काशिका (पदमञ्जरीव्याख्यासहिता)/तृतीयोऽध्यायः/तृतीयः पादः
← द्वितीयः पादः | काशिका (पदमञ्जरीव्याख्यासहिता) तृतीयः पादः [[लेखकः :|]] |
चतुर्थः पादः → |
अथ तृतीयाध्याये तृतीयः पादः
उणादयो बहुलम् ।। 3.3.1 ।। पदमञ्जरी
वर्त्तमाने इत्येवेति । `वर्त्तमाने लट्' इत्यतो वर्त्तमानग्रहणानुवृत्तेरविच्छेदमेवकारेण दर्शयति । संज्ञायामिति चेति । `पुवः संज्ञायाम्' इत्यतः ।।
`उणादयः' इत्येव सूत्रमुणादीनां शास्त्रान्तरपरिपठितानां साधुत्वानुज्ञानार्थमस्तु, किं बहुलग्रहणेन ? तत्राह---बाहुलकमिति । `ला आदाने', बहूनर्थान् लाति---बहुलम्, तस्य भावो बाहुलकम्, मनोज्ञादित्वाद् वुञ् । तत्पुनर्बह्वर्थादानं बहुलशब्दप्रवृत्तिनिमित्तम् । बहवः पुनरर्थाः---क्वचित्प्रवृत्तिः, क्वचिदप्रवृत्तिरिति वक्ष्यमाणलक्षणाः । प्रकृतेरिति । जातावेकवचनम् । तनुशब्दोऽत्र वृत्तिविषये गुणमात्रवचनः । प्रकृतीनां तानवमल्पत्वं दृष्ट्वा तद्बाहुलकमुक्तम्, तेनापठिताभ्योऽपि प्रकृतिभ्य उणादयो भवन्ति, यथा---हृषेरुलजुक्तः शकेरपि भवति---शङ्कुलेति । तथा तेषामुणादीनां पञ्चपाद्यां प्रायेण समुच्चयनं कृतम्, न तु साकल्येन; बहुलवचनात्त्वविहिता अपि भवन्ति, यथा---अर्तेः फिडफिड्डौ भवतः---ऋफिडः, ऋफिड्ड इति । कार्यसशेषविधेश्च । कार्याणि च सशेषाणि विहितानि न निः शेषाणि । बहुलवचनात्त्वविहितान्यपि भवन्ति । `षणु दाने', `ञमन्ताड्डः', `धात्वादेः पः स' इति सत्वं न भवति, कृते वा सत्वे षत्वं भवति । स्यादेतत्---यावत्यः प्रकृतयः पञ्चपाद्यामुपात्ताः, यावन्तश्च प्रत्ययाः, यावन्ति च कार्याणि विहितानि तावन्त्येव भवन्तु, मा भूदन्येषां बहुलग्रहणेन संग्रह इति ? तत्राह---नैगमरूढिभवं हि सुसाध्विति । निगमः=छन्दः, तत्र भवा नैगमाः । निगमशब्दस्थाथादिस्वरेणान्तोदात्त इति `बह्वचोऽन्तोदात्ताट्ठञ्' इति ठञि प्राप्ते ऋगयनादिपाठादण् । रूढिः=प्रसिद्धिः, तत्र भवा रूढिभवाः=संज्ञाशब्दाः, तेषां साधुत्वमनुपात्तानां प्रकृत्यादीनां बहुलग्रहणेन संग्रहे सति भवति, नान्यथा । हिशब्दो हेतौ । यस्मादेवं तस्माद्वाहुलकमुक्तमित्यर्थः ।
अन्यैरप्याचार्यैर्नैगमरूढिभवानां प्रकृत्यादिविभागेन व्युत्पादनं कृतम्, अतोऽस्माभिरपि तत्कर्त्तव्यमेवेत्यभिप्रायेणाह---नाम चेति । निरुक्तकारो हि यास्क आचार्यः स्वशास्त्रे निरुक्तैः सर्वमेव नाम धातुजमाह । तोकमित्यपत्यंनाम । शकटस्य तोकम् शाकटायनः । यन्नेति । पदमर्थः प्रयोजनमप्त्य व्युत्पाद्यत्वेनेति पदार्थः=प्रकृत्यादिः, पदार्थश्चासौ विशेषश्च पदार्थविशेषः, तस्मात्समुत्थितं पदार्थविशेषसमुत्थम् । यदेवंविधं न भवति, प्रकृत्यादिविशेषोपादानेनाव्युत्पादितमित्यर्थः, तद्धातुजत्वेनोह्यम् । कथमूह्यम् ? प्रत्ययतः प्रकृतेश्च । यत्र शब्दरूपे परभागः प्रत्ययत्वेन प्रसिद्धेन केनचित्सदृशः श्रुतः, तत्र तं भागं प्रत्ययं कल्पयित्वा परिशिष्टो भागः प्रकृतित्वेनोह्यते । `हृषेरुलच्' इति प्रत्ययं दृष्ट्वा शङ्किः प्रकृतिरूह्यते, तेन सिद्धं शङ्कुलेत्यस्य धातुजत्वम् । यत्र तु पूर्वो भागो धातुत्वेन प्रसिद्धेन केनचित्सदृशस्तत्र तं भागं प्रकृतिं कल्पयित्वा परिशिष्टो भागः प्रत्ययन्वेनोह्यः । यथा----ऋफिडः, ऋफिड्ड इति, फिडफिड्डौ प्रत्ययौ ।
स चायमूहोऽनादिप्रत्युक्तास्वेव संज्ञासु, न सर्वत्रेत्याह---संज्ञास्विति । कार्याद् गुणप्रतिषेधादिकाद् अनूबन्धं ककारादिकं विद्यात् । तेन फिडफिड्डौ कितावूह्यौ । एतदेवानन्तरोक्तमूहात्मकं शास्त्रमुणादिष्वनुक्तेषु ।।
भूतेऽपि दृश्यन्ते ।। 3.3.2 ।।
पूर्वत्र वर्तमानाधइकारादिति । तत्रैव वर्तमानग्रहणं न निवर्त्तितम्, बाहुल्येन वर्तमाने भवन्ति, क्वचिदेव भूते भवन्तीति किल विवेकप्रदर्शनायेति भावः । उदाहरणेषु `ताभ्यामन्यत्रोणादयः' इति संप्रदानापादानव्यतिरिक्ते कारके मनिन् प्रत्ययः, `नेड्वशि कृति' इतीट्प्रतिषेधः ।।
भविष्यति गम्यादयः ।। 3.3.3 ।।
यथा `स्यदो जवे' इत्युक्ते जवशब्दपर्यायः स्यदशब्दो भवति, तथेहापि भविष्यच्छब्दपर्याया गम्यादयः प्राप्नुवन्तीत्याशङ्क्याह---प्रत्ययस्यैवेत्यादि । प्रकृत्यर्थगता भविष्यत्कालता । प्रत्ययस्यैव द्योत्यत्वेन विधीयते, न पुनः प्रकृत्यर्थपरित्यागेन समुदायस्येत्यर्थः । न प्रकृतेरिति । न प्रकृतेरपीत्यर्थः । गम्यादिषु केचिदुणादयः, केचिदष्टाध्यायीगताः । गमी, आगामीति । `गमेरिनिः' `आङि णिच्च' इतीनिः । भावी, प्रस्थायीति । अस्मिन्नेवाधिकारे `भुवश्च' `प्रात्स्थः' इतीनिः, णित्त्वाद् वृद्धिर्युक्च । रुधिबुधियुधियातिभ्यः प्रतिपूर्वेभ्यो प्रहादिनिः । अस्मादेव निपातनादित्यन्ये । `सुप्यजातौ' इत्यन्ये । प्रतियोगीति । संपृचादिसूत्रेण घिनुणि `चजोः कु घिण्ण्यतोः' इति कुत्वम् । णिनि प्रत्यय एव न्यङ्क्वादिपाठादस्मादेव निपातनाद्वा कुत्वमित्यन्ये ।
अनद्यतन उपसंख्यानमिति । किं पुनः कारणं न सिद्ध्यति ? लृटायं निर्देशः क्रियते लृ
ट् चानद्यतने लुटा बाध्यते, तेन लृट एव विषये एते स्युः । न वा वाक्यार्थत्वाद् गम्यादयः शब्दा विशेषे यत्सामान्यं तदाश्रयेण प्रवत्तन्ते । अनद्यतनाख्यस्तु विशेषः श्वः शब्दमहिम्ना गम्यते । विशेषविवक्षायां तु लुडेव भवति---श्वो गन्ता ग्राममिति । वासरूपविधिना च लृडपि भवति । तेन भविष्यति, गमिष्यतीत्यादयः प्रयोगा उपपद्यन्ते ।।
यावत्पुरानिपातयोर्लट् ।। 3.3.4 ।।
`पुरा' इत्यविभक्तिको निर्देशः, कर्मधारयो वा । निपातनाद्विशेषणस्य परनिपातः । निपातौ चैतौ निश्चयं द्योतयतः । एतयोश्च प्रयोगे वर्त्तमाने लण्न भवति; भविष्यत्कालतया वर्त्तमानकालताया बाधनात् ।
यावद्दास्यतीति । यत्परिमाणमस्य `यत्तदेतेभ्यः परिमाणे वतुप्', `आ सर्वनाम्नः' इत्यात्वम् । पुरा व्रजिष्यतीति । `पॄ पालनपूरणयोः' `भ्राजभास' इत्यादिना क्विप्, `उदोष्ठ्यपूर्वस्य' इत्युत्वम् । अस्य तृतीयान्तत्वं द्योतयितुं करणभूतयेत्युक्तम् । प्रतिपदोक्तत्वादेव निपातयोर्ग्रहणे सिद्धे निपातग्रहणं लक्षणप्रतिपदोक्तपरिभाषाया अनित्यत्वज्ञापनार्थम् । तेन `आतां पुग्णौ' इत्यत्र लाक्षणिकरयाप्याकारान्तस्य पुग्भवति, `क्रीङ्जीनां णौ' क्रापयति, जापयतीति ।।
विभाषा कदाकर्ह्योः ।। 3.3.5 ।।
`अनद्यतने लुट्' इत्यत्राप्ययं योगोऽनुवर्त्तनीयः, तेन लुड्विषयेऽपि पक्षे लड् भवति । अत एव पक्षे लुडप्युदाहृतः । एतच्च पूर्वयोगेऽपि द्रष्टव्यम् । कहिं भोक्ष्यते इति । ननु च कर्हिशब्दोऽनद्यतनविषयः, तत्प्रयोगे लुडेव भवितुमर्हति, न लृट्; न वा वाक्यर्थत्वात् । भोक्ष्यत इति पदं भविष्यत्सामान्ये वर्त्तते, अनद्यतनावगतिस्तु कर्हि-शब्दाधीना । न च वाक्यार्थः पदसंस्कार उपयुज्यते ।।
किवृत्ते लिप्सायाम् ।। 3.3.6 ।।
किमो वृत्तं किवृत्तमिति । वर्त्ततेऽस्मिन्निति वृत्तम्, `क्तोऽधिकरणे च' इत्यधिकरणे क्तः । अस्मादेव निपातनाद् `अधिकरणवाचिंना च' इति षष्ठीसमासप्रतिषेधाभाव, शेषषष्ठ्या वा समासः । यत्र किंशब्दोऽवयवत्वेन वर्त्तते तत्सर्वं किंवृत्तम् । ततश्च कीदृशः, किमीयः, किन्तरामित्यादावतिप्रसङ्गात्परिगणनम् । वृत्तग्रहणेनेति । तदिति शब्दरूपापेक्षं नपुंसकत्वम् । डतरडतमौचेति । डतरडतमान्तं किंशब्दरूपमित्यर्थः । कं भवन्तो र्भोजयितार इति । अस्यापि `अनद्यतने लुट्' इत्यत्रानुवृत्तिरिति भावः । एवमुत्तरेष्वपि योगेषु द्रष्टव्यम् ।।
लिप्स्यमानसिद्धौ च ।। 3.3.7 ।।
`लिप्स्यमानसिद्धौ' इति षष्ठीसमासः । वृत्तौ तु वस्तुमात्रमदर्शि । लिप्स्यमानात्सिद्धिरिति । अस्मादेव निपातनाद्वा पञ्चमीसमासः । लिप्स्यमानं भक्तादि तन्निमित्ता या स्वर्गादेः सिद्धिस्तस्यामित्यर्थः । ननु च यत्र लिप्स्यमानस्य सिद्धिर्गम्यते, लिप्सापि तत्र भवति, ततश्च पूर्वेणैव सिद्धं नार्थ एतेन ? तत्राह---अकिंवृत्तार्थोऽयमारम्भ इति । पूर्वसूत्रे किवृत्तग्रहणं लिप्स्यमानसिद्धिरहिते लिप्सामात्रे किंवृत्त एव यथा स्याद्, अकिंवृत्ते मा भूदित्येवमर्थम् ।।
लोडर्थलक्षणे च ।। 3.3.8 ।।
अध्ययनप्रैषस्येति । `कर्तृकरणे कृता बहुलम्' इत्यत्र साधनं कृतेति वा पादहारकाद्यर्थमिति वचनात्सप्तमीसमासः ।।
लिङ् चौर्ध्वमौहूर्त्तिके ।। 3.3.9 ।।
निपातनात्समास उत्तरपदवृद्धिश्चेति । ठञ्प्रत्ययश्चाध्यात्प्रादित्वात् । `बह्वचोऽन्तोदात्तात्' इत्यत्र तु `व्याख्यातव्यनाम्नः' इति वर्त्तते । उपाध्यायश्चेदागन्तेति । ऊर्ध्वमौहूर्त्तिकेऽनद्यतनत्वं सम्भवतीति चिन्त्यम् ।।
तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ।। 3.3.10 ।।
भिक्षिष्य इत्यस्य जटा इति । अत्र भिक्षणक्रियार्थत्वं जटानाम्, न तु क्रियात्वम्; द्रव्यत्वाज्जटानाम् । धावतस्ते पतिष्यति दण्ड इति । अस्त्यत्र धावनक्रियोपपदम्, न त्वसौ दण्डपातनार्थं धावति, किं तर्हि ? धावतोऽर्थात्पतिष्यति दण्डः । उद्दे शेन हि तादर्थ्यं विविच्यते, न तु हेतुत्वमात्रेण तादर्थ्यम् । अथेत्यादि चोद्यम् । परिहरति---लृटा क्रियार्थोपपदेनेति । तुमुना तु बाधो नाशङ्कनीयः; भिन्नार्थत्वात्---कर्त्तरि ण्वुल्, तुमुन् पुनर्भावे । कथम् ? `तुमर्थे सेसेन्' इत्यत्र तुमर्थग्रहणात् । यदि हि `कर्त्तरि कृत्' इति वचनात्कर्त्तरि तुमुन् स्यात्तद्वदेव सेसेन्प्रभृतयोऽपि कर्त्तरि भविष्यन्ति । अतस्तुमर्थग्रहणात्कर्त्तुस्तावदयमपकृष्यते । न चान्योऽर्थो निदिश्यते, अनिदिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ति । कश्च धातोः स्वार्थः ? भाव एव । लृट् तु यद्यपि भावकर्मणोश्चरितार्थस्तथापि क्रियायां क्रियार्थायामुपपदे भविष्यति काले च विधानाद्विसेषविहितः । ण्वुल्विधौ तु कर्त्तरीति न श्रूयते, अतोऽसौ विशेषविहितेन लृटा बाध्यते । अथ वा किं न एतेन विशेषविहित इति, द्वयोःसावकाशत्वेऽपि परत्वाल्लृट् ण्वुलं बाधेत । पुनश्चोदयति---वासरूपविधिनेति । परिहरति---एवं तर्हीति । नन्वसति प्रयोजने ज्ञापकं भवति, अस्ति चात्र प्रयोजनम्, किम् ? `अकेनोर्भविष्यदाधमर्ण्ययोः' इति षष्ठीप्रतिषेधो भविष्यदधिकारविहितस्याकस्य प्रयोगे यथा स्यात्, वर्षशतस्य पूरकः पुत्त्रपौत्त्राणां दर्शक इत्यत्र मा भूदिति ? एवं मन्यते---पदान्तरसन्निधानादत्र भविष्यत्कालत्वं गम्यते । यदा हि बालविषयमेतत्प्रयुज्यते तदा तस्यामवस्थायां वर्षशतपूरणस्य पुत्त्रपौत्त्रदर्शनस्य चासम्भवात्तावन्तमसौ कालं जीविष्यतीत्यर्थाद्गम्यते, न त्वत्र पदार्थो भविष्यत्कालत्वमिति । स्थिते त्वस्मिन् ण्वुल्विधाने `वषशतस्य पूरकः' इत्यादौ भविष्यत्कालस्य पदार्थत्वेऽपि न दोष इत्यभिप्रायेण `अकेनोर्भविष्यदाधमर्ण्ययोः' इत्यत्रोक्तम्---भविष्यदधिकारविहितस्याकस्येदं ग्रहणम्, तेन वर्षशतस्य पूरकः पुत्त्रपौत्त्राणां दर्शक इत्यत्र न भवतीति ।।
भाववचनाश्च ।। 3.3.11 ।।
वक्तीति वचनः, `कृत्यल्युटो बहुलम्' इति कर्त्तरि ल्युट्, करण एव वा---भाव उच्यते येन स भाववचनः । अत्र पुरुषाः कर्त्तारः, भावाधिकारविहिता एव भाववचना भवन्तीत्याह---भाव इति प्रकृत्येति । तुमुना बाध्येरन्निति । लृट् तु भावकर्मकर्तृषु त्रिषु विधानादसमानार्थः । किञ्चि, धात्वर्थस्य सिद्धतायां घञादयः, शुद्धे तु धात्वर्थे लकारः, अतोऽप्यसमानार्थत्वम् ।
इह `भावे' इत्येतावद्वक्तव्यम्, एवमपि ह्युच्यमाने भावे ये विहितास्ते क्रियायां क्रियार्थायामुपपदे भवन्तीत्यर्थो लभ्यत एव, तदपार्थकं वचनग्रहणमिति मत्वा पृच्छति---अथेति । वाचका यथा स्युरिति । वचनग्रहणे हि सति भाववचनाः सन्तो घञादयोऽस्मिन्विषये भवन्तीत्यर्थो भवति, भावस्य वाचकाः सन्तो भवन्तीत्यर्थः । एतदेव प्रश्नपूर्वकं विवृणोति---कथं चेति । याभ्य प्रकृतिभ्य इति । इवर्णान्तेभ्योऽच्, ऋवर्णान्तेभ्य उवर्णान्तेभ्यश्चाबिति । एवम् येन विशेषणेनेति । `हस्तादाने चेरस्तेये', `श्रिणीभुवोऽनुपसर्गे' इत्यादिना । असामञ्जस्यम्=व्यतिकरः, अन्योऽन्यविषयावगाहनमिति यावत् । पाकायेत्यादौ `तुमर्थाच्च भाववचनात्' इति चतुर्थो ।।
अण् कर्मणि च ।। 3.3.12 ।।
चकारः सन्नियोगार्थ इति । अन्यथा पर्यायेण स्यात्---कदाचित्क्रियार्थायामेव क्रियायामुपपदे, कदाचित्कर्मण्येव केवले; वचनं तु भविष्यति काले कादीनामपवादानां बाधनार्थं स्यात् । चकारात्तु सन्नियोगार्थात्समुदायस्यैव प्रत्ययोत्पत्ति प्रति निमित्तत्वम् । उपपदसंज्ञा तु प्रत्येकमेव भवति; प्रत्येकं सप्तमीनिर्देशात् । तेन केवलस्यापि कर्मणः समासो भवति । काण्डलावो व्रजतीति । सोऽपवादत्वात् ण्वुलं वाधत इति । ण्वुल्विधाने च क्रियायां क्रियार्थायामुपपदे वासरूपेण तृजादयो न भवन्तीति ज्ञापितम्, न पुनरस्मिन् प्रकरणे वासरूपविधिर्नास्तीति । तेन योऽयम् `तुमुन्ण्वुलौ' इति ण्वुल्, सोऽस्याणो विषयेऽपि वासरूपविधिना भवत्येव---एधानाहारको व्रजतीति । तथा च `अकेनोर्भविष्यदाधमर्ण्ययोः' इति भविष्यदधिकारविहितस्याकस्य भविष्यति प्रयोगे कर्मणि षष्ठी प्रतिषिद्ध्यते । परत्वाच्च कादीनिति । ननु चापूर्वविधानात्प्रतिप्रसववचनस्य लाघवमस्तीति अण्विषय एव ण्वुलं बाधित्वाण स्यान्नापवादविषये ? एवं मन्यते---इह कर्मणीति न वक्तव्यं वचनग्रहणानुवृत्तेरेव यो वचनेऽण् सोऽस्मिन्विषये भवतीति वचनव्यक्तथा कर्मण्येवोपपदेऽण् सिद्धः, तत्र पुनः कर्मग्रहणं कर्ममात्रपरिग्रहार्थमित्यपवादविषयेऽपि भवतीति । एवं च परत्वादिति कोऽर्थः ? उत्कृष्टत्वादाधिक्यादित्यर्थः । अन्ये तु विप्रतिषेधमेव व्याचक्षते ।।
लृट् शेषे च ।। 3.3.13 ।।
शेषः क्रियार्थोपपदादन्य उच्यते इति । क्रिया क्रियार्थोपपदं यस्मिन् भविष्यति काले ततोऽन्यो भविष्यदित्यर्थः । चकारादिति । यदि तहि शेषे चाशेषे च भवति लृडित्येवास्तु, क्रियायां क्रियार्थायामिति निवर्त्तिष्यते, तेन सर्वत्र भविष्यति ? एवमपि शेष एव स्यात्, अशेषे तु तुमुन्ण्वुलौ बाधकौस्याताम् । वासरूपविधिना लृडपि भविष्यति । तदेतत् `शेषे च' इति वचनं चिन्त्यप्रयोजनम् । करिष्यामीति व्रजतीति । इतिशब्दः परस्परसम्बन्धज्ञापनार्थः ।।
लृटः सद्वा ।। 3.3.14 ।।
