काशिका (पदमञ्जरीव्याख्यासहिता)/प्रथमोऽध्यायः/द्वितीयः पादः
← प्रथमः पादः | काशिका (पदमञ्जरीव्याख्यासहिता) द्वितीयः पादः [[लेखकः :|]] |
तृतीयः पादः → |
अथ प्रथमाध्याये द्वितीयः पादः
गाङ्कुटादिभ्योऽञ्णिन्ङित् ।। 1.2.1 ।।
कुट आदिर्येषामिति बहुव्रीहावन्तर्वर्तिन्या विभक्त्या पदत्वेऽपि जश्त्वं न भवति; अनुक्रियमाणरूपविनाशप्रसङ्गात् । अथ वा 'कुट कौटिल्ये' इति धातुपाठे योऽकारस्तेन सह सानुबन्धानुकरणं द्रष्टव्यम् ।
अत्र चत्वारः पक्षाः सम्भवन्ति-इत्संज्ञकेन ङकारेण सह सम्बन्धप्रतिपादनम्, ङितो वा विधिः, संज्ञाकरणम्, तद्वदतिदेशो वेति । तत्राद्ये पक्षे गाङ्कुटादिभ्यः परोऽञ्णितप्रत्ययो ङिद् =इत्संज्ञकङकारयुक्तः, इत्संज्ञको ङकारस्तस्यास्तीत्यर्थः । अत्र येषामस्ति ङकारो यङादीनां तेषु व्यर्थोऽनुवादः, येषां नास्ति तव्यादीनां तेषु मिथ्योद्यमित्युपक्रिममात्रमयं पक्षः ।
अथ द्वितीयः ? 'गाङ्कुटादिभ्यः' इति पञ्चम्या 'अञ्णित्' इति प्रथमायाः षष्ठ्यां प्रकल्पितायां ङिदादेशः प्राप्नोति । अत्र प्रथमाया न च वैयर्थ्यम्, लाघवार्थंत्वात् । तत्र ङिदिति कर्मधारये, असमासे वा 'आदेः परस्य' इति तव्यादीनामादेर्ङकारः प्राप्नोति, कथं पुनरित्संज्ञको नामादेशः स्यात् स्वयं निवृत्त्यभिमुखः ? को दोषः ? स्थानिनं निवर्त्य निवर्तिष्यते ! स्यादेतत्-इद्ग्रहणसामर्थ्यादादेशो न भविष्यति, आदेशत्वे हि 'लशक्वतद्धिते' इत्येव सिद्धेत्संज्ञेत्यागमो ङकारो विधास्यत इति, तन्न; अनेनेत्संज्ञा यथा स्यात् तेन मा भूदित्येवमर्थमिद्ग्रहणं स्यात् । कः पुनरत्र विशेषस्तेन वा सत्यामनेन वा ? अयमस्ति विशेषः-तेन सत्यां लोपः स्यात्, अनेन पुनर्नं । तस्येति प्रकृतपरामर्शात् तस्यैतस्य प्रकृतस्येत्संज्ञकस्येति । एवं च श्रूयमाण एव ङकारे ङित्कार्याणि भवन्ति । तत्र 'नेड्वशि कृति' इत्यत्र वरमनादौ कृतीति यदि परिगणनम्, तदात्र प्रतिषेधाभावात् कुटिङा कुटिङमिति प्राप्नोति । अथ तु सम्भवोदाहरणप्रदर्शनम्, तदात्रापि प्रतिषेधात् कुट्ङा कुट्ङ्मिति प्राप्नोति । बहुव्रीहौ तु येऽमी प्रसिद्धा ङितश्च ङादयस्य एव तृजादीनामादेशाः स्युः । न चान्तर्यतो व्यवस्था, यत्र खल्वन्तरतमस्यानन्तरतमस्य च प्रसङ्गस्तत्रान्तरतमपरिभाषा । न चात्रान्तरतमानां तव्यङादीनां प्राप्तिः; लोके शास्त्रे वा तेषामप्रसिद्धेः । न चान्तरतमपरिभाषैव तान् कल्पयितुमर्हति; नियामकत्वात्तस्याः । सन्तु वा तव्याङदयः, तेऽपि त्वादेशा भवन्तः 'डिच्च' इत्यन्त्यस्यैव स्युः । ननु च नात्र श्रौतः स्थान्यादेशभावः, किं तर्हि ? गाङ्कुटादिभ्यः परोऽञ्णित्प्रत्ययो ङिद् इत्संज्ञकङकारयुक्त इति सिद्धानुवादमात्राक्षरव्यापारः । स तु सिद्धानुवादौ विधानमन्तरेण नोपपद्यते इति ङकारस्येत्संज्ञकस्य विधिः कल्प्यते । किमतः ? यद्येवम्, इदं ततो भवति विधिवाक्यस्याश्रुतत्वात् क्व परिभाषाङ्गतामुपेयात्--'षष्ठी स्थानेयोगा' इति वा, 'आदेः परस्य' इति वा, 'डिच्च' इति वा ? नैतदस्ति, यस्मात् षष्ठीप्रकल्पेनेन श्रौत एव स्थान्यादेशभाव उपपादितः । अस्तु वा कल्पितविधानम्, य एव त्वसौ विधिः कल्प्यते, तत्रैव परिभाषाङ्गभावमुपैति; विध्यङ्गत्वात्परिभाषाणाम् । परिभाषाः खलु विधेरङ्गभूता अनुवादवाक्यश्रुतार्थान्यथानुपपत्त्या विधिवाक्यमेव कल्पन्ते इति सर्वथा दुष्ट एवायं पक्षः ।
संज्ञाकरणे 'क्ङिति च' इत्यत्रास्य ग्रहणं न स्यात्; संज्ञारूपस्यानुच्चारितत्वात् । ङिच्छब्दः संज्ञा, डिच्छब्दश्चोच्चारितः प्रत्येकसम्बन्धमपीद्ग्रहणं क्इद् यस्येत्येतावदेव सम्पादयेत् । न बान्वर्थाऽवयवद्वययुक्ता संज्ञेति प्रत्यभिज्ञाभावात् क्ङित्प्रदेशेष्वस्य ग्रहणं न स्यादेव । तथा केवले ङिच्छब्द उच्चारिते तस्यैव ग्रहणं स्याद्, नयङादीनाम्; कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययात् । ततश्च ग्रहिज्यादिसम्प्रसारणं गृह्णातीत्यादावेन स्याद्, न जरीगृह्यतेत इत्यादौ । न च यङादीनां ङित्कारणस्य वैयर्थ्यम्; क्ङित्प्रदेशेषु यत्र संज्ञारूपं न प्रत्यभिज्ञायते तत्र ग्रहणार्थत्वात् । ननु चैवं गाह्कुटादिभ्यः परस्य ङित्संज्ञाविधानमनर्थकमापद्यते, कथम् ? क्ङितप्रदेशेष्वस्य ग्रहणं नास्तीत्युक्तमेव । केवलश्च हिच्छब्दो ग्रहिज्यादिसूत्र एव, न च तत्र गाङ् गृह्यते, नापि सर्वे कुटादयः, किं तु व्यतिरेक एव सत्यम्; न्यायागतेऽर्थे किं कुर्मः ! त्यज्यतामयं पक्षः ।
तदेवमेतेषां पक्षाणां दुष्टत्वात् चतुर्थं पक्षमाश्रित्याह-अतिदेशोऽयमिति । इङादेशो गृह्यते इति । 'इङश्चगाङ् लिटि' 'विभाषा लुङ्लृङोः' इति विहितः । ङकारस्यानन्यार्थत्वादिति । इङादेशस्य हि यो ङकारस्तस्यैतदेव प्रयोजनम्--इह तस्यैव ग्रहणं यथा स्यादिति । अथ सामान्यग्रहणं कस्मान्न भवति ? असमानत्वादादेशस्य । ङकारोऽन्यार्थः; आत्मनेपदस्य स्थानिवद्भावेनैव सिद्धत्वात्, धातोस्तुचरितार्थः । यद्येवम्, आब्ग्रहणे चाप एव ग्रहणं प्राप्नोति, पकारस्यानन्यार्थत्वात्,न; एवं हि चापोऽनुबन्धावनर्थकौ स्याताम्, टापश्च टकारः । अतो यच्च यावच्च समानं सम्भवति चरितार्थपित्त्वमचरितार्थपित्त्वमपि तत्सर्वमाश्रीयते, न चाब्रूपमेवयावत् । कुङ्शब्द इति । तदनन्तरं वृत्करणाद् 'आकूतम्' इति प्रयोगदर्शनात् 'कूङ दीर्घान्तो ङिद्वद्भवतीत्यर्थः' इत्यन्तरेणापि वतिं वत्यर्थो गम्यते, यथा-सिंहो माणवक इति । यद्ययमतिदेशः, 'असंयोगाल्लिट् किद्' इति प्रकरणेऽपि कित्कार्यातिदेशोऽङ्गीकर्त्तव्यः, ततश्च सिसृक्षतीत्यत्र सत्यपि 'हलन्ताच्च' इति सनः कित्त्वातिदेशे स्वाश्रयमकित्त्वमाश्रित्य 'सृजिदृशोः' इत्यमागमः प्राप्नोति । अतिदेशेन पराश्रयं कार्यं प्राप्यते, न तु स्वाश्रयं निवर्त्यते । सिद्धं तु प्रसज्यप्रतिषेधात् किति न भवतीति । ततश्च स्वाश्रयस्य कार्यस्याभावादातिदेशिककित्त्वाश्रयः प्रतिषेधो भविष्यति । इह तर्हि उच्चुकुटिषति-'ङितः' इत्यात्मनेपदं प्राप्नोति ? ङितो धातोरात्मनेपदमुच्यते, इह चातिदेशेन सन एव ङित्त्वम्, न धातोः । यत्रावयवे लिङ्गमचरितार्थं तत्र समुदायस्य विशेषकं भवति; इह त्ववयव एव गुणप्रतिषेधादिकं ङित्त्वस्य प्रयोजनमस्ति । यङन्तादपि तर्हि न प्राप्नोति, तस्मान्नैवं शक्यं विज्ञातुम्--ङितो धातोरिति, ततश्चैकं सनमेव ङितमाश्रित्यात्मनेपदं प्राप्नोति ? नैष दोषः, सप्तमीसमर्थाद्वतिः-ङितीव ङिद्वत् । ननु च नात्र वतिर्निर्दिश्यते, सत्यम्; परत्र परशब्दप्रयोगात् कल्प्यमानो वतिर्व्याख्यानात् सप्तम्यन्तादाश्रीयते । एवमपि प्रतियोगिनि सप्तमी प्राप्नोति-अञ्णितीति ? एवं तर्हि 'अनुदात्तङितः' इत्यत्र 'उपदेशे' इति वर्त्तते, उपदेशे यो ङित्, तत आत्मनेपदं भवति ।
अध्यगीषतेति । 'विभाषा लुङ्लृङो' इति गाङादेशः,'आत्मनेपदेष्वनतः' घुमास्थादिसूत्रेणेत्त्वम् ।
व्यचेरित्यादि । 'व्यच व्याजीकरणे' तुदादौ कुटादिभ्यः प्राक् पठ्यते । उद्विचितेति । ग्रहिज्यादिना सम्प्रसारणम् ।
उरुव्यचा इति बहुव्रीहिः । कथं विव्यचिथ ? 'अनसि' इति पर्युदासोऽयमसुन्प्रत्ययस्य कृत्वा तत्सदृशो कृति कार्यं विज्ञायते ।
कथं लिखितुम्, स्वयमेव लिखिष्यते, यावता कुटेः पूर्वं लिखिः पठ्यते ? कश्चिदाह-" कुटस्यादिः, कुट आदिर्येषां ते कुटादयः, कुटादिश्श्च कुटादयश्चेति बहूव्रीहितत्पुरुषयोः सहविवक्षायाम् 'स्वरभिन्नानां यस्योत्तरस्वरविधिः स शिष्यते' इति बहुव्रीहेः शेषः । तत्र तत्पुरुषवृत्तया संगृहीतो लिखिरपि ङित्त्वस्य निमित्तम्" इति । एवं तु लिखित्वा, लेखित्वा; लिलिखिषति, लिलेखिषति; 'शकुनिष्वालेखने' इत्यनुपपन्नं स्यात् । तस्माद्यद्यवश्यमुपपादनीयम्--'संज्ञापूर्वको विधिरनित्यः' इति गुणो न भविष्यति । 'धू विधूनने', कुटादिः, तस्य 'अर्त्तिलूधूसूखनसहचर इत्रः' इतीत्रप्रत्यये गुणो न प्राप्नोति । नात्र गुण इष्यते, धुवित्रमित्येव भवति, कल्पसूत्रकाराणां तु प्रयोगाश्छान्दसत्वादुपपादनीयाः । अथ वा -'भञ्जभासमिदो घुरच्विदिभिदिच्छिदेर्ङिद्' इति वक्तव्ये प्रत्ययान्तरकरणं ज्ञापकम्--आतिदेशिकं ङित्त्वमनित्यमिति ।।
विज इट् ।। 1.2.2 ।।
ओविजी भयचलनयोरिति । यस्तु 'सृजिविजि विद्ध्यनिट्स्वरान्' इत् विचिः, न स गृह्यते; अनिट्त्वात् । इतरस्तु ईदित्त्वसामर्थ्यात् सेट्, वृद्धसंज्ञासूत्राद् यस्यादिरिति वर्त्तते, तेनेड्विशेष्यते-यस्यादिरिडिति । तेनोत्तमैकवचनस्य ग्रहणं न भवति, न ह्यसौ कस्याचिदादिः । अत एवागममात्रस्यायं ङित्त्वविधिर्न भवति, किं तर्हि ? तदादेः प्रत्ययस्येत्याह--इडादिः प्रत्यय इति । उद्विचितेति । ङित्त्वाल्लघूपधगुणाभावः ।।
विभाषोर्णोः ।। 1.2.3 ।।
'ऊर्णुञ् आच्छादने' ञिद्, नोपधः; 'रषाभ्याम्' इति णत्वेन पाठः । प्रोर्णुनाव--रेफवियोगेऽभ्यासात्परस्य नकारस्य श्रवणं भवति । प्रोर्णुवितेति । ङित्त्वपक्षे उवङ्, अन्यत्र गुणः ।।
सार्वधातुकमपित् ।। 1.2.4 ।।
अपिदिति पर्युदासश्चेत्, च्यवन्ते इत्यत्र च्यु अ अन्ते इति स्थने नित्यत्वादन्तङ्गत्वाच्चैकादेशः । न च वार्णादाङ्गं बलीयः, नानाश्रयत्वात् । तत्र कृते परस्येहापित् आश्रितत्वात्तं प्रत्यादिवद्भावात् पिदपितोरेकादेशोऽपिद्ग्रहणेन गृह्यत इति शबेकादेशवतः सार्वधातुकस्य ङित्त्वाद् गुणनिषेधः प्राप्नोति । प्रसज्यप्रतिषेधे तु पित्त्वनिमित्तो निषेधः पूर्वस्य कार्यमिति पूर्वं प्रत्यन्तवद्भावाद् ङित्त्वाभावः । अस्तु तर्हि प्रसज्यप्रतिषेधः ? यद्येवम्, तुदानीत्यत्र विकरणोत्तमयोः पिदपितोरेकादेशः परस्य पितो ङित्त्वनिषेधे कर्तव्ये आदिवत्स्यात्, इत्यङितमुत्तममाश्रित्य गुणः प्राप्नोति । 'अन्तादिवच्च' इत्यत्र पूर्वपरौ समुदायावभिप्रेतौ, नाचौ । किं कारणम् ? आद्यन्तयोरवयवत्वात्, स्थानिनोरचोरेकादेशेन निवर्तितत्वाच्च । अतः स्थानिनावचौ पूर्वपरौ ययोः समुदाययोरन्तादी, एकादेशोऽपि तयोरेवान्तादिवद्भवतीत्ययमतिदेशार्थः । अत एव ब्रह्मबन्धूरित्यत्र एकादेशोऽपि प्रतिपदिकं प्रत्येवान्तवद्भवति, ध्रुवै तुवै इत्यत्र च उत्तैमैकवचने कृत्स्नयोरेव पिदपितोरेकादेश इति अचावेव प्रत्यादिवत्त्वे स्यादेव दोषः ।
एवं तर्ह्यकादेशस्य पूर्वविधौ स्थानिवद्भावात्पक्षद्वयेऽपि यथा स्थानिकाले यथायोगं गुणस्य प्रवृत्तिनिवृत्ती भवतः, तथा कृतेऽप्येकादेशे स्थानिबुद्ध्या भविष्यतः ।
एवमुभयोर्निर्दोषत्वेऽपि प्रयज्यप्रतिषेध एवाश्रयणीयः । तत्र हि--तदाश्रयणसामर्थ्याद्यच्च यावच्च पितो ङित्त्वं प्राप्तं तस्य सर्वस्य निषेधादिदमपि सिद्धं भवति-अचिनोद्, अचिनवमिति । अत्र हि ङितो लङ आदेशस्य स्थानिवद्भावेन प्राप्तस्य निषेधो भवति । पर्युदासे त्वतिदेशेनैकवाक्यत्वात् तस्यैव पर्युदासात् स्थानिवद्भावकृतं ङित्त्वं स्यादेवेति यासुटो ङिद्वचनं ज्ञापकमाश्रयणीयं स्यात् । किं च 'ङिच्च पिन्न भवति' इत्ययमप्यत्रार्थ इष्यते । अतो न ब्रूताद्भवानित्यत्र तातङः स्थानिवद्भावात्प्राप्तस्य पित्त्वस्य निषेधात् पिदाश्रयो ब्रुव इण् न भवति, तृणअढाद्भवान्--तृणह इण् न भवतीत्येषा दिक् । अत एतदर्थमपि प्रसज्यप्रतिषेध आश्रयणीयः । तत्र हि पृथक्कृतस्य नञो यथेष्टमभिसम्बन्धो भवति--पिद् ङिन्न भवति, ङिच्च पिन्न भवति । तत्र यस्यौपदेशिकं पित्त्वं तस्यातिदेशप्राप्तं स्थानिवद्भावप्राप्तं च ङित्त्वं निषिध्यते; यस्य पुनरौपदेशिकं ङित्त्वं तस्य स्थानिवद्भावप्राप्तं पित्त्वं निषिध्यत इति विवेक्तव्यम् ।
कुरुत इति । ङित्त्वाद्विकरणस्य गुणाभावः, 'अत उत्सार्वधातुके' इत्युत्त्वं च भवति । अत्र च तृतीयासमर्थाद्वतिराश्रयणीयः, न पूर्ववत्सप्तमीसमर्थात् । तेन पचेते इत्यत्र 'आतो ङितः' इति ङितो यत्कार्यं तदपि भवति । यद्येवम्, चिनुत इति 'तास्यनुदात्तेत्' इति लसार्वधातुकानुदात्तत्वं प्राप्नोति ? नैष दोषः; उपदेशग्रहणमुभाभ्यामपि सम्बध्यते-ङिदुपदेशाद्, अदुपदेशादिति । 'अह्न्विङोः' इति वा पर्युदासात् तत्सदृशस्योपदेशङकारवतो ग्रहणमिति सर्वमनवद्यम् ।।
असंयोगाल्लिट् कित् ।। 1.2.5।।
लिटाऽऽक्षिप्तो धातुरसंयोगग्रहणेन विशेष्यत इत्याह असंयोगान्ताद्धातोरिति । ननु चात्र पर्युदासत्वमुक्तं प्रतीयते, ततश्च संयोगान्तसदृशाद् हलन्तदेव स्याद्-बिभिदतुः,बिभिदुरित्यादौ; निन्यतुरित्यादौ तु न स्यात् ? ज्ञापकात् सिद्धम्, यदयम् 'ऋतश्च संयोगादेर्गुणः' इति सस्मरतुरित्यादौ गुणं विधत्ते, तज्ज्ञापयति-नात्र नञिवयुक्तन्यायो धातुमात्रस्यैव ग्रहणमिति । ङित्त्वे प्रकृते कित्त्वातिदेशस्य प्रयोजनम् --ईजनम्, ईजत्ः, ईजुः, यजादीनां कितीति सम्प्रसारणं यथा स्यात्; जजागरतुः, जजागरुः-'जाग्रोविचिण्णल्ङित्सु' इति गुणो यथा स्यात् । यदि पुनर्गाङ्कुटादिभ्योऽपि कित्त्वमेवातिदिश्येत ? नैवं शक्यम्; इह हि दोषः स्याद्--'णु स्तुतौधू विधूनने' तृच्, नुविदा धुविदा--'श्र्युकः किति' इतीट्प्रतिषेधः प्राप्नोति, यथा-लूत्वा, लूनः ? नैष दोषः; पूर्वस्य कार्यतिदेशोऽयमित्युक्तम् । इह तर्हि कुटित्वा, पुटित्वा--'न क्त्वा सेट्' इत्यातिदेशिकस्यापि कित्त्वस्य प्रतिषेधो नातिदेशिकस्य भवतीति, सत्यम्; असति क्त्वाग्रहणे, सति तु तस्मिन् सनः 'न क्त्वा सेट्' इति निषेधो न लभ्यते इत्यज्ञापकं वक्ष्यते-'न क्त्वा सेट्' इति निषेधो नातिदेशिकस्य भवतीति, सत्यम्; असति कत्वाग्रहणे, सति तु तस्मिन् सनः 'न क्त्वा सेट्' इति निषेधो न लभ्यते इत्यज्ञापकं तत्र ढल्ग्रहणम् । तथा 'सार्वधातुकमपिद्' इति कित्त्वातिदेशे जागृतः, जाग्रतीति गुणः स्याद्, ङित्त्वातिदेशे त्वविचिण्णल्ङित्स्विति पर्युदासो भवति । 'ऋदुपधेभ्यो लिटः कित्त्वं गुणात् पूर्वविप्रतिषेधेन' । कित्त्वस्यावकाशः-ऋजतुः, ऋजुः न ह्यत्र विध्यन्तरस्य कस्यचित्प्रसङ्गः; गुणस्यावकाशः--वर्त्तित्वा,वर्धित्वा; ववृते, ववृधुरित्यत्रोभयप्रसङगे कित्त्वं भवति पूर्वविप्रतिषेधेन । इह तु बिबिदतुः बिभिदुः, नित्यत्वादेव कित्त्वं सिद्धम्; तद्धि कृतेऽपि गुणे प्राप्नोत्यकृतेऽपि, गुणस्तु कित्त्वे सति न प्राप्नोति । ववृते इत्यत्र तु गुणे कृते संयोगान्तत्वात् कित्त्वं न प्राप्नोतीत्युभयमनित्यमिति पूर्वविप्रतिषेध उच्यते । स चायं कार्यातिदेशपक्षे स्फुटमेव वक्तव्यः । तथा हि-अनेनैव कित्कार्यातिदेश ईजतुरित्यादौ यत्र विध्यन्तरस्याप्रसङ्गस्तत्र सम्प्रसारणमितदिश्य चरितार्थमतिदेशं परत्वाद् गुणो बाधेत । शास्त्रातिदेशे वा 'क्ङिति च' इत्येतच्छास्त्रमतिदिश्यते, तच्च यद्यपि गुणस्यापवादभूतम्, तथाप्यन्यत्र चरितार्थत्वाद् दुर्बलेनातिदेशेनातिदिष्टः 'क्ङिति च' इति प्रतिषेधो दुर्बल इति तं बाधित्वा गुणः स्यादेव ।।
इन्धिभवतिभ्यां च ।। 1.2.6 ।।
इन्धेरगन्तुक इकारो न तु 'इक्श्तिपौ धातुनिर्देशे' इतीक् प्रत्ययः, तेन 'अनिदिताम्' इति नलोपो न भवति । समीध इति । 'ञिङन्धी दीप्तौ' अनुदात्तेत्, एशः कित्त्वाद् 'अनिदिताम्' इत्युपधालोपद्विर्वचने सवर्णदीर्घत्वम् । बभूविव, बभूविथेति । कित्त्वाद्यथाक्रमं वृद्धिगुणौ न भवतः । इन्धेः संयोगार्थमित्यादिना पूर्वणासिद्धं दर्शयन् सूत्रारम्भं समर्थयते ।
अयं योगः शक्योऽवक्तुम्, कथम् ? इन्धेरनन्तरश्छन्दस्येव लिड् भवति, भाषायां त्विजादेश्चेत्यामा भवितव्यम्, छन्दसि च 'छन्दस्युभयथा' इति लिटः सार्वधातुकसंज्ञा, 'सार्वधातुकमपित्' इति ङित्त्वादुपधालोपः । श्नमि तु कर्तव्य आर्धधतुकसंज्ञा, छान्दसत्वाद्वा श्नमभावः । भवतेरपि 'भुवो वुग्लुङ्लिटोः' इति वुग्विधीयते, तत्र भूअ, भूइथ इति स्थिते वुक् प्राप्नोति, वृद्धिगुणौ च; कृताकृतपसङ्गित्वेन नित्यो वुक्, नच शब्दान्तरप्राप्तः, एकदेशविकृतस्यानन्यत्वाद्; वुकि च कृतेऽनजन्तत्वादलघूपधत्वाच्च वृद्धिगुणौ न भविष्यतः । अवश्यं चैतदेवं विज्ञेयम्-'वुका वृद्धिगुणौ बाध्येते' इति । यो हि मन्यते-'कित्त्वादिमे गुणवृद्धेः किति नेति प्रतिषेधः, अनिग्लक्षणत्वात् । एवं तर्हि ज्ञापकार्थमिन्धिग्रहणम्, एतज्, ज्ञापयति-'इन्धेर्भाषायामप्यनित्य आम्' इति, समीधे समीधाञ्चक्र इति भाषायामपि भवति । भवतेरपि वुगनित्यः, किं कारणम् ? उरिति वर्तते, न च गुणवृद्ध्योः कृतयोरुवर्णान्तो भवतिर्भवति; उरिति निवर्तिष्यते ? यदि विवर्तते; बोभाव, अहं किल बोभव-यङ्लुक्यपि नित्यत्वाद् वुक् प्राप्नोति । अनुवर्तमाने पुनरुरित्यस्मिन् उभयोरनित्ययोः परत्वाद् गुणवृद्ध्योः कृतयोरनुवर्णान्तत्वाद् वुङ्न भवति । अथेदानीं यङ्लुक्यप्यनेनैव लिटः कित्त्वं कस्मान्न भवति ? श्तिपा निर्देषशात् । यदि पुनर्वुग्विधावेव श्तिपा निर्देशः क्रियते ? नैवं शक्यम्; इह हि दोषः स्याद्-बोभूवत्;, बोभूवुः । यदा पुनः कित्त्वविधौ श्तिपा निर्देशः क्रियते, न वुग्विधौ; तदा यङ्लुकि पित्सु वचनेषु लिटः कित्त्वाभावाद् गुणवृद्ध्योः कृतयोरुरित्यधिकाराद् वुङ्न भवति । अपित्सु वचनेषु 'असंयोगाल्लिट् कित्' इति कित्त्वे सति गुणाभावादुवर्णान्तत्वाद्वुग् भवति । ननु चोक्रम्--'आरभ्यमाणेऽपि कित्त्वे वृद्धेः प्रतिषेधो न सिद्ध्यति, अग्निलक्षणत्वाद्' इति, नैष दोषः; ङिद्ग्रहणमप्यनुवर्तते, तत्सामर्थ्यादनग्लिक्षणाया अपि वृद्धेः प्रतिषेधो भविष्यति, सत्यम्; अस्त्यं शुष्कस्तर्कः । वार्त्तिककारस्तु न क्षमते, यदाह-'इन्धेश्छन्दो विषयत्वाद् भुवो वुको नित्यत्वात्ताभ्यां लिटः किद्वचनानर्थक्यम्' इति ।
