याज्ञिकाश्वः । वैयाकरणहस्ति। मातुलाश्वः। पितृव्यगवः। क्वचिदयमाचारो व्यवस्थितः - स्तूपादिषु शाणादि दातव्यम्, याज्ञिकादीनामश्वादीति। धर्म्य इति किम्? स्तम्बेरमः । कर्मकरवर्द्धितकः । अहरण इति किम्? वाडवहरणम् । वडवाया अयं वाडवः, तस्य बीजनिषेकादुत्तरकालं शरीरपुष्ट्यर्थं यद्दीयते हरणमिति तदुच्यते । परोऽपि कृत्स्वरो हारिस्वरेण बाध्यते विप्रतिषेधेन - इत्येतदहरण इत्यनेन ज्ञाप्यते, तेन वाडवहार्यमिति हारिस्वरः सिद्धो भवति।।
</6-2-65>
युक्ते च ।। <<6-2-66>>।।
युक्तवाचिनि च समासे पूर्वपदमाद्युदात्तं भवति । गोबल्लवः । अश्वबल्लवः । गोमणिन्दः । अश्वमणिन्दः । गोसंख्यः । अश्वसंख्यः । युक्त इति - समाहितः, कर्त्तव्ये तत्परो यः स उच्यते ।।
</6-2-66>
विभाषाऽध्यक्षे ।। <6-2-67>।।
अध्यक्षशब्द उत्तरपदे विभाषा पूर्वपदमाद्युदात्तं भवति । गवाध्यक्षः । अश्वाध्यक्षः।।
</6-2-67>
पापं च शिल्पिनि ।। <6-2-68>।।
पापशब्दः शिल्पिवाचिन्युत्तरपदे विभाषाऽऽद्युदात्तो भवति । पापनापितः। पापकुलालः । पापाणके कुत्सितैः(2-1-54/733) इति पापशब्दस्य प्रतिपदोक्तः समानाधिकरणसमास इति षष्ठीसमासे न भवति - पापस्य नापितः पापनापित इति।।
</6-2-68>
गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे ।। <6-2-69>।।
गोत्रवाचिन्यन्तेवासिवाचिनि चोत्तरपदे माणवब्राह्मणयोश्च क्षेपवाचिनि समासे पूर्वपदमाद्युदात्तं भवति। जङ्घावात्स्यः । यो जङ्घादानं ददान्यहमिति वात्स्यः सम्पद्यते स जङ्घावात्स्य इति क्षिप्यते । भार्यासौश्रुतः । सुश्रुतापत्यस्य भार्याप्रधानतया क्षेपः । वशाब्राह्मकृतेयः । ब्रह्मकृतशब्दः शुभ्रादिषु पठ्यते । गोत्र।
अन्तेवासि - कुमारीदाक्षाः। कम्बलचारायणीयाः । धृतरौढीयाः । ओदनपाणिनीयाः । कुमार्यादिलाभकामा ये दाक्षादिभिः प्रोक्तानि शास्त्राण्यधीयते तच्छिष्यतां वा प्रतिपद्यन्ते त एवं क्षिप्यन्ते । अन्तेवासि ।
माणव - भिक्षामाणवः । भिक्षां लप्स्येऽहमिति माणवो भवति । माणव।
ब्राह्मण - दासीब्राह्मणः । वृषलीब्राह्मणः । भयब्राह्मणः । यो भयेन ब्राह्मणः सम्पद्यते । अत्र यस्यान्यत्
समासलक्षणं नास्ति, सुप्सुपा इत्येव तत्र समासः कर्त्तव्यः।
गोत्रादिष्विति किम्? दासीश्रोत्रियः । क्षेप इति किम् महाब्राह्मणः।।
</6-2-69>
अङ्गानि मैरेये ।। <6-2-70>।।
मैरेयशब्द उत्तरपदे तदङ्गवाचीनि पूर्वपदान्याद्युदात्तानि भवन्ति । गुडमैरेयः । मधुमैरेयः । मद्यविशेषो मैरेयः, तस्य गुडविकारस्य गुडोऽङ्गं भवति । मधुविकारस्य मधु, तस्य मध्वङ्गम्। अङ्गानीति किम्? परममैरेयः । मैरेय इति किम्? पुष्पासवः । फलासवः।।
</6-2-70>
भक्ताख्यास्तदर्थेषु ।। <6-2-71> ।।
भक्तम् - अन्नम् , तदाख्याः - तद्वाचिनः शब्दाः, तदर्थेषूत्तरपदेषु आद्युदात्ता भवन्ति । भिक्षाकंसः । श्राणाकंसः । भाजीकंसः । भिक्षादयोऽन्नवचनाः । भक्ताख्या इति किम्? समाशशालयः । समाशनं समाश इति क्रियामात्रमुच्यते, न द्रव्यम् । तदर्थेष्विति किम्? भिक्षाप्रियः। बहुव्रीहिरयमत्र पूर्वपदमन्तोदात्तम् ।।
</6-2-71>
गोबिडालसिंहसैन्धवेषूपमाने ।। <<6-2-72>>।।
गवादिषूपमानवाचिषूत्तरपदेषु पूर्वपदमाद्युदात्तं भवति । धान्यगवः । हिरण्यगवः । भिक्षाबिडालः । तृणसिंहः । काष्ठसिंहः । सक्तुसैन्धवः । पानसैन्धवः । धान्यं गौरिवेति विगृह्य व्याघ्रादेरारकृतिगणत्वाद् उपमितं व्याघ्रादभिः(2-1-56/735) इति समासः । उपमानार्थोऽपि यथासम्भवं यथाप्रसिद्धि च योजयितव्यः । गवाकृत्या सन्निवेशितं धान्यगवशब्देनोच्यते। उपमान इति किम्? परमसिंहः।।
</6-2-72>
अके जीविकार्थे ।। <6-2-73> ।।
अकप्रतयान्त उत्तरपदे जीविकार्थवाचिनि समासे पूर्वपदमाद्युदात्तं भवति । दन्तलेखकः । नखलेखकः । अवस्करशोधकः । रमणीयकारकः। दन्तलेखनादिभिर्येषां जीविका त एवमुच्यन्ते । नित्यं क्रीडाजीविकयोः(2-2-17/711) इति समासः । अक इति किम्? रमणीयकर्त्ता । जीवकार्थ इति किम्? इक्षुभक्षिकां मे धारयसि।।
</6-2-73>
प्राचां क्रीडायाम् ।। <6-2-74> ।।
प्राग्देशवर्त्तिनां या क्रीडा तद्वाचिनि समासेऽकप्रत्ययान्त उत्तरपदे पूर्वपदमाद्युदात्तं भवति । उद्दालकपुष्पभञ्जिका । वीरणपुष्पप्रचायिका । शालभञ्जिका । तालभञ्जिका । संज्ञायाम्(3-3-109/3286) इति ण्वुल् , नित्यं क्रीडाजीविकयोः(2-2-17/711) इति षष्ठीसमासः । प्राचामिति किम्? जीवपुत्रप्रचायिका । इयमुदीचां क्रीडा । क्रीडायामिति किम्? तव पुष्पप्रचायिका । पर्याये ण्वुच्प्रत्त्ययो भवति ।।
</6-2-74>
अणि नियुक्ते ।। <6-2-75> ।।
अणन्त उत्तरपदे नियुक्तवाचिनि समासे पूर्वपदमाद्युदात्तं भवति । छत्त्रधारः । तूणीरधारः । कमण्डलुग्राहः । भृङ्गारधारः । नियुक्तः - अधिकृतः स च कस्मिंश्चित्कर्तव्ये तत्परो न भवतीति नियुक्तः इत्यनेन सिध्यति । नियुक्त इति किम्? काण्डलावः । शरलावः ।।
</6-2-75>
शिल्पिनि चाकृञः ।। <6-2-76> ।।
शिल्पिवाचिनि समासेऽणन्त उत्तरपदे पूर्वपदमाद्युदात्तं भवति, स चेदण् कृञो न भवति । तन्तुवायः । तुन्नवायः । वालवायः । शिल्पिनीति किम् ? काण्डलावः । अकृञ इति किम् ? कुम्भकारः । अयस्कारः।।
</6-2-76>
संज्ञायां च ।। <6-2-77> ।।
संज्ञायां विषयेऽणन्त उत्तरपदेऽकृञः पूर्वपदमाद्युदात्तं भवति । तन्तुवायो नाम कीटः । बालवायो नाम पर्वतः । अकृञ इत्येव - रथकारो नाम ब्राह्मणः ।।
</6-2-77>
गोतन्तियवं पाले ।। <6-2-78> ।।
गो, तन्ति, यव - इत्येतानि पूर्वपदानि पालशब्द उत्तरपदे आद्युदात्तानि भवन्ति । गोपालः । तन्तिपालः । यवपालः । अनियुक्तार्थ आरम्भः। गोतन्तियवमिति किम्? वत्सपालः । पाल इति किम्? गोरक्षः ।।
</6-2-78>
णिनि ।। <6-2-79>।।
णिनन्त उत्तरपदे पूर्वपदमाद्युदात्तं भवति । पुष्पहारी । फलहारी । पर्णहारी ।।
</6-2-79>
उपमानं शब्दार्थप्रकृतावेव ।। <6-2-80> ।।
उपमानवाचि पूर्वपदं शब्दार्थप्रकृतावेव णिनन्त उत्तरपद आद्युदात्तं भवति । उपमानं नियम्यते । उष्ट्रक्रोशी । ध्वाङ्क्षरावी । खरनादी । उपमानग्रहणमस्य पूर्वस्य च योगस्य विषयविभागार्थम् । शब्दार्थप्रकृताविति किम्? वृकवञ्ची । वृकप्रेक्षी । प्रकृतिग्रहणं किम्? प्रकृतिरेव यत्रोपसर्गनिरपेक्षा शब्दार्था भवति तत्रैव यथा स्याद्, इह मा भूद् - गर्दभोच्चारी, कोकिलाभिव्याहारीति । एवकारकरणमुपमानावधारणार्थम् । शब्दार्थप्रकृतौ त्वनुपमानमुपमानं चाद्युदात्तं भवति । सिंहविनर्दी । पुष्कलजल्पी ।।
</6-2-80>
युक्तारोह्यादयश्च ।। <<6-2-81>> ।।
युक्तारोह्यादयः समासा आद्युदात्ता भवन्ति । युक्तारोही । आगतरोही । आगतयोधी । आगतवञ्ची । आगतनर्दी । आगतप्रहारी । एते णिनन्ताः णिनि(6-2-79/3813) इत्यस्यैवोदाहरणार्थं पठ्यन्ते । पूर्वोत्तरपदनियमार्था इति केचित् । इह मा भूद् - वृक्षारोही, युक्ताध्यायीति । आगतमत्स्या। क्षीरहोता । भगिनीभर्त्ता । याजकादित्वात् षष्ठीसमासावेतौ। ग्रामगोधुक् । अश्वत्रिरात्रः । गर्गत्रिरात्रः । व्युष्टत्रिरात्रः । शणपादः । समपादः । षष्ठीसमासा एते । एकशितिपात् । एकः शितिः पादोऽस्येति त्रिपदबहुव्रीहिः । तत्रैकशितिशब्दः तद्धितार्थोत्तरपद इति तत्पुरुषसंज्ञः , तस्य निमित्तिस्वरबलीयस्त्वाद् अन्तोदात्तत्वं प्राप्तमित्याद्युदात्तत्वं विधीयते। एवमपि नार्थ एतेन, `इगन्त द्विगौ(6-2-29/3763) इति सिद्धत्वात्? एवं तर्हि ज्ञापकार्थम्, एतज्ज्ञापयति - शित्यन्तस्योत्तरपदे द्विगुस्वरो न भवतीति । तेन द्विशितिपादित्यत्र तिशब्द उदात्तो भवति । निमित्तिस्वरबलीयस्त्वस्याप्येकशितिपात्स्वरवचनमेव ज्ञापकं वर्णयन्ति । पात्रेसमितादयश्च(2-1-48/725) युक्तारोह्यादयः, ततस्तेऽप्याद्युदात्ता भवन्ति ।।
</6-2-81>
दीर्घकाशतुषभ्राष्ट्रवटं जे ।। <6-2-82> ।।
दीर्धान्तं पूर्वपदम्, काश, तुष, भ्राष्ट्र, वट - इत्येतानि च जे उत्तरपदे आद्युदात्तानि भवन्ति। कुटीजः । शमीजः। काशजः। तुषजः। भ्राष्ट्रजः । वटजः ।।
</6-2-82>
अन्त्यात्पूर्वं बह्वचः ।। <<6-2-83>> ।।
जे उत्तरपदे बह्वचः पूर्वपदस्यान्त्यात्पूर्वमुदात्तं भवति । उपसरजः । मन्दुरजः । आमलकीजः । वडवाजः । बह्वज इति किम्? दग्घजानि तृणानि ।।
</6-2-83>
ग्रामेऽनिवसन्तः ।। <6-2-84> ।।