`लृटः' इति वचनं स्थानिनिर्देशार्थम्, अन्यथा सत्संज्ञकौ प्रत्ययौ स्वतन्त्रौ स्यातां न त्वादेशौ । अप्रथमासमानाधिकरणादिष्विति । आदिशब्देन `सम्बोधने च' `लक्षणहेत्वोः क्रियायाः' इत्यस्मिन्विषये, तथा `प्रत्ययोत्तरपदयोश्च'---करिष्यतोऽपत्यं कारिष्यतः, कारिष्यमाणिः, करिष्यतो भक्तिः करिष्यद्भक्तिः, करिष्यमाणभक्तिः, करिष्यन्ती भक्तिरस्य करिष्यद्भक्तिः, करिष्यमाणा भक्तिरस्य करिष्यमाणभक्तिः, करिष्यत्तरः, करिष्यमाणतरः, करिष्यमाणतमः, करिष्यद्रूपः, करिष्यमाणरूपः, करिष्यत्कल्पः, करिष्यमाणकल्पः । कथं `श्वोऽग्नीनाधास्यमानेन' इत्यनद्यतने शतृशानचौ भवतः ? उक्तोऽत्र परिहारः---`व्यत्ययो बहुलम्' इति कालव्यत्ययेन लृट् । अथ वा---उत्तरत्रानद्यतन इति योगविभागः, `लृटः सद्वा' इत्येव अनद्यतने यो लृट् तस्यापि सत्संज्ञकौ भवतः । केन पुनरनद्यतने लृट् भवति ? एतदेव ज्ञापयति---भवत्यनद्यतने लृडिति, यदयमनद्यतने लृटः सत्संज्ञकौ शास्ति ।।
अनद्यतने लुट् ।। 3.3.15 ।।
अनद्यतन इति बहुव्रीहिनिर्द्देश इति । `अनद्यतने लङ्' इत्यत्रैवैतद्व्याख्यातं तत एवावधार्यम् ।
परिदेवने इति । परिदेवनम्=अनुशोचनम् । श्वस्तनीति । लुटः पूर्वाचार्यसंज्ञा । भविष्यन्त्यर्थ इति । भविष्यन्तीति लृटः संज्ञा, तस्या अर्थे भविष्यत्सामान्यइत्यर्थः । भावष्यदर्थ इति वा पाठः । भविष्यत्सामान्यरूपेऽर्थ इत्यर्थः । येवमिति । विलम्बितम् । अनभियुक्तः=परिचयरहितः ।।
पदरुडविशस्पृशो घञ् ।। 3.3.16 ।।
पद्यतेऽसाविति । करणस्यात्र कर्तृत्वेन विवक्षा । पदमित्येतत्तु `खनो घ च' इत्यत्र साधयिष्यते । रोग इति । `चजोः कु घिण्ण्यतोः' इति कुत्वम् । स्पृश उपतापे इति । उपतापः=रोगः ।।
सृस्थिरे ।। 3.3.17 ।।
`सृ' इत्यविभक्तिको निर्देशः । सर्त्तेरिति । `सृ गतौ', `ऋ सृ गतौ' इति द्वयोरपि ग्रहणम् । स्थिरे कर्त्तरीति । एतेन स्थिरग्रहणं प्रत्ययार्थस्य कर्त्तुर्विशेषणं नोपपदमिति दर्शयति । एतच्चार्धर्चादिषु सारशब्दपाठाद्विज्ञायते । ननु स्थिरशब्दस्तिष्ठतेर्गतिनिवृत्तिवाचिन उणादिषु करिच्प्रत्ययान्तो निपातितः, सत्तिस्तु गतिवचनः, तत्कथं सरणस्य स्थिरकर्त्ता युज्यते ? इत्याह---स्थिर इति कालान्तरस्थायीत्यादि । यतः कालान्तरगमनं सम्भवति, ततश्च सर्त्तेर्धातोरर्थस्य कर्त्ता युज्यत इत्यर्थः । तिष्ठन्निति च हेतौ शतृप्रत्ययः । खदिरसार इति खदिरास्थि, तत् दृढत्वात् स्थिरम् । अतीसारो व्याधिरिति । शरीरान्तरावस्थितं रुधिरादिद्रव्यमतिशयेन सारयतीति कृत्वा । अन्तर्भावितण्यर्थोऽत्र सरतिः । `उपसर्गस्य घञ्यमनुष्ये बहुलम्' इति दीर्घः । विसारो मत्स्य इति । विविधं सरतीति कृत्वा । सारो बलमिति । सारयति चेष्टयतीति कृत्वा । अत्राप्यन्तर्भावितण्यर्थः । सरतिः । बलवान्हि चेष्टते, सारशब्द उत्कर्षे पुंल्लिङ्गः, न्यायादनपेते नपुंसकलिङ्ग इति च दृश्यते ।।
भावे ।। 3.3.18 ।।
नित्यानामेव शब्दानां साङ्कर्यस्य निवृत्तये ।
अन्वाख्यानाद्भावशब्दे घञि नान्योऽन्यसंश्रयः ।।
राग इति । `रन्जेश्च' `घञि च भावकरणयोः' इति नलोपः । कथं पुनः पाकादिरुदाहरणं भवति, यावता भवतिनार्थनिर्देशः क्रियमाणोऽस्तिभवतिविद्यतिविषय एव कृतो भवति, न पचादिविषयः ? तत्राह---क्रियासामान्यवाची भवतिरिति । सत्ताख्यं सामान्यमपि भवतिना साध्यत्वेनाभिधीयत इति क्रियासामान्यवाची भवतिर्भवति । तेनार्थनिर्द्देशः क्रियमाण इति । हेतौ शानच्, यस्मात्सामान्यवाचिनार्थनिर्देशः क्रियते, न विशेषवाचिना पचादिना; तस्मात्सर्वधातुविषयः कृतो भवति सामान्यस्य, सर्वेष्वे विशेषेषु भावात्, षण्डादिषु गोत्ववत् विशेषरूपाश्रयनिषेधस्याभावाच्च । इह भावो धात्वर्थः, स च पूर्वापरीभूतोऽपरिनिष्पन्नः, तस्य घञ्वाच्यस्य कथं लिङ्गसङ्ख्यायोग इत्याह---धात्वर्थश्चेति । यथा पचति पाचक इत्यादौ प्रकृतिभागेन क्रियोच्यते, प्रत्ययभागेन तु तदीयं साधनम्; तथा पाकादिषु प्रकृतिभागः साध्यरूपमर्थमाह, प्रत्ययभागस्तु तस्यैव सिद्धरूपतां द्रव्यधर्मैर्लिङ्गसङ्ख्याकारकशक्तिभिः सम्बन्धयोग्यमाकारमाहेत्यथः । उक्तं च---
आख्यातशब्दे भागाभ्यां साध्यसाधनवर्त्तिता ।
प्रकल्पिता यथा शास्त्रे स घञादिष्वपि क्रमः ।।
साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना ।
सत्त्वभावस्तु यस्तस्याः स घञादिनिबन्धनः ।। इति ।।
बहुवक्तव्योऽयमर्थः । इह `भावे' इति पुंल्लिङ्गेनायं निर्देशः क्रियते, एकवचनेन च तत्र पुंल्लिङ्ग एव, भावे एकवचन एव च प्रत्ययाः स्युर्न लिङ्गान्तरे, न च सङ्घ्यान्तरे; ततश्च `स्त्रियां क्तिन्' इत्यत्र स्त्रियां भाव इति सामानाधिकरण्येन सम्बन्धासम्भवात्---स्त्रियामकर्त्तरि कारके क्तिन् प्रत्ययः स्यात्, भावे तु पुंसीव `नपुंसके भावे क्तः' इत्यत्र `अकर्त्तरि च कारके' इत्यस्य निवृत्तत्वान्नपुंसके कर्त्तरि क्तः स्याद्भावे तु पुंसि, द्वित्वबहुत्वयोश्च पाकौ पाका इत्यादौ प्रत्यया न स्युरित्यत आह---पुंल्लिङ्गमेकवचनं चातन्त्रमिति ।।
न विना लिङ्गसङ्ख्याभ्यां सत्त्वभूतोऽर्थ उच्यते ।
इत्यतन्त्रमुपादानं तयोर्न तु विवक्षितम् ।।
धान्याथिनामुपादानं पलालादेर्यथा मतम् ।
शब्दसंस्कारमात्रं तु तन्निर्देशप्रयोजनम् ।।
अकर्तरि च कारके संज्ञायाम् ।। 3.3.19 ।।
प्रासः=कुन्तः, प्रसेवः=सूच्या प्रसेवनेन निष्पाद्य आवपनविशेषः । मधुराहार इति । कर्मधारयः, षष्ठीसमासो वा ।
मेष इति । पचादिषु पाठमनपेक्ष्यैतदुदाहृतम्, तथा च `इगुपधज्ञाप्री' इत्यत्रोक्तम्---देवसेवमेषादयः पचादिषु द्रष्टव्या इति । न हि पाठे सति द्रष्टव्यत्ववचनमुपपद्यते । अथ वा---प्रत्युदाहरणदिगियं दर्शिता, इदं तु प्रत्युदाहरणम्---बिभर्त्यसौ भर्त्तेति ।
चकार इत्यादि । चकारोऽयं भिन्नक्रमः---`संज्ञायां च' इति, तेनासंज्ञायामपि घ़ञ् भवति । यद्येवम्, मा भूत्संज्ञायामिति, मा च भूच्चकारः `अकर्त्तरि कारके' इत्येवास्तु ? सत्यम्; बाहुल्येन संज्ञायां भवति, क्वचिदेवासंज्ञायामिति सूचयितुं संज्ञाग्रहणं कृतम् । दाय इति । दीयमानं सर्वमुच्यत इति नेयं संज्ञा, एवं लाभ इत्यत्रापि, उभयत्र कर्मणि घञ् । कारकग्रहणमित्यादि । पर्युदासे हि नञिवयुक्तन्यायेन कर्तुरन्यस्मिंस्तत्सदृसे कारक एव प्रतीतिर्भवति, यथा---अब्राह्मण इति क्षत्रियादौ । तस्मात्पर्युदासे कारकग्रहणं न कर्त्तव्यम् । प्रसज्यप्रतिषेधे तु वाक्यभेदेन संज्ञायां घञ् भवति, कर्त्तरि तु न भवतीत्येषोऽर्थो भवति । तत्र प्रथमे वाक्येऽर्थनिर्देशाभावाद् `अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति' इति स्वार्थ एव स्यात् । ननु च विहितः स्वार्थे पूर्वेणैव ? नेत्याह; धात्वर्थस्य हि सिद्धताख्ये धर्मे घञादयो भवन्तीत्युक्तम्, इह तु साध्यरूपे शुद्धे प्रकृत्यर्थेस्यात् । ननु च कर्त्तरि प्रतिषेधसामर्थ्यादनिर्दिष्टार्थोऽपि घञ् धात्वर्थसम्बन्धिनि कारक एव विज्ञास्यते ? नैतदस्ति; असति हि प्रतिषेधे `कर्त्तरि कृत्' इति वचनान्नायमनिर्दिष्टाथः स्याद् । अतः प्रसज्यप्रतिषेधार्थं काकग्रहणम् । पर्यदासे तु न कर्त्तव्यम् । यद्येवम्, स एवाश्रयिष्यते, किं कारकग्रहणेन ? तत्राह---तत्क्रियत इति । किं पुनः कारणं प्रसज्यप्रतिषेधे प्रत्यत्नलभ्यः समासः ? असामर्थ्यात्तत्र हि नञः क्रियया सन्बन्धः, कर्त्रि न भवतीति न कर्तृशब्देन । आदेच उपदेशेऽशितीति । अत्र यदि `अशिति' इति पर्युदासः स्यात्, तदा शितोऽन्यत्र तृजादौ प्रत्ययो परत आत्वेन भवितव्यम् । ततश्च सुग्लः, सुम्ल इत्यत्र `आतश्चोपसर्गे' इति को न स्यात्, प्राक् प्रत्ययोत्पत्तेरनाकारान्तत्वात्। प्रतिषेधेत्वनैमित्तिकमात्वम्, शिति तु प्रतिषेध इति सिद्धमिष्टम् ।।
परिमाणाख्याया सर्वेभ्यः ।। 3.3.20 ।।
परिमाणाख्यायामिति । भावसाधनः परिमाणशब्दः, आख्यानमाख्या = उक्तिः, परिच्छित्तेरुक्तौ सत्यामित्यर्थः । कस्य पुनः परिच्छित्तिः ? प्रत्ययार्थस्य भावस्य कर्तृवजितस्य कारकस्य च । परिमाणाख्यायां गम्यमानायामिति वृत्तेरप्ययमेवार्थः । तण्डुलनिचाय इति । निचीयते राशीक्रियते इति निचायः=राशिः, तण्डुलानां निचाय इति षष्ठीसमासः । अत्र राश्येकत्वेन परिच्छित्तिर्गम्यते । अत्रैरचि प्राप्ते घञ् । प्रायेण तु निश्चाय इति पाठः, तत्राप्यर्थः स एव, `ग्रहवॄदृनिश्चिगमश्च' इत्यपि प्राप्ते घञ् शूर्पनष्पावाविति । निष्पूयते शोद्ध्यते तुषाद्यपनयनेन यस्तण्डुलादिः । शूर्पेण निष्पावः शूर्पनिष्पाव इति `कर्तृकरणे कृता बहुलम्' इति समासः । अत्र शूर्पसङ्ख्यया परिच्छित्तिः । यद्यप्यत्र `निरभ्योः पूल्वोः' इति घञ् सिध्यति, तथापि सर्वापवादार्थसर्वग्रहणोपादानादनेनैव घञ् भवितुमर्हतीत्यस्योपन्यासः । काराविति । `क विक्षेपे' कर्मणि घञ्, विक्षिप्तो धान्यादिः= कारः, अत्रापि सङ्ख्यया परिच्छित्तिः । ननु च धातोरिति सामान्याधिकारादन्तरेणापि सर्वग्रहणं धातुमात्राद् घञ् भविष्यति, नार्थः सर्वग्रहणेन ? तत्राह---सर्वग्रहणमिति । किं पुनः कारणमपो बाधनं यत्नसाध्यमित्यत आह---पुरस्तादिति निश्चय इति । अत्र न केनचिदियत्ता गम्यते । ननु च परिमाणशब्दस्य प्रस्थादिषु रूढत्वात्प्रस्थस्तण्डुलनिश्चाय इत्यादावेव युक्तं भवितुम्, न तु द्वौ शूर्पनिष्पावावित्यत्र ? इत्यत आह---आख्याग्रहणं रूढिनिरासार्थमिति । प्रस्थादिषु जिघृक्षितेषु परिमाण इत्येव वक्तव्यं किमाख्याग्रहणेन ? आख्याग्रहणात्तु मात्रचो लोपो विज्ञायते परिमाणमात्रस्याख्यायामुक्तौ सत्यामिति । तेन परिमाणशब्दः क्रियाशब्द उपजायते---परिमितिः=परिमाणम् परिच्छित्तिरिति, सङ्ख्ययापि परिच्छित्तिर्भवति । एवञ्चोन्मानादावपि यथाभिधानं घञ् भवति । यदि तर्हि सर्वग्रहणात्परमप्ययं घञमं बाधते, स्त्रीप्रत्ययानपि बाधेत, तत्राह---घञनुक्रमणमजपोर्विषय इति । एतच्च `सर्वेभ्यः' इति पञ्चमीनिर्देशाल्लभ्यते । पञ्चम्यन्तो हि सर्वशब्दो धातुशब्देन समानाधिकरणो भवति, तेन प्रकृत्याश्रय एवापवादो बाध्यते, नार्थाश्रयः । तिलोच्छित्तिरिति । कर्मणि भावे वा क्तिन् । ऊर्ध्वीकृतो राशिः ।
णिलुक्चेति । णिलोपे सति तस्य स्थानिवद्भावाद् घञाश्रया वृद्धिर्न स्यादिति लुग्विधीयते, तस्य परनिमित्तकत्वात्क्विलुगुपधात्वेति प्रतिषेधाद्वा स्थानिवत्त्वाभावाज्जारशब्दः सिध्यति । जरयन्तीति । `जनीजॄष्क्नसुरञ्जोऽमन्ताश्च' इति मित्त्वाद् ह्रस्वत्वम् । जारः= प्रच्छन्नपतिः ।।
इङश्च ।। 3.3.21 ।।
उपाध्याय इति । उपेत्यस्यादधीयत इति अपादाने घञ् । अध्याय इत्यत्र कर्मणि घञ् ।
अपादाने स्त्रियामिति । `घञनुक्रमणमजपोर्विषये' इति वचनात् स्त्रियामप्राप्तो घञ् विधीयते । उपाध्याया, उपाध्यायीति । या स्वयमध्यापयति तस्यामेतद्रूपम् । पुंयोगे तु नित्यमेव ङीष् भवति । अत्र च `उपाध्यायमातुलाभ्यां वा' इति वचनात्पक्षे आनुगागमः---उपाध्यायी, उपाध्यायानी ।
`शॄवायुवर्णनिवृतेध्विति । शॄ' इत्यविभक्तिको निर्देशः । शारो वायुरिति । करणे घञ्। शारो वर्ण इति । चित्रीकरणमत्र धात्वर्थः---चित्रीक्रियतेऽनेनाश्रय इति, अत्रापि करणे घञ् । वर्णान्तरसंपृक्तश्चेद्वर्णः शारः । निव्रियते आव्रियतेऽनेन शरीरमिति निवृतमावरणमुच्यते, `कृत्यल्युटो बहुलम्' इति करणे क्तः । नीशार इति । पूर्ववद्दीर्घः । अकृतनीशार इति । अकृतप्रावरण इत्यर्थः । `प्रदक्षिणप्रसव्यगामिनां शाराणाम्' इति वार्त्तिककारप्रयोगादक्षेष्वपि शार इति भवति ।।
समि युद्रुदुवः ।। 3.3.23 ।।
संयावः=पिष्टविकारोऽपूपविशेषः, सम्पूयते मिश्रीक्रियते गुडजीरकादिभिरिति कृत्वा ।।अवोदोर्नियः ।। 3.3.26 ।।
अधो नयनमवनायः, ऊर्ध्वं नयनमुन्नायः, उन्नयस्तु उत्प्रेक्षा ।।
निरभ्योः पूल्वोः ।। 3.3.28 ।।
निष्पाव=कोशी धान्यविशेषः, निष्पूयते शूर्पादिभिरिति कृत्वा ।।
उन्योर्ग्रः ।। 3.3.29 ।।
उद्गारः=अतिप्रवृद्धः शब्दः; निगारोः=भक्षणम् ।।
कॄ धान्ये ।। 3.3.30 ।।
धान्यमिह प्रकृत्यर्थो वा स्यात्प्रत्ययार्थस्य वा कारकस्योपाधिः ? प्रकृत्यर्थस्तावन्नोपपद्यते, धान्यस्य द्रव्यत्वात्, धातोश्च क्रियावाचित्वात् । प्रत्ययार्थोपाधित्वे तु प्रत्ययेनाभिहितात्वादुत्कारो धान्यस्येति धान्यशब्दस्य प्रयोगो न प्राप्नोति । अथापि विस्पष्टप्रतिपत्त्यर्थं प्रयोगः स्यात् । एवमपि प्रत्ययार्थेऽन्तर्भूतत्वाद्धन्ये षष्ठी न स्यात्, दृतिहरिः पशुरितिवत्सामानाधिकरण्यमेव तु स्यात् । तस्मान्नायं प्रत्ययार्थस्योपाधिः; नापि प्रकृत्यर्थः; किन्तु प्रत्ययार्थस्य विषयत्वेन विशेषणमित्याह---धान्यविषयश्चेदिति । उपपदत्वमपि न न भवति, व्याख्यानात् । अनभिधानादिति । शब्दशक्तिस्वाभाव्यात् । उत्करनिकारशब्दाभ्यां धान्यविषयो विक्षेप एवाभिधीयते, न हिंसा । सापि धान्यस्य कीदृशीति चिन्त्यम् ।।
यज्ञे समि स्तुवः ।। 3.3.31 ।।
समेत्य स्तुवन्ति यस्मिन्देश इति । अधिकरणे ल्युटोऽपवादो घञिति दर्शयति । संस्तवः=परिचयः ।।
प्रे स्त्रोऽयज्ञे ।। 3.3.32 ।।
`यज्ञे' इति प्रकृतत्वाद् `अयज्ञे' इति पदच्छेदः । शङ्खादिषु प्रस्तारः=विस्तारः ।
बर्हिष्प्रस्तर इति । प्रस्तरः=मुष्टिविशेषः । बर्हिर्विकारः प्रस्तरो बर्हिष्प्रस्तरः, `ऋदोरप्' इत्यप्, `इदुदुपधस्य च' इति षत्वम् ।।
प्रथने वावशब्दे ।। 3.3.33 ।।
विस्तारः= तिर्यगायतिः ।।
छन्दोनाम्नि च ।। 3.3.34 ।।
अक्षराणामियत्ताविशिष्टो विन्यासविशेषोः=वृत्तम् । यस्य गायत्र्यादय इति । प्रसदिद्धत्वादेवमुक्तम् । न मन्त्रब्राह्मणमिति । `बहुलं छन्दसि' इत्यादौ यद्यपि तेषामेव ग्रहणं प्रसिद्धं तथापीह तेषां ग्रहणं न भवति, कुतः ? इत्याह---नामग्रहणादिति । विष्टारपङ्क्तिरिति । विस्तीर्यन्तेऽस्मिन्नक्षराणीत्यधिकरणे घञ्, ततः कर्मधारयः, `छन्दोनाम्नि च' इति षत्वम् । यद्यप्यत्र प्रथनं गम्यते, तथापि शब्दविषयत्वात्पूर्वेण न सिध्यति । केचित्तु `वौ' इति नानुवर्त्तयन्ति, तेन प्रस्तारपङ्क्तिः, आस्तारपङ्क्तिः, संस्तारपङ्क्तिरित्यपि भवतीत्याहुः । `कर्मण्यग्न्याख्यायाम्' इत्यादौ यथा प्रत्यययान्तश्चेदाख्या भवतीत्ययमर्थो भवति, एवमिहापि प्रत्ययान्तश्चेच्छन्दोनाम भवतीत्यर्थः स्याद् ? इति शङ्कमानं प्रत्याह---विष्टारपङ्क्तिशब्दोऽत्र छन्दोनामेति । अवयवत्वेन वर्त्तत इति । घञन्तशब्दरूपमित्यनुषङ्गः । क्वचित्तु तद्वर्त्तत इति तच्छब्दः पठ्यते, तत्र नानुषङ्गः । कथं तर्हि छन्दोनाम्नीत्यस्य निर्वाहः ? इत्याह---छन्दोनाम्नीत्याधकरणसप्तम्येषेति । प्रत्ययान्तस्याधिकरणं छन्दोनाम, अवयवाश्चावयविनि वर्त्तन्त इति लौकिका मन्यन्ते, तेन न काचिदनुपपत्तिरिति भावः ।।
