काशिका (पदमञ्जरीव्याख्यासहिता)/प्रथमोऽध्यायः/चतुर्थः पादः

← तृतीयः पादः काशिका (पदमञ्जरीव्याख्यासहिता)
चतुर्थः पादः
[[लेखकः :|]]

अथ प्रथमाध्याये चतुर्थः पादः
पदमञ्जरी
आ कडारादेका संझा।। 1.4.1 ।।
आ कडारादेका संज्ञा।। आङ्मर्यादाभिविध्योरिति। समासस्य विकल्पितत्वाद्। `आकडारात्' इति निर्देशः, समासे त्वाकडारमिति स्यात्। इह द्वौ कडारशब्दौ भवतः-`प्राक्कडारात् समासः', `कडाराः कर्मधारये' इति च, तत्र कोऽवधिरित्यत आह-`कडाराः कर्मधारये' इति वक्ष्यतीति। कुतः पुनरेतत्? स्वातन्त्र्यात्। स्वतन्त्रो ह्यसौ प्रथमानिर्देशेन स्वयं कार्ययोगित्वात्। प्राक्कडारादित्ययं तु परतन्त्रोऽवधित्वेन स्वयं कार्ययोगित्वाभावाद्,व्याप्तेश्च न्यायाद्। एवं हि भूयसामनुग्रहो भवति। लिङ्गच्च, यदयं `तत्पुरुषः' `द्विगुश्च' इति द्विगोस्तत्पुरुषसंज्ञां शास्ति, तज् ज्ञापयति-अनुवर्त्तते द्वितीयेऽप्येकसंज्ञाधिकार इति; अन्यथा `दिक्सङ्ख्ये संज्ञायाम्' इत्यत्र तत्पुरुषाधिकारादेव समावेशसिद्धेस्तदर्थो यत्नोऽपार्थकः स्यात्। किमर्थ, पुनरियानवधिरुपादीयते, न आ द्वन्द्वात् इत्येवोच्येत, न हि `चार्थे द्वन्द्वः' इत्यतः परत्रास्योपयोगः? उच्यते; `द्वन्द्वश्च प्राणितूर्य' इत्ययमप्यवधिः सम्भाव्यते, ततश्च सम्बुद्धिसंज्ञामन्त्रितसंज्ञयोः समावेशो न स्यात्।
का पुनरसाविति। एका संज्ञा भवतीत्येतावत् सूत्रव्यापारः, तत्र विशेषादर्शनात् प्रश्नः। `या परानवकाशा च' इति वचनाद् न्यायाच्च व्यवस्थेति भावः। ननु यद्यारब्धेऽप्यस्मिन् परत्वानवकाशत्वाभ्यामेव व्यवस्था वाच्या, अनारब्धेऽप्यस्मिन् आभ्यामेव व्यावस्था भविष्यति,नार्थ एतेन ? तत्राह-अन्यत्रेति। अयम्भावः- यत्र प्रयोजनमेकं भवति, सहानवस्थानलक्षणे वा विरोधः, तत्रैवानवकाशः सावकाशं बाधते, यथा-नैवारश्चरुर्नखावपूतानामिति, नखावपनेन वैतुष्यफलकेन तत्फलकोऽघातो बाध्यते। अष्टाश्रियूपः कर्त्तव्यः, वाजपेयस्य तु चतुरश्र इति, अष्टाश्रित्वचतुरश्रत्वयोर्विरोधात् बाध्यबाधकभावः। विप्रतिषेधोऽपि विरोधात्मकत्वात्तत्रैव भवति, तद्यथा-कृत्कृत्यप्रत्यसंज्ञानां तद्धिततद्राजप्रत्ययसंज्ञानां च। सति त्वस्मिन् सूत्रे एकस्यैकैवेति नियमाद्विरोधो जायते, विरोधे च सति परत्वानवकाशत्वाभ्यां व्यवस्था शक्यते वक्तुमिति, तत्रानवकाशाया उदाहरणमाह-वक्ष्यतीति। शिक्षा, मिक्षेति। `गुरोश्च हलः' इत्यकारप्रत्ययः। यद्यप्यत्र समावेशेऽपि न कश्चिद्दोष, तथापि वस्तुतः समावेशो नास्तीस्येतावता इदमुदासमावेशेऽपि न कश्चिद्दोषः, तथापि वस्तुतः समावेशो नास्तीत्येतावता इदमुदाहरणम्। सम्प्रति यत्र समावेशे सति दोषः, तद्दर्शयति-अततक्षदिति। परस्यास्तूदाहरणम्-धनुषा विध्यतीति, शराणामपायं प्रत्यवधिभूतस्यैव धनुषो व्यधनं प्रति साधकतमत्वमित्युभयप्रसङ्गे परत्वात्करणसंज्ञापादानसञ्ज्ञां बाधते। तथा `कास्यपात्र्यां भुङ्क्ते' इत्यधिकरणसञ्ज्ञा, धनुर्विध्यतीति कर्तृसंज्ञा। उक्तं च-अपादानमुत्तराणीति। इह गार्ग्यो धानुष्क इति अनवकाशाभ्यां भपदसंज्ञाभ्यामङ्गसंज्ञाया धातुप्रत्ययेषु सावकाशाया बाधः प्राप्नोति? ज्ञाप कात्सिद्धम्, यदयम्`सुपि च',बहुवचने झल्येत्',`तद्धितेष्वचामादेः' इति स्वादिषु तद्धितेषु चाङ्गस्य सतः कार्यं शास्ति, तज् ज्ञापयति-समाविशत्यसंज्ञा भपद संज्ञाभ्यामिति। द्वये हि स्वादयः-यजादयो हलादयश्च; तत्र यजादषु भसंज्ञा, हलादिषु पदसंज्ञेति अङ्गस्य सतः कार्यविधानमनुपपन्नं स्यात्। गुरुलघुसंज्ञे वर्णमात्रस्य विधीयेते, नदीघिसंज्ञे तु तदन्तस्येति ताभ्यां समाविशतः, तद्यथा-वात्सीबन्धुरिति। `नदी बन्धुनि' इति पूर्वपदान्तोदात्तत्वं वात्सीबन्धो इति `गुरोरनृतः' इति प्लुतश्च भवति। विश्च ना च विनरौ, `द्वन्द्वे घि' इति पूर्वनिपातः, विन्नोर्भावो वैन्नम् `इगन्ताच्च लघुपूर्वात्' इत्यण्,विनरावचष्टे इति विनयति, प्रविनय्य गतः `ल्यपि लघुपूर्वात्' इत्ययादेशो भवति।
भाष्ये त्विष्टविषये समावेशो न्यासान्तरेण साधितः- प्राक्कडारात् परं कार्यमिति। तत्रायमर्थः- प्राक्कडारात् संज्ञाख्यं कारयं परं भवतीति संज्ञाप्रकरणात् संज्ञैवात्र कार्यमित्युच्यते, परा संज्ञेत्येव तु नोक्तम्,`विप्रतिषेधे वा' इति वक्ष्यति, तत्र परं कार्यमित्यनुवृत्तिर्यथा स्यादिति तत्र यस्याः संज्ञायाः परस्याः पूर्वयाऽनकाशया बाधः प्राप्तः, सा परा भवतीति विधिरूपेणास्य प्रवृत्तिः। नन्वनकाशयापिपूर्वया नैव परस्या बाधः प्राप्नोति; विरोधाभावात्, विरोधाभावात्, फलैक्याभावाच्च, संज्ञानामन्यत्र समावेशस्य द्दष्टत्वात्, सत्यम्; एतदेव ज्ञापयति--भवत्यत्र प्रकरणे संज्ञानां बाध्यबाधकभाव इति। तेन परयानवकाशया पूर्वा बाध्यते, द्वयोश्च सावकाशयोर्विप्रतिषेधे परमिति परैव भवतीति। नियमफलस्यापि सिद्धिरस्ति न्यासेऽङ्गसंज्ञा परा कार्या, पूर्वे न भपदसंज्ञे। एवं सर्वत्र यत्र समावेश इष्टोऽस्मिन्पक्षे-`ऋतोरण्',`छन्दसि घस्',ऋत्विय इति, अत्र`सिति च' इति-पदसंज्ञाविषये परं कार्यमिति वचनाद् भसंज्ञापि स्यात्। ततश्च `ओर्गुणः' प्राप्रोति, सित्करणं पदत्वे सति अवग्रहार्थं स्यात्। `शेषो बहुव्रीहिः' इत्यत्र च शेषग्रहणं कर्त्तव्यम्, अन्यथा `अन्यपदार्थे च संज्ञायाम्' इति अव्ययीभावसंज्ञैव बाधिकेति शेषग्रहणमनर्थकम्। तदेवं शेषग्रहणमेव प्रमाणम्--न्यासान्तरमपि सूत्रकारस्यवाभिमतमिति।।
पदमञ्जरी
विप्रतिषेधे परं कार्यम्।। 1.4.2 ।।
विप्रतिषेध इति। `षिधु शास्त्रे',`षिधु गत्याम्' इति भौवादिकयोरन्यतरस्य रूपम्, तस्य हि `सेधसिचसञ्जस्वञ्जाम्' इति षत्वमिति। उपसर्गवशाच्च विरोधार्थत्वम्। धातुनां ह्युपसर्गवशादन्यश्चार्थ उपजायते,तद्यथा--प्रहारः, उपहारः, अनुहारः, संहार इति। `षिधू संराद्धौ' इत्यस्य तु दैवादिकस्य षत्वं नास्ति, `सेधषिच' इति शपा निर्देशात्। `आदेशप्रत्यययोः' इति विहितस्य तु `सात्पदाद्योः' इति निषेधः। ननु `गतिकारकोपपदानां कृद्भिः सह सामासवचनं प्राक् सुबुत्पत्तेः'इति वचनान्नायं सकारः पदादिः। षत्वविषये परिभाषेयं न भवति, यदि स्याद्, गोष्ठः, भूमिष्ठ इत्यादौ सकारस्यापदादित्वात् `आदेशप्रत्यययोः'इत्येव षत्वसिद्धेरम्बादौ गावादिग्रहणमनर्थकं स्यात्।
परशब्दोऽयं त्रिलिङ्गः-परो देशः, परा सेना, परं कार्यमिति। अतोऽयमव्युत्पन्नः, पचाद्यजन्तो वा, न तु `ऋदोरप्' इत्यबन्तः,तथा हि सति त्रिलिङ्गता न स्यात्।।
कृल्ल्युट् नपुंसके भावे स्त्रियां क्तिन्नादयो यतः।
अतो घञाद्याः पुंस्येव यथा पाकश्चयो लवः।।
वासरूपविधिर्न्नास्ति, कृल्ल्युट्तुमुन्‌खलर्थेषु वासरूपविधिर्नास्तीति वचनात्। स्त्रियामपि नास्ति, `अस्त्रियाम्' इति प्रतिषेधात्। अतो भावघञादयः पुंस्येव। कर्तृवर्जिते तु कारके पुंनपुंसकयोः, न कथाञ्चित् स्त्रियाम्। परं कार्यमिति । परं यत्कार्यमेत्त्वादि तद्‌भवतीत्यर्थः, अथ वा-यत्परं तत्कार्यं भवति, कर्तव्यं भवतीत्यर्थः।
अन्ये त्वाहुः- न क्रियापदत्वेन कार्यशब्दस्यान्वयः, नापि परं कार्यं भवति, न तु शास्त्रमित्येवं शास्त्रादिव्यावृत्तये कार्यशब्दः, किं तर्हि? यत्कार्यं कृत्यर्हं परं तद्भवतीति वचनव्यक्तिः। अर्हे कृत्यप्रत्ययः, किं सिद्धं भवति? तुल्यबलविरोध इति सिद्धं भवति। न ह्यपवादादीनां सन्निधावुत्सर्गादीनां कृत्यर्हत्वम्, तैर्बाधितत्वादिति। विशेधो विप्रतिषेध इति। तद्वाचित्वेनैव लोके प्रसिद्धत्वाद् विप्रतिषिद्धमित्युक्ते विरुद्धमिति गम्यते, तस्य विषयं दर्शयति-यत्रेत्यादि। यत्र विषये, वृक्षाभ्याम्, वृक्षोष्वित्यादौ चरितार्थावित्यर्थः। व्यक्तिपक्षे तु तद्विषययोः= विध्योरन्यत्र चरितार्थत्वासम्भवाद् अन्योऽर्थः प्रयोजनमनयोस्तावन्यार्थौ। द्वौ प्रसङ्गौ=कार्ये दीर्घत्वेत्त्वादिके युगपत्प्राप्नुतः। स विप्रतिषेधः, विप्रतिषेधस्य विषय इत्यर्थः, तुल्यबलयोर्विरोधो यस्मिन् स तथोक्तः। परं कार्ये भवतीति। यत्कार्यं कृत्यर्हं परं तद्भवतीत्यर्थः।
तुल्यबलविरोध इत्यस्य व्यावर्त्यं दर्शयति-उत्सर्गापवादेत्यादि। तत्र `श्याद्व्यध' इत्याकारान्तलक्षणो णप्रत्यय उत्सर्गः, तं परमप्यनुपसर्ग सावकाशं बाधित्वाऽनवकाशत्वात् `आतश्चोपसर्गे' इति क एव भवति-सग्लः, सम्लः। रधेर्णिचि `रधिजभोरचि' इति नुम् कृताकृतप्रसङ्गित्वान्नित्यः, `अत उपधायाः' इति वृद्धिरनित्या, नुमि कृतेऽकारस्यानुपधात्वादप्राप्तेः। तत्र पूर्वोऽपि नुमेव भवति-रन्धयतीति। अशिश्रियद्, अदुद्रुवद् इत्यात्रान्तर्भूतचङपेक्षत्वाद् इयङुवान्तरङ्गौ बहिरङ्गं लघूपधगुणं परमपि बाधेते, अपवादादीनां तु परस्परसंप्रधारणायां नित्यादप्यन्तरङ्गम्, तस्मादपवादः। उक्तं च--
परं विदुः पूर्वपरोपपत्तौ परस्य नित्यस्य च नित्यमेव।
नित्यान्तरङ्गोपगमेऽन्तरङ्गं तस्माद्विधिः प्रातिपदो बलीयान्।। इति।
   द्वयोरेकत्रोपनिपातः=उपपत्तिः, परस्य नित्यस्य चेति। अत्र उप समस्तद्याकृतौ पदार्थे द्वयोरप्यन्यत्र कृतार्थत्वाद्विप्रतिषेधे सति परस्परप्रतिबन्धादप्रवृत्तिरेव प्रप्नोति, तद्यथा--यो हि द्वयोस्तुल्यबलयोरेकः प्रेष्यो भवति स तयोः पर्यायेण कार्यं कारोति; यदा तमुभौ युगपत्प्रेषयतो नाना दिक्षु च कार्ये भवतस्तदा यद्यसावविरोधार्थो भवति उभयोर्न करोति, तत्र विध्यर्थमिदं परं भवतीति तस्मिन् कृते यदि पूर्वस्यापि निमित्तमस्ति तदपि भवत्येव। यथा--भिन्धकीति, भिन्‌द् हि इति स्थिते परत्वाद्धिभावेपुनः प्रसङ्गविज्ञानादकज् भवति। व्यक्तौ तु पदार्थे सर्वव्यक्त्युद्देशेन शास्त्रस्य प्रवृत्तेस्तद्विषयोपनिपातिनोऽन्यत्र चरितार्थत्वात्पर्यायेण प्रवृत्तौ प्राप्तायां नियमार्थमिदम्-विप्रतिषेधे परमेव भवति, न पूर्वमिति। एतत्सूत्रारम्भाच्च पूर्वस्य लक्षणस्य तत्रानारम्भोऽनुमीयते, तदुच्यते-`सकृद्‌गतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेव' इति। तद्यथा-जुहुतात् त्वमिति परत्वात्तातङादेशे कृते स्थानिवद्भावेन प्राप्तं धित्वं न भवति। लक्ष्यानुरोधेन व्यक्त्याकृतिपदार्थाश्रयणादनयोः परिभाषयोर्विषयविभागोऽवसेयः।।
पदमञ्जरी
यू स्त्र्याख्यौ नदी।। 1.4.3 ।।
अत्र ह्रस्वयोरिदुतोर्ग्रहणे यद्यपि सवर्णग्रहणाद्दीर्घयोरपि संज्ञा लभ्यते, ह्रस्वयोरपि तु स्यात्;ततश्च हे शकटे, हे धेनो अत्रापि प्राप्नोति; इह च शकटिबन्धुः-`नदी बन्धुनि' इति पूर्वपदान्तोदात्तत्वं प्रसज्यते; इह च बहुशकटिः बहुधेनुरिति-नद्यृतश्च' इति नित्यः कप्स्यात्, नैष दोषः, `ङिति ह्रस्वश्च' इत्येतन्नियमार्थं भविष्यति-ङित्येव ह्रस्वौ नदीसंज्ञौ भवतः, नान्यत्रेति। कैमर्थ्यान्नियमो भवति विधेयं नास्तीति कृत्वा, इह चास्ति विधेयम्, किम? नित्या नदीसंज्ञा प्राप्नोति, सा विभाषा विधेया, अतो हुस्वयोरपि स्यादेवेति दोषं द्दष्ट्वा दीर्घयोर्ग्रहणमिति दर्शयति--ई च ऊ च यू इति। समासविधौ सुबधिकारान्नैतद् द्वन्द्वस्य विग्रहवाक्यम्, किं तर्हि? अर्थप्रदर्शनम्। अत्र चानुकार्यानुकरणयोरभेदविवक्षया विभक्तिर्न कृता । क्वचित्तु विभक्त्यन्तमेव पठ्यते। ननु दीर्घयोर्ग्रहणे `यू' इति निर्देशो नोपद्यते, `दीर्घाज्जसि च' इति पूर्वसवर्णप्रतिषेधाद्, अत आह-अविभक्तिकोऽयं निर्देश इति। `दीर्घाज्जसिसुलुक्' इति लुप्तत्वाद् `वा छन्दसि' इति पूर्वसवर्णेनापहृतत्वाद्वा नास्मिन् विभक्तिः श्रुयते इत्यविभक्तिकः।
अन्ये तु नैवायं द्वन्द्वः, किन्तु पृथक् पदे इत्युक्तमित्याहुः। अविभक्तिकत्वं चातुकार्यानुकरणयोरभेदविवक्षया। स्त्रियमाचक्षाते स्त्र्याख्याविति। ननु स्त्र्याख्या इति प्राप्नोति, `अनुपसर्गे' इति को विधीयते, यस्तु `आतश्चोपसर्गे' इति कः, अयमकर्मोपपदे चरितार्थः, कर्मणि त्वणा बाध्यते, यथा वक्ष्यति--अकारादनुपपदात् कर्मोपपदे विप्रतिषेधेनेति तत्राह--मूलविभुजादिषु दर्शनादिति। एवं च कृत्वा इदमपि सिद्धं भवति--
यस्मिन् दशसहस्त्राणि पुत्रे जाते गवां ददौ।
ब्राह्मणेभ्यः प्रियाख्येभ्यः सोऽयमुञ्छेन जीवति ।। इति।।
इह ईदूतोरेवेयं संज्ञा विधीयेत? तदन्तस्य वा? आद्ये पक्षे कृत् स्त्रियां न स्याद्--आध्यै, ब्राह्मण्यै, हे लक्ष्मि, हे यवाग्विति; समुदायो ह्यत्र स्त्र्याख्यः, न त्वीदून्मात्रम्; ङ्यूङोरेव तु स्यात्, स्त्रियां विधानादन्वयव्यतिरेकाभ्यां च स्त्र्याख्यात्वादिति द्वितीयं पक्षमाशित्याह--ईकारान्तमित्यादि। वर्णग्रहणे सर्वत्र तदन्तविधिरिति तदन्तविधिलाभः, `सुप्तिङन्तम्' इत्यत्र सुप्तिङोः प्रत्ययत्वादन्यत्रापि प्रत्ययग्रहणेषु तदन्तविधिर्निवारितः। कथं पुनर्ज्ञायतेवर्णयोरेवेदं ग्रहणं न प्रत्ययोरिति, इयङुवङ्स्थानप्रतिषेधात्। यदि तदन्तस्य संज्ञा, कथं वक्ष्यति-शीनद्योः परतः नद्यन्तादङ्गादुत्तरस्य इति? समुदायस्य नदीत्वात्तदवयवभूतावीदूतावपि तथोक्तौ।
अन्ये त्वाहुः- वर्णयोरेव संज्ञा, समुदायधर्मस्य स्त्रित्वस्यावयव आरोपात्। कृत् स्त्रियामपि भवति, अत्र च लिङ्गम्-इयङुवङ्स्थानप्रतिषेध इति; तेषां गुरुनदीसंज्ञयोः समावेशो न स्याद्, एकविषयत्वात्।
यू इति किमिति। `ङेराम्नद्याम्नीभ्यः' इत्यत्र पृथगाब्ग्रहणाद् आपो न भविष्यतीति मन्यते। मात्रे दुहित्रे इति `न्द्यृतश्च' इति ऋकारग्रहणमस्त्र्यर्थ स्याद्। बहुपितृक इत्यत्रेत्यज्ञापकम् ऋकारान्तानां संज्ञाभावस्य। ग्रामणीः खलपूरिति। रूपोदाहरणमेतत्सम्बुद्ध्यन्तं वा द्रष्ट्व्यम्। अथाख्यग्रहणं किमर्थम्, यावता यु स्त्रियामित्येतावता स्त्र्यर्थवृत्तित्वं लभ्यते, तत्राह--आख्याग्रहणमिति। आङ्पूर्वंस्य `ख्या' इत्यस्य धातोर्ग्रहणमित्यर्थः। क्वचित्तु आख्यग्रहणं किमिति प्रश्नः। शब्दार्थस्त्रीत्व इति आख्याग्रहणसामर्थ्यात्पदान्तरमनपेक्ष्य यौ स्वयमेव स्त्रियमाचक्षाते इत्याश्रीयते। इष्वशनिप्रभृतीनां तूभयलिङ्गानां शब्दार्थ एव स्त्रीत्वमिति `ङिति ह्रस्वश्च' इति नदीसंज्ञा भवत्येव। एवं पटुरानीयतामित्युक्ते स्त्रियमप्यानीय कृतीभवति।
अन्ये त्वाहुः-आख्याग्रहणसामर्थ्यान्नियम आश्रीयते-स्त्रियमेव यावाचक्षाते न तु लिङ्गन्तरयुक्तम् इति। ग्रामणीखलपूशब्दयोस्तु क्रियाशब्दत्वेन त्रिलिङ्गत्वान्न भवति। इष्विशनिप्रभृतीनां तु स्त्रीविषयन्तवाभावेऽपि `ङिति ह्रस्वश्च' इत्यायत्र केवलस्य स्त्रीशब्दस्यैवानुवृत्तिर्नाख्याग्रहणस्येति भवतीति तेषामाङ्पूर्वस्य ध्यायतेः क्विपि सम्प्रसारणे-आध्यै ब्राह्मण्यै इत्यत्रापि न स्यात्। तस्मात्पूर्व एव प्रकार आश्रयणीयः।
कथं तर्हि प्रत्युदाहरणम्-ग्रामण्यै स्त्रियै इति, खलप्वै स्त्रियै इति? उच्यते; क्रियाशब्दत्वेऽप्येतयोः पुंसि मुख्या वृत्तिः, पुंसामेव ह्यमुचितो धर्मो यदुत ग्रामनयनं नाम। एवं खलपवनमपि। आध्यानं तु स्त्रिपुंससाधारणमिति विशेषः।
`पथमलिङ्गग्रहणं च प्रयोजनं क्विब्लुप्समासाः,' यः शब्दः प्रथमस्त्रित्वयुक्तद्रव्यमभिधाय पश्चाद्येन केनचित्प्रकारान्तरेण लिङ्गान्तरसंयुक्तं द्रव्यान्तरमाह, तस्य तदानीमस्त्र्याख्यत्वादप्राप्ता संज्ञा विधीयते। क्विप्--कुमारीमिच्छति कुमारीयति, कुमारीयतेः क्विप्, कुमारी ब्राह्मणः, तस्मै कुमार्यै ब्राह्याणाय। लुप्--`लुम्मनुष्ये' इति लुप्, खरकुट्यै ब्राह्मणाय। यद्यप्यत्र यचुक्तवद्भावात् स्त्रीत्वमप्यस्ति, तथापि स्वाश्रस्य पुंस्त्वस्यानिवृत्तेर्नाऽयं स्त्रियामेव वर्त्तत इत्याख्याग्रहणादप्राप्तिः । समासः- अतितन्त्र्यै ब्राह्मणाय। अवयवस्त्रीविषयत्वात् सिद्धम्, समासे तावदवयवस्तन्त्रीशब्दः स्त्रियामेव वर्तत इति तदानीमेव संज्ञा, ततश्च वर्णसंज्ञापक्षे समुदायस्य नद्यन्तत्वात् कार्यसिद्धिः; तदन्तपक्षे तु `अङ्गधिकारे तस्य च तदुत्तरपदस्य च' इति वचनाद् अतितन्त्रीबन्धुरित्यत्रापि `नदी बन्धुनि' इति स्वरः सिद्धः; नद्या पूर्वपदस्य विशेषणात्, क्विब्लुपोरपि पूर्व स्त्रियामेव वर्तित्वात्, पश्चादपि तदपरित्यागेनार्थान्तरे वृत्तिः। तत्रार्थान्तरसंसर्गात्प्रागेवान्तरङ्गत्वात्प्रवृत्ता संज्ञा सत्यपि पश्चाल्लिङ्गान्तरयोगे तस्य च बहिरङ्गत्वान्न निवर्तिष्यते। यद्येवम्, इयङुवङ्स्थानप्रतिषेधे यण्स्थानप्रतिषेधप्रसङ्गः; अवयवयोरियङुवङ्स्थानत्वाद्। यथा ह्यवयवस्य स्त्रिविषयत्वात्समुदायस्य संज्ञा भवति, तथावयवस्येयुवस्थानत्वात् समुदायस्य यण्स्थानस्यापि प्रतिषेधप्रसङ्गः, यथा--धियौ, आध्याविति? सिद्धं त्वङ्गरूपग्रहणाद्, यस्याङ्गस्येयुवौ तत्प्रतिषेधादङ्गस्येयङुवङ्‌विधनासमर्थ्यादङ्गस्याक्षेपः, तेन यस्याङ्गस्येयङुवङौ निर्वर्त्तेतेतस्य नदीसंज्ञा निषेधः। आध्यै इत्यत्र त्ववयवस्याङ्गत्वं नास्ति, अङ्गस्य `एरनेकाचः' इति यण्विधानाद् इयङुवङ्स्थानता नास्तीति निषेधाभावः। एतदर्थमेव तत्र स्थानग्रहणम्--इयङुवङोर्यदा स्थितिस्तदा प्रतिषेधो यथा स्याद्, यदा त्वपवादेन बाधस्तदा मा भूदिति। एवं `ङिति ह्रस्वश्च' इत्यत्राप्यङ्गस्याक्षेपात् सोऽपि विधिरङ्गस्यैव स्त्रीत्वे भवति, नावयवस्य--शकट्यै, अतिशकटये ब्राह्मणाय; श्रियै, अतिश्रिये ब्राह्मणाय।।
पदमञ्जरी
नेयङुवङस्थानावस्त्री।। 1.4.4 ।।
इयङुवङो स्थानमनयोरिति। वैयधिकरण्येऽपि गमकत्वाद्वहुव्रीहिः। अन्ये त्वधिकरणे ल्युटं विधाय कर्तरि षष्ठ्याः समासं कुर्वन्ति। अथ कथम् `विमानना सुभ्रु कुतः पितुर्गृहे' इति? प्रमाद एवायम्। अन्येत्वाहुः-अनित्योऽयं प्रतिषेधः, सकृद्वद्धत्वात् । तथा च परिभाषा-`सकृद्वद्धमनित्यं द्विर्बद्धञ्च सुबद्धम्' इति। अत्र ज्ञापकं तदो दावचनमित्याहुः।।
पदमञ्जरी
वाऽऽमि।। 1.4.5 ।।
संहितासाम्येऽपि षष्ठीबहुवचनस्य ग्रहणम्‌, न तु द्वितीयैकवचनस्य, नदीकार्याभावात्। नापि सप्तम्येकवचनस्य; तस्य नदीसंज्ञोत्तरकालम्`ङेराम्नद्याम्नीभ्यः' इति विधानात्। न च `आमि इति विषयसप्तमी युज्यते;`तस्मिन्निपिनिर्दिष्टे' इति वचनात्, तदाह-आमि परतो वा नदीसंज्ञौ न भवत इति। श्रीणामिति । नदीसञ्ज्ञापक्षे `ह्रस्वनद्यापो नुट्'।।
पदमञ्जरी
ङिति ह्रस्वश्च।। 1.4.6 ।।
यद्यत्र ह्रस्वविशेषणार्थम् `यू' इति नानुवर्त्यत, तदेहापिस्याद्--मात्रे दुहित्रे इति, तस्मात्तदिहानुवर्तते। नन्वेवमपि विशेषणं न प्रकल्पतेयू ह्रस्वाविति; यदि यू, न ह्रस्वौ; अथ ह्रस्वौ, न यू;यू ह्रस्वौ चेति विप्रतिषिद्धम्; आहायं यू ह्रस्वाविति, तत एवं विज्ञास्यामः- य्वोः ह्रस्वाविति, कौ च य्वोः ह्रस्वौ सवर्णौ ? तदाह--ह्रस्वश्च य्वोः सम्बन्धी यः स्त्र्याख्य इति। अत्रापि समुदायधर्मस्यावयव आरोपाद् ह्रस्वयोः स्त्र्याख्यत्वम्, तदन्तविशेषणं वा। इयवङुङ्स्थानौ च यू इति। नन्वेकं `यू' ग्रहणमनुवर्तते, तच्च ह्रस्वविशेषण एवोपक्षीणम्, तत्कथं पुनः `यू' इति लभ्यते ? उच्यते; चकारोऽत्र क्रियते, स संज्ञिनः समुच्चयार्थः, इयङुवङ्स्थानाविति प्रकृतं य्वोरेव च तत्स्थानत्वमित्यर्थाद् `यू' इति लभ्यते। स्वरितत्वादनुवृत्तं तु `यू' इत्येतद् ह्रस्वविशेषणमिति न कश्चिद्दोषः।।
पदमञ्जरी
शेषो घ्यसखि।। 1.4.7 ।।
`आ धृषाद्वा' इत्यस्मिन्नधिकारे `शिष असर्वोपयोगे, विपूर्वोऽतिशये' इति पठ्यते, तत्र णिच्पक्षे कर्मणि `एरच्', अन्यथा घञ्। ह्रस्व इति वर्त्तत इति। अन्यथा ग्रामण्यादेरपि स्याद् अस्त्र्याख्यत्वेन शेषत्वाद्, यस्य नदीसंज्ञा न विहिता तस्य शेषत्वे मात्रे इत्यत्रापि स्यादिति मत्वा पृच्छति--कश्चेति। इतरस्तु ह्रस्वविशेषणार्थं `यू' इत्यस्याननुवृत्तिमाश्रित्याह--ह्रस्वमिति। ह्रस्वान्तमित्यर्थः। यदाह--इवर्णोवर्णान्तादिति। क्वचित्तु ह्रस्वेर्णोवर्णान्तमिति पाठः, ह्रस्वात्मको य इवर्ण उवर्णश्च तदन्तमित्यर्थः। ह्रस्वेन शेषस्य विशेषणत्वात् तदन्तविधिः। एवं च `असखि' इति सखिशब्दस्य प्रतिषेधो न तत्सम्बन्धिन इकारस्य, किं सद्धं भवति? इह शोभनस्सखा अस्य सुसखिः, सुसखेरागच्छतीति घिसंज्ञा सिद्धा भवति। न ह्ययं समुदायः सखिशब्दः, तदन्तविधिश्च ग्रहणवता प्रातिषेधादिहापि न स्यात्। यदि तदन्ते निषेधो न भवति `यस्येति च' इत्यत्र इवर्णस्य ई इति यदुदाहरणं सखिशब्दात् `सख्यशिश्रीति भाषायाम्' इति ङीषि सखि ई इति स्थिते इकारस्य लोपः। असति तु लोपे सवर्णदीर्धस्य पूर्व प्रत्यन्तवद्भावात् सखीमतिक्रान्तोऽतिसखिः, अतिसखेरागच्छतीत्यत्रासखीति धिसंज्ञाप्रतिषेधः स्यादिति तन्नेपपद्यते। सत्यप्यन्तवद्भावेन सखिग्रहणेन ग्रहणे समुदायस्य सखिशब्दादन्यत्वात्। यदा खलु पुंल्लिङ्गेप्यतिसखिरिति भवति, तदा कः प्रसङ्गो यदन्तवद्‌भावेन स्यात्? यत्तु तत्रोदाहरिष्यते सोऽनास्थावादो द्रष्ट्व्यः। शेषग्रहणं चिन्त्यप्रयोजनम्। एकसंज्ञाधिकारादेव हि स्त्र्याख्यस्य ङिति नदीसंज्ञापक्षे घिसंज्ञा न भवष्यति।।
पदमञ्जरी
पतिः समास एव।। 1.4.8 ।।
सिद्धायामिति। प्राप्तायामित्यर्थः, न पुनर्निष्पन्नायाम्, न हि निष्पन्नायां नियमेन निवृत्तिः शक्या वक्तुम्। पतिशब्दः समास एव घिसंज्ञो भवतीति। किं पुनरिदं समासावयवस्य पतिशब्दस्य संज्ञा विधीयते? आहोस्वित्तदन्तसमासस्य? यदि समासस्य ? पतिश्च गृहं च पतिगृहे-अत्र द्वन्द्वे घिः इति पूर्वनिपातो न प्राप्नोति; अथ पतिशब्दस्य? प्रजापतिनेत्यादिकस्य घिसंज्ञाकार्थ न प्राप्नोति। अथ वा `पतिः समासएव' इति नियमेन किं व्यावर्त्यते? असमस्तः पतिशब्दः। पतिशब्दस्य व्यावर्त्यमाना केन तदन्तस्य व्यावर्त्यते? पतिशब्दसम्बन्धी य ईकारस्तदाश्रया सा घिसञ्ज्ञा भवति, यदि समास एवेत्यर्थो विवक्षितः। तेन समासे पतिशब्दस्यानन्त्यस्यापि भवति-पतिश्च गृहश्च पतिगृहे, `द्वन्द्वे घिः' इति पूर्वनिपातः। पतिशब्दान्तस्य समासस्यापि भवति-प्रजापतिनेति, अत एव वृत्तिकृता पतिशब्दानुरूपसूत्रार्थो दर्शितः। उदाहरणन्तु तदन्तानुरूपं दर्शितम्। अथ कथम्
नष्टे मृते प्रव्रजिते क्लीबेऽथ पतिते पतौ।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते।। इति?