ग्रामशब्द उत्तरपदे पूर्वपदमाद्युदात्तं भवति न चेन्निवसद्वाचि भवति । मल्लग्रामः । वणिग्ग्रामः । ग्रामशब्दोऽत्र
समूहवाची । देवग्रामः देवस्वामिक इत्यर्थः। अनिवसन्त इति किम्? दाक्षिग्रामः । माहकिग्रामः । दाक्ष्यादयो निवसन्ति यस्मिन्ग्रामे स तेषामिति व्यपदिश्यते ।।
</6-2-84>
घोषादिषु च ।। <6-2-85> ।।
घोषादिषु चोत्तरपदेषु पूर्वपदमाद्युदात्तं भवति । दाक्षिघोषः । दाक्षिकटः । दाक्षिपल्वलः । दाक्षिह्रदः । दाक्षिबदरी । दाक्षिपिङ्गलः । दाक्षिपिशङ्गः । दाक्षिशाला । दाक्षिरक्षा । दाक्षिशिल्पी । दाक्ष्यश्वत्थः । कुन्दतृणम् । दाक्षिशाल्मली । आश्रममुनिः । शाल्मलिमुनिः । दाक्षिप्रेक्षा । दाक्षिकूटः । यान्यत्र निवासनामधेयानि तेषु निवसद्वाचीन्यपि पूर्वपदान्याद्युदात्तानि भवन्ति । अनिवसन्त इति नानुवर्त्तयन्ति केचित् । अपहे पुनरनुवर्त्तयन्ति ।।
</6-2-85>
छात्त्र्यादयः शालायाम् ।।<<6-2-86>> ।।
शालायामुत्तरपदे छात्त्र्यादय आद्युदात्ता भवन्ति । छात्त्रिशाला । पेलिशाला । भाण्डिशाला ।
छात्त्रि । पेलि । भाण्डि । व्याडि । आपिशलि । आखण्डि । आपारि । गोमि । छात्त्र्यादिः ।
यदा शालान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति, तदापि तत्पुरुषे शालायां नपुंसके(6-2-123/3857) इत्येतस्मात्पूर्वविप्रतिषेधेन पूर्वपदमाद्युदात्तं भवति । छात्त्रिशालम् । पेलिशालम् ।।
</6-2-86>
प्रस्थेऽवृद्धमकर्क्यादीनाम् ।। <<6-2-87>> ।।
प्रस्थशब्द उत्तरपदे कर्क्यादिवर्जितमवृद्धं पूर्वपदमाद्युदात्तं भवति। इन्द्रप्रस्थः । कुण्डप्रस्थः। ह्रदप्रस्थः । सुवर्णप्रस्थः । अवृद्धमिति किम्? दाक्षिप्रस्थः । माहकिप्रस्थः । अकर्क्यादीनामिति किम्? कर्कीप्रस्थः । मधीप्रस्थः। कर्की । मधी । मकरी । कर्कन्धू । शमी । करीर । कटुक । कुरल । बदर । कर्क्यादिः ।।
</6-2-87>
मालादीनां च ।। <6-2-88> ।।
प्रस्थे इति वर्त्तते । प्रस्थ उत्तरपदे मालादीनामादिरुदात्तो भवति । मालाप्रस्थः । शालाप्रस्थः । माला । शाला। शोणा । द्राक्षा । क्षौमा । क्षामा । काञ्ची । एक । काम । मालादिः । वृद्धार्थ आरम्भः। एकशेणाशब्दयोः एङ् प्राचां देशे(1-1-75/1338) इति वृद्धसंज्ञा ।।
</6-2-88>
अमहन्नवं नगरेऽनुदीचाम् ।। <<6-2-89>> ।।
नगरशब्द उत्तरपदे महन्नवशब्दवर्जितं पूर्वपदमाद्युदात्तं भवति, तच्चेदुदीचां न भवति । सुह्मनगरम् । पुण्ड्रनगरम् । अमहन्नवमिति किम्? महानगरम् । नवनगरम् । अनुदीचामिति किम्? नदीनगरम् । कान्तीनगरम् ।।
</6-2-89>
अर्मे चावर्णं द्व्यच्त्र्यच् ।। <6-2-90> ।।
अर्मशब्द उत्तरपदे द्व्यच्त्र्यच् पूर्वपदमवर्णान्तमाद्युदात्तं भवति। दत्तार्मम् । गुप्तार्मम् । कुक्कुटार्मम् । वायसार्मम्।
अवर्णमिति किम्? वृहदर्मम् । द्व्यच्त्र्यजिति किम्? कपिञ्जलार्मम् । अमहन्नवमित्येव - महार्मम् । नवार्मम् ।।
</6-2-90>
न भूताधिकसञ्जीवमद्राश्मकज्जलम् ।। <6-2-91> ।।
भूत , अधिक, सञ्जीव, मद्र, अश्मन् , कज्जल - इत्येतानि पूर्वपदानि अर्मशब्द उत्तरपदे नाद्युदात्तानि भवन्ति । भूतार्मम् । अधिकार्मम् । सञ्जीवार्मम् । मद्राश्मग्रहणं सङ्घातविगृहीतार्थम् - मद्रार्मम्। अश्मार्मम् । मद्राश्मार्मम् । कज्जलार्मम् । समासान्तोदात्तत्वमेवात्र भवति ।
- आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम् *(म.भा.3-132)दिवोदासाय गायत। `वध्र्यश्वाय दाशुषे(ऋ.6-61-1) ।।
</6-2-91>
अन्तः ।। <6-2-92> ।।
अन्तः इत्यधिकृतम्, इत उत्तरं यद्वक्ष्यामस्तत्र पूर्वपदस्यान्त उदात्तो भवतीत्येवं वेदितव्यम् । वक्ष्यति - सर्वं गुणकार्त्स्न्ये(6-2-93/3827) । सर्वश्वेतः सर्वकृष्णः । प्राक् उत्तरपदादिः(6-2-111/2845) इत्येतस्मादयमधिकारो वेदितव्यः ।।
</6-2-92>
सर्वं गुणकार्त्स्न्ये ।। <6-2-93> ।।
सर्वशब्दः पूर्वपदं गुणकार्त्स्न्ये वर्त्तमानमन्तोदात्तं भवति । सर्वश्वेतः सर्वकृष्णः । सर्वमहान् । सर्वमिति किम्? परमश्वेतः । आश्रयव्याप्त्या परमत्वं श्वेतत्वस्येति गुणकार्त्स्न्ये वर्त्तते । गुणग्रहणं किम्? सर्वसौवर्णः । सर्वराजतः । कार्त्स्न्ये इति किम्? सर्वेषां श्वेततरः सर्वश्वेतः । `गुणात्तरेण समासस्तरलोपश्च वक्तव्यः(वा.88) इत्येवमत्र समासः , तरब्लोपश्च ।।
</6-2-93>
संज्ञायां गिरिनिकाययोः ।। <6-2-94> ।।
संज्ञायां विषये गिरि, निकाय - इत्येतयोरुत्तरपदयोः पूर्वपदमन्तोदात्तं भवति । अञ्जनागिरिः । भञ्जनागिरिः । निकाये - शापिण्डिनिकायः । मौण्डिनिकायः । चिखिल्लिनिकायः । संज्ञायामिति किम्? परमगिरिः । ब्राह्मणनिकायः ।।
</6-2-94>
कुमार्यां वयसि ।। <<6-2-95>> ।।
कुमार्यामुत्तरपदे वयसि गम्यमाने पूर्वपदमन्तोदात्तं भवति । वृद्धकुमारी । जरत्कुमारी । कुमारीशब्दः पुंसा सहासम्प्रयोगमात्रं प्रवृत्तिनिमित्तमुपादाय प्रयुक्तो वृद्धादिभिर्वयोविशेषवचनैः समानाधिकरणो भवति । तच्च वय इह गृह्यते, न कुमारत्वमेव । वयसीति किम्? परमकुमारी ।।
</6-2-95>
उदकेऽकेवले ।। <6-2-96> ।।
अकेवलम् -मिश्रम्, तद्वाचिनि समासे उदकशब्द उत्तरपदे पूर्वपदमन्तोदात्तं भवति । गुडमिश्रमुदकम् गुडोदकम् । तिलोदकम् । स्वरे कृते एकादेशः स्वरितो वानुदात्तेऽपदादौ(8-2-6/3659) इति पक्षे स्वरितो भवति । अकेवल इति किम्? शीतोदकम् । उष्णोदकम् ।।
</6-2-96>
द्विगौ क्रतौ ।। <6-2-97> ।।
द्विगावुत्तपदे क्रतुवाचिनि समासे पूर्वपदमन्तोदात्तं भवति । गर्गत्रिरात्रः । चरकत्रिरात्रः। कुसुरविन्दसप्तरात्रः । गर्गाणां त्रिरात्रः गर्गत्रिरात्रः । द्विगाविति किम्? अतिरात्रः । अचश्चित्त्वादन्तोदात्तः । क्रताविति किम्? बिल्वसप्तरात्रः । बिल्वशतस्य बिल्वहौमस्य वा सप्तरात्रो बिल्वसप्तरात्रः ।।
</6-2-97>
सभायां नपुंसके ।। <6-2-98> ।।
सभाशब्द उत्तरपदे नपुंसकलिङ्गे समासे पूर्वपदमन्तोदात्तं भवति । गोपालसभम् । पशुपालसभम् । स्त्रीसभम् । दासीसभम् । सभायामिति किम्? ब्राह्मणसेनम् । नपुंसकमिति किम्? राजसभा । ब्राह्मणसभा । सभायां प्रतिपदोक्तमिह नपुंसकलिङ्गं गृह्यत इति रमणीयसभम् , ब्राह्मणकुलमित्यत्र न भवति ।।
</6-2-98>
पुरे प्राचाम् ।। <6-2-99> ।।
पुरशब्द उत्तरपदे प्राचां देशे पूर्वपदमन्तोदात्तं भवति । ललाटपुरम् । काञ्चीपुरम् । शिवदत्तपुरम् । कार्णिपुरम् । नार्मपुरम् । प्राचामिति किम्? शिवपुरम् ।।
</6-2-99>
अरिष्टगौडपूर्वे च ।। <6-2-100> ।।
अरिष्ट, गौड - इत्येवम्पूर्वे समासे पुरशब्द उत्तरपदे पूर्वपदमन्तोदात्तं भवति । अरिष्टपुरम् । गौडपुरम् । पूर्वग्रहणं किम्? इहापि यथा स्यात् - अरिष्टश्रितपुरम् , गौडभृत्यपुरम् ।।
</6-2-100>
न हास्तिनफलकमार्देयाः ।। <6-2-101> ।।
हास्तिन, फलक, मार्देय - इत्येतानि पूर्वपदानि पुरशब्द उत्तरपदे नान्तोदात्तानि भवन्ति । पुरे प्राचाम्(6-2-99/3833) इति प्राप्तिः प्रतिषिध्यते । हास्तिनपुरम् । फलकपुरम् । मार्देयपुरम् । मृदोरपत्यं मार्देयः । शुभ्रादित्वाद्(4-1-123/1126) ढक् ।।
</6-2-101>
कुसूलकूपकुम्भशालं बिले ।। <6-2-102> ।।
कुसूल, कूप, कुम्भ, शाला - इत्येतानि पूर्वपदानि बिलशब्दे उत्तरपदेऽन्तोदात्तानि भवन्ति । कुसूलबिलम् । कूपबिलम् । कुम्भबिलम् । शालाबिलम् । कुसूलादिग्रहणं किम्? सर्पबिलम् । बिल इति किम्? कुसूलस्वामी।।
</6-2-102>
दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु ।। <6-2-103> ।।
दिक्शब्दाः पूर्वपदानि अन्तोदात्तानि भवन्ति ग्रामजनपदाख्यानवाचिषूत्तरपदेषु चानराटशब्दे च । पूर्वेषुकामशमी । अपरेषुकामशमी । पूर्वकृष्णमृत्तिका । अपरकृष्णमृत्तिका । जनपद - पूर्वपञ्चालाः । अपरपञ्चालाः । आख्यान - पूर्वाधिरामम् । पूर्वाधिरामम्। पूर्वयायातम् । अपरयायातम् । अधिराममधिकृत्य कृतो ग्रन्थ आधिरामम् । तथा यायातम् । चानराट - पूर्वचानराटम् । अपरचानराटम् । शब्दग्रहणं कालवाचिनोऽपि दिक्शब्दस्य परिग्रहार्थम् ।।
</6-2-103>
आचार्योपसर्जनश्चान्तेवासिनि ।। <6-2-104>।।
आचार्योपसर्जनान्तेवासिवाचिन्युत्तरपदे दिक्शब्दा अन्तोदात्ता भवन्ति। पूर्वपाणिनीयाः । अपरपाणिनीयाः । पूर्वकाशकृत्स्नाः । अपरकाशकृत्स्नाः । आचार्योपसर्जन इति किम्? पूर्वशिष्याः । अन्तेवासिनीति किम्? पूर्वपाणिनीयं शास्त्रम् ।।