उदि ग्रहः ।। 3.3.35 ।।
अपवाद इति । `ग्रहवृदृनिश्चिगमश्च' इति प्राप्तस्य ।
छन्दसि नीत्यादि । अवयवसन्निवेशविशिष्टा यज्ञपात्रविशेषाः स्रुचः । इह तु जुहूपभृतोर्ग्रहणम्; `उद्ग्राभं चेति जुहूमुद्यच्छति निग्राभं चेत्युपभृतं नियच्छति' इति वचनात् । `हृग्रहोर्भश्छन्दसि' इति भत्वम् ।।
समि मुष्टौ ।। 3.3.36 ।।
मुष्टिविषयश्चेद्धात्वर्थो भवतीति । `कृ धान्ये' इत्यत्र धान्यविषयश्चेद्धात्वर्थो भवतीति एतदनुसारेणायं ग्रन्थो योज्यः । मुष्टिशब्दोऽयमस्त्येव परिमाणे---चतुरो मुष्टीन्निर्वपतीति, अङ्गुलीनां रचनाविशेषवचनोऽप्यस्ति---मुष्टिना हन्तीति; तत्र पूर्वस्य ग्रहणे परिमाणाख्यायामित्येव सिद्धत्वाद् द्वितीयस्य ग्रहणमित्याह---मुष्टिरङ्गुलिसन्निवेश इति । अहोशब्द आश्चर्ये । मुष्टौ कुशलो मुष्टिकः, आकर्षादिपाठात्कन्।।
परिन्योर्नीणोर्द्यूताभ्रेषयोः ।। 3.3.37 ।।
अक्षादिभिः क्रीडनं द्यूतम् । `भ्रेप चलने' भ्रेषणं भ्रेषः=चलनम् । अभ्रेषः=अचलनम् । भ्रेषविषयश्चेदिति । अयमपि ग्रन्थः पूर्वानुसारेण योज्यः । अनपचार इति । कुत्सितश्चारोऽपचारः, तस्मादन्यः प्रशस्तः चारोऽनपचारः । एतदेवस्पष्टयति---यथाप्राप्तस्येति । यथा येन प्रकारेण प्राप्तिर्यस्येति बहुव्रीहिः । अव्ययीभावे त्वम्भावः प्राप्नोति । क्वचित्तु यथाप्राप्तकरणमिति पठ्यते । परिणायेनेति । `उपसर्गादसमासेऽपि' इति णत्वम् । हन्तीति बाधते । समन्तान्नयनेनेति । परिणायेनेत्यस्येदमर्थकथनम् । एषोऽत्र न्याय इति । एतदत्र यथाप्राप्तमित्यर्थः । परिणयः=विवाहः । न्ययः=नाशः ।।
परावनुपात्यय इणः ।। 3.3.38 ।।
इह द्विः परिग्रहणम्, द्विश्चेण्ग्रहणं क्रियते, सकृदेव तु कर्त्तव्यम्, एवं वक्ष्यामि---परौ नियो द्युते इणोऽनुपात्यये नावभ्रेष इति ? सत्यम्; तथा तु न कृतमित्येव ।।
व्युपयोः शेतेः पर्याये ।। 3.3.39 ।।
पूर्वसूत्रेणानुपात्यये पर्यायशब्दो व्युत्पादितः, ततश्चानुपात्यय इत्यधिकारेणैव सिद्धे पर्यायग्रहणं पुनर्विधानार्थम् । तेनाभिविधिविवक्षायां परमपीनुणं बाधित्वाऽयमेव घञ् भवति । राजानमुपशयितुं पर्याय इत्यर्थ इति । `कालसमयवेलासु तुमुन्' इत्यत्र कालेऽत्यर्थग्रहणम् । पर्यायोपादानं तु प्रपञ्चार्थम्, यथा---`निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्' इति । तेन पर्यायशब्दयोगेऽपि तुमुन् भवति । तथा चावसरो भोक्तुम्, अवकाशो भोक्तुमित्याद्यपि दृश्यते । विशयः= संशयः, उपशयः=समीपशयनम् ।।
हस्तादाने चेरस्तेये ।। 3.3.40 ।।
हस्तादानग्रहणेनेत्यादि । यत्रोपायान्तरनिरपेक्षेण हस्तेनैवादेयमादीयते, तत्रावश्यमादेयस्य ग्राह्यस्य प्रत्यासत्तिर्भवति, अतः साहचर्यं लक्षणाहेतुः । वृक्षशिखर इति । वृक्षाग्रे यानि फलानि तेषां यष्ट्यादिना प्रचयं करोतीत्यर्थः । यद्वा---आरुह्य हस्तेनादानेऽप्यादेयस्य प्रत्यासत्त्यभावाद् घञभावः ।।
निवासचितिशरीरोपसमाधानेष्वादेश्च कः ।। 3.3.41 ।।
एतेष्वर्थेष्विति । अत्रोपसमाधानं धात्वर्थः, अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूताः । चिखल्लिनिकाय इति । चिखल्लिः---जनपदविशेषः, तत्सम्बन्धी ग्रामादिर्निवासदेश इत्यर्थः । आकायमिति । आचीयतेऽस्मिन्नष्टका इत्यधिकरणे घञ् । काय इति । चीयन्तेऽस्मिन्नस्थ्यादीनि, अधिकरण एव घञ् । गोमयनिकाय इति । प्रकीर्णानां गोमयानामेकत्र राशीकरणमित्यर्थः ।
बहुत्वमत्र गम्यते इति । तत्र तत्र विक्षिप्तानामेव काष्ठानामित्यर्थः । `चः कः' इति वक्तव्ये आदेरिति वचनं यङ्लुगन्तेऽप्यादेरेक्यथा स्याद्, अनन्त्यस्याभ्यासस्य चोभयोर्मा भूदिति---गोमयानां निकेचायः, गोमयानां पुनः पुना राशीकरणमित्यर्थः ।।
सङ्घे चानौत्तराधर्ये ।। 3.3.42 ।।
प्राणिनां समुदायः सङ्घ इति । `सङ्गोद्घौ गणप्रशंसयोः' इति गणमात्रे निपातितोऽपि सङ्घशब्दः प्राणिनामेव समुदाये रूढ इति भावः । एकधर्मसमावेशेनेति । एकधर्मोऽनुगतः । औत्तराधर्येणेति । उत्तरे चाधरे चोत्तराधराः, तेषां भाव औत्तराधर्यम् ।
सूकरनिचय इति । स्तनपानाय यदोत्तराधरभावेन शेरते तदेदं प्रत्युदाहरणम्, यदा तु भिक्षुवत्पृथक्पृथगेव तिष्ठन्ति, तदेदमुदाहरणमेव भवति ।।
कर्मव्यतिहारे णच् स्त्रियाम् ।। 3.3.43 ।।
`धातुः' इति वर्त्तते, तस्य विशेषणं कर्मव्यतिहारग्रहणम्, कर्मव्यतिहारे वर्त्तमानादित्यर्थः । धातोश्च क्रियावाचित्वम्, न तस्य साधनकर्मव्यतिहारे वृत्तिः सम्भवति, अतो लौकिकस्य क्रियाकर्मणो ग्रहणमित्याह---कर्मव्यतिहारः क्रियाव्यतिहार इति । स्त्रीलिङ्गे भावे इति । कर्तूवर्जिते तु कारके न स भवति; अनभिधानादिति भावः । चकारो विशेषणार्थ इति । न स्वारार्थः, प्रत्ययस्वरेणैव सिद्धत्वात् । अस्य चाकारो न क्वापि श्रूयते, णजन्ताञ्च नित्यमञ् विधीयते, तत्र सतिशिष्टत्वाञ्ञित्स्वरेणैव भवितव्यम् । णचः स्त्रियामित्यत्र णात्स्त्रियामित्युच्यमाने `ज्वलितिकसन्तेभ्यो णः' इत्यस्यापि ग्रहणं स्यात् । व्यावक्रोशीत्यादि । `क्रुश आह्वाने', `लिख अक्षरविन्यासे', `हसे हसेन' णजन्तादञ् । स च कृद्ग्रहणपरिभाषया सोपसर्गादपि भवति, तद्धितत्वादादिवृद्धिः । `न य्वाभ्याम्' इत्ययं तु विधिर्न भवति; न कर्मव्यतिहार इति प्रतिषेधात् । `स्त्रियां क्तिन्' इत्यत्र प्रकरण एतन्नोक्तम् वासरूपविधिर्यथा स्यात्, तेन व्यावक्रुष्टिरिति क्तिन्नपि भवति । व्यावचोरीत्यत्र `ण्यासश्रन्थोयुच्' इति युच् प्राप्नोति, क्तिनोऽपवादः, तथाऽयमपि णच् येन नाप्राप्तिन्यायेन क्तिन एवापवादः, तत्रापवादविप्रतिषेधाद्युचि प्राप्तेऽयमेव णजिष्यते । व्यतीक्षा, व्यतीहेति । अत्र क्तिनपवादः `गुरोश्च हलः' इत्यकार एवेष्यते । व्यात्युक्षीति `उक्ष सेचने', अत्राकारविषयेऽप्ययमेवेष्यते । तदेतद्वैचित्र्यं कथं भवतीति । न कथञ्चिदिति भावः । कृत्यल्युटो बहुलमिति । एवंविधं वैचित्र्यं कर्त्तुं बहुलग्रहणमेव भवतीति भावः ।।
अभिविधौ भाव इनुण् ।। 3.3.44 ।।
क्रियागुणाभ्यामिति । अभिविधिस्वरूपकथनमेतत्, इह तु धातोः प्रत्ययविधानात्क्रियाविषय एवाभिविधिर्गृह्यते । सांकूटिनमिति । `कूट दाहे' दीर्घोपधादिनुण्, `अणिनुणः' इतीनुणन्तात्स्वाथिकोऽण् प्रत्ययः, स च पूर्ववत्सगतिकारकाद्भवति, `इनण्यनपत्ये' इति प्रकृतिभावात् `नस्तद्धिते' इति टिलोपाभावः । समन्ताद्दाह इत्यर्थः संशब्दोऽभिविधिद्योतकः । सांराविणमिति । `उपसर्गे रुवः' इति घञ् उपसर्गान्तरेऽनभिवैधौ चरितार्थः । संराव इति । अत्र संशब्दः पूजायाम् । क्वचित्सन्द्राव इति प्रत्युदाहणं पठ्यते, तदयुक्तम्; `समियुद्रुदुवः' इत्यस्यानवकाशात् । ननु च `भावे कारके' इति द्वयेऽपि प्रकृते शब्दस्वाभाव्यात्पूर्ववत्कारके न भविष्यति, तत् कि भावग्रहणेन ? तत्राह---भाव इति वर्त्तमान इति । तेन घञ्, `नपुंसके भावे क्तः' इति क्तश्च न भवति । ल्युटा त्वित्यादि । गतार्थम् । स्वभावतश्चेदमिनुणन्तं नपुंसकलिङ्गम् ।।
आकोशेऽवन्योर्ग्रहः ।। 3.3.45 ।।
`ग्रहवृदृनिश्चिगमश्च' इत्यापि प्राप्तेऽयमारम्भः । दृष्टानुवृत्तिसामर्थ्यादिति । दृष्टमनुवृत्तिसामर्थ्यं यस्येति बहुव्रीहौ `द्व्येकयोः' इतिवद्भावप्रत्ययमन्तरेणापि भावप्रधानो निर्देशो दृष्टानुवृत्तिसामर्थ्यत्वादित्यर्थः । यद्वा---अनुवृत्तौ सामऱ्त्यमनुवृत्तिसामर्थ्यम्, ततो दृष्टशब्देन कर्मधारयः । आक्रोशः शपनमिति । न क्षेपः, स्वभावतो घञन्तस्य शपनविषयत्वात् । शपनम्=अनिष्टाशंसनम् । अवग्रहः=अभिभवः । निग्रहः=बाधः । हन्तशब्दः कोपं द्योतयति । अवग्रहः=पदस्य छेदः । निग्रहः निरोधः ।।
प्रे लिप्सायाम् ।। 3.3.46 ।।
लब्धुमिच्छा लिप्सा । पात्रप्रग्राहेण चरतीति । भिक्षापात्रोपादानेन गृहीतपात्र इति यावत् । स्रुवग्रहणं तु दक्षिणार्थिनो लिङ्गम्, दाक्षिणहोमस्य स्रुवसाधनत्वात् । प्रग्रहो देवदत्तस्येति । प्रग्रहो मदः, प्रकृष्टो वाभिनेवेशः ।।
परौ यज्ञे ।। 3.3.47 ।।
ुत्तरपरिग्राह इति । भावे घञ् । वेदेः स्फ्येन स्वीकरणं परिग्राहः, ततः कर्मधारयः । क्वचिदुत्तरः परिग्राह इत्यसमास एव पठ्यते ।।
नौ वृ धान्ये ।। 3.3.48 ।।
नीवारा नाम व्रीहय इति । धान्यसामान्योक्तावपि धान्यविशेषरूपव्रीहिविशेषे स्वभावतो घञन्तस्य वृत्तिरिति दर्शयति । अत्र कर्मणि घञ्, पूर्ववदुपसर्गस्य दीर्घः । निवरा कन्येति । `ग्रहवृदृनिश्चिगमश्च' इत्यप् कर्मण्येव । ननु च क्तिना स्त्रियां भवितव्यम्, `अजब्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेन' इति वचनात् ? सत्यम्; `कृत्यल्युटो बहुलम्' इति बहुलवचनात् क्वचित् क्तिनादिविषयेऽप्यच् भवति, प्रवरा सेना, प्रवरा गौरितिवत् । एवं च `घञजबन्ताः पुंसि' इति प्रायिकं द्रष्टव्यम् ।।
उदि श्रयतियौतिपूद्रुवः ।। 3.3.49 ।।
वक्ष्यमाणमिति । एवं च यौतिप्रभृतिभ्यो विकल्पः प्राप्नोति । यदि नेष्यते, `कृत्यल्युटो बहुलम्' इति न भविष्यति ।।
अन्ये तु भाष्येऽनुक्तत्वादसाधुरेवायं प्रयोगः । प्रदर्शितस्तु भारतप्रयोग आर्षत्वेन निर्वाह्य इत्याहुः ।।
अवे ग्रहो वर्षप्रतिबन्धे ।। 3.3.51 ।।
कुतश्चिन्निमित्तादिति । `सत्त्वकर्मापराधादेरनावृष्टिर्भवेन्नृणाम्'। सत्त्वशब्दः प्राणिवचनः, कर्मापराधः=कर्मविषयो दोषः, विहितानाचरणप्रतिषिद्धाचरणनिमित्तं पापं सत्त्वकर्मापराधः । आदिशब्देन `तयोर्मध्यगतो भानुः समुद्रमपि शोषयेत्' इत्यादेर्ग्रहणम् ।
अवग्राहो देवस्येति । देवकर्तृको वर्षाभाव इत्यर्थः ।।
प्रे वणिजाम् ।। 3.3.52 ।।
पणन्ते व्यवहरन्तीति वणिजः, `पणेरिज्यादेश्च वः', `पण व्यवहारे' इत्यस्मादिजिप्रत्ययो भवत्यादेश्च वकारः । वणिक्सम्बन्धेनेति । तुलासूत्रं प्रायेण वणिजां भवतीति साहचर्यं लक्षणाहेतुः । अनयो वेति । न तु वणिजस्तन्त्रमित्यस्येदं प्रयोजनम् ।।
रश्मौ च ।। 3.3.53 ।।
रथादियुक्तानामिति । आदिशब्देन शकटस्य ग्रहणम् । अश्वादेरिति । अनुडुदादेरप्युपलक्षणमेतत् । संयमनम्=नियमनम् । सा रश्मिरिह गृह्यत इति । रश्मिशब्दः पुंल्लिङ्गः, सेति रज्जुपरामर्शात्स्त्रीलिङ्गता । चन्द्रादिसम्बन्धिनां तु रश्मीनामग्रहणम्; अनभिधानात् । इह तु बहुकृत्वो ग्रहिरुपादीयते, सकृदेव तु कर्त्तुं शक्यम्; कथम् ? एवं वक्ष्यामि `उदि ग्रहः समि मुष्टौ आक्रोशेऽवन्यो प्रे लिप्सायां परौ यज्ञेऽवे वर्षप्रतिबन्धे विभाषा प्रे वणिजाम्' इत्यादि, `परौ भुवोऽवज्ञाने' इत्यस्यानन्तरमाङि रुप्लुवोरिति ? तथा तु न कृतमित्येव ।।
वृणोतेराच्छादने ।। 3.3.54 ।।
अत्राप्याच्छादन इति सामान्येनोक्तावपि पूर्ववद्विशेषप्रतिपत्तिरित्याह---प्रत्ययान्तेन चेदिति । प्रावार इति । पूर्ववद्दीर्घः । प्रवरा गौरिति । प्रशस्तेत्यर्थः ।।
एरच् ।। 3.3.56 ।।
चकारो विशेषणार्थ इति । विना हि तेन थाथादिसूत्रेऽप्रत्ययादित्यस्यापि ग्रहणं स्यात् । वर्षमिति । वृषभो वर्षणादिति भाष्यकारप्रयोगादूर्षणमित्यपि भवति । जवसवाविति । अपि प्राप्तेऽज् विधीयते । स्वरे विशेषः । एरजण्यन्तानामिति तु नास्ति वचनम्, `कल्प्यादिभ्यः प्रतिषेधवचनम्' इत्येतदेवास्ति । कल्प्यते इति कल्पः, अर्थ्यते इत्यर्थः, मन्त्र्यते इति मन्त्रः । अचि प्रतिषिद्धे घञेव भवति ।।
ऋदोरप् ।। 3.3.57 ।।
लव इति । न च तादपि परस्तपर इति उकारस्य तपरत्वान्नात्रापा भवितव्यम् ? तत्राह---दकारो मुखसुखार्थ इति । नायं तकारः, किं तर्हि ? दकारः । एतच्च `निरभ्योः पूल्वोः' इत्याद्यारम्भाद्विज्ञायते । मुखशब्देन ताल्वादिश्थानमुच्यते, तस्य सुखमनायासः । अचोर्हि हल्व्यवहितयोरुच्चारणे मुखस्य लाघवं भवति । असन्देहः, यस्यानुषङ्गिकं प्रयोजनम् ।।
ग्रहवृदृनिश्चिगमश्च ।। 3.3.58 ।।
निश्चिनोतेस्त्वचोपवाद इति । `एरच्' इति प्राप्तस्य यस्तु `हस्तादाने चेरस्तेये' इति घञ् स निपूर्वादपि पूर्वविप्रतिषेधेनेष्यते, यथोक्तम्---अस्तेयार्थमिति चेन्नानिष्टत्वादिति । कः पुनर्निश्चय इत्यत्राजपोर्विशेषः, यावता तदेव रूपं स एव स्वरोऽपि; थाथादिसूत्रेणोभयत्रान्तोदात्तत्वविधानादित्यत आह---निश्चिग्रहणं स्वरार्थमिति । निश्चिग्रहणसामर्थ्यात् थाथादिस्वरोऽत्र न प्रवर्त्तते, कृत्स्वरेण तु मध्योदात्तत्वमेव भवतीति भावः ।
वशिरण्योरिति । घञि प्राप्ते वचनम् । वशनं वशः । रणन्ति शब्दायन्तेऽस्मिन्निति रणः संग्रामः ।
धञर्थ इति । भावः कर्तृवर्जितं च कारकं घञर्थः । प्रस्थः सानुः, प्रस्नः कटाहः, प्रपा पानीयशाला---सर्वत्र `आतो लोप इटि च' इत्याकारलोपः । आविध इति । ग्रहिज्यादिसूत्रेण सम्प्रसारणम् । आयुधशब्दपर्यायोऽयम् ।।
उपसर्गेऽदः ।। 3.3.59 ।।
अदेर्धातोरिति । दारूपाणां धातूनामयं निर्देशो न भवति; `घञपोश्च' इत्यपि परतोऽदेर्घस्लादेशविधानात् । व्यद्यत इति विघसः= वैश्वदेवशिष्टमन्नम् ।
घासस्तु चतुष्पदां भक्ष्यम् । घसिः प्रकृत्यन्तमस्ति तस्मादेवाब्विधेयः । एवं ह्यदेरपि घस्लृभावो न वक्तव्यो भवति । उत्तरार्थं त्वदेर्ग्रहणम्---नौ ण `च' अदेर्यथा स्याद्, घसेर्मा भूदिति ।।
व्यधजपोरनुपसर्गे ।। 3.3.61 ।।
व्यधजपोरिति पञ्चम्यर्थे षष्ठी, अनुपसर्ग इति प्रसज्यप्रतिषेधः---उपसर्गे सति न भवतीति । तेन केवलाभ्यामेव भवति, न तूपसर्गव्यतिरिक्तेऽन्यस्मिन्नुपपदे । वृत्तिग्रन्थोऽप्यस्मिन्नेवार्थे व्याख्येयः । उपजापः=मन्त्रभेदः ।।
क्वणो वीणायां च ।। 3.3.65 ।।
सोपसर्गार्थमिदं वीणाग्रहणमिति । निव्यतिरिक्तोपसर्गार्थमिदं द्रष्टव्यम्; निपूर्वादनुपसर्गाच्च सामान्येन विधानात् । कल्याणप्रक्वाणेति बहुव्रीहिः ।।
मदोऽनुपसर्गे ।। 3.3.67 ।।
विद्यामद इत्यादि । `कर्तृकरणे' इत्यादिना समासः । `क्वणो वीणायां च' इत्यस्यानन्तरं `नित्यं मदः प्रमदसंमदौ हर्षे पणः परिमाणे' इति यदि सूत्रन्यासः क्रियेत, अत्रानुपसर्गग्रहणं शक्यमकर्त्तुम्, अनुवृत्तेरेव सिद्धत्वात् ? सत्यम्; एवं विन्यासे हि क्रियमाणे `पणः परिमाणे' इत्यत्राप्यनुपसर्ग इत्यस्यानुवृत्तिः शङ्क्येत । यथान्यासे तूत्तरत्राप्यनुपसर्ग इति वचनात् `नित्यं पणः परिमाणे' इत्यत्रानुपसर्ग इति न संबद्ध्यत इति विज्ञायते । तेनोपसर्गेऽपि भवति यदि परिमाणाभिधानमस्ति ।