छन्दोवद्दषयः कुर्वन्ति। अथ पूर्वत्रैव `असखिपती' इति कस्मान्नोक्तम्? उत्तरत्र पत्युरेव विकल्पो यथा स्यात्। किञ्च `असखिपती' इत्युच्यमाने पतिशब्दस्य समासेऽपि न स्यात्--पतिगृहे इति। तथा च सखिशब्दस्य समासावयवस्यापि घिसञ्ज्ञाया अभावात्--सखिगृहे,गृहसखायाविति चानियमः पूर्वनिपातस्य।।
पदमञ्जरी
षष्ठीयुक्तश्छन्दसि वा।। 1.4.9 ।।
  षष्ठ्यन्तेन शब्देनेति। षष्ठ्या विभघक्त्या युक्त इति तु न भवति। तथा हि-षष्ठ्यामित्येव ब्रूयाद्, युक्तग्रहणमनर्थकं स्यात्। षष्ठीग्रहणं किमिति। अत्र केचिद्योगस्यावर्जनीयत्वाद्युक्त इत्येव विशिष्टो योगः प्रत्येष्यत इति मन्यन्ते, वचनमन्तरेण विशेषो दुर्ज्ञान इत्युतरम्। अयमत्र योगविभागः कर्त्तव्यः-`षष्ठीयुक्तः छन्दसि',षष्ठीयुक्तः पतिशब्दः छन्दसि घिसञ्ज्ञो भवति; ततो `वा', छन्दसीत्येव, यच्च यावच्च शास्त्रे कार्यं तत्सर्वं छन्दसि विकल्पेन भवतिः सर्वे विधयश्छन्दसि विकल्प्यन्त इत्यर्थः। उभयत्रविभाषा चेयम्, `बहुलं छन्दसि' इत्यादिकस्त्वस्या एव प्रपञ्चः।।
पदमञ्जरी
ह्रस्वं लघु।। 1.4.10 ।।
इह सर्पिष्ट्वामित्यत्र `ह्रस्वात्तादौ तद्धिते' इति षत्वार्थं ह्रस्वसंज्ञया गरुसंज्ञाया समावेश इष्यते। अततक्षदित्यत्र तु सन्वद्भावनिवृत्त्यर्थं लघुसंज्ञाया गुरुसंज्ञया बाध इष्यते। अतो ह्रस्वप्रदेशेषु संयोगपरस्यापि मात्रिकस्यग्रहणं यथा स्यात्, लघुप्रदेशेषु मा भूदिति यथाप्रदेशे संज्ञाद्वयं कर्त्तव्यम्।।
संयोगे गुरु।। 1.4.11 ।।
दीर्घ च।। 1.4.12 ।।
पदमञ्जरी
यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्।। 1.4.13 ।।
कर्तेति। लुट्। करिष्यतीति। लृट्। अकरिष्यदिति। लृङ्,`ऋद्धनोः स्ये' इतीट्। यस्मादिति संज्ञिनिर्देशाथमिति। ननु तदादीत्यनेन संज्ञी निर्दिश्यते, न यस्मादित्यनेन तत्राह-तदादीतिसंबन्धादिति। सति हि यस्मादित्यस्मिन् तदादीत्यनेन संज्ञा निर्देष्टुं शक्यते, नान्यथा । सति हि परामर्शनीये तदित्यनेन परामर्शो भवति, अन्यथा तदादीत्यसंबद्धमेव स्यात्। `नेर्विशः' इत्युपसर्गाद्विधिरस्तीति। यद्यपि निरत्र धातुविशेषणम्-- नेः परो यो विशिरिति, धातोस्तङ्‌विधानाद् नियमविधिरपि धातोरिव नोपसर्गात्, तथाप्युपसर्गस्यापि तत्रान्वयोऽस्तीति मत्वा एवमुक्तम्।
विधिग्रहणं किमिति। `यस्मात्प्रत्यय' इत्युकते साकाङ्क्षत्वाद् यस्माद्विधीयत इत्यध्याहरिष्यत इति प्रश्नः । परशब्दस्याप्यध्याहारः स्यादित्युत्तरम्। स्त्री इयतीति। इदं परिमाणमस्याः `किमिदभ्यां वो घः' इयादेशः,`इदंकिमोरीश्की',`यस्येतिच' इति लोपः,`उगितश्च' इति ङीप्, स्त्रीशब्दात् सोर्हल्ङ्यादिलोपः। अत्र इयच्छब्दे परतोऽङ्गसंज्ञा स्याद् भसंज्ञा चेति तन्निमित्तो यस्येति लोपः प्रसज्येत। इशादेशस्य यस्येति लोपः, तस्याभीयस्याप्यसिद्धत्वं न भवति, प्राग्भादसिद्धत्वमिति केषाञ्चिदभ्युपगमाद्। स्थानिवद्बावोऽपि नास्ति, पदान्तरनिरपेक्षे हीयतीशब्दे व्युत्पाद्यमाने स्त्रीशब्दोऽनादिष्टादचः पूर्वः।
ननु क्रियमाणे विधिग्रहणे स्यादेव संज्ञा, अस्त्येव ह्यत्र स्त्रीशब्दाद् विभक्तेः प्रत्ययस्य विधिरियत्प्रत्ययश्च परः, नैषः; सति विधिग्रहणे प्रत्यासत्तेर्यस्माद्यः प्रत्ययो विहितस्तस्मिन्नेव प्रत्यये परतस्तदाद्यङ्गमित्यर्थो भवति। इह च स्त्रीशब्दाद्विहितो लुप्तः, श्रुयमाणश्च न ततो विहितः, तदादिग्रहणमनर्थकम्, यत्तदोर्नित्यसम्बन्धादेव यस्मात्प्रत्ययो विधीयते तदङ्गमित्यर्थलाभाद् अत आह-तदादिवचनमिति। स्यादयो विकरणाः। आदिशब्देन शबादेर्ग्रहणम्। असति तदादिग्रहणे यच्छब्दवत्तच्छब्दस्याध्याहाराद् यस्मात्प्रत्ययविधिस्तस्यैव संज्ञा स्याद् न तु तत आरभ्य आ तस्मात्प्रययाद्यः संघातः तस्य। ततश्च करिष्यावः, पचावः, दीव्यावः, तुदाव इत्यादौ `अतो दीर्घो यञि ' इति दीर्घो न स्यात्; स्याद्यन्तस्य समुदायस्यानङ्गत्वात्। ततश्च पापाव इत्यादावेव स्यात्, `पयगतौ' यङ्लुगन्तस्य `लोपो व्योर्वलि' इति लोपे रूपम्। कुण्डानीति। यदा नुम् परादिः, तदा `सुपि च' इति दीर्घः सिध्यति। दधीनीत्यादावनकारान्तत्वान्न सिध्यति, पूर्वान्तपक्षे सामानीत्यादिवत्सिध्यति। यदा त्वभक्तपक्षः तदैतत्प्रयोजनं तदादिग्रहणस्य, पूर्वान्तपक्षस्तु तत्र स्थित इत्यप्रयोजनमेतत्।
ननु च `प्रातिपदिकान्तनुम्विभक्तिषु च' इति नुम्ग्रहणं कुर्वतः सूत्रकारस्याभक्तो नुमित्यभिप्रायो लक्ष्यते, अन्यथा माषवापाणीत्यत्र प्रातिपदिकान्तत्वाद्विभक्तिनकारत्वाद्वा णत्वसिद्धेरनर्थकं तत्स्यात्? नैतत्सूष्ठूच्यते; तत्र हि समासप्रातिपदिकान्तो न गृह्यते, किं तर्हि? पूर्वपदादित्यनुवृत्तेस्तदाक्षिप्तस्योत्तरपदप्रातिपदिकस्यान्तो गृह्यते, समुदायभक्तश्च नुम् उत्तरपदप्रातिपदिकान्तो न भवति। ततश्च यथा गर्गाणां भगिनी गर्गभगिनीत्यत्र णत्वं न भवति, तथा नुमोऽपि न स्यात्। न तर्हिदानीमिदं भवति-गर्गभगिणीति? भवति, यदैतद्धाक्यं भवति-गर्गाणां भगो गर्गभगः सोऽस्या अस्तीति। तदा ह्यनुत्तरपदस्थत्वात् पूर्वपदात् सञ्ज्ञायामेवेति नियमाभावः, तद्यथा- मातृभोगाय हितो मातृभोगीण इति। एवमपि माषान् वप्तुं शीलमस्याः माषवापिणी-अत्र न प्राप्नोति, ङीबत्रोत्तरपदस्यान्तो न तु नकारः। नकार एवात्रान्तः, कथम्? गतिकारकोपपदानां कृद्‌बिः सह समासवचनं प्राक् सुबुत्पत्तेः, अतः स्याद्यर्थं क्रियमाणं तदादिग्रहणं नुम्यपीष्टं साधयतीति मत्वा नुम्ग्रहणं कृतम्। यदि तदादीत्युच्यते कर्तेत्यादौ न प्राप्नोति, न ह्यत्र तदादि किञ्चिदस्ति, किं तर्हि? तदेव, व्यपदेशिवद्भावाद्भविष्यति, वाक्यभेदाद्वा, यस्मात्प्रत्ययविधिस्तदङ्गम्, तदादि च। इह`प्रकृत्यादि प्रत्ययेऽङ्गम्' इति इयता सिद्धे गुरुनिर्हेश एव लिङ्गं वाक्यभेदस्य।
अथ कथं भिनत्ति, संचस्करतुरित्यत्र सनुम्कस्य च समुदायस्याङ्गसंज्ञा? कथं च न स्याद्? इह तस्य वा ग्रहणं भवति? तदादेर्वा? न चेदं तन्नापि तदादि। इदमपि तदादि, कथम्? नैवं विज्ञायते-स आदिरस्यतत्तदादीति। कथं तर्हि तस्यादिस्तदादिस्तदादिरस्येति? तथापि उष्ट्रमुखवदेकस्यादिशब्दस्य लोपः। एवं हि विज्ञायमाने भिनत्तीत्यत्र यस्मात्प्रत्ययविधिभिदेस्तस्य आदिर्भकारः, स आदिः सन्नन्तस्य समुदायस्येति सिध्यति। एवं संचस्करतुरित्यत्रापि `तन्मध्यपतितस्तद्‌ग्रहणेन गृह्यते' इति चात्रोभयत्र सज्ञासिद्धिः। अथात्र श्नमः पूर्वस्य भिशब्दस्यङ्गसञ्ज्ञा कस्मान्न भवति? भवतु, को दोषः? गुणस्तावत्`सार्वधातुकमपिद्' इति ङित्त्वादेव न भविष्यति। इह अनक्ति, भनक्ति- `अतो दीर्घो यञि' इति दीर्घः प्राप्नोति, तिङीति तत्र वर्त्तते। अथ वा-`यस्मात्प्रत्ययविधिः' इति दीर्घः प्राप्नोति, तिङीति तत्र वर्त्तते। अथ वा-`यस्मात्प्रत्ययविधिः' इति वचनाद्यस्मिन् प्रत्यये विधीयमाने यत्पञ्चम्या निर्दिष्टं तत्र तदेवाङ्गम्, श्नमि च विधीयमाने ये पञ्चम्या निर्दिष्टा रुधिरादयो न ते तत्र परतः, येऽत्र श्नमि परतोतिऽप्रभृतयो न ते पञ्चम्या निर्दिष्टा इति सञ्ज्ञाभावः।
श्यर्थमिति। `चतुर्थी तदर्थ' इति समासः। अस्ति ह्यत्र चतुर्थ्येकवचनस्य विधिरित्यसति पुनः प्रत्ययग्रहणेङ्गशब्दस्य सम्बन्धिशब्दत्वाभावात् वस्तुतोऽङ्गमात्राश्रय इयङ् स्यात्। सति तु सप्तमीनिर्द्दिष्टप्रत्ययग्रहणेऽङ्गशब्दः सम्बन्धिशब्दो भवति, ततश्चाङ्गस्येयङ् भवति। अचीत्यक्ते यदपेक्षं यदङ्गम्, तत्र तस्याजादाविति विज्ञानादर्थशब्दे परत इमङुवङौ न भविष्यतः।
किं पुनरङ्गसंज्ञायाः प्रयोजनम्? अङ्गस्येत्यधिकारः। नैतदस्ति; यदेतदङ्गस्येत्येतत् प्रत्यय इति वक्ष्यामीति। एवमपि प्राकरोत् प्रैहिष्ट-सोपसर्गस्याडाटौ प्राप्नुतः, नैष दोषः, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेर्ग्रहणं भवतीति। क्व पुनरेषा परिभाषा? नन्वेषाप्यत्रैव योगविभागेन सिद्धा, `यस्मात्प्रत्ययविधिस्तदादि प्रत्यये' इत्येतावानेको योगः। प्रत्यये गृह्यमाणे यस्मात् तस्य विधिस्तदादि गृह्यत इत्यर्थः, तेन `ञ्नित्यादिः' इत्यादौ यत्र प्रत्ययः सप्तम्या निर्दिश्यते तत्र तदादेर्ग्रहणम्, तेन देवदत्तो गार्ग्य इति संघातस्य ञित्स्वरो न भवति। `सुपआत्मनः क्यच्' इत्यत्र तु सुपा कर्मणो विशेषणात्तदन्तविधौ सिद्धे महान्तं पुत्रमित्यादावतिप्रसङ्गे तदादिनियमेन व्युदासः। यदि तदादिनियमः क्रियते स्त्रीप्रत्ययेऽपि स्यात्, ततः ष्यङन्तस्य पूर्वपदस्योच्यमानं संप्रसारणं परमकारीषगन्धीपुत्र इत्यत्र न स्याद्-यत्पूर्वपदं न तत्ष्यङन्तम्, यत्ष्यङन्तं न तत्पूर्वपदम्, नैष दोषः, `नेयङुवङ्स्थानावस्त्री' इत्यतः`अस्त्री' इत्यनुवर्त्तते, तच्च स्वरूपपदार्थकत्वेन प्रकृतमपीहार्थपदार्थकं संपद्यते, तदयमर्थो भवति-प्रत्ययग्रहणे तदादि गृह्यते प्रकृतमपीहार्थपदार्थकं संपद्यते, तदयमर्थो भवति-प्रत्ययग्रहणे तदादि गृह्यते स्त्री चेन्नाभिधीयते। स्त्रीप्रत्यये तदादिनियमो नास्तीत्यर्थः। यद्येवम्,अतिकारीषगन्ध्यापुत्रः-अत्रापि प्राप्नोति, प्रधानं या स्त्री तस्यामेव तदादिनियमप्रतिषेधः, अप्रधानस्त्रियां तु तदादिनियमो भवत्येव। तेन यावानंशः स्त्रियं प्राधान्येन प्रतिपादयति, तावतः स्त्रीप्रत्ययान्तस्य ग्रहणं भवति। तद्ग्रहणे तु गतिकारकपूर्वस्यापि ग्रहणं भवतीति `गतिरनन्तरः' इत्यनन्तरग्रहणं ज्ञापयिष्यते।
पदमञ्जरी
सुप्तिन्तं पदम्।। 1.4.14 ।।
सुप्तिङिति प्रत्याहारग्रहणमिति। सुबिति सप्तमीबहुवचनस्य ग्रहणं न भवति; यदि स्यात्, ङिसंबुद्ध्योः पदत्वाभावादेव नलोपस्याप्रसङ्गात् `न ङिसंबुद्ध्योः' इति प्रतिषेधोऽनर्थकः स्यादिति भावः। सप्तमीबहुवचनस्य च पकारेण प्रत्याहारो न कपः पकारेण; तस्याहारस्तदा स्वरविधावपि तथैवेति सुप्त्वादेव स्वरसिद्धेः पित्त्वमनर्थकमेव स्यात्। यदि च सुब्ग्रहणेषु कपः पकारेण प्रत्याहारोऽभिमतः स्यात् `सुप्यसर्वनामस्थाने' इत्येव ब्रूयात्, `स्वादिषु' इति गुरुनिर्देशोऽनर्थकः स्यात्। ब्राह्मणा इति। पदत्वाद्रुत्वविशर्जनीयौ।
ननु यस्मात्प्रत्ययविधिस्तदादीत्यनुवृत्तस्य सुप्तिङ्भ्यां विशेषणादेव तदन्तस्य ग्रहणं सिद्धम्, नार्थोऽन्तग्रहणेन, तत्राह-पदसंज्ञायामिति। इहासत्यन्तग्रहणे सुप्तिङामेव संज्ञा स्यात्, ततश्चाग्निष्वित्यादौ `सात्पदाद्योः' इति षत्वनिषेधः स्यादित्याशङ्ग्य क्रियमाणमन्तग्रहणमुक्तस्यार्थस्य ज्ञापकं संपद्यते। गौरीब्राह्मणितरेति। तरबन्तस्य घसंज्ञायां सत्यां तत्रोत्तरपदे परतो गौरीशब्दस्य पुंवद्‌भावं बाधित्वा परत्वाद् ह्रस्वत्वं स्यात्। तरपि तु परतो ब्राह्मणीशब्दस्य न स्यात्; ततश्च गौरीब्राह्मणतरेति स्याद्, गौरब्राह्मणितरेति चेष्यते। वृत्तौ तु समासप्रदर्शनपरं वाक्यमुपात्तम्, न त्वेतत्कार्योदाहरणम्। गौरब्राह्मणितरेति समासे रूपम्।।
पदमञ्जरी
नः क्येः।। 1.4.15 ।।
क्य इति क्यच्क्यष्क्यङामिति। `संज्ञायां समज' इत्यस्य तु क्यपोग्रहणं न भवति; प्रयोजनभावात्। न तावन्मन्येत्यत्र नलोपः प्रयोजनम्, सत्यपि पदत्वेऽप्रातिपदिकत्वात्;सुबन्तमित्यनुवृत्तेर्वा क्यपि विध्यर्थमेतन्न भवति।
ननु क्यजादयः सुबन्ताद्धिधीयन्त इति प्रत्ययलक्षणेन सिद्धं पदत्वम्, नार्थ एतेन तत्राह-सिद्धे सतीति। नान्तमेवेति। क्य एव नान्तमित्येवं तु विपरीतनियमो न भवति; `न ङिसम्बुद्ध्योः' इति निषेधात्। वाच्यतीति। अत्र पदत्वाभावात्कुत्वजश्त्वे न भवतः ये तु गोसमानाक्षरनान्तादेव क्यज् भवति, नान्येभ्य इत्याहुः, तेषां क्यङ्क्यषोरेव नियमस्य व्यावर्त्त्यं प्रदर्शनीयम्-तपस्यतीत्यादौ।।
पदमञ्जरी
सिति च ।। 1.4.16 ।।
भवदीय इति। पदत्वाज्जत्वम्। ऊर्णायुरिति पदसंज्ञाया निरस्तत्वाद् यस्येति लोपाभावः। एवम् ऋत्विय इति `ओर्गुणः' न भवति, चकारोऽनुक्तसमुच्चयार्थः तेन भुवद्‌धारयतोर्मतोश्छन्दसि `तसौ मत्वर्थे' इति भसंज्ञां बाधित्वा पदसंज्ञा भवति, तेन भुवद्वद्भ्यः, धारयद्वद्‌भ्यः।।
पदमञ्जरी
स्वादिष्वसर्वनामस्थाने।। 1.4.17 ।।
स्वादिष्विति सुशब्दादेकवचनादिति। सप्तमीबहुवचनादारभ्य ग्रहणं न भवति; `असर्वनामस्थाने' इति निषेधात्, यदि हि राजश्रित इत्यादौ सर्वनामस्थाने `सुबन्तम्' इति प्राप्तायाः संज्ञायाः निषेधोऽभीष्टः स्यात्, तत्रैव `असर्वनामस्थाने' इति ब्रूयात्। अथ राजवानित्यादावन्तर्वर्तिनिषेध इति चेद्, न; लुमता लुप्ते प्रत्ययलक्षणाभावात्, `तसौ मत्वर्थे' इति पदसंज्ञाबाधनाय भसंज्ञाविधानाच्च। आ कप इति। यदि पुनः सप्तमीबहुवचनपर्यन्ता एकविंशतिः प्रत्यया गृह्येरन्, तदा सुब्‌ग्रहणमेव कुर्याद्, अनुवर्त्तयेद्वा; `असर्वनामस्थाने' इत्यनेन सम्बन्धात्सप्तम्या विपरिणामात् सिद्धम्। किमथ पुनरा कपः प्रत्यया गृह्यन्ते, यावता सुबन्तात्तद्धितोत्पत्तिः समर्थाधिकारात्, स्वार्थिका अपि सुबन्तादेव,`घकालतनेषु' इति लिङ्गत्, ततश्च राजत्वं राजतेत्यादावन्तर्वर्तिन्या विभक्त्या सुबन्तं पदमित्येव सिद्धम्? सत्यम्; भसंज्ञार्थं त्वा कपः प्रत्यया गृहीताः। राजत्वमित्यादि। सुबन्तत्वेऽपि। परत्वादनेन पदत्वं युक्तमित्येषामुपन्यासः।
राजानौ, राजान इति। अत्रापदत्वान्नलोपाभावः, राजेत्यत्र तु प्रत्ययलक्षणेन निषेधो न भवति `न ङिसम्बुद्ध्योः' इति लिङ्गान्नैतल्लिङ्गमुपपद्यते। हे वर्मन्निति नपुंसके लुमता लुप्ते सर्वनामस्थाने निषेधाभावादस्त्येव पदत्वमिति तत्रार्थवान् प्रतिषेधः। एवं तर्हि नायं प्रसज्यप्रतिषेधः- सर्वनामस्थाने नेति, किं तर्हि? पर्युदासोऽयम्-पदन्यत्सर्वनामस्थानदिति। सर्वनामस्थाने न विधिर्न प्रतिषेधः; यदि केनचित्प्राप्नोति, भवत्येव, पूर्वेण प्राप्नोति, अथ वा-अनन्तरा या प्राप्तिः सा प्रतिषिध्यते । कुतः पुनरेतद्? `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा'। अथ वा-`सर्वनामस्थाने' इत्यत्र यचीत्यपकृष्य सम्बध्यते, तेन यजादौ पदसंज्ञा निषिध्यते, न हलादाविति राजेत्याते, स्वादौ, एवं हि `असर्वनामस्थाने' इति न वक्तव्यं भवति? उत्तरार्थ सुठ्यपि नपुंसके भसंज्ञा यथा स्यात्, साम्नी इत्यत्र मा भूद्। भसञ्ज्ञा `विभाषा ङिश्योः' इति वचनसामर्थ्यादेवाभस्याप्यल्लोपो भविष्यति। तत्रायमप्यर्थो यस्येत्यादौ `श्यां प्रतिषेधः' इति न वक्तव्यं भवति; अभत्वादेव सिद्धम्। इह तर्हि सुपदी ब्राह्मणकुले इति पद्‌भावो न स्यादभत्वात्, इह च सामानि पश्येति भत्वादल्लोपः स्यादिति यथान्यासमेवास्तु।।
पदमञ्जरी
यचि भम्।। 1.4.18 ।।
यकारादावित्यादि। `यस्मिन्विधिस्तदादावल्प्रहणे' इति तदादिविधिः। गार्ग्य इत्यादौ भत्वाद्यस्येति लोपः। नभोऽङ्गिरोमनुषां वत्युपसंख्यानमिति। द्वे अप्येते उपसंख्याने छन्दोविषये इत्याहुः। नभ इवेति। तृतीयासमर्थाद्वतेर्विधानात् तुल्यार्थापदर्शनमेतत्, नभसा तुल्यं वर्त्तत इति विग्रहः। पदनिबन्धनकार्यनिवृर्त्त्यथमेव चैषां भसञ्ज्ञा विधीयते, न तु भत्वनिमित्तं कार्यं यथा स्यादिति; असम्भवात्।
नभस्वद्, अङ्गिरस्वदिति। अत्रापदत्वाद्रुत्वाभावो मनुष्वदित्यत्र पदत्वे रुत्वं स्याद् न तु षत्वम्; अपदान्तस्येति वचनात्।
वृषण्वसुः वृषणाश्व इति। पदत्वे सति `पदान्तस्य' इति प्रतिषेधाण्णत्वं न स्यात्, नलोपश्च स्याद्। भत्वेऽप्यल्लोपो न भवति; अनङ्गत्वात्।।
पदमञ्जरी
तसौ मत्वर्थे।। 1.4.19 ।।
नभस्वद्, अङ्गिरस्वदिति। अत्रापदत्वाद्रुत्वाभावो मनुष्वदित्यत्र पदत्वे रुत्वं स्याद्, न तु षत्वम्; अपदान्तस्येति वचनात्।
वृषण्वसुः, वृषणश्व इति। पदत्वे सति `पदान्तस्य' इति प्रतिषेधाण्णत्वं न स्यात्, नलोपश्च स्याद्। भत्वेऽप्यल्लोपो न भवति; अनङ्गत्वात्।।
तसौ मत्वर्थे।। मत्वर्थीयेनाक्षिप्तायाः प्रकृतेस्तकारसकाराभ्यां विशेषणात्तदन्तविधिरित्याह-तकारसकारान्तमिति। मत्वर्थे प्रत्यये इति। व्यधिकरणे सप्तम्यौ, मतोरर्थो मत्वर्थस्तत्र यः प्रत्ययो वर्त्तते तस्मिन्नित्यर्थः। अथ वा समानाधिकरणे मतुशब्देन साहचर्यात्तदर्थो लक्ष्यते-मतुरर्थो यस्य तस्मिन्नित्यर्थः।
उदश्वित्वानिति। भत्वात् पदत्वाभावे जश्त्वं न भवति, `झयः' इति वत्वम्। उदकेन श्वयति वर्द्धते उदश्वित्, क्विपि `उदश्वितोऽन्यतरस्याम्' इति निपातनात् संप्रसारणाभावः, संज्ञायामुद्भावः। पयस्वीति। `अस्मायामेधास्त्राजो विनिः' भत्वाद्रुत्वाभावः।
अथार्थग्रहणं किमर्थम्, न `मतौ'इत्युच्यते, स्वादिष्विति वर्त्तते, व्यधिकरणे सप्तम्यौ, मतौ ये स्वादयः। कथं पुनः शब्दे नाम शब्दे वर्त्ततेऽसम्भवात्, अर्थे वृत्तिर्विज्ञास्यते? यद्येवं लभ्येत, कृतं स्यात्; तत्तु न लभ्यम्, न हि सामानाधिकरण्ये सम्भवति वैयधिकरण्यं शक्यं विज्ञातुम्, ततश्च मतावेव स्यात्-पयस्वान् यशस्वानिति, इह तु न स्यात्-पयस्वी, यशस्वीति, अतोऽर्थग्रहणं कर्तव्यम्। यद्यर्थग्रहणं क्रियते, मतुपि न प्राप्नोति; तस्यार्थविशेषणत्वात्, सत्यम्; अर्थविशेषणं मतुब्, विशेष्याकारोऽपि तत्रास्ति। अस्यास्त्यस्मिन्निति च मतुपोऽर्थः, स च विन्यादीनामिव मतुपोऽप्यविशिष्टः, यथा-देवदत्तशालायामासीना ब्राह्मणा आनीयन्तामित्युक्ते विशेषणभूतोऽपि देवदत्तः सित ब्राह्मणये आनीयते। यत्र उपलक्ष्याकारस्यासम्भवः तत्रैवोपलक्षणस्य कार्थायोगः, तद्यथा-चित्रगुरानीयतामिति, न हि चित्रगवीणां गावः सन्ति।।
पदमञ्जरी
अयस्मयादीनिच्छन्दसि।। 1.4.20 ।।
यदि संज्ञा विधीयेत आनन्तर्थाद्भसंज्ञाविधानद्वारेणैव निपातनं स्यात्, पदसंज्ञा न स्याद्, भपदसंज्ञयोः समावेशो न स्यात्, तस्मात्साधुत्वमेव युक्तं विधातुमिति मत्वाह-अयस्मयादिनीत्यादि। साधुत्वे प्रकारविशेषं दर्शयति। भपदसंज्ञाधिकार इत्यादि। द्वारम्=उपायः। अयस्मयमिति। अयसो विकारः `द्व्यचश्छन्दसि' इति मयट्।।
पदमञ्जरी
बहुषु बहुवचनम्।। 1.4.21 ।।
बहुवचनं विहितमिति। ततश्च तस्य विधेयविभक्तिनिर्द्दिष्टस्यापि प्राप्तत्वादनुवाद्यत्वम्, न तु विधेयत्वमिति भावः। बहुत्वसंख्यानुभूतविभक्तिर्निर्दिष्टाप्यप्रत्वाद्विधीयत इत्याह-तस्यानेनेति। इहं चापरमनेन ग्रन्थेन दर्शितम्-स्वादिविधिवाक्येन हि भिन्नमेतद् वाक्यम्,। तत्रापि विध्यर्थं न तु नियमार्थमिति। यदाह-बहुवचनं विहितमिति। बहुत्वसंख्यावाच्यत्वेन विधीयत इति च। यदि पुनरेकवाक्यतया विशिष्टविधिः स्याद्,इतरेतरश्रयं प्राप्नोति-विहितानां जसादीनां बहुवचनसंज्ञा,संज्ञया च विधानमिति। किं चाव्ययेभ्यो निःसंभ्यः स्वदयो न स्युरतो भिन्नवाक्यत्वमेव युक्तम्,तत्रापि विध्यर्थत्वमेव।
इह केचिन्मन्यन्ते-स्वार्थद्रव्यलिङ्गसंख्याकर्माद्यात्मकः पञ्चकः प्रातिपदिकार्थ इति। आदितस्त्रिक इत्यन्ये। तत्र शब्दप्रवृत्तिनिमित्तं स्वार्थः, स चानेक प्रकारः- स्वरूपं जातिर्गुणः क्रिया द्रव्यं सम्बन्धश्चेति, डित्थो गौः शुक्लः पाचकः यष्टिः पुरुषः दण्डीति। जात्यादिशब्देष्वपि जात्यादिमात्रनिष्ठेषु स्वरूपमेव प्रवृत्तिनिमित्तम्। अभिधानाभिधेययोरभेदाध्यासात् शब्दरूपानुरक्तोऽर्थोऽभिधीयते। अस्य गौरिति नाम, अयं गौरिति च प्रतीतिवेषो भिद्यते। अत्र हेतुर्वैयधिकरण्यम्, सामानाधिकरण्यं च। तत्र जात्यादिवत् स्वरूपमपि शब्दत एव प्रतिपन्नमप्यर्थस्य विशेषणं मन्यन्ते। उक्तं च-
ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा।
तथैव सर्वशब्दानामेते पृथगवस्थिते ।। इति।
तेन स्वरूपमपि स्वार्थो युज्यते।
स्वार्थस्य यत्र विश्रान्तिर्वाच्यं द्रव्यं तदिष्यते।।
पर्यवसानभूमिरित्यर्थः। तच्चानेकप्रकारम्-जातिर्गुणः क्रिया द्रव्यं स्वरूपमिति; गौ सूक्लः, पाकः, डित्थः,`तूष्णीमि भूवः' इति। लिङ्गं स्त्रीत्वादि। संख्याएकत्वादि, कर्मादयो वक्ष्यमाणाः कारकविशेषाः।
तदिह द्वितीयं दर्शनं वृत्तिकारेणाश्रितम्। अन्वयव्यतिरेकाभ्यां हि शब्दार्थनिश्चयः, यस्य शब्दस्यान्वये योऽर्थः प्रतीयते, व्यतिरेके च व्यतिरिच्यते स तस्यार्थः। वृक्षः वृक्षौ इत्यादौ च तत्तद्वचनान्वये सा सा संख्या प्रतीयते वयतिरेके च व्यतिरिच्यते सत्यपि प्रकृत्यन्वये, तेन मन्यामहे-वचनार्थः संख्येति। तथा वृक्षं वृक्षेण वृक्षायेत्यादौ तत्तत्त्रिकान्वये स स कर्मादिः प्रतीयते, व्यतिरेके च व्यतिरिच्यते, तेन मन्यामहे-त्रिकार्थः कर्मादिरिति। यद्यपि पयो दधि मध्वित्यादावन्तरेण वचनमन्तरेण च त्रिकं स सोऽर्थः प्रतीयते, नैतावता विभक्त्यर्थत्वं हीयते , न हि गर्गा इत्यत्रान्तरेणापि यञमपत्यार्थः प्रतीयते इति गार्ग्य इत्यत्रापि प्रकृतेरिवापत्यमर्थ इति युक्तं वक्तुम्, पचति पचतः पचन्तीत्यादौ वचनान्वये संख्यान्वयाद्व्यतिरेके च व्यतिरेकाद् वचनार्थ एव संख्या, न धात्वर्थः। अबिभर्भवानित्यादौ यद्यप्यन्तरेणापि तिङं कर्त्ता संख्या च प्रतीयते, तथापि नैतावता तर्वत्र प्रकृत्यर्थत्वं यक्तम्। न हि भित्, छिदित्यादौ अन्तरेणापि प्रत्ययं कर्त्ता प्रतीयते इति भेत्तेत्यादावपि कर्त्ता प्रकृत्यर्थो भवति। तदेवं त्रिक एव प्रातिपदिकार्थः।
धातोश्च क्रियैव वाच्येत्यसत्यस्मिन्ननिर्द्दिष्टार्थत्वात्स्वार्थे त्रिक एव जसादिबहुवचनं स्याद्, न बहुत्व इति बहुत्वसंख्यावाच्यत्वेन विधियते। सूत्रेऽप्यन्तरेणापि भावप्रत्ययं भावप्रधानो निर्देशः, बहुत्व इत्यर्थः। आश्रयागतस्य बहुत्वस्य गुणे आरोपाद् बहुष्विति बहुवचनम्। आरोपस्य प्रयोजनं नानाऽऽधारस्य संख्यारूपस्य बहुत्वस्य ग्रहणं यथा स्यात्। तेनैकाश्रयं वैपुल्यं बहुवचनस्य वाच्यं न भवतिबहुरोदन इति।
केचिन्मन्यन्ते-संख्याकर्मादयश्च परस्परमनन्विताः, प्रकृत्यर्थेन चान्विता विभक्तिभिरभिधीयन्ते-वृक्षान्पश्य, कोऽर्थः? बहवो वृक्षाः कर्मेति, न तु कर्मीभूता वृक्षा बहव इति; नापि बहवः कर्मेति। एवमेकवचनेऽपि `पशुना चजेत' इति पशुरेकः पशुः करणमित्यर्थः, न तु करणीभूतः पशुरेक इति, नाप्येकः पशुः करणमिति करणत्वैकत्वयोर्युगपदभिधानादिति तान्निराकरोति-कर्मादयोऽप्यपर इत्यादि। तदीये बहुत्वे इति। कर्मादिगतमेव बहुत्वं बहुवचनस्य वाच्यम्, न तु केवलप्रातिपदीकार्थगतमित्यर्थः। प्रकृत्यर्थगतमेव बहुत्वं वाच्यम्, वृक्षशब्दस्यावयवी वाच्यः, न त्ववयवा इति द्रव्यपदार्थपक्षे तावद् वृक्षं पश्येति मूलस्कन्धफलपलाशादीनां बहुत्वेऽपि तेषामनभिधेयत्वाद्वहुवचनाभावः। आकृतिपक्षेऽपि प्रत्यासत्तेस्तदाधारगतं बहुत्वामाश्रीयते न त्ववयवगतम्, भिन्नवाक्यतया विधिरित्युक्तं तत्प्रयोजनमाह यत्र चेत्यादि। भाष्ये तु पञ्चकपक्षाङ्गीकारेण नियमपक्षः स्थापितः। तत्र ह्यनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे इति स्वार्थेऽपि जसादि बहुवचनं बहुत्वेऽपि सिद्धम्, तस्यापि स्वार्थत्वात्तत्राप्यर्थनियमाद्-बहुषु बहुवचनमेव, द्व्येकयोर्द्विवचनैकवचने एवेति। एवं `कर्मणि द्वितीया' इत्यादावपि कर्मणि द्वितीयैवेत्येवमादिकोऽर्थनियमो वेदितव्यः। एवं हि प्रत्ययानामनियतत्वादव्ययेभ्ये निःसंख्येभ्यो निष्कारकेभ्यश्च स्वादयः सिद्ध्यन्ति। अथ वा, प्रत्ययनियमः-बहुष्वेव बहुवचनं द्व्येकयोरेव द्विवचनैकवचने। तुल्याजातीयस्य च नियमेन व्यावृत्तिः-बहुष्वेव बहुवचनं न द्व्येकयोः, एकस्मिन्नेवैकवचनं न संख्यान्तरे, द्वयोरेव द्विवचनं न संख्यान्तर इति। `कर्मणि द्वितीया' इत्यादावप्येवम्-कर्मण्येव द्वितीया, न कारकान्तर इति। एवमपि ह्यव्ययेभ्यः स्वादयः सिद्ध्यन्ति।।