</6-2-104>
उत्तरपदवृद्धौ सर्वं च ।। <6-2-105> ।।
उत्तरपदस्य(7-3-10/1396) इत्येवमधिकृत्य या विहिता वृद्धिस्तद्वत्युत्तरपदे सर्वशब्दो दिक्शब्दाश्चान्तोदात्ता भवन्ति । सर्वपाञ्चालकः । पूर्वपाञ्चालकः । उत्तरपाञ्चालकः । सुसर्वार्धदिक्यशब्देभ्यः जनपदस्य इति तदन्तविधिना जनपदलक्षणो वुञ्प्रत्ययः । सुसर्वार्द्धाज्जनपदस्य(7-3-12/1398) दिशोऽमद्राणाम्(7-3-13/1399) इति चोत्तरपदवृद्धिः। अधिकारलक्षणादिह न भवति - सर्वमासः, सर्वकारक इति ।।
</6-2-105>
बहुव्रीहौ विश्वं संज्ञायाम् ।। <6-2-106> ।।
बहुव्रीहौ समासे विश्वशब्दः पूर्वपदं संज्ञायां विषयेऽन्तोदात्तं भवति । विश्वदेवः । विश्वयशाः । विश्वमहान् । पूर्वपदप्रकृतिस्वरत्वेनाद्युदात्तत्वं प्राप्तम् । बहुव्रीहाविति किम्? विश्वे च ते देवाः विश्वदेवाः । संज्ञायामिति किम्? विश्वे देवा अस्य विश्वदेवः । विश्वामित्त्रः , विश्वाजिन इत्यत्र संज्ञायां मित्त्राजिनयोः(6-2-165/3899) इत्येतद्भवति परत्वात् ।
बहुव्रीहौ इत्येदधिक्रियते प्रागव्ययीभावसंज्ञानात्(6-2-121/3855) ।।
</6-2-106>
उदराश्वेषुषु ।। <6-2-107> ।।
उदर, अश्व , इषु - इत्येतेषूत्तरपदेषु बहुव्रीहौ समासे संज्ञायां विषये पूर्वपदमन्तोदात्तं भवति । वृकोदरः ।
दामोदरः । हर्यश्वः । यौवनाश्वः । सुवर्णपुङ्खेषुः। महेषुः ।।
</6-2-107>
क्षेपे ।। <6-2-108> ।।
क्षेपे गम्यमाने उदरादिषूत्तरपदेषु बहुव्रीहौ समासे संज्ञायां विषये पूर्वपदमन्तोदात्तं भवति । कुण्डोदरः । घटोदरः । कटुकाश्वः । स्पन्दिताश्वः । अनिघातेषुः । चलाचलेषुः । अनुदरः , सूदर इत्यत्र नञ्सुभ्याम्(6-2-172/3906) इत्येतद्भवति विप्रतिषेधेन ।।
</6-2-108>
नदी बन्धुनि ।। <6-2-109> ।।
बहुव्रीहौ समासे बन्धुन्युत्तरपदे नद्यन्तं पूर्वपदमन्तोदात्तं भवति । गार्गीबन्धुः । वात्सीबन्धुः । नदीति किम्? ब्रह्मबन्धुः । ब्रह्मशब्द आद्युदात्तः । बन्धुनीति किम्? गार्गीप्रियः ।।
</6-2-109>
निष्ठोपसर्गपूर्वमन्यतरस्याम् ।। <6-2-110> ।।
बहुव्रीहौ समासे निष्ठान्तमुपसर्गपूर्वं पूर्वपदमन्यतरस्यामन्तोदात्तं भवति । प्रधौतमुखः । प्रक्षालितपादः । यदि मुखशब्दः स्वाङ्गवाची, तदा पक्षे मुखं स्वाङ्गम्(6-2-167/3901) इत्येतद्भवति, न चेत्पूर्वपदप्रकृतिस्वरत्वेन गतिरन्तरः(6-2-49/3783) इत्येतद्भवति । निष्ठेति किम्? प्रसेचकमुखः । उपसर्गपूर्वमिति किम्? शुष्कमुखः।।
</6-2-110>
उत्तरपदादिः ।। <6-2-111> ।।
उत्तरपदादिः इत्येतदधिकृतम् । यदित ऊर्ध्वमनुक्रमिष्याम उत्तरपदस्यादिरुदात्तो भवतीत्येवं तद्वेदितव्यम् । वक्ष्यति - कर्णो वर्णलक्षणात्(6-2-112/3846) । शुक्लकर्णः , कृष्णकर्णः । उत्तरपदस्य - इत्येतदापादपरिसमाप्तेः । आदिः इति प्रकृत्या भगालम्(6-2-127/3871) इति यावत् ।।
</6-2-111>
कर्णो वर्णलक्षणात् ।। <6-2-112> ।।
बहुव्रीहौ समासे वर्णवाचिनो लक्षणवाचिनश्च कर्णशब्द उत्तरपदमाद्युदात्तं भवति । शुक्लकर्णः । कृष्णकर्णः । लक्षणात् - दात्राकर्णः । शङ्कूकर्णः । लक्षणस्य(6-3-115/1036) इति दीर्घत्वम् । पशूनां विभागज्ञापनार्थं दात्रशङ्कुप्रतिरूपकं कर्णादिषु चिह्नं यत् क्रियते तदिह लक्षणं गृह्यते, तेन स्थूलकर्ण इत्यत्र न भवति । कर्ण इति किम्? श्वेतपादः । कूटशृङ्गः । वर्णलक्षणादिति किम्? शोभनकर्णः ।।
</6-2-112>
संज्ञौपम्ययोश्च ।। <6-2-113> ।।
संज्ञायामौपम्ये च यो बहुव्रीहिर्वर्त्तते तत्र कर्णशब्द उत्तरपदमाद्युदात्तं भवति । संज्ञायाम् - कुञ्चिकर्णः । मणिकर्णः । औपम्ये - गोकर्णः । खरकर्णः ।।
</6-2-113>
कण्ठपृष्ठग्रीवाजङ्घं च ।। <6-2-114> ।।
कण्ठ, पृष्ठ, ग्रीवा, जङ्घा - इत्येतानि उत्तरपदानि बहुव्रीहौ समासे संज्ञौपम्ययोराद्युदात्तानि भवन्ति । कण्ठः संज्ञायाम् - `शितिकण्ठः(तै.सं.4-5-11-1) । नीलकण्ठः । औपम्ये - खरकण्ठः । उष्ट्रकण्ठः । पृष्ठः संज्ञायाम् - काण्डपृष्ठः । नाकपृष्ठः । औपम्ये - गोपृष्ठः । अजपृष्ठः । ग्रीवा संज्ञायाम् - सुग्रीवः । नीलग्रीवः । दशग्रीवः । औपम्ये - गोग्रीवः । अश्वग्रीवः । जङ्घा संज्ञायाम् - नारीजङ्घः । तालजङ्घः । औपम्ये - गौजङ्घः । अश्वजङ्घः । एणीजङ्घः ।।
</6-2-114>
शृङ्गमवस्थायां च ।। <6-2-115> ।।
शृङ्गशब्द उत्तरपदमवस्थायां संज्ञौपम्ययोश्च बहुव्रीहौ आद्युदात्तं भवति । उद्गतशृङ्गः । द्व्यङ्गुलशृङ्गः । त्र्यङ्गुलशृङ्गः । अत्र शृङ्गोद्गमनादिकृतौ गवादेर्वतयोविशेषः - अवस्था । संज्ञायाम् - ऋष्यशृङ्गः । औपम्ये - गोशृङ्गः । मेषशृङ्गः ।।
</6-2-115>
नञो जरमरमित्त्रमृताः ।। <6-2-116> ।।
नञ उत्तरे जरमरमित्त्रमृता बहुव्रीहौ समासे आद्युदात्ता भवन्ति । अजरः। अमरः । अमित्त्रः । अमृतः । नञ इति किम्? बाह्मणमित्त्रः । जरादय इति किम्? अशत्रुः । नञसुभ्याम्(6-2-172/3906) इति उत्तरपदान्तोदात्तत्वमेवात्र भवति ।।
</6-2-116>
सोर्मनसी अलोमोषसी ।। <6-2-117> ।।
सोरुत्तरमनन्तमसन्तं च बहुव्रीहौ समासे आद्युदात्तं भवति लोमोषसी वर्जयित्वा । सुकर्मा । सुधर्मा। सुधर्मा। सुप्रथिमा । असन्तम् - सुपयाः । सुयशाः। सुस्रोताः । सुस्रत् । सुध्वत् । सोरिति किम्? कृतकर्मा । कृतयशाः । मनसी इति किम्? सुराजा । सुरक्षा । अलोमोषसी इति किम्? सुलोमा । सूषा । `अनिनस्मन्ग्रहणान्यर्थवताऽनर्थकेन च(व्या.प.129) इत्यनर्थकयोरपि मनसोरिह ग्रहणम् । नञ्सुभ्याम्(6-2-172/3906) इत्यस्यायमपवादः । कपि तु परत्वात् कपि पूर्वम्(6-2-173/3907) इत्येतद्भवति । सुकर्मकः । सुस्रोतस्कः ।।
</6-2-117>
क्रत्वादयश्च ।। <6-2-118> ।।
क्रत्वादयः सोरुत्तरे बहुव्रीहौ समासे आद्युदात्ता भवन्ति । सुक्रतुः । सुदृशीकः । क्रतु । दृशीक । प्रतीक । प्रपूर्त्ति । हव्य । भग । क्रत्वादिः ।।
</6-2-118>
आद्युदात्तं द्व्यच्छन्दसि ।। <6-2-119> ।।
यदाद्युदात्तं द्व्यच् उत्तरपदं बहुव्रीहौ समासे सोरुत्तरं तदाद्युदात्तमेव भवति छन्दसि विषये । `स्वश्वास्त्वा सुरथामर्जयेम(तै.सं.1-2-14-4) । नित्स्वरेणाश्वरथशब्दावाद्युदात्तौ । आद्युदात्तमिति किम्? `या सुबाहुः स्वङ्गुरिः(ऋ.2-32-7) । बाहुशब्दः प्रत्ययस्वरेणान्तोदात्तः । द्व्यजिति किम्? सुगुरसत् । सुहिरण्यः । स्वश्वः । नञ्सुभ्याम्(6-2-172/3906) इत्यस्यायमपवादः ।।
</6-2-119>
वीरवीर्यौ च ।। <6-2-120> ।।
वीर, वीर्य - इत्येतौ च शब्दौ सोरुत्तरौ बहुव्रीहौ समासे छन्दसि विषये आद्युदात्तौ भवतः । `सुवीरेण ते(ऋ.4-17-4) । `सुवीर्यस्य पतयः स्याम(तै.सं.1-7-13-4) । वीर्यमिति यत्प्रत्ययान्तम् , तत्र यतोऽनावः(6-1-123/3701) इति आद्युदात्तत्वं न भवतीत्येतदेव वीर्यग्रहणं ज्ञापकम् । तत्र हि सति पूर्वेणैव सिद्धं स्यात् ।।
</6-2-120>
कूलतीरतूलमूलशालाक्षसममव्ययीभावे ।। <6-2-121> ।।
कूल, तीर, तूल, मूल, शाला, अक्ष, सम - इत्येतानि उत्तरपदानि अव्ययीभावसमास आद्युदात्तानि भवन्ति । परिकूलम् । उपकूलम् । परितीरम् । उपतीरम् । परितूलम् । उपतूलम् । परिमूलम् । उपमूलम् । परिशालम् । उपशालम् । उपाक्षम् । पर्यक्षम् । सुषमम् । विषमम् । निषमम् । दुःषमम् । तिष्ठद्गुप्रभृतिषु(2-1-17/671) एते पठ्यन्ते । कूलादिग्रहणं किम्? उपकुम्भम् । अव्ययीभाव इति किम्? परमकूलम् । उत्तमकूलम् । पर्यादिभ्यः कूलादीनामाद्युदात्तत्वं विप्रतिषेधेन भवति । परिकूलम् । उपकूलम् ।।
</6-2-121>
कंसमन्थशूर्पपाय्यकाण्डं द्विगौ ।। <6-2-122> ।।
कंस , मन्थ , शूर्प, पाय्य, काण्ड - इत्येतान्युत्तरपदानि द्विगौ समास आद्युदात्तानि भवन्ति । द्विकंसः । त्रिकंसः। द्विमन्थः । त्रिमन्थः । द्विशूर्पः ।त्रिशूर्पः । द्विपाथ्यः । त्रिपाथ्यः । द्विकाण्ड । त्रिकाण्डः । द्विगाविति किम्? परमकंसः । उत्तमकंसः ।।
</6-2-122>
तत्पुरुषे शालायां नपुंसके ।। <6-2-123> ।।
शालाशब्दान्ते तत्पुरुषे समासे नपुंसकलिङ्गे उत्तरपदमाद्युदात्तं भवति । ब्राह्मणशालम् । क्षत्त्रियशालम् । विभाषा सेनासुराच्छायाशालानिशानाम्(2-4-25/828) इति नपुंसकलिङ्गता । तत्पुरुष इति किम्? दृढशालं ब्राह्मणकुलम् । शालायामिति किम्? ब्राह्मणसेनम् । नपुंसक इति किम्? ब्राह्मणशाला ।।