अपर आह---"मदोऽनुपसर्गे' इति सूत्रप्रणयनमस्य विधेरनित्यत्वज्ञापनार्थम्, तेन माद इति सिद्धं भवति" इति, नात्राप्तभाषितमस्ति ।।
प्रमदसंमदौ हर्षे ।। 3.3.68 ।।
निपातनं रूढ्यर्थमिति । उपात्तस्यैव रूढिरूपस्य साधुत्वं यथा स्यादित्यर्थः । `प्रसंभ्याम्' इत्युच्यमाने प्रसंमदः, संप्रमदः, विप्रमद इत्यादावपि प्राप्नोतीति मन्यते ।।
अक्षेषु ग्लहः ।। 3.3.70 ।।
अक्षस्य ग्लह इति । भावेऽप्, अक्षस्य ग्रहणमित्यर्थः । अन्ये त्वाहुः---अक्षशब्देनात्र तत्साधनं देवनं लक्ष्यते, अक्षकर्मणि देवनविषये यत्पणरूपेण ग्राह्यं तद् ग्लहशब्देनोच्यते । तथा च माघः---`व्यात्युक्षीमभिरणग्लहामदीव्यन्' इति । वृत्तावप्यक्षस्य ग्लह इत्यक्षसाधनस्य देवनस्य पणबन्ध इत्यर्थः ।।
प्रजने सर्तेः ।। 3.3.71 ।।
प्रजननं प्रजनः, भावे घञ्, `जनिवध्योश्च' इति वृद्धिप्रतिषेधः, ण्यन्ताद्वैरच् । प्रशब्दो धात्वर्थं विपरीतयति, यथा---प्रतिष्ठते इत्यत्र प्रादुर्भावस्य च वैपरीत्यं गर्भग्रहणम्, तदाह---प्रजनः प्रथमं गर्भग्रहणमिति । कथमवसरः, प्रसर इति ? अधिकरणे `पुंसि संज्ञायां घः प्रायेण' ।।
ह्वः संम्प्रसारणं च न्यभ्युपविषु ।। 3.3.72 ।।
निहव इत्यादि रूपं तु जुहोतेरेव सिद्धम्; अनेकार्थत्वाद्धातूनाम् । अथेभेदोऽप्यकिञ्चित्करः । इदं तु वचनं ह्वयतेर्घञि निह्वाय इति रूपं मा भूदिति ।।
निपानमाहावः ।। 3.3.74 ।।
आहाव इति रूपं तु जुहोतेरेव सिद्धम्, अनेकार्थत्वाद्धातूनाम् । अर्थभेदोऽप्यकिञ्चित्करः । इदं तु वचनं ह्वयतेर्घञि आह्वाय इति रूपं मा भूदिति । आहाव इत्यधिकरणे निपातनमित्याह---तत्र हीति ।।
भावेऽनुपसर्गस्य ।। 3.3.75 ।।
भावग्रहणमित्यादि । ननु च द्वयेऽप्यधिकृते लक्ष्यदर्शनवशाद्भाव एवार्थे विधिर्भविष्यति, यथा---`कर्मव्यतिहारे णच् स्त्रियाम्' इत्यत्र ? सत्यमेष एवार्थो भावग्रहणेनाक्यायते । अथ यथा---`अभिविधौ भाव हनुण्' इत्यत्र वासरूपनिवृत्त्यर्थं भावग्रहणम्, तथेहापि कस्मान्न भवति ? असरूपस्य बाधनीयस्याभवात् । घञ् तावत्सरूपः, क्तल्युट्क्तिनस्तु नास्योत्सर्गाः, न हि तेषु नाप्राप्तेष्वस्यारम्भः, इष्यन्ते च ते---हूतः, ह्वानम्, हूतिरिति ।।
हनश्च वधः ।। 3.3.76 ।।
स चान्तोदात्त इति । सूत्रे तथैवोच्चारणात् । किमर्थं पुनरकारान्तत्वम्, किमर्थं चान्तोदात्तत्वम्, यावता नायमकारः क्वचिच्छ्र यतोऽतो लोपोऽस्य भवति ? तत्राह---तत्रेति । अन्तोदात्तत्वे सतीत्यर्थः । उदात्तनिवृत्तिस्वरेणेति । `अनुदात्तस्य च यत्रोदात्तलोपः' इत्येव उदात्तनिवृत्तिनिमित्तत्वादुदात्तनिवृत्तिस्वरः । घात इति । अत्र कर्मादौ कारके घञ् । किं तर्हि प्रकृतेन प्रत्ययेनेति । अथ धातोरनन्तरं श्रुतः प्रकृतेन धातुना कस्मान्न सम्बद्धयते---हनश्च वधादेशो भवति, ह्वयतेश्चेति ? पूर्वसूत्रे' सम्प्रसारणविधानसामर्थ्यात् ।।
मूर्त्तौ घनः ।। 3.3.77 ।।
अभ्रघन इति । अभ्रस्य काठिन्यमित्यर्थः । धर्मशब्देनेति । शुल्कादिवदिति भावः । यद्येवम्, गुणेनेति प्रतिषेधात्समासो न प्राप्नोति, तत्स्थैश्च गुणैरित्येतदपि नास्ति ? इदानीमेव ह्युक्तम्---`धर्मशब्देन धर्मी भण्यते' इति वक्तव्योऽत्र समासः ।।
अन्तर्घनो देशे ।। 3.3.78 ।।
तदपि ग्राह्यमेवेति । उभयथाप्याचार्येण शिष्याणां प्रतिपादितत्वात् ।।
अगारैकदेशे प्रघणः प्रघाणश्च ।। 3.3.79 ।।
द्वारप्रकोष्ठो बाह्य उच्यत इति । द्वार प्रदेशे द्वौ प्रकोष्ठावलिन्दौ---आभ्यन्तरः, बाह्यश्च । तत्र बाह्ये प्रकोष्ठे निपातनम्, नागारैकदेशमात्रे । ऐतच्च निपातनाल्लभ्यते । प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यत इति अप् कर्मणि, पक्षे वृद्धिश्च ।।
उद्घनोऽत्याधानम् ।। 3.3.80 ।।
अत्याधानमिति । अतिशब्द उपरिभावे वर्तते, आदधातिः स्थापने, अधिकरणे ल्युट् । उद्घन इत्यत्राप्यधिकरण एवाप् ।।
अपघनोऽङ्गम् ।। 3.3.81 ।।
अपघन इति । करणेऽप् ।।
करणेऽयोविद्रुषु ।। 3.3.82 ।।
द्रुघन इति । द्रुरिति वनस्पतिनाम्, `वनस्पतयो वै द्रवः' इति निगमो भवति । पूर्वपदात्संज्ञायामग इति वेति । संज्ञा चैषा कुठारविशेषस्य ।।
स्तम्बे क च ।। 3.3.83 ।।
तत्र चेति । अनन्तरोक्तेऽपि के तु घनादेशो न भवति; पूर्वमेव घनादेशस्याप्सम्बन्धित्वात् । स्तम्बघ्न इति । उपपदसमासः, `गमहन' इत्युपधालोपः, `हो हन्तेः' इति कुत्वम् । स्त्रियामित्यादि । एतच्च कापोः प्रतिपदविधानात्सर्वापवादत्वात् `कृत्यल्युटो बहुलम्' इति वचनाद्वा लभ्यते अन्ये पुनः `ऊतियूतिजूतिसातिहेति' इति हन्तेः क्तिनि निपातनान्निपातनस्य च सर्वापवादत्वात् स्तम्बहेतिरितीच्छन्ति । अपरे तु `करणाधिकरणयोश्च' इति ल्युटि स्तम्बहननीति भवितव्यम्, यथा---रक्षोयातूनां हननीत्युक्तमित्याहुः । स्तम्बघात इति । भावे घञ्, षष्ठीसमासः ।।
प्ररौ घः ।। 3.3.84 ।।
पलिघ इति । `परेश्च घाङ्कयोः' इति विभाषा लत्वम् ।।
उपघ्न आश्रये ।। 3.3.85 ।।
आश्रयशब्द इत्यादि । आश्रयणमाश्रयः, स प्रत्यासत्त्याऽविनाभावीत्येतल्लक्षणहेतुः । पर्वतोपघ्न इति । पर्वतेनोपहन्यते=सामीप्येन गम्यत इति कर्मण्यम् ।।
संघोद्घौ गणप्रशंसयोः ।। 3.3.86 ।।
संहननं सङ्घः, भावेऽप् । उद्घन्यते=उत्कृष्टे ज्ञायत इति कर्मण्यप् । गत्यर्था बुद्ध्यर्था इति हन्तिर्ज्ञाने वर्तते । उद्घो मनुष्याणामिति । मनुष्याणां मध्ये प्रशस्त इत्यर्थः ।।
निघो निमितम् ।। 3.3.87 ।।
समारोहपरिणाहमिति । आरोहः=उच्छ्रायः, परिणाहः=विस्तारः, तौ समानौ यस्य तत्तथोक्तम् । निघा वृक्षा इति । निविशेषं हन्यन्ते ज्ञायन्ते इति कर्मण्कम् ।।
ड्वितः क्त्रिः ।। 3.3.88 ।।
भावेऽकर्तरि च कारके इति वर्तत इति । अधिकारस्याविच्छेदं दर्शयति । अयं तु क्त्रिप्रत्ययः स्वभावाद्भाव एव भवति---पाकेन निर्वृत्तं पक्त्रिममित्युच्यते, न तु पक्वेनेति । केवलो न प्रयुज्यत इति । तेनावश्यमन्यशब्देनैव विग्रहः कर्तव्यः । तद्दर्शयति---पाकेन निर्वृत्तं पक्त्रिममिति । उप्त्रिममिति । यजादित्वात्सम्प्रसारणम् । अथ ड्विनः क्त्रिममित्येव कस्मान्नोक्तम्, एवं हि `क्त्रेर्मम् नित्यम्' इति न वक्तव्यं भवति ? नैवं शक्यम्, `भावे' इत्यधिकाराद्भावेऽपि कृत्रिममिति प्राप्नोति । अथाप्यभयानुवृत्तावप्यभिधानस्वाभाव्यात्कारक एव कर्मणि भवेत् ? एवमपि भूतकालो न गम्येत । एतदप्यभिधानस्वाभाव्याद्भवतु नाम ? एवमर्थाभिधाने प्रकारभेदो न स्यात्, न हि पक्वपक्त्रिमशब्दयोः पर्यायतां मन्यन्ते ।।
ट्वितोऽथुच् ।। 3.3.89 ।।
अयमपि स्वभावाद्भाव एव भवति । घञादेरपवादः । वासरूपविधना सोऽपि भवत्येव ।।
यजयाचयतविच्छप्रच्छरक्षो नङ् ।। 3.3.90 ।।
नङो ङकारो विच्छेर्गुणप्रतिषेधार्थः, अन्यथान्तरङ्गत्वात्तुकि `चछ्वोः शूडनुनासिके च' इति सतुक्कस्य छस्यादेशे कृते लघूपधत्वाद् गुणः स्यात् । नङन्ताः सर्वे पुंल्लिङ्गाः । याचिस्तु स्त्रीलिङ्गः । वासरूपविधिश्च यथाभिधानं भवति । प्रश्न इति । अत्र ग्रहिज्यादिसूत्रेण सम्प्रसारणं कस्मान्न भवतीत्याह---प्रच्छेरिति ।।
कर्मण्यधिकरणे च ।। 3.3.93 ।।
कर्माधिकरणयोः पृथक् पृथक् सप्तमीनिर्देशान्न तावदुभयोरुपपदत्वम्, तत्र व्याख्यानात्कर्मोपपदम्, अधिकरणं तु प्रत्ययार्थ इत्याह---कर्मण्युपपद इति । अथिकरणग्रहणमर्थान्तरनिरासार्थमिति । अर्थान्तरं भावः, करणादि च कारकम् ।।
स्त्रियां क्तिन् ।। 3.3.94 ।।
घञजपामपवाद इति । येन नाप्राप्तिन्यायेन घञोपवादः, अजपोस्तु परत्वादपवादो बाधक इत्यर्थः । उक्तं च `अजव्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेने' इति । अजपोरवकाशः--चयः, जयः, लव इति, क्तिनोऽवकाशः---कृतिः, दृतिः, चितिः, स्तुतिरित्यत्रोभयप्राप्तौ क्तिन् भवति विप्रनिपेधेन । लब्धिः । षित्त्वादङपि भवति---लभेति । ननु निष्ठायां वा सेटोऽकारवचनात्सिद्धमिति ब्रुवतो वात्तिककारस्य `गुरोश्च हलः' इत्यकारप्राप्तावेवाबादिभ्यश्चेति क्तिन्नभिमत इति गम्यते, तत्कथमङ्विषये क्तिन्नुदाहृतः ? सत्यम् ; प्रयोगबाहुल्यादिदमपि भवतीति मन्यते । एवं च युज्विपयेऽपि क्तिन्प्रयुज्यते---आस्तिरिति । अत एवाबादयः प्रयोगतोऽनुसर्त्तव्या इत्युक्तम् ।
श्रुयजिस्तुभ्यः करण इति । ल्युटि प्राप्ते वचनम्, श्रुतिः श्रोत्रम्, इज्यतेऽनया देवता इष्टिः । ऋकारल्वादिभ्य इति । ऋकारान्तेभ्यो ल्वादिभ्यश्च परः क्तिन्निष्ठाकार्यं लभते---`रदाभ्यां निष्ठातो नः', `ल्वादिभ्यः' इति च; निष्टायां विधीयमानं नत्वं क्तिनोऽपि भवतीत्यर्थः ।
क्तिन्नपीष्यते इति । `अस्त्रियाम्' इति प्रतिपेधाद्वासरूपविधेरभावादिदमुक्तम् ।।
स्थागापापचो भावे ।। 3.3.95 ।।
अङोऽपवादस्य बाधक इति । स्थादिभ्यः `आतश्चोपसर्गे' इति प्राप्तस्य । पचेस्तु पित्त्वात्प्राप्तस्याङोऽपवादः । कांस्थायिकाम्, स्थायिमित्यत्र `विभाषाख्यानपरिप्रश्नयोः' इति प्राप्तयोर्ण्वुलिञोरपि बाधकः कस्मान्न भवति ? `पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोत्तरान्' इति ।
कथमिति । न कथञ्चिद्; वासरूपबिधेरभावात् । नात्यन्तायेति । नियमेन चतुर्थ्यन्तप्रतिरूपकोऽयं निपातः, यथा---चिरायेति ।।
मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ।। 3.3.96 ।।
प्रकृतिप्रत्यययोरिति । प्रकृतिसामान्यविवक्षायां द्विवचनम्; अन्यथा बहुत्वात्प्रकृतीनां बहुवचनप्रसङ्गात् । विभक्तिविपरिणामेनेति । वृषादीनां द्वन्द्वे या प्रथमा तस्याः पञ्चमीभावेन यो विपरिणामस्तेन प्रकृतिप्रत्यययोः संबन्धः, अन्यथा संबन्धानुपपत्तिरित्यर्थः । `वृषु सेचने', `इषु इच्छायाम्' वृषिसाहचर्यादुदितो ग्रहणम् । सूत्रे त्वकारो न विवक्षितः । `मन ज्ञाने', `मनु अवबोधने' द्वयोरपि ग्रहणम् । विदादीनामपि यथादर्शनम् । सर्वत्रेति । मन्त्रे चामन्त्रे चेत्यर्थः । वृषादिभ्यः क्तिप्रत्यये विधातव्ये उदात्तवचनमुत्तरार्थम्, व्रजयजोर्भावे क्यबुदात्तो यथा स्यात् । प्रमतिरित्यादौ च `तादौ च निति कृत्यतौ' इति पूर्वपदप्रकृतिस्वरार्थं च । पिबतेरपि मन्त्रे क्तिन्नुदात्तो दृश्यते---त्वं सुतस्य पीतये, मध्वः सोमस्य पीतये इति ।।
ऊतियूतिजूतिसातिहेतिकीर्त्तयश्च ।। 3.3.97 ।।
मन्त्रे इति नानुवर्त्तत इति । तेन ब्राह्मणे भाषायां चाथं विधिर्भवति । स्यतेरिति । `षोऽन्तकर्मणि' इत्यस्य । हत्वाभाव इति । `द्यतिस्यति' इत्यादिना प्राप्तस्येत्वस्याभावः । सनोतेर्वेति । `षणुदाने' इत्यस्य । हन्तेर्हिनोतेर्वोत । यदा हन्तेस्तदा नकारस्येत्वं निपात्यते, यदा हिनोतेस्तदा तु गुणः । कीर्त्तयतेरिति । `कॄत संशब्दने' इत्यस्य चुरादिणिजन्तस्य `ण्यासश्रन्यो युच्', इति युचोऽपवादः क्तिन्निपात्यते, उदांत्तत्वं च । इडभावस्तु `तितुत्र' इत्यादिना सिद्धः, `उपधायाश्च' `हलि च' `उपधायां च' इति दीर्घत्वम् । कालापास्तु युचमपीच्छन्ति---कीर्त्तनेति ।।
व्रजयजोर्भावे क्यप् ।। 3.3.98 ।।
इज्येति । वच्यादिसूत्रेण संप्रसारणम् । यद्युदात्त इति वर्त्तते, पित्करणं किमर्थमित्यत आह--पित्करणमुत्तरत्र तुगर्थमिति ।।
संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ।। 3.3.99 ।।
भाव इति न स्वर्यत इति । पूर्वसूत्रे यद्भावग्रहणं तस्येहास्वरितत्वान्नानुवृत्तिरित्यर्थः । समज्येति । घञपोः प्रतिषेधे क्यप उपसंख्यानमिति वचनाद्वीभावाभावः । अन्ये तु सज्ञायामित्येव क्यपो विधानात् रूढ्यनुगमार्थत्वाच्च संज्ञाग्रहणस्य वीभावाभावमाहुः । न हि वीभावे सति संज्ञा गम्यते । समज्या=सभा, निषद्या=आपणः, निपत्या=पिच्छिला भूमिः, मन्या= गलपार्श्वशिरा मन्यन्तेऽनयेति कृत्वा । तया हि क्रुद्धो ज्ञायते । क्यपोऽझलादित्वाद् `अनुदात्तोपदेश' इत्यनुनासिकलोपोन भवति, तदभावात्तुगपि न भवति । अन्ये तु---संज्ञायामिति वचनाद्यथा समज्येत्यत्र वीभावो न भवति, एवं मनेरनुनासिकलोपस्तत्र कृते तुगपीत्याहुः; नात्राप्तवचनमस्ति । विद्यते गृह्यतेऽनयार्थइति विद्या । सूयतेभिषूयते सोमोऽस्यामिति सुत्या=अभिषवदिवसः । सुत्यमहरुत्तममिति त्वार्षं नपुंसकत्वम्, शय्यतेऽस्यामिति शय्या=खट्वादिः, भरणं भृत्या=जीविका, ईयते गम्यतेनयेतीत्या=दीपिका ।
`भृञोसंज्ञायाम्' इत्यत्रोक्तम्---`स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिद्ध्यति' इति, इह तु `भाव इति न स्वर्यते' इत्युक्तम्, तत्र पूर्वापरविरोधं मन्यमानः पृच्छति---कथं तदुक्तमिति । परिहरति---भावाधिकार इति । संज्ञायामित्युच्यते, भऋञश्च भाव एवोत्पद्यमानेन क्यपा संज्ञा गम्यते अतः संज्ञावशाद्योऽयं भावस्य भृत्याशब्दवाच्यत्वेन व्यापारः स एव तंत्र भावाधिकारो विवक्षितः, न तु शास्त्रीयः स्वरितत्वनिबन्धन इत्यर्थः । संज्ञायामिति वर्तमाने पुनः संज्ञाग्रहणं भावार्थम्, पूर्वकं हि संज्ञाग्रहणं कारकेण सम्बद्धम् । असंज्ञायां तु क्तिन्नेव भवति ।।
कृञः श च ।। 3.3.100 ।।
योगविभाग इति । कृञः क्यब् भवति, ततः श च, चकाराद्यथाप्राप्तं चेति । तेन त्रीणि रूपाणि भवन्ति; अन्यथा चकारेणानन्तरस्य क्यप एव समुच्चयः, न तु क्तिन इति क्तिन्न स्यात् । शकारः सार्वधातुकसंज्ञार्थः, तत्र यदा भावकर्मणोः शस्तदा `सार्वधातुके यक्' `रिङ्शयग्लिङ्क्षु' इति रिङादेशः, अन्यत्र शकार एव परतो रिङादेशः, `अचि श्नुधातु' इत्यादिनेयङ् ।।
इच्छा ।। 3.3.101 ।।
इषेर्धातोरिति । `इषु इच्छायाम्' इत्यस्माद्भावे शप्रत्ययो भवतीति; न त्वकर्त्तरि कारके, स्वभावात् ।
परिचर्येत्यादि । परिचर्यादीनामपि निपातनस्योपसंख्यानम्, परिचर्यादयोऽपि शप्रत्ययान्ता निपातयितव्या इत्यर्थः । तत्र सर्वत्र शप्रत्ययो यक्च निपात्यते । परिचर्या=पूजा । परिसर्या= परिसरणम्, अत्र गुणोऽपि निपात्यते । `मृग अन्वेषणे' चुरादावदन्तः, अत्रातो लोपाभावः; निपातनात् । शे यकिणिलोपः---मृगया । अटतेः शे यकि यका सह टकारस्य द्विर्वचनम्, पूर्वभागे यकारस्य निवृत्तिर्दीर्घत्वमित्येतत्सर्वं निपात्यते । हलादिशेषस्तु नास्ति; षाष्ठिके द्विर्वचनेऽभ्याससंज्ञाविधानाद् । यदा त्वट्यर्त्त्यसूर्णोतीनामिति यङन्तात् `अप्रत्ययात्' इत्यकारः, तदातो लोपे यलोपे चाटाटेति भवति ।
जागर्त्तेरकारो वेति । वाशब्दात्पक्षे शः, तदा सार्वधातुके यक्, `जाग्रोऽविचिण्णल्ङित्सु' इति गुणः ।।