पदमञ्जरी
द्व्येकयोर्द्विवचनैकवचने।। 1.4.22 ।।
द्विशब्देन साहचर्यादेकशब्दः संख्यावाची। अयमपि भावप्रधानो निर्देशः, अत एव`द्व्येकयोः' इति द्विवचनम्, तदाह-द्वित्वैकत्वयोरिति। एतदपीत्यादि। अनेनास्यापि विध्यर्थत्वं दर्शयति। कथं तर्हि सामान्यविहितयोरिति, यावता नियमार्थत्वे एतद् घटते? उच्यते; साधारणपर्यायः सामान्यशब्दः ससंख्यनिःसंख्यसाधारण्येन विहितयोरित्यर्थः। अर्थाभिधानमिति। अर्थः=वाच्योऽभिधीयते=कथ्यते येन तदर्थाभिधानम्। द्व्येकयोरितयत्र `संख्याया अल्पीयस्यः' इत्येकशब्दस्य पूर्वनिपातोऽस्मादेव निपातनान्न भवति। संख्येयवचनष्वेवार्थद्वारकमल्पीयस्त्वमित्यन्ये।।
पदमञ्जरी
कारके।। 1.4.23 ।।
अधिकारोऽनेकप्रकारः। संज्ञा, विशेषणम्, स्थानी, प्रकृतिः, निमित्तम्, आदेश इति। `प्रत्ययः', `शेषे', `पूर्वपरयोः' `ङ्याप्प्रातिदिकात्' `धातोः'`आर्द्धधातुके मूर्द्धन्यः' इति तदिह विधेयानिर्देशात् स्वरितत्वाच्चाधिकारत्वे स्थिते प्रकारमाह-कारक इति विशेषण...मधिक्रियत इति। न तावत्सञ्ज्ञात्वेनाधिकारः; सञ्ज्ञाया भाव्यमानत्वात्सप्तम्यनुपपत्तेः। अथ सञ्ज्ञानुरूपः प्रथमानिर्देश एव कस्मान्न कृतः, युक्तं चैतद् कारकसंशब्दनेषु वक्ष्यमाणानामपादानादीनामेव षण्णां ग्रहणस्येष्टत्वाद्; अन्यथा नटस्य श्टणोतीति कारकशेषस्यापि प्रसङ्गात्? उच्यते; सञ्ज्ञापक्षे--अपाये यद् ध्रुवं तत् कारकसञ्ज्ञं भवति, अपादानसञ्ज्ञं चेत्ययमर्थो भवति, एवमन्यत्रापि; ततश्च कारकापादानसञ्ज्ञयोर्युगपद्विधानात् परस्परं निमित्तनिमित्तिभावाभावादकारकस्यापि व्यापारशून्यस्यापादानसञ्ज्ञा प्राप्नोति। विशेषणाधिकारे तु-कारकेषु मध्ये यदपाये ध्रुवं सा न प्राप्नोति। अतो विशेषणानुरूप एव निर्देशः कृतः, न तु सञ्ज्ञानुरूपः।
कारकसञ्ज्ञा त्वन्वर्थत्वाद् व्यापारशून्यस्य न भवति। किं च कारकसंज्ञाया अपादानादिसञ्ज्ञाभिः समावेशो न प्राप्नोति, ततश्च`स्तम्बेरमः' इत्यत्र सप्तम्यां श्रुयमाणायां गतिकारकोपपदादिति स्वरो न स्यात्, `कारके' इति निर्धारणे सप्तमी, सामान्यापोक्षं चैकवचनम्। कारकशब्दोऽयमस्ति ण्वुलन्तः-करोतीति कारकमिति, अस्त्यव्यत्पन्नः सञ्ज्ञाशब्दो निमित्तपर्यायः; तत्र पूर्वस्य ग्रहणेऽपादानादिषु कारकशब्दो न प्रवर्त्तोत, यथा कर्तृशब्दः, तेषामस्वतन्त्रत्वात्; स्वातन्त्र्ये वा पक्षे कर्तृसञ्ज्ञा प्रसज्येत, नैष दोषः; सर्वमेव खलु कारकं यथायथमवान्तरव्यापारं निर्वर्तयत् प्रधानक्रियायामुपयुज्यते, सा च सकलकारकजन्या फलभूता विक्लित्यादिरूपा क्रिया प्रधानक्रिया। यद्वा-सामान्यभूता क्रिया प्रधानक्रिया फलजनना नाम, सर्वाणि हि कारकाणि फलजननाय प्रवर्तन्ते, अतो यद्यत्फलजननारूपं तत्सर्वेष्वेव कारकेष्वविशिष्टम्। किञ्चित्खलु कारकं केनचिदेव रूपेण फलं जनयतीति फलजनना सर्वेषामभिन्नरूपा। अवान्तरभेदविवक्षायां तु करणादिरूपोन्मेषः।
न च वैशेषिकाणामिवास्माकमेका क्रिया नानेकत्र समवेता, धात्वर्थो हि क्रिया, न परिस्पन्द एव। धातुना च सकलकारकानुयाय्योदनादिफलावच्छेदेन एकीकृतो व्यापारोऽभिधीयते। तस्यामेकस्यां प्रधानक्रियायामुपयोगो यथायथमवान्तरव्यापारमुखेन, तद्यथा-अपादानस्यावधिभावोपगमनं व्यापारः, सम्प्रदानस्यतु प्रेरणानुमत्यनिराकरणादिः, करणस्य काष्ठादेर्ज्वलनादिः, अधिकरणस्य सम्भवनधारणादिः, कमंणो निर्वृत्त्यादिः, कर्तुः प्रसिद्ध एव, प्रयोजकस्य प्रेषणादिः। न चैवं सति करणादीनामपि कर्तृसञ्ज्ञाप्रसङ्गः, परतन्त्रत्वत्। प्रधानेन हि कर्त्रा समवाये करणादीनि परतन्त्राणि, व्यवाये स्वतन्त्राणि;तद्यथा-अमात्यानां राज्ञा सह समवाये पारतन्त्रम्, व्यवाये स्वातन्त्र्यम्। यद्येवम्, कारकव्यपदेशोऽपि करणाद्यवस्थायां न स्यात्? करणम् कारकमिति अधिकारसामर्थ्यात्। कारकशब्दोपनीतस्वातन्त्र्यमवस्थान्तरगतं विज्ञास्यते। अवस्थान्तरे यत् स्वतन्त्रं तत्साधकतमं करणमिति कर्तुंरेव त्वेकस्य सांप्रतिकं स्वातन्त्र्यम्, तच्च कर्तृसञ्ज्ञाङ्गतया चोदितम्। यदि तर्हि व्युत्पत्तिपक्षेऽप्यवस्थान्तरगतमेव स्वातन्त्र्यम्, एवं तर्हि करणाद्यवस्थायां निमित्तभाव एवाभ्युपगतो भवति? यद्येवम्, किं दोषप्रतिविधानव्यसनेन। निमित्तपर्यायस्यैव ग्रहणमस्त्विति मन्यमान आह- कारकशब्दश्चेति। कस्य हेतुरिति। द्रव्यगुणविषयोऽपि हेतुः कारकं प्राप्तमित्यभिप्रायः। कारकशब्दोऽयं क्रियाहेतावेव प्रसिद्ध इत्याह-क्रियाया इति। अनाश्रितव्यापारं निमित्तं हेतुः, आश्रितव्यापारं कारकम्, उक्तं च--
द्रव्यादिविषयो हेतुः कारकं नियतक्रियम्। इति।
अनाश्रिते तु व्यापारे निमित्तं हेतुरिष्यते।। इति च।
कथं तर्हि पूर्वमुक्तम्-अनर्थान्तरमिति, न हि सामान्यविशेषवचनानामनर्थान्तरवाचित्वम्? सत्यम्; सामान्यशब्दयोरपि अर्थप्रकरणादिना विशेषवृत्तिमभिप्रेत्य तु तथोक्तम्। वृक्षस्य पर्णं पततीति। पर्णविशेषणत्वेनात्र वृक्षो विवक्षितः, न त्वपायस्य निमित्तत्वेनेत्यपादानसंज्ञा न भवति, न वापायस्याविवक्षितत्वात्। सति ह्यवधौ गतिरपायो भवति, नान्यथा। न चात्र वृक्षोऽवधित्वेन विवक्षितः। तथा हि--वृक्षमजहत्यपि पर्णे वृक्षस्य पर्णं पततीति भवति प्रयोगो यदा वृक्षः छिन्नः पततीति, सत्यम्; अत एवास्मिन्नतृप्तः सन्नाह--माणवकस्य पितरमिति। अत्र पितुः सम्बन्धित्वेन माणवको विवक्षितः, न तु प्रश्नक्रियां प्रति निमित्तत्वेनेति कर्मसंज्ञा न भवति; असति तु कारकाधिकारे तस्यापि स्यात्। शेषलक्षणा तु षष्ठी अकथिते दुह्यादिपरिगणनाद्राज्ञः पुरुष इत्यादौ सावकाशा। यदि तर्हि विशेषणमिदम्, ध्रुवादीनां न संज्ञा, `कारकद्दत्तश्रुतयोरेवाशिषि'--इत्यादौ यत्र कारकशब्दः संशब्द्यते तत्रापादानादीनां वक्ष्यमाणानां पण्णामेव ग्रहणमिष्यते, तन्न सिद्ध्यति। संज्ञापक्षे तु न दोषः, संज्ञा ह्यावर्तमाना संज्ञिनं प्रत्यायति। स्यादेतत्-प्रदेशेष्वपि क्रियानिमित्तपर्यायस्य कारकशब्दस्योपादानम्, तच्च निमित्तमपादानाद्येवेति, तदसत्; नटस्य श्टणोतीत्यादौ कारकशेषस्य आह-कारकसंशब्दनेषु चेति। कारकग्रहणं प्रदेशेषु स्वर्यते, स्वरितेनाधिकारावगतिर्भवतीति भावः।।
पदमञ्जरी
ध्रुवमपायेऽपादानम्।। 1.4.24 ।।
ध्रवमिति। ध्रु गतिस्थैर्ययोः इत्यस्मात्कुटादेः पचाद्यचि रूपम्। ये तु `ध्रुव गतिस्थैर्ययोः' इति पठन्ति, तेषामिगुपधलक्षणः कः प्रत्ययः। अपायः= विश्लेषः, विभागस्तद्धेतुभूतश्च गतिविशेषोऽवधिसापेक्षः, तत्र विभागस्य द्विष्ठत्वात् न केवलमपयन्नेव तेन युक्तः, किं तर्हि? यतोऽपैति सोऽपि युक्त एवेत्याह-ध्रुवं यदपाययुक्तमिति। कथं पुनः सप्तमीनिर्द्देशेऽप्यपाययुक्तमिति प्रतिपद्येमहीत्यत्राह-अपाये साध्य इति। साध्यत्वेन विषयत्वात् सामर्थ्यलभ्यो योग इति भावः। ध्रुवमित्येकरूपमुच्यते- ध्रुवमस्य शीलम्, ध्रुवमस्य रूपमिति, इह तदपायेन विशेष्यते-उपाये यद् ध्रुवमिति, न तु सार्वत्रिकम्, तच्चापाये ध्रुवमुच्यते-यदपायेनानाविश्यते उपयुज्यते चापाये, तच्चार्थादवधिभूतमित्याह-यदवधिभूतमिति। एवं च सार्थाद् हीनः, रथात्पतितः, धावतः पतित इत्यादौ क्रियान्तरावेशाच्चलत्वे तत्तद्धावनादिक्रियानावेशात्तन्निमित्तमपायं प्रत्यौदासीन्यादस्त्येव ध्रुवत्वमिति भवत्येव संज्ञा। उक्तं च--
अपाये यदुदासीनं चलं वा चदि वा चलम्।
ध्रुवमेवातदावेशात् पदपादानमुच्यते।। इति।
पततः पतित इत्यत्रापि परगतपातापेक्षया ध्रौव्यमेव। तथा हि-
पततो ध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ।
तस्य त्वश्वस्य पतने कुड्यादिर्ध्रुव उच्यते।।
इह तु परस्परम्मान्मेषावपसर्पत इति
मेषान्तरक्रियापेक्षमवधित्वं पृथक् पृथक्।
मेषयोः स्वक्रिययापेक्षं कर्तृत्वं च पृथक्पृथक्।।
गतिर्विना त्ववधिना नापाय इति कथ्यते।।
जुगुप्सेति। प्रश्लेषपूर्वको विश्लेषोऽपायः, स चात्र नास्ति; बुद्धिपरिकल्पितस्तु गौणः, न च मुख्ये संभवति गौणस्य ग्रहणं युक्तम्। अत एव `भीत्रार्थानाम्' इत्यादेरारम्भ इति वाक्यकारस्याभिप्रायः। अत्र च कारकशेषत्वात् षष्ठी प्राप्नोति-नटस्य श्टणोतीति यथा। प्रत्याख्यानं तु साधकतममिति तमब्ग्रहणं लिङ्गम, कारकप्रकरणे यथासम्भवमेव साधकत्वमिति। तदिह-अधर्माज्जुगुप्सते इत्यादौ जुगुप्सादिपूर्विकायां निवृत्तौ जुगुप्सादीनां वृत्तिरिति स्थिते य एष मनुष्यः प्रेक्षापूर्वकारी भवति, स पश्यति- दुःखहेतुरधर्मो नैनं करिष्यामीति; स बुद्ध्या तं प्राप्नोति, प्राप्य तच ततो निवर्त्तते। धर्मात्प्रमाद्यति धर्मान्मुह्यतीति। य एष नास्तिकः पुरुषः, स पश्यति-नानेन धर्मेण किंचिदाप्यते, नैनं करिष्यामीति स बुद्ध्या तं प्राप्नोति, प्राप्य च ततो निवर्त्तते, तत्र ध्रुमपायइत्येव सिद्धमिति। तच्चैतत्--
निर्द्दिष्टविषयं किञ्चिदुपात्तविषयं तथा।
अपेक्षितक्रियं चेति त्रिधाऽपादानमुच्यते।।
यत्र धातुनापायलक्षणः संज्ञाविषयो निर्दिश्यते, यथा-ग्रामादागच्छतीति, तन्निर्दिष्टविषयम्। यत्र धातुर्धात्वन्तरार्थाङ्गं स्वार्थमाह, यथा-बलाहकाद् विद्योतते विद्युद् इति, अत्र हि निः सरणाङ्गविद्योतने विद्युतिर्वर्त्तते-बलाहकन्निः-सृत्य विद्योतत इत्येव; कुसुलात्पचतीत्यत्राऽऽदानाङगे पाके पचिर्वर्त्तते-कुसूलादादाय पचतीति, तदुपात्तविषयम्। अपेक्षितक्रियं तु-यत्र क्रिया न श्रुयते, प्रमाणान्तरेण तु प्रतीयते, यथा-आगच्छन्तं पुरुषं प्रत्यक्षेण पश्यन्नाह-कुतो भवानिति, सोऽपि तदेव प्रत्यक्षसिद्धमागमनमुपजीवन्नाह-पाटलिपुत्रादिति।
ध्रुवग्रहणं किम्? ग्रामादागच्छति शकटेन--अत्र शकटस्य मा भूत्। अथ क्रियमाणेऽपि ध्रुवग्रहण इह कस्मान्न भवति--धनुषा विघ्यतीति, अत्र हि शराणामपायं प्रति अवधिभावेनैव धनुषः साधकतमत्वम्? सत्यम्; उभयप्रसङ्गे परत्वात्करणसंज्ञा भविष्यति। नन्वेवमक्रियमाणेऽपि शकटस्य नैव भविष्यति, एवं संज्ञान्तरविषये सर्वत्र। वृक्षस्य पत्रं पततीत्यत्र त्वपायस्याविवक्षितत्वादकारकत्वाच्च न भविष्यति । संज्ञिनिर्देशार्थं तु न हि `कारके' इति सप्तम्यन्तेन शक्यः संज्ञी निर्देष्टुम्, सिद्धं तु निर्द्धार्यमाणस्य संज्ञित्वादपायविषयेषु कारकेषु मध्ये यत्कारकं संज्ञान्तरस्याविषयस्तदपादानमिति, तदेवं ध्रुवग्रहणं चिन्त्यप्रयोजनम्।।
पदमञ्जरी
भीत्रार्थानां भयहेतुः।। 1.4.25 ।।
भयं भीः, त्राणं त्राः, सम्पदादित्वाद्भावे क्विप्। भीत्रौ अर्थौ येषां ते भीत्रार्थाः, षष्ठीप्रयोगापेक्षया कारकापेक्षया चेत्याह--बिभेत्यर्थानामित्यादि। अत्र बिभेतित्रायतिशब्दौ तदर्थयोर्वर्तेते, तदर्थोऽर्थो येषामित्यर्थः। त्राणं बाधकेभ्यो रक्षणम्, बाधकाश्च भयहेतव इति त्रार्थानामपि भयहेतुः कारकं भवत्येव। चोरेभ्य इति । चोरयतेः पचाद्यचि चोरः। क्वचित् चौरेभ्य इति पाठः। तत्र स्वार्थिकः प्रज्ञाद्यण्। छत्त्रादिषु वा चुराशब्दः पठ्यते, स चाऽप्रत्ययादित्यस्य `ण्यासश्रन्थो युच्' इति युचि बाधके प्राप्ते तस्मादेव निपातनादकारप्रत्यये णिलुकि च व्युत्पाद्यते, ततश्चुरा स्तेयं शीलमस्येति णे कृते स एवार्थो भवति। बिभेतीति। `ञिभी भये' जुहोत्यादिः। उद्विजते इति। `ओविजीभयचलनयोः' तौदादिकोऽनुदात्तेत्। अरण्ये इति। अत्र तत्स्थेभ्यो वृक्षादिभ्यो भयम्, नारण्यात्। ननु च ध्रुवमित्यनुवर्त्तिष्यते, न चारण्यमविधित्वेन विवक्षितम्, परत्वाच्चाधिकरणसञ्ज्ञैव भविष्यति, सत्यम्; पूर्वस्यैवायं प्रपञ्चः, कथम्? भयादिपूर्विकायां निवृत्तौ भ्यादयो वर्तन्ते-बिभेतीति कोर्थः? भीत्या निवर्तत इत्यर्थः, त्रायत इति कोऽर्थः? चोरकृताद्वधादेस्त्राणेन निवर्त्तयतीत्यर्थः। कथं तर्हि चोरमध्यवर्त्तिनि चोरेभ्यो बिभेतीति प्रयोगः, न ह्यत्र निवृत्तिरस्ति? अत्रापि भीत्या निवर्त्तितुमिच्छतीत्यर्थो द्रष्टव्यः। तदेवं बुद्धिपरिकल्पितोऽपायोस्तीत्युपात्तविषयमिदमपादानमिति। कृतस्न एव प्रयोगप्रपञ्चे किमवयवपर्यनुयोगेन! ।।
पदमञ्जरी
पराजेरसोढः।। 1.4.26 ।।
अत्र धातुपाठगतस्य जीत्येतावन्मात्रस्यानुकरणम्। ततः परापूर्वो जिः पराजिरित्युत्तरपदलोपी समासो द्रष्टव्यः। ननु `प्रकृतिवदनुकरणं भवति' इत्यधातुरिति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधादसुबन्तत्वात्समासो न प्राप्नोति, न; अप्रतिषेधात्, नायं प्रसज्यप्रतिषेधः-धातोर्नेति, किं तर्हि? पर्युदासोऽयम्--यदन्यद् धातोरिति, धातोर्न विधिर्न प्रतिषेधः। एवमपीयङादेशः प्राप्रोति, परत्वाद् घेर्ङितीति गुणो भविष्यतीति, समुदायस्य वा, समुदायोऽनुकरणम्, क्वस्थस्यसमुदायस्य? प्रयोगस्य। यद्येवम्, अध्ययनात्पराजयते-अत्र प्राप्नोति, न ह्यत्र पराजीति रूपमस्ति, क्व तर्हि स्याद्? यत्र पराजीति रूपमस्ति-अध्ययनात्पराजित इति। उदाहरणे पराजिर्न्युनीभावे वर्तते-अध्येतुं ह्रसति ग्लायतीत्यर्थः। अकर्मकश्चायमत्रार्थे, तत्र षष्ठ्यां प्राप्तायां वचनम्, प्रत्युदाहरणे त्वभिभवे वर्तते। `विपराभ्यांजेः' इत्यत्रार्थद्वयेऽपि वर्तमानस्य ग्रहणम्। अयमपि प्रपञ्चो न्यूनीभावपूर्विकायां निवृत्तौ वृत्तेः सिद्धम्। अध्ययनात्पराजयते-कोऽर्थः? न्यूनीभावेन ग्लान्या ततो निवर्त्तते इत्यर्थः। तेन प्रत्युदाहरणे परत्वात्कर्मसञ्ज्ञा भविष्यतीति न चोदनीयम्।।
पदमञ्जरी
वारणार्थानमीप्सितः।। 1.4.27 ।।
ईप्सितशब्दोऽयमस्त्यभिप्रेतपर्यायः, तस्य ग्रहणे यवानामान्मीयत्वे गवां च परकीयत्व एव स्याद्, न विपर्यते? न खल्वस्यैतदभिप्रेतं यदुतात्मीया गावः परकीयान्यवान्मा घसन्निति, मा भूवन्यवा वारयितुमीप्सिताः; वार्यमाणानां तु गवामीप्सिताः, न वात्र विशेषः श्रुतः कर्तुरीप्सित इति। इह तर्हि न स्याद्-अग्नेर्माणवकं वारयति कूपादन्धमिति, न ह्यग्रिकूपौ वारयितुर्वार्यमाणस्य वाभिप्रेतौ? क्रियाशब्दस्य तु ग्रहणे वार्यमाणस्यान्थादेर्गमनादिक्रियया कूपादेराप्यमानत्वात् सिद्ध्यति, अन्धश्चापश्यन्नपि गन्तव्यं जिगमिषति, अन्यथा न क्वचित्तस्य प्रवृत्तिः स्यात्। यवेभ्यो गा वारयतीति। `वृञ् आवरणे' चुरादिः। अथात्र गवामपादानसंज्ञा कस्मान्न भवति, ईप्सिततमोऽपीप्सितो भवत्येव, यथा शुक्लतमोऽपि शुक्लः? परत्वात्कर्मसंज्ञा भविष्यति। कर्मसंज्ञाया अवकाशः- वारणार्थेभ्योऽन्यत्र, अपादानसंज्ञायास्तु प्रकर्षरहितमीत्सितम्, इप्सिततमस्य तूभयप्रसङगे परत्वात्कर्मसंज्ञा। अयमपि प्रपञ्चः, अस्ति ह्यत्रपि बुद्धिव्यवस्थितोऽपायः, कथम्? पश्यत्ययम्-यदि गावः क्षेत्रे गच्छेयुर्ध्रुवं सस्यविनाशः, सस्यविनाशेऽधर्मश्च राजभयं च; स बुद्ध्या संप्राप्य निवर्तयतीत्यतो न चोदनीयम्-प्रत्युदाहरणे क्षेत्रस्याधिकरणसंज्ञा भविष्यतीति।।
पदमञ्जरी
अन्तर्द्धौ येनादर्शनामच्छति।। 1.4.28 ।।
अन्तर्द्धौ इति नेयं `निमित्तात्कर्मयोगे' इति सप्तमी, यथा हि-वेतनेन धान्यं लुनातीत्यत्र वेतनस्य धान्येन योगोऽस्ति,तथेहाप्यदर्शनमिच्छतीतीच्छाकर्मणाऽदर्शनेनान्तर्द्धेर्योगो नास्ति। अथादर्शनस्य यत्कर्म आत्माख्यमात्मनोऽदर्शनमिच्छतीति तेनान्तर्द्धेर्योगोऽस्ति? यस्यैवादर्शनंतस्यैवान्तर्द्धानमित्युच्येत। एवमपि `निमित्तात्कर्मयोगे' इति किं निमित्तं गृह्यते, कारणम्? प्रयेजनं वा? कारणं चेज्जाड्येन बद्धः- अत्रापि प्राप्नोति, य एव बद्ध्यते तत्रैव जाड्यमिति; तस्मात् प्रयोजनस्य तत्र ग्रहणम्। यथा-चर्मणि द्वीपिनं हन्तीति चर्म द्वीपिहननस्य प्रयोजनम्। इह त्वन्तर्द्धानमदर्शनस्य कारणम्, अन्तर्हितः खल्वसौ न द्दश्यते। तस्माद्विषयसप्तम्येषा, सत्सप्तमी वा। येनेति कर्त्तरि तृतीया। ननु च दर्शनेन योगात् `कर्तृ कर्मणोः कृति' इति षष्ठ्या भाव्यम्। उभयप्राप्तौ कर्मण्येवेति नियमात् तृतीया भविष्यति। कम त्वत्रादर्शनस्यात्मा। नन्वात्मने इति न श्रूयते, मा श्रावि; येनादर्शनमिच्छतीत्युक्ते कस्येत्यपेक्षायामात्मन इति गम्यते। अन्तर्द्धिनिमित्तमिति। अन्तर्द्धिना कारणेनेत्यर्थः। `निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्' इति प्रथमा। अथ वा-बहुब्रीहिरदर्शनस्य समानाधिकरणं विशेषणम्। सूत्रऽनुपात्तोऽपि तच्छब्दो यत्तदोर्नित्यसम्बन्धाल्लभ्यत एवेत्याह-तत्कारकमिति। अन्तर्द्धत्ते इति। तिरोभवतीत्यर्थः। निलीयते इति। `लीङ् श्लेषणे' दैवादिकः।
चौरान्न दिद्दक्षते इति। आत्मानं ते मा द्राक्षुरित्येवमर्थम्। ननु परत्वात्कर्मसंज्ञा भविष्यति, सत्यम्; अयमपि प्रपञ्चः, कथम्? पश्यत्येवम्-यद्युपाध्यायः पश्येद् ध्रुवं मे प्रेषणमुपालम्भो वा भवेदिति, स बुद्ध्या संप्राप्य निवर्तते। येनेत्यस्मिन्नसत्यदर्शनमिच्छतः शिष्यस्यैव स्यात्, ध्रुवमित्यनुवर्तिष्यते। एवं तर्हि सूत्रस्यावाचकत्वं मा भूत्। असति हि तस्मिन्नन्तर्द्धौ ध्रुवमपादानसंज्ञं भवति तच्चेद् ध्रुवमदर्शनमिच्छतीत्यर्थः स्यात्। न च ध्रुवमिच्छति, यच्चेच्छति न तद् ध्रुवमित्यवाचकं स्यात्।।
पदमञ्जरी
आख्यातोपयोगे।। 1.4.29 ।।
नियमपूर्वकं विद्याग्रहणमिति। तत्रैवोपयोगशब्दस्य रूढत्वात्। यथा तेषां मन्त्राणामुपयोगे द्वादशाहमधः शय्योति नियमो भिक्षाचरणादिः। नटस्य श्रृणोतीति। किं पुनर्नटः कारकम्? उताहो न ?, यदि कारकम्? कर्म संज्ञा प्राप्नोति-`अकथितं च' इति। अथाकारम्? उपयोगग्रहणमनर्थकं स्यात्। अस्तु कारकम्, न ह्युपाध्यायान्नटस्य व्यापारे कश्चिदन्यो विशेषः; अन्यदतो नियमात्। दुह्यादिपरिगणनात्तु कर्मसंज्ञा न भवति। क्वचित्तु नटस्य गाथां श्रृणोति, ग्रन्थिकस्य कथां श्रृणोतीति पाठः, तत्रापि नटादिनिमित्तं गाथादेः श्रवणं करोतीत्यर्थ; न तु गाथादिविशेषणं नटादिः; अकारकत्वप्रसङ्गात्। ग्रन्थिकः=कथाया वाचयिता। अयमपि प्रपञ्चः, कथम्? उपाध्यायान्निस्सरन्तं शब्दं गृह्णातीति स्फुट एवात्रापायः। इदं तर्हि प्रयोजनम्-`उपयोग इति वक्ष्यामि, नटस्य मा भूत्' इति? ननु नटस्य सत्यप्यवधित्वे शेषरूपेण विवक्षणात् षष्ठी भविष्यति, यथा न माषाणामश्नीयादिति वस्तुतः कर्मत्वं माषाणाम्, सत्यम्; स एव विवक्षानियमः सूत्रकारेण प्रदर्श्यते-उपयोगेऽवधित्वं विवक्षितम्, अन्यत्र शेषत्वमिति।।
पदमञ्जरी
जनिकर्तुः प्रकृतिः।। 1.4.30 ।।
जनेः कर्ता जनिकर्तेति कर्मणि षष्ठ्याः समासः। अयमेव च निर्देशो ज्ञापयति-`कर्त्तरि च' इति प्रतिषेधोऽनित्य इति। कः पुनरसावित्यत आह-जन्यर्थस्येति। एतदुक्तं भवति-जनिशब्दोऽयम्`इञ्जादिभ्यः' इति जनेर्भाव इञमुत्पाद्य व्युत्पादितः। `जनिवध्योश्च' इति वृद्धिप्रतिषेधो जन्यार्थवाची, न तु `इक्‌स्तिपौ धातुनिर्देशे' इति इक्प्रत्ययान्तः, `गमहन' इत्युपधाया लोपप्रसङ्गत्। नाप्यागन्तुकेनेकारेण धातोर्निर्देशः; शब्दात्मकस्य धातोः कर्त्रा सम्बन्धायोगात्। अथाप्यर्थद्वारको योगः स्याद्? एवमपि धातुनिर्देशे तस्यैव प्रयोगे स्याद्, न पर्यायस्य; अङ्गादङ्गास्तम्भवोऽस्तीति। अर्थग्रहणे त्वत्रापि भवतीति। प्रकृतिरित्यस्य विवरणम्--कारणमिति। उपादानकारणमित्यर्थः।
अन्ये तु ध्रुवग्रहणानुवृत्तेरेव प्रकृतिपरिग्रहे सिद्धे प्रकृतिग्रहणं कारणमात्रपरिग्रहार्थं वर्णयन्ति। अत एव वृत्तावुक्तम्-कारणमिति, न पुनरुपादानकारणमिति। तेन च पुत्रात्प्रमोदो जायत इत्यादावपि भवतीति। किं पुनः सत् जायते? उतासत्? न तावत्सत्; जन्मवैयर्थ्यात्। यदि जन्मनः प्रागेव सत्, किं जन्मना? अथैवमपि जन्म, जायस्व जायस्वेत्येव घटो जायते। नाप्यसत्; असतः कर्तृत्वायोगात्, शशविषणादेरपि जन्मप्रसङ्गच्च। उक्तमत्र--
पूर्वावस्थामविजहत्संस्पृशन् धर्ममुत्तरम्।
संमूर्छित इवार्थात्मा जायमानोऽभिछीयते।। इति।
एतच्च `आन्महतः' इत्यत्रोपपादयिष्यामः। किञ्चास्माकमनेन दुस्तर्केण, अस्ति तावत् `श्रृङ्गाच्छरो जायते' इति प्रयोगः, स उपपादनीय इत्येतावत्! अयमपि प्रपञ्चः। लोके हि यद्यस्माज्जायते तत्ततो निर्गच्छतीत्युच्यते, लोकप्रसिद्ध्यनुसारेण शब्दप्रयोगः, अर्थतत्त्वं तु तथा भवत्वन्यथा वा।।
पदमञ्जरी
भुवः प्रभवः।। 1.4.31 ।।
भवनं भूः, सम्पदादित्वात्क्विप्। अत्रापि प्रशब्दो द्रष्टव्यः। न हि कोवलस्य भवत्यर्थस्य प्रभवनेन योगः किं तर्हि? सोपसर्गस्य भुवः। कर्तेति। भवत्यर्थस्य कर्तेत्यर्थः, भुवो वा धातोः। कथं पुनर्धातोर्नाम कर्त्ता स्याद्, धातुर्वै शब्दः, शब्देऽसम्भवेऽर्थे कार्थं विज्ञास्यते। `तसु उपक्षये' भावे क्तः, `वि गतौ' तस्ता, वितस्तेति, अशोष्येत्यर्थः। प्रथमत उपलभ्यते इति। उपलभतेः कर्मव्यापारे प्रभवतिः, प्रवर्तत इत्यर्थः। प्रकाशत इति यावत्। एतेन जन्यर्थाभावात्पूर्वेणासिद्धं दर्शयति। अनेकार्थत्वाद्धातूनामस्मिन्नर्थे वृत्तिः। अयमपि प्रपञ्चः। कथम्? भवनपूर्वके निःसरणे प्रभवतिर्वर्त्तते।।
पदमञ्जरी
कर्मणा यमभिप्रैति स संप्रदानम्।। 1.4.32 ।।
कर्मणा करणभूतेनेति। कथं पुनरेकमेव वस्तु युगपत्कर्म च करणं च भवति? क्रियाभेदाद्दानक्रियायां कर्माभिप्रायेण क्रियायां करणम्, दीयमानाया हि गवा शिष्य उपाध्यायामभिप्रैति संबध्नाति ईप्सति वा, अभप्रपूर्वो हीण् ईप्सतिना समानार्थः। अभिप्रेर्तामत्युक्ते ईप्सितमिति गम्यते। उक्तं च--
अनिराकरणात्कर्त्तुस्त्यगाङ्गं कर्मणोप्सितम्।
प्रेरणानुमतिभ्यां वा लभते सम्प्रदानताम्।। इति।
त्यागो दानम्, त्यागस्याङ्गं शेषभूतं कर्मणा गवादिनेप्सितमाप्तुमिष्टं संप्रदानतां लभते, अनिराकरणाद्वा, एवमस्त्विति अनुमानाद्वा, देवेभ्यः सुमनसो ददाति, याचकाय भिक्षा ददाति, उपाध्यायाय गां ददाति; न तु निराकुर्वन् संप्रदानं भवतीति श्लोकार्थः।
अत्र केचिदाहुः- `कुगतिप्रादयः' इत्यत्र वार्तिकम्- `उदात्तवता तिङा गतेः समासवचनम्' इति। यो जात एव प्रथमोमहस्वावो देवा क्रतुना पर्यभूषत्, यो यः शम्बरमन्वविन्दत्, यस्मान्न ऋते किं वजयन्ते, यो वै प्रयवयतामप्येनं प्रतिपद्यते-इत्याद्युदाहरणानि। अत्र सर्वत्र `यद्वृतान्नित्यम्' इति निपातप्रतिषेधात् तिङन्तमुदात्तवत्, ततश्चायमभिप्रैतीत्यत्रापि समासे सति प्रातिपदिकत्वात् विभक्त्युत्पत्तिः स्यादिति।
नेति वयम्; तस्य छन्दोविषयत्वात्। यदि कर्मणा यमभिप्रैति स संप्रदानम्, अजां नयति ग्राममिति अजैर्नयतिक्रिया कर्मभिस्संबध्यमानस्य ग्रामस्य संप्रदानतां प्राप्नोति? न प्राप्नोति, किं कारणम्? कर्मणेति करणे तृतीयेत्यक्तम्। न च यथा शिष्यस्योपाध्यायसम्बन्धे गौः करणम्, एवमजा ग्रामसम्बन्धे। ईप्सतिना समानार्थे तु सुतरामप्राप्तिः। तथा हि- `यमभिप्रैति' इत्युक्ते यमिति निर्दिष्टस्य शेषित्वम्, कर्मणेति निर्दिष्टस्य गवादेः करणस्य शेषत्वं च प्रतीयते; यथा-`कर्त्रभिप्राये क्रियाफले' इति कर्तुः शेषित्वं क्रियाफलस्य शेषत्वम्, न चात्र शेषशेषिभावः प्रतीयते। किं च `नीवह्योर्हरतेश्च' इति द्विकर्मकेषु नयतिः परिगण्यते, अतोऽपि ग्रामस्य न भविष्यति।
अथ किमर्थं महती संज्ञा क्रियत इत्याह-अन्वर्थसंज्ञाविज्ञानादिति। सम्यक्‌प्रदीयते यस्मै तत्संप्रदानमित्यन्वर्थत्वात्सञ्ज्ञाया ददातिकर्मणा यमभिप्रैति स संप्रदानमित्यर्थः। एवमपि रजकस्य वस्त्रं ददाति, घ्नतः पृष्ठं ददातीत्यत्र कस्मान्न भवति? अदानत्वात्, किं पुनर्दानम्? दानं किञ्चदुद्दिश्यापुनर्ग्रहणाय स्वद्रव्यत्यागाः, यथा-वृक्षाय जलं ददाति, देवेभ्यः सुमनसः, याचकाय भिक्षाम्, उपाध्यायाय गाम्, खण्डिकोपाध्यायस्तस्मै चपेटिकां ददाति, न शूद्राय मतिं दद्यादिति। करतलप्रहारः=चपेटिका। रजके तु पुनर्ग्रहणाद्दानाभावः, उपमानात्तु ददातिप्रमोगः,तत्र कारकशेषत्वान्नटस्य श्रृणोतीतिवत् षष्ठी