</6-2-123>
कन्था च ।। <6-2-124> ।।
तत्पुरुषे समासे नपुंसकलिङ्गे कन्थाशब्द उत्तरपदमाद्युदात्तं भवति । सौशमिकन्थम् । आह्वकन्थम् । चप्पकन्थम् । संज्ञायां कन्थोशीनरेषु(2-4-20/823) इति नपुंसकलिङ्गता । षष्ठीसमासा एते । नपुंसक इत्येव - दाक्षिकन्था ।।
</6-2-124>
आदिश्चिहणादीनाम् ।। <6-2-125> ।।
कन्थान्ते तत्पुरुषे समासे नपुंसकलिङ्गे चिहणादीनामादिरुदात्तो भवति । चिहणकन्थम् । मडरकन्थम् । मड्डर इति केचित् पठन्ति । मड्डरकन्थम् । चिहण । मडर । म॰्डर । वैतुल। पटत्क । तैत्तालिकर्णः । वैतालिकर्णिरित्यन्ये पठन्ति । कुक्कुट । चिक्कण । चित्कण इत्यपरे पठन्ति । चिहणादिः । आदिः इति वर्तमाने पुरादिग्रहणं पूर्वपदाद्युदात्तार्थम् ।।
</6-2-125>
चेलखेटकटुककाण्डं गर्हायाम् ।। <6-2-126> ।।
चेल, खेट, कटुक , काण्ड - इत्येतान्युत्तरपदानि तत्पुरुषे समासे गर्हायां गम्यमानायामाद्युदात्तानि भवन्ति । पुत्त्रचेलम् । भार्याचेलम् । उपानत्खेटम् । नगरखेटम् । दधिकटुकम् । उदश्वित्कटुकम् । भूतकाण्डम् । प्रजाकाण्डम् । चेलादीनां सादृश्येन पुत्रादीनां गर्हा, तत्र पुत्रश्चेलमिवेति विगृह्य व्याघ्रादेराकृतिगणत्वाद् उपमितं व्याघ्रादिभिः(2-1-56/735) इति समासः । गर्हायामिति किम्? परमचेलम् ।।
</6-2-126>
चीरमुपमानम् ।। <6-2-127> ।।
चीरमुत्तरपदमुपमानवाचि तत्पुरुषे समासे आद्युदात्तं भवति । वस्त्रं चीरमिव वस्त्रचीरम् । पटचीरम् । कम्बलचीरम् । उपमानमिति किम्? परमचीरम् ।।
</6-2-127>
पललसूपशाकं मिश्रे ।। <6-2-128> ।।
पलल, सूप , शाक - इत्येतान्युत्तरपदानि मिश्रवाचिनि तत्पुरुषे समासे आद्युदात्तानि भवन्ति । गुडपललम् । घृतपललम् । घृतसूपः । मूलकसूपः । घृतशाकम् । मुद्गशाकम् । गुडेन मिश्रं पललं गुडपललम् । भक्ष्येण मिश्रीकरणम्(2-1-35/697) इति समासः । मिश्र इति किम्? परमपललम् ।।
</6-2-128>
कूलसूदस्थलकर्षाः संज्ञायाम् ।। <6-2-129> ।।
कूल, सूद, स्थल, कर्ष - इत्येतान्युत्तरपदानि तत्पुरुषे समासे, संज्ञायां विषये आद्युदात्तानि भवन्ति । दाक्षिकूलम् । माहकिकूलम् । देवसूदम् । भाचोसूदम् । दाण्डायनस्थली । माहकिस्थली । दाक्षिकर्षः । ग्रामनामधेयान्येतानि । स्थलग्रहणम् - लिङ्गविशिष्टत्वात्स्थलीशब्दोऽपि गृह्यते ।
जानपादकुण्ड(4-1-42/500) इत्यनेन ङीष्
। संज्ञायामिति किम्? परमकूलम् ।।
</6-2-129>
अकर्मधारये राज्यम् ।। <6-2-130> ।।
कर्मधारयवर्जिते तत्पुरुषे समासे राज्यम् इत्येतदुत्तरपदमाद्युदात्तं भवति । ब्राह्मणराज्यम् । क्षत्त्रियराज्यम् । अकर्मधारय इति किम्? परमराज्यम् । चेलराज्यादिस्वरादव्ययस्वरो भवति पूर्वविप्रतिषेधेन (म.भा.3-134)- कुचेलम् , कुराज्यम् ।।
</6-2-130>
वर्ग्यादयश्च ।। <6-2-131> ।।
वर्ग्य - इत्येवमादीन्युत्तरपदानि अकर्मधारये तत्पुरुषे समासे आद्युदात्तानि भवन्ति । वासुदेववर्ग्यः । वासुदेवपक्ष्यः । अर्जुनवर्ग्यः । अर्जुनपक्ष्यः । अकर्मधारय इत्येव - परमवर्ग्यः । वर्ग्यादयः प्रातिपदिकेषु न पठ्यन्ते । दिगादिषु(4-3-54/1429) तु - वर्ग, पूग, गण, पक्ष - इत्येवमादयो ये पठिताः , त एव यत्प्रत्ययान्ता वर्ग्यादय इह प्रतिपत्तव्याः ।।
</6-2-131>
पुत्रः पुम्भ्यः ।। <6-2-132> ।।
पुत्रशब्दः पुंशब्देभ्य उत्तरस्तत्पुरुषे आद्युदात्तो भवति । कौनटिपुत्रः । दामकपुत्रः । माहिषकपुत्रः । पुत्र इति किम्? कौनटिमातुलः । पुम्भ्य इति किम्? गार्गीपुत्रः। वात्सीपुत्रः ।।
</6-2-132>
नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः ।। <6-2-133> ।।
आचार्यः - उपाध्यायः । राजा - ईश्वरः । ऋत्विजः - याजकाः । संयुक्ता - स्त्रीसम्बन्धिनः श्यालादयः । ज्ञातयः -मातृपितृसम्बन्धिनो बान्धवाः । आचार्याद्याख्येभ्यः परः पुत्रशब्दो नाद्युदात्तो भवति । आख्याग्रहणात्स्वरुपस्य पर्यायाणां विशेषाणां च ग्रहणं भवति । आचार्यपुत्रः । उपाध्यायपुत्रः । शाकटायनपुत्रः। राजपुत्रः। ईश्वरपुत्रः। नन्दपुत्रः। ऋत्विक्पुत्रः। याजकपुत्रः। होतुः पुत्रः। भ्रातुष्पुत्रः। ऋतो विद्यायोनिसम्बन्धेभ्यः(6-3-23/981) इति षष्ठ्या अलुक् । संयुक्तपुत्रः। सम्बन्धिपुत्रः। श्यालपुत्रः। त्रातिपुत्रः। पुत्रस्वरे प्रतिषिद्धे समासान्तोदात्त्वमेव भवति ।।
</6-2-133>
चूर्णादीन्यप्राणिषष्ठ्याः ।। <6-2-134> ।।
उत्तरपदादिः इति वर्त्तते , तत्पुरुष इति च । चूर्णादीन्युत्तरपदानि अप्राणिवाचिनः षष्ठ्यन्तात्पराणि तत्पुरुषे समासे आद्युदात्तानि भवन्ति । मुद्गचूर्णम् । मसूरचूर्णम् । अप्राणिषष्ठ्या इति किम्? मत्स्यचूर्णम् । षष्ठ्या इति किम्? परमचूर्णम् । चूर्ण । करिप । करिव । शाकिन । शाकट । द्राक्षा । तूस्त । कुन्दम । दलप । चमसी । चक्कन । चौल । चूर्णादीन्यप्राण्युपग्रहात् इति सूत्रस्य पाठान्तरम् । तत्र उपग्रह इति षष्ठ्यन्तमेव पूर्वाचार्योपचारेण गृह्यते ।।
</6-2-134>
षट् च काण्डादीनि ।। <6-2-135> ।।
षट् पूर्वोक्तानि काण्डादीन्युत्तरपदानि अप्राणिषष्ठ्या आद्युदात्तानि भवन्ति । काण्डं गर्हायाम्(6-2-126/3860) इत्युक्तम् , अगर्हायामपि भवति - दर्भकाण्डम् , शरकाण्डम् । चीरमुपमानम्(6-2-127/3861) इत्युक्तम् , अनुपमानमपि भवति - दर्भचीरम्, कुशचीरम् । पललसूपशाकं मिश्रे(6-2-128/3862) इत्युक्तम् , अमिश्रेऽपि भवति - तिलपललम् , मुद्गसूपः, मूलकशाकम् । कूलं संज्ञायाम्(6-2-129/3863) इत्युक्तम् , असंज्ञायामपि भवति - नदीकूलम् , समुद्रकूलम् । षडिति किम्? राजसूदः ।।
</6-2-135>
कुण्डं वनम् ।। <6-2-136> ।।
कुण्डं - शब्दोऽत्र कुण्डसादृश्येन वने वर्त्तते । कुण्डम् इत्येतदुत्तरपदं वनवाचि तत्पुरुषे समासे आद्युदात्तं भवति । दर्भकुण्डम् । शरकुण्डम् । वनमिति किम्? मृत्कुण्डम् ।।
</6-2-136>
प्रकृत्या भगालम् ।। <6-2-137> ।।
भगालवाच्युत्तरपदं तत्पुरुषे समासे प्रकृतिस्वरं भवति । कुम्भीभगालम् । कुम्भीकपालम् । कुम्भीनदालम् । भगालादयो मध्योदात्ताः । प्रकृत्या इत्येतदधिकृतम् अन्तः(6-2-143/3877) इति यावद्वेदितव्यम् ।।
</6-2-137>
शितेर्नित्याबह्वज् बहुव्रीहावभसत् ।। <6-2-138> ।।
शितेरुत्तरपदं नित्यं यदबह्वज् भसच्छब्दवर्जितं बहुव्रीहौ समासे तत्प्रकृतिस्वरं भवति । शितिपादः। शित्यंसः । `शित्योष्ठः(तै.सं.5-6-14-1) । पादशब्दो वृषादित्वादाद्युदात्तः । अंसौष्ठशब्दौ च प्रत्ययस्य नित्त्वादाद्युदात्तौ । शितेरिति किम्? दर्शनीयपादः । नित्यग्रहणं किम्? `शितिककुत्(तै.सं.5-6-14-1) । ककुदस्यावस्खायां लोपो विधीयते । तत्रावस्थाया अन्यत्र शितिककुद इति बह्वजुत्तरपदं भवतीति तेन न नित्याबह्वच् । अबह्वजिति किम्? शितिललाटः। बहुव्रीहाविति किम्? शितेः पादः शितिपादः । आभसदिति किम्? `शितिभसद्(तै.सं.5-6-14-1) । शितिशब्द आद्युदात्तः । पूर्वपदप्रकृतिकस्वरापवादो योगः ।।
</6-2-138>
गतिकारकोपपदात्कृत् ।। <6-2-139> ।।
तत्पुरुषे इति वर्त्तते , न बहुव्रीहौ इति । गतेः कारकादुपपदाच्च कृदन्तमुत्तरपदं तत्पुरुषे समासे प्रकृतिस्वरं भवति । प्रकारकः । प्रकरणम् । प्रहारकः । प्रहरणम् । कारकात् - इध्मप्रव्रश्चनः । पलाशशातनः । श्मश्रुकल्पनः । उपपदात् - ईषत्करः । दुष्करः । सुकरः । सर्वत्रैवात्र लित्स्वरः । गतिकारकोपपदादिति किम्? देवदत्तस्य कारको देवदत्तकारकः । देवदत्तस्येति शेषलक्षणा षष्ठी । कृद्ग्रहणं विस्पष्टार्थम् । प्रपचतितराम्, प्रपचतितमाम् । इत्यत्र तरबाद्यन्तेन समासे कृते पश्चादाम् , तत्र सतिशिष्टत्वादाम एव स्वरो भवतीत्येके । प्रपचतिदेशीयाद्यर्थे तु कृद्ग्रहणं दृश्यत एव ।।
</6-2-139>
उभे वनस्पत्यादिषु युगपत् ।। <6-2-140> ।।
प्रकृत्या इति वर्त्तते । वनस्पत्यादिषु समासेषु उभे पूर्वोत्तरपदे युगपत् प्रकृतिस्वरे भवतः । `वनस्पतिः(तै.सं.2-6-20-5)। वन - पतिशब्दावाद्युदात्तौ, पारस्करप्रभृतित्वात् सुट् ।
`बृहस्पतिः(तै.सं.6-4-10-1) । बृहतां पतिः , `तद्बृहतोः कारपत्योश्चोरदेवतयोः सुट् तलोपश्चः(ग.सू.160) इति सुट्, तकारलोपश्च । बृहदित्येतदन्तोदात्तं निपातयन्ति । तस्य केचिदाद्युदात्तत्वं वर्णयन्ति ।