गुरोश्च हलः ।। 3.3.103 ।।
प्रकृतस्य धातोर्हला विशेषणात्तदन्तविधिरित्याह---हलन्तो यो धातुरिति । अज्विशेषवाचिनो गुरुशब्दस्य हलन्ते धातौ न मुख्या वृत्तिः सम्भवतीति तद्वति तच्छब्दो विज्ञायत इत्याह---गुरुमानिति । विपर्ययस्तु न न भवति---गुर्वन्तो यो धातुर्हल्वानिति; `चेष्टायामनध्वनि' `आशंसायां भूतवच्च' इति निर्देशात् । कुण्डा, हुण्डेति । `कुडि दाहे', `हुडि संघाते' ।।
षिद्भिदादिभ्योऽङ् ।। 3.3.104 ।।
गणपरिपठितेष्विति । गणे तावद्भिदा छिदेत्यङन्ता एव समुदायाः पठ्यन्ते, तेषु भिदिच्छिदिप्रभृतयोऽङः प्रकृतयो यास्ता इह भिदादिशब्देन निर्दिश्यन्त इत्यर्थः । कुत एतत् ? धात्वधिकारात् । भिदादिभ्यो धातुभ्य इति । `भिदिर् विदारणे', `छिदिर् द्वैधीकरणे', `विद ज्ञाने', `क्षिप प्रेरणे', `गुहू संवरणे', `डुधाञ् धारणपोषणयोः', `मिधृ मेधृ हिसासंक्लेशनयोः', `ऋ गतौ', `हृञ् हरणे', `क्षि क्षये', अथ वा `क्षि निवासगत्योः', `तॄप्लवनतरणयोः', `धृञ् धारणे', `लिख अक्षरविन्यासे', `चुद प्रेरणे', `पीड अवगाहने', `डुवप् बीजतन्तुसन्ताने', `वस निवासे', `मृजूष् शुद्धौ', `क्रप कृपायाम्' इत्येते वेदितव्याः ।
जरेति । `ऋदृशोऽङि गुणः' । गुहा गिर्योषध्योरिति । गिरिशब्देन तदेकदेश उच्यते, अन्यत्र गूढिः, क्तिन्नेव भवति । आरा.......धारेति । गुणे कृते दीर्घत्वं च निपात्यते । रेखा, लेखेति । लिखेः पक्षे लकारस्य रेफो निपात्यते, गुणश्च । चूडेति । चुदेर्डत्वं दीर्घत्वं च निपात्यते । मित्तिरन्येति । भिद्यत इति भित्तिः=कुड्यम्, छित्तिः=छिद्रम् । आरा शस्त्र्यामिति । शस्त्री शस्त्रजातिः, स्वभावाच्च विशेषः परिगृह्यते । आरा=प्रतोदः, अर्यन्ते प्रेर्यन्तेऽनयाश्वा इति कृत्वा । आत्तिंरन्येति । आङोऽर्तेश्च `उपसर्गादृति धातौ' इति वृद्धिः । धार्यते प्रपात्यते इति धारा । धृतिरन्येति । प्रीतिर्धैर्यं च ।।
चिन्तपूजिकथिकुम्बिचर्चश्च ।। 3.3.105 ।।
युचि प्राप्त इति । सर्वेषामेव ण्यन्तत्वात् । कुम्ब्रा=अग्रम् । `उदीचीनकुम्बां शम्याम्' इति हि दृश्यते । चकारोऽनुक्तसमुच्चयार्थः---तुलयतेस्तुला । अथ `गुरोश्च हलः' इत्यस्यानन्तरं कस्मान्न कृतम्, किमङ्विधानेन ? तत्राऽपि कर्तव्यम्, को न्वत्र विशेषः । अपर आह---अङ्विधानसामर्थ्यात्पक्षे णिलोपो न भवति, चिन्तियेत्यादि भवतीति, नात्राप्तभाषितमस्ति ।।
आतश्चोपसर्गे ।। 3.3.106 ।।
श्रदन्तरोरित्यादि । उपसर्गे यादृशी वृत्तिः प्रत्ययोत्पत्तिलक्षणा तादृश्येव तयोरपि भवतीत्यर्थः । तत्र श्रद्धाशब्दस्तारकादिपाठात्सिद्धः, यदयम् `अन्तर्धौ इत्युसर्गनिबन्धनं किप्रत्ययं निद्दिशति तद् ज्ञापयति---अन्तः-शब्दः उपसर्गवृत्तिरिति । एवं च कृत्वा अन्तर्णयतीति `उपसर्गादसमासेऽपि' इति णत्वमपि भवति ।।
ण्यासश्रन्थो युच् ।। 3.3.107 ।।
ण्यद्भविष्यतीति । ननु वासरूपविधिना ण्यत्स्यात् स चास्त्रियामिति प्रतिषिद्धः ? तत्राह---वासरूपप्रतिषेधश्चेति । उत्सर्गापवादस्येति । समाहारद्वन्द्वः । द्वयोरप्युत्सर्गापवादयोः स्त्र्यधिकारावस्थितयोरित्यर्थः । घट्टिवन्दिविदिभ्यश्चेति । विदिर्लाभार्थो गृह्यते, न ज्ञानार्थः; `विद चेतनाख्याननिवासेषु' इत्यस्यैव चुरादेर्वेदनेति ज्ञाने सिद्धत्वात् । न च वेत्तेः क्तिनो निवृत्त्यर्थं वचनम्; संवित्तिरिति दर्शनात् । अन्वेषणेति । `इष आभीक्ष्ण्ये' `इषगतौ' इति वा । युचश्चकारश्चिन्त्यप्रयोजनः, `उदात्तः' इति हि वर्त्तते तत्सामर्थ्यादन्तोदात्तत्वं भविष्यति; प्रत्ययस्वरैणैवाद्युदात्तत्त्वसिद्धेः ।।
रोगाख्यां ण्वुल्बहुलम् ।। 3.3.108 ।।
आख्याग्रहणमित्यादि । यदि प्रत्ययान्तं रोगस्य नाम भवति, एवं प्रत्ययो भवति, नान्यथेत्येवमर्थमाख्याग्रहणमित्यर्थः । तेन पदान्तरद्योत्ये रोगे न भवति---बुभुक्षा भस्मकेनेति । भस्मको नाम रोगविशेषस्तत्राशितपीतादिकं शरीरस्य व्यापकं न भवति, सर्वदा च बुभुक्षा भवति । बहुलग्रहणं व्यभिचारार्थमिति । `क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव' इत्ययं व्यभिचारः । प्रच्छदिकेति । विचचिकेति । `चर्च अध्ययने' प्रत्ययोपसर्गाभ्यां रोगप्रतीतिः, पामा विचचिका । शिरोत्तिः=शिरस्तोदः । `अर्द हिंसायाम्', `तितुत्र' इतीडभावः, पूर्वपदस्य रुत्वम्, `अतोरोरप्लुतात्' इत्युत्वम्, आद्गुणः', `एङः पदान्तादति' ।
धात्वर्थनिर्देश इति । क्रियानिर्देश इत्यर्थः ।
इक्शतपौ धातुनिर्देश इति । धात्वनुकरण इत्यर्थः । बहुलवचनाच्च क्वचिन्न भवति---`गुप्तिज्किद्भ्यः सन्', `मान्वधदान्शान्भ्यः' इति । श्तिपः शित्करणसामर्थ्यादकर्तृवाचिन्यप्येतस्मिन् शबादयो भवन्ति । एवमभावकर्मवाचिन्यपि । क्वचिद्यगपि भवति, यथा---`विभाषा लीयतेः', अत्र लीलीङोर्यका निर्देशः कृतः, श्यनि तु लीङ एव ग्रहणं स्यात्, न तु लीनातेः । कथं पुनः शित्करणस्य सामर्थ्यम्, यावता पिबतिजिघ्रतिरित्यादौ श्तिपि पिबाद्यादेशार्थं ग्लायत्यदावात्वप्रतिषेधार्थं च शित्करणं स्यात् ? एवं तर्हि `उपसर्गात्सुनोतिसुवतिस्यति', `विभाषा लीयतेः', `भवतेर्ण उपसंख्यानम्', `ध्यायतेः सम्प्रसारणं च' इत्येवमादिनिर्देशाच्छबादयो भविष्यन्ति ।
वर्णादिति । वर्णवाचिनो वर्णानुकरणादित्यर्थः, न तु वर्णादुच्चार्यमाणादिति । किं सिद्धं भवति ? ककार इत्यादौ साच्कादपि संघातात्कारः सिद्धो भवति; अकारस्योच्चारणाथत्वेन वर्णमात्रस्यानुकार्यत्वात् । ककारस्येत्संज्ञा प्रत्योजनाभावान्न भवति । बहुलग्रहणाद् `अस्य च्वौ' `यस्येति च' इत्यादौ कारप्रत्ययो न भवति । बहुलवचनादेव क्वचिद्वर्णसङ्घातादनुकरणादपि भवति---एककार इति । अधातु विहितत्वेऽपि कारप्रत्ययस्य कृत्संज्ञाधिकारसामर्थ्याद्भवति । तेन कृदन्तत्वात्प्रातिपदिकसंज्ञा भवति, इडागमस्त्वनार्द्धधातुकत्वान्न भवति । किमर्थं पुनः कारप्रत्ययो विधीयते, यावता करणं कारः, अस्य कारोऽकार इत्येवमस्तु ? नैवं शक्यम्; एवं हि विज्ञायमाने ककारकरणमिति न स्यात्, करोतेः पौनरुक्त्यात् ।
रादिफ इति । कारस्यायमपवादः । कथं तर्हि `रकारादानि नामानि'? वासरूपविधिना कारोऽपि भविष्यति, पूर्ववत्कृत्संज्ञायां प्रातिपदिकत्वम् । मत्वार्थाच्छ इति । मतुना समानार्थो मत्वर्थस्ततः स्वार्थे छः । बहुलवचनादभत्वेऽपि यस्येति लोपः, पूर्ववत्प्रतिपदिकत्वम् । बहुलवचनात्क्वचिन्न भवति, यथा---`तसौ मत्वर्थे' इति । बहुलवचनादेव च मतुबर्थशब्दादपि भवति---शैषिकान्मतुबर्थीयादिति ।
आजिरिति । बहुलवचनाद्वीभावाभावः ।
इक्कृष्यादिभ्य इति । धात्वर्थनिर्देशे ण्वुलोऽपवादः ।।
संज्ञायाम् ।। 3.3.109 ।।
उद्दालः=श्लेष्मतकः, तस्य पुष्पाणि भज्यन्ते यस्यां सा उद्दालपुष्पभञ्जिका । वरणपुष्पाणि प्रचीयन्ते यस्यां वरणपुष्पर्पचायिका । अभ्यूषः=पूलिकाऽपूपविशेषः, स खाद्यते यस्यां सा अभ्यूषखादिका । तालस्य भञ्जनं यस्यां सा तालभञ्जिका । एवं शालभञ्जिका ।।
विभाषाख्यानपरिप्रश्नयोरिञ्च ।। 3.3.110 ।।
ननु पूर्वं परिप्रश्नः, पश्चादाख्यानं भवति, तत्कथं क्रमव्युदासेन सूत्रे पूर्वमाख्यानस्य निर्देशः, पश्चात्परिप्रश्नस्य ? तत्राह---पूर्वं परिप्रश्न इत्यादि । सत्यं पूर्वं प्रश्नः पश्चादाख्यानमिति, सूत्रे तु लक्षणवशाद्विपर्यय आश्रित इत्यर्थः । स्वयं तु व्यत्स्यासेन व्याचक्षाणोऽर्थक्रमेण व्याचष्टे, उदाहरति च । कारिकामिति । ण्वुल् । क्रियां कृत्यामिति । `कृञः श च', चकारात्क्यप्च । कृतिमिति । योगविभागात् क्तिन् । गणिमिति । `गण सङ्ख्याने' चुरादिरदन्तः । गणनामिति । युच् । एवमित्यादि । कां पाचिकां, पचाम् । षित्त्वादङ् । पक्तिः---`स्थागापापच' इति क्तिन् । कां याजि याजिकामिम् । कां पाठि पाठिकां पठितिम् । तितुत्रेष्वग्रहादीनामिति वचनादिट् ।।
पर्यायार्हर्णोत्पत्तिषु ण्वुच् ।। 3.3.111 ।।
परिपाटीति । पटेः परिपूर्वात् `इणजादिभ्यः' इति इण् तदन्तात् `कृदिकाराक्तिनः' इति ङीष् । तद्योरयतेति । तच्छब्देन धात्वर्थ उच्यते । परस्मै इति । `धारेरुत्तमर्णः' इति सम्प्रदानसंज्ञा । परस्येति तु पाठे परस्य विस्त्वित्यर्थः । धार्यते=बाध्यते । ग्राममामिकेति । कर्मणि षष्ठ्याः समासः । उदपादीति । `चिण् ते पदः' इति कर्त्तरि चिण् । स्वरार्थमिति । `चितः' इत्यन्तोदात्तत्वं यथा स्यात् । ण्वुलि तु `लिति' इति प्रत्ययात्पूर्वमुदात्तं स्यात् ।।
आक्रोशे नञ्यनिः ।। 3.3.112 ।।
आक्रेशः=शपनम्, न क्षेपः; स्वभावाद् । अकरणिरित्यादिकं शपनवाक्यम् ।।
कृत्यल्युटो बहुलम् ।। 3.3.113 ।।
स्नानीयमिति । करणे कृत्यः । दानीय इति । संप्रदाने अवसेचनादौ कर्मणि ल्युट् ।
प्रस्कन्दनः, प्रपतन इति । कर्त्तरि । बहुलग्रहणं न कर्तव्यम्, आरम्भसामर्थ्यादेव कृत्यल्युटो यत्र विहितास्ततोऽन्यत्र भविष्यन्ति, ततो बहुलग्रहणात् कृन्मात्रस्य स्वार्थव्यभिचारः साधितो भवति । `तयोरेव कृत्यक्तखलर्थाः' `कर्तरि कृत्' इत्ययं त्वर्थनिर्देशः `बाहुल्याद्भावादिषु भवन्ति, क्वचिदेव त्वन्यत्र' इति ज्ञापनार्थः ।
पादहारक इति । कर्मणि ण्वुलि पञ्चम्यन्तस्य साधनं कृतेति समासः । गलेचोपक इति । `अमूीर्द्धमस्तकात्' इत्यलुक् ।।
नपुंसके भावे क्तः ।। 3.3.114 ।।
ननु च `तयोरेव कृत्यक्तखलर्थाः' इति नपुंसके भावे क्तः सिद्धः ? सत्यं भूते सिद्धः, कालसामान्ये तु नपुंसके न प्राप्नोतीत्ययमारम्भः । इह सकर्मकेभ्योऽपि यथा भावे घञादयो भवन्ति---ओदनस्य पाकः, ओदनस्य भोजनमिति, तथायमपि क्तः सकर्मकेभ्यो भावे भवति; अत्राकर्मकेभ्य इत्यवचनादिति केचिदाहुः । अथ तदा कर्मणि का विभक्तिर्भवति ? कृद्योगलक्षणा कर्मणि षष्ठी । सा निष्ठायोगे प्रतिषिध्यते ? नपुंसके भावे उपसंख्यानमिति षष्ठी भविष्यति---ओदनस्य भुक्तमुदकस्य पीतमिति । अस्मिन्पक्ष एतदर्थोप्ययमारम्भः, न हि तयारेवेत्यनेन सकर्मकेभ्यो भावे क्तः सिद्ध्यति । अन्ये तु तयोरेवेत्येतदस्यापि क्तस्य विषयव्यवस्थापकं मन्यन्ते । तद्धि `निष्ठा' इति विहितस्य क्तस्य भावमर्थं विद्यत्ते, `अकर्मकेभ्यः' इति च विषयं व्यवस्थापयति । अस्य तु `भावे क्तः' इत्यनुवादेनाकमकेभ्य इति विषयं व्यवस्थापयति ।।
ल्युट् च ।। 3.3.115 ।।
योगविभाग उत्तरार्थ इति । उत्तरत्र ल्युट एवानुवृत्तिर्यथा स्यात्, क्तस्य मा भूदित्येवमर्थम् ।।
कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् ।। 3.3.116 ।।
कर्तुरिति कर्मणि षष्ठी । `उभयप्राप्तौ कर्मणि' इति नियमाद्येनेति कर्तरि तृतीया, तदाह---येन कर्मणा संस्पृश्यमानस्येति । कस्य शरीरसुखमित्यपेक्षायां कर्तुः सन्निधानात्तस्यैव विज्ञायत इत्याह---कर्त्तुः शरीरसुखमुत्पद्यत इति । किमिदं शरीरस्य सुखमिति ? ननु शरीरव्यतिरिक्तस्यात्मनो धर्मः सुखम् ? सत्यम्; यस्मिन् सुखे समुत्पन्ने शरीरेऽपि स्वास्थ्यमुत्पद्यते तच्छरीरसुखमित्युच्यते । नित्यसमासार्थं वचनमिति । कथं तर्हि `उभयप्राप्तौ कर्मणि' इत्यत्रोदाहृतम्---साधु खलु पयसः पानं देवदत्तेनेति ? यत्र प्रतिकूलतया सुखं नोत्पद्यते तत्र तदुदाहृतं द्रष्टव्यम् । पयः पानं सुखमिति । तत्र पानेन सुखं न स्पर्शेन, इदं तूदाहर्तुमुचितम्---चन्दनानुलेपनं सुखमिति ? नैषदोषः; यत्र संस्पर्शनमन्तरेण न सुखमुत्पद्यते तद्विषयोपलक्षणं संस्पर्शग्रहणम् । तत्र स्पर्शनादेव सुखं भवतु तत्पूर्वकात्पानादेर्वा सर्वत्र भविष्यति ।
तूलिकाया इति । तूलेन निर्मितः कशिपुस्तूलिका, तत्र शयित्वोत्थानं सुखम् । अग्निकुण्डस्योपासनमिति । अत्राग्निकुण्डेनास्पृश्यमानस्यैव सुखम् । गुरोः स्नापनमिति । यद्यप्यत्र गुरुः सुखानुभवस्य कर्त्ता, तथापि न तदत्राश्रितम्; अव्यभिचारात्, किं तर्हि ? ल्युट् प्रकृतौ यत्कर्तृत्वं तदाश्रितम्, तदाह---स्नापयतेर्न गुरुः कर्तेति । मानसी तु प्रीतिरिति । पुत्त्रेण बलवत्परिष्वज्यमानस्य शरीरतोद एव भवति, मानसी तु प्रीतिः । ननु प्रत्युदाहरणेष्वपि सर्वत्र ल्युट् प्रयुज्यते, तत्कथं प्रत्युदाहरणत्वम् ? तत्राह---सर्वत्रासमासः प्रत्युदाह्रियत इति ।।
करणाधिकरणयोश्च ।। 3.3.117 ।।
करणे चाधिकरणे चाभिधेये इति । उपपदे तु करणाधिकरणे न भवतः, करणाधिकरणयोरित्यत एव निर्देशात् । क्रियतेऽनेनेति करणम्, अधिक्रियतेऽस्मिन्नित्वधिकरणमिति करणाधिकरणसाधनौ ह्येतौ । यद्येवम्, सति निर्देशे प्रत्ययविधानम्, सति च प्रत्ययविधाने निर्देश । इतीतरेतराश्रयः प्राप्नोति ? न; नित्यात्वाच्छब्दानां नास्मान्निर्देशात्करणाधिकरणशब्दौस्तः । इध्मप्रव्रश्चन इति । कर्मणि, षष्ठ्याः समासः । दात्रादिरुच्यते । पलाशशातन इति ।। `शद्लृ शातने' हेतुमण्णिच, `शदेरगतौ तः' इति तत्वम् । येन दण्डेन वृक्षस्य पर्णानि पात्यन्ते स एवमुच्यते । गोदोहनी, सक्तुधानी पात्री । योगश्चायं येन नाप्राप्तिन्यायेन घञोऽपवादः । अजपौ स्त्रीप्रत्ययांश्च परत्वाद्वाधते । उक्तं हि ---`अजब्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेन' इति ।।
पुंसि संज्ञायां घः प्रायेण ।। 3.3.118 ।।
दन्तच्छद इति । `छद आवरणे' चुरादिः,`छादेर्घेऽद्व्युपसर्गस्य' इति ह्रस्वः । एत्यास्मिन्कुर्वन्ति व्यवहारमित्याकरः= उत्पत्तिस्थानम् ।।
गोचरसंचरवहव्रजव्यजापणनिगमाश्च ।। 3.3.119 ।।
गावश्चरत्यस्मिन्निति । रूढिशब्दोऽयं विषयपर्यायः, तस्य यथाकथंचिन्निर्वचनम् । तथा च गोचरः, इन्द्रिंयगोचर इत्याद्यपि । सञ्चरन्तेऽनेति । `समस्तृतीयायुक्तात्' इत्यात्मनेपदम् । सञ्चरः=मार्गः, वहः= स्कन्धः, व्रजः=गोष्ठम्, व्यजः=तालवृन्तम्, आपणः= पण्यस्थानम्, निगमः=छन्दः । अयं योगः शक्योऽवक्तुम्, पूर्वेणैवघः सिद्धः । `हलश्च' इति घञ् कस्मान्न भवति ? प्रायेणग्रहणं तत्रानुवर्त्तते, यथा---कषो निकष इत्यत्र घञ् न भवति, एवं गोचरादिष्वपि न भविष्यति ।।
अवे तॄस्त्रोर्घञ् ।। 3.3.120 ।।
अवतारः=रूपादिः, अवस्तारः=जवनिकादिः । नद्यवतारः=तीर्थम् । प्रायेणग्रहणानुवृत्तेरसंज्ञायामपि भवतीति । ननु घञ् विधेयः प्रधानम्, तस्य प्रायग्रहणमुपाधिः, ततश्च संज्ञायामेव क्वचिन्न भवतीत्यर्थः स्यात् ? एवं मन्यते---संज्ञायामित्युपाधेरेव प्रायग्रहणमुपाधिः । उपादेरुपाधिर्भवति, विशेषणस्यैव वा विशेषणमिति तु नाश्रीयते; लक्ष्यानुरोधादिति ।।
हलश्च ।। 3.3.121 ।।