कर्मणेति किम्, यावता उपाध्यायाय गां ददातीत्यत्र गोरुपाध्यायस्य वाभिप्रेयमाणत्वम्,यतो गौर्दानक्रियया करणभूतयाभिप्रेयते, गवा तूपाध्यायः; तत्र परत्वाद्रोः कर्मसंज्ञेति पारिशेष्याद् उपाध्यायस्यैव संप्रदानसंज्ञा भविष्यति? नैतदस्ति;सत्यप्युभयोरभिप्रेयमाणत्वेऽन्तङ्गत्वात्कर्मण एव गवादेः स्यात्। कर्मसज्ञा तु ददातिकर्मणोऽन्यत्र सावकाशा, कारकप्रकरणे च प्रकर्षो नाश्रीयते, न त्वन्तरङ्गबहिरङ्गभावोऽपि । यंसग्रहणेऽक्रियमाणेऽभिप्रेतुरेव संप्रदानसंज्ञा स्यात्; श्रुतपदार्थसम्बन्धे सति तेनैव निराकाङ्क्षत्वादध्याहारानुपपत्तेः। सत्यपि वाध्याहारे यः स इत्येवाध्याहारात् तत उपाध्यायाय शिष्येण गौर्दीयत इत्यत्रार्थे शिष्यायोपाध्यायस्य गौर्दीयत इति स्यात्। कर्मसंज्ञायां हि कर्तृग्रहणं स्वतन्त्रोपलक्षणार्थमिति तेन शिष्यस्य कर्तृ त्वाभावेऽपि गोः कर्मसंज्ञा युज्यत एव। तथा च सार्थाद्धीयत इति कर्मणि लकारोत्पत्तिः।
अभिप्रग्रहणं किम्, यावता कर्मणा यमेति गच्छति प्राप्नोति संबध्नातीत्यर्थः, अभिप्रैतीत्युक्ते स एव? अभिप्रग्रहणेऽक्रियमाणे कालविवक्षा स्यात्; ततश्च यमेव संप्रत्येति तत्रैव स्यात्, यमगात् यं चैष्यति तत्र न स्यात्; अभिप्रग्रहणे पुनः क्रियमाणे न दोषो भवति। अभिराभिमुख्ये वर्तते, प्रशब्दश्चादिकर्मणि, ततश्चोपसर्गद्वयोपादानसामर्थ्यात्कालान्तरावच्छिन्ना क्रिया नाश्रीयते। ननु यथा `तेन दीव्यति' इत्यादौ सङ्ख्याकालयोरविवक्षा, तथेहापि संख्यावत्कालस्याप्यविवक्षा सिद्धा, सत्यम्; अयमेव न्यायसिद्धोऽर्थ उपसर्गद्वयोपादानेन प्रदर्श्यते। यदा त्वभिप्रैतीत्यस्य ईप्सतीत्यर्थः, तदाभिप्रग्रहणं कर्तव्यमेव।
क्रियाग्रहणमपि कर्तव्यमिति वार्त्तिकम्, एतद्व्याचष्टे-क्रिययेत्यादि। ननु क्रियामपि लोके कर्मेत्युपचरन्ति-किं कर्म करिष्यसि, कां क्रियामिति, तत्र कर्मणा यमभिप्रैतीत्येव सिद्धम्। एवमपि कर्तव्यम्; `कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययो भवति' संदर्शनप्रार्थनाध्यवसायैराप्यमानत्वात्। क्रियापि कृत्रिमं कर्म, तथा हि-य एव मनुष्यः प्रेक्षापूर्वकारी भवति, स बुद्ध्या तावत्कञ्चिदर्थं संपश्यति-इदमीद्दशमिति, तद् द्दष्टं प्रार्थयते-अयि ममेदं स्यादिति, ततस्तदुपायभूतां क्रियां पश्यति-अस्या एतत्फलमिति, ततः प्रार्थयते-कथमियं निष्पपाद्यतामिति, ततस्तत्साधनानि समवधार्य कर्तुमध्यवस्यति। प्रतीयमानक्रियापेक्षोऽपि कारकभावो भवत्येव, यथा-प्रविश पिण्डीमित्यत्र भक्षयेति गम्यते। सूत्रकारश्च सूत्रयति-`क्रियार्थोपपदस्य च कर्मणि स्थानिनः' इति। एवमपि क्रियाग्रहणं कर्तव्यम्; ददातिकर्मत्वात्। निगर्हते इति। नास्तिक्यान्निन्दतीत्यर्थः। `गर्ह गल्ह कुत्सायाम्' अनुदात्तेत्। युद्धायेति। युद्धविषयं संनाहपूर्वकं निश्चयं करोतीत्यर्थः। नह्यतिः स्वरितेत्। पत्ये शेते इति। पतिमुपसृत्य शेत इत्यर्थः। यदि तर्हि क्रिययाभिप्रेयमाणस्यापि भवति कटङ्करोतीत्यादावपि प्राप्नोति, वचनाद्धि कर्मसंप्रदानसंज्ञयोः पर्यायः स्यात्? नैतत्सार्वत्रिकम्, किं तर्हि? प्रयोगदर्शनवशेन नियतविषयम्।
कर्मणः करणसंज्ञेत्यादि। एतच्छन्दोविषयम्, सर्वे विधयश्छन्दसि विकल्पन्ते, इति यथाप्राप्तमपि प्रयोगो भवति। भाष्ये तु ददातिकर्मणेति नाश्रितम्, प्रयोगाश्च बहवः-अर्यम्णे चरुं निर्वपेत्, देवेभ्यो ब्रह्मोदनमपक्षत्, देवेभ्यो हव्यं वहन्तः छन्दांसि वै देवेभ्यो हव्यमूर्धा, यदङ्गमाशुषे त्वम्, शं नः करत्पर्वते इत्यादयः, तन्मते क्रियाग्रहणं न कर्तव्यम्। कथं यत्र संप्रदानत्वमिष्यते? तत्र संदर्शनादीनां क्रियायाश्च भेदो विवक्ष्यते, ततश्च तैराप्यमाना क्रियापि कृत्रिमं कर्मेति सिद्धं तयाभिप्रेयमाणस्य संप्रदानत्वम्, यत्र तु नेष्यते तत्र भेदो न विवक्ष्यते, ततश्चौदनाद्येकफलावच्छेदेनैकीकृतया क्रिययाऽऽप्यमानस्य कर्मत्वमेव भविष्यति-कटङ्करोति, ओदनं पचतीति। गत्यर्थेषु तूभयं विवक्ष्यते-भेदः, अभेदश्च; तत्र भेदविवक्षायां ग्रामं गच्छतीति प्रयोग इति `गत्यर्थकर्मणि' इत्येतदपि न वक्तव्यं भवति।।
पदमञ्जरी
रुच्यर्थानां प्रीयमाणः।। 1.4.33 ।।
रुचिना समानार्था इति। वस्तुकथनमेतत्। विग्रहस्तु रुचिरर्थो येषामिति। ते च रुचिना धातुना धातुना समानार्था भवन्ति। प्रीयमाण इति। `प्रीञ् तर्पणे' इत्यस्मात् क्रैयादिकात् सकर्मकात्कर्मणि लः। दैवादिकस्तु ङिदकर्मकः, तर्पमाण इत्यर्थः। अन्यकर्तृक इति। योऽभिलाषस्याश्रयः प्रीयमाणस्ततोऽन्यकर्तृक इत्यर्थः। कथं पुनरन्याश्रयस्याभिलाषस्यान्यः कर्त्ता भवति, यावता यदाश्रयव्यापारं धातुः प्राधान्येनाचष्टे स कर्त्ता? नेदं कर्तृ लक्षणम्, किन्तु स्वातन्त्र्यमेव। तच्च क्वचिद्वास्तवम्, क्वचिद्वैवक्षिकम्। तदत्र माधुर्यातिशयेन स्वविषयं देवदत्ताश्रयमभिलाषं जनयन्मोदकस्तत्र कर्तेति गीयते। न चैवं लषेरपि प्रसङ्गः, देवदत्तो मोदकमभिलष्यतीति? अभिधानशक्तिवैचित्र्यादाश्रयकर्तृ कोऽभिलाषो लषेर्वाच्यः, रुचेस्तु विषयकर्तृकः। द्दष्टश्चायमभिधानप्रकारनियमोऽन्यत्रापि, तद्यथा-घटः पश्यतीति द्दशेराश्रयकर्तृ कं ज्ञानं वाच्यम्। घटः प्रकाशते इत्यत्र प्रकाशेर्विषयकर्तृकम्। विषय एव हि स्पष्टालोकमध्य वर्तित्वादिना सौकर्येण देवदत्ताश्रये ज्ञाने कर्तेति व्यपदिश्यते, न तु ज्ञानेन कश्चिदतिशयो विषयो जन्यते।
कोऽयं प्रकाशो नाम, यं प्राकठ्यमाचक्षते भाट्टाः, तत्र कारकशेषत्वेन षष्ठीप्रसङ्गे वचनम्। अन्ये तु प्रीयमाणं देवदत्तं मोदकः प्रीणयतीति कर्मसंज्ञां प्राप्तां मन्यन्ते। अपरे त्वेवमाहुः- देवदत्तो रोचयति मोदकमिति हेतुत्वे प्राप्ते वचनमिति, देवदत्तं हि प्राप्य रोचते मोदको न सर्वान्, नानेच्छा हि प्राणिन इति। एवमुत्तरेष्वपि योगेषु द्रष्टव्यम्। उक्तं च--
हेतुत्वे कर्मसंज्ञायां शेषत्वे चापि कारकम्।
रुच्यर्थादिषु शास्त्रेण संप्रदानाख्यमुच्यते।। इति।
पथीति। हेतुकर्मसंज्ञावदधिकरणसंज्ञा बाध्येतेति भावः। किं च प्रीयमाणग्रहणादेवादित्यो रोचत इति दीप्तिवाचिनामग्रहणम्।।
पदमञ्जरी
श्लाघहूनुङस्थाशपां ज्ञीप्स्यमानः।। 1.4.34 ।।
ज्ञीप्स्यमान इति। `मारणतोषणनिशामनेषु ज्ञा' इति घटादिषु पठ्यते, तस्मान्निशामनेऽर्थे हेतुमण्णिचि सनि `आप्ज्ञपृधामीत्',`अत्र लोपोऽभ्यासस्य',कर्मणि लटः शानजादेशः। निशामनं चेह ज्ञानमात्रमुच्यते, न चक्षुर्विज्ञानमेव, यदाह-बोघयितुमभिप्रेत इति। कथं तर्हि प्रयुज्यते--तज्ज्ञापयत्याचार्थः, विज्ञापना भर्तृषु सिद्धिमेतीति? तस्मान्निशानेष्विति पाठः। `शो तनूकरणे' ल्युडन्तः, संज्ञपितः पशुरित्युदाहरणम्। ज्ञीप्स्यमानो ज्ञपयितुमिष्यमाण इति प्रयोगः`ज्ञप मिच्च' इति चुरादिणिजन्तस्य। अन्ये तु -`मितां ह्रस्वः' इत्यत्र `वा चित्तविरागे' इत्यतो वेत्यनुवृत्तेर्व्यवस्थितविभाषाविज्ञानाच्चानिष्टे विषये ह्रस्वाभावमाहुः। देवदत्तं प्रति श्लाघमानास्तां श्लाघां तमेव ज्ञपयितुमिच्छतीत्यर्थ इति। श्लाघा स्तुतिः, प्रत्यक्षेण देवदत्तं स्तौतीति यावत्। एवं हि तां देवदत्तः शक्यते ज्ञापयितुम्। अन्ये त्वाहुः- देवदत्तायात्मानं परं श्लाघ्यं कथयतीत्यर्थ इति। तथा च भट्टिकाव्यम्--
श्लाघमानः परस्त्रीभ्यस्तत्रागाद्राक्षसाधिपः।। इति।
आत्मानं श्लाघ्यं परस्त्रीभ्यः कथयन्नित्यर्थः। एवं देवदत्ताय निह्‌नुत इति। `ह्नुङ् अपनयने' देवदत्तं प्रति निह्न्‌वानस्तां निह्नुतिं तमेव ज्ञापयितुमिच्छतीत्यर्थः। इत्येष एवंशब्दस्यार्थः। निह्नुतिरपलापः, संनिहितमेव देवदत्तं धनिकादेरपलपतीत्यर्थः। अन्ये तु ह्नोतव्यं किञ्चिद्देवदत्तं ज्ञापयतीत्यर्थ इत्याहुः- देवदत्ताय तिष्ठत इति। ईद्दशोऽहमिति देवदत्तस्य स्थनेन प्रकाशयतीत्यर्थः। देवदत्ताय शपते इति। शपथेन किञ्चित्प्रकाशयतीत्यर्थः। देवदत्तः श्लाघते इति। ज्ञीप्स्यमानवचनात् कर्मसंज्ञैव बाध्यते, न कर्तृसंज्ञेत्यर्थः। एवं गार्गिकया श्लाघते सभायामिति करणाधिकरणसंज्ञे न बाध्येते। क्वचित्तु देवदत्तं श्लाघते इति पाठः। तत्रायं भावः-यस्मायाख्यायते स ज्ञीप्स्यमान इत्याख्यायामाना द्विनीयैव न्याय्येति। ये त्वाख्यायमानं ज्ञीप्स्यमानं वदन्ति तेषां यस्मायाख्यायते ततः षष्ठी भवति--देवदत्ताय श्लाघते यज्ञदत्तो विष्णुमित्रस्येति।।
पदमञ्जरी
धारेरुत्तमर्णः।। 1.4.35 ।।
उत्तममृणं यस्येति। उत्तमम्=उत्कुष्टतमम्, उत्कृष्टार्थवृत्तेरुच्छब्दात्तमपि द्रव्यप्रकर्षत्वादामभावः। अर्त्तेः क्तः, ऋणम् `ऋणमाधमर्ण्ये' इत्यत्र कालान्तरे देयद्रव्यविनिमयोपलक्षणार्थमाधमर्ण्यग्रहणमित्युत्तमर्णेऽपि नत्वं भवति। अत्र बहुव्रीहौ निष्ठायाः पूर्वनिपाते `जातिकालसुखादिभ्यः'परवचनम् इति सुखादेराकृतिगणत्वादस्मादेव वा निपातनाद्दणशब्दस्य परनिपातः। शतं धारयतीति। `धृङ् अवस्थाने',ध्रियमाणं स्वरूपेणावतिष्ठमानं स्वभावादप्रच्यवमानं शतं प्रयुङक्त इति णिच्। ग्राम इति। नन्वत्र परत्वादधिकरणसंज्ञैव भविष्यति; उत्तमर्णेऽपि तर्हि हेतुसञ्ज्ञा स्यात्।।
पदमञ्जरी
स्पृहेरीप्सितः।। 1.4.36 ।।
चुरादावदन्तः पठ्यत इति। तेन स्पृहयतीत्यत्रातो लोपस्य स्थानिवद्भावाल्लघूपधगुणो नेति भावः। ईप्सित इति। `मतिबुद्धि' इत्यादिना वर्त्तमाने क्तः। ईप्सितमात्रे इयं संज्ञा। प्रकर्षविवक्षायां तु परत्वात् कर्मसंज्ञैव भवति--पुष्पाणि स्पृहयतीति। यदा त्वीप्सितमीप्सिततमं वा शेषत्वेन विवक्ष्यते, तदा षष्ठी भवति।।
पदमञ्जरी
क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः।। 1.4.37 ।।
गुणेष्विति। शौचाचारादिषुः दाषा विष्करणमिति। दम्भादिदोषाध्यास इत्यर्थः। तत्र क्रुधद्रुहावकर्मकाविति कारकशेषत्वान्नटस्य श्रृणोतीतिवत् षष्ठ्यां प्राप्तायां वचनम्, इतरयोस्तु सकर्मकत्वाद् द्वितीया प्राप्नोति। अत्र च चित्तदोषरूपत्वं यद्यपि क्रोधादीनामविशिष्टम्, तथाप्यन्येषामेवञ्जातीयकानां द्वेषादीनामग्रहणार्थमवान्तरभेदविवक्षया पृथगिमे निर्दिष्टाः, न तु चित्तदोषार्थानामिति। तेनास्मान् द्वेष्टीत्यत्र न भवति, अनभिनन्दनं ह्यस्यार्थः। तथा चाचेतनेष्वपि प्रयुज्यते--औषधं द्वेष्टीति। कथं पुनरेकेन क्रुधिना सर्वे क्रुधादयः शक्या विशेषयितुमत आह--क्रोधस्तावदिति। भार्यामीर्ष्यतीत्यत्र केवलं परैर्द्दश्यमानां भार्यां, न तु तां प्रति कोपः।।
पदमञ्जरी
क्रुधद्रुहोरुपसृष्टयोः कर्म।। 1.4.38 ।।
उपसर्गेण सम्बद्धयोरिति। `उपसर्गाः क्रियायोगे' उपसृजन्तीत्युपसर्गाः, पचाद्यचि न्यङ्क्वादित्वात् कुत्वम्। तेनोपसृष्टयोरित्यस्योपसर्गेण सम्बद्धयोरित्ययमर्थो भवति। स्वनिकायप्रसिद्धिर्वा।।
पदमञ्जरी
राधाक्ष्येर्यस्य विप्रश्नः।। 1.4.39।।
यस्येति कर्मणि षष्ठी, यद्विविधं पृच्छ्यत इत्यर्थः। यत्सम्बन्धीत्यादि। यत्सम्बन्धिनः शुभाशुभस्य विप्रश्न इति। देवदत्ताय राघ्यतीति। `राधोऽकर्मकाद्वद्वावेव' इति दिवादौ, तत्र वृद्धावित्युपलक्षणमकर्मकादिति वचनाद् वृद्धावकर्मकत्वाव्यभिचारात्। एवकारस्तु भिन्नक्रमः- राधोऽकर्मकादेव श्यन् भवति, यथा-वृद्धाविति। तेन सत्यप्येवकारे पर्यालोचनस्य वृत्तिरविरुद्धा। तत्र धात्वर्थेनोपसंग्रहाज्जीवत्यादिवद् राधोऽकर्मत्वमविरुद्धम्। निमित्तं वेद नैमित्तिकः, उञ्छादिषु वसन्तादिषु वा निमित्तशब्दो द्रष्टव्यः। यस्यग्रहणमनर्थकम्, यं प्रतीत्येव, तत्र यं प्रति विप्रश्न इत्यन्वये किं नाम विवक्षितं न सिध्यति।।
पदमञ्जरी
प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता।। 1.4.40 ।।
द्विवचननिर्देशात् प्रत्येकमुपसर्गसम्बन्ध इत्याह-- आङ्पूर्वस्य प्रतिपूर्वस्य चेति। कः पुनरत्र पूर्वो व्यापार इत्यत्राह--प्रत्याङ्पूर्वश्चेत्यादि परेण प्रयुक्तस्येति। इदं मे देहीत्येवं प्रार्थितस्येत्यर्थः। पूर्वस्याः क्रियाया इति। सूत्रे तु व्यापाररूपविवक्षया पूर्वस्येति निर्देशः, यत्र हेतुसञ्ज्ञायां प्राप्तायां देवदत्तेन प्रतिश्रावयतीति प्रयोगनिवृत्तये वचनमित्याहुः। विवक्षान्तरे च देवदत्तो गां प्रतिश्रावयतीति भवत्येव।।
पदमञ्जरी
अनुप्रतिगृणश्च।। 1.4.41 ।।
पूर्वेण साहचर्यादत्रापि प्रत्येकमुपसर्गसम्बन्ध इत्याह--अनूपूर्वस्य प्रतिपूर्वस्य चेति। कः पुनरत्र पूर्वो व्यापार इत्यत्राह--होता प्रथममित्यादि। अन्य इति। अध्वर्युः। कथं पुनर्ज्ञायते-अनुप्रतिपूर्वो गृणातिः शंसितुः प्रोत्साहने वर्त्तत इत्याह--अनुगरः प्रतिगर इत्यादि। अनुगीर्यते प्रोत्साह्यते येन शब्देन सोऽनुगरः। एवं प्रतिगरः, ओथामो दैवेत्येवमादिकः शब्दः; तेन हि प्रतिगीर्यते।
पदमञ्जरी
साधकतमं करणम्।। 1.4.42 ।।
`षिधू संराद्धौ' इत्यस्य हेतुमण्ण्यन्तस्य `सिद्ध्यतेरपारलौकिके' इत्यात्वे `राध साध संसिद्धौ' इत्यस्य वा ण्यन्तस्य साधकशब्दः। क्रियात्मकश्चार्थः। प्रयोज्यः कर्ता, सिध्यतः साध्यवतो वा क्रियात्मनोऽर्थस्य प्रयोजकतमं साधकतमम्। ननु सामग्य्रधीना क्रियासिद्धिर्नो खलु कर्त्रादीनामन्य तमापायेऽपि क्रिया निष्यद्यते, तत्किमपेक्षः कारकाणां मध्ये एकस्यातिशययोगः स्यात्? उच्यते; छेद्यद्रव्यानुप्रवेशो व्यापारः, काष्ठादे पाके प्रज्वलन जनितोष्णस्पर्शानुप्रवेशः, तदनन्तरमेव क्रियासिद्धिः नैवं कारकान्तरेष्वनुप्रवेशः तद्व्यापारानन्तरं वा क्रियानिष्पत्तिः समस्ति, अतः-
क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम्।
विवक्ष्यते यदा तत्र करणं तत्तदा स्मृतम्।।
`विवक्ष्यते' इत्यनेनैतद् दर्शयति-देशकालावस्थादिवशेन यस्य क्रिया प्रत्युपयोगातिशयेन व्यापारः प्रत्यासीदन् विवक्ष्ये, तदा तस्य करणत्वं भवतीति। यथा स्थाल्यधिकरणत्वेन प्रसिद्धा, तस्या अपि तनुतरकपालतया प्रकर्षविवक्षायां करणत्वं भवति-स्थाल्या पच्यत इति। उक्तं च--
वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम्।
स्थाल्या पच्यत इत्येषा विवक्षा द्दश्यते यतः।। इति।
न चैवं कर्तुरपि करणत्वविवक्षाप्रसङ्गः; भिन्नजातीयत्वात्। सकलसाधनविनियोगकारी खल्वसौ, न च शतधनो निष्कधनेन सह स्पर्द्धते!कथं तर्ह्यश्वेन दीपिकया रथेन सञ्चरते इति बहूनां करणत्वम्, यावता तेष्वपि यदासन्नोपकारकं तदेव करणं युक्तम्? उच्यते; कारकान्तरापेक्षः करणस्यातिशयः, न स्वकक्षायाम्; तेन सर्वेषां क्रियानिष्पत्तौ संनिपत्योपकारकत्वात् सिद्धं करणत्वम्।
तमब्ग्रहणं किमिति। कारकाधिकारात् सिद्धे साधकत्वे पुनः साधकश्रुतिः प्रकर्षार्था भविष्यतीति प्रश्नः। गङ्गायां घोष इति। असति तमब्ग्रहणे आधारो नाम यत्राधारात्मा व्याप्तो भवत्याधेयेन, तेनेहैव स्यात्- तिलेषु तैलम्, पयसि सर्पिरिति; गङ्गायां घोष इत्यत्र न स्यात्। तमब्ग्रहणं तु ज्ञापयति-इह प्रकरणे सामर्थ्यगम्यः प्रकर्षो नाश्रीयते, तेनेहापि भवति। यदा च देशधर्मो घोषं प्रत्याधारभावः स्त्रोतस्युपचर्यते, तदेवं तमब्ग्रहणस्य प्रयोजनम्; यदा तु गङ्गाशब्दस्तीरे वर्त्तते तदा न प्रयोजनम्. आधेयेन व्याप्तिसम्भवान्मुख्य एवाधारभाव इति।।
पदमञ्जरी
दिवः कर्म च।। 1.4.43 ।।
ननु चाक्षान् दीव्यतीत्यत्र पातयतीत्यर्थस्तत्र कर्मत्वं सिद्धम्; अक्षैर्दीव्यतीति, क्रिडतीत्यर्थः, तत्र करणत्वं सिद्धम्, किमर्थमिदमित्याशाङ्क्याह--पूर्वेण करणसंज्ञायामिति। अक्षैः क्रीडतीत्यस्यामेव विवक्षायामक्षान् दीव्यतीतीष्यते, अत्र च करणसंज्ञैव प्राप्नोति, अक्षान्पातयतीत्यत्र चार्थेऽक्षैर्दीव्यतीति नेष्यते, अतः साधकतमस्यैव करणसंज्ञायां प्राप्तायामयमारम्भ इत्यर्थः। अथ किमर्थश्चकारः? करणसंज्ञापि यथा स्यात् नैतदस्ति प्रयोजनम्; वक्ष्यमाणमन्यतरस्यांग्रहणमिहैव करिष्यामि, तत्राह--चकारात्करणसंज्ञं चेति। युगपत्संज्ञाद्वयं यथा स्यादिति भावः। अन्यतरस्यांग्रहणे तु पर्यायः स्यात्--यदा कर्म न तदा करणम्, यदा करणं न तदा कर्म; चकारात्तु युगपदेव संज्ञाद्वयं भवतीत्यर्थः। यौगपद्यप्रयोजनं मनसा दीव्यतीति कर्मत्वादण् प्रत्ययः, करणत्वाच्च तृतीया`मनसः संज्ञायाम्' इत्यलुक्-मनसा देवः। इह चाक्षैर्देवयते देवदत्तो यज्ञदत्तेनेति, अक्षैरिति तृतीयाप्रयोगेऽपि धातोः सकर्मकत्वाद् `गतिबुद्धि' इत्यादिनाऽण्यन्तावस्थायां कर्त्तुर्यज्ञदत्तस्य कर्मसंज्ञा न भवति, `अणावकर्मकात्' इति परस्मैपदं च। यदि तर्हि समावेशः- अक्षान् दीव्यतीति परत्वात् तृतीया प्राप्नोति; पर्याये तु नायं दोषः, कर्मसंज्ञापक्षे करणसंज्ञाया अभावात्। समावेशे तु करणसंज्ञाया अवकाशः-विदेवना अक्षाः, `करणाधिकरणयोश्च' इति ल्युट्; कर्मसंज्ञाया अवकाशः-दीव्यन्ते भवताक्षाः, `भावकर्मणोः' इति यगात्मनेपदे; अक्षानित्यत्र भयसंज्ञाकार्यप्रसङ्गे परत्वात्तृतीया स्यात्, नैष दोषः; कार्यकालं हि संज्ञापरिभाषम्, ततश्च `कर्मणि द्वितीया' इत्यत्र यदस्योपस्थानं तदनवकाशमिति द्वितीया भविष्यति। अयं तर्हि समावेशे दोषः- दीव्यन्तेऽक्षा इति कर्मण्यभिहितेऽपि करणस्यानभिहितत्वात्तृतीया स्यात्, देवना अक्षा इति ल्युटा करणस्याभिधानेऽपि कर्मणोऽनभिधानेन द्वितीया स्यात्? नैष दोषः; एकैव कारकशक्तिः संज्ञाद्वययोगिनी। ततश्यैकस्मिन् कारकेऽभिहिते कारकान्तरमप्यभिहितमेव भवति; शक्तेरेकत्वात्।।
पदमञ्जरी
परिक्रयणे संप्रदानमन्यतरस्याम्।। 1.4.44 ।।
परिक्रयणशब्दे धातुगतमेव रेफमाश्रित्य `रषाभ्याम्' इत्येव णत्वम्, प्रथमोपनिपतितत्वाद्, यथोपसर्गाभावे क्रयणमिति; न तूपसर्गस्थमाश्रित्य `कृत्यचः' इत्यनेन तस्य पश्चादुपनिपतितत्वेन बहिरङ्गत्वात्। वेतनादिनेति। वेतनं भृतिः, नियतकालत्वमेव स्पष्टयति। नात्यन्तिकः क्रय एवेति। परिशब्दः सामीप्यं द्योतयति। क्रयो नामात्यन्तिकं स्वीकरणम्, नियतकालं तु तस्य समीपमेवेति परिशब्दस्यार्थः।।
पदमञ्जरी
आघारोऽधिकरणम्।। 1.4.45 ।।
आध्रियन्तेऽस्मिन् क्रिया इत्याधार इति `अध्यायन्यायोद्याव' इत्यादिनाऽधिकरणे घञ्। क्रियापेक्षत्वात् कारकभावस्य क्रियाग्रहणम्। यदि क्रियाधारस्याधिकरणसंज्ञा, कर्तृकर्मणोरेव स्यात्। कर्तृस्था हि क्रिया भवति कर्मस्था वा। कर्तृसंज्ञायाः कोऽवकाशः? ये कर्मस्थक्रियाः- पचत्योदनं देवदत्त इति। नन्वत्राप्यधिश्रयणादेराधारः कर्तेति स्यादेव प्रसङ्गः? अयं तर्ह्यवकाशः- देवदत्ताय रोचते मोदक इत्युक्तम्, अत्र देवदत्तस्थस्याभिलाषस्य मोदकः कर्तेति। अथाप्यनवकाशा कर्तृसंज्ञा? एवमपि पर्यायः स्यात्। अथ कर्मसंज्ञायाः कोऽवकाशः? ये कर्तृस्थक्रियाः-आदित्यं पश्यतीति। अतः कर्तृकर्मणोरेवाधिकरणसंज्ञाप्रसङ्ग इत्यत आह--कर्तृ कर्मणोरित्यादि। कथं पुनः साक्षात्क्रियाधारे सम्भवति क्रियाधारभूतकर्तृ कर्मव्यवधानेन क्रियाधारस्य गौणस्य ग्रहणं शक्यं विज्ञातुम्? करणसंज्ञायां तमब्ग्रहणेन ज्ञापितमेतद्-यथाकथञ्चित्क्रियाधारस्यापि करणसंज्ञा भवतीति। मुख्यस्यापि तु कस्मान्न स्याद्? आस्त इति कर्तृस्थायाः क्रियाया उदाहरणम्। पचतीति कर्मस्थायाः।
त्रिविधं च तदधिकरणम्--औपश्लेषिकम्, वैषयिकम्, अभिव्यापकं चेति। कटे आस्ते,गुरौ आवसति, तिलेषु तैलमिति।।
अधिशीङ्स्थासां कर्म।। 1.4.46 ।।
पदमञ्जरी
अभिनिविशश्च।। 1.4.47 ।।
नेरल्पाच्तरस्यापूर्वनिपाताद् `अभिनि' इति समुदायानुकरणमित्याह--अभिनिपर्वूस्येति। अन्यथाऽभिपूर्वस्य निपूर्वस्य चेति ब्रूयात्।।
पदमञ्जरी
उपान्वध्याङ्वसः।। 1.4.48 ।।
वसरेश्यर्थस्येति। अर्थशब्दो निवृत्तिवचनः, व्यधिकरणे षष्ठ्यौ, अश्यर्थस्य यो वाचकस्तस्येत्यर्थः। भोजननिवृत्तिवाचिन इति यावत्। यद्वा--शीङोऽर्थः श्यर्थः, न श्यर्थस्तस्य, अस्थानार्थस्येत्यर्थः। स्थानेऽपि हि शीङ् वर्तते-जलाशयमिति। तेन ग्रामे तिष्ठतीत्यत्रार्थे ग्राममुपवसतीति भवति। अस्थानार्थत्वे ग्राम उपवसतीति, स तर्हि प्रतिषेधो वक्तव्यः? न वक्तव्यः, कथम्? नात्रोपपूर्वस्य वसेः ग्रामोऽधिकरणम्, किं तर्हि? अनुपसर्गस्य--ग्रामे वसन् त्रिरात्रमुपवसति। एतदुक्तं भवति--विशिष्टाधारावस्थितत्वेन निश्चिते देवदत्ते भोजननिवृत्तिविशिष्टकालं प्रतिपादयितुमिदं प्रयुज्यते--ग्राम उपवसतीति, तत्रान्तरङ्गत्वात् प्रतीयमानवसिक्रियापेक्षो ग्रामस्याधिकरणभावः। उपवसनं तु स्वरूपेणैव कालमपेक्षत इति कालेनैवान्तरङ्गः सम्बन्धः, ग्रामादिना तु बहिरङ्ग इत्यप्रयुक्तमपि त्रिरात्रादिकं कर्म भवति।।
पदमञ्जरी
कर्तुरीप्सिततमं कर्म।। 1.4.49 ।।
कर्तुः क्रिययेत्यादि। कर्तुर्यदाप्तुमिष्टतममित्यन्वयः, कर्तुरिति चेप्सितापेक्षाया `क्तस्य च वर्तमाने' इति कर्त्तरि षष्ठी। ईप्सित इति `मतिबुद्धि' इत्यादिना वर्त्तमाने क्तः। क्रिययेति करणे तृतीया, कर्ता हि नाम यः क्रियामनुतिष्ठति तेन कर्तुर्यदिष्टतममित्युक्ते तत्क्रियावेशादसौ कर्त्ता भवति तया करणभूतयेति गम्यते, कर्त्रा यदाप्तुमिष्यते आत्मीयया क्रिययेत्यर्थः। ईप्सितशब्दोऽयमस्त्यभिप्रेते रूढः-ईप्सितोऽभिप्रेत इति; अस्ति क्रियाशब्दः- `आप्लृव्याप्तौ' सन्, `आप्‌ज्ञपृधामीत्', आप्तुमिष्टमीप्सितमिति; तत्र क्रियाशब्दस्येह ग्रहणमिति दर्शितम्--आप्तुमिष्टतममिति।
कर्मण इति। अश्वस्य। स हि भक्षणक्रियया माषानाप्तुमिच्छति। यद्येवम्, यथाश्वस्य वस्तुतो भक्षणे कर्तृत्वे सत्यपि सम्प्रति बन्धनं प्रति कर्मत्वेन विवक्षितत्वादकर्तृत्वाद् माषाणां कर्मसंज्ञया न भवति, तथा सार्थाद्धीयत इत्यत्रापि हीयमानं सार्थो जहातीति वस्तुवृत्तेन त्यागेन कर्त्तुरपि सार्थस्य संप्रत्यपादानरूपेण विवक्षितत्वाद् अकर्तृत्वात्कर्मणि यगात्मनेपदे न स्याताम्।
अत्राहुः- कर्मकर्तर्यत्र यगात्मनेपदे, कथम्? जहातिरयं गमनायां वर्ततेदेवदत्तं सार्थो जहाति, अपगमयतीत्यर्थः, एषैव च सार्थस्यापगमना यदुत क्षुदुपघातादिना देवदत्तस्यापगमे तत्समर्थाचरणम्। यदा तु क्षुधादिना स्वयमेवापगच्छति, तदा कर्मकर्तृ त्वम्, तदायं प्रयोगः। ततश्च हीयत इति सार्थः स्वयमेवापगच्छतीति, पुनः कुतो हीयते? इत्यपेक्षायां सारर्थेन सम्बन्ध इति।