श्रन्थिग्रन्थीत्यादि । 'श्रन्थ ग्रन्थ संदर्भे', 'दम्बु दम्भेष्वञ्ज पिरष्वङ्गे' । श्रेथतु;, श्रेथुरिति कित्त्वादुपधालोपः, एत्वाभ्यासलोपावप्यत्र वक्तवायौ । देभतुरिति । नलोपे कृते 'अत एकहल्मध्येऽनादेशादेः' इत्येत्वाभ्यासलोपौ । न च लोपस्या सिद्धत्वम्, आभाच्छास्त्रीयस्यासिद्धत्वस्यानित्यत्वात् । परिषस्वज इति । 'ष्वञ्जपरिष्वङ्गे', अनुदात्तेत्,'उपसर्गात्सुनोति' इति षत्वम् 'सदिस्वञ्ज्योः परस्य लिटि' इति परस्य प्रतिषेधः । अत्र केचिद्वेति पठन्ति, शश्रन्थतुरित्याद्यपि भवति । अथ पित्सु वचनेषु कथम् ? यदि संयोगार्थमेव वचनम्, पित्सु न भाव्यम् । अथ संयोगान्तार्थं पिदर्थं च ? पित्स्वपि भाव्यम् । किं पुनरत्रार्थतत्त्वं देवो ज्ञातुमर्हति ।।
मृडमृदगुधकुषक्लिशवदवसः क्त्वा ।। 1.2.7 ।।
'क्लिश हिंसायाम्', अनुदात्तेद्, दिवादिरकर्मकः; 'क्लिशू विबाधने' क्र्यादिः सकर्मकः, परस्मैपदी-द्व्योरपि ग्रहणम् । किमर्थं पुनरिदम्, तावता किदेव हि क्त्वा ? तत्राह--न क्त्वा सेडित्यादि । अपकर्षः = अपवादः नन्विदमेव नियमार्थं भविष्यति-'मृडादिभ्य एव क्त्वा किद्भवति नान्येभ्यः' इति नार्थः 'न क्त्वा सेट्' इत्यनेन; कथं लूत्वा पूत्वा-तुल्यजातीयस्य सेटो नियमः ? ननु 'क्लिशः क्त्वानिष्ठयोः' इति विकल्पेनेड्विधानादनिट् क्त्वा सम्भवति ? एवं तर्हि मृडमृदवदवसां कित्त्वाविधानं नियमार्थम्, इतरेषां तु 'रलो व्यपधात्' इति विकल्पबाधेन विधिसम्भवान्नियमो न भविष्यति । एवमपि विपरीतोऽपि नियमः स्याद्--मृडादिभ्यः क्त्वैव किदिति । उदित्वा, उषित्वेति । यजादित्वात्सम्प्रसारणम् 'शासिवसिघसीनां च' इति षत्वम्, 'वसतिक्षुधोरिट्' ।।
रुदविदमुषग्रहिस्वपिप्रच्छः संश्च ।। 1.2.8 ।।
सन्नर्थमिति । तत्र चरितार्थत्वादनिटः क्त्वाः कित्त्वाविधानं नियमार्थं न भवति ।।
इको झल् ।। 1.2.9 ।।
सनाक्षिप्तस्य धातोरिका विशेषणात्तदन्तविधिर्भवतीत्याह--इगन्ताद्धातोरिति । 'इक् स्मरणे' इत्यास्य तु धातोर्ग्रहणं न भवति, न ह्यतः परो झलादिसन् सम्भवति, कथम् ? 'इणो गा लुङि' 'णौ गमिरवबोधने' 'सनि च' 'इण्वदिक इति वक्तव्यम्' 'गमेरिट् परस्मैपदेषु'--अधिजेगमिषति । ननु च भावकर्मणओरात्मनेपदे 'अनुदात्तोपदेश' इत्यनुनासिकलोपार्थमेतत्स्यात्, तत्र तु रूपे विप्रतिपत्तिः, गमेरिङादेशस्य ग्रहणमिति वचनात् 'अज्झनगमां सनि' इति दीर्घो न भवति-अधिजिगंस्यत इति केचित् ।
अन्ये त्वाहुः-```अज्झनगमान्' इत्यत्राज्ग्रहणं न कर्त्तव्यम्, कथम् ? 'सनि दीर्घः' इत्येको योगः, अचश्च , एवं सिद्धेऽजग्रहणं प्रवृत्तिभेदेन गमेरपि विशेषणआर्थम्--अजादेशस्य गमेरिति; तेनास्यापि दीर्घेण भाव्यम्, अजादेशत्वाद्-अधिजिगांस्यत इति रूपमिति । तदेवं धातोरपि ग्रहणं युक्तमेव । एवं तर्हि झला साहचर्याद् गर्गादिषु जिगीषुशब्दस्य पाठाच्च प्रत्याहारस्य ग्रहणमुत्तरसूत्रे च इक्समीपाद्धलः पर इत्यनुपपन्नं धातुग्रहणे । झलादिरिति । कथं पुनस्सत्सप्तमीनिर्देशे तदादिविधिः शक्यो विज्ञातुम् ? झल्मात्रस्य सनोऽसम्भवात् । ननु च चिकीर्षितेत्यादवतो लोपे सति सम्भवति, अपूर्वविधत्वाच्च न लोपस्य स्थानिवत्त्वाम्; एवं तर्हि वृद्धिसंज्ञासूत्राद्यस्यादिरिति वर्त्तते सन् किद्भवति, कीदृशः ? यस्य ढलादिरिति । एतेन तदन्तविधिरपि निरस्तो वेदितव्यः । चिचीषतीति । 'एकाचः' इतीट्प्रतिषेधः । तुष्टूषतीति । 'शर्पूर्वाः खयः' । शिशयिषत इति । 'पूर्ववत्सनः' । किमर्थमिति । योगविभागविषयः प्रश्नः । सूत्रं तूत्तरार्थं कर्त्तव्यम् । दीर्घत्वगुणस्य बाधकं भविष्यतीति । ननु 'कुङ्शब्दे' कटादिः, चुकूषत इत्यस्मि दीर्घस्यावकाशः ? दीर्घान्तोऽयमित्यवोचाम् । इह तर्हि 'गु पुरीषोत्सर्गे' 'ध्रु गतिस्थैर्ययोः' कुटादी, जुगूषति, दुधूषति । एवमपि प्रत्याहारग्रहणमनर्थकम् 'उतो दीर्घ' इति वक्त्वयम् ? अस्ति प्रत्याहारग्रहणे प्रयोजनम्, किम् ? प्रतिभेदेन गमिमपि विशेषयिष्यामीति । यद्येतावत्प्रयोजनं स्यात् 'उतो दीर्घ' इत्युक्त्वा इङ्हन्योरिति वक्तव्यम्-येषां समेरिङादेशस्य ग्रहणमिति पक्षः । येषामनिङादेशस्यापि ग्रहणं तेषामिहन्योरिति वक्तव्यम्, हना साहचर्यादिरिति धातुर्गृह्यते, नेकारः, तस्मादज्गरहणसामर्थ्याद्दीर्घत्वं गुणस्य बाधकं भविष्यतीति सुष्ठूक्तम् । यथैव तर्हि झलादौ गुणो बाध्यते, एवमिङादावपि बाध्येत--जिजविषयति, नात्र दीर्धः प्रवर्त्तते, किं असति हि कित्त्वे नाप्राप्ते विध्यन्तरे आरभ्यमाणं दीर्घत्वं यथा गुणं बाधते एवं णिलोपमपि बाधेन । ननु यत्र नाप्राप्ते तस्य बाधकः, क्व च नाप्राप्ते ? दीर्घ आरभ्यते, गुणे णिलोपे तु ज्ञीप्सतीत्यत्र प्राप्ते, चिचीषतीत्यत्राप्राप्ते पाक्षिक एव परिहारः । यत्र बाध्यं भेदेनापेक्ष्यते--'इदमस्मिन्विषये प्राप्तमिदमस्तिन्विषये' इति, तत्रैकबाधेनोपपत्तौ सत्यामनेकबाधो न न्याय्य इति किमेकं बाध्यतामित्यपेक्षायाम् 'येन नाप्राप्ते स बाधनीटः' इत्युच्यते, एवं ह्यपेक्षितविधिर्भवति । यदि तु 'नाप्राप्ते विध्यन्तरे इदमारभ्यते' इति कार्यसामान्यमपेक्ष्यते, तदा सर्वमेव बाधनीयम् । एतेन पुरस्तादपवादन्यायेन णिलोपमेव दीर्घत्वं बाधेत, न गुणमित्यपि चोद्यं निरस्तम्; यस्यादयमपि न्यायः कार्यसमान्यचिन्तायां नास्त्येव । अतः सुष्ठूक्तम्--णिलोपमपि बाधेतेति । दीर्घत्वस्यावकाशदानायेति । एतदेव स्फुटयति-चिचीषतीत्यादि ष्विति । सति हि कत्त्वे चिचीषतीत्यादौ कित्त्वेनैव गुणो बाध्यते, न दीर्घेणेत्यबाधित्वैव विध्यन्तरं सावकाशो दीर्घः परत्वाण्णिलोपेन बाध्यत इत्यर्थः । ज्ञीप्सतीति । 'मारणतोषणनिशामनेषु ज्ञा', 'ज्ञप मिच्च' इति चुरादिषु पाठाद् णिचि पुकि 'मितां ह्रस्वः', सन्, 'सनीबन्तर्द्ध' इतीडभावक्षे 'आप्ज्ञपृधामीत्' इतीत्त्वम्, 'अत्र लोपोऽभ्यासस्य ' । किमर्थो योगविभाग इत्यशङ्क्य प्रयोजनमाह--इकः कित्तवमित्यादि । गुणो मा भूदित्येवमर्थमिक उत्तरस्य सनः कित्त्वं विधीयतइत्यर्थः । दूषयति-दीर्घारम्भादिति । गुणो न भविष्यतीति शेषः । कृते भवेदिति । शास्त्रमावर्तमानं जपादिवद्भर्मे साधनमिति भावः । अनर्थकं त्विति । शास्त्रपूर्वकात्प्रयोगाद्धर्मो न तु प्रवृत्तिमात्रादिति भावः । ननु च 'सनि मीमाघु' इत्यत्र मिनोतेरपि मीग्रहणएन ग्रहणार्थं दीर्घविधिः स्याद्, मा भून्मीग्रहणेन ग्रहणम्, 'मीनातिमिनोतिदीङां ल्यपि च' इत्यात्वे कृते 'गामादाग्रहणेष्वविशेषः' इति माग्रहणेन ग्रहणं भविष्यति; तत्रायमप्यर्थो मीग्रहणमपि न कर्त्तव्यं भवति । ह्रस्वार्थमिति । ह्रस्वानामेव दीर्घविधानासामर्थ्याद् गुणो न स्याद्, दीर्घाणां तु पुनः प्राप्नोति--लुलूषति; न हि दोर्घान्तेषु दीर्घशास्त्रं प्रवर्त्तते, पूर्वमेव तद्रूपसद्भावादिति भावः । सामार्थ्याद्धि पुनर्भाव्यमिति । सामर्थ्यम् = प्रयोजनसद्भावः, यथा 'मो राजि समः क्वौ' इति मकारस्यैव मकारो विधीयते, विकारान्तरं मा भूदिति । तथा दीर्घस्यापि गुणो मा भूदिति पुनर्दीर्धो भविष्यति । यदि तर्हि प्राप्नुवन्विधिः दीर्घेण बाध्यते, ॠदित्त्वामपि न प्राप्नोति-चिकीर्षति, तत्राह--ॠदित्त्वं दीर्घसंश्रयमिति । दीर्घः संश्रयो निमित्तं यस्य तत्तथोक्तम् । यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेर्निमित्तमेव नासौ बाध्यते । न चात्राकृते दीर्घे ॠदित्त्वं प्राप्नोति । इह तर्हि-तितीर्षति, अकृतेऽपि दीर्घत्वे ॠदित्त्वं प्राप्नोतीति ? ॠदित्त्वानिवृत्त्यर्थमेव दीर्घत्वं स्याद्, अत आह-दीर्घाणां नाकृते दीर्घ इति । दीर्घाणामप्यकृते दीर्घत्वे ऋदित्त्वं न प्राप्नोति, किं कारणम् ? इत्त्वोत्त्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन, अतो यावद्दीर्धेण गुणो न बाधितः, तावदित्त्वं न पाप्नोति; तस्मान्नार्थ एतेनेति स्थिते प्रयोजनमाह--णिलोपस्त्विति ।।
हलन्ताच्च ।। 1.2.10 ।।
समीपवचनोऽन्तशब्द इति । अवयववचनस्तु न भवति, धातावन्यपदार्थे 'येन विधिस्तदन्तस्य' इत्येव तदन्तविधेः सिद्धत्वात् । इकस्त्वन्यपदार्थत्वं नैव सम्भवति, न हि वर्णो वर्णान्तरस्यावयव उपपद्यते । हल् चासावन्तश्चेति । कर्मधारयं दर्शयति । निपातनाद्विशेषणस्य परनिपातः । तत्र च कस्यान्तो हलितयपेक्षायामिक इति पञ्चम्यन्तं सन्निहितं षठ्यन्तं विपरिणम्यत इत्याह-इगन्तादिति । इकमपेक्षमाणस्याप्यन्तशब्दस्य नित्यसापेक्षत्वात् सूत्रे कर्मधारयः, बहुव्रीहौ तु धातोरन्यपदार्थत्वं नैव सम्भवति, अन्तशब्दो हि नियतदेशमेव समीपमाचष्टे परं नाम, न समीपमात्रम् । न च धातोः परसमीपावस्थिते हलि ततः परः सन्सम्भवति; इकि त्वन्यपदार्थे-यस्येकः परसमीपे हल् न तस्यानन्तरः सू् सम्भवतीत्येकेन हला व्यवधाने विज्ञायेतेति धिप्सतीत्यत्र न स्याद् । हलिति जातिग्रहणात् सिद्धावपि प्रतिपत्तिगौरवप्रसङ्गः । ननु च मा भूदन्तग्रहणम्, 'हलः' इत्येवास्तु, इका हल्विशेष्यते, तेन च धातुः-इकः परो यो हल् तदन्ताद्धातोरिति । न चैवमत्र शङ्कनीयम्--"असत्यन्तग्रहणे इग्वतो हलन्तादिति विज्ञायेत, ततश्च यजेः सन् 'सन्यतः' यियक्षते इत्यत्रापि कित्त्वे सति संप्रसारणं प्राप्नोति" इति; न हीक्छब्दस्य मुख्येऽर्थे सम्भवति तद्वति वृत्तिर्युक्ता, किं च 'इग्वतः' इत्यस्य व्यावर्त्यमपि न सम्भवति । यायज्यतेः सनि यायजिषत इत्यत्र सन्न झलादिः । तस्मादन्तग्रहणं चिन्त्यप्रयोजनम् ।
इह धीप्सतीति य इक्समीपे हल् नकारो न ततः परः सन्, यतश्च परः सन् भकारात् न स इक्समीप इति कित्त्वं न स्यादित्यत आह-दम्भेरिति । दम्भेरपि परस्य सनः कित्त्वं सिद्धम्, कुतः ? हल्ग्रहणस्य जातिवाचकत्वात् । 'तत्प्रयोजकः' इतिवत्समासः । जातिवाची हल्शब्दः, एकैव च जातिर्नकारभकारयोः । व्यक्तिद्वारकं च जातेरिक्समीपत्वं तदपेक्षयात्र सनः परत्वम् । भकारव्यक्तिरिक्समीपे वर्तत इति जातिरपि वर्तते, भकारव्यक्तेः परः सन्निति जातेरपि परः । विपर्ययस्तु सन्नपि शास्त्रेणानाश्रितत्वादकिञ्चित्करः । नकारव्यक्तिरिक्समीपे न वर्तत इति जातिरपि न वर्तते । नकारव्यक्तेः परः सन्न भवतीति जातेरपि परो न भवतीति । धीप्सतीति । 'दम्भ इच्च' कित्त्वादुपधालोपः 'एकाचो बशो भष् झषन्तस्य स्ध्वोः' इति भष्भावः, द्विर्वचनम्, 'अत्र लोपोऽभ्यासस्य' ।।
लिङ्सिचावात्मनेपदेषु ।। 1.2.11 ।।
आत्मनेपदेषु परत इति । एतत्सिच एव विशेषणम्, न लिङ्परस्मैपदस्य; झल्ग्रहणानुवृत्त्यैव व्यावर्तितत्वात् । भित्सीष्टेति । भिदिः स्वरितेत्, 'लिङः सीयुट्','सुट् तिथोः' । भुत्सीष्टेति । बुधिरनुदात्तेत्, पूर्ववद् भष् । अबुद्धेति । च्लेः सिच्', झलो झलि', 'झषस्तथोर्धोऽधः','झलां जश् झशि' इति धकारस्य दकारः । यक्षीष्टेति । स्वरितेत्त्वादात्मनेपदम्, व्रश्चादिषत्वम्, 'षढोः कः सि' ।
अद्राक्षीदिति । अमागमे यणि च कृते 'वदव्रज' इत्यकारस्य वृद्धिः ।।
उश्च ।। 1.2.12 ।।
लिङ्सिज्भ्यामाक्षिप्तस्य धातोरुरित्यनेन तदन्तविधिरित्याह- ऋवर्णान्तादिति । 'ऋ गतौ' इत्यस्य तु ग्रहणं न भवति; 'सर्त्तिशास्त्यर्त्तिश्च' इत्यङो विधानेन सिचोऽसम्भवात् । नन्वङ्विधौ कर्तरीत्यनुवृत्तेः कर्मणि सिजपि सम्भवति, एवं तर्हि शैलीयमाचार्यस्य यत्रास्य धातोर्ग्रहणमिच्छति तत्र श्तिपा निर्देशं करोति-'अर्त्तिपिपर्त्त्योश्च','सर्तिशास्त्यर्तिभ्यश्च' इति स्वरूपेणापि ग्रहणं दृष्टम् । एवं तर्हि व्याप्तिन्यायाद्वर्णग्रहणम् । अकृतेति । 'ह्रस्वादङ्गात्' इति सिचो लोपः । अवरिष्टेति । 'लिङ्सिचोरात्मनेपदेषु' इतीट् । 'वा गमः' । संगंसीष्टेति । 'समो गम्यर्च्छि' इत्यात्मनेपदम् ।।
हनः सिच् ।। 1.2.14 ।।
सौत्रत्वान्निर्देशस्याल्लोपो न कृतः । आहसतेति ।'आङो यमहन' इत्यात्मनेपदम्, 'आत्मनेपदेष्वनतः' इत्यदादेशः । सिज्ग्रहणं लिङ्निवृत्त्यर्थमिति । प्रकृतं सिज्ग्रहणं लिङ्संबद्धमिति तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यादिति भावः ।
ननु च 'हनो वध लिङि' इति लिङि वधादेशो नित्यः, धानिषीष्टेति चिण्वदिटि वधादेशाभावेऽप्यझलादित्वादप्रसङ्गस्तत् किं लिङ्निवृत्त्येत्यत्राह-उक्षरत्रेति । उत्तरार्थमवश्यं सिज्ग्रहणं कर्त्तव्यम्, तदिहैव क्रियते, न्यायानुसरणे प्रतिपत्तिगौरवं मा भूदित्येवमार्थमित्यर्थः ।
आत्मनेपदग्रहणमित्यादि । यमः परस्मैपदेषु 'यमरमनमाताम्' इति सगिटौ भवत इति झलादिः सिज्न भवति । उपयमने तु नित्यमात्मनेपदम्, स्थाध्वोः परस्मैपदेषु सिचो लुग् भवति,'वा गमः' इत्यत्रापि परस्मैपदेष्वङ् भवति, लिङि यासुट्निवृत्त्यर्थमेव च झल्ग्रहणमनुवर्त्त्यम्, एवमस्मिन्नप्यधानिषातामिति चिण्वदिटि मा भूदिति, तदेवम् 'वा गमः' इत्यारभ्यात्मनेपदग्रहणं चिन्त्यप्रयोजनम् । किमर्थं पुनरिदम्, यावता आत्मनेपदं ङिति सिजन्तस्याङ्गस्य 'अनिदिताम्' इत्येव नलोपः सिद्धः, उच्चारणार्थो हि सिच इकारः, नानुबन्धः ? ज्ञापनार्थम् । एतज् ज्ञापयति-'न सिजन्तस्योपधालोपो भवति' इति । तेनामास्तेति सिद्धं भवति । ननु च सिचि 'अनुदात्तोपदेश' इति लोपो यथा स्याद्, आत्मनेपदे उपधालोपो मा भूदित्येवमर्थमिदं स्यात्, कः पुनरत्र विशेषः-सिचि वा लोपो भवतु, आत्मनेपदे वा ? अयमस्ति विशेषः-आत्मनेपदे लोपे सति 'अतो लोपः' प्राप्नोति, सिचि तु न; आभीयस्यानुनासिकलोबस्यासिद्धत्वात् । यद्यपि उपधालोपोऽप्याभीयस्तथापि व्याश्रयत्वादसिद्धत्वं न प्राप्नोति-आत्मनेपदे उपधालोपः, सिच्यतो लोपः । यद्येवम्, बहिरङ्ग उपधालोपः, बहिर्भूतात्मनेपदापेक्षत्वाद्; अन्तरङ्गोऽल्लोपः, अन्तर्भूतसिजपेक्षत्वात् 'असिद्धं बहिरङ्गमन्तरङ्गे' ।
ननु चैषा परिभाषाप्याभाच्छास्त्रीया 'वाह ऊठ्' इत्यत्र ज्ञापितेति तस्यामन्तरङ्गबहिरङ्गयोरसिद्धत्वाद् यथा पपुष इत्यादावल्लोपादिषु वसोः संप्रसारणस्यासिद्धत्वं न भवति, तथात्रापि न स्यात्, ततश्चातो लोपः स्यादिति सिच्येवानुनासिकलोप एषितव्य इति वक्तव्यमेव सिचः कित्त्वमिति ज्ञापकानुपपत्तेः, अमंस्तेत्यादावुपधालोपः स्यात् । तस्मात् सिच इकारोऽनुबन्ध एव, नौच्चारणार्थः । तेन 'अदिताम्' इति प्रतिषेधादुपधालोपाभावः । 'इदितो नुम्' इत्यत्र धातुग्रहणं सिजन्तनिवृत्त्यर्थमेव क्रियते, न धातूपदेशावस्थायामेव नुम् यथा स्यादित्येवमर्थम् । कुण्डेत्यादिसिद्धये च यत्नान्तरमास्थेयमिति केचित्; नेति वयम् । उपधालोपेऽपि नातो लोपेन भवितव्यम् । किं कारणम् ? 'उपदेश' इति वर्तते उपदेशे योऽकारान्तस्तस्य लोपः, इहापि तर्हि न प्राप्नोति--'धिन्विकृण्व्योर च' धिनुतः, कृणुतः, नोपदेशग्रहणेन प्रकृतिरभिसम्बध्यते--उपदेशे या प्रकृतिरकारान्तेति, किं तर्हि ? आर्धधातुकमभिसम्बध्यते--आर्द्धधातुकोपदेशे यदकारान्तं तस्येति । तदेवमुपधालोपेऽपि न कश्चिद्दोष इति ज्ञापकार्यमेव वचनमिति सर्वमनाकुलम्।।यमो गन्धने ।। 1.2.15 ।।
ननु यमिरुपरमे पठ्यते, कथं गन्धने वर्तत इत्यत आह--अनेकार्थत्वादिति । उदायतेति । परावद्यं स्वयं प्रकाशितवानित्यर्थः । उदायंस्त पादमिति । अपकृष्टवानित्यर्थः ।।
स्थाध्वोरिच्च ।। 1.2.17 ।।