लेखः=लेखनी । वेष्टः= वस्त्रादिः । `विष्ट वेष्टने' । विद्येते ज्ञायेते अनेन धर्माधर्माविति वेदः । अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः= वीरुद्विशेषः । वीमार्गः= समूहनी, पूर्ववत्कुत्वदीर्घत्वे ।।
अध्यायन्यायोद्यावसंहाराधारावायाश्च ।। 3.3.122 ।।
आवयन्तीति । एत्यावयन्तीत्यर्थः ।
चकारोऽनुक्तसमुच्चयार्थ इति । `घञ्विधाववहारावायानामुपसंख्यानम्' वार्त्तिकम् । वृत्तिकारस्तु आधारावायशब्दौ सूत्रे प्रक्षिप्य चकारेणावहारशब्दं साधयति स्म, विचित्रा हि वृत्तेः कृतिर्वृत्तिकारेण ।।
उदङ्कोऽनुदके ।। 3.3.123 ।।
तैलमुदयच्यते, उद्ध्रियतेऽस्मिन्निति तैलोदकम्=चर्ममयं भजनम् ।।
घः कस्मादिति । `पुंसि संज्ञायाम्' इत्यादिना घे प्राप्ते घञ्विहितः, ततश्च तेन मुक्ते घ एव भवितुमर्हतीति भावः । विशेषाभावादिति । ननु घे सति प्रत्ययस्वरः घञि ञित्स्वरेणाद्युदात्तः, तत्कथं विशेषाभावः ? स्तत्राह---घञ्यापहीत्यादि ।।
जालमानायः ।। 3.3.124 ।।
`जल घात्ये' इत्यतः `ज्वलितिकसन्तेभ्यो णः' इति णे कृते जालमिति भवति । आनीयन्ते मत्स्यादयोऽनेनेत्यानायः ।।
खनो घ च ।। 3.3.125 ।।
घित्करणं किमर्थम्, यावता न खनः कश्चिदवयवः कुत्वभागस्ति ? ज्ञापनार्थं तु, एतज् ज्ञापयति---अन्येभ्योऽप्ययं भवतीति । तेन भजेर्भगः, पदेः पदम्---करणे घः, `खल सञ्चलने' अधिकरणे घः खल एवमादि सिद्धं भवति । आखनादयः खनित्रवचनाः ।।
ईषद्दुः सुषु कृच्छ्राकृच्छ्रार्थेषु खल् ।। 3.3.126 ।।
तद्दुर इति । `सुदुरोरधिकरणे' इतिनिर्देशाद् दुः शब्दो रेफान्तोऽप्यस्ति । साम्भवादिति । दुर एव कृच्छ्रे सम्भवः इतरयोरेवाकृच्छ्रे, अतः सामान्येनोक्तावपि विशेषणस्य विषयविभागो लभ्यत इति भावः । ईषत्कार्यमिति । मनागित्यर्थे ईषच्छब्दः ।।
कर्तृकर्मणेश्च भूकृञोः ।। कर्त्तरि कर्मणि चोपपदे इति । प्रत्ययार्थत्वं तु कर्तृकर्मणोर्न भवति; चकारस्योपपदसमुच्चयार्थत्वात् । किं च, यदि तयोः प्रत्ययार्थत्वं स्याद् ईषदादिष्वेवोपपदेषु प्रत्ययः स्यात्, तश्च खित्करणमनर्थंकंस्याद्; अनव्ययस्य हि नुम् विधीयते । तस्मात्सुष्ठूक्तम्---कर्तरि कर्मणि चोपपदे इति । अत्र चकारः सन्नियोगार्थः क्रियते, यदा कर्तृकर्मणेरीषदादीनां च युगपदुपपदत्वं तदा प्रत्ययो भवति, समासस्तु युगपत्पर्यायेण वा भवति । किं पुनरत्र परमुपपदम् ? कर्तृकर्मणी । कुत एतत् ? खलः खित्करणात् । तद्धिमुमर्थम्, मुमागमश्चानव्ययस्य । तत्रेषदादीनां धातोश्चानन्तर्ये खित्करणमनर्थकंस्यात् । ननु मा भूदीषदो धातोश्चानन्तर्यम्, यत्रैतन्नास्ति---ते प्राग्धातोरिति, यत्र त्वस्ति सुदुरोः, तत्र तयोरेव प्राक् प्रयोगो युक्तः, खित्करणं त्वीषदाढ्यम्भवन्तीम् इत्यादौ मुमर्थं स्यात्, सुदुरोरपि `कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' इति तत्रापि मुमर्थं स्यात्, यथा `उदिकूले रुजिवहोः' कूलमुद्रुज इति ? वक्तव्योऽत्र परिहारः---कृत्यल्युटो बहुलमिति । बहुलग्रहणं वाऽत्राश्रयणीयम् । ईषदाढ्यम्भवमिति । अनाढ्येन भवता सुखेनाढ्येन भूयत इत्यर्थः । ईवदाढ्यङ्कर इति । अनाठ्यो देवदत्तः सुखेनाढ्यः क्रियत इत्यर्थः । स्वाढ्येन भूयत इति । प्रमाद पाठोऽयम् । अत्र हि खलभावात्सुशब्दस्य धातोः प्राक् प्रयोगेण भाव्यम्, तस्मादाढ्येन सुभूयते इति पाठः ।।
अन्येभ्योऽपि दृश्यते ।। 3.3.130 ।।
अन्येभ्योऽपि चातुभ्यो गत्यर्थेभ्य इति । गत्यर्थेभ्यो येऽन्ये धातवस्तेभ्य इत्यर्थः । अथ वा नञोऽत्र प्रश्लेषः---अन्येभ्योऽपि धातुभ्यः, कोऽर्थः ? अगत्यर्थेभ्य इति ।
भाषायामिति । `छन्दसि' इत्यधिकारादयमारम्भः । `शासु अनुशिष्टौ', `युध संप्रहारे', दृशिर् प्रेक्षणे', `ञिधृषा प्रागलभ्ये', `मृष तितिक्षायाम्'।।
वर्तमानसामीप्ये वर्त्तमानवद्वा ।। 3.3.131 ।।
अत्र केचिद्व्याचक्षते---"समीपस्य भावः सामीप्यम्, भावे ष्यञ्, वर्तमानस्य सामीप्यं वर्तमानसामीप्यम्, षष्ठीसमासः, वर्तमानस्य भूतभविष्यन्तौ प्रति यत्सामीप्यं तत्र वर्त्तमानवत्प्रत्ययातिदेशोऽनर्थकः, ये हि वर्तमाने प्रत्ययास्ते समीपभूतेऽपि तस्मिन् भवन्त्येव, अतो वर्तमानं प्रति भूतभविष्यतोर्यत्सामीप्यं तदत्र वर्तमानसामीप्यमित्युच्यते, समीपद्वारकाच्च वर्तमानस्य सामीप्येनाभिसम्बन्धात्समासो नानुपपन्नः, यथा---देवदत्तस्य गुरुकुलमिति । गुणेन नेति प्रतिषेधोऽपि न भवति; यस्माद्गुणशब्दस्य सम्बन्धिशब्दत्वाद् गुणाक्षिप्तस्य गुणिन एव समासनिषेदः । न च वर्तमानः सामीप्यस्य गुणी, भूतभविष्यतोस्तद्गुणित्वात्" इति । तदिदं क्लिष्टं व्याख्यानम्, ष्यञ्निर्देशश्च केवलं गौरवायैव स्यादित्यन्यथा व्याचष्टे---समीपमेव सामीप्यमिति । न चास्मिन् पक्षे ष्यञो वैयर्थ्यमित्याह---ष्यञः स्वार्थिकत्वं ज्ञाप्यत इति । स्वार्थेऽपि ष्यञ् भवतीति एतमर्थं ज्ञापयितुं ष्यञा निर्देशः कृतः इत्यर्थः । चातुर्वर्ण्यादिसिद्ध्यर्थमिति । आदिशब्देन चातुराश्रम्यम्, अन्यस्य भावोऽन्यभावः, अन्यभाव एवान्यभाव्यमित्येवमादीनां ग्रहणम् । कदा देवदत्त आगतोऽसीति । भूतकालेन प्रश्नः, उदाहरणे भूतकालाभिव्यक्तयेऽयमेष इत्यागमनाविनाभूतं यद्रूपं श्वेतपरिकरबन्धादियुक्तं तद्रूपं प्रतिनिर्दिश्यते । इदानीमागममित्यर्थः । एवं च कदेति प्रश्ने चोत्तरं सङ्गच्छते, सामीप्यं च द्योतितं भवति । आगममिति । लुङ्, मिपोऽम्भावः, लृदित्त्वादङ् । कदा देवदत्त गमिष्यसीति । अत्रापि भविष्यत्कालेन प्रश्न उदाहरणे भविष्यत्कालाभिव्यक्तये । गन्तास्मीति । अनद्यतने लुट् । अत्रापि सामीप्यं यथासम्भवं द्रष्टव्यम् ।
अथ वत्करणं किमर्थम्, यावताऽसत्यपि तस्मिन् प्रत्ययाधिकाराद्वर्तमाने ये प्रत्यया विहितास्ते वर्तमानसामीप्ये भवन्तीत्येषोऽर्थो लभ्यत एव, नार्थो वत्करणेनात आह---वत्करणं सर्वसादृश्यार्थमिति । असति वत्करणे वर्तमाने ये प्रत्यया इत्यनेन प्रत्ययानां रूपमात्रं लक्ष्येत, ततश्च सङ्करोऽपि स्यात्---अन्यस्माद्धातोर्यो वर्तमाने विहितः प्रत्ययः स धात्वन्तरादपि स्यात् । वत्कणे तु सति सर्वसादृश्यावगतेः सङ्करो न भवति । सर्वसादृश्यावगतेः सङ्करो न भवति । सर्वसादृश्यमेव दर्शयति---येन विशेषणेनेति । आदिशब्देनोपाधेरभिधेयस्य च ग्रहणम् । पचमानो यजमान इति । वर्तमाने पूङ्यजोः शानन्विहितः, सामीप्ये स ताभ्यामेव भवति । अलङ्करिष्णुरिति । तच्छीलादिविशिष्टे कर्त्तर्यलम्पूर्वात्कृञ् इष्णुज्विहितः, स सामीप्येऽपि तस्मादेव तत्पूर्वादेव तस्मिन्नेवार्थे भवति ।
परुत् पूर्वस्मिन् संवत्सरे ।
यो हि मन्यते इत्यादिना प्रतिपत्तृविशेषं प्रति प्रकरणं प्रत्याचष्टे । कालान्तरगतिस्त्विति । कालान्तरं वर्तमानसमीपो भूतो भविष्यंश्च कालः तस्य या गतिः= प्रतीतिः सा `अयं गच्छामि' इत्यतो वाक्यात् `कदा देवदत्त गमिष्यसि' इत्यस्योत्तरत्वेन प्रयुक्ताद्भवति, ततः किमित्यत्राह---न चेति । वाक्यार्थप्रतिपत्तारमिति । वाक्यार्थोऽयं न पदार्थ इति यः प्रतिपद्यते स वाक्यार्थप्रतिपत्ता, कर्मणि षष्ठ्याः समासः । `कर्तरि च' इति प्रतिषेधस्त्वनित्यः; `जनिकर्त्तुः' इति निर्देशात्, शेषषष्ठ्या वा समासः । प्रकरणमिति । इत आरभ्याष्टडसूत्री प्रकरणशब्देनोच्यते । तथा च श्वः करिष्यतीत्यादि । यदि वाक्यगम्योऽपि कालः पदसस्कार उपयुज्यते, तदा नैवमाद्युपपद्यते---अनद्यतने लुटैव भवितव्यमिति कृत्वा ।।
आशंसायां भूतवच्च ।। 3.3.132 ।।
तस्याश्च भविष्यत्कालो विषय इति । भविष्यत्कालोऽस्येति भविष्यत्कालो धात्वर्थः, स आशंसाविषयः, सा तु वर्तमानकालैव । एवं च सामर्थ्याद्भविष्याद्विषयोऽयमतिदेशो विज्ञायत इत्याह---भविष्यत्काल इति । आशंसायां गम्यमानायामिति । आशंस्यमानक्रियावचनाद्धातोरित्यर्थः । उपाध्याश्चेदित्यादिकमांशसावाक्यम्, तत्रोपाध्यायागमनं व्याकरणाध्ययनं चोभ्यमाशंस्यमानमित्युभयत्रापि प्रत्ययः । अध्यगीष्महीति । `विभाषा लुङ्लृटोः' इति इङोः गाङादेशः, `गाङ्कुटादिभ्यः' इति सिचो ङित्त्वम्, घुमास्थादिसूत्रेणेत्वम् ।
सामान्यातिदेशे इति । अत्र सूत्रे भूतशब्देन भूतमात्रमुच्यते, न तु तद्विशेषोऽनद्यतनः । सामान्यातिदेशे च विशेषो नातिदिश्यते, व्राह्मणवदस्मिन्क्षत्रिये वत्तितव्यमित्युक्ते ब्राह्मणमात्रप्रयुक्तं कार्यंगम्यते, न तु माठरादिविशेषप्रत्युक्तम्, तेनानद्यतनप्रयुक्तौ लङ्लिटौ न भवतः । इहानिष्पन्ने निष्पन्नशब्दः शिष्यः शासितव्यः, देवश्चेद्वृष्टो निष्पन्नाः शालय इति वस्तुस्वरूपकथनमेतत्, नात्राशंसा, तेन सूत्रेणाप्राप्तिः ? नैष दोषः; अप्शालिबीजसंयोग एव निष्पत्तिः शालीनां तत्रैव निष्पत्तेर्वृत्तेः । अत एव लोको भविष्यद्वाचिनः शब्दस्य प्रयोगं न मृष्यति । देवश्चेद्वृष्टः सम्पत्स्यन्ते शालय इति उक्ते, वक्तारो भवन्ति---मैवं वोचः, सम्पन्नाः शालय इति ब्रूहीति, हेतुभूतकालसम्प्रेक्षितत्वात्सिद्धम् । हेतुभूतस्य वर्षादेर्यः कालः स एव कार्यस्य सम्प्रेक्षितः स एव कार्यस्यापि कालो व्यवस्थाप्यते कारणान्तरापेक्षाभावप्रतिपादनाय । ततश्च कारणस्यैव कार्यरूपेण विवक्षितत्वादभेदाध्यवसायात्कारणस्य भूतत्वात्कार्यस्यापि भूतत्वं सिद्धमित्यर्थः ।
इह तु कश्चिदध्वानं जिगमिषुः पश्यति अमुष्मिन्नवकाशे कूपो भविष्यतीति, अनद्यतने कूपो भवितेति समासाद्य कूपोऽस्तीति, अतिक्रम्यकूपोऽभूदिति, अतिक्रम्योषितत्वात् कूप आसीदिति, अतिक्रम्याषित्वा विस्मृत्य कूपो बभूवेत; तदत्र सर्वत्र कूपसत्ताया वतेमानत्वं भूतभविष्यद्रूपत्वमिति सर्वत्र लडेव प्राप्नोति, लुङादयस्तु वक्तव्याः ? तदाह---`अस्त्यर्थानां भवन्त्यर्थे सर्वा विभक्तयः कर्तुविद्यमानार्थत्वात्' इति । भवन्तीशब्दो लटः पूर्वाचार्याणां संज्ञा । यदि वचनेन वर्तमान एव लुङादयो विधीयन्ते कूपोऽभूदिति प्रयोक्तव्ये कूपो भविष्यतीत्यपि प्रयुज्येत, तस्माद्यथास्वमेता विभक्तयः कालेषु प्रयुज्यन्ते । कथम् ? इन्द्रियव्यापारस्य कालस्य कूपसत्तां प्रति भेदकत्वेनाश्रयणात्तस्या अपि तत्कालत्वम्; ततश्चेन्द्रियव्यापारे भाविनि भविष्याद्विभक्तिः, वर्तमाने वर्तमानविभक्तिः, भूते भूतविभक्तिरिति सिद्धमिष्टम् । उक्तं च---
सत्तामिन्द्रियसम्बन्धात्सैव सत्ता विशेष्यते ।
भेदेन व्यवहारो हि वस्त्वन्तरनिबन्धनः ।।
अस्तित्वं वस्तुमात्रस्य बुद्ध्या तु परिगृह्यते ।
यः समासादनाद्भेवः स तत्र न विवक्षितः ।। इति ।।
क्षिप्रवचने लृट् ।। 3.3.133 ।।
वचनग्रहणं पर्यायार्थमिति । असति तस्मिन् `स्वं रूपं शब्दस्य' इति वचनात्क्षिप्रशब्द एवोपपदे स्यात्, सति तु पर्यायेष्वपि भवति । ननु भूतवच्चेत्यस्यायमपवादः, स च भविष्यत्कालविषयस्तत्र नेत्येव वक्तव्यम्, तस्मिन्प्रतिषिद्धे `लृट् शेषे च' इत्यनेनैव लृट् सिद्धः, तत्किं लृड्ग्रहणेन ? तत्राह---नेति वक्तव्ये इत्यादि । नेत्युच्यमाने `लृट् शेषे च' इत्यनेन लृड् भवन्ननद्यतने न स्यात्; लुटा बाधितत्वाद् । अतो लुड्विषयोऽपि यथा स्यादिति लृड्ग्रहणं क्रियत इत्यर्थः ।।
आशंसावचने लिङ् ।। 3.3.134 ।।
अधीयीयेति । इङो लिङः `इचोऽत्', सीयुट्, लिङः सलोपः, धातोरियङ्, उपसर्गेण सह सवर्णदीर्घत्वम् । क्षिप्रवचने लृट्, आशंसावचने लिङ् विप्रतिषेधेन । क्षिप्रवचने लृडित्यस्यावकाशः---क्षिप्रमध्येष्यामह इति, आशंसावचने लिङित्यस्यावकाशः---आशंसे युक्तोऽधीयीयेति; इहोभयं प्राप्नोति---आशंसे क्षिप्रमधीयीयेति, लिङ् भवति विप्रतिषेधेन । तदेतदुदाहरणे दर्शयति---आशंसे क्षिप्रमधीयीयेति ।।
नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः ।। 3.3.135 ।।
कालानां सामीप्यमिति । `वर्तमानसामीप्ये' इत्यारभ्य कालप्रायत्वादस्य प्रकरणस्य सामान्येनोक्तावपि कालसम्बन्धिन एव सामीप्यस्याश्रयणमिति भावः । लुल्यजातीयेनेति । तत्रैव लोके सामीप्यव्यवहारादिति भावः । अदादिति । `गातिस्था' इत्यादिना सिचो लुक् । अध्यापिपदिति । इङो णिच्, `क्रीङ्जीनां णौ' इत्यात्वम्, `अर्त्तिह्री' इत्यादिना पुक्, लुङि चङि `अजादेर्द्वितीयस्य' इति पिशब्दस्य द्विर्वचनम्, णिलोपः ।
येयं पौर्णमास्यतिक्रान्तेति । पोर्णमास्यन्तरेणाव्यवहिता या पौर्णमासी तामधिकृत्येदमुच्यते । सापि यद्यप्यमावास्ययान्याभिश्च तिथिभिर्व्यवहिता; तथापि तुल्यजातीयेन पोर्णमास्याख्येनाव्यहितत्वात्समीप्यं नातिवर्त्तते । आधितेति । दधातेराङ्पूर्वस्य `स्थाघ्वोरिच्च' इतीत्त्वम्, `ह्रस्वादङ्गात्' इति सिचो लोपः । अयष्टेति । `झलो झलि' इति सिचो लोपः, व्रश्चादिसूत्रेण षत्वम् । अदितेति । ददाते रूपं पूर्ववत् । यक्ष्यते इति । व्रश्चादिषत्वे `षढोः कः सि' इति कत्वम्, सर्वत्र `स्वरितञितः' इत्यात्मनेपदम् ।
इह क्रियाप्रबन्धसामीप्ययोरद्यतनप्रत्ययौ लुङ्लृटौ इष्येते, नानद्यतनप्रत्ययौ लङ्लृटौ, तौ च लुङ्लृटौ `अद्तनवत् क्रियाप्रबन्धसामीप्ययोः' इत्यच्यमानेऽपि सिद्ध्यत एव, किमर्थं द्वौ प्रतिषेधावुच्येते ? इत्यत आह---द्वौ प्रतिषेधाविति । यथाप्राप्तस्येति । यथा येन प्रकारेण प्राप्तं प्राप्तिर्यस्येति बहुव्रीहिः । अव्ययीभावे त्वम्भावः स्यात् । इहाद्यतनवचने सति विधानमिदं विज्ञायते, तत्र लड्विधिप्रसङ्गे पूर्वविधाने ह्यद्यतनसंशब्दनेन विहितस्य कस्यचित्प्रत्ययस्याभावादद्यतने दृष्टस्यातिदेशः, लट् चाप्यद्यतने दृष्टस्तेन तस्यापि भूतभविष्यतोः प्रसङ्गः, लुङ्लृटोश्चायथाकालं विधिः प्रसज्येत---लुङो विषये लृट्, लृटश्च विषये लुङ् । ननु च वत्करणात्सादृश्यार्थात्सङ्करो न भविष्यति ? नैतदस्ति; इह लुङ्लृटौ भूतभविष्यतोरद्यतने च दृष्टौ, तत्राद्यतनवदित्युच्यमाने तस्मिन्नेवाद्यतने तयोरतिदेशोऽनथक इति कश्चिदंशो हातव्यः । तत्राद्यतनांशत्यागेनातिदेशे विज्ञायमाने भूतानद्यतने लुङ्, भविष्यदनद्यतने लृडिति सिद्धम् । यदा तु भूतभविष्यदशपरित्यागेनातिदेशः; तदा भूताद्यतने दृष्टस्य भविष्यदद्यतने, भविष्यदनद्यतने च दृष्टस्य भूताद्यतने विधानमिति सङ्करः स्यादेव, लट् चोभयत्र प्रसज्येत । वत्करणंतु यस्माद्धातोर्यस्मिन्नुपाधौ यः प्रत्ययो विहितः स तस्मादेव तस्मिन्नुपाधावेव यथा स्यादित्येवमर्थं स्यात् । तेन---`पूङ्यजोः शानन्' इत्यादौ कालव्यत्यास एव भवति, न धात्वादिव्यत्यासः । यदि पुनरयं द्वौ प्रतिषेधौ कृत्वा तूष्णीमास्ते, स्वैरेव विधायकैर्लडादय उत्सर्गाः स्वेषु स्वेषु कालेषु अपवादविनिर्मुक्तेषु भवन्तीति न सङ्करप्रसङ्गः । अतो यथाप्राप्तस्याभ्यनुज्ञानान्नायं वतिः; किं तर्हि ? मतुप्---अनद्यतनमस्यास्तीत्यनद्यतनवत्, सामान्यविवक्ष्यां नपुंसकत्वम् । अनद्यतनवत्प्रत्ययविधिर्न भवतीति । अस्याप्यनद्यतनवांश्चासौ प्रत्ययश्च तस्य विधिरित्यर्थ इति सर्वथा यदनद्यतने विहितं तत्सर्वं न भवति । वत्तौ `लङ्लुटौ विहितौ तयोः प्रतिषेधः' इत्युपलक्षणम् ।।