`शचीपतिः । शचीशब्दः `कृदिकारादक्तिनः(ग.सू.50) इति ङीषन्तत्वादन्तोदात्तः। केचित्तु शार्ङ्गरवादिषु पठन्ति , तेषामाद्युदात्तः ।
`तनूनपात्(तै.सं.4-1-8-1) । तनोतेरौणादिक ऊप्रत्ययः , तेन तनूशब्दोऽन्तोदात्तः । न पाति न पालयति वा नपात्, क्विबन्तः नभ्राण्नपात्(6-3-75/759) इत्यादिनाऽऽद्युदात्तो निपातितः । तन्वा नपात्, तनूनपात् ।
`नराशंसः(तै.सं.4-1-8-1) । नरा अस्मिन्नासीनाः शासन्ति नरा एवं शंसन्तीति वा नराशंसः । `नृ नये(धा.पा.810) , अबन्तो नरशब्द आद्युदात्तः । शंसशब्दोऽपि धञन्तः , अन्येषामपि दृश्यते(6-3-167/3539) इति दीर्घत्वम् ।
`शुनःशेपः(तै.सं.5-2-1-3) । शुन इव शेपोऽस्येति बहुव्रीहिः । तत्र `शेपपुच्छलाङ्गूलेषु शुनः संज्ञायाम्(6-3-21/979.वा) इति षष्ठ्या अलुक् । उभावाद्युदात्तौ ।
`शण्डामर्कौ(तै.सं.6-4-10-1) । शण्ड-पर्कशब्दौ धञन्तत्वादाद्युदात्तौ । तयोर्द्वन्द्वे अन्येषामपि दृश्यते(6-3-167/3539) इति दीर्घत्वम् ।
तृष्णावरूत्री । तृष्णाशब्द आद्युदात्तः, वरुत्रीशब्दो ग्रसितादिसूत्रे निपातितोऽन्तोदात्तः । तत्र द्वन्द्वे दीर्घत्वं पूर्ववत् ।
`बम्बाविश्ववयसौ(तै.सं.6-6-8-4) । बम्बशब्दोऽन्तोदात्तः । विश्ववयः शब्दोऽपि बहुव्रीहौ विश्वं संज्ञायाम्(6-2-106/3840)तयोर्द्वन्द्वे दीर्घत्वं पूर्ववत् ।
मर्मृत्युः । मरिति मृञो विच्प्रत्ययः । मृत्युशब्दोऽन्तोदात्तः । द्वन्द्वानामदेवताद्वन्द्वार्थः , अनुदात्ताद्युत्तरपदार्थश्च वनस्पत्यादिषु पाठः ।।
</6-2-140>
देवताद्वन्द्वे च ।। <6-2-141> ।।
देवतावाचिनां यो द्वन्द्वस्तत्र युगपदुभे पूर्वोत्तरपदे प्रकृतिस्वरे भवतः इन्द्रासोमौ । इन्द्रावरुणौ । इन्द्राबृहस्पती । ऋज्रेन्द्राग्र इति इन्द्रशब्द आद्युदात्तो निपातितः । सोम इति मन्प्रत्ययान्तः । वरुण उनन्प्रत्ययान्तः , तेनाद्युदात्तः । बृहस्पतिशब्दे वनस्पत्यादित्वाद् द्वावुदात्तौ, तेन इन्द्राबृहस्पती - इत्यत्र त्रय उदात्ता भवन्ति । देवताग्रहणं किम्? प्लक्षन्यग्रोधौ । द्वन्द्वग्रहणं किम्? अग्निष्टोमः ।।
</6-2-141>
नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु ।। <6-2-142> ।।
उत्तरपदेऽनुदात्तादौ पृथिवीरुद्रपूषमन्थिवर्जिते देवताद्वन्द्वे नोभे युगपत्प्रकृतिस्वरे भवतः । `इन्द्राग्नी(तै.सं.2-2-2-1) । `इन्द्रवायू(तै.सं.6-6-8-3) । अग्नि - वायुशब्दावन्तोदात्तौ । उत्तरपदग्रहणम् अनुदात्तादौ इत्युत्तरपदविशेषणं यथा स्याद्, द्वन्द्वविशेषणं माभूदिति । अनुदात्तादौ इति विधिप्रतिषेधयोर्विषयविभागार्थम् । अप?ृथिव्यादिष्विति किम्? द्यावावृथिव्यौ । द्यावाशब्द आद्युदात्तो निपातितः । पृथिवीशब्दो ङीष्प्रत्ययान्तत्वादन्तोदात्तः । रुद्र - `सोमारुद्रौ(तै.सं.1-8-22-5) । `रोदेर्णिलुक्च(उ.189) इति रुद्रशब्दो रक्प्रत्ययान्तोऽन्तोदात्तः । पूषन् - इन्द्रापूषणौ । `स्वन्नुक्षन्पूषन्(उ.165) इति पूषान्तोदात्तो निपात्येत । मन्थिन् - `शुक्रामन्थिनौ(तै.सं.6-4-10-21) । मन्थोऽस्यास्तीति मन्थी , इन्नन्तत्वादन्तोदात्तः । पृथिव्यादिषु तु उभे युगपत् प्रकृतिस्वरे भवत एव ।।
</6-2-142>
अन्तः ।। <6-2-143> ।।
अन्तः इत्यधिकारः । यदित ऊर्ध्वमनुकमिष्यामस्तत्र समासस्योत्तरपदस्यान्त उदात्तो भवतीत्येवं तद्वेदितव्यम् ।
वक्ष्यति - थाथघञ्क्ताजबित्रकाणाम्(6-2-144/3878) इति । सुनीथः । अवभृथः ।।
</6-2-143>
थाथघञ्क्ताजबित्रकाणाम् ।। <6-2-144> ।।
थ , अथ, धञ् , क्त, अप् , इत्र , क - इत्येवमन्तानामुत्तरपदानां गतिकारकोपपदात्परेषामन्त उदात्तो भवति । सुनीथः । `अवभृथः(तै.सं.1-7-5-3) । `हनिकुषिनीरमिकाशिभ्यः क्थन्(उ.167) इति `अवे भृञः(उ.168) इति च क्थान्प्रत्ययान्तावेतौ । तत्र कृदुत्तरपदप्रकृतिस्वरत्वेनाद्युदात्तरपदं स्यात् । अथ - आवसथः । उपवसथः । उपसर्गे वसेः इत्यथन्प्रत्ययः । घञ् - प्रभेदः । काष्ठभेदः । रज्जुभेदः । क्त - दूरादागतः । विशुष्कः । आतपशुष्कः । अच् -प्रक्षयः । प्रजयः । क्षयो निनासे जयः करणम् तइथति आद्युदात्तौ क्षयजयशब्दौ प्रयोजयतः । अप् - प्रलवः । प्रसवः । इत्र - प्रलवित्रम् । प्रसवित्रम् । क - गोवृषः खरीवृषः । गां वर्षति , खरीं वर्षतीति मूलविभुजा दित्वात्कप्रत्ययः । प्रवृषः । प्रहृषः । इगुपध इति कप्रत्ययः । वृषादीनां च इति वृषशब्द आद्युदात्तः । गतिकारकोपपदादित्येव - सुस्तुतं भवता । कर्मप्रवचनीयेऽव्ययस्वर एव भवति ।।
</6-2-144>
सूपमानात् क्तः ।। <6-2-145> ।।
सु इत्येतस्मादुपमानाञ्च परं क्तान्तमुत्तरपदमन्तोदात्तं भवति । `सुकृतम्(तै.सं.4-7-2-2) । सुभुक्तम् । उपमानात् - वृकावलुप्तम् । शशप्लुतम् । सिंहविनर्द्दितम् । सुशब्दाद् गतिरनन्तरः(6-2-49/3783) इति प्राप्ते
उपमानादपि तृतीया कर्मणि(6-2-48/3782) इति अयमपवादः । गतिकारकोपपदादित्येव - सुस्तुतं भवता ।।
</6-2-145>
संज्ञायामनाचितादीनाम् ।। <6-2-146> ।।
संज्ञायां विषये गतिकारकोपपदात् क्तान्तमुत्तरपदमन्तोदात्तं भवति आचितादीन्वर्जयित्वा । सम्भूतो रामायणः । उपहूतः शाकल्यः । परिजग्धः कौण्डिन्यः । सम्भूत इति प्राप्त्यर्थाद् भवतेः कर्मणि क्तः । गतिरनन्तरः(6-2-49/3783) इत्यत्र हि कर्मणि इत्यनुवर्त्तते , तद्बाधनार्थं चेदम् । धनुष्खाता नदी । कुद्दालखाता नगरी । हस्तिमृदिता भूमिः । तृतीया कर्मणि(6-2-48/3782) इति प्राप्तिरिह बाध्यते । अनाचितादीनामिति किम्? आचितम् । पर्याचितम् । पर्याचितम् । आस्थापितम् । परगृहीतम् । निरुक्तम् । प्रतिपन्नम् । प्राश्लिष्टम् । उपहतम् । उपस्थितम् ।। संहिताऽगवि । संहिताशब्दो यदा गोरन्यस्य संज्ञा, तदाऽन्तोदात्त एव ।।
</6-2-146>
प्रवृद्धादीनां च ।। <6-2-147> ।।
प्रवृद्धादीनां च क्तान्तमुत्तरपदमन्तोदात्तं भवति । प्रवृद्धं यानम् । प्रवृद्धो वृषलः । प्रयुक्ताः सक्तवः । आकर्षेऽवहितः । अवहितो भोगेषु । खट्वारूढः । कविशस्तः । यानादीनामत्र गणे पाठः प्रायोवृत्तिप्रदर्शनार्थः , न विषयनियमार्थः । यानादिभ्योऽन्यत्रापि तेषामन्तोदात्तत्वं भवत्येव । विषयनियमार्थ एवेत्येके । असंज्ञार्थोऽयमारम्भः । आकृतिगणश्च प्रवृद्धादिर्द्रष्टव्यः । तेन `पुनरुस्यूतं वासो देयम्(मै.सं.1-2-7) , `पुनर्निष्कृतो रथः(तै.सं.1-5-2-4) - इत्येवमादि सिद्धं भवति ।।
</6-2-147>
कारकाद्दत्तश्रुतयोरेवाशिषि ।। <6-2-148> ।।
संज्ञायाम् इति वर्त्तते क्तः इति च । संज्ञायां विषये आशिषि गम्यमानायां कारकादुत्तरयोर्दत्तश्रुतयोरेव क्तान्तयोरन्त उदात्तो भवति । देवा एनं देयासुर्देवदत्तः । विष्णुरेनं श्रूयाद् विष्णुश्रुतः । कारकादिति किम्? कारकान्नियमे मा भूत् - सम्भूतो रामायणः । दत्तश्रुतयोरिति किम्? देवपालितः । एतस्मान्नियमादत्र संज्ञायामनाचितादीनाम्(6-2-146/3880) इत्यन्तोदात्तत्वं न भवति , तृतीया कर्मणि इत्येवात्र भवति । एवकारकरणं किम्? कारकावधारणं यथा स्याद्, दत्तश्रुतावधारणं मा भूत् । अकारकादपि दत्तश्रुतयोरन्त उदात्तो भवति - संश्रुतः, विश्रुतः । आशिषीति किम् ? अनाशिषि नियमो मा भूत् । देवैः खाता देवखाता । कारकाद्दत्तश्रुतयोराशिष्येव - इत्येवमप्यत्र नियम इष्यते , तेनाहतो नदति देवदत्त इत्यत्र न भवति । देवदत्त इति कस्यचित् शङ्खस्य नाम । तत्र तृतीया कर्मणि(6-2-48/3782) इति पूर्वपदप्रकृतिस्वरत्वमेव भवति ।।
</6-2-148>
इत्थम्भूतेन कृतमिति च ।। <6-2-149> ।।
इमं प्रकारमापन्नः - इत्थम्भूतः । इत्थम्भूतेन कृतम् इत्येतस्मिन्नर्थे यः समासो वर्त्तते तत्र क्तान्तमुत्तरपदमन्तोदात्तं भवति । सुप्तप्रलपितम् । उन्मत्तप्रलपितम् । प्रमत्तगीतम् । विपन्नश्रुतम् । कृतम् इति क्रियासामान्ये करोतिर्वर्त्तते, नाभूतप्रादुर्भाव एव। तेन प्रलपिताद्यपि कृतं भवति । तृतीया कर्मणि(6-2-48/3782) इत्यस्यायमपवादः । भावे तु यदि प्रलपितादयः , तदा थाथादिस्वरेणैव सिद्धमन्तोदात्तं भवति ।
</6-2-149>
अनो भावकर्मवचनः ।। <6-2-150> ।।