चकारेण कित्त्वं समुच्चीयत इत्याह--सिच्च किदिति । प्रयोजनं गुणो मा भूदिति । इत्त्वं तु गुणविधानार्थमेव स्यात्; लघुत्वात् । उपास्थितेति । 'उपान्मन्त्रकरणे' 'अकर्मकाच्च' इत्यात्मनेपदम्, 'ह्रस्वादङ्गात्' इति सिचो लोपः । न चेत्त्वं सिजीत्युच्यते, किं तर्हि ? इकारश्चान्तादेशस्सिच्च किद्भवतीत्येतावत् । तेनेत्त्वस्यासिज्निमित्तत्वाद् भवत्येव लोपः ।
इच्चेत्यादि । तकार इद्यस्य तस्य भावः तकोरेत्त्वम्, इच्चेत्यत्र निर्देशे कस्य, कार्यस्य सिद्धये इकारस्य तकारेत्त्वं क्रियत इत्यर्थः । दीर्घो मा भूदिति । आन्तर्यतः प्राप्नोतीति भावः । ऋतेऽपि स इति । इकारविधानेनापि विनेत्यर्थः । कित्त्वे हि घुमास्थादिसूत्रेणैव दीर्घस्सिद्धः, तस्मादित्त्वविधानसामर्थ्याद् अनन्तरतमोऽपि ह्रस्व एव भविष्यतीत्यर्थः । भाव्यमानोऽण्सवर्णान्न गृह्णाति इत्ययमप्यत्र परिहारः संभवति । अनन्तर इति । असदृश आदेशे क्रियमाणे ह्रस्व इव प्लुतोऽपि स्यात्,स मा भूदित्यर्थः । प्लुतश्चेति । अनेन तपरत्वं प्रत्याख्यायते । यद्यनेन प्लुतो विधीयेत, तदा यत्र विषये 'अनन्त्यस्यापि प्रश्नाख्यानयोः' इत्यादिना प्लुतो विहितस्तत्राप्यनेनैव स्याद्, अस्मिन्कर्त्तव्ये तस्यासिद्धत्वादिति पक्षेऽनुवाददोषः प्राप्नोति,ततो ह्रस्व एव भविष्यति । अन्ये तु तपरत्वमनेन समर्थितं मन्यन्तेअसति तकार आन्तरयंतो दीर्घस्य दीर्घः प्राप्नोति । ननु चोक्तम्-'सिद्धोऽत्र दीर्घः' इति ? सिद्धे सत्यारम्भो नियमार्थः स्याद्-दीर्घ एव यथा स्यात् प्लुतो मा भूदिति तदिदमुक्तम्--अन्न्तर इत्यादिना । घुमास्थादिसूत्रेणानेन वा दीर्घे सति यद्यपि विशेषो नास्ति, तथाप्यनन्तरेऽविद्यमानेऽपि विशेषे प्लुतो मा भूदिति दीर्घः स्यादित्यर्थः । मा भूद् इति चेत् तत्राह-प्लुतश्चेति । स चासति तपरत्वे न प्राप्नोति, सति तु तस्मिन् दीर्घस्याप्रसङ्गाद्विधिरेव संपद्यत इति स्वविषये प्लुतो न व्यावर्त्यते । तदेवमन्यत्र भिन्नकालनिवृत्त्यर्थं तपरकरणम्, इह तु दीर्घनिवृत्त्यर्थं प्लुतप्रवृत्त्यर्थं च वस्तुबलात्समपादि ।।
न क्त्वा सेट् ।। 1.2.18 ।।
न किद्भवतीति । कित्कार्यं न करोतीत्यर्थः । न पुनः ककारस्येत्संज्ञाभावात् किन्न भवतीति । प्रकृतो हि किच्छब्दः कित्कार्यकारिणि वर्तत इति तदर्थस्यैव निषेधो युक्तः-देवित्वेत्यादौ गुणप्रतिषेधाख्यं कित्कार्यं न भवतीति ।
निगृहीतिरिति । अत्र 'तितुत्र' इतीट्प्रतिषेधो न भवति, तितुत्रेष्वग्रहदीनामिति वचनात् । निकुचितिरिति । 'कुञ्च कौटिल्याल्पीभावयोः' । एषूदाहरणेषु संप्रसारणम्, गुणप्रतिषेधः, उपधालोपश्च कित्त्वाद्भवन्ति ।
न सेडित्यादि । पूर्वाद्धेमेको ग्रन्थः, उत्तरार्द्धाच्च नेत्यपकृष्यते । न सेडित्येतावतापि योगेनाकित्त्वे कृते गुधितो गुधितवानित्यत्र निष्ठायामवधारणान्नियमान्न भविष्यति । 'निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः' इति नियमः-शीङादिभ्य एव परा निष्ठा न किदिति । विपरीतस्तु नियमः-निष्ठैवेति व्याख्यानान्न भवति । लिटि तर्हि प्रतिषेधः स्यात्, ततश्च जग्मिव, जग्मिम 'गमहन' इत्युपधालोपो न स्याद्, अत आह-ज्ञापकादिति । पूर्वाचार्यप्रसिद्ध्या परोक्षे लिडुच्यते, यथा-भवन्ती लट्, श्वस्तनी लुट् । किं ज्ञापकमित्यत आह-सनीति । 'इको झल्' इत्यत्र झल्ग्रहणस्यैतत्प्रयोजनम्--शिशयिषत इत्यत्र मा भूदिति । यदि च न सेडिति प्रतिषेध आतिदेशिकस्यापि कित्त्वास्य स्याद् झल्ग्रहणमनर्थकं स्यात् । प्राप्नोत्वत्र कित्त्वम्, 'न सेट्' इति प्रतिषेधो भविष्यति । तदेतद् झल्ग्रहणमौपदेशिकस्य कित्त्वस्यायं प्रतिषेधो नातिदेशिकस्येत्यस्यार्थस्य ज्ञापकं विदुः ।
ननु चोत्तरार्थं झल्ग्रहणम्, स्थाघ्वोरित्त्वं झलादौ यथा स्यात् चिण्वदिटि मा भूदिति-उपास्थायिषाताम्, अत्र हि उपास्थास् आतामिति स्थिते, इत्त्वं च प्राप्नोति चिण्वद्भावश्च, परत्वाच्चिण्वद्भावे युक्च प्राप्नोति वृद्धिश्च, कअपवादत्वाद्युकि कृते यकारस्येत्त्वप्रसङ्गः; न च पुनर्वृद्धिर्लभ्यते, पूर्वमेव युका बाधित्वात्, तस्मादुत्तरार्थं झल्ग्रहणम् ? नैतदस्ति; यस्मादित्त्वं कित्त्वसंयोगेनोच्यते, न चात्र कित्त्वमस्ति; न सेडिति प्रतिषेधात् । न ह्यत्रास्यां दशायां झल्ग्रहणस्य ज्ञापकत्वं स्थितमित्यातिदेशिकस्यापि कित्त्वस्यायं प्रतिषेधो भवति । रेण तुल्यं सुधीवनीति । शोभना धीवानोऽस्याः सुधीवा स्त्री 'अनो बहुव्रीहेः' इति प्रकृतस्य ङीपो निषेधे सति 'संनियोगशिष्टानामन्यतराभावे उभयोरप्यभावः' इति यथा रेफो न भवति तद्वदिहापीत्यर्थः । वस्वर्थमिति । अर्थशब्दो निवृत्तौ । जग्मिवानित्यत्र क्वसौः कित्त्वप्रतिषेधो मा भूदित्येवमर्थं तर्हि क्त्वाग्रहणमित्यर्थः । दूषयति-किंदतीदेशादिति । सिद्धमिति शेषः । अस्त्वत्रौपदेशिकस्य कित्त्वस्य प्रतिषेधः, आतिदेशिकं कित्त्वं भविष्यति । यत्रतर्हि तत्प्रतिषिध्यते संयोगान्तष्वञ्जेः, आजिवान्-अत्र हि नलोपे कृते द्विर्वचन एकदेशे च 'वस्वेकाजाद्धसाम्' इतीडागमः, तत्र कृते कित्त्वप्रतिषेधाद् नलोपनिवृत्तौ द्विहल्तात् नुटि सत्येकाच्त्वाभावादिण्निवृत्तौ कित्त्वनलोपादीनां चक्रकप्रसह्गः । एवं तर्हि छान्दसः क्वसुः, लिट् छन्दसि सार्वधातुकमपि भवति 'सार्वधातुकमपिद्' इति ङित्त्वं ङितीत्युपधालोपः । न च संयोगान्तेषु कित्त्वङित्त्वयोः कश्चिद्विशेषः, तस्माद्वस्वर्थमपि क्त्वाग्रहणं न भवति । एवं तर्हि-निगृहीतिः प्रयोजनम् । क्तिन्क्तिज्निवृत्त्यर्थं क्त्वाग्रहणमित्यर्थः ।
यदि पुनरुपरिष्टाद्योगविभागः क्रियते-न सेण्निष्टा शीङ्स्विदिमिदि क्ष्विदिधृषः, मृषस्तितिक्षायाम्, उदुपधाद्भावादिकर्मणोरन्यतरस्याम्; ततः पूङश्च-पूङश्च परा निष्ठा सेण् न किद्भवति; ततः क्त्वा च, क्त्वा च सेट् किन्न भवति । अत्र 'पूङः' इति निवृत्तमिति, ततः क्त्वाग्रहणं शक्यमकर्तुम् ।।
निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः ।। 1.2.19 ।।
' ञिष्विदा स्नेहनमोचनयोः' इत्यस्य भौवादिकस्य ञिद्धातोर्ग्रहणम्, न तु 'ष्विदा गात्रप्रक्षरणे' इति दैवादिकस्य; ञिद्भिः साहचर्यात्, अस्य चाञित्वात् । 'ञिक्ष्विदा स्नेहनमोचनयोः' इति दैवादिकस्य ग्रहणम्, न तु 'ञिक्ष्विदा अव्यक्ते शब्दे' इत्यस्य भौवादिकस्य; मिदिना साहचर्यात्,'ञिधृषा प्रागल्भ्ये' । शयितवानिति । 'अत्वसन्तस्य' इति दीर्घः । प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणं भवति, स एव धातुर्द्विरुच्यत इति कृत्वा तत्रापवादः स्मर्यते ।
श्तिपा शपाऽनुबन्धेन निर्द्दिष्टं यद्गणेन च ।
यत्रैकाज्ग्रहणं किञ्चित्पञ्चैतानि न यङ्लुकि ।। इति ।
तदहि शीङोऽनबन्धनिर्देशो यङ्लुङ्निवृत्त्यर्थः, शेश्यितः, शेश्यितवान्-- 'एरनेकाचः' इति यण् ।।
मृषस्तितिक्षायाम् ।। 1.2.20 ।।
इदमेव तितिक्षाग्रहणं ज्ञापकम्-अनेकार्था धातव इति; अन्यथा मृषिस्तितिक्षायामेव पठ्येत इति तदपार्थकं स्यात् । अपमृषितमिति । अविस्पष्टमित्यर्थः ।।
उदुपधाद्भावादिकर्मणोरन्यतरस्याम् ।। 1.2.21 ।।
द्युतितमिति । 'द्युत दीप्तौ' नपुंसके भावे क्तः । प्रद्युतित इति । 'आदिकर्मणि क्तः कर्त्तरि च' इति कर्त्तरि क्तः । मुदितमिति । 'मुदी हर्षे ' । लिखितमिति । शब्विकरणानामेवेति न तावत् स्थितमित्यशब्विकरणोऽपि लिखिः प्रत्युदाहृतः । एवं प्रभुक्त इतिं । स्थिते तस्मिन् खिटिकिटी भौवादी, क्रुशिश्च; खिटितं क्रुष्टमिति प्रक्युदाहर्तव्यम् ।।
पूङः क्त्वा च ।। 1.2.22 ।।
इहान्यतरस्यांग्रहणानुवृत्तौ सेडित्यस्य च निवृत्तौ इड्विधौ 'पूङश्च' इति शक्यमकर्त्तुम्, उत्तरसूत्रे च वाग्रहणम्; कथम् ? अनिटोरेव क्त्वानिष्ठयोरनेन कित्त्वं विकल्प्यते,तत्र यदा कित्त्वं तदा 'श्यकः किति' इति प्रतिषेधात् पूतः पूतवान् पूत्वेति, अकित्त्वपक्षे त्विटि पवितः पवितवान् पवित्वेति भवति, सेड्ग्रहणं तु विच्छिद्येत; तस्मात्सेडित्यस्मिन्नुत्तार्थमनुवर्तमाने 'पूङश्च' इत्यारभ्य उत्तरत्र वाग्रहणमिह नित्यतासिद्ध्यर्थम्, पुवित्वेति पक्षे मा भूत्तदाह-अन्यतरस्यांग्रहणं न स्वर्यते; उत्तरसूत्रे पुनर्वावचनादिति । न सेडिति वर्त्तत इति । ननु पूङः परयोः क्त्वानिष्ठयोरिटो न भवितव्यम्, 'श्युकः किति' इति प्रतिषेधादत आह-पूङश्चेति । पूङ परो निष्ठाप्रत्यय इत्यादि ।
किं पुनः कारणं साक्षात् श्रुतं क्त्वाप्रत्ययमपहारयानुवृत्तस्य निष्ठाप्रत्ययस्यान्वयो दर्शियत उदाहरणं च ? अत आह-क्त्वाप्रत्ययस्येति । एतदेव द्रढयति-तथा चोक्तमिति । इडाद्योः क्त्वानिष्ठयोर्नित्यमकित्त्वमिष्यते, ततश्च क्त्वाग्रणमुत्तरार्थमिति भारद्वाजीयैरेवमुक्तम् । उत्तरार्थमपि यदिहैव कर्त्तव्यं सेडित्येनेन सम्बन्धार्थम्; अन्यथा निष्ठानिवृत्तौ तत्सम्बद्धं सेडित्येतदपि निवर्त्तेत ! अनुबन्धोच्चारणं विस्पष्टार्थं न पूञो निवृत्त्यर्थम्; इड्विधौ पूङ एव ग्रहणात् । पूञः क्त्वानिष्ठयोः इडभावान्नापि यङ्लुकि निवृत्त्यर्थम्; इड्विधावनुबन्धनिर्देशेन यङ्लुक्यपि 'न क्त्वा सेट्' इति प्रतिषेधस्य स्थितत्वात् । न च क्त्वाग्रहणसार्थ्यात्तस्यापि प्रतिषेधः; तस्योत्तरत्राप्युपयोगसम्भवात्, अनुबन्धनिर्देशस्य च निष्ठायां चरितार्थत्वात् । एवं च 'क्त्वाग्रहणमुत्तरार्थम्' इति वृत्तिग्रन्थस्याविरोधः, तेन पोपुवितवानिति निष्ठायां भवति । क्त्वायां तु गुणो पोपवित्वेति भवति ।।
नोपधात्थफान्ताद्वा ।। 1.2.23 ।।
निष्ठेति निवृत्तमिति । पूर्वसूत्रे चानुकृष्टत्वात् । गुफित्वेति । 'गुफ गुम्फ ग्रन्थने' ।
रेफित्वेति । 'रिफ कत्थनयुद्धनिन्दाहिंसादानेषु' । अथैतद्विकल्पाभावेऽपि 'रलो व्युपधाद्' इति विकल्पोऽत्र कस्मान्न भवति ? नोपधग्रहणसामर्थ्यात् । ननु ऋकारोपधो नोपधग्रहणस्य व्यावर्त्यः सम्भवति 'ऋफ हिंसायाम्'- अर्फित्वेति, नैतदस्ति; त्रैशब्द्यं ह्यनयोर्धात्वोर्भवति । सति तावत्, अनोपधस्य 'न क्त्वा सेट्' इति निषेधे सति अर्फित्वेति भवति, नोपधस्य त्वस्मिन्विकल्पे-ऋफित्वेति । असत्यपि नोपधग्रहणे सर्वत्रास्मिन्विकल्पे प्रवृत्तेऽपीदमेव रूपत्रयं भवति । अन्तग्रहणं ज्ञापनार्थम्-यत्नमन्तरेणास्मिन्प्रकरणे न तदन्तविधिर्भवतीति, तेनोत्तरसूत्रे 'ऋतः' इति धातुर्गृह्यते, न ऋदन्तः ।।
वञ्चिलुञ्च्यृतश्च ।। 1.2.24 ।।
'वञ्चु गतौ' भौवादिः, 'वञ्चु प्रलम्भने' चुरादिः,सोऽपि गृह्यते, 'अनित्यण्यन्ताश्चुरादयः' इति । 'लुञ्च अपनयने', ऋतिः सौत्रो धातुः 'ऋतेरीयङ्'इति, स च घृणायां वर्त्तते ।।
तृषिमृषिकृशेः काश्यपस्य ।। 1.2.25 ।।
'ञितृषा पिपासायाम्','मृष तितिक्षायाम्', 'कृशतनूकरणे' । काश्यपग्रहणं पूजार्थमिति । 'काश्यपस्यैतद्विषयं विज्ञानं नान्येषाम्' इत्यसाधारणज्ञानोद्भावनमाचार्यस्य पूजाद्वारेण शास्त्रस्यापि पारम्पर्यप्रतिपादनेन प्रामाण्यप्रितपादनात् पूजा भवति ।।
रलो व्युपधाद्धलादेः संश्च ।। 1.2.26 ।।
क्त्वाप्रत्ययस्य 'न क्त्वा सेट्' इति कित्त्वे प्रतिषिद्धे सनोऽप्यकित्त्वे स्वतः सिद्ध उभयत्र विधिमुखेनेदं प्रवर्त्तत इत्याह-वा कितौ भवत इति । दिद्योतिषते इति । 'द्युतिस्वाप्योः संप्रसारणम्' । एषिषिषतीति । इटि कृते--'अजादेर्द्वितीयस्य' ।।
ऊकालोज्झ्रस्वदीर्घप्लुतः ।। 1.2.27 ।।
ऊः कालो यस्य स ऊकालः 'तपरस्तत्कालस्य' इतिवन्निर्देशः समर्थनीयः । एतच्च संज्ञिनो विशेषणम्, च 'ऊ' इत्येकस्यैव शब्दस्योच्चारणाद्विशेषणस्यैकत्वात् संज्ञाप्येकैवेति यश्चोदयेत् तं प्रत्याह--ऊ इति त्रयाणामित्यादि । प्रश्लेषणम् = प्रश्लिष्टम्, तेन निर्देशः = प्रश्लिष्टनिर्देशः । तेन विशेषणत्रयपरिच्छिन्नास्त्रयः संज्ञिन इत्यर्थः । प्रश्लेषणे प्रमाणमाह-ह्रस्वेति । ह्रस्वदीर्घप्लुत इति न तावदेका संज्ञा; गौरवादनावृत्तेश्च । अतस्तिसृणां संज्ञानां द्वन्द्वोऽयम् । न चैकस्यानेकसंज्ञाकरणे प्रयोजनमस्ति । लुगादिसंज्ञास्वपि तद्भावितत्वेन प्रत्ययादर्शनस्य भेद आशितः, प्रकारान्तरासम्भवाद् । इह तु निर्देश एव त्रयाणां सम्भवति । तस्मात्संज्ञानां त्रित्वात् संज्ञिनामपि त्रित्वमनुमीयत इति भावः । 'बहुवचननिरासार्थमेकवद्भावः' इत्युक्तम्, समाहारद्वन्द्व इत्यर्थः । 'स नपुंसकम्' कइत्येतत्तु न भवतीत्याह-पुंल्लिङ्गमनिर्देश इति । सौत्र इति भावः ।
प्रश्लेषे क्रममाह- उ ऊ ऊ3 इत्येकं काल इति । उकारादीनां परिच्छेदको यः कालो निमेषादिः, तत्काल इत्यर्थः । कुतः पुनरवसितमेष एव क्रम इति ? आदौ मध्ये वा त्रिमात्रे प्लुताश्रयः प्रकृतिभावः प्राप्नोति, तथा मध्येऽन्ते वा मात्रिके 'द्वन्द्वे घि' इत्येतद्वाध्येतेति चेति, न; अनेन हि प्लुतसंज्ञा, ततश्चादौ मध्ये वा पठितस्य त्रिमात्रस्य प्लुतसंज्ञैव न, कुतः प्रकृतिभावः ! यदि च मात्रिको मध्येऽन्ते वा स्यात्, ह्रस्वसंज्ञैव न स्यात् कुतो घिसंज्ञा ! कुतस्तरां पूर्वनिपातः ! एवं तर्हि ज्ञापकात्सिद्धम्, यदयम् 'विभाषा पृष्टप्रतिवचने हेः' इति हेः प्लुतं शास्ति, तज् ज्ञापयति-नान्ते मात्रिक इति । कथं योऽन्ते स प्लुतः ? प्लुतस्य प्लुतवचनमनर्थकम् । अनन्तरतमप्लुतार्थमेतत्स्यादिति चेत्, न हि सत्यां गतौ परिभाषा बाध्या । यच्च 'सुपि च' इति दीर्घत्वं शास्ति, तज् ज्ञापयति-न मध्ये मात्रिक इति । कथं यो मध्ये स दीर्घः ? दीर्घस्य दीर्घवचनमनर्थकम् । यच्च 'ओमभ्यादाने' इत्योमः प्लुतं शास्ति, तज् ज्ञापयति--द्विमात्रिको नान्त्य इति । कथं योऽन्ते स प्लुतः ? प्लुतस्य प्लुतवचनमनर्थकम् ।
दधि,मध्विति । रूपोदाहरणे । कुमारीत्यादि कार्योदाहरणम् 'हल्ङ्याब्भ्यः' इति दीर्घाश्रयः सुलोपो भवति । देवदत्त3 अत्र न्वसीति । 'अनन्त्यस्यापि प्रश्नाख्यानयोः' इति प्लुतः । देवदत्त त्वमत्र भवसीति प्रश्नः । नुशब्द प्रश्नं द्योतयति । देवदत्तशब्दात्परस्य सोः 'ससजुषो रुः' इति रुत्वम्, 'अतो रोरप्लुतात्' इत्युत्वे प्रतिषिद्धे 'भोभगोअघोअपूर्वस्य योऽशि' इति यत्वम्, 'लोपः शाकल्यस्य' । उकारोऽयमण्, तेन द्विमात्रयोरपि ग्रहणाद् ह्रस्वसंज्ञा प्राप्नोति । न च दीर्घप्लुतसंज्ञाभ्यां बाधः; एकसंज्ञाधिकारादन्यत्र संज्ञानां समावेशाभ्युपगमाद्, अत आह-कालग्रहणमिति । कालग्रहणं तावदुकारादिभिः प्रत्येकमभिसम्बध्यते, ऊकाल इत्यस्मिन्वाक्ये सत्यपि सवर्णग्रहणे कालशब्दस्य न पुनः प्रत्येकपरिसमाप्तिर्युज्यते, कुतः ? एकस्यैव श्रुतत्वात् । द्विमात्रत्रिमात्रौ हि संज्ञित्वेन प्रतीयेते, न तु साक्षादुच्चरितौ । एवं चैकत्वाद्वहुव्रीहेरेक एव संज्ञी, तत्रैकस्य विरुद्धकालद्वयासम्भवेन सवर्णग्रहणाभावाच्छ्रुत एवोकारः कालविशेषणमिति कालग्रहणं संज्ञिनः परिमाणार्थम् ।
यद्वा-ऊ अजित्येव कालार्थो लभ्यते, कथम् ? उकारादयोऽच्त्वं न व्यभिचरन्तीति नाच्त्वेन ते विशेष्यन्ते, अपि तु तैरच् । न चाज्मात्रस्योकारादित्वमुपपद्यत इति सामानाधिकरण्यान्यथानुपपत्त्या तत्सदृशस्याचः प्रतिपत्तिः । तत्र च स्थानसाम्यमसम्भवान्न गृह्यते, प्रयत्नसाम्यं चाव्यभिचारीति कालसाम्यमेव ग्रहीष्यते, नार्थः कालग्रहणेन । तत्क्रियते श्रूयमाणेनैव कालं विशेषयितुमिति कालग्रहणं परिमाणार्थम् ।
आलुयेति । ह्रस्वाश्रयस्तुङ् न भवति । तितउच्छ्त्रमिति । असत्यज्ग्रहणे चद्वयसमुदायस्य प्रत्येकवर्णकालसंकलनया द्विमात्रत्वाद्दीर्घसंज्ञा स्याद् । यस्तु मध्येऽर्द्धमात्राकालः सवर्णकालो न भवतीति समुदायस्य द्विमात्रत्वं न व्याहन्तीति स्यादेव प्रसङ्गे । अज्ग्रहणे तु न भवति; अच्समुदायस्यानच्त्वात् । यद्यपि वर्णग्रहणे जातिग्रहणम्, सा तु जातिरेकैकव्यक्तिव्यङ्ग्या न समुदायव्यङ्ग्या, तेन दीर्घसंज्ञायामभावात् 'दीर्घात्पदान्ताद्वा' इति तुग्विकल्पो न भवति । न च सत्यपि विकल्पे तेन मुक्ते ह्रस्वाश्रयस्तुग् लभ्यते; समुदाये कार्यमारभ्यमाणेऽवयवानां स्वकार्यं प्रत्यव्यापारात् ।।
अचश्च ।। 1.2.28 ।।
'इको गुणवृद्धी' इत्यनेन समानमिदम् । स्वसंज्ञया विधाने नियमार्थमित्यत्र युक्तिमाह-अजिति वर्त्तत इति । ततश्च ह्रस्वादिशब्दा इहानुवृत्ता नाचमुपस्थापर्यान्त, तस्य स्वयमुपस्थानादिति स्वरूपपदार्थका आश्रीयन्ते । तेन ह्रस्व इत्येवं योऽज्विधीयते सोऽचः स्थाने भवतीत्ययमर्थः सम्पद्यते । एवं दीर्घप्लुतयोः ।
द्यौरित्यादि । 'दिव औत्' 'पथिमथ्यृभुक्षामात्','त्यदादीनामः','दिव उत्' इति औकारादयो न संज्ञया विधीयन्ते इति हल एव स्थाने भवन्ति ।।