भविष्यति मर्यादावचनेऽवरस्मिन् ।। 3.3.136 ।।
अक्रियाप्रबन्धार्थमसामीप्यार्थं च वचनमिति । `क्रियाप्रबन्धसामीप्ययोः' इति नानुवर्त्तते, तदनुवृत्तौ हि नियमार्थमेतत् स्याद्---भविष्यत्येव मर्यादावचन एवावरस्मिन्नेवेति वा । विधिनियमसम्भवे च विधिरेव ज्यायानिति भावः । मर्यादावचने सतीति । मर्यादोक्तौ सत्यामित्यर्थः । वचनग्रहणमभिविध्यर्थम्, वचनग्रहणे हि सति मर्यादामात्रवचने मर्यादावचन इत्यर्थो भवति । सैव हि मर्यादा यदा कार्येणाभिसम्बद्ध्यते तदा `अभिविधिः' इत्युच्यते । अवरस्मिन्प्रविभाग इति । अपरभागविषयश्चेद्धात्वर्थो भवतीत्यर्थः, अपरस्मिन्निति वचनाद्यस्य मर्यादा तस्य द्वौ भागौ कल्पयितव्याविति गम्यते । गन्तव्य इति । अध्वगमनस्य भविष्यत्वं दर्शयँस्तत्र कर्त्तव्यस्य भोजनादेर्भविष्यत्त्वं दर्शयति । तस्य यदपरमिति । अनेनाध्वनो विभागो द्विरित्यनेनापि क्रियाप्रबन्धाभावो द्विरेव, नानवरतमिति ।
योऽयमध्वागत इति । भूतकालतां दर्शयति । अध्यैमहीति । इङो लङ्, शपो लुक्, `आडजादीनाम्', `आटश्च'। अभुञ्ज्महीति । `भुजोऽनवने' इत्यात्मनेपदम्, `श्नसोरल्लोपः', चुत्वम् ।
तत्र उत्तरसूत्रे विशेषं वक्ष्यतीति । अनहोरात्राणामित्यनेन ।।
कालविभागौ चानहोरात्रणम् ।। 3.3.137 ।।
कालमर्यादाविभागे सतीति । मर्यादा च विभागश्च मर्यादाविभागम्---समाहारद्वन्द्वः, तेन कालशब्दस्य षष्टीसमासः । न चेदहोरात्रसम्बन्धी विभाग इति । एतेनानहोरात्राणामिति सम्बन्धसामान्ये षष्ठी, न `कर्तृकर्मणोः' इति दर्शयति । एवं सति यदिष्टं सिद्धं तद्दर्शयति---तैरिति । तैरन्यस्य कालस्य विभागोऽन्येन वा तेषां तैरेव वा सर्वथा प्रतिषेधः । ननु पूर्वसूत्रे एवानहोरात्राणामिति वक्तव्यम्, एवमपि हि सामर्थ्यात्कालविभागस्यैव प्रतिषेधो विज्ञायते, न हि देशविभागस्याहोरात्रैः सम्बन्धोऽस्ति, तत्किं योगविभागेन ? तत्राह---योगविभाग उत्तरार्थ इति । उत्तरसूत्रे कालविभाग एव विभाषा यथा स्याद्, देशविभागे मा भूदिति । आग्रहायणी=मार्गशीर्षी ।
त्रिविधमुदाहरणमिति । प्रथमं तैविभागस्य, द्वितीयं तेषां विभागस्य, तृतीयं तैस्तेषामहोरात्रसंस्पर्शे = अहोरात्रगन्धे, एतच्च प्रसज्यप्रतिषेधसमाश्रयणाल्लभ्यते । दर्शितश्च प्रसज्यप्रतिषेधः `न चेदहोरात्रसम्बन्धी विभागः' इति; अन्यथा `अनहोरात्रसम्बन्धिनि विभागः' इत्यवक्ष्यत् ।।
लिङ्निमित्ते लृङ् क्रियातिपत्तौ ।। 3.3.139 ।।
कुतश्चिद्वैगुण्यादिति । प्रतिबन्धकोदयः सामग्रीवैकल्यं वा वैगुण्यम् । दक्षिणेन मार्गेण न शकटं पर्याभविष्यदिति । तस्यमार्गस्य ऋजुत्वात्स्थाण्वादेरभावाच्च । पर्याभवनम्=भङ्गः । कमलकः=कश्चित्पुरुषः, स शकटादीनां विषमेष्वपि स्थानेषु मुसलाद्यवष्टम्भयोगेन नेता । अमोक्ष्यत भवान् घृतेनेति । घृतमात्रस्यातिपत्तौ भोजनक्रियाभिनिर्वृत्तावपि लृङ् भवति; कारणभेदाद्विभिन्नैव भोजनक्रिया, ततो घृतातिपत्तौ घृतभोजनक्रियाप्यतिपन्नैव ।
भविष्यत्कालविषयमेतद्वचनमिति । कथं तर्हि भविष्यतोऽर्थस्येदानीमवगतिस्तत्राह---भविष्यदपर्याभवनमिति । हेतुमत् तत्र हेतुभूतमिति । एतेन लिङ्निमित्तं हेतुहेतुमद्भावं दर्शयति । लिङ्गेन बुध्वेति । असकृत्प्राक्कमलकाह्वाने सति शकटापर्याभवनं दृष्ट्वा भाविनोऽपि कमलकाह्वानस्य शकटापर्याभवनं दृष्ट्वा भाविनोऽपि कमलकाह्वानस्य शकटापर्याभवनहेतुभूत्वं लिङ्गेन बुध्वा । लिङ्गं पुनः कमलकाह्वानत्वम् । `भविष्यत्कमलकाह्वानमपि शकटापर्याभवनस्य हेतुः कमलकाह्वानत्वात्पूर्वकमलकाह्वानवत्' इति एवं बुध्वेत्यर्थः । तदतपत्तिमिति । प्रकरणाद् द्विचनान्तस्य समासः, तयोराह्वानापर्याभवनयोरतिपत्तिमित्यर्थः, तत्र कमलकस्य देशान्तरगमनादिना तदाह्वानस्यातिपत्तिरवसीयते; तदतिपत्त्यैव च पर्याभवनस्याप्यति पत्तिः, शकटस्य गुरुतरभारारोपणादिना । भविष्यत्कालयोरतिपत्तिरितो वाक्याद् गम्यति इति । नेदानीं कमलक आह्वातुं शक्यते, तच्च शकटमपि पर्याभविष्यत्येवेत्यवगमात् ।।
भूते च ।। 3.3.140 ।।
अन्नार्थी चङ्क्रम्यमाण इति । भोक्तुकामः क्षुधा कुटिलं गच्छन्नित्यर्थः । अपरश्च द्विजो ब्राह्मणार्थीति । चङ्क्रम्यमाणो दृष्ट इत्यनुषड्गः । ब्राह्मणार्थो भोक्तारं मार्गयमाण इत्यर्थः । सोऽपि संभ्रमात्कुटिलं गच्छति । ततः किमित्यत आह---यदीत्यादि । यदि दृष्टोऽभविष्यदिति क्वचित्पठ्यते तत्तु `यदायद्योरुपसंख्यानम्' इति यदिलिङ्निमित्तत्वात् लृङ्, किं तूत्तरसूत्रेण विकल्पितः । दृष्ट इत्येव तु पाठो युक्तः । न तु भुक्तवानिति । क्रियातिपत्तिं दर्शयति । तत्र हेतुः---अन्येन पथा स गत इति ।।
वोताप्योः ।। 3.3.141 ।।
वा आ उताप्योरिति आङः प्रश्लेषं दर्शयति । तत्राङ उताप्योरित्यनेन सम्बन्धादल्पापेक्षत्वेनान्तरङ्गत्वाद्वा पूर्वं परेण सहाद्गुणे कृते पूर्वं प्रत्यन्तवद्भावाद् `ओमाङोश्च' इति पररूपम्, यथा---आ+ऊढा = ओढा, अद्य ओढा अद्योढा, कदोढेति । अत्रोताप्योः समर्थयोरिति यत्सप्तम्यन्तं तदवधित्वेनापादीयते, तत्र प्रकृतिवदनुकरणं भवतीत्यनुकरणस्याप्यप्रत्यय इति प्रतिषेधेनाप्रातिपदिकत्वादाङोऽपि योगे पञ्चम्यभावः । मर्यादायामाङिति । एतच्च विभाषा गर्हाप्रकृतौ प्रागुतापिभ्यामिति स्मरणादवसीयते । गर्हाप्रकृतौ गर्हाविशिष्टे प्रकृत्यर्थे । गर्हाग्रहणमनवक्लृप्त्यादेरपि लिङ्निमित्तस्योपलक्षणम् । `विभाषा कथमि लिङ्च' इति लिङ्निमित्ताभावादुत्तरसूत्रातिक्रमः ।।
गर्हायां लडपिजात्वोः ।। 3.3.142 ।।
कालसामनये न प्राप्नोतीति । विधीयते इत्यनेन भविष्यतीत्यादेः कालविशेषवाचिनो निवृत्तिं सूचयन् कालसामान्ये विधिरिति दर्शयति । कालविशेषविहितांश्चेत्यादि । भाष्ये त्वेष निर्णयः---`गर्हायां लड्विधानानर्थक्यम्, क्रियासमाप्तेरवविवक्षितत्वात् । ताच्छील्यप्रतिपादनेनात्र गर्हा, ततश्च यदनेन क्रियते तत्सर्वं वृषलयाजनार्थमिति सर्वदासौ वृषलं याजयन्नेव भवति, ततश्च क्रियायाः समाप्तिरविवक्षितेति `वर्तमाने लट्' इत्येव सिद्धः । यद्येवम्, शतृशानचावपि प्राप्नुतः, दृश्येते च शतृशानचावपि मां याजयन्तं पश्यत, अपि मां याजमानं पश्येति, प्रत्युत सूत्रारम्भे सत्यवर्त्तमानकालविहितत्वाल्लुटस्तौ न न प्राप्नुत इति दोषवानेन सूत्रारम्भः' इति ।।
विभाषा कथमि लिङ् च ।। 3.3.143 ।।
विभाषाग्रहणमित्यादि । स्वस्मिन् स्वस्मिन् काले ये लृडादयो विहितास्तेषां च बाधा मा भूदित्येवमर्थमित्यर्थः । यद्येवम्, विभाषाग्रहणादेव लडपि भविष्यति, नार्थश्चकारेण ? सत्यम्; वर्त्तमाने सिद्ध्यति, कालान्तरे तु न सिद्ध्यति तस्मात्तदर्थश्चकारेण लटः गमुच्चयः । अत्र लिङ्निमित्तमस्तीति । कथमीत्येतद्गर्हा च ।।
किंवृत्ते लिङ्लृटौ ।। 3.3.144 ।।
`किंवृत्ते लिप्सायाम्' इत्यत्र किंवृत्तं व्याख्यातम् । इह किंवृत्ते लृट् चेति वक्तव्यम्, चकारात्प्रकृतो लिङ् भविष्यति, नार्थो लिङ्ग्रहणेन ? तत्राह---लिङ्ग्रहणमिति । चकारेण लिङ इव लटोऽपि समुच्चयः स्यात्; तस्यापि प्रकृत्वात्, तस्मात् तन्निवृत्त्यर्थमिति भावः ।।
अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि ।। 3.3.145 ।।
अपिग्रहणं शक्यमकर्त्तुम्, कथम् ? यथा `उपकादिभ्योऽन्यरस्यामद्वन्द्वे' इत्यत्राद्वन्द्वग्रहणं द्वन्द्वाधिकारनिवृत्त्यर्थम्, तथेहाप्यकिंवृत्तग्रहणं किंवृत्ताधिकारनिवृत्त्यर्थम्, अस्मिन्नवृत्ते किंवृत्ते चाकिंवृत्ते च प्रत्ययद्वयं भविष्यति, तत्क्रियते विस्पष्टार्थम् । तथाऽकिंवृत्त इत्यपि विस्पष्टार्थमेव, अस्वरितत्वादेव `किंवृत्ते' इत्यस्याननुवृत्तेरविशेषेण प्रत्ययद्वयं भविष्यति । आह च---किंवृत्तस्यानधिकारादुत्तरत्राकिंवृत्तग्रहणानर्थक्यमिति । नु चाकिंवृत्तग्रहणेन किंवृत्तादन्यत्पदं पर्युदासाश्रयणेन गृह्यते, तस्योपपदसज्ञां वक्ष्यामीत्यकिंवृत्तग्रहणं स्यात् । किं पुनरुपपदसंज्ञायाः प्रयोजनम् ? समासः ? न; अतिङिति प्रतिषेधात् । यदा तर्हि लृटः सत्संज्ञकौ भवतस्तदा समासो यथा स्यात्, नास्य लृटः सत्संज्ञकौ भवतः, `लटः सद्वा' इत्यत्र भविष्यतीत्यधिकाराद्भविष्यतीत्येवं विहितस्य लृटो ग्रहणम् । अयं तु कालमात्रे विधानाद्यद्यपि भवति, तथापि भविष्यदधिकारविहितो न भवतीति नास्य शतृशानचौ भवतः ।।
किंकिलास्त्यर्थेषु लृट् ।। 3.3.146 ।।
समुदाय उपपदमिति । केवलस्य किंशब्दस्यानवक्लृप्त्यमर्षयोर्वृत्त्यसम्भवात् । लिङोऽपवाद इति । पूर्वेणाप्रप्तस्य । अस्तितामेत्यादि । भवत्कर्तृकं वृषलयाजनमस्तीत्यर्थः । उक्तं हि `पच्यादयः क्रिया भवतिक्रियायाः कर्त्र्यो भवन्ति' इति ।।
जातुयदोर्लिङ् ।। 3.3.147 ।।
लृटोऽपवाद इति । अनवक्लृप्त्यादिसूत्रेण लिङ्लृटोर्द्वयोरपि प्राप्तयोर्लिङेव यथा स्यात्, लृण्मा भूदित्यवमर्थ इत्यर्थः ।
यदायद्योरुपसङ्ख्यानमिति । सूत्रवत् लृटोऽपवादः ।।
यच्चयत्रयोः ।। 3.3.148 ।।
लृट एवापवाद इति । पूर्ववत्प्राप्तस्य । एवकारः पौनर्वचनिकः । योगविभाग उत्तरार्थ इति । उत्तरत्र यच्चयत्रयोरेवानुवृत्तिर्यथा स्यात्, जातुयदोर्माभूदिति । इहानवक्लृप्त्यमर्षौ द्वौ, यच्चयत्रयोरित्युपपदे अपि द्वे एव, ततश्च यथासङ्ख्यं प्राप्नोति ? तत्राह---यथासङ्ख्यमिह नेष्यते इति । पूर्ववल्लक्षणव्यभिचारचिह्नात् बह्वचः पूर्वनिपातात् ।।
गर्हायां च ।। 3.3.149 ।।
दरिद्रश्चेद्वृषलयाजनमपि युक्तं स्यात्, तत उक्तम्---ऋद्धइति । ऋद्धस्याप्युपभोगबाहुल्येन सम्भाव्येत, अत उक्तम्---वृद्ध इति । वृद्धस्यापि जातिमात्रब्राह्मणस्य युक्तं स्यात्, अत उक्तम्---सद्ब्राह्मण इति । सद्वंशजः सदाचारश्चेत्यर्थतो गर्हामर्ह इति ।।
शेषे लृजयदौ ।। 3.3.151 ।।
यच्चयत्राभ्यामिति । चित्रीकरणापेक्षस्तु शेषो न भवति, तस्येह स्वरितत्वेनाधिकारात् । आश्चर्यं यदि स भुञ्जीतेति । अत्रानवक्लृप्तिराश्चर्यं च द्वयं गम्यते, तत्राश्चर्यनिमित्ते लृटि प्रतिषिद्धे जातुयदोर्लिङ्विधाने यदायद्योरुपसङ्ख्यानमित्यनवक्लृप्तौ लिङ् । भाष्ये तु "सम्भावनार्थो यदिशब्दः प्रयुज्यते, ततश्च सम्भावनमत्र तात्पर्यार्थः, न चित्रीकरणम्; ततश्चायदाविति न वक्तव्यम्, लिङपि `सम्भावनेऽलम्' इत्यनेनैव" इत्युक्तम् । यदाह---चित्रीकरणे यदिप्रतिपेधानर्थक्यमर्थान्यत्वादिति ।।
उताप्योः समर्थयोर्लिङ् ।। 3.3.152 ।।
समर्थयोरिति । सूत्रे समशब्दस्य निपातनाद् `अतोलोपः' शकन्ध्वादित्वाद्वा पररूपत्वम् । संशब्द एव वा वृत्तौ समशब्देन समानार्थः, यथा---`प्रोपाभ्यां समर्थाभ्याम्', यथा---मुखसंमुखस्येत्यत्रेति भावः ।
प्रश्नः प्रच्छादनं च गम्यत इति । आद्ये प्रश्नो गम्यते, द्वितीये प्रच्छादनम् । ननु चापिशब्दोऽपि प्रश्ने दृष्टः---`अप्यग्रणीर्मन्त्रकृतृमृषीणाम्' अपि प्रसन्नं हरिणेषु ते मनः' इति ततश्च प्रश्नेऽपि समानार्थत्वमनयोरिति उत दण्जः पतिष्यतीति प्रत्युदाहरणानुपपत्तिः ? एवं मन्यते---अप्यग्रणीरित्यादौ प्रष्टव्यमर्थान्तरमपेक्ष्य समुच्चयार्थ एवापिशब्दः, प्रश्नस्त्वर्थः प्रकरणादिना गम्यते; तेन नानयोः प्रश्ने समानार्थत्वमिति ।।
कामप्रवेदनेऽकच्चिति ।। 3.3.153 ।।
स्वाभिप्रायाविष्करणं कामप्रवेदनमिति । एतदेवावयवार्थप्रकाशनेनोपपादययति---काम इच्छेति ।
माराविद त्वां पृच्छामीति । माराविशब्दं ददातीति माराविदः, मारावि रवो माकारीत्यर्थः । संज्ञैषा शुकविशेषस्य, तं हस्ते निधाय कश्चिल्लालयति । पार्वत्यपि शुकस्यैव काचिदिष्टा । प्रायेण तु मातापितरौ पृच्छामीति पाठः, तत्र तदुपक्रमं वाक्यम्---मातापितरौ पृच्छामि । किमत्र पृच्छ्यते ? कच्चिज्जीवति ते मातेति ।।
संम्भावनेऽलमिति चेत्सिद्धाप्रयोगे ।। 3.3.154 ।।
योग्यताध्यवसानमिति । योग्यताया निश्चयः । एतदेव स्फोरयति---शक्तिश्रद्धानमिति । शक्तिः= सामर्थ्यम्, श्रद्धीयते विषयीक्रियते येन ज्ञानेन तत्तथोक्तं तदिति । सम्भावनपर्याप्त्येत्येतेन पर्याप्ताविहालंशब्दः, न भूषणादावित्याह---यद्येवं सम्भावन इति । सप्तम्यन्तस्य कथमलमिति चेदित्येद्विशेषणमुपपद्यत इत्याशङ्क्य विपरिणामेन व्याचष्टे---तच्चेत्सम्भावनमिति । सम्भावनमलमिति चावर्तते---सम्भावने लिङ् भवति तच्चेत्सम्भावनमलमात्मकं भवतीति । एवं पर्यवसानेनालमा सम्बन्धः, अतोऽत्रेतिशब्दो न सम्बन्धनीयः । ततोऽलमित्यस्मिन् सिद्धाप्रयोगे सतीत्यन्वयः । अत्र चेच्छब्दो न सम्बन्धनीयः; सप्तम्यन्तेन सम्बन्धासम्भवात् । वृत्तौ तु वस्तुमात्रं दर्शितम्---सिद्धश्चेदलमोऽप्रयोग इति, न पुनरत्र चेच्छब्दस्यान्वयः । पर्याप्तमिति । स्वकार्यनिर्वर्त्तने समर्थम्, स्वकार्यं पुनस्तस्याविपरीतमविषयपरिच्छेदः, तद्दर्शयति---अवितथमिति । अतथाभूतार्थविषयत्वं ज्ञानस्य वैतथ्यम्, यथा---शुक्तिकायां रजतज्ञानस्य; तद्विपरीतमवितथम्, तथाभूतार्थविषयमित्यर्थः । तदीदृशसम्भावनोपाधिक इति । तदिति वाक्योपन्यासे ईदृशमलमर्थविशिष्टं सम्भावनमुपाधिर्यस्येति त्रिपदो बहुव्रीहिः । क्वचित्तुईदृशे सम्भावनोपाधक इत्यसमासः पठ्यते, तत्रेदृश इति न सङ्गच्छते; न हि धात्वर्थस्य किञ्चिद्रूपं प्राङ्निदर्शितं यदीदृशमित्युच्येत । सर्वलकाराणमपवाद इति । सम्भावनस्य भविष्यद्विषयत्वाद्भविष्यद्विषयाणां सर्वलकाराणामित्यर्थः । अपि पर्वतं शिरसा भिन्द्यादिति । अत्र यत्पर्वतभेदविषयं सामर्थ्यं पुंसः सम्भाव्यते तद्यस्य भीमसेनादेर्विद्यत एव, तत्र सम्भावनमवितथमिति तद्विषयमुदाहरणम् । अपि द्रोणपाक भुञ्जीतेति । यत्पक्वस्य भोजनं तदेव पाकस्य भोजनम्, कर्मसाधनो वा पाकशब्दः । विदेशस्थायी=देशान्तरगतः । प्रायेणगमिष्यतीति । प्रायिकस्वदक्षिणाक्षिस्पन्दनादेर्लिङ्गाभासादागमनं सम्भाव्य तत एतत्प्रयुज्यते, तत्तथ्यमपि भवति, विपरीतमपि भवति । अलं देवदत्त इति । पर्याप्तं हनिष्यतीत्यर्थः । भाविविषयत्वात् सम्भावनस्य सर्वत्र लृट् प्रत्युदाहृतः ।