अनप्रत्ययान्तमुत्तरपदं भाववचनं कर्मवचनं च कारकात्परमन्तोदात्तं भवति । ओदनभोजनं सुखम् । पयः पानं सुखम् । चन्दनप्रियङ्गुकालेपनं सुखम् । कर्मवचन - राजभोजनाः शालयः। राजाच्छादनानि वासांसि । कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम्(3-3-116/3291) इत्ययं योग उभयथा वर्ण्यते - कर्मण्युपपदे भावे ल्युङ् भवति, कर्मण्यभिधेये ल्युड् भवतीति । तत्र पूर्वस्मिन् सूत्रार्थे भाववचनोदाहरणानि, उत्तरत्र कर्मवचनोदाहरणानि । अन इति किम् ? हस्तहार्यमुदश्वित् । भावकर्मवचन इति किम् ? दन्तधावनम् । करणे ल्युट् । कारकादित्येव
- निदर्शनम् । अवलेखनम् । सर्वेषु प्रत्युदाहरणेषु प्रकृतिस्वरो भवति ।।
</6-2-150>
मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः ।। <6-2-151> ।।
मन्नन्तम् , क्तिन्नन्तम् , व्याख्यान, शयन, आसन, स्थान - इत्येतानि, याजकादयः , क्रीतशब्दश्चोत्तरपदमन्तोदात्तं भवति । मन् - रथवर्त्म , शकटवर्त्म । क्तिन् - पाणिनिकृतिः आपिशलिकृतिः । व्याख्यान - ऋगयनव्याख्यानम् , छन्दोव्याख्यानम् । शयन - राजशयनम्, ब्राह्मणशयनम्, आसन - राजासनम्, ब्राह्मणासनम्, स्थान - गोस्थानम् , अश्वस्थानम् । याजकादिः - ब्राह्मणयाजकः । क्षत्त्रिययाजकः । ब्राह्मणपूजकः । क्षत्त्रियपूजकः । याजकादयो ये याजकादिभिश्च(2-2-9/703) इति षष्ठीसमासार्थाः पठ्यन्ते त एवेह गृह्यन्ते । क्रीत - गोक्रीतः । अश्वक्रीतः। कृत्स्वरापवादोऽयं योगः । क्रीतशब्दे तु तृतीया कर्मणि(6-2-48/3782) इत्यस्यापवादः। व्याख्यानशयनासनस्थानानामभावकर्मार्थं ग्रहणम् । कारकादित्येव - प्रकृतिः । प्रहृतिः ।।
</6-2-151>
सप्तम्याः पुण्यम् ।। <6-2-152> ।।
सप्तम्यन्तात्परं पुण्यमित्येतदुत्तरपदमन्तोदात्तं भवति । अध्ययने पुण्यम् अध्ययनपुण्यम् । वेदे पुण्यं वेदपुण्यम् । सप्तमी इति योगविभागात्समासः । तत्पुरुषे तुल्यार्थ(6-2-2/3736) इति पूर्वपदप्रकृतिस्वरत्वं प्राप्तमित्यन्तोदात्तत्वं विधीयते । उणादीनां तु व्युत्पत्तिपक्षे - कृत्स्वरेणाद्युदात्तः पुण्यशब्दः स्यादिति ।सप्तम्या इति किम्? वेदेन पुण्यं वेदपुण्यम् ।।
</6-2-152>
ऊनार्थकलहं तृतीयायाः ।। <6-2-153> ।।
ऊनार्थान्युत्तरपदानि, कलहशब्दश्च तृतीयान्तात् पराण्यन्तोदात्तानि भवन्ति । माषोनम् । कार्षापणोनम् । माषविकलम् । कार्षापणविकलम् । कलह - असिकलहः । वाक्कलहः । तृतीयापूर्वपदप्रकृतिस्वरापवादो योगः । अत्र केविदर्थ इति स्वरूपग्रहणमिच्छिन्ति । धान्येनार्थो धान्यार्थः। ऊनशब्देनैव त्वर्थनिर्देशार्थेन तदर्थानां ग्रहणमिति प्रतिपदोक्तत्वादेव तृतीयासमासपरिग्रहे सिद्धे तृतीयाग्रहणं विस्पष्टार्थम् ।।
</6-2-153>
मिश्रं चानुपसर्गमसन्धौ ।। <6-2-154> ।।
तृतीया इति वर्त्तते । मिश्र - इत्येतदुत्तरपदमनुपसर्गं तृतीयान्तात्परमन्तोदात्तं भवत्यसन्धौ गम्यमाने । गुडमिश्राः । तिलमिश्राः । सर्पिर्मिश्राः । मिश्रमिति किम् ? गुडधानाः । अनुपसर्गमिति किम्? गुडसम्मिश्राः । इहानुपसर्गग्रहणं ज्ञापकम् - अन्यत्र मिश्रग्रहणे सोपसर्गग्रहणस्य । तेन मिश्रश्लक्ष्णैः(2-1-31/693)इति सोपसर्गेणापि मिश्रशब्देन तृतीयासमासो भवति । असन्धाविति किम्? ब्राह्मणमिश्रो राजा । ब्राह्मणैः सह संहितः - ऐकाथ्ध्यमापन्नः । सन्धिरिति हि पणबन्धेनैकार्थ्यमुच्यते । केचित्पुनराहुः - गृह्यमाणविशेषा प्रत्यासत्तिः - सन्धिरिति, अत्र राज्ञो बाह्मणैः सह देशप्रत्यासत्तावपि सत्यां मूर्त्तिविभागस्वरूपभेदो गृह्यत इति ब्राह्मणमिश्रो राजेति प्रत्युदाह्रियते । उदाहरणेष्वविभागापत्तिरेव - गुडमिश्रा इति ।।
</6-2-154>
नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः ।। <6-2-155> ।।
सम्पादि, अर्ह, हित, अलम् - इत्येवमर्था ये तद्धितास्तदन्तान्युत्तरपदानि नञो गुणप्रतिषेधे वर्त्तमानात् पराण्यन्तोदात्तानि भवन्ति । सम्पादिः- कर्णवेष्टकाभ्यां सम्पादि मुखं कार्णवेष्टकिकम्, न कार्णवेष्टकिकम् अकार्णवेष्टकिकम् । अर्ह - छेदमर्हति छैदिकः , न छैदिकोऽच्छैदिकः । हित - वत्सेभ्यो हितो वत्सीयः , न वत्सीयोऽवत्सीयः । अलमर्थ - सन्तापाय प्रभवति सान्तापिकः, न सान्तापिकोऽसान्तापिकः । नञ इति किम्?
गर्दभरथमर्हति गार्दभरथिकः । विगार्दभरथिकः । गुणप्रतिषेध इति किम्? गार्दभरथिकादन्योऽगार्दभरथिकः । गुण इति तद्धितार्थप्रवृत्तिनिमित्तं सम्पादित्वाद्युच्यते । तत्प्रतिषेधो यत्रोच्यते समासे तत्रायं विधिः । कर्णवेष्टकाभ्यां न सम्पादि मुखमिति। सम्पाद्यर्हहितालमर्था इति किम्? पाणिनीयमधीते पाणिनीयः , नपाणिनीयोऽपाणिनीयः ।
तद्धिता इति किम्? कन्यां वोढुमर्हति कन्यावोढा, न वोढा अवोढा - अर्हे कृत्यतृचश्च(3-3-169/2822) इति तृच् ।।
</6-2-155>
ययतोश्चातदर्धे ।। <6-2-156> ।।
य , यत् - इत्येतौ यौ तद्धितावतदर्थे वर्त्तेते तदन्तस्योत्तरपदस्य नञो गुणप्रतिषेधविषयादन्त उदात्तो भवति । पाशानां समूहः पाश्या , न पाश्या अपाश्या । अतृण्या । यत् - दन्तेषु भवं दन्त्यम् , न दन्त्यम् अदन्त्यम् । अकर्ण्यम् । अतदर्थ इति किम्? पादार्थमुदकं पाद्यम्, न पाद्यमपाद्यम् । तद्धिता इत्येव - अदेयम् । गुणप्रतिषेध इत्येव - दन्त्यादन्यत् अदन्त्यम् । निरनुबन्धकैकानुबन्धकयोर्ययतोर्ग्रहणादिह न भवति - वामदेवाड् ड्यड्ड्यौ(4-2-5/1210) - वामदेव्यम् , न वामदेव्यमवामदेव्यमिति ।।
</6-2-156>
अच्कावशक्तौ ।। <6-2-157> ।।
अच् , क - इत्येवमन्तमशक्तौ गम्यमानायामुत्तरपदं नञः परमन्तोदात्तं भवति । अपचो यः पक्तुं न शक्रोति । अजयः । कः खल्वपि - अविक्षिपः । अविलिखः । अशक्ताविति किम्? अपचः , दीक्षितः । अपचः परिव्राजकः ।।
</6-2-157>
आक्रोशेच ।। <6-2-158> ।।
आक्रोशे च गम्यमाने नञ उत्तरमच्कान्तमन्तोदात्तं भवति । अपचोऽयं जाल्मः । अपठोऽयं जाल्मः । पक्तुं पठितुं शक्तोऽप्येवमाक्रुश्यते । अविक्षिपः । अविलिखः ।।
</6-2-158>
संज्ञायाम् ।। <6-2-159> ।।
आक्रोशे गम्यमाने नञः परमुत्तरपदं संज्ञायां वर्त्तमानमन्तोदात्तं भवति । अदेवदत्तः । अयज्ञदत्तः । अविष्णुमित्रः।।
</6-2-159>
कृत्योकेष्णुच्चार्वादयश्च ।। <6-2-160> ।।
कृत्य, उक , इष्णुच् - इत्येवमन्ताश्चार्वादयश्च नञ उत्तरेऽन्तोदात्ता भवन्ति । कृत्य - अकर्त्तव्यम् । अकारणीयम् । उक्- अनागामुकम् । अनपलाषुकम् । इष्णुच् - अनलङ्करिष्णुः । अनिराकरिष्णुः । इष्णुज्ग्रहणे कर्त्तरि भुवः खिष्णुच्(3-2-57/3974) इत्स्य द्व्यनुबन्धकस्यापि ग्रहणमिकारादेर्विधानसामर्थ्याद् भवति । अनाढ्यम्भविष्णुः । असुभगम्भविष्णुः । चार्वादयः - अचारुः । असाधुः । अयौधिकः । अवदान्यः ।
चारु । साधु । यौधिक । अनङ्गमेजय । अत्र द्वितीये नञ्समासेऽन्तोदात्तत्वम् । अननङ्गमेजयः । वदान्य । अकस्मात् । अत्रापि द्वितीये नञ्समासेऽन्तोदात्तत्वम् - `अनकस्मात् वर्त्तमानवर्द्धमानत्वरमाणध्रियमाणक्रियमाणरोचमानशोभमानाः संज्ञायाम्(ग.सू.172) । एते वर्त्तमानादयः संज्ञायां द्रष्टव्याः । विकारसदृशे व्यस्तसमस्ते । अविकारः । असदृशः । अविकारसदृशः । गृहपति । गृहपतिकः । `राजाह्नोश्छन्दसि(ग.सू.174) । अराजा । अनहः । भाषायां नञ्स्वर एव भवति । चार्वादिः ।।
</6-2-160>
विभाषा तृन्नन्नतीक्ष्णशुचिषु ।। <6-2-161> ।।
तृन्नन्त , अन्न, तीक्ष्ण, शुचि - इत्येतेषु नञ उत्तरेषु विभाषाऽन्त उदात्तो भवति । अकर्त्ता । अन्न - अनन्नम् । तीक्ष्ण - अतीक्ष्णम् । शुचि - अशुचिः । पक्षे - अव्ययस्वर एव भवति ।।
</6-2-161>
बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने ।। <6-2-162> ।।
बहुव्रीहौ समासे इदम् , एतद् , तत् - इत्येतेभ्य उत्तरस्य प्रथमशब्दस्य पूरणप्रत्ययान्तस्य च क्रियागणने वर्त्तमानस्यान्त उदात्तो भवति । इदं प्रथमं गमनं भोजनं वा स इदम्प्रथमः, इदन्द्वितीयः , इदन्तृतीयः ।
एतत्प्रथमः, एतद्द्वितीयः, एतत्तृतीयः । तत्प्रथमः, तद्द्वितीयः, तत्तृतीयः । बहुव्रीहाविति किम्? अनेन प्रथम इदम्प्रथमः । तृतीया इति योगविभागात्समासः । इदमेतत्तद्भ्य इति किम्? यत्प्रथमः । प्रथमपूरणयोरिति किम्? तानि बहून्यस्य तद्बहुः । क्रियागणन इति किम्? अयं प्रथम एषां त इदम्प्रथमाः । द्रव्यगणनमेतत् । गणन इति किम्? अयं प्रथम एषामिदम्प्रथमाः । इदम्प्रधाना इत्यर्थः । उत्तरपदस्य कार्यित्वात् कपि पूर्वम्(6-2-173/3907)अन्तोदात्तं भवति । इदम्प्रथमकाः । बहुव्रीहौ इत्येतद् वनं समासे(6-2-128/3912) इति प्रागेतस्मादधिकृतं वेदितव्यम् ।।