उच्चैरुदात्तः ।। 1.2.29 ।।
उदात्तादिशब्दा इत्यादि । सत्यं प्रसिद्धा एव ते, कुत्र प्रसिद्धाः ? धर्ममात्रे स्वरे, न तु तद्वत्यचि । ततस्च 'उदात्तादनुदात्तस्य स्वरितः' इति स्वरिताख्यस्य धर्मस्यैव विधिः स्यात्, न च धर्मधर्मिणोः स्थान्यादेशभावः संभवतीति 'षष्ठी स्थानेयोगा' इत्यस्यानुपस्थानात् तदङ्गभूतम् 'तस्मादित्युत्तरस्य' इत्येतदपि न प्रवर्तेतेति पूर्वस्याप्यचः स्वरितप्रसङ्गः । स्यादेतत्-यथा 'कृपो रो लः' इत्यत्र ऋकारस्य रेफस्य लृकारस्थे लकारेऽपि विहिते कृत्स्नस्य वर्णस्य कृत्स्न एव वर्णो भवति, तद्वदिहापि धर्मिणोरेव स्थान्यादेशभावो भविष्यतीति युक्तं तत्र रेफलकारावृकारलृकारयोरात्मभूतौ न तावन्तरेण तावुच्चारयितुं शक्यौ, इह तूदात्तादिकमन्तरेणाप्यच उच्चारणं शक्यम्, दृष्टं च भाषायामिति धर्ममात्रमेवादेशः स्यात् । नन्वेवं स्थिते स्थान्यपि धर्म एवेति युक्त एव परिभाषाव्यापारः, सत्यम्; वर्णमात्रधर्मोऽयमुदात्तादिरिति व्यामोहनिवर्त्तनेनाचामेवायं धर्मो न हलामिति दर्शयितुमिदमारब्धम् । अत एव वर्णधर्मे इति सामान्येनोक्तम् ।
तद्गुणेऽचीति । स उदात्तादिर्गुणो यस्य । एतेन वस्तुतोऽज्धर्मत्वमुदात्तादेर्दर्शितम् । तथा हि, अन्तरेणापि हलमच एष धर्मा दृश्यते-आ ते पितर्मरुतां सुम्नमेरु, यथा आकारस्य, नान्तरेणयं व्यञ्जनस्योच्चारणमपि भवति, कुत एव स्वरः ! यदि च हलामप्येते गुणास्ततो हलामचां च पृथक् स्वरोऽप्युपलभ्येत । यतस्तु खल्वचामेव स्वरमनुविदधति हलस्ततो निश्चीयते-अजुपरागादेषु स्वरप्रतिभासो न स्वत इति । अजुपरगश्च पूर्वपरसंनिधानेऽपि परेणैव भवति, न पूर्वेण ।
परिभाष्यन्त इति । केचिदाहुः-प्रदेशे लोकप्रसिद्ध्या हलामचां च ग्रहणे प्राप्तेऽचामेव ग्रहणं नियम्यते इति परिभाषेयमिति ।
अन्ये तु -धर्मिण्यप्रसिद्धत्वात् संज्ञात्वेन परिभाष्यन्ते इति व्याचक्षते । उच्चै रित्यस्याधिकरणप्रधानत्वात् क्रियापेक्षत्वाच्चाधिकरणस्योपलभ्यमान इत्युक्तम् ।।
श्रुतिप्रर्षो न गृह्यत इति । यदि गृह्यते उपांशुप्रयोगे न स्यादित्यव्याप्तिः, श्रुतिप्रकर्षस्य चानवस्थितत्वाद्यदेव कञ्चित्प्रत्युच्चैस्तदेव कञ्चित्प्रति नीचैरिति सर्वमुदात्तं स्यात्, सर्वं चानुदात्तमित्यमतिव्याप्तिव्यस्था च स्याद् इति भावः । स्थानकृतमित्यादि । उच्चता नाम प्रमाणविशेष ऊर्ध्वतापर्यातः, तत्र ताल्वादिबसंन्धो वर्णानामन्तरङ्ग इति स्थानसंबन्धिन्युच्चता गृह्यते, तत्कृतमुच्चैस्त्वं संज्ञिनो विशेषणम् । ननु पूर्वमुच्चैरुपलभ्यमान इति ताल्वादिस्थानवृत्तिरुच्चैः-शब्दो दर्शितः, इह तूच्चैःस्थाननिषपन्नत्वाद् अजेवोच्चैरित्युच्यते इति उक्तिविरोधः, न; पूर्वमक्षरार्थ उक्तः, इह तु वस्त्वर्थो व्याख्यातः । ननु चोच्चैः स्थान उपलभ्यमान इत्याश्रितेऽपि प्रांशुपुरुषोच्चारितोऽनुदात्तोप्युदात्त एव स्याद्, वामनपुरुषोच्चारित उदात्तोऽप्यमुदात्तः स्यात्; तत्रान्योऽन्यमुच्चतानीचतायोगाद्, अत आह-ताल्वादिषु हीति । ताल्वादीनि स्थानानि भागवन्ति, भागाश्चौत्तराधर्येण व्यवस्थिताः । तत्र यः समान इति । एकपर्यायोऽयं समान शब्दः । तेनायमर्थः-एकस्मिँस्ताल्वादिके स्थाने ऊर्ध्वाधरभगयुक्ते ऊर्ध्वभागेनोच्चार्यमाणोऽजदात्तसंज्ञो भवति । एवं चोच्चैरित्यस्योर्ध्वभाग इत्यर्थः । सर्वश्चायमर्थो लोकप्रसिद्धेरेव लभ्यते, सूत्रं तु व्यामोहनिवृत्त्यर्थम् । ऊर्ध्वभागनिष्पत्तेरप्रत्यक्षत्वात् तन्निश्चये लिङ्गमाह-यस्मिन्निति । आयाम इत्यस्य विवरणं निग्रहः । रूक्षतेत्यस्य विवरणम् अस्निग्धतेति । संवृततेति । अणुता । अत एव वायुः शनैर्निष्क्रामन् गलावयवान् शोषयतीति स्वरस्य रूक्षता भवति । ये ते के इति । यत्तत्किंभ्यो जसि त्यादद्यत्वम्, 'जसः शी', आद्गुणः,'एकादेश उदात्तेनोदात्तः ' ।।
नीचैरनुदात्तः ।। 1.2.30 ।।
अजिति वर्त्तते इति । तेन हल् स्रंसनधर्मेणानुदात्तसंज्ञो न भवति, अन्ववसर्ग इत्यस्य विवरणं मार्दवमिति, शैथिल्यमित्यर्थः । मृदुतेत्यस्य स्निग्धतेति । उरुतेत्यस्य महत्तेति । महत्त्वादेव च शीघ्रं वायोर्निष्क्रमणाद्गलावयवानामशोषणात्स्वरस्य स्निग्धता भवति । अनुच्चानीति । सर्वादावेवमेव पठात् । फिषि तु 'सिमस्याथर्वणे' इत्यन्त उदात्त इत्युक्तम् । अनाथर्वणेऽपि तुच्छन्दस्यन्तोदात्तत्वं दृश्यते, आद्रात्री वासस्तनुते सिमस्मै, उच्छ्रुक्रमजते सिमस्मादिति, नमस्ते रुद्रेति, 'तेमयावेकवचनस्य' इत्यत्र 'अनुदात्तं सर्वम्' इत्यधिकारात्तेशब्दोऽनुदात्तः । रुद्रादयोऽप्यामन्त्रितनिघातेन । पदकाले चानुदात्तस्य श्रवणम् । संहितायां तु 'स्वरितात्संहितायाम्' इत्यैकश्रुत्यं भवति ।।
समाहारः स्वरितः ।। 1.2.31 ।।
सामर्थ्याच्चात्रेति । पारिभाषिकयोरुदात्तानुदात्तयोरचोः समाहारूपस्याचः क्वचिदप्यसम्भवः सामर्थ्यम् । ननु च समाहरणं समाहारः, विप्रकीर्णानामेकत्र राशीकरणमेकधर्मयोर्योगो वा, यथा-पञ्चपूली, षण्णगरी दृष्टेति । तत्र पूर्वो मूर्त्तानामेव, उत्तरस्तु धर्मयोरपि सम्भवति; किं तु अचा सामानाधिकरण्यं न घटते, न हि वर्णधर्मयोरुदात्तानुदात्तयोः समुदायरूपः कश्चिदज्भवतीत्यत आह -तौ समाह्रियेते अस्मिन्नचीति । नानेनाधिकरणसाधनत्वं समाहारशब्दस्य दर्शतम् । तत्र हि 'करणाधिकरणयोश्च' इति ल्युटा भवितव्यम् । वासरूपविधिश्च नास्ति; क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीति वचनात् । तस्मादर्थकथनमात्रमेतत् । सामानाधिकरण्यं त्वर्शआदित्वादच्प्रत्ययान्तत्वेन समर्थंनीयम् । शिक्यम्, कन्येति । 'शिल्पशिक्यकाश्मर्यधान्यकन्यारा जन्यमनुष्याणामन्तः' इति फिट्सूत्रेणान्तःस्वरितत्वम् । सामान्य इति । सामसु साधुः 'तत्र साधुः' इति यत्, 'तित्स्वरितम्' । क्वेति । 'किमोऽत्','क्वाति' ।।
तस्यादित उदात्तमर्धह्रस्वम् ।। 1.2.32 ।।
आदौ = आदितः, सप्तम्यन्तात्तसिः । अर्द्धह्रस्वमिति । 'अर्द्धं नपुंसकम्' इति समासः । ह्रस्वशब्द उभयलिङ्गः-'ह्रस्वो नपुंसके', 'ह्रस्वंलघु' इति । तदिह परवल्लिङ्गत्वेन नपुंसकत्वम् । उक्तपरिमाणस्याचो ह्रस्वसंज्ञा कृतेति यत्रैव तस्यार्धमिति दीर्घप्लुतयोरेतद्विभागवचनं न स्यादित्याशङ्क्याह--अर्द्धह्रस्वमिति । चेत्यादि । ह्रस्वस्य हि मात्रा भवति अतोऽर्द्धह्रस्वग्रहणेनार्द्धमात्रोपलक्ष्यते । इह प्रकृतत्वादेव स्वरितस्य विभागाख्यानसिद्धे तस्येति वचनं स्वरितमात्रपरिग्रहार्थम् । यदि चार्द्धह्रस्वग्रहणमर्द्धमात्रोपलक्षणं तत्र स्वरितमात्रपरिग्रहोऽर्थवान् भवति ।
ह्रस्वग्रहणमतन्त्रमिति । अप्रधानम् उपलक्षणत्वाद्, यथा--काकेभ्यो दधिरक्ष्यतामित्यत्र काकाः । नन्वेवमप्याष्टमिकस्वरितस्य विभागो न सिद्ध्यति,तस्यासिद्धत्वात्, नैष दोषः; इत आरभ्य नव सूत्राणि असिद्धकाण्डे 'उदात्तादनुदात्तस्य' इत्यस्मात्पराणि पठितव्यानि, किं प्रयोजनम् ? इदं तावद्विभागाख्यानमाष्टमिकस्यापि भवति । उत्तरत्रापि प्रयोजनं तत्र तत्र वक्ष्यामः ।
एकश्रुतिर्वेति । उदात्तभागस्य पटुत्वात्पटुत्वकृतौ विकल्पः । पटुत्वे हि तदुपरगात्तद्रूपतामिवापन्नो नानुदात्तव्यपदेशमर्हति, नाप्युदात्तव्यपदेशम्; उपरागमात्रत्वात् । तेन भेदतिरोधानलक्षणमैकश्रुत्यं परो भागः प्रतिपद्यते । अन्वर्थं वा एकश्रुतित्वम्, पूर्वभागश्रुतेरेकाऽभिन्नाकारा श्रुतिरस्येति कृत्वा ।
अध्यर्थमात्रानुदात्तेति । एकश्रुतिर्वेति नोक्तम्; पूर्वानुसारेण गम्यमानत्वात्, लघुना वा महतोऽनुपरगात् । माणवका3 माणवकेति । 'स्वरितमाम्रेडितेऽसूया' इति प्लुतः स्वरितः ।।
एकश्रुति दूरात्संबुद्धौ ।। 1.2.33 ।।
इह यद्यप्यामन्त्रितान्तस्य पदस्याप्यभिमुखीकरणं प्रति सामर्थ्यम्, तथापि ह्यर्थविशेषस्य कस्यचिदनुष्ठेयतया । संबोधना=संबुद्धिः, अन्तर्भावितण्यर्थो बुद्धिः, तथा च संबोधयति येनेति णिच् प्रयुक्तः, तत्र च वाक्यस्यैव करणभावो न पदस्येति मत्वाह--एकश्रुति वाक्यं भवतीति । कतरत्पुनस्तदित्यत आह--दूरादिति संबोधनं संबुद्धिरिति । अनेनान्वर्थस्य संबुद्धिशब्दग्रहणं न पारिभाषिकस्येति दर्शयति । पारिभाषिकस्य हि ग्रहणे, देवा ब्राह्मणा इत्यत्र न स्यात् । अन्वर्थग्रहणं च दूरादित्यनेन सम्बन्धाल्लभ्यते, न ह्यामन्त्रितैकवचनस्य दूरत्वमदूरत्वं वा सम्भवति । संबोधनस्य तु क्रियारूपत्वाद् अपादानतया दूरादिति विशेषणसम्भवात् । दूरत्वं च न देशस्वरूपागतमाश्रीयते, अनवस्थितत्वात्; किन्तु सम्बोधनक्रियापेक्षया दूरत्वम् । यावति देशे प्राकृतप्रयत्नोच्चारितं सम्बोध्यमानेन न श्रूयते, किन्त्वधिकं प्रयत्नमपेक्ष्यते, तत्संबुद्धौ दूरं भवति । स्वराणामित्यादि । एकश्रुति=स्वरूपाख्यानम्, भेदीतरोधानमित्यनन्तरोक्तस्यैव विवरणम् ।
आगच्छत्यादि । दूराद्धूते वाक्यस्य टेः प्लुतः उदात्तः, परिशिष्टमेकश्रुति । ननु च प्लुतैकश्रुत्योर्द्वयोरपि दूरात्संबोधनं द्योत्यमिति फलैक्याद्विकल्पो युक्तः, कथं समावेशः ? उच्यते, वाक्यमेव प्रतिपादकत्वात् संबुद्धौ करणं प्लुतैकश्रुतीत्यस्यैव संस्कारमात्रम्, यथा-विषयग्रहणे चक्षुष उन्मीलनादि, तत्कुतः समानफलत्वमिति वाक्यापेक्षया च समावेशः । अन्त्याजपेक्षया तु बाध्यबाधकभाव एव । प्रत्युदाहरथणे त्रैस्वर्यमेव भवति । तत्राङ् 'उपसर्गाश्चाभिवर्जम्' इत्याद्युदात्तः । गच्छेति तिङन्तस्य'तिङ्ङतिङः' इति निघातः । भोःशब्दः 'निपाता आद्युदात्ताः' इति आद्युदात्तः, शेषयोरामन्त्रितनिघातः ।।
यज्ञकर्मण्यजपन्यूङ्खसामसु ।। 1.2.34 ।।
ऐकश्रुत्यमिति । बहुव्रीहेर्भावप्रत्ययः, चातुर्वर्ण्यादित्वाद्वा कर्मधारयात्स्वार्थे ष्यञ् ।
संपाठ इति । स्वाध्यायकाले अग्निर्मूर्धा दिवः ककुत्, 'अङ्गेर्नलोपश्च' इत्यग्निशब्दः प्रत्ययस्वरेणान्तोदात्तः, 'मुर्वीं बन्धने', 'कनिन्युवृषितक्षि' इति वर्ततमाने 'श्वन्नुक्षन्पूषन्तक्षन्' इत्यत्र सूत्रे मूर्धन्शब्दः कनिन्प्रत्यान्तोऽन्तोदात्तो निपातितः । 'दिवु क्रीडादौ', दिवेरन्तो डिविः षष्ठ्येकवचनस्य 'ऊडिदम्' इत्युदात्तम्, ककुच्छब्दः प्रातिपदिकस्वरेणान्तोदात्तः, 'पातेर्डतिः',पतिशब्दः प्रत्ययस्वरेणाद्युदात्तः, प्रथेः षिवन् संप्रसारणं च षित्त्वात् ङीष्, षठ्येकवचनस्य 'उदात्तयणो हल्पूर्वात्' इत्युदात्तत्वम्, इदंशब्दः प्रतिपदिकस्वरेणान्तोदात्तः, आप्नोतेः क्विब् ह्रस्वश्च, 'ऊडिदम्' इति विभक्तेरुदात्तत्वम् । 'रि गतौ', 'स्रुरिभ्यां तुट् च' इति असुन्प्रत्ययः, नित्स्वरेणाद्युदात्तो रेतः शब्दः । जिन्वतीति । जिन्वतेः प्रीणनार्थस्य तिपि निघातः 'प्रणवष्टेः' इति प्रयोगकाले प्रणयः ।
ममेत्यादि । 'युष्मदस्मदोर्ङसि' इत्याद्युदात्तत्वम् । अग्नेशब्दस्यामन्त्रिनिघातः, वर्चशशब्दोसुन्प्रत्ययान्तः, विपूर्वाद् ह्वयतेः 'ह्वः संप्रसारणं च' इत्यप्प्रत्यये थाथादिसूत्रेणान्तोदात्तत्वम् । जपोऽनुकरणमन्त्र इति । यद्यपि स एव मन्त्र उच्चार्यते, तथापि वर्णाभिव्यक्त्यनभिव्यक्तिभ्यां भेदपरिकल्पनयाऽनुकरणव्यवहारः । अत एवाह--उपांशुप्रयोग इति । यथा जले निमग्नस्य पाठः । क्वचिदकरणमन्त्र इति पाठः, अनेनेदं कुर्यादिति चोदितः करणमन्त्रः, ततोऽन्योऽकरणमन्त्रः । प्रसिद्धस्तु पाठोऽन्तः करणमन्त्र इति । ननु वागिन्द्रियेण शब्द उच्चार्यते स कथमन्तः करणेन सर्वेन्द्रियसाधारणेन व्यपदिश्यते, सत्यम्; वागिन्द्रियस्य स्थूलो व्यापार उपांशुप्रयोगे नास्ति, स एव च तद्व्यापारत्वेन प्रसिद्ध इति सूक्ष्मव्यापारे मन एव प्रधानं मन्यते ।
न्यूङ्खा इत्यादि । षोडशेति पाठः, ओकारा इति च, न त्वेते मकारान्ताः, तेषु प्रथमसप्तमत्रयोदशास्त्रय उदात्तास्त्रिमात्राः, इतरे त्रयोदशा अनुदात्ता अर्धौकाराः । एतच्च आश्वलायनेन चतुर्थेऽहनीत्यस्मिन् खण्डे लक्षणेनोक्तमुदाहृतं च । 'षडोङ्काराः' इति पाठे मूलान्तरं मृग्यम् । ए3 विश्वमित्यादि । एशब्दो गीतिपूरणः, निपात इत्यन्ये । विश्वशब्दः क्वन्प्रत्ययान्त आद्युदात्तः, विश्वमन्त्रिणं पाप्मानं संदहेति सम्बन्धः, गीतिवशादेशब्दोऽनेकमात्रः । वाक्यविशेषस्था गीतय इति । तदुक्तमृषिणा-'गीतिषु सामाख्या' इति ।।
उच्चैस्तरां वा वषट्कारः ।। 1.2.35 ।।
वषट्शब्देन चात्र वौषट्शब्दो लक्ष्यते इति । समानार्थत्वाद् द्वावपि हि तौ देवतासंप्रदानस्य द्योतकौ । कारग्रहणं तु ज्ञापकम्-अवर्णादपि कारप्रत्ययो भवतीति । तेन एवकार इत्यादि सिद्धं भवति ।
यद्येवमिति । लक्षणायां हि प्रतिपत्तिगौरवं भवतीति भावः । विचित्रा हीति । क्वचिदक्षरलाघवमाश्रीयते, क्वचित्प्रतिपत्तिलाघवमिति वैचित्र्यम् । उच्चैस्तरामिति । उच्चैःशब्द उदात्तभवने वर्त्तते, तत्र भवनक्रिययापेक्षया प्रत्ययः । उदात्ततर इत्यर्थो विवक्षितः, प्रकर्षश्च वौषट्शब्दे 'ब्रूहिप्रेषयश्रौषड्वहानामादेः' इति यः प्लुतो विहितः तदपेक्षया वेदितव्यः । सन्त्युदात्ताः, अयं तूदात्ततरः । अन्त्यसदेशस्येत्येके । प्लुतोदात्तस्य च विधानसामर्थ्याच्छेषनिघाताभावोऽसिद्धत्वाद्वा द्वयोरप्यचोरुदात्ततरो भवतीत्येके । तदा याज्यान्तापेक्षः प्रकर्षः स्वार्थि कस्तरबित्यन्ये । ततो ह्युदात्तमात्रम्प्रथमस्य सिद्धमिति द्वितीयस्याचो विधीयते । वषट्कारशब्दोऽयं मन्त्रब्राह्ममयोः कल्पसूत्रेषु वौषट्शब्दे निरूढः । वषट् क्रियतेऽनेनेति वषट्कारः । 'मा मान्प्रमृज' इति मन्त्रे, 'त्रयो वै वषट्काराः वौषडिति वषट्करोति' इति ब्राह्मणे च वषट्कारोऽन्त्यः । 'सर्वत्रोच्चैस्तरां बलीयान्याज्याया' इति सूत्रे उच्चैस्तरामिति श्रुतिप्रकर्षो विधीयत इत्याहुः ।।
विभाषा छन्दसि ।। 1.2.36 ।।
यज्ञकर्मणीत्यस्य निवृत्त्यर्थमिति । ननु यद्ययं योगो यज्ञकर्मणि स्यात्, पूर्वो योगो निर्विषयः स्यात् । न च जपन्यूङ्खसामान्यस्य विषयः, जपादिव्यतिरिक्तस्तु पूर्वस्य विषय इति व्यवस्था; तथा हि सत्यत्रैव जपादिग्रहणं कर्त्तव्यं स्यात्, किं छन्दोग्रहणेन ? छन्दोग्रहणात्तु छन्दोमात्रोऽयं विकल्प इति गम्यते, ततश्च यज्ञकर्मणीत्यस्यानुवृत्तौ पूर्वो नित्यो विधिर्निर्विषयः स्यात् ? एवं मन्यते--ऊहमन्त्राणामच्छन्दस्त्वात्ते पूर्वयोगस्य विषया इति छन्दोरूपेषु मन्त्रेष्वयमेव विकल्पः स्यादिति । यद्यूहमन्त्रेषु सावकाशः पूर्वो योगः, तदा यज्ञकर्मणीत्यस्य विभाषाग्रहणेन विर्वृत्तावपि छन्दोरूपेष्वनूहितेषु मन्त्रेषु परत्वादयमेव विकल्पः प्राप्नोति, नैष दोषः; यज्ञकर्मणीत्यत्र कर्मग्रहणं यज्ञानुष्ठानमात्रे सर्वत्र नित्यो विधिर्यथा स्यादित्येवमर्थम् । यद्यप्यूह्यमाना मन्त्रा न भवन्ति, तथाप्यमन्त्राणामेव तेषां यज्ञकर्मणि प्रयुज्यमानानां पूर्वयोगस्य विषयत्वं भवत्येव । ये तु जपादिपर्युदासेन मन्त्राणामेव तत्र ग्रहणमिच्छन्ति, तेषां सामर्थ्यलभ्या यज्ञकर्मणीत्यस्य निवृत्तिरिति विभाषाग्रहणमनर्थकं स्यात् । इष इत्यादि । इडन्नम्, ऊर्ग् बलम् । चतुर्थेकवचनस्य 'सावेकाचः' इत्युदात्तत्वम् । 'त्वामौ द्वितीयायाः' इति त्वादेशोऽनुदात्तः । अग्ने ित्यामन्त्रिताद्युदात्तत्वम् । आङुपसर्गः । याहीति । 'तिङ्ङतिङः' 'वी गत्यादिषु', 'मन्त्रे वृषेषपच' इत्यादिना क्तिन्नुदात्तः, अग्निशब्दोऽन्तोदात्तः । अमि पूर्वत्वम् 'एकादेश उदात्तेनोदात्तः' । ईले इति । 'ईडस्तुतौ' लडुत्तमैकवचनम् । बह्वृचा द्वयोरचोर्मध्ये स्थितस्य डकारस्य लकारं विदधति । पुरोहितम् । 'पुरोऽव्ययम् ' इति गतिसंज्ञा, 'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरः, पुरः शब्दोऽसिप्रत्ययान्तोऽन्तोदात्तः । शन्शब्दो निपातः, नसादेशोऽनुदात्तः देवडिति पचादिषु पठ्यते, टित्त्वान् ङीप्,'अनुदात्तस्य च यत्रोदात्तलोपः' अभिपूर्वादिषेः क्तिनि शकन्ध्वादित्वात् पररूपेऽभिष्टेत्यादौ च 'निति कृत्यतौ' इति पूर्वपदप्रकृतिस्वरेणाभिशब्दस्यान्तोदात्तत्वं चतुर्थ्येकवचनम् ।
न सुब्रह्मण्यायां स्वरितस्य तूदात्तः ।। 1.2.37 ।।