तमब्ग्रहणं किमिति। ईप्सिततमस्यापीप्सितत्वसम्भवाद् उदाहणसिद्धिं मन्यते। पयसौदनं भुङ्क्त इति। करणसंज्ञा तु दात्रेण लुनातीत्यादौ सावकाशा, न हि दात्रं लवनेप्सितम्। `तथा युक्तम्' इत्यनेनापि न भवति, द्वेष्योदासीनप्राप्ययोस्तत्र गहणात्। सत्यप्यत्र पयसो भुजिक्रियायां प्रकृष्टोपकारकत्वे ईप्सायाः प्रकर्षाभावः। यत्र तर्हि पय एवेप्सिततमम्, तत्र प्राप्नोति, तद्यथा कश्चित् कञ्चिदाह-सिद्धं भुज्यतामिति, स आह-प्रभूतं भुक्तमस्माभिरिति, इतर आह-पयो भविष्यतीति, अपरस्त्वरमाण आह-पयसा खलु भुञ्जीयेति, अत्र प्राप्ताप्राप्तविवेकेन पयस एवेप्सिततमत्वं न त्वोदनस्य, अत्राप्योदनमेवेप्सिततमम्; पयसस्तु संस्कारकत्वात्करणत्वम्। न त्वस्य केवले गुणे आदरः, किं तर्हि? तत्संस्कृते ओदने, न ह्यसौ केवलस्य पयसः पानेन संतुष्यतीति। यदि तमब्ग्रहणं क्रियते, पयसौदनं भुङ्क्त इत्यत्रैव स्यात्, पचत्योदनमित्यादौ न स्यात्, न हीप्सिततमं युक्तम्, असति प्रतियोगिनि वस्तु यत्तुल्यजातीयं तदेव प्रतियोगितां भजते। कारकं चात्र न किञ्चिदिष्टमीप्सितं पयसस्त्वीप्स्यमानात्वाद् युज्यते प्रतियोगिता,नैष दोषः; अत्रापि क्रियापेक्षः प्रकर्षः, आदौ हि कर्त्ता फलार्थ क्रियामभीप्सति, अतः फलार्थमिष्यमाणत्वादीप्सिता क्रिया। फलं तु स्वरूपेणेष्यमाणमीप्सिततमं क्रियाया अपि कर्मत्वं संदर्शनादिविशेषान्तरस्पर्धया। यत्र तर्हि फलाभावस्तत्र न स्यात्, क्व च फलाभावः ? विकार्ये-काष्ठनि भस्मीकरोतीति, न हि काष्ठानि फलरूपाणि। मा भूवन् तानि स्वरूपेण फलानि, भस्मात्मना तु फलानि? प्राप्ये तर्हि न स्यात्--आदित्यं पश्यति, हिमवन्तं श्रृणोतीति, न ह्यत्र क्रियया कश्चिदतिशयो जन्यते। अत्राप्यतिशयो जन्यते--प्राकट्यं नाम? यो हि यं पश्यति शृणोति वा तस्यासौ प्रकटो भवति, प्रतिपत्राद्यतिरिक्तपुरुषापेक्षया तु विशेषोनास्तीत्युच्यते। यद्वा--तमब्ग्रहणेन यत्रापकृष्टेच्छा तदेव व्यावर्त्यते, तेन पश्यतीत्यादावादित्यादीनामपि प्रतियोगिनोऽसत्त्वेनापकर्षाभावाद् भविष्यति, अत्र च लिङ्गम् `ललाटकुक्कुट्यौ पश्यति' इति।
कर्मेत्यनुवर्त्तमान इति। अधिशीङ्स्थासामित्यतः। आधारनिवृत्त्यर्थमिति। प्राच्यं कर्मग्रहणामाधारेण संबद्धमिति तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यादिति भावः। आधारानुवृत्तौ को दोषस्तत्राह--आधारस्यैव हि स्यादिति। क्वेत्याह--गेहमित्यादि। यत्र तु न स्यात्तदाह--ओदनं पचतीत्यादि।
एतच्चेप्सिततमं कर्म त्रिविधम्--निर्वर्त्यम्, विकार्यम्, प्राप्यमिति। तथायुक्तमपि द्विविधम्--द्वेष्यम्, इतरच्च। `अकथितं च' इत्यपरम्। संज्ञान्तरप्रसङ्गे चान्यत्--`दिवः कर्म च' इत्यादि। तदेवं सप्तविधं कर्म। उक्तं च--
निर्वर्त्य च विकार्यं च प्राप्यं चेति त्रिधा मतम्।
तच्चेप्सिततमं कर्म चतुर्धाऽन्यत्तु कल्पितम्।।
औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम्।
संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम्।। इति।
तथा--
यदसत्, जायते सद्वा जन्मना यत् प्रकाश्यते।
तन्निर्वर्त्यं विकार्यं तु कर्म द्वेधा व्यवस्थितम्।।
प्रकृत्युच्छेदसम्भूतं किञ्चित्काष्ठादि भस्मवत्।
किञ्चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत्।।
क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते।
दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ।। इति।
     तत्र निर्वर्त्यम्--घटं करोतीति, व्यक्त्यभिप्रायोण जन्मसामान्याभिप्रायेण प्रकाशनम्। ननु च यदि घटः? न कर्त्तव्यः; अथ कर्तव्यः? न घटः ; इत्यनुपपन्न घट करोतीति? नैष दोषः; तथाविधं वस्तु करोति यस्य निष्पन्नस्य घट इति संज्ञेति--अयमत्रार्थः। एवमोदनं पयतीत्यादावपि। विकार्यम्--काष्ठानि भस्म करोति, सुवर्णं कुण्डलं करोतीति। प्राप्यम्--आदित्यं पश्यतीति। न ह्यत्र प्रत्यक्षेण अनुमानेन वा क्रियाजन्यः कश्चिदतिशयो गम्यते, यथा--निर्वर्त्यविकार्ययोः रज्जुं सृजति, काष्ठं दहति, देवदत्तं रोषयतीति। कारकत्वं तु प्राप्यस्याभासोपगमादिभिः, आदित्यो ह्यभासमुपगच्छति, यतो द्दश्यते अभिव्यक्तिमुपयाति, यतो व्यक्तमुपलभ्यते सहते च दर्शनम्, यतः शक्यते द्रष्टुं तदेवाभासोपगम; व्यक्तिः, सोढत्वमिति कर्मणो विशेषाः प्राप्यमाणस्य क्रियासिद्धौ विवक्षिताः।।
पदमञ्जरी
तथा युक्तं चानीप्सितम्।। 1.4.50 ।।
तथेति पृथक् पदम्, नोपसमस्तम्; लक्षणाभावात्। चकारोऽवधारणे, अनेकार्थत्वान्निपातानाम्, तथेत्यस्य चानन्तरे द्रष्टव्य इत्याह--तेनैवेति। ईप्सितादन्यत्सर्वमनीप्सितमिति।
यथा अधर्मानृतादिभिरुत्तरपदार्थप्रतिपक्षभूतं यद्वस्तु तत्प्रतिषेधद्वारेणाभिधीयते, तथेहानीप्सितशब्देनेप्सितप्रतिपक्षभूतं न द्वेष्यमेवाभिधीयते, किं तर्हि? अश्व--लोष्ट--इत्यादिवदीप्सितव्यतिरिक्तं सर्वमिति सर्वशब्दस्यार्थः। विषं भक्षयतीति। न कस्यापि विषमीप्सिततममिति भावः। ननु य एव मनुष्यो व्याध्यादिना सर्वतः पीडितो मरणमेव ज्यायो मन्यते, तस्य विषमपीप्सिततममेव; यदिष्टं गुडादिभ्रान्त्या विषे प्रवर्तते तस्यापि तदीप्सिततममेव, यदिष्टं गुडादि, तद्‌बुद्धिरेव तत्र प्रवर्तते; अतोऽत्र पूर्वेणैव सिद्धमित्युदाहरणान्तरोपन्यासः। ग्रामं गच्छन्निति। नात्र वृक्षमूलानीप्सिततमानि पूर्वमनभिसंहितत्वान्नान्तरीयकं हि तदुपसर्पणम्। न चात्रापि यावद् ग्रामं गच्छन्निति न प्रयुज्यते तावन्नान्तरीयकता न प्रतीयत इति पूर्वेणैव सिद्धम्, यथा--नदी कूलं कषतीत्यत्राचेतनत्वादीप्साभावः, पदान्तरसम्बन्धात्प्रतीयमानो बहिरङ्गत्वात्कर्मसंज्ञां न प्रतिबध्नाति? भवत्वयं प्रतिपत्तारं प्रति उपपादनप्रकारः, यस्तु प्रयुङ्क्ते स पूर्वमेवेप्साप्रकर्षाभावं जानन् तत्कथं प्रयुक्तमिति पूर्वेणासिद्धिरेव। एवं च नदीकूलमित्यत्रापि अनेनैव कर्मसंज्ञा। तथा यत्र क्रियायामेव तात्पर्यं न फले, नान्तरीयका तु फलसिद्धिः, तत्राप्यनेनैव भवति।
अथ क्रियाफलयोगि कर्मेति कस्माद् नोक्तम्? यदीप्सिततमं यद् द्वेष्यमितरच्च तत्र सर्वत्रानुगतमेतद्, यदुत क्रियाफलयोगित्वं कर्तुरपि तर्हि कर्मत्वं स्यात्, क्रियाफलस्य संयोगस्य तत्रापि भावात्। भावात्। अथ परसमवेतक्रियाफलयोगीति लक्षणम्? एवमप्यात्मा ज्ञातव्य इत्यत्र न स्यात् , संविदश्च स्वयं प्रकाशाभिमतायाः कर्मत्वं स्यात्। घटमहं जानामीत्यत्र हि त्रितयमेव भासते--घटः, ज्ञानम्, आत्मा चेति। तत्र ज्ञानं क्रिया, तत्फलं शब्दप्रयोगादिरूपो व्यवहारः, तेन युज्यमानस्य घटस्य यथा कर्मत्वं तथा ज्ञानस्यापि स्यात्। ज्ञानं हि क्रिया भवति व्यवहारूपस्य फलस्याश्रयभूतम्, तस्यैव ज्ञानस्य यत् स्वरूपं तदपेक्षया यः पर आत्मा तत्र च समवैतीत्यलमियता। चोरानित्यत्रापि मर्तृकामो वा मित्रादिरूपेण विपर्यस्यमानो वा चोरानुपसर्पतीति पूर्वेणैव सिद्धम्।।
पदमञ्जरी
अकथिनं च।। 1.4.51 ।।
अकथितशब्दोऽयमस्त्यप्रधाने रूढः, तद्यथा--अकथितोऽहमस्मिन् ग्रामे, अप्रधानभूत इति गम्यते। अस्ति च क्रियाशब्दोऽकीर्तितपर्यायः। `कथ वाक्यप्रवन्धे', चुरादावदन्तः पठ्यते, तत्र पूर्वस्य ग्रहणे `पाणिना कांसपात्र्यां दोग्धि पयः' इत्यत्र पाणिकांसपात्र्योरपि स्यात्। करणाधिकरणसंज्ञयोस्तु पचत्यादिरवकाशः, न हि तत्रास्य प्रसङ्गः; `दुहियाचि' इति परिगणनात्, अतो द्वितीयस्य ग्रहणम्, तदाह--केनाकथितम्? अपदानादिभिर्विशेषकथाभिरिति। किमत्र प्रमाणं तदाह--केनेति। करणनिर्देशः। रूढिशब्देषु हि व्युत्पत्त्यर्थमेव क्रियोपादीयते; न तत्र करणादि सम्बध्यते, न हि गच्छतीति गौरित्यत्र केनेति प्रश्नो रथेनेति प्रतिवचनं वा भवति। इह `कारके' इत्यनुवर्तनात् सत्येव कारकत्वेऽकथितस्य संज्ञया भाव्यमिति सामर्थ्याद्विशेषकथाभिरित्युक्तम्।
परिगणनं कम धर्मादीति। तस्य तु प्राधान्यं तदर्थत्वात् प्रवृत्तेः। सम्बध्यत इति। सचत इत्यस्यार्थकथनमेतत्,`षच समवाये' स्वरितेत्। केचित्तु परस्मैपदिभिः सह धातुमेनं पठन्ति `षच सवाये'`रप लप व्यक्तायां वाचि' इति। तत्राहुः-`षचसेवने' इत्यस्यानुदात्तेतोऽनेकार्थत्वात्समवाये प्रवृत्तिरिति, सम्बध्नातेश्च कर्मव्यापारे सचिर्वर्तत इति कर्तृपदस्य कर्मपदेनार्थकथनं नानुपपन्नम्, यथा--राध्यत्योदन इत्यस्य पच्यत इति। उक्तमिति। आचरितमित्यस्य विवरणम्। सूत्रकारेणेति। कविशब्दो मेधाविमात्रवचनोऽपि प्रकरणात् सूत्रकारे प्रयुक्त इति दर्शयति। गां दोग्धि पय इति। ननु चात्रायमर्थः- गौः पयस्त्यजति, दोग्धा गवा पयस्त्याजयतीति; तत्र प्रयोजकव्यापारेणाप्यमानत्वात् सिद्धा गोः कर्मसंज्ञा। न च वाच्यम्--`प्रयोजकव्यापारेणाप्यमानस्य यदि भवति गत्यर्थादिष्वेवेत्युत्तरसूत्रे नियमादत्र न प्राप्नोपि, यथा--पचन्तं देवदत्तं प्रयुङ्क्ते, पाचयति देवदत्तेनेत्यत्र' इति;ण्यन्तष्वेव स नियमः, अयं तु प्रकृत्यन्तः, नैतदस्ति; यथा ण्यन्तेषु धातुषु क्रियाविशिष्टस्य प्रयुक्तिः प्रतीयते--गमयतीति, नैवमत्र विष्क्रियस्यापि गवादेर्दोहननयनादिषु विनियोगात्। तथा ह्यदुहानापि गौर्दुह्यते, अगच्छन्तो भारादयः शिरसा नीयन्ते, तस्माद्देग्धीत्येकस्या एव क्रियायाः श्रवणाद् गोपयसोर्भेदेन कर्मत्वं न भवति। णिचि तु सति प्रकृत्यंशस्य प्रत्ययांशस्य च भेदेन द्वे वाच्ये इति कर्मभेदोपपत्तिः।
गमयति ग्रामं देवदत्तमिति। यदा तु दुहेः क्षरणमर्थः-क्षरति गोः क्षीरम्, क्षीरं क्षारयति देवदत्त इति, तदा यद्यपि गोरपायेऽवधिभावो विद्यते; तथाप्यविवक्षिते तस्मिन्निमित्तत्वमात्रापेक्षायामुदाहरणोपपत्तिः। एवं चावधित्वविवक्षायामपादानसंज्ञायां भवत्येव--गेर्दुह्यते पय इति। यदा तु पयस्येव विशेषणं गौः, तदा षष्ठी--गोः पयो दोग्धीति।
पौरवं गां याचते इति। पुरोरपत्यं पौरवः। ननु विहितात्रापादानसंज्ञा पौरवादसौ गामादत्ते, न याचनादेव तत आदत्ते, याचितोऽसौ यदि ददाति तत आदत्ते, ननु मा नामादिताऽऽदित्सते तावत्, तदपि न; यतः स्वभावपरिचिच्छित्सुरनादित्समानोऽपि याचते। गामवरुणद्धि व्रजमिति। ननु च गां व्रजं प्रवेशयतीत्ययमत्रार्थः, ततश्च सिद्धं व्रजस्य कर्मत्वम्? अथ व्रजे गामवस्थापयतीत्यर्थः, तर्हि कथितात्राधिकरणसंज्ञा; यदा तर्ह्यवरोधनक्रियां प्रति निमित्तत्वमात्रं विवक्ष्यते न कर्मत्वं नाधिकरणत्वं तदेदमुदाहरणम्। व्रजेन हेतुनाऽवस्थापयतीत्यर्थः।
माणवकं पन्थानं पृच्छतीति। `प्रच्छ ज्ञीप्सायाम्', तुदादिः, ग्रहिज्यादिना संप्रसारणम्। ननु च कथितात्रापादानसंज्ञा, स हि तस्मादुपदेशमादत्ते न प्रश्नमात्रादादत्ते, पृष्टोऽसौ यद्युपदिशति तत आदत्ते। मा नामादिता, आदित्सते तावत् तदपि न, अनादित्समानोऽपि स्वभावपरिज्ञानाया पृच्छति। भिक्षिर्याचिवद्व्याख्येयः। किमर्थं पुनर्याचिभिक्ष्योरुभयोरुपादानम्, न ह्यनयोरर्थे भेदोऽस्ति, अर्थाश्रया चेयं संज्ञा, न दुह्यादिस्वरूपाश्रया। समानार्थेऽपि हि गृह्यते--देवदत्तं शतं प्रार्थयत इति? उच्यते, अननुयार्थस्य याचतेर्ग्रहणार्थम्। तेनाविनीतं विनयं याचते, क्रुद्धं प्रसादं याचत इत्यत्रापि भवति। सकृदुपात्तस्य चोरभयरूपानुपपत्तेः भिक्षिरपि गृहीतः।
वृक्षमवचिनोति फलनीति। यद्यप्यवचिन्वद् वृक्षान् फलमादत्ते इत्यपादानसंज्ञाया अयं विषयः, तथापि यदा वृक्षो नावधित्वेन विवक्ष्यते निमित्तरूपेणैव तु विवक्ष्यते, तदेदमुदाहरणम्।
ब्रूतेऽनुशास्तीति। `ब्रूञ् व्यक्तायां वाचि' `शासु अनुशिष्टौ', अदादी, यद्यद्यप्यत्र धर्मेण वचनानुशासनकर्मणा माणवकस्याभिप्रेयमाणत्वम्, तथापि ददातिकर्माभावात्संज्ञाया अप्रसङ्गः। ये तु तत्र ददातिकर्मणेति नाश्रयन्ति, तेषामपि निमित्तत्वमात्रं विवक्षितं नाभिप्रेयमाणत्वमित्युदाहरणोपपत्तिः।।
अथान्येऽपि द्विकर्मकाः-
नीवह्योर्हरतेश्चापि गत्यर्थानां तथैव च।
द्विकर्मकेषु ग्रहणं द्रष्टव्यमिति निश्चयः।।
`गत्यर्थानाम्' इत्युत्तरसूत्रोपलक्षणम्। नी--अजां नयति ग्रामम्। वहिवहति भारं ग्रामम्। हरति--भारं हरति ग्रामम्। चकारेण जयत्यादयः समुच्चीयन्ते--शतं जयति देवदत्तम्, शतं मुष्णाति देवदत्तम्, शतं दण्डयति देवदत्तम्, कर्षति ग्रामं शाखाम्।
इदं विचार्यते--द्विकर्मकेभ्यो धातुभ्यः कर्मणि लादय उत्पद्यमानाः किमीप्सिततमे कर्मणि प्रधाने उत्पद्यन्ते? आहोस्विदनेन यस्य कर्मत्वं तस्मिन् गुणकर्मणीति? तत्रोक्तम्--
प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्।
अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः।। इति।।
     अयमर्थः- ये द्विकर्मका धातवस्तेषां प्रधाने कर्मणीप्सिततमे वाच्ये लादीनाहुः=लादयो भवन्तीत्याहुः। लादयः=लकृत्यक्तखलर्थाः। प्रधानाप्रधानयोर्भिन्नकक्षयोर्युगपदभिधानासंभवे प्रधानस्यैवाभिधानं न्याय्यम्, प्रधानत्वादेवेति भावः। नी--नीयते ग्राममजा, नेया, नीता, सुनया। वहि--उह्यते भारो ग्रामम्, वोढव्यः, ऊढः, सुवहः। हृञ्--ह्रियते भारो ग्रामम्, हर्त्तव्यः, हृतः, सुहरः। कृष्--कृष्यते शाखा ग्रामम्, क्रष्टव्या, कृष्टा, सुकर्षा।
अप्रधाने दुहादीनामिति। अत्र दण्डिप्रभृतयोऽपि गृह्यन्ते, न तु दुहियाचीति श्लोकपठिता एव। एतेषां दुहादीनामप्रधाने कर्मण्याख्येये लादीनाहुः । एतदपि न्यायसिद्धम्; यतः पयोऽर्थी पूर्वं गवि प्रवर्त्तते, अतः शूद्धस्य दुहेर्गवाभिसम्बन्धः, गोदोहेन तु पयस इत्यन्तरङ्गत्वादकथितकर्मणस्तत्रैव लादयो भवन्ति। एवं सर्वत्र।
दुहि--गौर्दुह्यते पयः, दोह्या, दुग्धा, सुदोहा। याचि--पौरवो गां याच्यते, याच्यः, याचितः, सुयाचः। रुधि--व्रजोऽवरुध्यते गाम्, अवरोध्यः, अवरुद्धः,स्ववरोधः। प्रच्छि--माणवकः पन्थानं पृच्छ्यते, प्रष्टव्यः, पृष्टः, सुप्रच्छः। भिक्षि--पौरवो गां भिक्ष्यते, भिक्षितव्यः, भिक्षितः, सुभिक्षः। चिञ्--वृक्षोऽवचीयते फलानि, अवचेतव्यः, अवचितः, स्ववचयः। ब्रूञ्‌--उच्यते माणवको धर्मम्, वक्तव्यः, उक्तः, सुवचः। शामु--अनुशिष्यते माणवको धर्मम्, अनुशासितव्यः, अनुशिष्टः, स्वनुशासः। दण्डि--गर्गाः शतं दण्ड्यन्ते, दश्ड्याः, दण्डिताः, सुदण्डाः। जि-शतं जीयते देवदत्तः, जेतव्यः, जितः, सुजयः। मुषि--मुष्यते देवदत्तः शतम्, मोषितव्यः, मुषितः, सुमोषः।
ण्यन्ते कर्तुश्च कर्मण इति। अभिधान इति शेषः। अण्यन्तावस्थायां कर्तुर्ण्यन्तावस्थायां कर्मणः सतोऽभिधाने लादीनाहुरित्यर्थः। एतदुक्तं भवति-ये गत्यर्थादयोऽण्यन्तावस्थायामपि सकर्मका ण्यन्तावस्थायामुत्तरसूत्रेण द्विकर्मका जाताः, तेषु ण्यन्तावस्थायां यदुत्तरसूत्रेणोपजातं कर्म तत्र लादयो भवन्तीत्यर्थः। गमयति ग्रामं देवदत्तम्, गम्यते ग्रामं देवदत्तः, गमयितव्यः, गमितः; सुगमः। बुध्यर्थः- बोध्यते माणवको धर्मम्, बोधयितव्यः, बोधितः, सुबोधः। प्रत्यवसानार्थः- भोज्यते माणवक ओदनम्, भोजयितव्यः, भोजितः, सुभोजः। शब्दकर्म-पाठ्यते माणवको वेदम्, पाठयितव्यः, पाठितः, सुपाठः। अकर्मकः- आस्यते माणवको मासम्, आसयितव्यः, आसितः, स्वासः।
बुद्धिप्रत्यवसानार्थशब्दकर्मकेषु गुणकर्मणि लादय इति मतान्तरम्। बोध्यते माणवकं धर्मः, भोज्यते माणवकमोदनः, पाठ्यते माणवकं वेद इत्यादि।
तदयमत्र निर्णयः- नीवहिहृकृषिभ्यः प्रधानकर्मणि लादयः; तत्सम्बन्धस्य पूर्वभावित्वात्। दुह्यादिभ्यो जिदण्डमुषिभ्यश्चाप्रधाने; तत्सम्बन्धस्यानन्तरङ्गत्वात्। बुद्धिप्रत्यवसानार्थशब्दकर्मकेषु गुणकर्मणि प्रधाने वा यथेष्टम्; गत्यर्थाकर्मकयोः हृक्रोश्च ण्यन्तयोः प्रयोज्ये कर्मणीति। प्रयोज्यस्य च प्राधान्येनाभिधीयमानाप्रयोजकव्यापारेणाप्यमानत्वात् प्राधान्यम्। गुणभूतप्रयोज्यव्यापारकर्मणस्तु गुणभाव आर्थन न्ययेन प्रयोज्यव्यापारप्राधान्यम्, तदर्थत्वात् प्रयोजकव्यापारस्य। तत्प्राधान्याच्च तत्कर्मणोऽपि प्राधान्यमित्यन्ये। सर्वथा लादयः प्रयोज्यकर्मणीति स्थितम्।
अकर्मकाणां च धातूनां कालभावाध्वगन्तव्यदेशाः कर्मसंज्ञका इष्यन्ते। उक्तं च--`कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्, देशश्चाकर्मकाणां तु कर्मसंज्ञो भवतीति वक्तव्यम्' इति। अध्वगन्तव्येति--गन्तव्योऽध्वा, अध्वा गन्तव्यः, कडारादिष्वध्वशब्दे द्रष्टव्यः। गन्तव्यत्वेन प्रसिद्धस्य नियतपरिमाणस्य क्रोशादेर्ग्रहणार्थं गन्तव्यग्रहणम्, तेनाध्वानं स्वपितीति न भवति। ननु च `कालाध्वनोः' इति सिद्धा द्वितीया, किं कर्मसंज्ञया? देशस्य तावद्वक्तव्या। कालाध्वनोरपि लादिविधानार्थ कर्मत्वमेषितव्यम्। आस्यते मासः, आसितः, आसितव्यः,स्वासः। एवं शय्यते क्रोश इत्यादि। भावः- गोदोहमास्ते। यावता कालेन गौर्दुह्यते तावन्तं कालमास्त इत्यर्थः। गोदोहादीनां मासादिवत् कालत्वेनाप्रसिद्धत्वाद्भावस्य पृथग् ग्रहणम्। देशः- कुरून् स्वपिति, कुरवः सुप्यन्त इत्यादि। `कालाध्वनोरत्यन्तसंयोगे' इति तु सूत्रमक्रियात्यन्तसयोगार्थम्--मासं गुडधानाः, सर्वरात्रं कल्याणी, क्रोशं कुटिला नदीति। न तर्हि वक्तव्यम्--कालाभावाध्वगन्तव्या इति? न वक्तव्यम्, नात्रासिरासनमात्रे वर्त्तते, किं तु तत्पूर्वके व्यापने वर्त्तते--मासमास्ते । कोऽर्थः? मासमासनेन व्याप्नोतीति। एवं वदेमधीते, मासं वेदाध्ययनेन व्याप्नोतीत्यर्थः। अथ `कर्तृ कर्मणोः कृति' इति षष्ठी द्विकर्मकेषु किं प्रधाने कर्मणि भवति? आहोस्विद् गुणे भवति? आहोस्विदुभयोः? उभयोरिति प्राप्तं द्वितीयावद्भाष्यकारवचनात्तु गुणकर्मणि विकल्पेन षष्ठी। प्रधानकर्मणि नित्या--नेताऽश्वस्य स्त्रुघ्नमिति वा।
इहाकथितं कर्मेत्येतावदस्तु, मास्तु पूर्वसूत्रद्वयम्, तद्विषयस्याप्यकथिइतत्वात्, सत्यम्; नटस्य श्रृणोतीत्यत्र मा भूदिति दुह्यादिपरिगणनमवश्यं कर्तव्यम्, तस्मिंश्च क्रियमाणे ओदनं पचति, वृक्षमूलान्युपसर्पतीत्यत्र न स्यादिति पूर्वमपि योगद्वयमारभ्यत इति।।
पदमञ्जरी
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ।। 1.4.52 ।।
गमयति माण वकं ग्राममिति। कथमत्र ग्रामस्य कर्मत्वम्, यावता कर्तुरीप्सिततमं कर्मेत्युच्यते,न च संप्रति माणवकः कर्त्ता; अनेन कर्मसंज्ञकत्वात्। तत्र यथा माषेष्वश्वं बध्नातीत्यत्र वस्तुतो बक्षणेनेप्सिततमानामपि माषाणां कर्मसंज्ञा न भवति, तत्कस्य हेतोः? अश्वस्य संप्रत्यकर्तृत्वात्, तद्वदत्रापि न प्राप्नोति; मा भूण्णिच्युत्पन्ने माणवकः कर्ता, प्राक्तदुत्पत्तेः प्रकृत्यर्थे कर्त्ता भवति, तदानीमेव च ग्रामस्याभिसम्बन्धः ग्रामकर्मण्यसौ गमने प्रेष्यते--ग्रामं गच्छेति। अतो यस्यामवस्थायां ग्रामस्य कर्मत्वं न तस्यां माणवकस्य कर्मत्वम्, यस्यां च ण्यन्तावस्थायां माणवकस्य कर्मत्वं न तस्यां ग्रामस्य कर्मत्वम्; पूर्वप्रवृत्तत्वाद्। माषेष्वश्वमित्यत्र तु नैवं संभवति। यापयतीति। `या प्रापणे' इत्यत्र प्राप्त्या गतिर्लक्ष्यतइति यातिर्गत्यर्थः।
नीवह्योरिति। नन्वेतयोर्गतिफलं प्रापणमर्थो न गतिः, `न गतिहिंसार्थेभ्यः' इत्यत्र च भाष्यम्--न `वहिर्गत्यर्थः' इति, सत्यम्; गुणभावेनापि गतिः प्रतीयत इति मत्वा प्रतिषेध उक्तः।
वहेरनियन्तृकस्येति। वक्ष्यामीति चोपक्षेपः। वाहयति बलीवर्दान्यवानित्यत्राणौ बलीवर्दाः कर्त्तारः, ण्यन्ते तु नियन्ता सारथिः कर्त्ताः, तत्र प्रतिषेधप्रतिषेधाद्विधिरेव भवति। बुध्यर्थग्रहणेन ज्ञानमात्रवाचिनामेव ग्रहणम्, न तु तद्विशेषवाचिनां स्मरत्यादीनामित्याहुः। वृत्तावपि तथैवोदाहृतम्।
आदिखाद्योरिति। अपर आह--सर्वमेव प्रत्यवसानकार्यमदेर्न भवति, नावश्यमियमेव कर्मसंज्ञेति `निगरणचलनार्थेभ्यश्च' इति पदमपि न भवति, इदमेकमिष्यते--`क्तेऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः'--इदमेषां जग्धमिति।
भक्षेरिति। गत्यर्थादिषु प्रायेण हेतुमण्णिच एव संभवाद् हेतुमण्णिचो विधिरिति प्रतिषेधोऽपि प्रत्यासत्तेस्तस्यैव न्याय्य इति चुरादिणिजन्तोऽप्यण्यन्तएवेति भक्षेः प्राप्तिः। भक्षयति बलीवर्दान् सस्यमिति। क्षेत्रस्थानां यवानां भक्ष्यमाणानां हिसा भवति, तस्यामवस्थायां कैश्चिच्चैतन्याभ्युपगमात्। स्वामिनो वा हिसा द्रष्यव्या।
इह कर्मशब्देन क्वचित्क्रिया गृह्यते, यथा--`कर्त्तरि कर्मव्यतीहारे' इति, क्वचित् साधनकर्मा--`वेः शब्दकर्मणः' इति, इह शब्दक्रियाणामिति चेत्? `ह्वयत्यादीनां प्रतिषेधः'--ह्वयति पुत्रं देवदत्तः, ह्वापयति पुत्रं देवदत्तेन; क्रन्दति पुत्रं देवदत्तः, क्रन्दयति पुत्रं देवदत्तेन; शब्दायते देवदत्तः, शब्दाययते देवदत्तेन। अकर्मकत्वादथात्र प्रसङ्गः, शब्दलक्षणकस्य कर्मणोऽन्तर्भावात् कर्मान्तरायोगाच्च। `श्रृणोतेश्चोपसङ्ख्यानम्' --अशब्दक्रियत्वात् श्रृणोति श्लोकं देवदत्तः, श्रावयति श्लोकं देवदत्तम्; न च बुध्यर्थत्वादत्र सिद्धिः, चेतत्यादयो हि ज्ञानमात्रवचना बुध्यर्थाः। अस्तु तर्हि साधनकर्मणो ग्रहणम्, शब्दकर्मण इति चेत्? जल्पतिप्रभृतीनामुपसंख्यानम्, जल्पति पुत्रं देवदत्तः, जल्पयति पुत्रं देवदत्तम्; विलपति पुत्रं देवदत्तः, विलापयति पुत्रं देवदत्तम्; आभाषते पुत्रं देवदत्तः आभाषयति पुत्रं देवदत्तम्। द्दशेः सर्वत्र, यद्यपि क्रियाग्रहणम् अथापि साधनग्रहणम्, अथाप्युभयग्रहणम्-सर्वथा द्दशेरुपसंख्यानम्। पश्यति रूपतर्क कार्षापणम्, दर्शयति रूपतर्कं कार्षापणम्। यदा चायंद्दशिः चक्षुः साधनके ज्ञानविशेषे वर्तते तदेतद्वक्तव्यम्; ज्ञानमात्रवचनत्वे तु बुध्यर्थत्वादेव सिद्धम्; तदेवमुभयोरपि पक्षयोर्द्दोषान्तं भाष्यं नान्यतरः पक्षो निरणायि।
वृत्तिकारस्तु ये शब्दक्रियाः शब्दसाधनकर्माणश्च तानविवादसिद्धानुदाहरतिवचनेन बोधयतीत्यर्थः। एमन्यत्रापि। तत्र बुद्ध्यर्थत्वादेव सिद्धम्। यद्यप्यन्या बुद्धिरन्या बोधना, उपसर्जनीभूतापि तावद्‌बुद्धिरस्तीति बुद्धर्थत्वमस्त्येव, उपसर्जनीभूतोऽपि च गत्यादिरर्थो गृह्यते, अन्यथा गमयतीत्यादीनामगत्यर्थत्वादेवाप्रसङ्गादणिग्रहणमनर्थकं स्यादिति, अस्तु चेतनविषये, एवमचेतनविषये कथम्? यः कंचिज्जल्पति तमन्यो जल्पयति, न ह्यत्र प्रबोधनाप्यस्ति।
अकर्मकाणामिति। कालभावाध्वगन्तव्यदेशव्यतिरिक्तकर्मरहितानामित्यर्थोऽत्र ग्राह्यः, अन्यथा मासमास्ते देवदत्तः, मासमासयति देवदत्तम्, गोदोहमासयति, क्रोशमासयति, कुरूनासयतीत्यत्र न स्यात्; कालादिकर्मणा सकर्मकत्वात्। एवं `लः कर्मणि च' इत्यादावपि यत्राकर्मकग्रहणं तत्र सर्वत्र द्रष्टव्यम्, तेन मासमास्यते देवदत्तेनत्यादौ भावे लादयः सिद्धा भवन्ति। उक्तञ्च--सिद्धं तु कालकर्मणाकर्मकत्वद्वचनादिति। कालग्रहणमुपलक्षणम्। वत्करणात्स्वाश्रयमपि भवति--मास आस्यते देवदत्तेन--मासकर्मणि लो भवति। स तर्ह्यकर्मकवचनाद् भावे वक्तव्यः? न वक्तव्यः; अकर्मकाणामित्युच्यते, न च कालादिभिः केचिदकर्मकाः। कालादिभिरप्यकर्मकाः यदा ते न विवक्ष्यन्ते, तद्यथा--शेते देवदत्तो न भुङ्क्ते इति। नाप्यविवक्षितकर्माणोऽकर्मकाः, किं तर्हि? येऽत्यन्ताविद्यमानकर्माणो धातवोऽकर्मकाः, नार्थाः। यस्य धातोः स्वरूपावधिकमकर्मकत्वम्, न च कालादिकर्मकाः, नार्थाः। यस्य धातोः स्वरूपावधिकमकर्मकत्वम्, न च कालादिकर्मणा स्वरूपावधिकमकर्मकत्वं कस्यापि सम्भवतीति सामर्थ्यातद्व्यतिरिक्तेन कर्मणाऽकर्मकत्वं विज्ञायते। किमर्थं पुनरिदमुच्यते, यावता स्वव्यापारे स्वतन्त्रस्यापि प्रयोज्यस्य प्रयोजकव्यापारे विवक्षिते तेन प्रधानभूतेनाप्यमानत्वाद् अन्तरङ्गत्वेन पूर्वप्रवृत्तामपि कर्तृ संज्ञां बाधित्वा कर्मसंज्ञा भविष्यतीति? एवं तर्हि सिद्धे सत्यारम्भो नियमार्थः-प्रयोजकव्यापारेणाप्यमानस्य यदि भवति गन्यर्थादीनामेव, नान्येषामिति। तेन पाचयत्योदनं देवदत्तो यज्ञदत्तेनेत्यत्र पूर्वं प्रवृत्ताया एव कर्तृ संज्ञाया अवस्थानात् कर्तरि तृतिया भवति। उक्तं च--
गुणक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मतां गतः।
नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते।। इति।
कर्तुः स्वधर्मार्त्तृतीया। अथ कथम्--
अयचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक। इति?