अपरा व्याख्या---सम्भावनं भाविवस्तूत्प्रेक्षणम्, असति विरुद्धप्रत्ययोपनिपाते भवितव्यमनेनेति ज्ञानम्, यथा प्रत्युदाहरणे---प्रायेणागमिष्यतीति, तस्य विशेषणमलमिति चेदिति, अलमिति चेत् तत्सम्भावनमिति विपरिणामेनान्वयः । तत्र यथा घट इति ज्ञानं पट इति ज्ञानमित्युक्ते ज्ञानस्य विषयनिर्देशः प्रतीयते, तथेहापि सम्भावनाख्यस्य ज्ञानस्य विषयनिर्देशोऽयमलमिति चेत् तत्सम्भावनमलमर्थविषयं चेदित्यर्थः । अलमर्थश्च पर्याप्तिर्न भूषणादिः, धातोश्च प्रत्ययविधानात्तदर्थगोचरमेव सामर्थ्यं गृह्यते । इमं धात्वर्थमनुष्ठातुं समर्थ इत्येवं रूपं चेत् तत्सम्भावनमित्यर्थः । सिद्धाप्रयोगे कस्मिन् सन्निधानादलंशब्दः । एवं तावत्सूत्राक्षराणां निर्वाहः । वृत्तेस्तु---यत्क्रियासु योग्यताध्यवसानमिति तदिह सूत्रे जिघृक्षितस्य सम्भावनस्य लक्षणं न सम्भवनमात्रस्य; अन्यथा प्रत्युदाहरणमनुपपन्नं स्यात्, न हि तत्र शक्तिश्चद्धानं गम्यते । कथं पुनरत्रेदृशं सम्भावनं गृह्यत इत्यत्राह---तदिदानीमिति । तत्खलु सम्भावनमेतत्सूत्रप्रणयनकालेऽस्मिन्सूत्र इत्यर्थः । अलमर्थेन विषयेणाविशेष्यते अलमिति चेत् सम्भावनमिति, पर्याप्तिमिति । पर्याप्तिमिति । पर्याप्तिरलमर्थः, न भूषणादिरित्यर्थः । विपरिणामेनान्वयं दर्शयति---तच्चेत्सम्भावनमिति । पर्याप्तिविषयत्वात् पर्याप्तम्, अवितथविषयत्वात् अवितथम्, एतद्धात्वर्थानुष्ठाने पर्याप्तो वितथारम्भोऽयमस्मिन् धात्वर्थ इत्येवंरूपं चेत्सम्भावनमित्यर्थः । अपि पर्वतं शिरसाभिन्द्यादिति । एवं नामायं बलवानित्यर्थः, पर्वतं तु भिनत्तु मा वा भिदत् ।।
विभाषा धातौ सम्भावनवचनेऽयदि ।। 3.3.155 ।।
सम्भावयामि भुञ्जीत भवानिति । भोजने भवांश्छक्त इत्युत्प्रेक्ष इत्यर्थः ।।
हेतुहेतुमतोर्लिङ् ।। 3.3.156 ।।
भविष्यति च काल इति । इष्यत इत्यपेक्ष्यते । कथं पुनरेतद् द्वयं सूत्रेऽनुपात्तमेव लभ्यते ? इत्याह---तत्रेति । लिङिति वर्त्तमाने इति । `उताप्योः' इत्यादेः सूत्रात् । हन्तीति पलायत इति । अत्र हननं हेतुः, पलायनं हेतुमत् । वर्षणं हेतुः, सरणं हेतुमत् । पलायत इति । `उपसर्गस्यायतौ' इति लत्वम् । अत्र `लक्षणहेत्वोः क्रियायाः' इति शत्रादेशोऽपि न भवति, `हतियोगे च सद्विधिः' इति व्यवस्थितविभाषासु पठितत्वात् ।।
इच्छार्थेषु लिङ्लोटौ ।। 3.3.157 ।।
कामप्रवेदन इति वक्तव्यमिति । `कामप्रवेदनेऽकच्चिति इत्ययं तर्हि योगः किमर्थः, यावता कामो मे भुञ्जीत भवान्, अभिलाषो मे भुञ्जीत भवानित्यत्राप्यनेनैव सिद्धम् ? यत्रेच्छार्थमुपपदं न भवति, अर्थप्रकरणादिना तु कामप्रवेदनं गम्यते, तत्रापि लिङ् यथा स्यात् । इदं तर्हि किमर्थम् ? लोर्ड्थम्, लिङ्ग्रहणं तु लोटा बाधा मा भूदिति । एवमपि `लेट् च' इति वक्तव्ये किं लिङ्ग्रहणेन ? प्रकृतं लिङ्ग्रहणं विभाषासम्बन्धम्, अतस्तदनुकर्षणे विभाषाग्रहणस्याप्यनुकर्षणं सम्भाव्येत ।।
समानकर्तृकेषु तुमुन् ।। 3.3.158 ।।
तुमुन्प्रकृत्यपेक्षमिति । तुमुन्प्रकृतौ यः कर्त्ता स चेदिच्छार्थेष्वपि भवतीति, एतच्च सान्निध्याल्लभ्यते । इच्छति भोक्तुमिति । आत्मनो भोजनमिच्छतीत्यर्थः । य एवेषेः कर्त्ता स एव भुजेरपीत्यस्तीह समानकर्तृकत्वम् । इच्छाया भुजिक्रियां प्रति तादर्थ्यस्याप्रतीतेः `तुमुन्ण्वुलौ' इत्यादिना तुमुन् न सिद्ध्यतीत्ययमारम्भः । अथापि कथञ्चित्तादर्थ्यं स्यात्, एवमपि समानकर्तृकेष्विति वक्ष्यामीत्यायमारम्भः, तेन देवदत्तेन भोक्तुमिच्छति यज्ञदत्त इति न भवति । इच्छन्करोतीति । अत्रार्थे इच्छन्कर्तुमिति न भवतीत्यर्थः । इच्छन्कर्तुं गच्छतीत्यादौ `तुमुन्ण्वुलौ' इत्यादिना तुमुन् । ननु भावे तुमुन् विधीयते, तत्कथमिच्छन्करोतीत्यत्र कर्त्तरि प्रसङ्गः ? एवमपीच्छता क्रियते इत्यत्र प्रसङ्गादनभिधानमेवाश्रयणीयम् ।।
लिङ् च ।। 3.3.159 ।।
किमर्थमिदमुच्यते ? लिङ् यथा स्यात् । सिद्धोऽत्र लिङ् `इच्छार्थेषु लिङ्लोटौ' इति ? तस्य समानकर्तृकेषु तुमुन् बाधकः प्राप्तः । वासरूपविधिश्च क्तल्युट्तुमुन्खलर्थेषु प्रतिषिद्धस्तत्र यथा लोण्न भवति एवं लिङपि नस्यात् । अथापि वासरूपविधिः स्याद् ? एवमपि लिङेव यथा स्याल्लोण्माभूदित्येवमर्थमेतदारब्धव्यमेव ।।
इच्छार्थेभ्यो विभाषा वर्तमाने ।। 3.3.160 ।।
अश्यादिति । `वश कान्तौ' अदादिः ग्रहिव्यादिना सम्प्रसारणम् ।।
विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ।। 3.3.161 ।।
विधिः प्रेरणमिति । भृत्यादेर्निकृष्टस्य क्वचित्प्रवर्तनमाज्ञापनमित्यर्थः । नियोगतोऽवश्यम्भावेन यत्करणमनुष्ठानं तन्निमन्त्रणम्, स निमन्त्रणस्य विषय इत्यर्थः । अवश्यकर्त्तव्ये, श्राद्धभोजनादौ दौहित्रादेः प्रवर्त्तनेति यावत्, श्राद्धे हि निमन्त्रितो दौहित्रादिरभुञ्जानः प्रत्यवैति । कामचारकरणमिति । कामचार इच्छाप्रवृत्तिस्तया यत्करणमनुष्ठानं तदामन्त्रणम्, तद्विषयमामन्त्रणमित्यर्थः । यत्राननुष्ठानेऽपि न प्रत्यवायस्तत्र प्रवर्त्तनेति यावत् । कल्याणादौ ह्यामन्त्रितोऽभुञ्जानोऽपि न प्रत्यवैति । अधीष्टमिति । अधिपूर्वादिच्छतेर्नपुंसके भावे क्तः । पुंल्लिङ्गेन पाठस्त्वयुक्तः । सत्कारपूर्वको व्यापार इति । गुर्वादेरारीध्यस्य व्यापारणेत्यर्थः, ण्यन्तादेरच् । इदं वा कर्त्तव्यमिदं वा कर्त्तव्यमित्येव भूतविचारणासम्प्रधारणम् । यथेदमिह सम्प्रधार्यते इति याच्ञा प्रसिद्धा ।
न्यायव्युत्पादनार्थं च प्रपञ्चार्थमथापि वा ।
विध्यादीनामुपदानं चतुर्णामपदितः कृतम् ।।
अस्ति प्रवर्तनारूपमनुस्यूतं चतुर्ष्वपि ।
तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया ।।
अयं विध्यादिः प्रकृत्यर्थः, प्रत्ययार्थः, प्रकृत्यथेविशेषणम्, प्रत्ययार्थविशेषणं वेति चत्वारः पक्षाः । तत्राद्ये पक्षे विध्यादिषु वत्तमानाद्धातोरित्यर्थः स्यात्, ततश्च यत्र प्रकृतिरेव विध्यादीनाचष्टे तत्रैव स्यात्---विदध्यान्निमन्त्रयेत, आमन्त्रयेत, अधीच्छेत्, संप्रच्छेत्, प्रार्थयेतेति; तत्रापि प्रकृत्यर्था भावकर्मकर्त्तारश्चेत्येतावदगम्येत, न प्रकृत्यर्थव्यतिरेकेणापरं विध्यादिकम् । यथा चेच्छार्थेभ्यः `विभाषा वर्त्तमाने' इत्यत्र लिङि इच्छेदिति लडादयश्च न स्युः; अनेन लिङा बाधितत्वात् । द्वितीये नाप्राप्तेपु भावकर्मकर्तृपु विध्यादयोऽर्था निद्दश्यमानास्तेषां बाधकाः स्युरिति लिङा कर्त्रादीनामभिधानं न स्यात्, द्विवचनबहुवचनानुपपत्तिश्च, विध्यादीनामेकत्वात् । तृतीये तु यत्र प्रकृतिरेव विध्यादीनाचष्टे तत्र न स्यात्---विदध्यान्निमन्त्रयेतेति, न ह्यत्र प्रकृत्यर्थादन्ये तद्विशेषणभूता विध्यादयः सन्ति । चतुर्थे तु विध्यादीनां कर्त्रादीनां च स्पष्ट एव भेद इति दोषाभाव इति तमेवाश्रयति---विध्यादयश्चैत इति । विध्यादिविशिष्टेष्विति । विध्यादयः प्रवर्त्तनाविशेषास्तैर्विशिष्टेषु प्रवतितेष्वित्यर्थः । सम्प्रश्नप्रार्थनयोस्तु सम्पृच्छ्यमाने प्रार्थ्यमाने च कर्त्तरि । ननु च प्रकृत्या योऽर्थो नाभिधीयते तत्रैव प्रत्ययेन भाव्यम्, न तु प्रकृत्याभिहिते; `उक्तार्थानामप्रयोगः' इति न्यायात्, ततश्चास्मिन्नपि पक्षे विदध्यादित्यादौ तदवस्थ एवाप्रसङ्गः ? एवं तर्हि सन्त्येवात्र व्यतिरिक्ता विध्यादयो विषयभेदात्, तथा हि---श्राद्धे मां निमन्त्रयेत भवानिति मत्कर्मकं निमन्त्रणं तवानुष्ठेयमित्यर्थः, तत्र प्रकृत्यभिहितं निमन्त्रणं भोजनविषयम्, लिङभिहितं तु निमन्त्रणविषयमिति विस्पष्ट एव निमन्त्रणभेदः । यथैषितुमिच्छतीति कालसाधनभेदादिच्छयोर्भेदाश्रयो योगस्तद्वत् । एवं विध्यादिष्वपि द्रष्टव्यम् । एवं च कृत्वा प्रकृत्यर्थविशेषणपक्षेऽपि नातीव दोषः । आमन्त्रणे इह भवान् भुञ्जीतेति । यदीच्छतीत्यर्थः । अध्येप्यामह इत्यपपाठोऽयम्; न हीच्छतेरेतद्रूपं सम्भवति, इष्यतिरपि परस्मैपदी, गुणश्च श्यनि दुर्लभः; इङश्चात्रार्थो नास्ति, सूत्रे चाधीष्टेति इङ् न प्रयुक्तः, तस्मादधीच्छाम इति पाठः । उपनयेतेति । आचार्यकरण आत्मनेपदम् ।।
लोट् च ।। 3.3.162 ।।
योगविभाग उत्तरार्थ इति । उत्तरत्र लोट एवानुवृत्तिर्यथा स्याल्लिङो मा भूदिति । अध्ययै इति । इट्, उत्तमैकवचनम्, टेरेत्वम्, `एत ऐ', `आहुत्तमस्य पिच्च' इत्याडागमः, `आटश्च' इति वृद्धिः, प्रकृतेर्गुणायादेशौ ।।
प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ।। 3.3.163 ।।
कृत्य इति । `विभाषा कृवृषोः' इति क्यप् । भवान् हि प्रेषित इत्यादिर्वाक्यशेषः सर्वेष्वेवोदाहरणेषु योज्यः ।
न सामान्येनेति । भावकर्मणोरित्युपलक्षणम्; भव्यगेयादीनां कर्त्तर्यपि भावात् । एवं तर्ह्येतज्ज्ञापयतीति । `प्रैषादिष्वेव कृत्या भवन्ति नान्यत्र' इति नियमार्थं चैतन्न भवति, अनिष्टत्वात् । अन्यत्रापिकृत्यादृश्यन्ते---तृणेनशोष्यम्, बुधेन बोध्यमिति, अग्निस्तोकं तृणेन दीपनीय इति । वस्तुस्वरूपकथनमेतत्, न त्वत्र प्रैषादिप्रतीतिः । अधिकारात्परेणेति । एनपा योगे पञ्चमी मृग्या । नावश्यमिति । क्वचिद्भवति, क्वचिन्नेत्यर्थः ।
को विशेष इति । विधिः प्रेरणमिति पूर्वत्र व्याख्यातत्वात् नास्त्येव भेद इति प्रश्नः । यद्यविशेषः, कथं द्वन्द्वनिर्देश इति चेत् ? शब्दरूपस्याभिधेयत्वात् । `को विशेषः' इति कोऽनयोः शब्दयोविशेषोऽभिधेय इत्यर्थः । केचिदिति । एवमामन्त्रणातिसर्गयोरपि विशेषो ज्ञेयः । केचिदिति वचनादपरेऽनयोर्विसेषं नेच्छन्तीत्युक्तं भवति । तेषामपि प्रैषातिसर्गग्रहणं कर्त्तव्यमेव, तत्रैव कृत्या यथा स्युरिति । `प्राप्तकाले च' इति ह्युक्ते निमन्त्रणादावपि कृत्याः स्युः । चकारेण लोडप्यनुकर्षणीयः---प्राप्तकाले यथा स्यादिति ।।
लिङ् चोर्ध्वमौहूर्तिके ।। 3.3.164 ।।
चकाराद्यथाप्राप्तं चेति । लोट्, कृत्याश्च ।।
स्मे लोट् ।। 3.3.165 ।।
लिङ्कृत्यानामपवाद इति । अनन्तरसूत्रेण प्राप्तानाम् । करोतुस्मेति । स्मशब्दोऽधिकारं सूचयति---भवानत्राधिकृत इत्यर्थः ।।
अधीष्टे च ।। 3.3.166 ।।
अङ्ग स्म राजन्निति । अङ्गशब्दोऽनुनये । ब्राह्मणानामेवाध्यापनं वृत्तिरतो राजन्नित्यभ्यर्हितेत्यर्थः ।।
कालसमयवेलासु तुमुन् ।। 3.3.167 ।।
प्रैषादिग्रहणं सम्बद्ध्यते इति । न चेह प्रैषादयो गम्यन्त इति भावः । इह कस्मादिति । कालो भोजनस्येति । तस्माद्भुङ्क्तां भवानिति वाक्यार्थः, तेन गम्यतेऽत्र प्रैष इति प्रश्नः । वासरूपविधिनेति । ननु प्रैषादिषु कृत्यविधानात् स्त्र्यधिकारात्परेण वासरूपविधिरनास्तीति ज्ञापितम् ? तत्राह---उक्तमिति । अनित्यत्वमेव तत्र ज्ञापितं न सर्वथाभाव इत्यर्थः । पर्यायोपादानं पर्यायान्तरविवृत्त्यर्थम् । अन्ये त्वाहुः---अवसरो भोक्तुमित्यादावपि तुमुन् दृश्यते, `व्युपयोः शेतेः' इत्यत्र राजानमुपशयितुं पर्याय इति प्रयुक्तोवृत्तिकारेण । तस्मादर्थग्रहणार्थं पर्यायोपादानम्, यथा---`निमित्तकारणहेतुषु' इत्यत्रेति ।।
लिङ् यदि ।। 3.3.168 ।।
तुमुनोऽपवाद इति । कर्तृकर्मणोः सावकाशोऽपि लिङ् प्रतिपदविधेर्बलीयस्त्वात्परत्वाच्च भावे तुमुनो बाधक इत्यर्थः ।।
अर्हे कृत्यतृचश्च ।। 3.3.169 ।।
अर्हतीत्यर्ह इति । पचाद्यच् । तद्योग्य इति । तच्छब्देन धात्वर्थः परामृश्यते । अर्हे कर्त्तरि गम्यमान इति । क्वचिद्वाच्ये, क्वचिद्गम्यमान इत्युभयथानुग्रहाय गम्यमान इत्युक्तम् । क्वचिद् वाच्ये गम्यमाने वेति पाठः, तत्र यथासम्भवमित्यन्वयः । तत्र तृच् अजर्यकुप्यादिषु, कृत्याश्च वाच्यत्वे भवन्ति; लिङ् भव्यगेयादिषु, कृत्याश्चोभयत्र भवन्ति । अथ कस्मात् `कृत्यतृचौ' इति सूत्रे कृत्यभेदविवक्षया बहुवचनम्, इह तु सामान्यविवक्षया द्विवचनम् ? क्वचित्तु वृत्तावपि बहुवचनमेव पठ्यते । तेन बाधा मा भूदिति । वासरूपविधिश्च नावश्यं भवतीत्यनन्तरमेवोक्तम् ।।
आवश्यकाधमर्ण्ययोर्णिनिः ।। 3.3.170 ।।
अवश्यं भाव आवश्यकमिति । मनोज्ञादित्वाद् वुञ्, अव्ययानां भमात्रे टिलोपः । उपाधिरिति । प्रत्ययार्थविशेषणमित्यर्थः । नोपपदमिति । `शीतोष्णाभ्यां कारिणि', `सेनान्तलक्षणकारिभ्यस्च' इति निर्देशात् । उपपदत्वे हि केवलाण्णिनिर्न स्यात्, तत्साहचर्यादाधमर्ण्यमप्युपाधिरेव, नोपपदम् । शतं दायीति । `अकेनोर्भविष्यदाधमर्ण्ययोः' इति षष्टीप्रतिषेधाद् द्वितीयैव भवति ।।
कृत्यश्च ।। 3.3.171 ।।
भव्यगेयादयः कर्तृवाचकाः कृत्या इति । भव्यगेयादिष्ववयत्वेन स्थिताः कृत्या इत्यर्थः । आदिशब्देन न भव्यगेयादिसूत्रनिर्द्दिष्टानामेव ग्रहणम्, किं तर्हि ? अजर्यरुच्यकुप्यकृष्टपच्याव्यथ्याव्यथ्यादीनामपि ग्रहणम् । योगविभाग उत्तराथेः ।।
शकि लिङ् च ।। 3.3.172 ।।
प्रकृत्यर्थविशेषणमिति । नोपपदम्, `क्षय्यजय्यौ शक्यार्थे' इति लिङ्गात्, उपपदत्वे हि केवलौ क्षय्यजय्यौ शक्यार्थे न सम्भवतः । भवान्खलु शक्त इति वाक्यशेषः सर्वेषु योज्यः । लिङा बाधा मा भूदिति । स्त्रियाः परेण वासरूपविधेरनित्यत्वाल्लिङा बाधाशङ्का । `पराजेसोढः' इत्यत्रासोढो योऽर्थः----सोढुं न शक्यत इति । शक्यार्थे क्तप्रत्ययो व्याख्यातः स `कृत्यल्युटो बहुलम्' इति वा, वासरूपविधिना वा समर्थनीयः ।।
आशिषि लिङ्लोटौ ।। 3.3.173 ।।
आशीर्विशष्ट इत्याशास्यमान इत्यर्थः । विध्यादिसूत्र एवाशीर्ग्रहणं न कृतम्, `स्मे लोट्' इत्यादिविषयेऽपि परत्वादेष विधिर्यथा स्यादिति । अवश्यं चोत्तरार्थमिहाशीर्ग्रहणं कर्त्तव्यम् ।।
क्तिच्क्तौ च संज्ञायाम् ।। 3.3.174 ।।
तन्तिरिति । `अनुदात्तोपदेश' इत्यादिनानुनासिकलोपः प्रापनोति, `अनुनासिकस्य क्विझलोः क्ङिति' इति दीर्घत्वं च, तदुभयमपि न भवति; `न क्तिचि दीर्घश्च' इति प्रतिषेधात् । सातिरिति । सनः क्तिचि `लोपश्चास्यान्यतरस्याम्' इत्यात्वम् । क्तिचश्चकारश्चिन्त्यप्रयोजनः; `न क्तिचि दीर्घश्च' इत्यत्र एकानुबन्धकपरिभाषया क्तिनो निवृत्तेः सिद्धत्वात् ।।
स्मोत्तरे लङ् च ।। 3.3.175 ।।
अत्रोत्तरशब्द आदिक्यवचनो न दिग्वचनः, तेन पूर्वभूतेऽपि स्मशब्दे भवति, तद्दर्शितम्---स्मशब्दसहित इति ।।
इति श्रीहरदत्तमिश्रविरचितायां पदमञ्जर्यां तृतीयाध्यायस्य तृतीयः पादः ।।
*******************------------------