सुब्रह्मण्या नाम निगद इति । अपादबन्धे गदिर्वर्त्तते, यथा गद्यमिति, निशब्दः प्रकर्षे । उच्चैरपादबन्धं यजुरात्मकं यन्मन्त्रवाक्यं पठ्यते स निगदः, नितरां गद्यत इति कर्मणि 'नौ गदनद' इत्यप्, तस्य च सुब्रह्णण्याशब्दोपलक्षितत्वात् सुब्रह्मण्याशब्दोपरित्यक्तिस्त्रीलिङ्ग एव नाम । ओङ्कारस्तित्स्वरेण स्वरित इति सुब्रह्मणि साधुरिति यत्प्रत्ययः, तित्स्वरेण स्वरितः । तस्य टाबेकादेशः स्वरितानुदात्तयोरान्तर्यात् स्वरितः, ततो निपातेर्नौशब्देन 'ओमाङोश्च' इत्युदात्तस्वरितयोरेकादेशः स्वरित एव । 'आमन्त्रितमाद्युदात्तम्' इति आष्टमिकस्तु निघातोऽसमानवाक्यत्वान्न भवति । तस्यानेनेति । न च तस्यासिद्धत्वम्, इदं हि प्रकरणमसिद्धकाण्ड उत्क्रष्टडव्यमित्युक्तम् । अत एवास्मिन्नुदात्ते कृते शेषनिघातोऽपि न भवति; यथोद्देशपक्षेऽनुदात्तपरिभाषायां कर्त्तव्यायाम् असिद्धत्वेन वर्ज्यमानाभावात् । तेनेह द्वावप्युदात्तौ सम्पन्नौ थइति । पश्चिम एकोऽनुदात्त इति । न च तस्य 'उदत्तादनुदात्तस्य' इति स्वरितप्रसङ्गः; प्रकरणोतकर्षेणस्यासिद्धत्वाद्, 'नोदात्तस्वरितोदयम्' इति निषेधाच्च । द्वावनुदात्ताविति । वकारच्छकारौ, शिष्टं स्पष्टम् । 'असावमुष्येत्यन्तः' एतस्मिन्नेव सुब्रह्मण्यानिगदे प्रथमान्तस्य षष्ठ्यन्तस्य चान्त उदात्तो भवति । गार्ग्यो यजते, दाक्षेः पिता यजते--तित्स्वरे प्राप्ते वचनम् । 'स्यान्तस्योपोत्तमं च' स्यशब्दान्तस्योपोत्तममुत्तमं चोभयमुदात्तं भवति । गार्ग्यस्य पिता यजते 'वा नामेधयस्य' । देवदत्तस्य पिता यजते ।।
देवब्रह्मणोरनुदात्तः ।। 1.2.38 ।।
स्वरितस्योदात्ते प्राप्ते इति । कथं प्राप्तः, यावताऽसिद्धः स्वरितः ? एवं तर्ह्येतज्ज्ञापयत्याचार्यः-'तस्यादितः' इत्यारभ्य नबसूत्री 'उदात्तादनुदात्तस्य स्वरितः' ित्यस्मात्परा द्रष्टव्येति । उक्तानि प्रयोजनानि, उत्तरत्र च वक्ष्यामः । सामान्यापेक्षत्वाज्ज्ञापकस्य नवसूत्र्यप्युत्कृष्यते, न सुब्रह्मण्यास्वर एव । द्वयोरपि पदयोरिति । द्वितीयस्य पदत्परस्यापि निघातो न भवति; ' आमन्त्रितं पूर्वमविद्यमानवद्' इति पूर्वस्याविद्यमान्त्वात् । प्रथमस्यापि न भवति; भिन्नवाक्यत्वात् ।।
स्वरितात्संहितायामनुदात्तानाम् ।। 1.2.39 ।।
अनुदात्तानामिति बहुवचनं जातौ, तेनैकस्य द्वयोर्बहूनां च भवति--एकस्य पचति, द्वयोराग्निवेश्यः; बहूनां तु वृत्तावेव दर्शितम् । इतमित्यन्तोदात्तमिति । इदं-शब्दः प्रातिपदिकस्वरेणान्तोदात्तः, विभक्तिरनुदात्ता, त्यादाद्यत्वे 'अमि पूर्वः' 'एकादेश उदात्तेनोदात्तः' । विधिकाल एवेति । यद्यप्यत्र विहितस्यानुदात्तविधानेऽपि न कश्चिद्दोषः, तथापि तत्त्वेन व्यवहर्त्तव्यमित्येवमुक्तम् । तस्मात् स्वरितादिति । न च तस्यासिद्धत्वम्; उत्कृष्टत्वाद् नवसूत्र्यास्तेन कार्यं देवदत्तेत्यादाविवेकश्रुतिर्भवत्येव । गङ्गेप्रभृतीनामिति । न च यमुनेप्रभृतीनां व्यवधानम्; जातेरेकत्वाद्, व्यक्तीनां सतीनामप्यनाश्रितत्वाद् अकिञ्चित्करत्वम् । ततः परेषामिति । 'नामन्त्रिते समानाधिकरणे' इति माणवकशब्दस्याविद्यमानत्वं न भवति ।
ञवग्रहे मा भूदिति । इदमेव च संहिताग्रहणं ज्ञापकम्--पञ्चमीनिर्देशे कालो न व्यवध्यायक इति । तेन 'तिङ्ङतिङः' इत्यवग्रहेऽपि भवति-अग्निमीले ।
उदात्तस्वरितपरस्य सन्नतरः ।। 1.2.40 ।।
परशब्दः प्रत्येकमभिसम्बध्यत इत्याह--उदात्तः परो यस्मादिति । सन्नशब्देन नीचैरर्थ उच्यते, तेनानुदात्तत्वं लक्ष्यत इत्याह--अनुदात्ततर इति । प्रकर्षः स्थान्यनुदात्तापेक्षः । मातर इत्यनुदात्त इति । समासैकदेशो निष्कृष्टानुकृतः, देवा इत्यादीनां त्रयाणामामन्त्रितानामेकीभूतानामाद्युदात्तत्वे शेषनिघातः । 'विभाषितं विशेषचने बहुवचनम्' इति विद्यमानपक्षे चामन्त्रितनिघातः, जसः सकारस्य रुत्वम्, तस्य स्रंसनयुक्तस्य 'अतो रोरप्लुतात्, इति उकारोऽनुदात्तः, 'आद्गुणः' सोऽप्यान्तर्यतोऽनुदात्तः, अच्छब्दाकारस्य शेषनिघातः, तयोरनुदात्तयोः 'एङः पदान्तादति' इत्येकादेश आन्तर्यतोऽनुदात्तः । सरस्वतीकारस्येति । ननु च नवसूत्र्युत्कृष्यत इति ज्ञापितम्, ततश्च गङ्गेप्रभृतीनामिव सरस्वतीकारस्यापि पूर्वेणैकश्रुतिरेव प्राप्नोति, कः पुनः सन्नतरस्यावकाशः, यः स्वरितात्परो न भवति ? अग्निरिति । न च विप्रतिषेधेन सन्नतरो लभ्यते; पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य । एवं तर्हि 'न मु ने' इत्यत्र नेति योगविभागात् सिद्धत्वं भविष्यति । इह देवदत्तस्य न्यङ् इति 'न्यधी च' इति पूर्वपदप्रकृतिस्वरे 'उदात्तस्वरितयोर्यणः' इत्यञ्चत्यकारस्य स्वरितः पूर्वस्य सन्नतरं प्रत्यसिद्धो न भवति; प्रकरणोत्कर्षाद् । 'उदात्तस्वरितयोः' इत्येव सिद्धे परग्रहणं बहुव्रीहावेकवचनविवक्षार्थमिति गङ्गेप्रभृतीनां सन्नतराभावः ।।
अपृक्त एकाल् प्रत्ययः ।। 1.2.41 ।।
घृतस्पृगिति । 'क्विन्प्रत्ययस्य कुः' इति कुत्वम् । अर्थभागिति । अत्र 'वेरेपृक्तस्य' इति लोपः प्रयोजनम् । एकाल्ग्रहणं किमिति । समुदायद्वारेणायमेकपदविषयः प्रश्नः, अन्यथा प्रत्ययमात्रस्य संज्ञा स्यादिति प्रदेशेषु प्रत्ययग्रहणमेव कर्तव्यं स्यात्, किं सञ्ज्ञया ! यत्र यद्यलन्तस्य स्यात्, केवलस्य चाप्यन्तवद्भावात् अल्ग्रहणं व्यर्थं स्यादिति तत्सामर्थ्यादल्समुदायस्य न भविष्यतीति भावः ।
दर्विरिति । 'दॄ विदारणे' औणादिको विन् प्रत्ययः । वर्णग्रहणे जातिग्रहणादल्समुदाया गृह्यन्ते इति भावः । स्यादेतत्-'वेरपृक्तस्य' इत्यत्र 'वोऽपृक्तस्य' इत्यस्तु, क्विबादिषु च मा भूदिकारः, न चान्यः प्रत्ययो वकारोऽस्तीति, तन्नः 'राजनि युधिकृञः' राजकृत्वा, तमाचष्ट इति णिचि टिलोपे क्विपि णिलोपे च कृते क्वनिपः सम्बन्धी प्रत्ययो वकारोऽस्ति । अवश्यं च क्विबादीनामुच्चारणार्थे कश्चिदजासंजनीयः, तत्राकारे 'सॄशृभ्यां वः' इत्यादिष्वपि लोपः प्रसज्येत । उकारे तु ण्वुलादिषु । अन्यत्र तु गौरवमिति यथान्यासमेव साधीयः । ननु च यद्यल्समुदायोऽपि गृह्यते, अल्ग्रहणमनर्थकं स्याद् । अतो यद्यपि 'निपात एकाजनाङ्' इत्यत्रैकग्रहणाद्वर्णग्रहणे जातिग्रहणं ज्ञापितम्, तथाप्यत्राल्ग्रहणसामर्थ्यात्समुदायस्य न भविष्यतीति चिन्त्यप्रयोजनमेकग्रहणम् । तथाऽपृक्तप्रदेशऱेष्वल्ग्रहणेनैव सिद्धे नार्थः संज्ञया; नतराम्महत्या, नतमाम्पूर्वनिर्द्दिष्टया ।
सुरा इति । सुरां सुनोतीति क्विपि तुक् सुरासुतमाचष्टे इति णिचि टिलोपः क्विब् णिलोपः, अत्र धातुसकारस्य 'हल्ङ्याब्भ्य' इति लोपो न भवति, प्रत्ययपरिभाषया सिद्धम् । तिपा साहचर्याच्चैकवचनस्य ग्रहणं सिद्धमिति प्रत्ययग्रहणमपि चिन्त्यप्रयोजनमेव ।।
तत्पुरुषः समानाधिकरणः कर्मधारयः ।। 1.2.42 ।।
अत्र 'तत्पुरुषः' 'समानाधिकरणः' इति द्वयोरपि पदयोर्मुख्यार्थत्वे ब्राह्मणराज्यं शोभनमित्यादौ यत्र बाह्येन पदेन तत्पुरुषस्य सामानाधिकरण्यं तत्रैव संज्ञा स्याद्, न तु परमराज्यमित्यादौ; शब्दान्तरस्याप्रयोगादित्यन्यतरद्गोणार्थमिति स्थिते कामचाराद्यदि तत्पुरुषशब्दो गौणः स्यात् तत्पुरुषार्थानि पदानि समानाधिकरणानीति, ततः सहग्रहणाभावात् प्रत्यकं संज्ञा इति शङ्क्येत, अतस्तत्पुरुष इति पदं मुख्यार्थमित्याह-तत्पुष इति । समासविशेषस्येत्यादि । इतरद्गौणार्थमित्याह-समानाधिकरणपद इति । समानाधिकरणानि पदान्याश्रयत्वेन यस्य सन्ति स तथोक्तः; अवयवद्वारकं सामानाधिकरण्यमौपचारिकमपि पदान्तनिरपेक्षमन्तरङ्गमिति तदेवाश्रीयत इति भावः । भवति ह्यवयवधर्मेण समुदायस्य व्यपदेशः, यथा-समं चूर्णमिति । अत्र ह्यवयवद्वारकं चूर्णस्य साम्यम्, न तु कृत्स्नस्य चूर्णस्यान्येन । परमराज्यमिति, अकर्मधारयेराज्यम् इत्यत्राकर्मधारय इति निषेधादुत्तरपदाद्युदात्तत्वाभावे समासान्तोदात्तमेव भवति । पाचकवृन्दारिकेति । 'न कोपधायाः' इति प्रतिषेधं बाधित्वा 'पुंवत्कर्मधारय' इति पुंवद्भावो भवति ।
तत्पुरुष इति किमिति । प्रतिपदोक्तत्वादधिकारावगतेर्वा समानाधिकरणाधिकारविहितस्तपुरुष एव प्रतिपत्स्यत इति प्रश्नः । पाचिकाभार्य इति । अयमेवार्थो दुरवधार इति भावः । ब्राह्मणराज्यमिति । अत्रोत्तरपदाद्युदात्तत्वमेव भवति । अथ 'पूर्वकालैक' इत्यस्य प्रकरणस्यान्ते 'कर्मधारय' इति कस्मान्नोक्तम्, योऽयं समानाधिकरणाधिकारविहितस्तत्पुरुषः स कर्मधारय इति, एवं हि 'तत्पुरुषः समानाधिकरण' इति न वक्तव्यं भवति ? सत्यम्; एकसंज्ञाधिकारात्तु कर्मधारसंज्ञया तत्पुरुषसंज्ञाया बाधः स्यादिति द्विगोरिव पुनस्तत्पुरुषसंज्ञाविधानाय कर्मधारयपदमुपादेयम् । पुनश्च पर्यायप्रसङ्गे समावेशाय चकारोऽपि वक्तव्यः नन्वेवं करिष्यते-द्विगुकर्मधारयौ चेति ? एवं तु न कृतमित्येव ।।
प्रथमानिर्दिष्टं समास उपसर्जनम् ।। 1.2.43 ।।
समास इत्यधिकरणनिर्देशोऽयम् । कष्टश्रितादयश्च समासाः, तेषु किं प्रथमानिर्द्देष्टं भवितुमर्हति ? समासे सति यस्मात्प्रथमा विधीयते, न च तथाभूतं सम्भवति । समासे हि कृते तत एव प्रथमोत्पद्यते, न तदवयवाद् । अन्तर्वर्तिन्या च विभक्त्या श्रितशब्द एव प्रथमानिर्दिष्टो न कष्टशब्दः । सापि न समासे सत्युत्पन्ना, किं तर्हि ? वाक्यकाल एव । निर्दिष्टग्रहणं चानर्थकं स्यात्, समासे प्रथमान्तमित्येव वाच्यं स्या्द्, अतो मुख्यस्यासम्भवाद्गौणः समासो गृह्यते इत्याह-प्रथमयेत्यादि । कथं पुनः समास इति शास्त्रस्य ग्रहणमित्याह-समासविधायीति । समासविधायित्वात्तादर्थ्यात्ताच्छब्द्यमित्यर्थः । निर्दिष्टग्रहणादेव च तुल्येऽपि समासार्थत्वे वाक्यं न गृह्यते, न हि तत्र निर्देशार्था प्रथमा, अर्थप्रयुक्तत्वात् । द्वितीयेत्येतत्प्रथमानिर्दिष्टमिति । प्रथमया विभक्त्या उच्चारितम् । यद्येवम्, तस्यैव संज्ञा स्यान्न कष्टादीनाम्, न हि ते शास्त्रे प्रथमानिर्दिष्टाः । य एव द्वितीयेत्यस्य प्रथमानिर्देशः, स एव कष्टादीनामपि; तत्परत्वात्तस्य । यथा वक्ष्यति-'तस्येति सामान्यं विशेषोपलक्षणार्थं तदीयप्राथम्यं विशेषाणां विज्ञायते' इति । कष्टश्रितादिषूपसर्जनत्वात् पूर्वनिपातः । महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम् । लोकेऽप्रधानमुपस्रजनमुच्यते, इहाप्यप्रधानमुपसर्जनम् । प्रधानमप्रधानमिति च सम्बन्धिशब्दावेतौ, तेन यत्प्रति यदप्रधानं तदेव प्रति तदुपसर्जनं भवति, तेन राज्ञः कुमारीश्रित इति 'द्वितीया श्रित' इत्यत्र प्रथमानिर्दिष्टस्यापि कुमारीशब्दस्य संज्ञा न भवति । यदि स्यात्, पूर्वनिपातानियम उपसर्जनह्रस्वत्वं च स्यात् । अन्वर्थत्वे तु श्रितादीनेवापेक्ष्य द्वितीयान्तमुपसर्जनमिति न प्रसङ्गः । एवं राज्ञः कुमार्या इत्यत्र द्वयोरपि 'षष्ठी' इत्यत्र प्रथमानिर्देशेऽपि कुमारीमपेक्ष्य राज्ञ उपसर्जनत्वम्, न तं प्रति तस्याः । यद्यन्वर्थसंज्ञा, नार्थोऽनेन, प्रदेशेष्वेवान्वर्थग्रहणमस्तु । वाक्येऽपि तर्हि स्यात्-कुमारीं श्रिता गवां कुलम् । अथ संज्ञाविधिर्वाक्ये कस्मान्न भवति, यावता 'समासे' इति प्रथमानिर्देशस्याधारो न संज्ञायाः ? तथा गोकुलं कुमारीपुत्र इत्यत्र समासेऽपि पूर्वनिपातवद् ह्रस्वत्वं कस्मान्न भवति ? तस्मात्सत्येवोपसर्जनत्वे उपसर्जनगोशब्दन्तस्योपसर्जनत्वात् स्त्रीप्रत्ययान्तान्तस्य प्रातिपदिकस्य ह्रस्वविधानात्समासाधिकारे पूर्वनिपातवचनाच्च वाक्ये तौ न भवत इति वाच्यम् । संज्ञाविधानं तून्मत्तगङ्गमित्यादौ द्वयोरप्यप्राधान्ये पूर्वनिपातनियमार्थम् । यत्र चानन्यार्थः प्रथमानिर्देशस्तत्र प्रथानस्यापि यथा स्यादित्येवमर्थं च । यथा-पाचकवृन्दारकः, पुरुषव्याघ्रः, अर्द्धपिप्ली, पूर्वकाय इति अत्र 'वृन्दारकनागकुञ्जरैः पूज्यमानम्', 'उपमितं व्याघ्रादिभिः','अर्द्धं नपुंसकम्','पूर्वापराधरोत्तरम्' इति प्रथमानिर्देशस्येदमेव प्रयोजनम्; समासस्य विशेषणं विशेष्येण षष्ठीत्येव सिद्धत्वाद् । न च पूज्यमानतादिविषय एव यथा स्यादिति नियमार्थस्तदारम्भः ? उपसर्जनसंज्ञार्थत्वेऽर्द्धादिपूर्वपदस्य विशिष्टरूपस्यार्द्धपिप्पलीत्यादेः समासस्य विधिसम्भवात् तस्मादेतदर्थापि संज्ञा । अन्वर्थत्वं तु सति संभवे व्यवस्थापकम् ।।
एकविभक्ति चापूर्वनिपाते ।। 1.2.44 ।।
विभक्तिशब्दः सुपां वाचकः, कारकशक्तिवचनो वा; विभज्यतेऽनया प्रातिपदिकार्थ इति कृत्वा । समासे विधीयमाने इति । यदुपमर्दनेन समासो भवति तस्मन्वाक्य इत्यर्थः, समासरूपप्राप्त्यभिमुखे पदत्रय इति यावत् । एतन समासार्थं वाक्यमत्र समासः, न पूर्वसूत्र इव शास्त्रमिति दर्शयति । शास्त्रे सर्वमेविभक्तिमित्येकविभक्तीत्यनर्थकं स्यात्, मुख्येऽपि समासे प्रत्ययलक्षणेनैकविभक्तित्वं समर्थनीयमिति वाक्यमेवात्र समासः । एकस्मिंश्च प्रयोगे सर्वमेकविभक्तिकमिति विशेषणओपादानसामर्थ्यतप्रयोगभेदेनापि यस्य न सर्वविभक्तित्वं तदाश्रीयत इत्याह-यन्नियतविभक्तिकमिति । एतदेव स्पष्ययति-द्वितीये सम्बन्धिनीत्यादि ।
केचिदाहुः-'येन सह समास्यते द्वितीयसम्बन्धी' इति, एवं तु पञ्चानां खट्वानां समाहारः पञ्चखट्वीति वा टाबन्त इति स्त्रीलिङ्गपक्षे उपसर्जनह्रस्वत्वं न स्यात् । समाहारो ह्यत्र नानाविभक्तियुक्तो न पञ्चञ्शब्दः, तस्मातप्रधानार्थवाची शब्दो द्वितीयः सम्बन्धः । निष्कौशाम्बिरिति कौशाम्बीशब्दो निष्क्रमणक्रियापेक्षयाऽपादानशक्तिियोगात् पञ्चम्यन्ते एव, न तस्य क्रियान्तरमपेक्ष्य शक्त्यन्तरावेशः सम्भवति । निःशब्दस्तु निष्क्रान्तप्रधानो नानाशक्तिभिर्युज्यते ।
निष्कौशाम्बिरिति । कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी, 'गोस्त्रियोरुपसर्जनस्य' इति ह्रस्वः । निर्वाराणसिरिति । अनो जलं तद्वरं यस्याः सा वराणा गङ्गा, तस्या अदूरभवा नगरी वाराणसी । पुराणे तु वरणा चासिश्च नद्यौ, शकन्ध्वादिः, तयोरदूरभवा पृषोदरादित्वाद्रेफाकारस्य दीर्घः । निसः पूर्वेणोपसर्जनत्वम्, प्रधानस्यापि हि प्रथमानिर्देशसामर्थ्यात् भवतीत्युक्तम् । इहास्यावकारशोऽप्रथमानिर्द्दिष्टः, पूर्वस्यावकाशोऽनेकविभक्तिः नीलोत्पलादिः, अर्द्धिपिप्पल्यादिश्च; कष्टश्रितादिषु कष्टादय एकविभक्तिकाः प्रथमानिर्दिष्टाश्चेत्युभयप्रसङ्गे परत्वादनेनैव प्राप्नोति, ततश्च'अपूर्वनिपाते' इति प्रतिषेधप्रसङ्गः, न; अप्रतिषेधात् । नायं प्रसज्यप्रतिषेधः-पूर्वनिपाते नेति, किं तर्हि ? पर्युदासोऽयम्, पूर्वनिपाते न विधिर्न प्रतिषेधः । प्रसज्यप्रतिषेधेऽप्यनन्तरप्राप्तिः प्रतिषिध्यते, कुत एतद् ? अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा भवति, पूर्वा प्राप्तिरप्रतिषिद्धा तया भविष्यति । न चेयं प्राप्तिः पूर्वां प्राप्तिं बाधते, प्रतिषिद्धत्वात् ।।
अर्थवदधातुरप्रत्ययः प्रातिपादकम् ।। 1.2.45 ।।
अभिधेयवचनोऽर्थशब्द इति । न प्रयोजनवचनोऽव्यभिचारात्; न निवृत्तिवचनः, स्वयं निवृत्तस्य किं संज्ञया ! न धनवचनः, स्वस्वामिभावस्यासम्भवात् । तच्चाभिधेयं चतुर्द्धा-चातिगुणक्रियाद्रव्यभेदेन; गौः, शुल्कः, पाचकः, डित्थ इति । यद्यर्थवतः संज्ञा, अभावशशविषाणादीनां न प्राप्नोति; अर्थाभावात् । मा भूदनेन, समास इति भविष्यति ? न; अर्थंवदित्यनुवृत्तेः । अन्यर्थाऽनर्थकेऽत्र विधिसम्भावत् समासग्रहणं नियमार्थं न स्यात्, उच्यते; येषां तावद्भूतलाद्याश्रयं घटादिप्रतियोगिकं नास्तीति बुद्धिबोध्यं तत्त्वान्तरमभावस्तन्मते तेनार्थेनार्थवत्त्वम्; येषामप्याश्रयाभिमतं भूतलादिस्वरूपमेव तद्बुद्धिविशेषो वा प्रतियोगिनो घटादेरभावस्तन्मते तेनैव भूतलादिनार्थऽवत्त्वमित्यभावस्य तावत्सिद्धा संज्ञा । शशविषाणमित्यत्रापि गवादिष्वनुभूतविषाणं शशमस्तकवर्तितया बुद्ध्योत्प्रेक्ष्य तस्यैवाभिधानाय शब्दप्रयोगः । बुद्ध्युपारोह एव चार्थस्य शब्दप्रयोगे कारणम्, न बहिः सत्ता । यदि बहिः सन्तमेवार्थं शब्दा अभिदधति; घटो नास्तीति प्रयोगो न स्याद्; एकत्र पौनरुक्त्याद्, अपरत्र विरोधाद् । बुद्ध्युारूढस्य बहिः सत्त्वासत्त्वाप्रतिपादनायोपपद्यते प्रयोगः । एवमपाक्षीत्, पक्ष्यति, अस्य सूत्रस्य शाटकं वयेत्यादावपि बुद्ध्युपारूढ एव पच्यादीनामर्थः; न तु शब्दप्रयोगकाले बहिः सिद्धः ।
डित्थादीन्यव्युत्पन्नान्युदाहरणानि । व्युत्पत्तौ कृदन्तत्वादेव सिद्धम् । सर्वनाम धातुजमित्यत्रापि पक्षेऽव्ययार्थमनुकरणशब्दार्थं च सूत्रमारभ्यमेव । ननु लौकिके प्रयोगे शब्दानामर्थवत्ताध्यवसायः, स च वाक्यस्यैव पदस्य वा विभक्त्यन्तस्य; न तु प्रकृतिभागमात्रस्येति कथं तस्य निष्कृष्यार्थवत्त्वनिश्चयः ! येषां हि सहैव प्रयोगस्तेषां सङ्घातस्यैवार्थवत्ता यथा वर्णानाम् ? उच्यते; अन्वयव्यतिरेकाभ्यां शब्दार्थनिश्चयः, यस्य शब्दस्यान्वये योऽर्थः प्रतीयते, व्यतिरेके च व्यतिरिच्यते स तस्यार्थः । वृक्षौ वृक्षा इत्यादौ च प्रत्ययसामान्यव्यभिचारेऽपि तद्विशेषव्यभिचारः, वृत्तौ सामान्यव्यभिचारश्च वृक्षखण्डं वार्क्षी शाखेति, अर्थस्तु मूलस्कन्धफलपलाशादिमान् यावद्वृक्षशब्दं प्रतीयते ।