     स्वतन्त्राः कवयः। यद्वा--सुतां प्रति किञ्चिदुद्वाहविषये ग्राहयितुं बोधयितुं न शशाकेत्येवं व्याख्येयम्; तत्र बुध्यर्थत्वात् सिद्धम्।।
पदमञ्जरी
हृक्रोरन्यतरस्याम्।। 1.4.53 ।।
गत्यर्थादयो निवृत्ताः तेनोभयत्र विभाषेयम्। यदा हरतिर्गतौ वर्तते-हरति भारं देवदत्त इति, अभ्यवहारे वा-अभ्यवहरति माणवकमोदनमिति। करोतिश्चाप्यकर्मकः- ओदनस्य पूर्णाः छात्राः विकुर्वत इति, तदा पूर्वेण प्राप्ते। ननु `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' इति नियमस्यैव विकल्पो युक्तः, गत्यर्थादिष्वेवेति योऽयं नियमः स `हृक्रोरन्यतरस्याम्' इति, ततश्च पक्षे नियमाभावात् गत्याद्यर्थादन्यत्र पक्षे कर्मत्वं पक्षान्तरे च कर्तृ त्वं भवतु, गत्याद्यर्थत्वे तु नित्यवत् कर्मसंज्ञा प्राप्नोति। एवं तर्हि वार्त्तिककारेण उभयत्रविभाषास्वियं पठिता, तत्सामर्थ्यादनन्तरस्य विधिरिति नाश्रीयते, अविशेषेण हृक्रोर्विकल्पः प्रवर्तते।
अभिवादिद्दशोरिति। अभिवादयतेरप्राप्ते विभाषा द्दशेर्बुध्यर्थत्वात् द्दशेः सर्वत्रेति वा प्राप्ते। अभिवादयते इति। `णिचश्च' इत्यात्मनेपदम्। परस्मैपदे तु अभिवादयति गुरुं देवदेत्तेनेति कर्तृ संज्ञैव भवति।
दर्शयते इति। कर्मसंज्ञाभावपक्षे कर्मान्तरस्याभावात् `णेरणौ' इत्यात्मनेपदम्, अन्यत्र तु `णिचश्च' इति।।
पदमञ्जरी
स्वतन्त्रः कर्ता।। 1.4.54 ।।
स्वतन्त्रशब्दोऽयं तन्तुवायवचनोऽप्यस्ति--स्वं तन्त्रमस्य स्वतन्त्रः, विततास्तन्तवस्स्वतन्त्रमित्युच्यते; अस्ति च साधारणद्रव्ये पुरुषे वर्तते साधारणं भवेत्तन्त्रम्, स्वं धनं तन्त्रं साधारणमस्य स्वतन्त्रः; अस्ति च प्रधानवचनः- स्व आत्मा तन्त्रं प्रधानमस्य स्वतन्त्र इति। तत्राद्ययोर्ग्रहणे तयोरपादानादिविषये कर्तृसंज्ञा स्यात्, परत्वाद्विशेषविहितत्वाच्च तन्तुवायादागच्छतीत्यादौ; इह च न स्यात्-देवदत्तो गच्छतीति, इदमाद्ययोर्ग्रहणे दोषं द्दष्ट्वा तृतीयमर्थमाश्रित्याह--स्वतन्त्र इति। प्रधानभूत उच्यत इति। स्वतन्त्रशब्दस्य तत्रैव प्रसिद्धतरत्वादिति भावः। किं च कारकधिकारात् क्रियाविषयं स्वातन्त्र्यं गृह्यते, न च तन्तुवायस्तन्तुवायतया क्रियायामुपयुज्यते, किं तर्हि? प्रधानतयैवेति तद्वाचिन एव ग्रहणं युक्तम्। यदि प्रधानभूत उच्यते, एवं सत्यप्रधानापेक्षत्वात् प्रधानभावस्य यत्राधिकरणादीन्यप्रधानानि कारकाणि सन्ति--काष्ठैः स्थाल्यामोदनं पचतीति अत्रैवः स्यात्; न त्वास्ते शेते इत्यादावित्यशङ्क्य प्राधान्येनागुणभावो लक्ष्यत इति दर्शयति--अगुणीभूत इति। तेन यस्य गुणभावो नास्ति, स कर्त्ता। कारकान्तराविवक्षायामपि चागुणभावोऽस्त्येव। कः पुनरत्र कारकाणां गुणगुणिभावः? यदा एकापायेऽपि क्रिया न निर्वर्तते, उक्तमत्र--
प्रागन्यतः शक्तिलाभान्न्यग्भावापादनादपि।
तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्तनात्।।
अद्दष्टत्वात्प्रतिनिधेः प्रविवेकेऽपि दर्शनात्।
आरादप्युपकारित्वात् स्वातन्त्र्यं कर्तुरिष्यते ।। इति।
     काष्ठादीनि कर्त्रा प्रवर्तितानि करणादिशक्तिं प्रतिलभन्ते, कर्त्ता तु प्रागेव। कर्तृ संनिधौ च करणादिनि न्यग्भवन्ति, तदधीने च तेषां प्रवृत्तिनिवृत्ती। प्रधानकर्तृश्च प्रतिनिधिर्न द्दष्टः, करणादीनां तु द्दष्टः-व्रीह्यपचारे नीवारैरिज्यते। प्रविवेकः= अभावः। करणाद्यभावेऽप्यास्ते, शेते इत्यादौ केवलः कर्ता द्दश्यते, न तु कर्तुरभावे करणादीनि द्दश्यन्ते।
आरादप्युपकारित्वादिति। यद्यप्यसौ तटस्थः फलसिद्धावुपकरोति, न तु करणादिवदनुप्रविश्य तथापीत्यर्थः। एतच्च प्रायेण चेतनेष्वेव सम्भवति, नाचेतनेषु--रथो यातीत्यादौ, नैष दोषः; उक्तलक्षणे कर्त्तरि द्वयं द्दष्टम्--प्रधान्यम्,आगुणभावश्च। तत्रागुणभावः अचेतनेषु चेतनेष्वपि सम्भवति। स चायमगुणभावो न प्रतिनियतविषयः, यस्यैव तु विवक्ष्यते, तस्यैवेत्याह--स्वातन्त्र्येण विवक्ष्यत इति। विवक्ष्यत इत्यस्योदाहरणम्--स्थाली पचतीति।
अन्ये तु व्याचक्षते--अगुणभावेनाभिधीयमानव्यापारो गुणभूतो गुणभूतधातूपात्तव्यापारः कर्तेत्यर्थः। कस्य च व्यापारो धातुनाऽगुणभावेनोपादीयते? यस्य विवक्ष्यते तस्येति सर्वत्र सिद्धमिति।।
पदमञ्जरी
तत्प्रयोजको हेतुश्च।। 1.4.55 ।।
तदित्यनेनन कर्त्ता सम्बद्ध्यते इति। कर्तृ संज्ञाविशिष्टः स्वतन्त्र इत्यर्थः। ननु च प्रयोजकसन्निधौ प्रयोज्यस्य पारतन्त्र्यं कर्तृ सन्नि धाविव करणादीनाम्, तत्कथं स्वतन्त्रः परामृश्यते? कथन्तरां च कर्तृ संज्ञाविशिष्टः? कथन्तमां च पाचयत्योदनं देवदत्तो यज्ञदत्तेनेति? प्रयोज्ये तृतीया भवति, पूर्वमेव च स्वतन्त्रस्य कर्तृः सतः प्रयुक्तिरपि किमर्था? मायं विरंसीदिति प्रयुङ्क्ते इति चेद्, भवत्वेवं प्रवृत्तप्रवर्तने, यत्र तु बलात्कारेण प्रवर्त्यते तत्र कथम्? उच्यते; अप्रवृत्तप्रवर्तनेऽपि यावत्स्वार्थादर्शनात् प्रयोज्ये न प्रवर्तते तावत्प्रयोजकः पाचयतीति न व्यपदिश्यते, तदानीमपि च स्मृत्यारूढा प्रयुक्तिर्विद्यत इति अनुवर्तमाना हि प्रसक्तिः प्रयोज्यस्याफलनिष्पत्तेः प्रवृत्तौ हेतुर्न मध्ये विच्छिन्ना। लोडादिवाच्यस्तु प्रैषः प्रयोज्यस्या प्रवृत्तावपि भवति। उक्तं च--
द्रव्यमात्रस्य तु प्रैषे पृच्छादेर्लोड् विधीयते।
प्रवृत्तस्य यदा प्रैषस्तदा स विषयो णिचः।। इति।
      तदेवं णिज्वाच्या प्रयुक्तिः प्रवृत्तप्रवर्तनारूपेण प्रतीयत इति प्रकृत्यर्थे कर्तृः सतः प्रयोजक इत्यविरुद्धम्। इममेव चार्थ दर्शयितुं तच्छब्दोपादानम्; अन्यथा कस्य प्रयोजक इत्यपेक्षायाम्, प्रकृतत्वादेव स्वतन्त्रस्य प्रयोजक इति लाभादनर्थकं तत् स्यात्। तस्य प्रयोजकस्तत्प्रयोजक इति। ननु `तृजकाभ्यां कर्तरि'`कर्तरि च'
xxxxxतिषेधात् कथमत्र समास इत्यत आह-निपातनात्समाप्त इति। अत्र विचxxxxxxपासप्रकरण एव विचारयिष्यामः।
संज्ञासमावेशार्थश्चकार इति। असति हि तस्मिन् एकसंज्ञाधिकारात् कर्तृ संज्ञा न स्यात्। कुर्वाणं प्रयुङ्क्ते इति। कुर्वाणदशायां या प्रयुक्तिः स्मृत्यारूढा, सैव णिज्वाच्येत्येवं विग्रहः। हेतुत्वादित्यादिना समावेशस्य प्रयोजनं दर्शयति।।
पदमञ्जरी
प्रागीश्वरान्निपाताः।। 1.4.56 ।।
प्राग्रीश्वरान्निपाताः।। प्राचि काले देशे वा प्राक्। अधिरीश्वरे इति वक्ष्यतीति। ईश्वरप्रकृतिभागस्य पूर्वपदान्तेन रेफेण सहानुकरणं द्रष्टव्यम्। अनुकार्येणार्थेनार्थवत्त्वात् विभक्त्यत्पत्तिः, च वा इत्यत्र निपातत्वे सति `स्वरादिनिपातमव्यम्' इत्यव्ययसंज्ञा भवति। `निपाता आद्युदात्ताः' इति तु स्वरो न भवति, उदाहृतानामनुदात्तानां गणे पाठात्। अन्येषां तु तदपि भवति।
ननु यथा `प्रत्ययः' इत्यादिरधिकारो विनाप्यवधिनिर्देशेनाभिमतविषये प्रवर्तते, तथायमपि प्रवर्तिष्यते, निपाताः' इत्येवास्तु, नार्थोऽवधिनिर्देशेनेत्यत आह--
प्राग्वचनमिति। प्राग्वचनद्वारेणावघिनिर्देशस्य प्रयोजनमुक्तम्। अयमर्थः- असत्यवधिनिर्देशे `निपाताः' इत्यस्य प्रतियोगमनुवृत्तौ सत्यामप्येकसंज्ञाधिकारात् पर्यायः स्यात्, न तु समावेशः; सति तु तस्मिन् ईश्वरात् प्राग्यावन्तः संज्ञिनः सर्वास्तान्नैकध्यमिहापेक्ष्य सकृत्संज्ञा विधीयते, प्रतिसूत्रमधिकारात्त्वपरावृत्तिः, तस्याश्च समावेशः प्रयोजनमिति।
अथ वा प्राग्वचनं किमर्थम्, यावता पञ्चम्येव प्रागिति दिक्शब्देऽध्याहरिष्यते, परागित्यस्य त्वध्याहारो न भविष्यति, `चादयोऽसत्वे' ,`प्रादयः' इत्यनयोर्विधेयासम्भवेनानर्थक्यप्रसङ्गात्? अत आह--प्राग्वचनमिति। अयं भावः- अध्याहारेण सिद्धे प्राग्ग्रहणसामर्थ्यात्तन्त्रेण द्वौ प्राक्छब्दावुच्चार्येते। तेनायमर्थो भवति--प्राग्रीश्वराद्ये व्यवस्थितास्ते प्राक् निपातसंज्ञा भवन्ति, निपाताः सन्तो गत्यादिसंज्ञा इति। तेन निमित्तमेव निपातसंज्ञा गत्यादिसंज्ञानामिति समावेशसिद्धिरिति।
रीश्वरादिति सह रेफेणानुकरणे प्रयोजनमाह--रीश्वराद्वीश्वरान्मा भूदिति। रीश्वरादित्युच्यते, `अधिरीश्वरे' इत्ययमीश्वरशब्दोऽवधिर्यथा स्यात्,`शकिण्यमुल्कमुलौ' `ईश्वरे तोमुन्कसुनौ' इत्ययं मा भूद् इत्येवमर्थमित्यर्थः। यदा संहीतया सूत्राणि पठ्यन्ते, तदा शीश्वरशब्दोऽस्तीत्यभिप्रेत्य रीश्वरादित्युक्तम्। ज्ञापकात्, सिद्धम्, यदयं `कृन्मेजन्तः' इति कृतो मान्तस्यैजन्तस्य वाऽव्ययसंज्ञां शास्ति, तज्ज्ञापयति--अनन्तर ईश्वरशब्दोऽवधिर्न व्यवहित इति, अन्यथा सेसेन्प्रभृतीनां णमुल्कमुलोश्च निपातत्वादेवाव्ययसंज्ञायाः सिद्धत्वादनर्थकं तत्स्यात्? नैतदस्ति ज्ञापकम्, कृन्मेजन्तः परोऽपि सः, `ईश्वरे तोसुन्कसुनौ' इत्यस्मात्परोऽपि कृन्मान्त एजन्तश्चस्ति कृत्यार्थे तवैकेनित्याद्येजन्तः, णमुलादिश्च मान्तः, तदर्थमेतत् स्यात्। यत्तर्ह्यव्ययीभावस्याव्ययत्वं शास्ति, तज्ज्ञापयति--अनन्तरस्य ग्रहणमिति; अन्यथा द्वितीये निपातसंज्ञाव्यापाराद् अव्ययीभावस्य निपातत्वादेवाव्ययसंज्ञायाः सिद्धत्वादनर्थकं तत्स्यात्, नैतदस्ति; `समासेष्वव्ययीभावः' तुल्यजातीयव्यावृत्तये नियमार्थमेतत्स्यात्, न त्वनन्तरस्य ग्रहणे ज्ञापकमित्यर्थः। एवं तर्हि लौकिकन्यायादेवानन्तरस्य ग्रहणं भविष्यति, लौकिके ह्योदकान्तात्प्रियं प्राप्यमनुव्रजेदिति य एवानन्तर उदकान्त आ ततोऽनुव्रज्य बान्धवा निवर्तन्ते तद्वदत्रापि? तत्राह--लौकिकं चातिवर्तते इति। लौकिकं न्यायं लोक एवातिवर्त्तते; यतो द्वितीयमप्युदकान्तं स्नोहातिशयादनुव्रज्य निवर्तन्ते तस्माद्रीश्वरादित्युच्यते वीश्वरान्मा भूदिति स्थितम्। ननु च `न लोकाव्यय' इत्यत्र लोकादीनामव्ययत्वादेव षष्ठीप्रतिषेधे सिद्धे पुनरुपादानं ज्ञापकं भविष्यती--अनन्तरस्य ग्रहणमिति, नैतदस्ति; अव्ययसंज्ञाया एवाभावं ज्ञापयेत्, निपातसंज्ञा तु स्यादेव; ततश्च चिकीर्ष्वर्थ इत्यादौ`निपात एकाजनाङ्' इति प्रगृह्यसंज्ञा स्यातु। प्रोथमिति। पर्याप्तमित्यर्थः। `प्रोथ यर्याप्तौ', पचाद्यचि क्रियाविशेषणत्वान्नपुंसकत्वम्।।
पदमञ्जरी
चादयोऽसत्त्वे।। 1.4.57 ।।
न चेत्सत्त्वे वर्त्तते इति। सत्त्वे चेद् वर्तते तदा संज्ञा न भवतीत्यर्थस्तदाह--प्रसज्यप्रतिषेधोऽयमिति। अथ पर्युदासे को दोषः? पशुशब्देऽत्र पठ्यते सा जातिविशिष्टे द्रव्ये वर्तते, तस्य निपातत्वं स्यात्, जातिद्रव्यसमुदायरूपो ह्यर्थः केवलादन्यो भवति; तथा प्रादय इत्यत्र विप्रातीति विप्रः, `आतश्चोपसर्गे' इति कः। अत्र प्रशब्दः क्रियाविशिष्टे द्रव्ये वर्तते। तत्र क्रियाद्रव्यसमुदायस्य द्रव्यादन्यत्वान्निपात्वान्निपातत्वे सत्यव्ययसंज्ञायां तदन्तविधेरभ्युपगमात् विप्रशब्दस्याव्ययसंज्ञा स्यात्, प्रसज्यप्रतिषेधे तु यत्र द्रव्यगन्धस्तत्र सर्वत्र प्रतिषेधो भवति। क्व तर्हि वर्तमानः पशुशब्देऽसत्त्ववचनो भवति? द्दश्यर्थे, लोधं नयन्ति पशु मन्यमाना इत्यत्र द्दश्यर्थेन मननं विशेष्यते--दर्शनमेतन्मननम्, सम्यक् मन्यमाना इत्यर्थः। सत्त्वशब्दोऽयं सतो भावः सत्त्वमिति सत्ताजातिवचनो गृह्यत इति भ्रान्तिमपनयति--सत्त्वमिति च द्रव्यमुच्यते इति। इदं तदिति सर्वनामपरामर्शयोग्यं वस्तु द्रव्यमुच्यते। उक्तञ्च--
वस्तुपलक्षणं यत्र सर्वनाम प्रयुज्यते।
द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः।। इति।
    स्वार्थेनेति शेषः। सिद्धरूपो योऽर्थः स्वार्थेन विशेष्यतया विवक्षितस्तद् द्रव्यमित्यर्थः। उक्तं च--
स्वार्थस्त यत्र विश्रान्तिर्वाच्यं द्रव्यं तदुच्यते। इति।
एवं च कृत्वा--सीदति, निविशते यत्र जात्यादिकं शब्दप्रवृत्तिनिमित्तं विशेषणभावेनेति सत्त्वं द्रव्यम्। सदेरौणादिकस्त्वप्रक्ययः `ताभ्यामान्यत्रोणादयः' इत्यधिकरणसाधनः। चणिति पठ्यते, स चेदर्थे वर्तते, णकारश्चण्कच्चिद्यत्रयुक्तमिति विशेषणार्थः। नञो ञकारः `नलोपो नञः' इति विशेषणार्थः। नलोपो नस्येत्युच्यमाने वामनपुत्रः- अत्रापि प्राप्नोति? पाक्षिक एष दोषः; `अलुगुत्तरपदे' इति वर्तते, तत्र यदोत्तरपदेनाक्षिप्तं पूर्वपदं नस्य विशेषणम्, तदा पूर्वपदभूतस्य नस्य लोप इत्युच्यमाने नैवात्र प्राप्नोति, नशब्देन पूर्वपदे विशेष्यमाणे तदन्तविधिसद्भावादत्रापि स्यात्। अथास्मिन्पक्षे `नञः' इत्युच्यमानेऽपि स्त्रैणपुत्र इत्यत्र नञः कस्मान्न भवति? अतुल्यत्वात्प्रत्ययस्य ञकारो वृद्धिस्वरयोश्चरितार्थः, निपातस्य त्वचरितार्थः। तथेति पठ्यते, सोऽव्युत्पन्नः समुच्चये वर्तते, तस्य तु थालन्तस्य लित्स्वरेणाद्युदात्तत्वं सिद्धम्। अव्ययत्वमपि `तद्धितश्चसर्वविभक्तिः' इत्येव सिद्धम्। नन्वव्युत्पन्नस्यापि विभक्तप्रतिरूपका इत्येव सिद्धम्, सत्यम्; प्रपञ्चार्थः पाठः। एवं वेलायाम्, मात्रायामित्यादेरपि।
स्वरप्रतिरूपका इति। ऋति ऋ वा वचनमित्यादयः, तेषां निपातसंज्ञाविधानद्वारेण सद्भाव एव प्रतिपाद्यते, न पुनरेषां निपातत्वे किञ्चित्प्रयोजनमस्तीति।।
पदमञ्जरी
प्रादयः।। 1.4.58 ।।
अयं योग उत्तरस्माद्विभज्यते, पूर्वस्माच्च; यदि पुनः`प्रादय उपसर्गाः क्रियायोगे' इत्युच्यते, नैवं शक्यमित्याह-पृथग्योगकरणमिति। उत्तरस्या उपसर्गसंज्ञाया एव `क्रियायोगे' इति विशेषणं यथा स्यात्, निपातसंज्ञायां मा भूदित्येवमर्थमुत्तरस्माद् योगादस्य विभाग इत्यर्थः। अथ वा--चादिष्वेव प्रादीनपि पठित्वा पूर्वस्माद्योगात् किमर्थ विभज्यते, तत्राप्याह--उपसर्गाः क्रियायोग इति। वादीनामिति। चलोपोऽत्र द्रष्टव्य इति च--वदीनामिति। परा जयन्ति सेना इति। परा उत्कुष्टाः। परदेशस्थिता वा द्रव्यत्वात्तत्र वर्तमानस्य पराशब्दस्य न भवति, यत्र त्वेकवचनं पठ्यते--परा जयति सेनेति, तत्र रूपोदाहरणं द्रष्टव्यम्; हल्ङ्याबिति सुलोपात्, पराशब्दस्याद्युदात्तत्वाच्च।।
पदमञ्जरी
उपसर्गाः क्रियायोगे।। 1.4.59 ।।
क्रियायोगे इति तृतीया, निपातनात् समासः, `कर्तृ करणे कृता' इति बहुलवचनाद्वा। यद्वा--क्रियया करणभूतया प्रादीनां धातुभिर्योगात् करणे तृतीयया एव समासः। प्रणयतीति। `उपसर्गादसमासेऽपि इति णत्वम्। प्रनायक इति। नन्वत्रापि गमिक्रियायोगोऽस्त्येव, सत्यम्; प्रादयः पुनरेवमात्मकाः, यदुत श्रुतायां क्रियायां तामेव विशिंषन्ति, अश्रुतायां तु ससाधनां क्रियामाक्षिपन्ति। तत्र क्रियायोगग्रहणसामर्थ्याद् यत्क्रियायुक्ताः प्रादयस्तं प्रत्युपसर्गसंज्ञा भवतीत्ययमर्थो भवति। अत्र च यत्क्रियायुक्तः प्रादिः स गमिर्न प्रयुज्यते, यश्च प्रयुज्यते न तत्क्रियायुक्त इति नास्ति णत्वप्रसङ्गः।
मरुच्छब्दस्येति। उपसर्गसंज्ञैवेष्यते, न निपातसंज्ञा। तस्यां हि सत्यां निपाताद्युदात्तत्वम्`तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरेण स्यात्, अन्तोदात्तश्च मरुत्तशब्द इष्यते। ननूपसर्गसंज्ञायामपि `उपसर्गाश्चाभिवर्जम्' इत्याद्युदात्तत्वं स्यादेव, न; नानेनापूर्वमाद्युदात्तत्वं विधीयते, किं तर्हि? `निपाताः' इत्येव सिद्धेऽथेः प्रतिषेधार्थमेतत्। किं च निपातसंज्ञायामव्ययसंज्ञा स्यात्। अथ `उपसर्गे धोः किः'`आतश्चोपसर्गे' इत्येतौ विधी कस्मान्न भवतः? अनभिधानात्।
मरुत्त इति। मरुच्छब्दतकारस्य `अनचि च' इति द्विर्वचने `झरो झरि' इति मध्यमस्य मध्यमयोर्मध्यमानां वा लोपे त्रैरूप्यं भवति, कथं पुनरत्र तत्वम्, यावतायमनजन्त इत्यत आह--संज्ञाविधानसामर्थ्यादिति। उक्तः प्रयोजनान्तराभावः। एवं तु मरुन्नयतीति तकारव्यवायेऽपि णत्वं प्राप्रोति तस्मात्तत्वविधावेवेष्यते।
श्रच्छब्दस्येति। अङ्‌विधावेवेष्यते, किप्रत्ययो हि न भवति, तदाह--आतश्चोपसर्गे इति। भिदादिपाठात् `प्रज्ञाश्रद्धार्चा' इति निपातनाद्वा सिद्धम्।।
पदमञ्जरी
गतिश्च।। 1.4.60 ।।
`गतिरनन्तरः' इति पुंल्लिङ्गनिर्देशाद् गम्यत इति गतिः, `क्तिच्क्तौ च संज्ञायाम्' इति क्तिचम, निपातनाच्च `न क्तिचि दीर्धश्च' इति न भवति। प्रकृत्येति। अत्र गतित्वात् कृत्स्वरो भवति, समासस्तु प्रादित्वादेव सिद्धः। प्रादिभ्योऽन्यत्र समासोऽपि प्रयोजनम्। प्रकृतमिति। `गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरः। यत् प्रकरोतीति। तिङ्लक्षणस्य निघातस्य `निपातैर्यद्यदि' इति निषेधे तिपः पित्त्वादनुदात्तत्वम्, विकरणस्य प्रत्ययस्वरो धातोः शेषनिघातः, `तिङिचोदात्तवति' इति प्रशब्दस्यानुदात्तत्वम्। एतच्च प्रयोजनचतुष्टयं गतिसंज्ञा प्रकरणे सर्वत्र द्रष्टव्यम्।
चकारः संज्ञासमावेशार्थ इति। अन्यथैकसंज्ञाधिकारादेकत्र संज्ञाद्वयविधानाच्च पर्यायः स्यादिति भावः। कारिकाशब्दस्येति। कारिका क्रिया मर्यादास्थितिरित्यर्थः। यत्न इत्यपरे, धात्वर्थनिर्देश इति ण्वुल्। यस्तु कर्तरि कारिकाशब्दः कारिका दासीति, यच्च श्लोकवाची--तयोर्ग्रहणं न भवति; क्रियायोगग्रहणेन कारिकाशब्दस्य विशेषणात् क्रियावृत्तर्ग्रहणात्। यत्कारिकां करोतीति। निपातत्वादव्ययत्वे सति विभक्तेर्लुक्।
पुनरुत्स्यूतमिति। गतित्वात्समासः। `गतिर्गतौ' इति निघातो भवतीति। यद्यप्यत्र `प्रवृद्धादीनां च' इत्युत्तरपदान्तोदात्तत्वेन शेषनिघातः सिद्धः, तथापि परत्वादयमेव निघातो युक्त इति भावः। इह च पुनराधेयमिति। गतित्वात्समासे कृते कृदुत्तरपदप्रकृतिस्वरेण`यतोऽनावः' इति धेयशब्द आद्युदात्तः। चनोहित इति। निपातत्वादाद्युदात्तस्य चनःशब्दस्य `गतिरनन्तरः' इति प्रकृतिस्वरः।।
पदमञ्जरी
ऊर्यादिच्विडाचश्च।। 1.4.61 ।।
च्व्यन्ता डाजन्ताश्चेति। यद्यपि पदसंज्ञायामन्तग्रहणेन `संज्ञाविधौ प्रतययग्रहणे तदन्तविधिर्नास्ति' इति ज्ञापितम्, तथापि`क्रियायोगे' इत्यनुवृत्तेस्तदन्तग्रहणमिति भावः। न हि प्रत्ययमात्रस्य क्रियायोगः सम्भवति, स्वार्थिकत्वेन स्वयमनर्थकत्वात्, च्वेरश्रावित्वाच्च। कृभ्वस्तियोग इति। न केवलम्, संज्ञाप्रयोगोऽप्यन्यत्र भवति, न हि भवति उरीसंपद्यते इति, श्रौषडादीनां स्वाहापर्यन्तानां चादिषु पाठाद् अक्रियायोगेऽपि निपातत्वम्। आविःशब्दस्य साक्षात्प्रभृतिषु पाठात् कृञो योगे विकल्पः, कृभ्वस्तियोगे त्वनेन नित्यम्। कथं तर्हि `आविश्चक्षुषोऽभवदसाविव रागः', `अभवन् युगपद्विलोलजिह्वा युगलीढोभयसृक्कधारमाविः इति? स्वतन्त्रा कवयः। शुक्लीकृत्येति। `अस्य च्वौ' इतीत्वम्। पटपटाशब्दः `वा क्यषः' इत्यत्र व्युत्पादितः।।
पदमञ्जरी
अनुकरणं चानितिपरम्।। 1.4.62 ।।
इतिः परो यस्मादिति। पञ्चमीसमासस्तु लक्षणाभावान्नाश्रितः। तेनेति खाट्कृत्येत्यत्र इतेः परत्वेऽपि भवति। खाडिति कृत्वा निरष्ठीवदिति। अत्रासति प्रतिषेधे गतिसंज्ञायां समासः स्यात्, धातोश्चानन्तरः प्रयोग इति रूपमेवैतन्न सिध्येत्। `ष्ठिवु निरसने', `ष्ठिवुक्लमुचमां शिति' इति दीर्घः। भूतकालोपन्यासः किमर्थः? कस्यचित्कवेरयं प्रयोग उदाहृतः-
`चुम्बनसक्तः सोऽस्याः च्युतमूलं दशनमात्मनो वदने।
जिह्वामूलस्पृष्टं खाडिति कृत्वा निरष्ठीवत्।।'
पदमञ्जरी
आदरानादरयोः सदसती।। 1.4.63 ।।
प्रीतिसंभ्रम इति। प्रीतिपूर्विका प्रत्युत्थानादिविषया त्वरेत्यर्थः। परिभवौदासीन्यमिति। अवज्ञया कर्तव्यं प्रत्यत्थानादिक प्रत्युपेक्षेत्यर्थः। असदनादरग्रहणं किमर्थम्? असत्कृत्येत्यत्रापि यथा स्यात्। मा भूदसच्छब्दस्य गतिसंज्ञा, सत्कृत्येत्यनेन नञ्समासो भविष्यति? नैवं शक्यम्; सति शिष्टत्वात् कृदुत्तरपदप्रकृतिस्वरं बाधित्वा अव्ययपूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वं स्याद्। असत्कृतमित्यत्र तु सत्कृतशब्दे `गतिरनन्तरः' इति स्वरे प्रवृत्ते प्रश्चान्नञ्समासेऽपि तस्येव स्वरः। असच्छब्दस्यापि कृतशब्देनापि समासे तस्य निपातत्वादाद्युदात्तस्य गतित्वात्प्रकृतिभावेऽपि स एव स्वर इति नास्ति विशेषः। इह च यदासत्करोतीत्यसच्छब्दस्य निघातो न स्याद्, अव्ययसंज्ञापि तस्य न स्यादित्यसच्छब्दस्यैव गतिनिपातसंज्ञे एषितव्ये। न चात्र सच्छब्देन तदन्तविधिर्लभ्यते; विशेष्यस्याभावात्।
नन्वत्र सच्छब्दस्यैव संज्ञास्तु, कार्यप्रदेशेषु प्रकृतस्य तेन तदन्तविधिर्भविष्यति, अव्यसंज्ञायां तावदस्त्येव तदन्तविधिः-परमोच्चैरिति, यथा `कुगतिप्रादयः' इत्यत्रापि सुबिति प्रवर्तते, सुपेत्येव निवृत्तम्, तद्रतिना विशेष्यते `गतिरनन्तरः' इत्यत्र पूर्वपदम् `गतिर्गतौ' इत्यत्रापि पदस्येति प्रकृतम्। भवतु तदन्तविधिना कार्यम्, अनादरावगतिस्तु कुतः? असत्यनादरग्रहणे, न सदसदित्यादरनिषेधान्नैव शक्यम्, आदरप्रसङ्ग एव हि स्यात्, गुरुमसत्कृत्येति चाण्डालमसत्कृत्येत्यत्र न स्यात्। यथाऽब्राह्मण इति क्षत्रियादिरेवोच्यते, न लोष्टादिः, अनादरग्रहणे तु सति बहुव्रीहिर्विज्ञायते--अविद्यामानादरोऽनादर इति। बहुव्रीहिश्चात्यन्ताभावे, प्रसक्ताभावे, अप्रसक्ताभावे च भवतीति सर्वत्र संज्ञा सिध्यति, तस्मादनादरग्रहणं कर्तव्यम्। असद्‌ग्रहणं तु शक्यमकर्तुम्। आदरानादरयोः सदित्येवास्तु, तत्र यथा गोष्पदं सेवित्यत्रासेविते गोष्पदशब्दो न संभवतीत्यगोष्पदार्थमसेवितग्रहणम्; एवमनादरेऽपि सच्छब्दो न सम्भवतीत्यसच्छब्दार्थमानदरग्रहणं भविष्यति।
सत्कृत्वा, असत्कृत्वेति। शोभनवचनो विद्यमानवचनो वा सच्छब्दः तद्विपरीतवचनोऽसच्छब्दः।।
पदमञ्जरी
भूषणेऽलम्।। 1.4.64 ।।
अलमिति प्रतिषेध इत्यादि। तद्यथा अलं--कृत्वा, अलं भोक्तुम्, अलं भुङ्क्ते, अलं करोति कन्यामिति।।
पदमञ्जरी
अन्तरपरिग्रहे।। 1.4.65 ।।
अन्तर्हत्वा, मध्ये हत्वेत्यर्थः। अन्तः शब्दस्येत्यादि। उपसर्गसंज्ञायामेवैतन्नोक्तम्--अन्तः शब्दप्रसङ्गेन वक्ष्यामीति। यदा चोपसर्गसंज्ञोच्यते; तदान्तर्णयतीत्यादिवदन्तर्हण्यात्, अन्तर्हणनमित्यादावपि `हन्तेरत्पूर्वस्य' इति णत्वं सिद्धम्। अन्तरयणमित्यत्रापि `कृत्यचः' इत्येव सिद्धमिति `अन्तरदेशे'`अयनं च' इति सूत्रद्वयमपि देशप्रतिषेधार्थं द्रष्टव्यम्।।
पदमञ्जरी
कणेमनसी श्रद्धाप्रतीघाते।। 1.4.66 ।।