</6-2-162>
संख्यायाः स्तनः ।। <6-2-163> ।।
संख्यायाः परः स्तनशब्दो बहुव्रीहौ समासेऽन्तोदात्तो भवति । द्विस्तना । त्रिस्तना । चतुःस्तना। संख्याया इति किम्? दर्शनीयस्तना । स्तन इति किम्? द्विशिराः ।।
</6-2-163>
विभाषा छन्दसि ।। <6-2-164> ।।
छन्दसि विषये बहुव्रीहौ समासे संख्यायाः परः स्तनशब्दो विभाषाऽन्तोदात्तो भवति । `द्विस्तनां कुर्याद्वामदेवः द्विस्तनां करोति द्यावापृखिव्योर्दोहाय । चतुः स्तनां करोति पशूनां दोहायाष्टास्तनां करोति छन्दसां दोहाय(तै.सं.5-1-6-4)।।
</6-2-164>
संज्ञायां मित्त्राजिनयोः ।। <6-2-165> ।।
संज्ञायां विषये बहुव्रीहौ समासे मित्त्र, अजिन - इत्येतयोरुत्तरपदयोरन्त उदात्तो भवति । देवमित्त्रः । ब्रह्ममित्त्रः । वृकाजिनः । कूलाजिनः । कृष्णाजिनः । संज्ञायामिति किम्? प्रियमित्त्रः । महाजिनः । * ऋषिप्रितिषेधो मित्त्रे * (म.भा.3-137)। `विश्वामित्त्र ऋषिः(तै.सं.4-3-2-2) ।।
</6-2-165>
व्यवायिनोऽन्तरम् ।। <6-2-166> ।।
व्यवायी - व्यवधाता, तद्वाचिनः परमन्तरं बहुव्रीहौ समासेऽन्तोदात्तं भवति । वस्त्रान्तरः । वटान्तरः । कम्बलान्तरः । वस्त्रमन्तरं व्यवधायकं यस्य स वस्त्रान्तरः । वस्त्रव्यवधायक इत्यर्थः । व्यवायिन इति किम्? आत्मान्तरः । आत्मा - स्वभावोऽन्तरः - अन्यो यस्यासावात्मान्तरः ।।
</6-2-166>
मुखं स्वाङ्गम् ।। <6-2-167> ।।
मुखमुत्तरपदं स्वाङ्गवाचि बहुव्रीहौ समासेऽन्तोदात्तं भवति । गौरमुखः । भद्रमुखः । स्वाङ्गमिति किम्? दीर्घमुखा शाला । स्वाङ्गमद्रवादिलक्षणमिह गृह्यते ।।
</6-2-167>
नाव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ।। <6-2-168> ।।
अव्यय, दिक्शब्द, गो , महत् , स्थूल, मुष्टि, पृथु, वत्स - इत्येतेभ्यः परं मुखं स्वाङ्गवाचि बहुव्रीहौ समासे नान्तोदात्तं भवति । अव्यय - उच्चैर्मुखः । नीचैर्मुखः । दिक्शब्द - प्राङ्मुखः । प्रत्यङ्मुखः । गो - गोमुखः । महत् - महामुखः । स्थूल - स्थूलमुखः । मुष्टि -मुष्टिमुखः । पृथु - पृथुमुखः । वत्स - वत्समुखः । पूर्वपदप्रकृतिस्वरो यथायोगमेषु भवति । गोमुष्टिवत्सपूर्वस्योपमानलक्षणो विकल्पः पूर्वविप्रतिषेधेन बाध्यते ।।
</6-2-168>
निष्ठोपमानादन्यतरस्याम् ।। <6-2-169> ।।
निष्ठान्तादुपमानवाचिनश्च मुखं स्वाङ्गमुत्तरपदमन्यतरस्यां बहुव्रीहौ समासेऽन्तोदात्तं भवति । प्रक्षालितमुखः । यदैतदुत्तरपदान्तोदात्तत्वं न भवति, तदा निष्ठोपसर्गपूर्वमन्यतरस्याम्(6-2-110/3844) इति पक्षे पूर्वपदान्तोदात्तत्वम् , तदभावपक्षेऽपि पूर्वपदप्रकृतिस्वरत्वेन गतिस्वर इति त्रीण्युदाहरणानि भवन्ति । उपमानात् -
सिंहमुखः । व्याघ्रमुखः ।।
</6-2-169>
जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः ।। <6-2-170> ।।
जातिवाचिन आच्छादनवर्जितात् कालवाचिनः सुखादिभ्यश्च परं क्तान्तं कृतमितप्रतिपन्नान् वर्जयित्वा बहुव्रीहौ समासेऽन्तोदात्तं भवति । सारङ्गजग्धः । पलाण्डुभक्षितः । सुरापीतः । काल - मासजातः । संवत्सरजातः । द्व्यहजातः । त्र्यहजातः । सुखादिभ्यः - सुखजातः । दुःखजातः । तृप्रजातः । जात्यादिभ्य इति किम्? पुत्रजातः। आहिताग्न्यादित्वात्परनिपातः । अनाच्छादनादिति किम्? वस्त्रच्छन्नः । वसनच्छन्नः । अकृतमितप्रतिपन्न इति किम्? कुण्डकृतः । कुण्डमितः । कुण्डप्रतिपन्नः । एतेषु बहुव्रीहिषु निष्ठान्तस्य पूर्वनिपातो न भवति अस्मादेव ज्ञापकात् । प्रत्युदाहरणेषु पूर्वपदप्रकृतिस्वरो योजयितव्यः । सुखादयस्तृतीयेऽध्याये(3-1-18/2674) पठ्यन्ते ।।
</6-2-170>
वा जाते ।। <6-2-171> ।।
जातशब्द उत्तरपदे वाऽन्त उदात्तो भवति बहुव्रीहौ समासे जातिकालसुखादिभ्यः । दन्तजातः । स्तनजातः । कालात् - मासजातः । संवत्सरजातः । सुखादिभ्यः - सुखजातः । दुःखजातः ।।
</6-2-171>
नञ्सुभ्याम् ।। <6-2-172> ।।
नञ्सुभ्यां परमुत्तरपदं बहुव्रीहौ समासेऽन्तोदात्तं भवति । अयवोदेशः। अव्रीहिः । अमाषः । सुयवः । सुव्रीहिः । सुमाषः । समासस्यैतदन्तोदात्तत्वमिष्यते । समासान्ताश्चावयवा भवन्तीति अनृचः बह्वृच इत्यत्र कृते समासान्तेऽन्तोदात्तत्वं भवति ।।
</6-2-172>
कपि पूर्वम् ।। <6-2-173> ।।
नञ्सुभ्यां कपि परतः पूर्वमन्तोदात्तं भवति । अकुमारीको देशः । अवृषलीकः । अब्रह्मबन्धूकः । सुकुमारीकः । सुवृषलीकः । सुब्रह्मबन्धूकः।।
</6-2-173>
ह्रस्वान्तेऽन्त्यात्पूर्वम् ।। <6-2-174> ।।
ह्रस्वोऽन्तो यस्य तदिदं ह्रस्वान्तमुत्तरपदं समासो वा, तत्रान्त्यात् पूर्वमुदात्तं भवति कपि परतो नञ्सुभ्यां परं बहुव्रीहौ समासे । अयवको देशः । अव्रीहिकः । अमाषकः । सुयवकः । सुव्रीहिकः । सुमाषकः । पूर्वमिति वर्त्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमप्रतिपत्त्यर्थम्, ह्रस्वान्तेऽन्त्यादेव पूर्वमुदात्तं भवति, न कपि पूर्वमिति । तेनाज्ञकः , सुज्ञक इत्यत्र कबन्तस्यैवान्तोदात्तत्वं भवति ।।
</6-2-174>
बहोर्नञ्वदुत्तरपदभूम्नि ।। <6-2-175> ।।
उत्तरपदार्थबहुत्वे यो बहुशब्दो वर्त्तते तस्मान्नञ इव स्वरो भवति । नञ्सुभ्याम्(6-2-172/3906) इत्युक्तम्, बहोरपि तथा भवति - बहुयवो देशः, बहुव्रीहिः , बहुतिलः। कपि पूर्वम्(6-2-173/3907) इत्युक्तम्, बहोरपि तथा भवति - बहुकुमारीको देशः, बहुवृषलीकः , बहुब्रह्मबन्धूकः । ह्रस्वान्तेन्त्यात्पूर्वम्(6-2-174/3908)इत्युक्तम्। बहोरपि तथा भवति। बहुयवको देशः। बहुव्रीहिकः, बहुमाषकः । नञो जरमरमित्त्रमृताः96-2-116/3850) इत्युक्तम् , बहोरपि तथा भवति - बहुजरः । बहुमरः । पहुमित्त्रः । बहुमृतः । उत्तरपदभूम्नीति किम्? बहुषु मनोऽस्य बहुमना अयम् ।।
</6-2-175>
न गुणादयोऽवयवाः ।। <6-2-176> ।।
गुणादयोऽवयववाचिनो बहोरुत्तरे बहुव्रीहौ नान्तोदात्ता भवन्ति । बहुगुणा रज्जुः । बह्वक्षरं पदम् ।
बहुच्छन्दोमानम् । बहुसूक्तः । बह्वध्यायः । गुणादिराकृतिगणो द्रष्टव्यः । अवयवा इति किम्? बहुगुणो ब्राह्मणः। अध्ययनश्रुतसदाचारादयोऽत्र गुणाः ।।
</6-2-176>
उपसर्गात् स्वाङ्गं ध्रुवमपर्शु ।। <6-2-177> ।।
उपसर्गात् स्वाङ्गं ध्रुवं पर्शुवर्जितमन्तोदात्तं भवति बहुव्रीहौ समासे । प्रपृष्ठः । प्रोदरः । प्रललाटः । ध्रुवम् इत्येकरूपमुच्यते । ध्रुवमस्य शीतमिति यथा । सततं यस्य प्रगतं पृष्ठं भवति स प्रपृष्ठः । उपसर्गादिति किम् ? दर्शनीयललाटः । स्वाङ्गमिति किम्? प्रशाखो वृक्षः । ध्रुवमिति किम्? उद्वाहुः क्रोशति। अपर्श्विति किम्? उत्पर्शु । विपर्शु ।।
</6-2-177>
वनं समासे ।। <6-2-178> ।।
समासमात्रे वनम् इत्येतदुत्तरपदमुपसर्गात्परमन्तोदात्तं भवति । प्रवणे यष्टव्यम् । निर्वणे प्रणिधीयते । प्रनिरन्तरः(8-4-5/1050)इति णत्वम्।समासग्रहणं समासमात्रपरिग्रहार्थम्, बहुव्रीहावेव हि स्यात् ।।
</6-2-178>
अन्तः ।। <6-2-179>।।
अन्तश्शब्दादुत्तरं वनमन्तोदात्तं भवति । अन्तर्वणो देशः । अनुपसर्गार्थ आरम्भः ।।
</6-2-179>
अन्तश्च ।। <6-2-180> ।।
अन्तश्शब्दश्चोत्तरपदमुपसर्गादन्तोदात्तं भवति । प्रान्तः । पर्यन्तः । बहुव्रीहिरयम् , प्रादिसमासो वा ।।
</6-2-180>
न निविभ्याम् ।। <6-2-181> ।।
नि, वि - इत्येताभ्यामुत्तरोऽन्तःशब्दो नान्तोदात्तो भवति । न्यन्तः । व्यन्तः । पूर्वपदप्रकृतिस्वरत्वे कृते यणादेशः तत्र उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (8-2-4/3757)इति स्वरितो भवति ।।
</6-2-181>
परेरभितोभावि मण्डलम् ।। <6-2-182> ।।
परेरुत्तरमभितोभाविवचनं मण्डलं चान्तोदात्तं भवति । परिकूलम् । परितीरम् । परिमण्डलम् । बहुव्रीहिरयम् , प्रादिसमासः , अव्ययीभावो वा । अव्ययीभावपक्षेऽपि परिप्रत्युपापावर्ज्यमानाहोरात्रावयवेषु(6-2-33/3767) इति पूर्वपदप्रकृतिस्वरत्वं प्राप्तमनेन बाध्यते । अभित इत्युभयतः। अभितो भावोऽस्यास्तीति तदभितोभावि ।
यच्चैवंस्वभावं कूलादि, तदभितोभाविग्रहणेन गृह्यते ।।
</6-2-182>
प्रादस्वाङ्गं संज्ञायाम् ।। <6-2-183> ।।
प्रादुत्तरपदमस्वाङ्गवाचि संज्ञायां विषयेऽन्तोदात्तं भवति । प्रकोष्ठम् । प्रगृहम् । प्रद्वारम् । अस्वाङ्गमिति किम्? प्रहस्तम् । प्रपदम् । संज्ञायामिति किम् ? प्रपीठम् ।।