नान्तस्यावधेरिति । ननु 'वन षण सम्भक्तौ','धन धान्ये' इत्येतयोर्धात्वोरेतौ शब्दौ पचाद्यचि व्युत्पादितौ, तत्राधातुरिति निषेधो भविष्यति । एवं तर्ह्यव्युत्पत्तिपक्ष एतदुक्तम्, अत एवोदाहरणत्वेनाप्यनयोरुपन्यासः । किं चासत्यर्थ वद्ग्रहणे प्रतिवर्णं संज्ञाप्रसङ्गः, न च प्रतिवर्कणं धातुसंज्ञा, न चाधातुरप्ररत्यय इति पर्युदासाश्रयणाद् अर्थवतो ग्रहणम् । अनर्थकयोरपि धातुप्रत्यययोः सम्भवाद्, यथा-अधीते, यावक इति । अत्र ह्यधिपूर्वस्येङोऽर्थवत्त्वं न तु इङि; तस्य क्वचिदप्यप्रयोगाद् । यावक इत्यत्रापि यावशब्दस्यैवार्थवत्त्वं न तु कनः; अन्तरेणापि तदर्थावगमात् । न च ज्ञायते-केन धर्मेण सादृश्यमिति ! न चार्थवद्ग्रहणपरिभाषयार्थवतो ग्रहणम् ? एषा हि नियतरूपोपादाने व्यवस्थापयति, न चात्र रूपविशेषोपादानम् । ननु सत्यामप्यनर्थकस्य संज्ञायां संख्याकर्मादिषु विधीयमानाः स्वादयो न भविष्यन्ति, नैतदस्ति; अविशेषेणोत्पद्यन्ते, उत्पन्ना नामर्थनियमः, ततश्चाव्ययवत् स्वादयः स्युरेव । नलोपो हि स्यादिति । विभक्तेस्तु श्रवणं न भवति, समुदायस्यापि पृथक् प्रातिपदिकसंज्ञायां तदन्तर्भावाल्लुको भावात् । यद्येवम्, द्विर्वचनन्यायेनावयवस्य न भविष्यति, युक्तं तत्र पज् इत्यत्र येनैवाचा समुदाय एकाच्, तेनैव तदवयवोऽच्छब्दः पशब्दश्च; न चैकस्यैकदाऽनेकं प्रत्यवयवत्वं निरूपयितुं शक्यम् । किञ्च--समुदायद्विर्वचनेनावयवा अपि द्विरुच्यन्ते, तदात्मकत्वात्त्स्य । इह त्ववयवानां समुदायस्य च संज्ञानिबन्धनं शब्दत्वं पृथगेव । तत्र समुदायस्य यत् तेन यस्यैव कार्यं नावयवानाम् । ननु च एति, आभ्याम्, औपगवः, अ अपेहीति, धातुप्रातिपदिकप्रत्ययनिपातानामेकवर्णानामर्थदर्शनात् वृक्षादिष्वपि वर्णा अर्थवन्तः, तथा कूप इति ककारे सति कश्चिदर्थो गम्यते, यूप इति यकारोपजनेऽर्थन्तरम्, तेन मन्यामहे यः कूपे कूपार्थः स ककारस्य, यो यूपे यूपार्थः स यकारस्येति; तथा 'ब्राह्मण' इत्युक्ते योऽर्थो गम्यते नासौ बकारादीनामन्यतरापायेऽपि गम्यते । येषां च संघातो यत्कार्यं करोति प्रत्येकमपि तत् कुर्वन्ति, यथा-तिलानां खारी तैलमुत्पादयति, प्रत्येकं च तिलाः । ये च यस्मिन् प्रत्येकमसमर्थास्तेषां संघातोऽपि तत्रासमर्थः, यथा-प्रत्येकं सिकतास्तैलं नोत्पादयन्ति तथा खार्यति तासाम् । अतः संघातार्थवत्त्वाच्चार्थवन्तो वर्णाः, तत्कथमर्थवद्ग्रहणे सत्यपि तेषां निवृत्तिः । अनर्थकास्तु, प्रतिवर्णानामर्थानुपलब्धेः, न हि 'ब्रा' इत्युक्ते कश्चिदर्थो गम्यते । अतो धात्वादीनामेकवर्णानामर्थवत्त्वाद् अन्यऽपि वर्णा अर्थवन्त इत्यनुपलब्धिबाधितमेतद् । एवमन्येऽपि हेतवो बाधितविषयाः । किं च कूपो यूप इत्यन्वयव्यतिरेकाभ्यां ककारयकारयोर्थवत्त्वे यूप इति चतुर्णां वर्णानामानर्थक्यमभ्युपगतं स्यात्; अथ तेषामर्थवत्त्वं भूयिष्ठः कूपे यूपार्थः स्यात्, कूपार्थश्च यूपे, यत्र भूयसामर्थवतामन्वयः, व्यतिरेकस्तु कस्यचित्; तत्रार्थानामपि भूयसानुमपृत्तिर्भवति, व्यतिरेकस्तु कस्यचिद्; यथा देवदत्त गामभ्याज शुक्लाम्, देवदत्त गामभायाज कृष्णामिति । अतः संघाता एव तेनार्थवन्तः । संघातार्थवत्त्वाच्चेति हेतुरनैकान्तिकः, तैलाग्निवर्तिसंघातेन दीपः, न प्रत्येकम्, रथावयवैश्चक्रादिभिः संहतैर्व्रजिक्रिया । किञ्चार्थवतां विपर्यासेऽर्थप्रत्ययस्यापि विपर्यासः-आहर पात्रं पात्रमाहरेति, अपाये चापायः-गामभ्याज शुक्लां गामभ्याजेति, उपजने चोपजनः-गामभ्याज शुक्लामिति । वर्णेषु तु नैवम्, हिनस्तीति सिंहो हन्ति हतः घ्नन्ति । अतः संघाता एवार्थवन्तः ।
अहन्निति । हन्तेर्लङि तिप् 'इतश्च' लोपे हल्ङ्यादिलोपोऽट्, स हन्ग्रहणेनैव गृह्यते, अत्र प्रागेव लङुत्पत्तेः संज्ञायां तस्यामुत्तरकालं पदत्वे सति नलोपः स्यात् । यद्वा प्रातिपदिकसंज्ञा पदसंज्ञासमकालेमेव स्यात्, न वाऽप्रत्यय इति प्रतिषेधः; 'न ङिसम्बुद्ध्योः' इति लिङ्गात्; अन्यथा हे राजन्नित्यादावप्रत्यय इति निषेधादप्रातिपदिकत्वादेव नलोपप्रसङ्गात् ।
अधातुरिति शक्यमकर्तुम्, 'सुपो धातु' इति धातुगुरहणं ज्ञापकम्-न धातोरियं संज्ञेति । नैतदस्ति ज्ञापकम्, प्रतिषिद्धार्थमेतत् स्यात्, श्येनायत इत्यादावप्रत्यय इति निषिद्धा संज्ञेति भिद्, भूः, पूरित्येवमादौ क्विबन्तत्वे कृदन्तत्वादुत्तरसूत्रेण संज्ञा । न च तस्या अपि प्रतिषेधोऽयम्, 'मध्येऽपवादाः' इति न्यायात्, पर्युदासत्वाद्वा ।
काण्डे इति । प्रथमाद्विवचनस्य 'नपुंसकाच्च' इति शीभावः, अप्रत्यय इति च प्रत्ययग्रहणपरिभाषया तदन्तस्य निषेधः । यत्र हि प्रत्ययः संज्ञिरूपेऽनुप्रविशति, यथा- 'तरप्तमपौ घः' इति, तत्र पदसंज्ञायामन्तवचनेन तदन्तविधिप्रतिषेधः । इह तु पर्युदासे प्रत्ययव्यतिरिक्तः संज्ञी, प्रसज्यप्रतिषेधेऽपि न संज्ञाविधौ प्रत्ययग्रणं, किं तर्हि ? प्रतिषेध इति, नास्ति निषेधः । ननूत्तरसूत्रे कृत्तद्धितग्रहणं नियमार्थं भविष्यति-प्रत्ययान्तस्य यदि भवति कृत्तद्धितान्तस्यैवेति, उच्यते; अस्मिन् सत्यप्रतिषेधे संज्ञाविधौ तदन्तविधिप्रतिषेधात्प्रत्ययस्य यदि भवति कृत्तद्धितस्यैवेति स्थानिनियमः स्यात् । सति त्वस्मिन्, अत्र तावत्प्रत्ययान्तस्य निषेध इति उत्तरसूत्रेऽपि तद्धितान्तस्य ग्रहणं भवति । अथ क्रियमाणेऽप्यप्रत्यय इत्यस्मिन्नपुंसकह्रस्वत्वं कस्मान्न भवति ? पर्युदासे तावत्प्रत्ययाप्रत्यययोरेकादेशस्य पूर्वं प्रत्यन्तवद्भावः, प्रसज्यप्रतिषेधेऽप्यन्तरङ्गत्वात् प्रागेव प्रत्ययोत्पत्तेः काण्डशब्दस्य प्रवृत्ता संज्ञेति एकादेशस्यान्तवद्भाव इत्यास्त्येव प्रातिपदिकत्वम् । तथा च ब्रह्मबन्धूरित्यूङेकादेशस्यान्तवत्त्वात् स्वाद्युत्पत्तिः । न चाप्रत्यय इत्यस्य वैयर्थ्यम्; त्रपुणी इत्यादौ यत्रैकादेशत्वं नास्ति तत्रार्थवत्त्वात् । एवं तर्हि नपुंसके यद्वर्तते तस्यह्स्वः, विभक्त्यन्तं तु संख्याप्रधानं कारकशक्तिप्रधानं च, न च तयोर्लिङ्गयोगः, न चान्यवद्भावेनार्थः शक्योऽतिदेष्टुमिति न भवति ह्स्वः । यद्येवम्, त्रपुणी इत्यादावप्येवमेव न भविष्यति, नार्थोऽनेन, न चान्यः प्रत्ययान्तो व्यावर्त्यः सम्भवति । तथा हि, षड्विधाः प्रत्ययाः--सनादयः, कृतः तिङः, सुपः, स्त्रीप्रत्ययाः,तद्धिताश्चेति । प्रतिपदिककार्यमपि 'ह्रस्वो नपुंसके प्रातिपदिकस्य' 'गौस्त्रियोरुपसर्जनस्य' इति ह्रस्वत्वम्, 'ङ्याप्प्रातिपदिकात्' इति प्रत्ययविधिश्च । तच्च कृत्तद्धितान्तस्येष्यत थएव । सन्प्रभृतिषु येषां तावद्धातुत्वं तेषामधातुरित्येव प्रतिषेधः, श्यन्शबादीनामपि विकरणानां लिङ्गाभावः, संख्याकर्माद्यभावोऽपत्याद्यर्थायोगश्च । एवं तिङन्तानाम्, यथा-यः पचतिरूपम्, तस्यापत्यम् इति रूपबन्तत्वात्सत्यपि प्रातिपदिकत्वे । ये तु सम्भवन्ति स्वार्थिकास्ते 'तिङश्च' इति ज्ञापकान्न भवन्ति । स्त्रीप्रत्ययानां तु विरुद्धेन नपुंसकेनायोग एव, कुमारीपुत्र इत्यत्र 'गोस्त्रियोः' इति ह्रस्वः स्यादिति चेद् ? अथ क्रियमाणेऽपि प्रतिषेधे राजकुमारीपुत्र इत्यत्र कस्मान्न भवति, अत्र हि समासत्वादस्त्येव प्रातिपदिकत्वम् ? अतो यस्तत्र परिहारः, स एवात्रापि भविष्यति । प्रत्ययविधिस्त्विष्यत एव । 'ङयाप्प्रातिपदिकात्' इति सुबन्तस्य ह्रस्वत्वं न प्राप्नोतीत्युक्तमेव । सुपां चाप्रसङ्गः; तद्विधानदशायां तदन्तस्यासम्भवात्, लिङ्गाभावात् स्त्रीप्रत्ययाभावः । तद्धितास्त्विष्यन्त एव 'समर्थानां प्रथमाद्वा' इति । अतो नार्थोऽनेन, उत्तरसूत्रे तद्धितग्रहणेन च, उच्यते; 'बहुषु बहुवचनम्' 'कर्मणि द्वितीया' इत्यादिनां स्वादिविधिवाक्येन भिन्नवाक्यतापक्षे सर्वेभ्यः प्रत्ययान्तेभ्यः स्वादयः स्युः यथा-अव्ययेभ्यः । विकरणान्ताच्च स्वार्थिकास्तद्धिताः स्युरेवेत्यतोऽप्रत्ययग्रहणं कर्त्तव्यं तद्धितग्रहणं च । काण्डे कुड्य इत्येतयोस्तु प्रत्युदाहरणत्वम् 'हस्वो नपुंसके' इत्यत्रोपपादयिष्यामः ।
अथ प्रत्यायमात्रस्य संज्ञा कस्मान्न भविष्यति, सत्यां हि संज्ञायामुक्तेन न्यायेन बहुपटव इत्यादौ स्वादयः स्युः ? उच्यते-व्यपदेशिवद्भावेन प्रत्ययान्तवद्प्रत्यय इति प्रतिषेधो भविष्यति । यद्येवम्, कृत्तद्धितमात्रेऽपि विधिसम्भवात् उत्तरसूत्रे तदन्तविधिर्न भवति । अत्र परिहारं वक्ष्यामः ।।
कृत्तद्धितसमासाश्च ।। 1.2.46 ।।
कृतो विहितास्तदादय इति वेदितव्यम् । अत्र हि कृद्ग्रहणपरिभाषा नोपतिष्ठते, तेन मूलकेनोपदंशमिति वाक्यस्य संज्ञा न भवति । मध्येऽपवादन्यायेन ह्यप्रत्यय इति निषेधः कृद्ग्रहणेन बाध्यते, न तु समासग्रहणेन कृतो नियमः । संज्ञाविधौ प्रत्ययग्रहणेऽप्यत्र तदन्तविधिर्भवतीत्यत्रीपपत्तिमाह--अप्रत्यय इति । प्रत्ययान्तस्य निषेधो न केवलस्य प्रत्ययस्येत्याश्रित्यैतदुच्यते । अप्राप्तप्रापणं विधिः, न च तदा कृत्तद्धितमात्रस्याप्राप्ता संज्ञा तदन्तस्यत्वप्राप्तेति विध्यर्थत्वात्तदन्तस्यैव ग्रहणम् । येषां तु पूर्वत्र प्रत्ययमात्रस्यापि निषेधस्तेषामर्थवद्ग्रहणानेवृत्तेरर्थवद्विशेषस्य तदन्तस्य ग्रहणं समासग्रहणमनर्थकम्, अर्थवत्त्वात्पूर्वेणैव संज्ञासिद्धेरित्यत आह-अर्थवत्समुदायानामिति । कर्मणि षष्ठी । नियमः = व्यावृत्तिः । ननु सुराजा अतिराजेत्यादौ अन्तर्वत्तिन्यां विभक्तौ लुप्तायां समुदायस्य संज्ञा, तामपेक्ष्य सोरुत्पन्नस्य हल्ङ्यादिलोपे तस्यामवस्थायां नलोपार्थं या संज्ञा प्राप्नोति तस्याः प्रत्ययलक्षणेनाप्रत्यय इति निषेधे प्राप्ते विध्यर्थमेतत्स्यात् ? ज्ञापकात्सिद्धम्, 'न ङिसंबुद्ध्योः' इति निषेधो ज्ञापयति-न प्रत्ययलक्षणेन निषेध इति; अन्यथा उक्तेन न्यायेन हे राजन्नित्यादौ नलोपप्रसङ्गात् । नैतदस्ति ज्ञापकम्; है सुराजन्नित्यादौ यत्र समासग्रहणेन संज्ञा विहिता तत्र नलोपप्रसङ्गे निषेधः स्याद् । एवं तर्ह्यत्राप्यप्रत्यय इत्यनुवर्त्तते, तेन प्रत्ययान्ते समासे विध्यर्थत्वासंभवान्नियमार्थमेव समासग्रहणम् ।
यद्वा-अनुद्दिश्य प्रयोजनविशेषं न कृत्संज्ञा प्रवर्तते, तस्यां तु सत्यां यस्यामवस्थायां यत्कार्यं प्राप्नोति तस्यां तद्भवति, न प्रतिकार्यमावर्त्तनीया संज्ञेत्ययं पक्ष आश्रीयते । अत्र च पक्षे सुबुत्पत्त्यर्थं नलोपार्थं च समाससंज्ञानन्तरमेव सकृत्संज्ञा प्रवर्त्तते, न तु नलोपदशायामिति विध्यर्थत्वासम्भवान्नियमार्थमेव समासग्रहणम् । तुल्यजातीयस्य च नियमेन व्यावृत्तिः, कश्च तुल्यजातीयो यस्यार्थवत्समुदायस्य पूर्वो भागस्तावत्पदम्, यश्चैव हि सुबन्तानां समासः-राजपुरुष इति, यश्चैव हि तिङन्तानाम्--"आख्यतमाख्यातेन क्रियासातत्ये', अश्नीतपिबता, खादतमोदतेति, यश्च सुबन्तानां तिङन्तानां च-'जहि कर्मणा बहुलमाभीक्ष्ण्ये', जहिजोडः, जहिशकट इति, यश्च सुबन्तानां प्रातिपदिकानां च--गतिकारकोपपदानामिति, वस्त्रक्रीति निष्कक्रीतीति, सर्वत्रात्र पूर्वो भागस्तावत्पदम् । अतः स तुल्यजातीयो नियमेन व्यावर्त्यते, तेन बहुपटव इत्यत्र जसन्तस्य पुरस्ताद्वहुचि कृते नोत्तरत्रत संघाते पूर्वो भागः पदमित्यसति नियमे ईषदसमाप्तिलक्षणेनार्थेनार्थवत्त्वात्सत्यां संज्ञायां पूर्वोत्पन्नस्य जसः 'सुपो धातु' इति लुकि कृते चित्स्वरोऽपि भवन् 'चतिः सप्रकृतेर्बहुजकजर्थमिति' पटुशब्दोकारस्य भवति । पूर्वोत्पन्नस्य तु जसोऽवस्थाने तस्यैव स्यात् । वाक्यस्यार्थवत इति । प्रत्येकं पदैरप्रतीतस्य संसर्गस्य वाक्येन प्रतीयमानत्वात्तस्यार्थवत्त्वम्, समुदायाच्च प्रत्ययस्याविधानान्नास्त्यप्रत्यय इति निषेधः । न च 'नास्ति यस्मिन् प्रत्ययः सोऽप्रत्ययः' इति बहुव्रीहिः शक्य आश्रयितुम्; बहुपटव इत्यत्रापि नि,ेधप्रसङ्गात् ।।
ह्रस्वो नपुंसके प्रातिपदिकस्य ।। 1.2.47 ।।
सूत्रे नपुंसकशब्देन तद्वद्द्रव्यं विवक्षितं न लिङ्गमात्रमित्याह-नपुंसकलिङ्गेऽर्थे इति । नपुंसकं लिङ्गमस्येति बहुव्रीहिः ।
ग्रामणीरिति । 'सत्सूदिष' इत्यादिना क्विप् । प्रातिपदिकस्येति किमिति । नपुंसकलिङ्गं द्रव्यस्यैव धर्मः, द्रव्यवाचित्वं च प्रातिपदिकस्यैव, न सुबन्तस्य; शक्तिसङ्ख्याप्राधान्यात् । न धातोस्तिडन्तस्य वाक्यस्य वा; क्रियाप्रधानत्वात् । वर्णास्त्वनर्थकाः, स्त्रीप्रत्ययानां तु विरुद्धेन नपुंसकेनायोग इति प्रश्नः । काण्डे कुण्ड्ये इति । अत्र 'अप्रत्ययः' इति निषेधात् प्रतिपदिकत्वं नास्ति । ननु च एकादेशः पूर्वं प्रत्यन्तवद्भावात् प्रातिपदिकग्रहणेन गृह्यते इति क्रियमाणेऽपि प्रातिपदिकग्रहणे ह्रस्वत्वं स्यादेवात् आह-प्रातिपदिकग्रहणसामर्थ्यादिति । कथं पुन सामर्थ्यम्, यावता यत्रान्तवद्भावो नास्ति-वाः वारी त्रपुणी इत्यादौ, तद्व्यावर्त्यं स्यात् ? अथ शक्तिसङ्ख्याप्रधानत्वात् तत्र नपुंसकेनायोगः, काण्डे इत्यादावपि एवमपे न भविष्यति । न ह्यन्तवद्भावेन प्रातिपदिकत्वे सत्यपि शक्तिसङ्ख्याप्राधान्यं हीयते । एवं मन्यते-'असति प्रातिपदिकग्रहणे नपुंसकवृत्तेरनपुंसकवृत्तेश्च य एकादेशः स नपुंसकवृत्तिग्रहणेन गृह्यते नपुंसक इति स्यात्प्रसङ्गः । प्रातिपदिकग्रहणे तु मुख्यप्रातिपदिकग्रहणार्थत्वाद् अतिदिष्टप्रातिपदिकत्वस्य ह्रस्वस्याभावः' इति । उत्तार्थं च प्रातिपदिकग्रहणम् । इह वनाय, वनाभ्याम्, वनार्थम्, वनेभ्य इति ह्रस्वो न भवति, बहिरङ्गयोर्दीर्घत्वयोरसिद्धत्वात् । काण्डीभूतमित्यत्र पूर्वं नपुंसकत्वेऽपि च्व्यन्तदशायाम् अव्ययत्वेनालिङ्गत्वाद् ह्रस्वाभावः ।।
गोस्त्रियोरुपसर्जनस्य ।। 1.2.48 ।।
स्त्रीति प्रत्ययग्रहणमिति । अत्र हेतुमाह-स्वरितत्वादिति । 'स्वरितेनाधिकारः' इत्यस्य यत्र स्वरितत्वं प्रतिज्ञायते तत्र तदधिकारो ग्राह्य इत्ययमप्यर्थः । इह च स्त्रीग्रहणं स्वर्यते, तेन स्त्रियामित्यधिकृत्य विहितानां टाबादीनां ग्रहणं भवति; नार्थस्य, नापि स्वरूपस्य । क्तिन्नादीनां तु ह्रस्वभावित्वाभावादग्रहणम् । उपस्र्जनग्रहणं तयोर्विशेषणमिति । प्रत्येकं सम्बन्धात्तु द्विवचनं न भवतीत्याह-गोरुपसर्जनस्येत्यादि । स्त्रीप्रत्ययान्तस्येति पाठः । पारिभाषिकं ह्यत्रोपसर्जनं गृह्यते । न च स्त्रीप्रत्ययमात्रस्य पारिभाषिकोपसर्जनत्वसम्भवः । ताभ्यामिति । उपसर्जनेन गोशब्देन स्त्रीप्रत्ययान्तेन च यदि ताभ्यां तदन्तविधिर्न विज्ञायते, तदा उपसर्जनस्य गोशब्दस्य स्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्व इत्यर्थः स्यात्; ततश्च गोकुलं राजकुमारीपुत्र इत्यत्रापि स्यादिति भावः । इह तु 'कुमारीपुत्रः' इत्यत्र प्रातिपदिकत्वादेवाप्रसङ्गः । उपसर्जनस्त्रीप्रत्ययान्तान्तस्येति पाठः । उपसर्जनं यत् स्त्रीप्रत्ययान्तं तदन्तस्येत्यर्थः । यदि तु लौकिकेनोपसर्जनेन स्त्रीप्रत्ययमात्रं विशेष्य पश्चात्तेन प्रातिपदिकस्य तदन्तविधिर्विज्ञायते--उपसर्जनं यः स्त्रीप्रत्ययस्तदन्तस्य प्रातिपदिकस्येति, ततो हरीतक्यः फलानीत्यत्रापि स्यात्; स्त्रीप्रत्ययार्थस्य फलं प्रत्युपसर्जनत्वात्तद्धितान्तत्वेन प्रातिपदिकत्वाच्च । अत एवमेवाश्रयणीयम्--स्त्रीप्रत्ययान्तं यच्छास्त्रीयमुपसर्जनं तदन्तस्य प्रातिपदिकस्येति । निष्कौशाम्बिरिति । कौशम्बीत्येकबिभक्तीत्युपसर्जनं स्त्रीः त्ययान्तं तदन्तं समासप्रातिपदिकम् । अथेह कथं ह्रस्वत्वम् अतिराजकुमारिरिति, यावता कुमारशब्दान् ङीब्विहतो न तु राजकुमारशब्दात् ? सत्यम्; अनुपर्जने स्त्रीप्रत्यये तदादिनियमो नास्ति । अथ गोशब्देन स्त्रीप्रत्ययान्तेन च प्रातिपदिकस्य तदन्तविधौ सत्यपि गोकुलं राजकुमारीपुत्र इत्यत्र कस्मान्न भवति, यावता 'येन विधिस्तदन्तस्य' इत्यत्र 'स्वं रूपम्' इत्यनुवर्तते, ततश्च येन तदन्तविधिः तत्स्वरूपस्यापि ग्रहणेन भाव्यम् ? एवं तर्हि गोशब्देन प्रातिपदिकस्य विशेषणसामर्थ्यात् केवलस्य न भवति; अन्यथा गोशब्दस्यैवोपसर्जनस्य ह्रस्वं विदध्याद्, 'येन विधिस्तदन्तस्य' इत्यत्र 'स्वंरुपम्' इति निवर्त्यम् । व्यपदेशिवद्भावोऽपि प्रातिपदिके नास्ति । राजकुमारीपुत्र इत्यत्र तु परिहारः--शास्त्रीयमप्युपसर्जनं सति सम्भवेऽन्वर्थमेवाप्रधानमुपसर्जनमिति, प्रधानं चापेक्ष्याप्रधानं भवति । स्त्रीप्रत्ययान्तस्य च प्रातिपदिकत्वं समासमन्तरेणानुपपन्नम्, समासश्चावयवात्मकः; द्वयं चात्र संनिहितम्-प्रधानमप्रधानमिति; तत्रैवं विज्ञास्यामः-यत् स्त्रीप्रत्ययान्तं समासप्रातिपदिकं तदन्तर्भूतमेवापेक्ष्य स्त्रीप्रत्ययान्तस्याप्राधान्यमिति । इह तु तत्रानन्तर्भूतं पुत्रमपेक्ष्याप्राधान्यमिति न भवति ह्रस्वः ।