कणेशब्दः सप्तमीप्रतिरूपको निपातोऽभिलाषातिशये वर्तते। मनःशब्दोऽपि साहचर्यादभिलाषावृत्तिरेव विज्ञेयः। कणेहत्येति। अतिशयेनाभिलष्य तन्निवृत्तिपर्यन्तं पिबतीत्यर्थः। तदाह--तावदिति। श्रद्धा प्रतिहन्यत इत्यर्थः। इति यावदस्येत्यपेक्षते। प्रत्युदाहरणे कणेशब्दः पूक्ष्मतण्डुलावयवोऽधिकरणभूते वर्त्तते। मनःशब्दोऽपि चेतसि।।
पदमञ्जरी
पुरोऽव्ययम्।। 1.4.67 ।।
असिप्रत्ययान्तः पुरः शब्दोऽव्ययमिति। `पूर्वाधरावाराणामसिपुरधवश्चैषाम्' इत्यसिप्रत्ययः, पूर्वशब्दस्य पुरादेशः, `तद्धितश्चासर्वविभक्ति' इत्यव्ययसंज्ञा, विसर्जनीयस्थानिकः सकार उपचारः। पुरस्कृत्येति। पूर्वस्मिन्देशे कृत्वेत्यर्थः। पूः पुरौ, पुरः कृत्वेति। एतदत्र प्रत्युदाहरणम्। इतरयोस्तूपन्यासस्तत्साहचर्यात्पुर इति शसन्तम्, नाव्ययमिति प्रदर्शनार्थः। अत्र `नमस्पुरसोर्गत्योः' इति सत्वं न भवति, समासश्च न भवति।।
पदमञ्जरी
अस्तं च।। 1.4.68 ।।
अस्तं कृत्वेति। `असु क्षेपणे',निष्ठा, उदितो वा' `यस्यविभाषा' इति इट्प्रतिषेधः। ननु लाक्षणिकत्वादेवात्र न भवति, किमव्ययग्रहणानुवृत्त्या? एवं तर्ह्यस्तंशब्दोः अव्ययमिति ज्ञाप्यते। न ह्ययं चादिषु स्वरादिषु वा पठ्‌यते।।
पदमञ्जरी
अच्छ गत्यर्थवदेषु।। 1.4.69 ।।
अच्छेत्यनुकरणत्वेऽविभक्तिको निर्देशः, `सुपां सुलुक्' इति विभक्तेर्लु प्तत्वात्। अभिशब्दस्यार्थ इति। आभिमुख्ये। अच्छोद्योति। यजादित्वात् संप्रसारणम्, उदकमच्छं गच्छति, अकलुषमित्यर्थः।।
पदमञ्जरी
अदोऽनुपदेशे।। 1.4.70 ।।
उपदेशः परार्थः इति। वाक्यप्रयोग इत्यर्थाद् गम्यते। अदः- कृत्येति। एतत्कर्तव्यमिति स्वयमालोच्येत्यर्थः।।
पदमञ्जरी
तिरोऽन्तर्द्धौ।। 1.4.71 ।।
तिरोभूयेति। समासकृत्स्वरौ प्रयोजनम्। तिरोभूतमिति। भवतेरकर्मकत्वात्कर्त्तरि क्तः `गतिरनन्तरः' इत्यत्र च कर्मणीति वर्तते, तस्मात् समासथाथादिस्वरावत्र प्रयोजनम्। तिरो भूत्वेति। पार्श्वतो भूत्वेत्यर्थः।।
पदमञ्जरी
विभाषा कृञि।। 1.4.72 ।।
तिरस्कृत्येति। `तिरसोऽन्यतरस्याम्' इति सत्वम्। प्रत्युदाहरणे तु न भवति, तत्र गत्यनुकार्यानुकरणयोर्भोदस्याविवक्षितत्वात् सूत्रे विभक्त्यभावः।।
पदमञ्जरी
उपाजेऽन्वाजे।। 1.4.73 ।।
साक्षात्प्रमृतीनि च।। 1.4.74 ।।
साक्षात्प्रभृतिष्विति। असाक्षाद्‌भूतं यदा साक्षात्क्रियते तदा यथा स्यात् यदा यत्तु साक्षाद्भूतमेव रूपान्तरेण क्रियते तदा मा भूदित्येवमर्थम्। मिथ्याप्रभृतिष्वपि द्रष्यव्यम्। एतच्चान्तरङ्गत्वाल्लभ्यते, तथा हि--साक्षात्कृतमित्युक्ते श्रुतस्य तस्यैव रूपस्य करणं प्रतीयते, न त्वश्रुतरूपान्तरस्य।
नन्वसत्यामपि प्रकृतिविवक्षायां तस्यैव रूपस्य करणं प्रतीयते, अथ च च्व्यर्थवृत्तिता नास्ति, तस्माच्च्व्यर्थग्रहणमेव कर्तव्यम्। अथ च्व्यन्तेष्वपि साक्षादादिषु अयं विकल्पः कस्मान्न भवति? अस्तु, अनेन मुक्ते पुनः प्रसङ्गविज्ञानाद् `ऊर्यादिच्विडाचश्च' इत्येषा भविष्यति? नैवं शक्यम्, यदेतल्लवणादीनां मकारान्तत्वनिपातनं तदपि च्व्यन्तेषु स्यात्। एवं लवणादीनां मान्ता लवणादय आदेशाः करिष्यन्ते, तत्र यद्येकदेशविकृतस्यानन्यत्वाल्ल्लवाणीशब्दस्यापि पक्षे लवणमादशः क्रियते न कश्चिद् दोषः; त्रैशब्द्यं हि नः साध्यम्--लवणंकृत्य, लवणं कृत्वा, लवणीकृत्येति, तच्चैवं सिद्धम्। वृत्तिकारस्तु `मकारान्तत्वं निपात्यते' इति वदति, स मन्यते--च्व्यन्तेषु पूर्वविप्रतिषेधेन नित्या संज्ञा भवति, विकल्पेन तु सन्नियुक्तं मान्तत्वं निपातनमिति। अग्नौ, वशेप्रभृतयो विभक्तिप्रतिरूपका निपाताः, प्रादुराविशब्दयोरूर्यादित्वात् प्राप्ते विभाषा।।
पदमञ्जरी
अनत्याधान उरसिमनसी।। 1.4.75 ।।
उरसिमनसिशब्दौ निपातौ। उरसिकृत्येति। अभ्युपगम्येत्यर्थः। मनसिकृत्य, निश्चित्येत्यर्थः।।
पदमञ्जरी
मध्ये पदे निवचने च।। 1.4.76 ।।
मघ्ये पदे निवचने च ।। अविभक्तिको निर्देशः, मध्येपदेशब्दौ निपातौ। निवचनं वचनाभाव इति। तत्र निपातनादेकारान्तत्वं न पुनरेषा सप्तमी। वाचं नियम्येति। व्याख्यानान्निपातनं चाविशेषेण, न तु संज्ञासन्नियुक्तं निवचने कृत्वेति उदाहृतत्वादित्याहुः।।
पदमञ्जरी
नित्यं हस्ते पाणावुपयमने।। 1.4.77 ।।
दारकर्मेति। अन्ये तु स्वीकरणमात्रमिच्छन्तिहस्तेकृत्य महास्त्राणीति, हस्तेपाणौ शब्दौ निपातौ।।
पदमञ्जरी
प्राध्वं बन्धने।। 1.4.78 ।।
मकारान्तमव्ययमिति। चादिषु पाठात्। आनुकूल्ये वर्तते इति। तेन बन्धने वर्तमानः प्राध्वंशब्दः इत्ययमर्थो न भवति। कथं तर्हि बन्धने इत्यस्यान्वय इत्यत आह--तदिति।
बन्धन इति। सत्सप्तम्यर्थद्वारकश्च प्राध्वमित्यनेन सम्बन्धः, बन्धने सति यदानुकूल्यं तद्वन्धनहेतुकमिति भावः।
प्राध्वं कृत्वा गत इति। प्रस्थितोऽध्वानं प्राध्वः, `अत्यादयः क्रान्ताद्यर्थे' इति समासः, `उपसर्गादध्वनः' इत्यच् लाक्षणिकत्वादेवात्र न भविष्यति; तस्मादव्ययस्यैवायं प्रयोगः, आनुकूल्यं तु बन्धनहेतुकं न विवक्षितमिति व्याचक्षते।।
पदमञ्जरी
जीविकोपनिषदावौपम्ये।। 1.4.79 ।।
जीविका=जीवनोपायः, `संज्ञायाम्' इति करणे ण्वुल्। ण्यन्ताद्वा कर्त्तरि उपिनिपूर्वात्सदेः `सत्सूद्विष' इति क्विप्, `सदिरप्रतेः' इति षत्वम्, उपनिषद्=रहस्यं वेदान्तजन्यं ज्ञानम्, वेदान्तभागो वा। आपम्य इति। उपमीयतेऽनयेत्युपमा `आतश्चोपसर्गे' इत्यङ्, तस्या भाव औपम्यम्। विषयसप्तमी चैषा, उपमानोपमेयसम्बन्धनिमित्तादभेदोपचाराद्यावुपमेयनिष्ठौ भवतः, तावौपम्यविषयौ। जीविकाकृत्य, उपनिषत्कृत्येति। जीविकामिव कृत्वा, उपनिषदमिव कृत्वेत्यर्थः। यद्यपि गतिसमासो नित्यः, तथापीवशब्दप्रयोगे स्वार्थनिष्ठत्वादीद्दशवाक्यं भवत्येव।।
पदमञ्जरी
ते प्राग्धातोः।। 1.4.80 ।।
नियमार्थमिदम्। स पुनर्नियमः संज्ञानियमो वा स्यात्, प्रयोग नियमो वा स्यात्? तत्र संज्ञानियमे तेशब्देन प्रादय उपनिषत्पर्थन्ताः स्वरूपेण परामृश्यन्ते, न गत्युपसर्गसंज्ञाविशिष्टेन रूपेणा; संज्ञयोरनिष्पादनात्। अनेनेकवाक्यतापन्नैः पूर्वसूत्रैस्तयोर्विधानात्। ते प्रादय उपनिषत्पर्यन्ता धातोः प्रागेव प्रयुज्यमाना गत्युपसर्गसंज्ञा भवन्तीत्यर्थः। प्रयोगनियमे तु लब्धगत्युपसर्गसंज्ञाः परामृश्यन्ते। ते गत्युपसर्गसंज्ञका धातोः प्रागेव प्रयोक्तव्या इत्यर्थः।
तत्राद्ये पक्षे स्वरूपेण परामर्शः प्रादीनामिव चादीनामपि स्यात्, ततश्च निपातसंज्ञाया अपि नियमः स्यात्। अथापि गत्युपसर्गसंज्ञयोरेव नियमः, एवमप्यनर्थकं वचनम्, प्रयोग एव हि तेषामप्राङ् नेष्यते। न पुनरप्राक् प्रयुज्यमानानां संज्ञायां किञ्चिदनिष्टमापद्यते। `छन्दसि परेऽपि' व्यवहिताश्च' इति रूपद्वयं चानर्थकम्,परव्यवहितानां संज्ञैव निषिद्धा, न तु प्रयोगः। न च तेनापि संज्ञैव विधीयते, निष्प्रयोजनत्वात्। किंच `अनुकरणं चानितिपरम्' इत्यनितिपरग्रहण मनर्थकं स्यात्, `खाडिति कृत्वा निरष्ठीवत्' इत्यत्र व्यवहितस्यानुकरणस्य गतिसंज्ञैव निषिद्धा, प्रयोगस्तु केन वार्यते! प्रयोगनियमे तु धातोः प्रागेवानुकरणस्य प्रयोगः स्याद्, न त्वितिशब्देन व्यवहितस्येति अनितिपरमिति वक्तव्यम्। अतः प्रयोगनियम एवायं युक्त इति मत्वाह--ते गत्युपसर्गसंज्ञका इति।
अथास्मिन्नपि पक्षे निपातानामपि तेशब्देन परामर्शः कस्मान्न भवति? व्यवहितत्वात्। कथं तर्ह्युपसर्गाणां परामर्शः, नोपसर्गास्तेन रूपेण परामृश्यन्ते, किं तर्हि? गतिरूपेण, तेषामपि गतित्वात्। अनेनैवाभिप्रायेण वृत्तावुपसर्गाणां पृथग् ग्रहणम्। चादयस्तु नैवमिति न ते परामृश्यन्ते। ननु यत्र लोके संकीर्णः प्रयोगः- गौर्गावीति, तत्र साधुपरिज्ञानाय शास्त्रमर्थवत्। यत्र त्वसंकीर्ण एव प्रयोगो न तत्र शास्त्रकृत्यमस्ति; न च कश्चित् प्रपचतीति प्रयोक्तव्ये पचतीति प्रेति प्रयुङ्क्ते। यद्यपि लोके प्रयोगो न द्दश्यते विपरीतः, छन्दसि तु परव्यवहितप्रयोगदर्शनाद् भाषायामपि तथा प्रयोगः शङ्क्येत, दर्शितश्चाद्यत्वेऽपि भाषायामेव गतेराविःशब्दस्य परव्यवहितप्रयोग ऊर्यादिसूत्रे। किं च `उदि कूले रुजिवहोः' कूलमुद्वह इत्यत्र `उदि' `कूल' इति द्वयोरपि सप्तमीनिर्देशादुपपदत्वात्समासे कृते `उपसर्जनं पूर्वम्' इति शास्त्रवशात्पर्यायेण पूर्वनिपातं मन्येरन् इत्युपसर्जनसंनिपाते पूर्वपरव्यवस्थार्थमिदं वक्तव्यम्। यद्येवम्, `कर्तृकर्मणोश्च भूकृञो':- सुखेन कटः क्रियते, सुकटंकराणि वीरणानि, दुष्कटंकराणि, अत्र सुदुसोः प्राग्धातोः प्रयोगः प्राप्नोति--कटं सुकराणीति। खलः खित्करणमिदानीं किमर्थं स्यात्? अनव्ययस्य हि मुमुच्यते, खित्करणसामर्थ्याद् अव्ययस्य भवतु, यदि वा `कृद्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' इति सुकरशब्दे परतः कटस्य भविष्यति, कर्त्तव्योऽत्र यत्नः।
धातुग्रहणमनर्तकम्, कुतः? प्रागित्यपेक्षायां यत्क्रियायुक्ताः प्रादयस्ततः प्रागिति विज्ञास्यते; नैवं शक्यम्, इह च कर्तुं प्रेच्छति प्रचिकीर्षतीति सन्वाच्यया इच्छया प्रशब्दस्य योग इति सन एव प्राक् प्रशब्दः प्रयुज्येत, धातुग्रहणात् तु धातोरेव चिकीर्षतेः प्राक् प्रयुज्यते।
तेग्रहणमुपसर्गार्थमिति। ननु यदि गतिसंज्ञारहिताः केवलोपसर्गसंज्ञा एव प्रादयः स्युः, ततोऽसति तेग्रहणे गतीनामनन्तरत्वात्त एव संबध्येरन्, न तूपसर्गा इति तदर्थं तेग्रहणं कर्तव्यम्? तेऽपि तु गतिसंज्ञकाः, ततश्चानन्तराणां गतीनामपि सम्बन्धे प्रादीनामपि गतित्वादेव ग्रहणं सिद्धम्। स्यादेतत्--असति तेग्रहणे गतिसंज्ञैव केवला येषाम्, तेषामेव स्याद्; नोभयसंज्ञकानां प्रादीनामिति? न; केवलगतेरभावात्। ननु चायमस्ति `अनुकरणं चानिति परम्' इति, न; तस्यापि निपातत्वात्, उच्यते; असति तेग्रहणे प्रकृतेष्वपेक्षा चेत् कतिपये संबध्येरन्; नोपसर्गपर्यन्ताः। व्याप्तिन्यायात्तु भूयसामपेक्षायां न प्रादिष्वेव पर्यवसाने कारणमस्तीति चादयोऽप्यपेक्ष्येरन् । तेग्रहणे तु सति गतिसंज्ञाया अनन्तरत्वात्तेन रूपेण परामर्शो न कतिपयानामेव भवतीति प्रादीनपि व्याप्नोति, चादींश्च परिसंचष्टे इति तेग्रहणमुपसर्गार्थं भवति। तत्पर्यन्तानां च यथा स्यात् तेषामेव च यथा स्यादित्यर्थः। गतयो ह्यनन्तरा इति। येऽनन्तरास्त एव कतिपये गृह्येरन्, प्रत्यासत्ताविति भावः। व्याप्तौ तु दोषः सुज्ञानत्वान्न कण्ठोक्तः।।
पदमञ्जरी
छन्दसि परेऽपि ।। 1.4.81 ।।
न च परेषामिति। नच `गतिर्गतौ' इत्यस्यापि सम्भवः, परभूतानामेकाकिनामेव दर्शनादिति मन्यते।।
पदमञ्जरी
व्यवहिताश्च।। 1.4.82 ।।
दिक्‌छब्दानामव्यवहिते मुख्या वृत्तिरिति प्राक् परस्ताच्च व्यवहितानां प्रयोगार्थमिदं वचनम्। अत एव भाषायां व्यवहितानामप्रयोगः। कथं तर्हि गतिव्यवाये प्रयोगः-अभ्युद्धरति, समुदाहरतीति? न तुल्यजातीयं व्यवधायकं भवति, तद्यथा--किमनन्तरे एते ब्राह्मणकुले इति पृष्टः सन्नाह--नानन्तरे, वृषलकुलमनयोर्मध्य इति विजातीयं व्यवधायकं निर्दिशति, जातेर्वा समाश्रयणान्नास्ति व्यवधायकत्वम्। एवं च गतिरनन्तरग्रहणम्, `गतिर्गतौ' इति वचनम्, `अभिप्रैति' इतिनिर्देशश्चोपपन्नो भवति।।
पदमञ्जरी
कर्मप्रवचनीयाः।। 1.4.83 ।।
वक्ष्यामाणानां संज्ञिनां बहुत्वाद्वहुवचनम्, यथा--निपाताः, कृत्या इति। क्वचितु सामान्यविवक्षयैकवचनम्, `गतिश्च',`प्रत्ययः'`कृत्' इति। महासंज्ञाकरणमन्वर्थसंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम्--कर्म=क्रियां प्रोक्तवन्तः कर्मप्रवचनीया इति। भूते `कृत्यल्युटो बहुलम्' इति कर्त्तरि कृत्यः। के च कर्म प्रोक्तवन्तः? ये प्रयुज्यमाने क्रियापदे--`अनुभूयते कम्बलः' इत्यादौ क्रियाविशेषं द्योतितवन्तः, न संप्रति क्रियाविशेषं द्योतयन्ति, किं तर्हि? सम्बन्धविशेषम्, तद्यथा--शाकल्यस्य संहितामनुप्रावर्षदिति। न ह्यत्रानुरनुभूयते इत्यादाविव क्रियाविशेषं द्योतयति, क्रियापदाभावात्; नापि षष्ठीवत्सम्बन्धमाचष्टे--संहितामिति; द्वितीयायास्तदर्थत्वात्। नापि क्रियापदमाक्षिपति, यथा--प्रादेशं विपरिलिखतीति, विशब्दो विमानक्रियां प्रादेशं विमाय परिलिखतीति । तथा हि--सति प्रादेशमितिवत् कारकविभक्तिप्रसङ्गः, शेषसम्बन्धस्य वा प्रतीतिप्रसङ्गः। तदेवमनुः संहिताप्रवर्षणयोर्यः शेषसम्बन्धो द्वितीयाभिहितस्तं विशेषेऽवस्थापयति। हेतुहेतुमद्भावेन रूपेण विशिष्टक्रियाजनितत्वेन वा सम्बन्धस्य तत्संनिधौ सम्प्रत्ययात् संहितामनुनिशम्य प्रावर्षदिति। उक्तं च--
क्रियाया द्योतको नायं न सम्बन्धस्य वाचकः।
नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः।। इति।
       क्वचित्तु प्रवृत्तिनिमित्ताभावेऽपि वचनसामर्थ्यादियं संज्ञा प्रवर्तते, यथा--`सुः पूजायाम्' `अतिरतिक्रमणे च इति।।
पदमञ्जरी
अनुर्लक्षणे।। 1.4.84 ।।
यावतेति। यावताशब्दो निपातो नन्वित्यर्थे। अन्येत्यर्थ इत्यन्ये। लक्षणेत्थभ्भूताख्यानेतिष सिद्धेति। तत्र चावश्यमनोर्ग्रहणं कर्तव्यमिर्त्थभूताख्यानादिषु याथा स्यात्। लक्षणग्रहणं च प्रत्याद्यर्थम्, अतोऽर्थान्तरसंज्ञान्तरसंज्ञान्तरसाधारणत्वात्तदेवास्तु, इदं तु न कर्तव्यमिति भावः। हेत्वर्थन्त्विति । तु शब्दः पक्षं व्यावर्तयति। हेतुः= करणम्, अर्थः= प्रयोजनं प्रयोजकोऽस्य वचनस्येत्यर्थः। ननु च तत्र चात्र च लक्षणग्रहणमेव क्रियते, तद्यदि हेतुर्लक्षणं न भवति, इहापि न गृह्यते, अथ भवति तत्रापि नार्थ एतेन? तत्राह--हेतुतृतीयामिति। सत्यम्; लक्ष्यतेऽनेन तल्लक्षणम्= चिह्नं ज्ञापकम्, कारणमपि नियतं कार्यविशेषावगतिहेतुत्वाद् लक्षणं भवत्येव। उक्तं भाष्ये--लक्षणेन हेतुरपि व्याप्तो नावश्यं तदेव लक्षणं येन पुनः पुनर्लक्ष्यते,किं तर्हि? यत्सकृदपि निमित्तत्वाय कल्पते पदपि लक्षणमिति। किन्तु येन नाप्राप्तिन्यायेन कर्मप्रवचनीययुक्ते द्वितीया षष्ठ्या एवापवादः। ततश्च लक्षणेत्थंभूतेत्यनोर्लक्षघणे कर्मप्रवचनीयसंज्ञाया अवकाशो यो हेतुर्न भवति-वृक्षमनुविद्योतते, हेतुतृतीयाया अवकाशः- धनेन कुलमिति; हेतुभूते तु लक्षणे उभयप्रसङ्गे परत्वात् तृतीया स्यात्, तामपि बाधित्वा द्वितीयैव यथा स्यात्। पुनः संज्ञाविधाने कक्षान्तरप्राप्तत्वाद् द्वितीयैव तृतीया बाधते। उक्तं च--
हेतुहेतुमतोर्योगपरिच्छेदोऽनुना कृते।
आरम्भाद्वाध्यते प्राप्ता तृतीया हेतुलक्षणा।। इति।
`तृतीयार्थ' इत्यनेन तु पुरस्तादपवादन्यायेन `सहयुक्तेऽप्रधाने' इत्यस्यैव बाधः, न हेतुतृतीयाया इति वक्तव्यमेतत्।।
पदमञ्जरी
तृतीयार्थे।। 1.4.85 ।।
नदीमन्ववसितेति। सहार्थोऽत्र तृतीयार्थः। अन्ववपूर्वात्`षिञ्‌ बन्धने' इत्यस्मात् कर्त्तरि क्तः।।
पदमञ्जरी
हीने।। 1.4.86 ।।
हीनेत्कृष्टसम्बन्धे संज्ञेति। कर्मप्रवचनीयविभक्तिस्तु तेन व्यतिरिच्यमान उत्कृष्ट एव भवति, न हीने, अभिधानाशक्तिस्वाभाव्यात् नोभाभ्यामेकयैव द्वितीयया द्विष्ठस्यापि सम्बन्धस्याभिधानात् षष्ठीत्।।
पदमञ्जरी
उपोऽधिके च।। 1.4.87 ।।
अत्राप्यधिकिना विनाधिकस्यासम्भावद् अधिकाधिकिसम्बन्धे संज्ञा विधीयते। विभक्तिरप्यधिकिन एव भवति, नाधिकात्। उपखार्यो द्रोण इति। खारशब्दो गौरादिः, खारी तावदस्ति, अधिकोऽपि तस्यां द्रोणोऽस्तीत्यर्थः। `यस्मादधिकम्' इति सप्तमी।।
अपपरी वर्जने।। प्रकृतेन वाक्ये प्रतिपाद्यमानेनेत्यर्थः। परिपरित्रिगर्त्तेभ्य इति `पञ्चम्यपाङ्परिभिः' इति पञ्चमी, `परेर्वर्जने' इति द्विर्वचनम्, कर्मप्रवचनीयेन पञ्चमीसहितेन द्योतितेऽपि वर्जने भवति, उभयोरपि विधानसामर्थ्यात्। परिषिञ्चतीति। परिः सर्वतो भावे, अत्रास्याः संज्ञाया अभावाद् उपसर्गत्वे सति `उपसर्गात्सुनोति' इति षत्वं भवति, `शे मुचादीनाम्' इति नुम्।।
पदमञ्जरी
आङ् मर्यादावचने।। 1.4.89 ।।
मर्या मरणधर्माणो मनुष्याः, औणदिको यप्रत्ययः, तैरादीयते मर्यादा, `आतश्चोपसर्गे' इत्यङ्प्रत्ययः। अवधिर्मर्यादेति। ननु यत्रावधिः कार्येण युज्यते सोऽभिविधिः, यत्र न सा मर्यादा; अवधिस्तु साधारणं तत्काथमवधिर्मर्यादा? नायमत्रार्थो योऽवधिः सा सर्यादेति, किं तर्हि? या मर्यादा सोऽवधिरित्यर्थः। वचनग्राणदिति। इह मर्यादायामिति वाच्ये वचनग्रहणं क्रियते, तस्यैतत्प्रयोजनमेवं यथा विज्ञायेत--उच्यतेऽस्मिन्निति वचनम्, मर्यादाया वचनमिति कर्मणि षष्ठ्याः समासः। मर्यादाशब्दो यत्रोच्यते `आङ्मर्यादाभिविध्योः' इति तस्याङो ग्रहणम्, स चाभिविधिवृत्तिरपीत्यत्राप्यभिविधेर्ग्रंहणं भवति।
यद्वा--वचनग्रहणसामर्थ्यादवान्तरभेदो न विवक्ष्यते, अवधिमात्रं गृह्यते। आ मथुराया इति। वृष्टो देव इत्यपेक्ष्यते, `मन्थ विलोडने' औणादिकः कुरच् प्रत्ययः। ईषदर्थे क्रियायोगे च मा भूदिति। वाक्यस्मरणयोस्त्वङित्त्वादेवाप्रसङ्गः, तत्रेषदर्थे आ कडारः पञ्चमी न भवति, क्रियायोगे समाहार इति `गतिर्गतौ' इति निघातो भवति।।
पदमञ्जरी
लक्षणेत्थंभूताख्यानभागवीप्ससु प्रतिपर्यनवः।। 1.4.90 ।।
लक्ष्यते येन तल्लक्षणम्= चिह्नं ज्ञापकम्। अयं प्रकार इत्थम्, प्रथमान्तादिदमस्थमुः इह त्विदमा प्रत्यवमृश्यस्य सन्निहितस्य कस्यचिदभावात्प्रकारविशेषमात्रवृत्तिरित्थंशब्दः। `भू प्राप्तौ' आत्मनेपदी, `आ धृषाद्वा' इति णिजभावपक्षे गत्यर्थत्वात्कर्तरि क्तः। तत इत्थंशब्दादव्ययादपि वृत्तिविषये सत्त्वधर्मोपादानात्कर्मणि द्वितीया, श्रितादिषु गम्यादीनामिति सामसः, कञ्चित् प्रकारं प्राप्त इत्थंभूतः, इत्थंभूतस्याख्यानमित्थंभूताख्यानम्। स्वीक्रियमाणोंऽशो भागः, यस्त्वंशमात्रे प्रयोगः प्रियङ्गोर्भाग इति स भागसाद्दश्यात्। व्याप्तुमिच्छा वीप्सा, सा चाष्टमे स्षष्टयिष्यते, एते लक्षणादयो यथा विभक्तिसमीपादयोऽव्ययार्था नेवं प्रत्यादीनामर्थाः, किं तर्हि? संज्ञायाः प्रत्यादीनां विषयत्वेन निर्दिष्टाः इत्याह--वीप्सायां च विषयभूतायामिति। एतच्च लिङ्गविपरिणामेन लक्षतणादिभिरपि सम्बन्धनीयम्। वृक्षं प्रतीति। अत्र वृक्षो लक्षणं विद्योतनस्य, प्रत्यादयस्तु प्राप्तिक्रयाजनितो लक्ष्यलक्षणभाव इत्येवं सम्बन्धविशेषेऽवस्थापयन्ति--वृक्षं प्राप्य विद्योतते, वृक्षे प्रदेशे विद्योतत इत्यर्थः। साधुरिति। अत्रापि प्राप्तिक्रियाजनित एव विषयविषयिभावसम्बन्धः, यथा वृक्षे द्दष्टे विद्योतनं लक्ष्यते, नैवमत्रासाधुत्वापत्तिरितीत्थम्भूताख्यानग्रहणम्। यदत्र मामिति। यो मम भागः स दीयतामित्यर्थः। अत्र स्वीकरणक्रियाजनितः स्वस्वामिसम्बन्धः। वृक्षं वृक्षमिति। वीप्सा द्विर्वचनेन द्योत्यते। परिशब्दस्तु क्रिययैव सम्बध्यते, द्वितीया चेह कर्मणि। कर्मप्रवचनीयसंज्ञा तूपसर्गसंज्ञा--निवृत्त्यर्था तेन `उपसर्गात्सुनोति' इति षत्वं न भवति। अशब्दसाहचर्यादिति। परिशब्दोऽयं द्दष्टापचारो वर्जने चावर्जने च कर्मप्रवचनीयः। अपशब्दस्तु वर्जने एव। कर्मप्रवचनीयाधिकारे पञ्चमी विधीयते, तत्र साहचर्यं व्यवस्थाहेतुः।।
पदमञ्जरी
अभिरभागे।। 1.4.91 ।।
अभागइति किमिति। अभिधेयं प्रयोजनं च परिज्ञातुं प्रश्नः। अत एवोभयं दर्शयति । भागः स्वीक्रियमाणोंऽशः। यदत्र ममाभिष्यादिति। ननु अन्वर्थसंज्ञाविज्ञानादेवात्र न भविष्यति, संप्रत्येव ह्यसौ विभजनक्रियां द्योतयति? प्रत्यादीनामपि तर्हि न स्याद्? वचनाद्भविष्यति। अभेरपि तर्हि प्राप्नोति, तस्माद् `अभागे' इति वक्तव्यम्, तत्रोपसर्गत्वात् `उपसर्गप्रादुर्भ्यामस्तिर्यच्परः' इति षत्वम्। अथैवं कस्मान्न कृतम्--`लक्षणेत्थंभूताख्यानवीप्सास्वभिः, प्रतिपरी भागे च, चकाराल्लक्षणादिषु च, अनुर्लक्षणतृतीयार्थयोश्च, चकाराद्भागे लक्षणादिषु च, ततो हीने, उपोऽधिके च'; इत्येवं हि द्विरनोर्ग्रहणम्, अभाग इति च न वक्तव्यं भवति। एवं हि द्विश्चग्रहणं क्रियते इति पदयोः साम्यम्, अक्षरलाघवं तु नाद्दतम्।।
पदमञ्जरी
प्रतिः प्रतिनिधिप्रतिदानयोः।। 1.4.92 ।।
मुखसद्दश इति। मुख्यः क्वचित्कार्ये शत्रुवधादौ द्दष्टसामर्थ्यः। यस्तु तदभावे तत्कार्यकरणाय प्रतिनिधीयते उपादायते स प्रतिनिधिः, कर्मणि किप्रत्ययः। दत्तस्येति उत्तमर्णेन । प्रतिनिर्यातनमिति। प्रत्यर्पणम्। अर्जुनतः प्रतीति। `प्रतिनिधिप्रतिदाने च यस्माद्' इति पञ्चमी, प्रतियोगो पञ्चम्यास्तसिः। माषानिति। तिलान् गृहीत्वा माषान् ददातीत्यर्थः।।
पदमञ्जरी
अधिपरी अनर्थकौ।। 1.4.93 ।।
ननु चानर्थकयोः क्रियायोगाभावाद् गत्युपसर्गसंज्ञयोः प्राप्त्यभावान्न तद्वोधनार्थ कर्मप्रवचनीयसंज्ञाविधानमुपपद्यते, नापि परिशब्दयोगे पञ्चमीविधानार्थम्, तद्विधौ वर्जनार्थस्य ग्रहणाद्। अपादानत्वाच्च सिद्धा पञ्चमी, यथाऽधिशब्दस्य प्रयोगे--कुतोऽध्यागच्छतीति। अत एव द्वितीयाविधानार्थमपि नोपपद्यते; तस्मादनर्थकयोः संज्ञाविधानमनर्थकमित्यत आह--अनर्थान्तरवाचिनाविति। यथा तिष्ठति, नितिष्ठति, परिभवतीत्यादौ धातूपात्तादर्थादर्थान्तरवाचित्वम्, नैवमत्रार्थान्तरवाचित्वम्; किन्त्वागच्छतीति प्रयोगे योऽर्थः स एवाधिपरियोगे ताभ्यामुच्यते तदत्र विषये धातोरधिपर्योश्च सहाभिधायित्वम्; यथागजशब्दे योऽर्थः स एव मतङ्गज इति सर्वैः सहाभिधीयते। एवं वृषशब्दे योऽर्थः स एव वृषभशब्दे। तदेवमनर्थान्तरवाचित्वादनर्थककल्पत्वादनर्थकावित्युक्तम्, न त्वभावात्। तयोश्च गतिसंज्ञाबाधाय कर्मंप्रवचनीयसंज्ञा विधेयेति दर्शितं भवति। कुतोऽध्यागच्छतीति। किंशब्दात् `अपादाने चाहीयरुहोः' इति तसिः, तस्य `तसेश्च' इति तसिलादेशः, `गतिर्गतौ' इति निघाताभावः।।
पदमञ्जरी
सुः पूजायाम्।। 1.4.94 ।।
सुसिक्तं भवतेति। भवच्छब्दात्कर्त्तरि तृतीया। कर्मप्रवचनीययुक्ते द्वितीया न भवति; `उपपदविभक्तेः कारकविभक्तिर्बलीयसी' इति। सुषिक्तं किं तवात्रेति। क्षेपोऽयम्, न पूजा।।
पदमञ्जरी
अतिरतिक्रमणे च।। 1.4.95 ।।
पदमञ्जरी
अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु।। 1.4.96 ।।