</6-2-183>
निरुदकादीनि च ।। <6-2-184> ।।
निरुदकादीनि च शब्दरूपाण्यन्तोदात्तानि भवन्ति । निरुदकम् । निरुलपम् । निरुपलमित्यन्ये पठन्ति । निर्मक्षिकम् । निर्मशकम् । एषां प्रादिसमासः बहुव्रीहिर्वा । अव्ययीभावे तु समासान्तोदात्तत्वेनैव सिद्धम् । निष्कालकः । निष्क्रान्तः कालकादिति कन्प्रत्ययान्तेन कालब्देन प्रादिसमासः । निष्कालिकः - इत्यन्ये पठन्ति । निष्पेषः । दुस्तरीपः । `अवितॄस्तॄतन्त्रिभ्य ईः(उ.446) - तरीः तां पातीति तरीपः , कुत्सितस्तरीपो दुस्तरीपः । निस्तरीप इति केचित् पठन्ति । अपरे - निस्तरीक इति । ते तरीशब्दान्ते बहुव्रीहौ कपं कुर्वन्ति । निरजिनम् । उदजिनम् । उपाजिनम् । `परेर्हस्तपादकेशकर्षाः(ग.सू.175) । परिहस्तः । परिपादः । पिरकेशः । परिकर्षः ।
निरुदकादिराकृतिगणः ।।
</6-2-184>
अभेर्मुखम् ।। <6-2-185> ।।
अभेरुत्तरं मुखमन्तोदात्तं भवति । अभिमुखः । बहुव्रीहिरयम् , प्रादिसमासो वा । अव्ययीभावे तु समासान्तोदात्तत्वेनैव सिद्धम् । उपसर्गात्स्वाङ्गम्(6-2-177/3911) इति सिद्धे वचनमबहुव्रीह्यर्थम् , अध्रुवार्थम् स्वाङ्गार्थं च । अभिमुखा शाला ।।
</6-2-185>
अपाच्च ।। <6-2-186> ।।
अपाच्चोत्तरं मुखमन्तोदात्तं भवति । अपमुखः । अपमुखम् । अव्ययीभावोऽप्यत्र प्रयोजयति । तत्रापि हि परिप्रत्युपापावर्ज्यमानाहोरात्रावयवेषु(6-2-33/3767) इत्युक्तम् । योगविभाग उत्तरार्थः ।।
</6-2-186>
स्फिगपूतवीणाञ्जोऽध्वकुक्षिसीरनाम नाम च ।। <6-2-187> ।।
स्फिग, पूत, वीणा, अञ्जस् , अध्वन् , कुक्षि - इत्येतान्युत्तरपदानि सीरनामानि च नामशब्दश्च अपादुत्तराण्यन्तोदात्तानि भवन्ति । अपस्फिगम् । अपपूतम् । अपवीणम् । अपाञ्जः । अपाध्वा । उपसर्गादध्वनः(5-4-85/943) इति यदा समासान्तो नास्ति , तदाऽनेनान्तोदात्तत्वं भवति । तस्मिन् हि सत्यच्प्रत्ययस्य चित्त्वादेव सिद्धम् । अनित्यश्च समासान्तः इत्येतदेव ज्ञापकम् । अपकुक्षिः । अपसीरः । अपहलम् । अपलाङ्गलम् । अपनाम । सर्वत्र प्रादिसमासः , बहुव्रीहिः , अव्ययीभावो वा । स्फिगपूतकुक्षीणां ग्रहणमबहुव्रीह्यर्थम् , अर्ध्रुवार्थम् , अस्वाङ्गार्थं च ।।
</6-2-187>
अधेरुपरिस्थम् ।। <6-2-188> ।।
अधेरुत्तरमुपरिस्थवाचि अन्तोदात्तं भवति । अधिदन्तः । अधिकर्णः । अधिकेशः । अध्यारूढो दन्त इति प्रादिसमासः । अध्यारूढो वा दन्त इति समासनाधिकरण उत्तरपदलोपी समासः । दन्तस्योपरि योऽन्यो दान्तो जायते स उच्यते - अधिदन्त इति । उपरिस्थमिति किम्? अधिकरणम् ।।
</6-2-188>
अनोरप्रधानकनीयसी ।। <6-2-189> ।।
अनोरुत्तरमप्रधानवाचि कनीयश्चान्तोदात्तं भवति । अनुगतो ज्येष्ठमुज्येष्ठः । अनुमध्यमः । पूर्वपदार्थप्रधानः प्रादिसमासोऽयम् । अनुगतः कनीयान् अनुकनीयान् । उत्तरपदार्थप्रधानोऽयम् । प्रधानार्थं च कनीयोग्रहणम् । अप्रधानकनीयसी इति किम्? अनुगतो ज्येष्ठोऽनुज्येष्ठः ।।
</6-2-189>
पूरुषश्चान्वादिष्टः ।। <6-2-190> ।।
पुरुषशब्दोऽन्वादिष्टवाची चानोरुत्तरोऽन्तोदात्तो भवति । अन्वादिष्टः पुरुषोऽनुपुरुषः । अन्वादिष्टः - अन्वचितः , कथितानुकथितो वा । अन्वादिष्ट इति किम्? अनुगतः पुरुषो। अनुपुरुषः ।।
</6-2-190>
अतेरकृत्पदे ।। <6-2-191> ।।
अतेः परमकृदन्तं पदशब्दश्चान्तोदात्तो भवति । अत्यङ्कुशो नागः । अतिकशोऽश्वः । पदशब्दः खल्वपि - अतिपदा शक्वरी । अकृत्पदे इति किम्? अतिकारकः । * अतेर्धातुलोप इति वक्तव्यम् * (म.भा.3-139)। इह मा बूत् - शोभनो गार्ग्यः । अतिगार्ग्यः । इह च यथा स्यात् - अतिक्रान्तः कारकादतिकारक इति।।
</6-2-191>
नेरनिधाने ।। <6-2-192> ।।
नेः परमुत्तरपदमन्तोदात्तं भवत्यनिधाने । निधानम् - अप्रकाशता , तद्भिन्नमनिधानम् - प्रकाशनम् । निमूलम् । न्यक्षम् । नितृणम् । बहुव्रीहिरयम् , प्रादिसमासो वा । अव्ययीभावे तु समासान्तोदात्तत्वेनैव सिद्धम् । अनिधान इति किम्? निवाग्वृषलः । निदण्डः । निहितवाक् , निहितदण्ड इत्यर्थः । निशब्दोऽनिधानार्थं ब्रवीति । प्रादयो हि वृत्तिविषये ससाधनां क्रियामाहुः ।।
</6-2-192>
प्रतेरंश्वादयस्तत्पुरुषे ।।<6-2- 193>।।
प्रतेरंश्वादयस्तत्पुरुषे समासेऽन्तोदात्ता भवन्ति । प्रतिगतोंऽशुः प्रत्यंशुः । प्रतिजनः । प्रतिराजा । राजशब्दः समासान्तस्यानित्यत्वाद्यदा टज् नास्ति तदा प्रयोजयति । तस्मिन्हि सति चित्त्वादेवान्तोदात्तत्वं सिद्धम् । अंशु । जन । राजन् । उष्ट्र। खेटक । अजिर । आर्द्रा । श्रवण । कृत्तिका । अर्द्ध । पुर । अंश्वादिः । तत्पुरुष इति किम्? प्रतिगता अंशवोऽस्य प्रत्यंशुरयमुष्ट्रः ।।
</6-2- 193>
उपाद् द्व्यजजिनमगौरादयः ।। <6-2-194> ।।
उपादुत्तरं द्व्यजजिनं चान्तोदात्तं भवति तत्पुरुषे समासे गौरादीन् वर्जयित्वा । उपगतो देवमुपदेवः । उपसोमः । उपेन्द्रः उपहोडः । अजिन - उपाजिनम् । अगौरादय इति किम् ?उपगौरः । उपतैषः । गैर । तैष। तैट। लट । लोट। जिह्वा । कृष्णा । कन्या । गुड । कल्य। पाद। गौरादिः । तत्पुरुष इत्येव - उपगतः सोमोऽस्य उपसोमः ।।
</6-2-194>
सोरवक्षेपणे ।। <6-2-195> ।।
सुशब्दात्परमुत्तरपदं तत्पुरुषे समासेऽन्तोदात्तं भवति अवक्षेपणे गम्यमाने । अवक्षेपणम् - निन्दा । इह खल्विदानीं सुस्थण्डिले सुस्फिगाभ्यां सुप्रत्यवसितः। सुशब्दोऽत्र पूजायामेव । वाक्यार्थस्तु अवक्षेपणमसूयया, तथाभिधानात् । सोरिति किम्? कुब्राह्मणः । अपक्षेपण इति किम्? शोभनेषु तृणेषु सुतृणेषु ।।
</6-2-195>
विभाषोत्पुच्छे ।। <6-2-196> ।।
उत्पुच्छशब्दे तत्पुरुषे विभाषाऽन्त उदात्तो भवति । उत्क्रान्तः पुच्छाद् उत्पुच्छः । यदा तु पुच्छमुदस्यति उत्पुच्छयति , उत्पुच्छयतेरच् उत्पुच्छः , तदा थाथादिसूत्रेण नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयमिति सेयमुभयत्र विभाषा भवति । तत्पुरुष इत्येव - उदस्तं पुच्छमस्य उत्पुच्छः ।।
</6-2-196>
द्वित्रिभ्यां पाद्दन्मूर्धसु वहुव्रीहौ ।। <6-2-197> ।।
द्वि, त्रि - इत्येताभ्यामुत्तरेषु पाद् , दत् , मूर्धन् - इत्येषूत्तरपदेषु यो बहुव्रीहिस्तत्र विभाषाऽन्त उदात्तो भवति । द्वौ पादावस्य `द्विपात्(तै.सं.2-6-8-3) । त्रिपात् । द्विदन् । त्रिदन् । द्विमूर्धा । त्रिमूर्धा । पादिति कृताकारलोपः पादशब्दो गृह्यते । ददिति कृतददादेशो दन्तशब्दः । मूर्धन्निति त्वकृतसमासान्तो नान्त एव मूर्धन्शब्दः । तस्यैतत्प्रयोजनम् - असत्यपि समासान्तोऽन्तोदात्तत्वं यथा स्यात् । एतदेव ज्ञापकम् - अनित्यः समासान्तो भवतीति । यदाऽपि समासान्तः क्रियते, तदापि बहुव्रीहेः कार्यित्वात् तदेकदेशत्वाच्च समासान्तस्यान्तोदात्तत्वं पक्षे भवत्येव - द्विमूर्धः , त्रिमूर्धः । द्वित्रिभ्यामिति किम्? कल्याणमूर्धा । पादादिष्विति किम्? द्विहस्तम् । बहुव्रीहाविति किम्? द्वयोर्मूर्धा द्विमूर्धा ।।
</6-2-197>
सक्थं चाक्रान्तात् ।। <6-2-198> ।।
सक्थमिति कृतसमासान्तः सक्थिशब्दोऽत्र गृह्यते, सोऽक्रान्तात्परो विभाषान्तोदात्तो भवति । गौरसक्थः । श्लक्ष्णसक्थः । अक्रान्तादिति किम्? चक्रसक्थः । षचश्चित्वान्नित्यमन्तोदात्तत्वं भवति ।।
</6-2-198>
परादिश्छन्दसि बहुलम् ।। <6-2-199> ।।
छन्दसि विषये परादिरुदात्तो भवति बहुलम् । परशब्देनात्र सक्थशब्द एव गृह्यते । अञ्जिसक्थमालभेत । `त्वाष्ट्रौ लौमशसक्थौ(तै.सं.5-5-23-1) । ऋजुबाहुः । वाक्पतिः । चित्पतिः ।
`परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते ।
पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं ततः ।।(म.भा.3-141)
परादिरुदाहृतः। परान्तः--
* अन्तोदात्तप्रकरणे त्रिचक्रादीनां छन्दस्युपसंख्यानम् *(म.भा.3-140)। `त्रिबन्धुरेण त्रिवृता रथेन त्रिचक्रेण(ऋ.1-118-2)।
पूर्वान्तः -
- पूर्वपदान्तोदात्तप्रकरणे मरुद्वृद्धादीनां छन्दस्युपसंख्यानम् *(म.भा.3-140)। मरुद्वृद्धः ।
पूर्वादिः -
- पूर्वपदाद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम् *। दिवोदासाय सामागाय ते इत्येवमादि सर्वं संगृहीतं भवति ।।
इति श्रीवामनविरचितायां काशिकावृत्तौ
षष्ठाध्यायस्य द्वितीयः पादः
</6-2-199>