पदान्तरस्येत्यादि। स्वार्थस्तावदव्यभिचारान्न गृह्यते इति पदान्तरस्यार्थः पदार्थः। तत्रापि पदान्तरप्रयोगे सत्यपिः प्रयुज्यमानस्तदर्थे कञ्चिद्विशेषमाधत्ते। यथा--नीलशब्द उत्पले, न तु तस्मिन्नेवान्यूनानतिरिक्ते वर्तते; तथा सति पर्यायत्वप्रसङ्गेनाप्रयोगार्हत्वात्। अतः पदान्तरस्याप्रयोग एव तदर्थे प्रवृत्तो भवतीति भावः। सर्पिषोऽपि स्यादिति। प्रार्थनायां लिङ्, तस्या एव दुर्लभविषयतामपिशब्दो द्योतयन् स्यादित्यनेन सम्बध्यते इति षत्वप्रसङ्गः, दुर्लभत्वं च विषयस्यैव भवति, यदि तस्या बिन्दुमात्रमपि न लभ्यत इत्यत्रापिशब्दसामर्थ्याद्विन्दुरिति गम्यते, तदाह--मात्राबिन्दुस्तोकमित्यस्थार्थेऽपिशब्दो वर्त्तत इति। तदुपजनिते च व्यतिरेके सर्पिष इति षष्ठी। द्वितीया तु न भवति, अपिना योगाभावात्। स हि स्यादित्यनेन सम्बध्यत इत्युक्तम्। अधिकार्थवचनेनेति तत्सम्भावनमित्यर्थः। अपि सिञ्चेदिति। सम्भावने लिङा तस्यैव दुष्करविषयतामपिराह। कामचार इच्छाप्रवृत्तिः। अपि सिञ्चेदेति । सिञ्च वा मा वा, स्तुहि वा मा वा, यथेष्टं कुर्वित्यर्थः। जाल्मोऽपशब्दः। अपि सिञ्चेदिति। गर्हार्थे लिङ्। उपसर्गसंज्ञाबाधनादिति। स्यादित्यत्र `उपसर्गप्रादुर्भ्याम्' इति सिचः `उपसर्गात्सुनोति' इति षत्वप्रसङ्गः।।
पदमञ्जरी
अधिरीश्वरे।। 1.4.97 ।।
तदयमिति। यथा `हीने इत्यत्र हीनोत्कृष्टसम्बन्धे संज्ञा, `उपोऽधिके च' इत्यत्राधिकाधिकिसम्बन्धे, तथात्रापीत्यर्थः। विभक्तिस्तु तत्रान्यतरस्मादुच्यते, इह तु न तथेत्याह--तत्र कदाचिदिति। `यस्य चेश्वरवचनम्' इत्यत्रार्थद्वयम्--ईश्वरशब्दो भावप्रधानः, यस्य स्वस्येश्वर उच्यते तम्मात्स्वात्सप्तमीत्यपरः। तत्र यदा स्वाम्यर्थे व्यतिरेकविवक्षा तदा ततः सप्तमी, स्वस्य तु व्यतिरेके तत इति। न पुनरुभाभ्यां युगपद्भवति, एकयैव विभक्त्या द्विष्ठस्यापि सम्बन्धस्याभिधानादिति मत्वा `कदाचिद्' इत्यक्तम्। ब्रह्मदत्त इति। ब्रह्मदत्तस्य स्वाः पञ्चाला इत्यर्थः। आधपञ्चालेष्विति। पञ्चालनां ब्रह्मदत्तः स्वामीत्यर्थः।।
पदमञ्जरी
विभाषा कृञि।। 1.4.98 ।।
`अधिरीश्वरे' इत्यनुवृत्तेः प्राप्ते विभाषेयम्। यदत्र मामधिकरिष्यतीति। अधिपूर्वः करोतिर्विनियोगे वर्त्तते, यथा--अधिकृतोऽयमिह ग्रामे। `स्वरितेनाधिकारः' इति च, ईश्वरो भवत्येवमत्र मां विनियोक्ष्यत इत्यर्थः। कर्मणि द्वितीयैषा। यद्येवम्, संज्ञाविधानस्य किं प्रयोजनं तत्राह--कर्मप्रवचनीयसंज्ञापक्ष इति। `निपातैर्यद्यदि' इति निधातप्रतिषेधात् स्यप्रत्ययस्वरेण तिङन्तमुदात्तवत्।।
पदमञ्जरी
लः परस्मैपदम्।। 1.4.99 ।।
ल इति षष्ठीति। अथ प्रथमाबहुवचने को दोषः, `आमः' इति लावस्थायामेव लुप्यमानस्य लिटः संज्ञा स्यात्। ततश्चेक्षामित्यत्राम्न स्याद्, न ह्यतो लिट्परः सम्भवति, शेषादेव, शेषादेव परस्मैपदमिति नियमात्? ज्ञापकात् सिद्धम्, यदयमाम्प्रत्ययवदित्याह, तज् ज्ञापयति--भवत्यात्मनेपदिभ्योऽप्यामिति। अयं तर्हि दोषो लकारस्यैव संज्ञा स्यान्न तदादेशानां तिबादीनामिति? स्थानिवद्भावात्तेषामपि भविष्यति। `तङानावात्मनेपदम्' इत्यत्र तर्हि `ल' इति प्रथमान्तस्य तङानाभ्यां सम्बन्धो न स्यात्, न हि तङानौ लौ भवतः। ननु चैवं विज्ञास्यतेतङानभावी लकार एव, तङानावित्यक्त इति। एवमपि गत्यन्तरे सति न क्लिष्टकल्पना युक्ता, तस्मात् `लः' इति षष्ठी। आदेशापेक्षेति। न च संज्ञापेक्षा, लकारस्य परस्मैपदमिति संज्ञा भवतीति, कुतः? सामानाधिकरण्येन प्रायेण संज्ञाविधानात्। किञ्च--जसि यो दोषः, सोऽस्मिन्नपि स्यात्; उभयत्र लकारस्य संज्ञित्वात्। तस्मादादेशापेक्षा षष्ठी। यद्येवम्, अनवकाशा पुरुषसंज्ञा परस्मैपदसंज्ञां शतृक्वसोः सावकाशां बाधेत। जसि तु लकारस्य परस्मैपदसंज्ञा तिङां तु पुरुषसंज्ञेति भिन्नविषयत्वान्नास्ति बाधप्रसङ्गः। यद्यपि जस्पक्षेऽपि तिबादीनामादेशानामपि `स्थानिवदादेशः' इत्यनेन परस्मैपदसंज्ञा भविष्यति; तथापि तस्या अनाकडारीयत्वात्समावेशसिद्धिः। षष्ठीपक्षेऽपि ज्ञापकात्सिद्धम्, यदयम् `सिचि वृद्धिः परस्मैपदेषु' इत्याह, तज् ज्ञापयति--भवति तिङामप्येषा संज्ञेति। न हि सिज्विषये शतृक्वसू सम्भवतः, सामान्यापेक्षं च ज्ञापकमिति आत्मनेपदसंज्ञया पुरुषसंज्ञानां समावेशसिद्धिः, अन्यथा परस्मेपदेषु सावकाशाः पुरुषसंज्ञाः तङ्क्ष्वनवकाशयात्मनेपदसंज्ञया बाध्येरन्। अथ वा--पुरुषसंज्ञायां परस्मैपदात्मनेपदग्रहणानुवृत्तेरयमर्थो भवति, लटः परस्मैपदात्मनेपदसंज्ञकाः सतस्त्रीणि त्रीणि पदानि भूत्वा प्रथमादिसंज्ञा भवन्तीति तेन समावेशसिद्धिः।।
पदमञ्जरी
तङानावात्मनेपदम्।। 1.4.100 ।।
अथ कस्माल्लस्येत्यस्यानन्तरमेते संज्ञे न विहिते, एवं हि पुरुषसंज्ञाभिरन्यत्रसिद्धोऽनयोः समावेशो भवति, तत्राह--पूर्वेणेति। आत्मनेपदसंज्ञया परस्मैपदसंज्ञाया बाधो यथा स्यादित्येवमर्थमस्मिन् प्रकरणेऽनयोर्विधानमिति भावः। महासंज्ञाकरणं पूर्वाचार्यानुरोधेन।।
पदमञ्जरी
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः।। 1.4.101 ।।
त्रीणि त्रीणीति वीप्सायां द्विर्वचनम्। तत्र च समुदायस्यावयवस्च पृथक्पदत्वमिष्यते, आ पचसि पचसि देवदत्तेत्येकान्तता यथा स्यात्, कुण्डं कुण्डं वाग् अपचन्नपचन्नित्यादौ पूर्वपदेऽप्यनुस्वारादि पदकार्यं यथा स्यादिति; तेन पदच्छेदकाले त्रीणित्रीणीत्येकं पदम्, द्वे वा। इह तिङां त्रिकाः संज्ञास्तु तिस्त्र इति वैषम्यात् संख्यातानुदेशो न प्राप्नोति। अत्र यद्यप्येकैकस्य त्रिकस्यानेकसंज्ञाविधाने प्रयोजनं नास्ति, नैतावता यथाभिमतविषयलाभः, तत्राह--तिङोऽष्टादश प्रत्यया इति।
एवं मन्यते--संज्ञा अपि षडेव, कथमेकशेषनिर्देशोऽयम्? तत्र यदि प्रथमश्च प्रथमश्च प्रथमौ, मध्यमश्च मध्यमश्च मध्यमौ, उत्तमश्च उत्तमश्चोत्तमौ; प्रथममध्यमोत्तमा इति कृतैकशेषाणां द्वन्द्वः क्रियेत, ततो नाभिमतसंख्यातानुदेशः स्यात्। तस्मात्कृतद्वन्द्वानामेकशेषः-प्रथममध्यमोत्तमाश्च प्रथममध्यमोत्तमाश्च प्रथममध्योत्तमा इति। न चैवमपि विज्ञायते, किमादित आरभ्य त्रीणि वचनानि गृह्यन्ते? आहोस्विदिच्छतस्त्रिकपरिग्रहेऽपि यथासंख्यशास्त्रं क्रमते, किं तर्हि? विहितेषु संज्ञानां क्रमेण सम्बन्धं विधत्ते। एवं तर्हि लोकत एतत्सिद्धम्, तद्यथा--विहव्यस्य द्वाभ्यामग्निरुपस्थेय इति, न चोच्यते आनुपूर्व्यणेति, अथ च विहव्याख्यस्य सूत्रस्यादित आरभ्य आनुपूर्व्येण द्वाभ्यां द्वाभ्यामृग्भ्यामग्निरुपस्थीयते, न याभ्यां काभ्याञ्चित्; तत्र तिङोऽष्टादश प्रत्यया इत्यनेनादित आरभ्य त्रिकाणामानुपूर्व्येण ग्रहणं नेच्छात इति दर्शयितुं तिङ्ग्रहणेन संनिवेशोऽस्तीति दर्शितम्। न च `परस्मैपदसंज्ञकः' इत्यादिना तु कृतद्वन्द्वानामेकशेषो न कृतैकशेषाणां द्वन्द्व इति दर्शितम्। यदि वा परस्मैपदग्रहणमात्मनेपदग्रहणं चानुवर्तते, तिङ्ग्रहणं तु सतृक्वसोर्निवृत्त्यर्थम्। तदनुवृत्तौ च द्वौ राशी भवतः, तयोश्च व्यापारभेदेन सूत्रमेतत्प्रवर्तते। तत्र चैकैकं त्रयस्त्रिका इति। यथासंख्यसिद्धिः। तत्र न चेत्यादिना राशिद्वयं द्वर्शितम्। तत्रेत्यादिना तु व्यापारभेदः। अत्रापि महासंज्ञाकरणं पूर्ववत्।।
पदमञ्जरी
तान्येकवचनद्विवचनबहुवचनान्येकशः।। 1.4.102 ।।
एकश इति। `संख्यैकवचनाच्च वीप्सायाम्' इति प्रथमान्ताच्छस्। प्रकृतत्वादेव त्रीणीत्यस्य सम्बन्धे सिद्धे तानिवचनं पुरुषवचनसंज्ञयोः समावेशार्थम्, अन्यथा ह्येकसंज्ञाधिकारे वचनप्रामाण्यात्पर्यायः स्यात्, ततश्च `आडुत्तमस्य पिच्च' `नित्यं ङितः' इति कार्यं वचनसंज्ञापक्षे उत्तमसंज्ञाया अभावान्न स्यात्। तानीत्यस्मिस्तु सति तान्येतानि प्रथमादिसंज्ञाविशिष्टानि त्रीणित्रीणीत्येवं परामर्शाल्लब्धप्रथमादिसंज्ञाविधानाद् भवति समावेशः।
ननु त्रिकाणां पुरुषसंज्ञा एकैकस्य वचनसंज्ञेति विषयभेदान्नायमेकसंज्ञाधिकारविषयः, तन्न; यथा वृद्धिसंज्ञा प्रत्येकमादैचां भवति, तथा पुरुषसंज्ञापि त्रीपित्रीणीति वचनात् त्रिषु प्रवर्तमानापि तिबादिषु प्रत्येकमेव प्रवर्त्तते, न समुदाये; तस्य प्रयोगेऽभावात्, प्रत्येकमेव तेषां धातोरुत्पत्तेः। त्रिग्रहणं तु मर्यादार्थमादित आरभ्य त्रयाणां प्रथमसंज्ञा भवतीति, न पुनः समुदाये संज्ञाप्रवृत्तर्थं तानि तिङस्त्रीणित्रीणि पदानि भूत्वेति। तिबादिसूत्रे समाहारद्वन्द्वेऽष्टादशावयवपदानि तिङ्शब्दस्य त्रीणित्रीणीति समानाधिकरणस्यापि पुंल्लिङ्गतापि सूत्रवद्भवति।।
पदमञ्जरी
सुपः।। 1.4.103 ।।
सुबिति प्रत्याहारग्रहणं प्रथमैकवचनादारभ्य सुपः पकारात्। कपस्तु पकारेण न भवति, प्राग्दिशीयानां विभक्तिसंज्ञाविधानात्; अन्यथा विभक्तिसंज्ञायामपि इदमेव सुब्ग्रहणमनुवर्त्तत इति सुप्त्वादेव सिद्धेऽनर्थकं तत्स्यात्। तिङां त्रिकेष्विति। किमर्थं पुनरिदमुक्तम्? इह कश्चिन्मन्यते--सूत्रे चकारस्याकरणात्संज्ञामात्रमिह सम्बध्यते, नान्यत्किञ्चिदिति तत्र द्दष्टान्तप्रदर्शनेन त्रीणित्रीण्येकश इत्यनयोरनुवृत्तिं यथा तिङां वचनसंज्ञा विहिता तथैव सुपामपीत्यर्थः। तथा च स्वयं च शब्दं पठित्वा व्याचष्टे--सुपश्चेत्यादि।।
पदमञ्जरी
विभक्तिश्च।। 1.4.104 ।।
चकारः पुरुषवचनसंज्ञाभ्यां समावेशार्थः। तिङां व्यवहितानामपि स्वरितत्वादनुवृत्तिः। तिङां विभक्तित्वे प्रयोजनम्--आतामादौ `न विभक्तौ तुस्माः' इति निषेधः, सुपां तु त्यदाद्यत्वादिकमपि।।
पदमञ्जरी
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः।। 1.4.105 ।।
`लस्य तिबादयः' इत्यनेनैकवाक्यतामापन्नेनानेन तिबादीनां विशिष्टविधानम्, उत विहितानां तिबादीनां भिन्नेनानेन वाक्येन नियमः? इति संशये नियम इत्याह--लस्येत्यधिकृत्येति। विशिष्टविधाने त्वितरेतराश्रयं स्यात्--सतां तिबादीनां प्रथमादिसंज्ञा, संज्ञायां च तिबादयो भाव्यन्त इति। स पुनर्नियम उपपदनियमो वा स्याद्--युष्मदि मध्यम एव अस्मद्युत्तम एव, शेषे प्रथम एवेति; पुरुषनियमो वा--युष्मद्येव मध्यमः, अस्मद्येवोत्तमः, शेष एव प्रथम इति। तत्राद्‌ये पक्षे कुर्वंस्त्वं कुर्वाणस्त्वमिति युष्मदि शतृशानचौ च न स्याताम्, तृजादयश्च न स्युः--कर्ता त्वं कारकस्त्वमिति? नैष दोषः; एतावान् विषयो युष्मदस्मदुपपदं शेषश्च सर्वश्चासौ पुरुषेषु नियतः। उच्यन्ते च तृजादयस्ते वचनाद्भविष्यन्ति। तुल्यजातीयस्य च नियनेन व्यावृत्तिः--युष्मदि मध्यम एव, न प्रथमोत्तमौ; अस्मद्युत्तम एव, न प्रथममध्यमौ; शेषे प्रथमोत्तमाविति। एवं तर्हि तिबादिसूत्रे विधीयमानत्वात् प्राधान्यात्तेषामेव नियमो युकः, शेषग्रहणाच्चोपपदनियमे हि युष्मदस्मदी नियते, पुरुषा अनियताः, शेषश्चानियतः। तत्र प्रथम इत्येतावदप्युच्यमानं नियमार्थं विज्ञायते, तत्र च नियमान्तरस्यासंभवात् प्रथम एवेति नियमः; यत्र च प्रथमाप्रथमप्रसङ्गस्तत्रैवंविधो नियमः कर्त्तव्यः; शेष एव च तथा प्रसङ्ग इति तत्रैव नियमो भविष्यति, किं शेषग्रहणेन! पुरुषनियमे तु मध्यमोत्तमौ नियतौ युष्मदस्मदी वा नियते, प्रथमश्च तत्र युष्मदस्मदोरपि प्रथमप्रसङ्गो शेष एव प्रथम इत्येवं प्रथमनियमः कर्त्तव्यः। न चान्तरेण शेषग्रहणमेवंनियमः शक्यते कर्त्तुमिति कर्त्तव्यमेव शेषग्रहणम्। अतः शेषग्रहणम्।
सूत्रकारस्यापि पुरुषनियम एवाभिप्रेत इति तमेवाश्रयति--तेषामयं पुरुषनियमः क्रियत इति। तेषामित्युद्‌भूतावयवभेदस्तिबादिसमुदाय उच्यते, पुरुषापेक्षयाऽवयवषष्ठी। तेषां तिबादीनामवयवो यो मध्यमपुरुषस्तस्योपपदनियमः क्रियत इत्यर्थः, सापेक्षस्यापि पुरुषशब्दस्य गमकत्वात् समासः। अथ वा तेषामिति कर्मणि षष्ठी, पुरुषद्वारको नियमः पुरुषनियमः, पुरुषद्वारेण ते नियम्यन्त इत्यर्थः। उपोच्चरितं तदमुपपदम्, शाकपार्थिवादित्वादुत्तरपदलोपी समासः, उपशब्दः सामीप्ये, ततश्च व्यवहिते न भवितव्यमिति शङ्गामपनयति। व्यवहिते चेति। समीप इत्येव सिद्धे उपपदग्रहणादापेक्षिकस्यापि सामीप्यस्य ग्रहणम्। व्यवहितमपि च व्यवहिततरापेक्षया संनिकृष्टमिति भावः। उपपदग्रहणं तु पूर्वभूतेऽपि युष्मदि यथा स्याद्, अन्यथा `तस्मिन्निति निर्दिष्टे पूर्वस्य' इति परभूते एव स्यात्। ननु यथा स्थानिन्यपीति वचनात् सर्वथाऽप्रयुज्यमानेऽपि भवति तथा पूर्वप्रयोगेऽपि परभूतस्याप्रयोगात् स्थानिनीति भविष्यति, नैतदस्ति; सप्तमीनिर्देशात् प्रयोगपक्षे परभूत एव स्यात्।
समानाभिधेय इति। अधिकरणशब्दोऽभिधेयवचन इति दर्शयति। पुनः समानाभिधेये लकारेण नियिम्यमानेन वा पुरुषेणः त्रिविधं चाभिधेयं लकाराणाम्‌भावः कर्म कर्ता च, तत्र द्रव्यवाचिनोर्युष्मदस्मदोर्भाववाचिना लान्तेन सामानाधिकरण्यासंभवात् कर्तृकर्मणोरेव ग्रहणमित्याह--तुल्यकारक इति। तुल्यमेकं कारकं यस्य तत्तथोक्तम्, स्थानिन्यपीति स्थानशब्द प्रसङ्गवाची, स्थानमस्यास्तीति स्थानी। तत्र च प्रयुज्यमानस्याप्रयुज्यमानस्य च प्रसङ्गोऽस्ति। उच्यते चेदं स्थानमस्यास्तीति, तत्र सामर्थ्यादवधारणं विज्ञायते--प्रसङ्ग एव यस्य, न तु प्रयोग इति। यद्वा स्वनिकायप्रसिद्धिरेषा--यस्य स्थाने आदेशो विधीयते स स्थानीति। इह त्वप्रयुज्यमानता साद्दश्यात् युष्मदि प्रयुज्यते, सर्वथा स्थानिन्यपीत्यस्याप्रयुज्यमानेऽपीत्यर्थः। अपिशब्दात्प्रयुज्यमानेऽपि, तदाह--स्थानिन्यपीत्यादिना। स्थानिन्यपीति कोऽर्थः? प्रयुज्यमानेऽप्यप्रयुज्यमानेऽपीत्यर्थः। उपपदग्रहणप्राप्तस्य चार्थस्यापिशब्दोऽनुवादः। समानाधिकरण इति किम्? त्वया गम्यत इत्यत्र मा भूत्।
क्वचित्तु वृत्तावेवायं ग्रन्थः पठ्यते, इह च अतित्वं पचति अत्यहं पचतीत्यत्रातिक्रान्तप्रधाने समासे युष्मदस्मदोरसामानाधिकरण्यात् प्रथम एव भवति, इह त्वीषदसमाप्तस्त्वं त्वत्कल्पः पचसि, मत्कल्पः पचामीति कालान्तरद्दष्टगुणरहितो युष्मदस्मदर्थ एव त्वत्कल्पमत्कल्पशब्दाभ्यामुच्यत इति मध्यमोत्तमौ भवतः, तत्सद्दशपदार्थान्तराभिधाने तु प्रथमः, तथा त्वत्तरः पचसि, मत्तरः पचामि, परमत्वं पचसि,परमाहं पचामीति, कालान्तराद्दष्टगुणातिशयविशिष्टो युष्मदस्मदर्थ एवोच्यते इति भवत्येव। एवं च युष्मदर्थे मध्यमः, अस्मदर्थ उत्तम इतीयता सिद्धं युष्मदस्मदर्थे चेल्लकार उत्पन्नस्तर्ह्येव मध्यमोत्तमावित्यर्थः, तथा तु न कृतमित्येव। इह चात्वं त्वं संपद्यत इति त्वद्भवतीति भवति; प्रकृतेरेव विकाररूपेण सम्पत्तौ कर्तृत्वात्। एतच्च ` आन्महतः' इत्यत्रोपपादयिष्यामः। तथा च मन्त्रे--`यदग्ने स्यामहं त्वं त्वं वास्या अहम्' इति, अहं त्व स्यां त्वं वाहं स्याम्' इति प्रकृत्याश्रयः पुरुषो द्दश्यते। इह भवान्पचत्विति युष्मदर्थप्रतीतेः स्थानिन्यपीति मध्यमः प्राप्नोति, न वा युष्मदर्थत्वात्, अलिङ्गः सम्बोधनविषयश्च युष्मदर्थः। भवदर्थस्तु लिङ्गवान् न च सम्बोधनैकविषयः। यथैव हि माणवकाधीष्टेत्यभिमुखीभावो गम्यते, एवं त्वमधीष्वेत्यपि। तथा च युष्मदः सर्वत्रैव संबोधने प्रथमा आमन्त्रिताद्युदात्तत्वं च भवति, पदात्परत्वे च निघात इति केचिदाहुः। उक्तं च---
सम्बोधनार्थः सर्वंन्न मध्यमे कैश्चिदिष्यते।
तथा सम्बोधने सर्वां प्रथमां युष्मदो विदुः।।
युष्मदर्थस्य सिद्धत्वान्नियतावाद्युदात्तता।
युष्मदः प्रथमान्तस्य परश्चेन्न पदादसौ ।। इति।
सत्यम्; सम्बोधनैकविषयो युष्मच्छब्दः, प्रथमा तु शुद्धैव; अभिमुखीभावेऽस्यापि प्रातिपदिकार्थ एवान्तर्भावात्, यत्र त्वनन्तर्भावः, तत्र तदभिद्योतनाय सम्बोधने चेति प्रथमा विधीयते स्वरोपि; अन्यथा युवं हि स्थः स्वर्पती, यूयं यात स्वस्तिभिः, हये देवा यूयमिदापयस्थ' इति पादादावप्यन्तोदात्तत्वं पदात्परत्वेऽप्यनिघातः। तदेवं भवच्छब्दस्यासम्बोधनविषयत्वाल्लिङ्गवत्त्वाच्चायुष्मदर्थत्वाद् मध्यमो न भवतीति स्थितम्।।
पदमञ्जरी
प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च।। 1.4.106 ।।
प्रहासे गम्यमान इति। यत्र भूतार्थाभावाद्वञ्चनैव केवलं तत्र वक्तुरभिप्रायाविष्करणे प्रहासो गम्यते। मन्यति शब्दस्येकदेशानुकरणं मन्येति, मन्य उपपदं यस्य स तथोक्तः। लस्य धातोर्विधानात्तदादेशत्वाच्च मध्यमस्य धातुरन्यपदार्थ इत्याह। मन्योपपदे धाताविति। प्रकृतिभूते सतीत्यर्थः। स चैकवदिति। अर्थद्वारकश्चोत्तमस्यैकवद्भावः, एकस्य वाचको भवतीत्यर्थः, द्वयोर्बहुषु मन्तृषु एकवचनमेव भवतीति यावत्। यत्र हि द्वौ मन्तारौ बहवो वा, तत्रैकवद्भावो विधेयः; अन्यत्र तु मन्तुरेकत्वादेव सिद्धम्। एकवच्चेति। च शब्देन्वाचये, तेनैकवद्भावावेऽपि एकस्मिन्नपि मन्तरि प्रधानशिष्टौ मध्यमोत्तमौ भवतः।
अन्वाचयमेव दर्शयितुमयत्नसाध्यमेकं मन्तारमुदाहरति--एहि मन्ये ओदनं भोक्ष्यस इति। सत्यप्योदने भोक्तुमागतं श्यालादिकं प्रति एतत्प्रयुज्यत इति परिहासावगतिः। द्विबह्वोस्तूदाहरणे--एहि मन्ये ओदनं भोक्षघ्येथे नहि भोक्ष्येथे भुक्तः सोऽतिथिभिः; एहि मन्ये रथेन यास्यथ यातस्तेन पिता इति। मध्यमोत्तमयोः प्राप्तयोरिति। युष्मदस्मदर्थस्य गम्यमानत्वात् प्रत्युदाहरणवत् प्रकृतमुपपदग्रहणं युष्मदा सम्बद्धम्। तच्च तथैवैहाप्यनुवर्त्यमिह मा भूत्--एतु भवान्मन्यते ओदनं भोक्ष्ये भुक्तः सोऽतिथिभिरिति। तदशक्यं मन्यतिना सम्बन्धुमिति पुनरिहोपपदग्रहणम्, अनयथा मन्यतौ परत एव स्यात्। श्यनानिर्देशान्मन ज्ञानइत्यस्य ग्रहणम्, न तु `मनु अवबोधने' इत्यस्य, एहि मनुषे रथेन यास्यामीति एवं तस्य भवति। प्रत्युदाहरणे अतिथिं प्रति तथाभूतार्थवाचनम्।।
पदमञ्जरी
अस्मद्युत्तमः।। 1.4.107 ।।
यत्र युष्मदस्मदी द्वे अप्युपपदे भवतस्तत्र यदि कर्तृशक्ती स्वाधारनियते विवक्ष्येते, तदा लकारोऽपि भेदेनोत्पद्यते--त्वं चाहं च पचसि, पचामि चेति। सहविवक्षायां तु द्वयोरपि शक्त्योरेको लकार उत्पद्यते। तत्र युष्मदि मध्यमः, अस्मद्युत्तमो विप्रतिषेधेन--त्वं चाहं पचावः, अहं च त्वं च वृत्रहन् संयुज्यावः' इति। यदापि त्यदादीनां यद्यत्परमित्यस्मदः शेषस्तदापि स्यानिन्यपीति मध्यमप्राप्तौ परत्वादुत्तम एव भवति--आवां पचावः।।
पदमञ्जरी
शेषे प्रथमः।। 1.4.108 ।।
उपपद इति निवृत्तम्। शेष इति विषयसप्तमी, न पुनः परत इति तदाह--शेष इति। मध्यमोत्तमविषयादन्य उच्यत इति। अन्यो विषय इत्यर्थः। यत्र युष्मदस्मदी समानाधिकरणे न स्तस्तत्र शेष इत्यनेन युष्मदस्मदोरभावः शेषः, न पुनरन्यसद्भाव इति दर्शयति। किं सिद्धं भवति? त्वं च देवदत्तश्च पचथः, अहं च देवदत्तश्च पचावः, त्वं चाहं च देवदत्तश्च पचाम इति। अत्र यद्यपि युष्मदस्मदोरन्यस्य च यः समुदायः स युष्मदस्मद्भ्यामन्यः, तथापि युष्मदस्मदी तावत्स्त इति तत्सद्भावनिमित्ते स्यादेव प्रथमः। यदाह--तत्र युष्मदन्येषु प्रथमप्रतिषेधः शेषत्वादिति।।
पदमञ्जरी
परः सन्निकर्षः संहिता।। 1.4.109 ।।
परशब्दोऽतिशये वर्त्तत इति। यथा परं सुखं परं दुःखमिति, दिगादिषु वर्तमानस्य ग्रहणं न भवति सन्निकर्षस्य दिग्देशकालायोगात्। अर्थान्तरापेक्षमन्यत्वम्, अव्यभिचारिसन्निकर्षः प्रत्यासत्तिरिति, न तु संश्लेषः, तस्य वर्णेष्वसंभवात्। स हि संयोगश्चेद् द्रव्यधर्मत्वान्न शब्दस्य गुणस्य संभवति। समवायश्चेन्न वर्णे वर्णः समवैति; शब्दस्याकाशसमवायित्वात्। येषां तु शब्दो द्रव्यं तेषां न क्वापि शब्दः समवैति। अतिशयोऽपि संयोगसमवाययोः कीद्दश इति न विद्मः। प्रत्यासत्तेस्त्वपेक्षाभेदात् सम्भवति प्रकर्षाप्रकर्षयोगः, तस्मात्प्रत्यासत्तिरेव सन्निकर्षः।
ननु च क्रमेणोच्चार्यमाणेषु वर्णेषु पूर्वस्य वर्णस्य ये निष्पादकाः स्थानादयस्तेषां व्यापरोपरतौ वर्णान्तरस्य ये निष्पादकास्तेषां व्यापारारम्भः। तत्रावश्यंमध्ये कियत्यपि कालकला भवति, सूक्ष्मत्वात्तु नोपलभ्यते; पद्मपत्रशतव्यक्तिभेदवत्, तत्कथं परः सन्निकर्ष इत्यत्राह--अर्धमात्राकालव्यवधान इति। सत्यम्, एतावद्व्यवधानमवर्जनीयत्वात्सह्यते, अधिकेन तु कालेन व्यवधानं परग्रहणेन व्यावर्त्यत इत्यर्थः। यद्येवम्, द्रुतायामेव वृत्तौ स्यान्न मध्यमायां विलम्बितायां वा, न हि तथा तयोः सन्निकर्षो यथा द्रुतायां तुल्यः सन्निकर्षः। सर्वासु वृत्तिषु नैरन्तर्येणोच्चारणाद्यवर्णोपलम्भकभेदात्तु वृत्तिविशेषः। द्रुतायां स्वल्प उपलब्धिकालः, मध्यमायामधिकः, विलम्बितायामधिकतरः। द्विविधा हि ध्वनयः- प्राकृताः, वैकृताश्च। प्राकृता वर्णानामुत्पादकाः, वैकृते तु पुनः पुनरुपलम्भः, मध्यवर्ती तु कालः सर्वासु वृत्तिषु तावानेव। यद्वा--यस्यां वृत्तौ यावता कालेन व्यवायोऽवश्यम्भावी, ततोधिकेन व्यवायः परग्रहणेन व्यावर्त्यते। पदस्य पदान्तरेण यदानन्तर्थं तत्रैव लोके संहिताशब्दः प्रसिद्धः। तथा च--संहितामधीते न पदानि, ततश्च कुमार्यावित्यादौ पदावयवे संहिताकार्यं न स्यादितिसूत्रारम्भः।।
पदमञ्जरी
विरामोऽवसानम्।। 1.4.110 ।।
विरतिर्विराम इति। विराम इति भावे घञ्। विरामः= वर्णोच्चारणाभावः। अर्थान्तरमाह--विरम्यतेऽनेनेति वा विराम इति। `कृत्यल्युटो बहुलम्' इत्यसंज्ञायामपि `हलश्च' इति करणे घञ्, पूर्वत्राभावः संज्ञी उत्तरत्रान्त्यो वर्णः, तेन हि विरम्यते। तत्राद्ये पक्षे`खरवसानयोः' इति परसप्तमी, कथं पुनरवसानेन, पौर्वापर्यमभावो हि सः, खरा वा, कथम्? न हि यदा खरस्ति तदा रेफः, यदा रेफस्तदा खर्; वर्णानां क्रमभावित्वाद्, उच्चरितप्रध्वंसित्वाच्च। अथ तत्र बुद्धिपरिकल्पितं पौर्वापर्यं तदभावेऽपि समानम्। एवं `वावसाने' इत्यत्रापि। द्वितीये तु पक्षे खरवसानयोरित्येकापि सप्तमी विषयभेदाद्भद्यते--खरि परतो रेफस्य विसर्जनीयो भवति, अवसाने च रेफे स्थानिनि विसर्जनीय इति स्थन्यादेशस्य विषयता विवक्ष्यते। एवं `वाऽवसाने' इत्यत्रापि। दधिँ मधुँ इति । `अणोऽप्रगृह्यस्यानुनासिकः' अत्र `वावसाने' इति वर्तते। ननु च लोकएवावसानशब्दो विरामे प्रसिद्धः, यद्यप्यवपूर्वः स्यतिरवगतौ वर्तते केनैतदवसीयत इति? पराभवेऽपि अवसितो देवदत्त इति। अवसानशब्दस्तु विराम एव प्रसिद्धः। न च रेफस्यावगतिपराभवयोः करणत्वं सम्भवतीति नार्थः संज्ञाकरणेन, तदाह--संहितावसानयोर्लोकविदितत्वात् सिद्धमिति। संहिताशब्दोऽपि सन्निकर्षमात्रे प्रसिद्धः, न पदयोरेव सन्निकर्ष इति वार्त्तिककारो मन्यते।।
हरदत्तमिश्रविरचितायां पदमञ्जर्यां प्रथमाध्यायस्य चतुर्थः पादः।।