ईयस इत्यादि । ईयसुन्नन्ताद्यः स्त्रीप्रत्ययो विहितस्तदन्तान्तस्येत्यर्थः । बहुश्रेयसीति । 'प्रशस्यस्य श्रः' ङीप्, बह्व्यः श्रेयस्योऽस्येति बहुव्रीहिः, 'नद्यृतश्च' इति कप्, 'ईयसश्च' इति प्रतिषेधः, पुंस्यपि सोर्हल्ङ्यादिलोपः । बहुव्रीहेरिति किम् ? अतिश्रेयसिः ।।
लुक्तद्धितलुकि ।। 1.2.49 ।।
स्त्रीग्रहणमनुवर्तते इति । न तु गोग्रहणम्, कुतः ? प्रत्ययादर्शनस्य लुक्संज्ञाविधानाद् गोशब्दस्याव्युत्पन्नत्वाद् व्युत्पत्तिपक्षेऽप्यस्वरितत्वात् । उपसर्जनस्य चेति । 'अनुवर्त्तते' इत्यपेक्षते । लौकिकं चात्रोपसर्जनं गृह्यते, न शास्त्रीयम् । पूर्वेण ह्रस्वत्वे प्राप्ते इति क्वचित्पठ्यते, तत्र क्वचिदिति विशेषः । पूर्वसूत्रेण हि शास्त्रीयमुपसर्जनं गृहीतं तस्यावकाशो यत्र न तद्धितलुग्निष्कौशाम्बिरिति; अस्यावकाशो यत्र शास्त्रीयमुपसर्जनम्-आमलकमिति । तद्धितलुक्च यथा--पञ्चेन्द्र इति, अत्र हि समासार्थे नानाविभक्तिके पञ्चेन्द्राणीत्येकविभक्तिकमिति अस्त्युपसर्जनत्वम्; तत्रोभयप्रसङ्गे परत्वादयमेव लुग् ह्रस्वं बाधत इत्यर्थः ।
केचित्त्वस्मादेव ग्रन्थात् पूर्वसूत्रेऽपि लौकिकस्योपर्जनस्य ग्रहणं मन्यन्ते, तेषां हरीतक्यः फलानि इति लुब्विषये ह्रस्वप्रसङ्ग इत्युक्तम् । स्यादेवम्--लुपि युक्तवदिति शब्दार्थयोरप्यतिदेशः प्रकृत्यर्थस्य यल्लिङ्गं यश्च तदभिधायी प्रत्ययः तयोर्द्वयोरतिदेशः, तत्रौपदेशिकस्य ह्रस्वत्व आतिदेशिकस्य श्रवणं भविष्यतीति ? यद्येवम्, युवतिरिव पुरुषः 'लुम् मुनष्ये' युवतिः, द्वौ तिशब्दौ श्रूयेयाताम्; तस्मात् 'लुब्योगाप्रख्यानात्' इति लुपः प्रत्याख्यानेन वात्र परिहारो वाच्यः, शास्त्रीयं वोपसर्जनं ग्राह्यम् । ग्रन्थस्य च व्याख्यात एवार्थः ।
अभावरूपेण लुका पौर्वाभर्यासम्भवाल्लुकीति सत्सप्तमीत्याह-लुकि सतीति । पञ्चन्द्र इति । 'तद्धितार्थ' इति समासः,'सास्य देवता' इत्यणः 'द्विगोर्लुगनपत्ये' इति लुक्, 'इन्द्रवरुण' इत्यादिना विहितस्य ङीषोऽनेन लुक्, सन्नियोगविशिष्टानामन्यतराभाव इत्यानुको निवृत्तिः । पञ्चशष्कुल इति । 'तेन क्रीतम्' इत्यार्हीयस्य ठकः 'अध्यर्द्धपूर्व' इति लुक् । आमलकमिति । 'नित्यं वृद्धशरादिभ्यः' इति मयटः 'फले लुक्' । बदरीकुवलीशब्दाभायाम् 'अनुदात्तादेश्च' इति अञ् । शष्कुल्यादयो गौरादिङीषन्ताः ।
अवन्तीत्यादि । अवन्ति-कुन्ति-शब्दाभ्यामपत्ये ' वृद्धेत्कोसलाजादाञ्ञ्यङ्' । कुरोः 'कुरुनादिभ्यो ण्यः', स्त्रियामवन्तीति लुक्, कुरुशब्दाद् 'ऊङुतः' इत्युङ् । इतराभ्याम् 'इतो मनुष्यजातेः' इति ङीष् । अत्रापत्यलक्षणा जातिः स्त्रीप्रत्ययान्तेन प्राधान्येनाभिधीयते ।।
इद् गोण्याः ।। 1.2.50 ।।
पञ्चगोणिरिति । गोणिशब्दः परिमाणवचनः, आवपनवचनश्च; तत्राद्यात् 'प्राग्वतेष्ठञ्', द्वितीयादार्हीयष्ठक् । तयोः पूर्वल्लुक् ।
इदिति योगाविभाग इति । इहेद्ग्रहणमनर्थकम्, गोण्या इत्येवास्तु, ह्रस्व इत्येव, लुकस्तु वचनासामर्थ्यादननुवृत्तिः ? तदेतदिद्ग्रहणमेव लिङ्गं योगविभागस्य । यदि योगविभागः क्रियते, सर्वत्रेत्वं प्राप्नोति, तत्राह-स चेति । यदि सर्वत्र स्याद् गोणीग्रहणमनर्थकं स्यादिति भावः । ननु तद्धितलुकि लुगप्युक्तः, इत्वं चेति, तयोर्विकल्पप्रसङ्गे नित्यमित्वमेव यथा स्यादित्येवमर्थं गोणीग्रहणं स्यात्, तत्कर्थं ततो विशिष्टविषयत्वं योगविभागस्य ? उच्यते; एक एव तावद्योगः सूत्रकारेण पठितः, तत्सामर्थ्याद् विभागसंस्कारोऽप्यनुवर्त्तते, अविभक्तश्च योगो विशिष्टविषयः । इद्ग्रहणसामर्थ्यात्क्रियमाणो विभागो विशिष्टविषय एव कल्प्यते; अत एवोच्यते--योगविभागादिष्टसिद्धरिति । स पुनर्विशिष्टो विषयो व्याख्यानादवसेयः । तपरकरणं तत्कालार्थम्--दीर्घस्य दीर्घो मा भूद् । वचनं तु लुग्घ्रस्वबाधनार्थं स्याद् । असति च तकारे, प्राप्तप्रतिषिद्ध ईकार एवं प्रतिप्रसूतः स्याद्, न त्वपूर्व इकारो विहितः स्याद् इति भाव्यमानत्वमेव न स्यात् ।।
लुपि युक्तवद्व्यक्तिचवने ।। 1.2.51 ।।
अभिधेयवल्लिङ्गवचनयोः प्राप्तयोरयमारम्भः । अभावरूपस्य लुपो लिङ्गसङ्ख्यातिदेशासम्भवादाह--लुपीति लुप्संज्ञेत्यादि । क्वचित्तु सप्तम्यन्तो लुप्शब्द उपादीयते तत्रापि प्रकृत्यर्थ एवाभिधातुमिष्टः । सप्तम्युपादानं तु सूत्रे पठितत्वाद्, यथा-मताविति मत्वर्थ उच्यत इति । युक्तवदिति निष्ठाप्रत्येनेत्यादि । अत्र हेतुमाह--स हीति । युनक्ति सम्बध्नाति । यद्यपि प्रत्ययार्थोऽपि प्रकृत्यर्थमात्मना युनक्ति, तथापि न तस्येह ग्रहणम्; आनर्थक्याद्, न हि तस्यैव लिङ्गसङ्ख्ये तस्यैव विधातव्ये ।
अथ वेत्यादि । पूर्वं 'युजिर्योगे' इत्यस्य क्तवत्वन्तस्य षष्ठीसमासो दर्शतः, इदानीं तु तस्यैव धातोः क्तान्तस्य वतिनिर्देशः, असमासश्चेति प्रदश्यते । युक्तः प्रकृत्यर्थ इति । अत्र हेतुः--प्रत्ययार्थेन सम्बद्ध इति । अस्मिन्नपि पक्षे पूर्ववदेव प्रत्ययार्थस्याग्रहणम् । सप्तम्यर्थे वतिरिति । 'लुपि' इति प्रतियोगिनि सप्तमी निर्द्देशात् सप्तम्यर्थे वर्तमानादिवार्थे वतिरित्यर्थः । व्यक्तिशब्द आविर्भावादिकेऽप्यर्थे वर्तते । वचनशब्दोऽपि भीमसेनो भीम इतिवद्, एकवचनादिशब्दानां थएकदेशप्रयोगोऽपि सम्भाव्येत, तस्य च ग्रहणे 'पञ्चालानां निवासः' इति वाक्यावस्थायां षष्ठीदर्शनात्तस्या एवातिदेशः स्यात्; कुरुपञ्चाला इति च द्वन्द्वे वाक्या वस्थायामतिदिष्टस्य वचनस्य लुकि समुदायाद् बहुवचनं न स्यात्, ततस्तत्सम्प्रत्ययो मा भूदित्याह--व्यक्तिवचने इति चेत्यादि । पूर्वाचार्यनिर्देशाश्रयणे कारणमाह -तदीयमेवेत्यादि । कुत इत्यत आह-तथा चेत्यादि । न हि स्वकृतमेव स्वयं प्रत्याचष्ट इति युक्तम्; 'विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम्' इति न्यायादिति भावः ।
पञ्चालाः क्षत्रिया इति । पञ्चालस्यापत्यानि बहूनि 'जनपदशब्दात् क्षत्रियाद्ञ्' 'ते तद्राजाः', 'तद्राजस्य बहुषु' । तेषां निवासो जनपद इति । अस्य वक्ष्यमाणेन 'पञ्चालाः' इत्यनेन सम्बन्धः । 'तस्य निवास' इत्यणः 'जनपदे लुप्' । कुरव इत्यादि । 'कुरवः क्षत्रियाः' इत्यादिकं तु पूर्वानुसारेण गम्यमानत्वान्नोक्तम् । कुरुशब्दादपत्ये 'कुरुनादिभ्यो ण्यः' मगधादिभ्यः 'द्वयञ्मगध' इत्यण्, शेषं पूर्ववत् ।
लुपीति किमिति । तद्धितोऽनुवृत्तः साहचर्यादर्थमुपस्थापयिष्यतीति प्रश्नः । लुकि मा भूदिति । अन्यथा 'तद्धितलुकि' इत्यनुवृत्तेस्तत्रैव स्यादिति भावः । लवणः सूप इति । 'संसृष्टेलवणाल्लुक्' । व्यक्तिवचने इति किमिति । युक्तवदिति क्तान्ताद्वतिरेवाश्रयिष्यते, षष्ठीनिर्द्देशो वा करिष्यते इति मन्यते । शिरीषाणामदूरभाव इत्यादि । अरीहणादिषु वराहादिषु कुमुदादिषु शिरीषशब्दस्य पाठाद् वुञ्छणादिसूत्रेण व़ञादयोऽस्माद्भवन्ति, तेषां च विशेषविहितत्वाल्लुका न भवितव्यम्, सत्यम्; 'औत्सर्गिकोऽपि तत इष्यते' इति वक्ष्यति, तस्य वरणादिदर्शनाल्लुप् । असति व्यक्तिवचनग्रहणे शिरीषेषु यद्वनस्पतित्वं तस्.यापि ग्रामेऽतिदेशः स्यात्, ततश्च णत्वं प्राप्नोति; णत्वविधौ विफली वनस्पतिरिति नाश्रीयते विशेषः । अत एव वृक्षवृत्तेर्णत्वं भवत्येव । शिरीषवनमिति । ननु च ग्रामेऽपि वर्तमानो गुणभूतं वनस्पतित्वमाहेति णत्वप्रसङ्गः, न चात्र किञ्चित्प्रधानाश्रयं कार्यमस्ति येन गुणः स्वकार्यं नारभेत । न च व्यक्तिवचनग्रहणस्य वैयर्थ्यम्, असति हि तस्मिन्प्रकृत्यर्थगतस्य व्यतिरेकस्याप्यतिदेशात् षष्ठी प्रसज्येत; सति तु तस्मिन् सङ्ख्यामात्रातिदेशे व्यतिरेकसहितायाः सङ्ख्याया अनतिदेशाद् ? नायं दोषः; एवं तर्हि णत्वविधौ प्रधानवनस्पतिग्रहणाद् अत्र तदभावः ।
हरीतक्यः फलानीति । हरीतकीशब्दाद् गौरादिङीषन्ताद् 'अनुदात्तादेश्च' इत्यञः 'हरीतक्यादिभ्यश्श्च' इति लुप् । अत्र व्यक्तिरेव युक्तवद्भवति, वचनं त्वभिधेयवदेव । खलतिकं वनानीति । खलतिकशब्दो वरणादिः, समासे उत्तर पदस्य बहुवचनस्य लुपो नियमार्थमेतद्-लुबर्थस्य बहुत्वातिदेशः समासे यदि भवति उत्तरपदस्यैवेति, मधुरापञ्चालाः; इह न भवति-पञ्चालमधुरे इति, बहुवचनस्येति वचनाद् । द्वित्वातिदेशः पूर्वपदस्यापि भवति-गोदौ च ग्रामः मधुरा च गोदमधुरा इति ।।
विशेषणानां चाजातेः ।।1.2.52 ।।
पूर्वं प्रकृत्यर्थगतयोर्लिङ्गसङ्ख्ययोर्लुबर्थेऽतिदेशः कृतः, न तु लुबन्ते शब्दे इति तत्र वर्तमानानां विशेषणानां सिद्ध एव युक्तवद्भावः । वचनं तु जातिप्रतिषेधार्थम् । अथ व्यधिकरणानां विध्यर्थं कस्मान्न भवति, ब्रह्मदत्तस्य पञ्चाला इति ? 'तत्पुरुषः समासनाधिकरणः' इत्यतः समानाधिकरणानुवृत्तेः । गोदाविति । गोदौ ह्रदौ वरणादिः, ग्रामजनपदशब्दौ जातिवाचिनौ ताभ्यां लुबर्थो जातिरूपेणोच्यते । जात्यर्थस्य चेत्यादि । जातिरूपस्य चार्थस्य, न जातिवाचिनः शब्दस्येत्यर्थः । तेन किं सिद्धं भवतीत्याह--तेनेति । द्वारग्रहणेनैतद्दर्शयति --जातौ प्रक्रान्तायां यद्विशेषणमुपनिपतितं तज्जातिमेव साक्षाद्विशिनष्टि, तद्द्वारेण तु लुबर्थो विशिष्टः प्रतीयते; तत्र विशेषणविषेष्यभावं प्रति कामचार इति रमणीयादीनां जात्युपनिपाते युक्तवद्भावो न भवति; लुबर्थो पनिपाते तु भवति । यद्येवम्, नार्थोऽनेन, लुपोऽन्यत्राप्ययं प्रकारो दृष्टः, यथा--बदरी सूक्ष्मकण्टका मधुरावृक्ष इति, मधुरादीनां बदर्युपनिपाते तल्लिङ्गसङ्ख्यायोगः, वृक्षोपनिपाते वृक्षलिङ्गसङ्ख्योगः, वृक्षस्य च नियतलिङ्गत ? एवं तर्हि यत्तत्रतत्रोच्यते--गुणवचनानां हि शब्दानां नाश्रयतो लिङ्गवचनानि भवन्तीति, तदनेन क्रियते । विशेषणानां गुणवचनानामित्यर्थः । युक्तवद्व्यक्तिवचने । आश्रयवल्लिङ्गसंख्ये इत्यर्थः । यदा तु जातिविशेषणं तदा नेति । पदसंस्कारपक्षे च वाचनिकमेतत्; पदे हि पदान्तरनिरपेक्षे संस्क्रियमाणे लिङ्गसर्वनामनपुंसकं वस्त्वन्तरानपेक्षमेकत्वं च प्राप्तमिति शुक्लं पटा इति प्राप्ते भाविनो बहिरङ्गस्याश्रयस्य लिङ्गसंख्ये विधीयेते । वाक्यसंकारे त्वयमनुबाद एव; आश्रयविशेषनिष्ठत्वेन विशेषणानामपि तल्लिङ्गसंख्ययोरसिद्धत्वात् ।
मनुष्यलुपीति । मुनष्यलक्षणे लुबर्थे विशेषणानां प्रतिषेधः । लुबन्तस्य तु भवत्येव-चञ्चाभिरूप इति, तृणपुरुषश्चञ्चा तत्सदृशो मनुष्यश्चञ्चा 'संज्ञायाम्' इति कन्, 'लुम्मनुष्ये' इति लुप् । चर्मविकारविशेषो वर्घ्रिका ।।
तदशिष्यं संज्ञाप्रमाणत्वात् ।। 1.2.53 ।।
संज्ञाप्रमाणत्वादिति । प्रमाणानाँ हि प्रमाणत्वं प्रतिपादकत्वं स्वार्थप्रत्यायनलक्षणम् । एतच्च सर्वेषामेव शब्दानामस्ति, न संज्ञाशब्दानामेव । उच्यते चेदं तत्र विशेषो विज्ञायत इत्याह--संज्ञाशब्दा हीत्यादि । ये संज्ञाशब्दास्ते नानालिङ्गसंख्या अपि स्वाभिधेयगतलिङ्गसंख्यापेक्षया भिन्नलिङ्गसंख्या अपि प्रमाणम्, स्वार्थस्य प्रतिपादका इत्यर्थः । भवतु संज्ञाशब्दानामेवंविधं प्रमाणत्वम्, किमायातं यौगिकानां पञ्चालादिशब्दानामित्य आह-पञ्चाला वरणा इत्यादि । तदनेन पक्षधर्मत्वं हेतोरुक्तम्, पूर्वं तु दृष्टान्तगतो हेतुर्व्याख्यातः । दृष्टान्तमाह--यथेति । युक्तवद्भावमारभमाणोऽपि नात्र कञ्चिद्यत्नं करोति, तदवश्यमयं शब्दस्वभाव एवाश्रयणीयः । कश्चिद्धि शब्दः स्वभावात् समुदायसंख्यामभिधत्ते, कश्चिदवयवसंख्याम्, यथा-वनं वृक्षा इति । एवं लिङ्गेऽपि द्रष्टव्यम् ।।
लुब्योगाप्रख्यानात् ।। 1.2.54 ।।
किं कारणमिति । 'निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्' इति प्रथमा द्वितीया वा । तथा च योगाप्रख्यानादित्युत्तरोपपत्तिः । योगः=जनपदादेः क्षत्रियादिभिः सम्बन्धः, तस्याप्रख्यानादनुपलब्धेरित्यर्थः । तदाह--न हीति । एतदेव विवृणोति-नैतदिति, संज्ञा एता इति । यद्यपि संज्ञाशब्दा अपि पङ्कजादयोऽपेक्षितप्रवृत्तिनिमित्ताः सन्ति, तथापीह प्रकरणादनेपेक्षितप्रवृत्तिनिमित्ता अपीति बोद्धव्यम् । अत एवाह-तस्मादत्रेत्यादि । ननु योगाप्रख्यानेऽपि तद्धित उत्पद्यते, तद्यथा--'कम्बलाच्च संज्ञायाम्' कम्बल्यमूर्णापलशतमिति, सत्यम्; यत्र रूपे विशेषोऽस्ति । ननु च संज्ञाप्रमाणत्वादिति पञ्चालादिशब्दानामयौगिकत्वमुपपादितमित्यर्थाल्लुबपि प्रत्याख्यात् एव, किमनेन क्रियते ? उच्यते; संज्ञाप्रमाणत्वादित्यनेन दृष्टान्तगतो हेतुः शब्देनोक्तः तस्यैव त्वर्थात्पञ्चालादिगतत्वेन प्रतीयमानस्यासिद्धिमाशङ्कय योगाप्रख्यानादिति यौगिकत्वामपाकुर्वन् हेतुमेव समर्थयते ।।
योगप्रमाणे च तदभावे दर्शनं स्यात् ।। 1.2.55 ।।
पञ्चालादय इत्यादि । पूर्वयोगस्याप्रतिभास उक्तः, यस्तु तमपजानीते तं प्रत्यनेनानिष्टमापद्यत इति दर्शयति-योगप्रमाणे हीति । 'हि' शब्दो हेत्वर्थे प्रयुञ्जानः सूत्रे 'च' शब्दो हेतौ प्रयुक्त इति दर्शयति । एतदेव व्याचष्टे-यदीति, अदर्शनमयोगः चस्यादिति । दर्शनं ज्ञानं तच्च प्रयोगस्योच्चारणस्य फलम्, अतः फलाभावेन हेत्वभावो विवक्षित इत्याचष्टे । योगनिमित्तको हि योगाभावेन प्रदर्शनं युज्यते, यथा-दण्डीशब्द इति भावः । ननु भूतपूर्वमपि निमित्तं भवति, ततश्च सम्प्रति वरणादियोगाभावेऽपि भूतपूर्वः स एव निमित्तं भविष्यति, नैतदेवम्; भूतपूर्वनिमित्तो हि व्यपदेशो गौणः स्याद्, न चायं गौणः; पदान्तरस्य प्रयोगमन्तरेणाऽपि प्रतीयमानत्वात् । किञ्च यौगिकत्वे पुरुषान्तरसंबंधनिबंधनोऽपि व्यपदेशः कस्मान्न प्रवर्तते ? विपर्ययो वा कस्मान्न भवति ? देशसम्बन्धाद्राजसु पञ्चालशब्द इत्यतोऽक्षादिशब्दवदनेकार्थ एवायं पञ्चालादिशब्दः ।।
प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् ।। 1.2.56 ।।
अर्थवचनमिति । कर्मणि षष्ठ्याः समासः । ननु च प्रधानप्रत्यययोः कर्त्रोर्निर्देशादुभयप्राप्तावित्यनेनात्र षष्ठी, ततश्च 'कर्मणि च' इति निषेधः प्राप्नोति, नैष दोषः ; प्रधानप्रत्ययोरत्र करणत्वं विवक्षितम् । कस्तर्हि कर्ता, पुरुषः, समुदायो वा प्रधानोपसर्जनयोः प्रकृतिप्रत्यययोश्च ? एतदुक्तं भवति-प्रधानप्रत्ययाभ्यां करणाभ्यां पुरुषेण समुदायेन वा यदर्थस्य वचनशब्देन सह 'कर्तृकरणे कृता बहुलम्', 'कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' इतिच समासः । ननु च प्रत्ययोऽपि प्रकृत्यपेक्षया प्रधानम्, कस्माद्भेदेनोपादीयते ? उच्यते; यदा 'प्रकृतिः प्रत्ययार्थं प्रति विशेषणतया स्वार्थमभिधत्ते' इति सिद्धं भवति, तदा प्रत्ययस्य प्राधान्यम्, तदेवेदानीं परिभाष्यत िति पूर्वाचार्यैस्तावत्प्रत्ययो भेदेन निर्दिष्टः-प्रधानोपसर्जने, प्रकृतिप्रत्ययाविति, ततश्च तल्लक्षणनिराकरणे प्रत्ययोऽपि भेदेनोपादेयः । अश्क्यत्वादिति । अशक्यत्वमनन्तप्रकारत्वात् । बहुव्रीहावन्यपदार्थ उच्यते; प्लक्षन्यग्रोधमिति समाहारः; क्वचित्प्रधानयोरेव सहाभिधानम्-प्लक्षन्यग्रोधाविति । स्वार्थिकेषु च पप्रकृतिप्रत्ययौ प्रकृत्यर्थं सह ब्रूतः-शुक्लतर इति; तथा आख्यातेषु क्रियाप्रधानमाख्यातमिति; तथा 'कर्त्तरि कृत्' 'कर्तरि तृतीया', तत्र 'कृत्सु शक्तिमद् द्रव्यं प्रधानमुच्यते' इति क्रियाभेदे शक्त्यन्तराविर्भावः; पाचकं पश्येति विभक्तिषु शक्तिप्राधान्यम्-इत्याद्यनन्तप्रकारमर्थाभिधानमशक्यं परिभाषितुमिति लोकत एवार्थावगतेः कथमेतदित्याह-यैरपीत्यादि ।।
कालोपसजने च तुल्यम् ।। 1.2.57 ।।
अर्थस्यान्यप्रमाणत्वादिति । कथं पुनरयमत्र हेतुर्लभ्यत इत्याह-तुल्यशब्दो हेत्वनुकर्षणार्थ इति कथमेतदित्याह --अशिष्यविशेषणं चैतदिति । चशब्दो हेतौ । आन्याय्यादिति । रात्रेश्चतुर्द्धा विभक्तायाः पश्चिमे यामे न्याय्यं स्वापादुत्थानम्; शास्त्रीयत्वात् । प्रथमे गते च संवेशनं शयनम् । अत्र लक्षणे रात्रेर्मध्ययामद्वयं नाद्यतनम्, द्वितीये तु तदपि । उभयतोऽर्द्धरात्रमिति । बहुव्रीहिः कृत्स्नो दिवस आगामिन्या रात्रेः पूर्वार्धेनातीतायाः पश्चिमार्घेन च युक्त इत्यर्थः । यद्येवमिति । यद्यर्थस्यान्यप्रमाणत्वादित्ययमेवात्रापि हेतुरित्यर्थः । पूर्वसूत्र एवेति । एवं हि तुल्यमिति न वक्तव्यं भवतीति भावः ।।
जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ।। 1.2.58 ।।
जात्याख्यायामिति विषयसप्तमी । एवमेकस्मिन्नित्यपि व्यधिकरणे चैते सप्तम्यौ । जातिर्नामेत्यादिना सूत्रारम्भस्य कारणमाह-एकोऽर्थ इति । यद्यपि वैशेषिकपरिभाषिता संख्या जातेर्न विद्यते, तस्या द्रव्यधर्मत्वात्; तथापि भेदगणनरूपा संख्या विद्यत एव । यथोक्तम् --
दिष्टिप्रस्थसुवर्णादि मूर्त्तभेदाय कल्पते ।
क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका ।। इति ।
बैशेषिकाश्च व्यावहरन्ति --प़ञ्च कर्माणि, चतुविंशतिर्गुणा इति । जातेराख्येति । आख्यानमाख्या= प्रत्ययनम् । एकस्मिन्नर्थ इति । जात्याख्ये बहुवचनशब्दोऽयमन्वर्थो न पारिभाषिकः, उक्तिर्वचनम्, बहूनां वचनं बहुवचनम् । ततश्चायमर्थः -एकस्मिन्नर्थे बहूनामुक्तिर्भवतीति सामर्थ्याद्वत्यर्थो गम्यते-बहूनामिवोक्तिः । यदि च जात्यर्थो बहुवद्भवतीति बहूनामिवोक्तिर्भवतीति सामर्थ्यात् स एवार्थः संपद्यत इत्याह-जात्यर्थो बहुवद्भवतीति । तेन किं सिद्धं भवतीत्याह -तेनेति । यदि तु जातिशब्दाद्वहुवचनं जात्यादि विधीयेत, ततो विशेषणेभ्यः संपन्नादिभ्यो न स्यात्, तेषामजातिशब्दात्वादिति भावः ।
देवदत्त इति । यद्यपि जातिपदार्थवादिपक्षे ह्यत्राप्यवस्थाभेदानुगता जातिः शब्दवाच्या, तथापीह सामर्थ्यादभिन्नपिण्डसमवेता जातिराश्रीयत इत्यनतिदेशः । काश्यप इति । कश्यपशब्दाद्विदाद्यञ्, तत इवार्थे संज्ञायां कन् 'लुम्मनुष्ये' । भवत्ययं जातिशब्द इति । गुणभूताया गोत्रजातेरभिधानात् । न त्वनेन जातिराख्यायत इति । प्रधान्येनेति भावः । असत्याख्याग्रहणे जातौ वर्त्तमानादित्यर्थः स्यात्, तत्र यथा व्यक्तिपर्यन्ताभिधाने गवादिभ्योऽपि भवति, एवमत्रापि स्यात् । सति तु तस्मिँस्तत्सामर्थ्याज्जातिप्राधान्ये भवति । व्रीहियवाविति । ननु च यथा काशिकोसलीया इति जनपदलक्षणो वुञ् विधीयते, न च जनपदरूपः समुदायोऽवयवाभ्यामारभ्यते; अतो यत्स्वतन्त्रं प्रातिपदिकं न तज्जनपदवाचि, यज्जनवदवाचि न तत्स्वतन्त्रं प्रातिपदिकमिति कुतो वुञः प्रसङ्गः ! अयं तु जातिप्रत्यायने विधिर्न जातिशब्दादिति स्यादेव प्रसङ्गः ।
संख्याप्रयोगे इति । एकस्यैव बहुत्वातिदेशे क्रियमाण एकशब्दप्रयोगेऽपि स्यादिति भावः । आरभ्यमाणेऽप्येतस्मिन् गोत्वं व्रीहित्वमित्यादि निष्कृष्य जात्यभिधानेनैवायं विधिरिष्यते । व्यक्तिपर्यन्ते त्वभिधाने जातिव्यक्त्योस्तादात्म्यं सम्बन्ध इति जातिरूपेण व्यक्तीनामभिधाने एकवचनं सिद्धम् । व्यक्त्यात्मना तु जातेरभिधाने बहुवचनमिति नार्थोऽनेन ।।
अस्मदो द्वयोश्च ।। 1.2.59 ।।
'अस्मदः' इत्यभिधेयसम्बन्धेन षष्ठीत्याह--अस्मदो योऽर्थ इति । पञ्चम्यां तु तत्र वर्त्तमानस्य तिङन्तस्य न स्यादिति भावः । एकत्वे द्वित्वे चेति । ननु चास्मतच्छब्दः प्रत्यगात्मनि वर्त्तते, स चैकस्तस्य कथं द्वित्वयोगः, एकत्वमपि तस्यायुक्तं विशेषणम्, अव्यभिचारात् ? उच्यते; यदाऽन्यत्रात्मत्वमध्यारोप्यते-अयं मे द्वितीय आत्मेति, यदा वा 'त्यदादीनि सर्वैर्नित्यम्' इति एकशेषः क्रियते, तदा सम्भवत्यनेकार्थत्वम् । अथ यत्रैवास्मच्छब्दो बहुवचनान्तः प्रयुज्यते, तत्र कथं द्वित्वैकत्वविशेषावसायः, प्रकरणादाराच्छब्दस्येव दूरान्तिकयोः । अहमिति । 'ङेप्रथमयोरम्', 'त्वाहौ सौ' । वयमिति । 'मपर्यन्तस्य','यूयवयौ जसि', शेषे लोपः' । आवामिति । 'युवावौ द्विवचने', 'प्रथमायाश्च द्विवचने' इत्यात्वम् ।
सविशेषणस्येति । 'त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः' इत्यत्रोन्नतत्वमेव विधीयते । न च विधेयोऽर्थो विशेषणमिति अतिदेशो भवत्येव ।
युष्मदीति । भाष्यवार्त्तिकयोरपठितमपि शिष्टप्रयोगदर्शनात्पठितम् ।।
फल्गुनीप्रोष्ठदानां च नक्षत्रे ।। 1.2.60 ।।
चकार इत्यादि । केचिदाहुः--ज्योतिषामावस्थिकी नक्षत्रता चन्द्रयोगे सति भवति, अन्यदा तु ज्योतिष्ट्वमेव । चन्द्रयोगश्च द्वयोः समुदितयोरिति द्वयोरेव बहुवचने सिद्धे चकारेण द्वयोरित्यनुकर्षन्नाचार्यो ज्ञापयति--नक्षत्रग्रहणं ज्योतिष उपलक्षणमिति । उपलक्षितज्योतिष्ट्वमेकैकस्याप्यस्तीति एकनिवृत्त्यर्थं द्वयोरित्यनुकर्षणीयमिति ।
तत्रोच्यते--सत्यप्येकैकस्य ज्योतिष्ट्वे न तत्र फल्गुनीशब्दो वर्त्तते, एवं प्रोष्ठपदादिशब्द उद्भूतावयवभेदः समुदाय एव ताभ्यामुच्यते । अत एव 'छन्दसि पुनर्वस्वोरेकवचनम्' 'विशाखयोश्च' इति सूत्रारम्भः । नक्षत्रशब्दश्च निघण्टुषु तारकापर्याय एव पठितः । वेदेऽपि 'नक्षत्रेभिः पितरो द्यामपंशन्' 'त्वं नक्षत्राणां मेध्यसि चित्रम्' 'नक्षत्रेण युक्तः कालः' इत्यत्र वृत्तिकारो वक्ष्यति-'कथं पुनर्नक्षत्रेण पुष्यादिना कालो युज्यते' इति, तदप्यनुपपन्नम्; आवस्थिके नक्षत्ररूपे पुष्यादिभिर्योस्य कादाचित्कत्वात् । 'तिष्यपुनर्वस्वोः' इत्यत्र च उदितौ तिष्यादिभिर्योगस्य कादाचित्कत्वात् । 'तिष्यपुर्वस्वोः' इत्यत्र च उदितौ तिष्यपुनर्वसू दृश्येते । इत्थं चन्द्रयोगेऽप्युदाहरिष्यते । प्रत्युदाहरणे च ज्योतिःस्वभावमेवार्थं दर्शयति-तिष्यपुनर्वसवो माणवका इति, तस्मान्नायं वृत्तिकारस्य पक्षः--आवस्थिकी नक्षत्रतेति । ज्योतिर्मात्रवचन एवायम् । चकारेण द्वयोरित्यस्यानुकर्षणमपि--उद्भूतावयवभेदः समुदायोऽभिधीयते, न त्वेकैकं ज्योतिरिति प्रदर्शनार्थम् । प्रोष्टपदानामिति सप्तम्यर्थे ष,्ठी, नक्षत्रे इति वा षष्ठ्यर्थे सप्तमीत्याह-फल्गुन्योर्द्वयोरित्यादि । नक्षत्रयोरिति प्रत्येकमभिसम्बद्ध्यते । सूत्रे तु व्यत्ययेनैकवचनम् । अत्राप्यर्थस्य बहुत्वातिदेश इति विशेषणस्यापि भवति । पूर्वे फल्गुन्याविति । फल्गुनीभ्यां फल्गुनीभिर्वा युक्तः काल इति अण्, 'लुबविशेषे','लुपि युक्तवद्व्यक्तिवचने' ।
फल्गुन्यौ माणविके इति । फल्गुन्योर्जाते 'फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ' इति टप्रत्ययः, 'टिड्ढाणञ्' इति ङीप् ।।
छन्दसि पुनर्वस्वोरेकवचनम् ।। 1.2.61 ।।
द्वयोर्द्विवचने प्राप्त इति । पूर्वसूत्रे चानुकृष्टस्य द्वयोरित्यस्येहाननुवृत्तावपि पुनर्वसुशब्देनोद्भूतावयवभेदस्य ज्योतिर्द्वयस्य समुदायस्याभिधानाद् द्वयोरेवायं विधिरिति दर्शयति ।।
विशाखयोश्च ।। 1.2.62 ।।
किमर्थो योगविभागः ? इह चकारेण छन्दसौत्यनुवर्तयिष्यामीति तेनोत्तरत्र 'छन्दसि' इति नानुवर्त्तते ।
तिष्यपुनर्वस्वौर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ।। 1.2.63 ।।
तिष्यपुनर्वस्वौः इत्यनेनैव सूत्रेण द्विचनापेक्षया सप्तमीद्विवचनम् । नक्षत्रद्वन्द्वे इति सत्सप्तमीः; नक्षत्रद्वन्द्वे सति तिष्यपुनर्वस्वोरर्थयोर्द्वयोरिवोक्तिर्भवतीति द्वन्द्वापेक्षया षष्ठीद्विवचनं वा । तेषां द्वन्द्व इति । अत्र तच्छब्दाद् द्विवचनं न भवति, वाक्यस्य प्रस्तुतत्वादद्वन्द्वार्थवृत्तित्वाद् । अत्र पारिभाषिकयोर्द्विवचनबहुवचनयोर्ग्रहणे बहुवचनस्य द्विवचनमादेशः स्यात् । तत्र जसादेशे प्रथमाद्विवचने 'जसि च' इति गुणः स्यात्, विशेषणानां च न स्यादिति मत्वाह-बहुवचनस्य प्रसङ्ग इति । बहूनामर्थानामुक्तिप्रसङ्ग इत्यर्थः । द्विवचनं भवति । द्वयोरिवोक्तिर्भवतीत्यर्थः ।
तिष्यपुनर्वसवो माणवका इति । तिष्यपुनर्वसुशब्दाभ्यां नक्षत्रणो लुपि जातार्थे सन्धिवेलादिसूत्रेणआण्, तस्य 'श्रविष्टाफल्गुन्यनुराधा' इत्यादिना लुक् । नात्र द्वन्द्वो नक्षत्रे वर्त्तते, किं तर्हि ? माणवकेषु । तत्रापि न गौणः; योगपरम्परया वृत्तेः । पर्यायाणामपीति । पुनर्नक्षत्रग्रहणसामर्थ्यादर्थस्यैवायमनपेक्षितोपात्तशब्दास्यातिदेशो भवति, तेन पर्यायाणामपि ग्रहणं सिद्ध्यति ।
द्वन्द्व इति किमिति । तिष्यश्च पुनर्वसूचेति वाक्ये समासेऽप्युत्तरपदार्थप्रधाने बहुत्वं न सम्भवति, तादृशः समासश्च न सुलभः, बहुव्रीहिश्च न सम्भवति व्यधिकरणत्वात्, 'संख्यापूर्वो द्विगुः' अप्यपूर्वोऽव्ययपूर्वः, अव्ययीभावश्चासम्भाव्य एवेति द्वन्द्व एव भविष्यतीति मन्यते । यस्तिष्य इत्यादि । अवयवेन विग्रहे उद्भूतावयवभेदः समुदायझ समासार्थः । उन्मुग्धाः पुरुषास्तदाह-तिष्यादय एवेति । क्विचित्तु इमे तिष्यपुनवसवो मगधा इति पठ्यते, तत्रापि वैकृत्यवचनामुहेः कर्त्तरि क्तः, अविविक्ता इत्यर्थः । ऋतवो मुह्यन्तीति यथा । नक्षत्रसमास एवायमिति । समुदायसमुदायिनोरभेदादिति भावः । सर्वो द्वन्द्व इति । ननु च एकवद्भावप्रकरणे प्राण्यङ्गादीनां समाहार एव द्वन्द्वः, दधि-पयआदौनामितरेतरयोग एवेति नियम आश्रितः; ततश्च तस्मिन् प्रकरणेऽनुपात्तानाम् 'चाथेद्वन्द्वः' इत्येव समाहारेतरेतरयोगयोर्द्वन्द्वसिद्धः, किं ज्ञापकोपन्यासेन ? सत्यम्; विपरीतोऽपि नियमः सूत्रे सम्भाव्येत--प्राण्यङ्गादीनामेव समाहार इति । तस्माद्वहुवचनग्रहणेन प्राण्यङ्गादीनां नियम्यत्वं ज्ञाप्यते । वृक्षादिविभाषाप्रयोजनं तत्रैव वक्ष्यामः ।।
सरूपाणामेकशेष एकविभक्तौ ।। 1.2.64 ।।
समानं रूपं येषामिति सरूपा इति । 'ज्योतिर्जनपद' इत्यादिना समानस्य सभावः । 'सह रूपेण वर्तन्त इति सरूपाः' इति तु न भवति; व्यभिचाराभावात् । रूपशब्दश्चैह श्रोत्रग्राह्ये शब्दसम्बन्धिनि स्वरूपे वर्त्तते, न चक्षुर्ग्राह्ये शुक्लादौ; शब्दानुशासनप्रस्तावात्तदाह--सरुपाणां शब्दानामिति । निर्धारणे चैषा षष्ठी, समुदायापेक्षया वा ।
अत्र पञ्च पक्षाः सम्भवन्ति । समानपर्याय एकशब्दः 'तेनैकदिक्' इतिवत् । समिान्त्वं च भेदाधिष्ठानमिति पृथक् सर्वेभ्यः समानायां विभक्तौ परत एकः शिष्यत इति प्रथमः । 'द्वन्द्वे' इति वर्तते, तत्र विरूपेषु सावकाशमपि द्वन्द्वमेकशेषो न बाध्ते,निमित्तत्वात्; सरूपाणां द्वन्द्वे कृते समासादेकस्यां विभक्तौ परत इति द्वितीयः । अत्र पक्षे सड्ख्यावाच्येकशब्दः । 'ह्रस्वो नपुंसके' इत्यतः 'प्रातिपदिकस्य' इति वर्त्तते, एकविभक्ताविति सारूप्योपलक्षणम् । एकविभक्तौ यानि सरूपाणि दृष्टानि तेषां प्रातिपदिकानामेवानैमित्तिक एकशेष इति तृतीयः । विभक्तिशब्दः कारकशक्तिवचनः, विभज्यतेऽनया प्रातिपदिकार्थ इति कृत्वा; एकस्मिन्कारके विवक्षिक्तिं प्रसूत इति ; पृथग् विभक्त्यन्तानामेकशेष इति चतुर्थः । सरूपसमुदायादेकस्यां विभक्तौ परत इति पञ्चमः ।
तत्राद्ये पक्षे-वृक्षस् वृक्षस् वृक्षस् इति स्थिते पूर्वयोर्निवृत्तौ स् स् वृक्षस् इति स्थिने मध्यसम्बन्धिनः सोर्हल्ङ्यादिलोपे तदितरयोः श्रवणप्रसङ्गः । एवमाद्यन्तयोरपि निवृत्तौ द्रष्टव्यम् । परयोर्द्वयोर्निवृत्तावपि शिष्यमाणसम्बन्धिनो लोपपासिद्धिरेव । गोदौ वरणा इत्यादौ च पृथग् द्विवचनयोः परत एकशेषे तयोः श्रवणप्रसङ्गः । यत्र हि प्रत्ययनिमित्ता प्रकृतिनिवृत्तिस्तत्र केवलस्यापि प्रत्यस्य प्रयोगो भवत्येव, यथा--इयानिति ।
द्वितीये तु--अश्व अश्व औ इति स्थिते विभक्त्यपेक्षाच्छेषात्पूर्वमन्तरङ्गत्वात्समासान्तोदात्तत्वे कृते यदि पूर्वशेषः सर्वानुदात्तं पदं स्याद् परशेषे तु अश्वशब्दान्तोदात्तः स्यात्, इह च ऋक्च ऋक्च ऋचौ अन्तरङ्गत्वात् 'ऋक्पूरब्धूः' इति समासान्ते कृते विभक्तेरकारेण व्यवधानान्नैकशेषः स्यात् । समासान्तो हि समासग्रहणेन गृह्यमाणस्तमेव न व्यवदध्यात्, सरूपं तु व्यवदधात्येव । एकग्रहणं वानर्थकम्, न हि द्वन्द्वाद्युगपदनेका विभक्तिः सम्भवति । यदि पुनरेकविभक्तावित्येतदकृत्वा द्वन्द्वक्रियानन्तरमेवैकशष इत्युच्येत, एवमपि पादौ पादा इत्यादौ द्विवचनबहुवचने न स्याताम् ; प्राण्यङ्गादीनां समाहार इव द्वन्द्व इति नियमाद् ।
तृतीये तु पक्षे जननीवचनो यो मातृशब्दः, यश्च 'माङ् माने' इत्यस्मात्तृचि धान्यमातृवचनः, तयोरपि माता मातृभ्याम् इति क्वचिद्विभक्तौ सरूपत्वात्सर्वत्रैकशेषप्रसङ्गः । तथा हरितशब्दाद्वर्णादनुदात्तादिति ङीब्नकारयोर्यो हरीणीशब्दः सम्पद्यते, यश्च हरिणशब्दाज्जातिलक्षणे ङीषि, तयोर्न स्यात्; ङ्यन्तयोः सारूप्येऽपि प्रातिपदिकावस्थायामसारूप्यात् ।
चतुर्थे तु निवर्त्तमानः शब्दो यद्यपि सह विभक्त्या निवर्त्तते, शिष्यमाणस्य त्वेकवचनश्रवणप्रसङ्गः ।
अतः पञ्चमं पक्षमाश्रित्याह--सरूपाणां शब्दानामेकविभक्तौ परत इति । सरूपसमूदायादेकस्यां विभक्तौ परत इत्यर्थः । ननु 'ङ्याप्प्रातिपदिकात्' इत्येकवचनान्तानां द्वन्द्वः, तत्र चैकत्वं विवक्षितम्, तत्कथं प्रातिपदिकसमुदायाद्विभक्तिः ? अस्तु प्रत्येकं प्रातिपदिकत्वम्, समुदायोऽपि त्वर्थवत्त्वात्प्रातिपदिकम्, कः पुनः समुदायस्यार्थः ? परस्परसम्बन्धः, एकैकेन विशकलितोऽर्थ उच्यते । समुदायेन तु सम्बन्धः तुल्यजातीयस्य चार्थवत्समुदायस्य समासग्रहणेन निवृत्तिः । कश्च तुल्यजातीयः ? यत्र पूर्वो भागः पदम् । न चात्रैवमिति समुदायाद्विभक्तिरविरुद्धा । सा त्वनुद्भूतावयवभेदत्वाद् द्विवचनं बहुवचनं वा, न त्वेकवचनम् । नावौ जनावौ कर्तारावित्यादावच्परत्वादावादिष्वपि कृतेषु विरूपाणामपि समानार्थत्वादेकशेषः । शेषशब्दोऽयं नागराजे अनन्ते अप्रधाने तउपयुक्तादन्यत्र च न वर्त्तते, किं तर्हि ? निवृत्तिमदवस्थान इत्याह-एकः शिष्यते इतरे निवर्त्तन्ते इति । नन्वस्मिन् पक्षे एकग्रहणमनर्थकम्, न हि समुदायद्युगपदेनेका विभक्तिः सम्भवति ? उच्यते, असत्येकग्रहणए पृथक् सर्वेभ्यो विभक्तौ परत इति प्रथमोऽपि पक्षः सम्भाव्येत । अतो यत्र पक्ष एकैव विभक्तिः सरूपाणां सम्भवति स एवैकग्रहणादा श्रीयते । अथ वा चतुर्थे पक्षे ग्रन्थः-कथं तर्हि विभक्तौ परत इति, न हि कारकशक्त्या शब्दानां पौर्वापर्यं भवति, उच्यते; इष्टवाची परशब्दः एकस्यां विभक्ताविष्यायां एकस्मिन्कारके विवक्षित इति यावत् । ननु चोक्तम्-शिष्यमाणस्यैकवचनश्रवणप्रसङ्ग इति, न वेदानीं निवर्त्तमानसङ्ख्यावेशादुपजायमाने द्वित्वबहुत्वे द्विवचनबहुवचने उपजनयितुमुत्सहेते, प्रत्ययान्तत्वेनाप्रातिपदिकत्वात्, नैष दोषः; सहविवक्षायामेकशेषः । का पुनः सहविवक्षा ? उक्तमत्र-
अनुद्भूतेव भेदानामेका प्रख्योपजायते ।
यदा सहविवक्षां तामाहुर्द्वन्द्वैकशेषयोः ।। इति ।
अयमर्थः--यदा बहवोऽर्था एकस्यां बुद्धौ उपारूढाः, यथा--पुरोऽवस्थितस्य हस्तस्य पञ्चाङ्गुलयः, ते चैकस्मिन्गुणे क्रियायां वा तथैव विनियुज्यन्ते-शोभना इति वा, दृश्यन्त इति वा, तदा सहविवक्षा । तथा हि-आत्मनो या बुद्धिस्तां परत्र संक्रमयितुं प्रयोक्त्रा शब्दः प्रयुज्यत इति । यदि चावयवाः पृथक् पृथगवधारिताः स्युः, यथा वातायनगतेन क्रमेण गच्छन्तः ततो भिन्नैरेव शब्दैः प्रत्यकं पर्यवसायिभिरेकवचनान्तैरभिधीयतेरन् । समुदायाकारा त्वनुस्यूतावयवभैदैका बुद्धिः तां परत्र सङ्क्रमयितुमितिच्छता तदनुरूपं शब्दः प्रयोक्तव्यः । न च तादृशस्य समुदायस्यासाधारणः कश्चिच्छब्दोऽस्स्तीत्यवयवशब्दैरेवासौ प्रतिपाद्यः । उपपदाय्ते चावयवशब्दैरेवाभिधानाम्; समुदायसमुदायिनोरभेदात् । स चैकैक एवावयवशब्द उद्भूतावयवभेदसमुदायप्रतिपादानाद् द्विवचनान्तो बहुवचनानतश्च प्रवर्तत इति नैकवचनश्रवणप्रसङ्गः । यद्येवम्, एकेनैवावयवशब्देन तादृशस्य समुदायस्याभिधातुं शक्यात्वान्न यावदवयवशब्दप्रयोगप्रसङ्गः ।
अथ मतम्-अन्योऽन्यसन्निधावेव समुदायरूपार्थाभिधानशक्तिः प्रादुर्भवति, कथं तर्हि एकषेषारम्भे एकस्य सा भवति, न हि सतोऽसती शक्तिरेकशेषवचनेन कर्तुं शक्यते ? उच्यते; विरूपेष्वन्योऽन्यसन्निधाने समुदायार्थाभिधानशक्तिः प्रादुर्भवति । पटुगुप्तावित्यत्रापि ह्युद्भूतावयवभेदं समुदायं प्रतिपादयितुमवयवशब्द एव प्रत्येकं द्विवचनान्तः प्रवर्त्तते, अन्यथा द्विवचनबहुवचनायोगात्स्वार्थमात्रपर्यवसायिभिरवयवशब्दैः क्रमेणैवोच्चरणादर्थोऽपि प्रतीयते । क्रमेण चानेकार्थप्रतीतौ द्विवचनबहुवचने न भवतः । समुच्चयश्च भवति, तद्यथा वाक्य- - पटुश्च गुप्तश्चेति । अतो विरूपेष्वेवं दर्शनात्सरूपेष्वपि द्वन्द्वाशङ्कायां सरूपेष्वेकस्यैवानेकार्थप्रतिपादनशक्तिरस्तीति वचनेन व्युत्पाद्यते ।
अन्ये तु तृतीयमपि पक्षं ग्रन्थारूढं वर्णयन्ति । सरूपाणां शब्दानामेकविभक्तौ परत एकशेषो भवति; एकविभक्तौ परतः सरूपाणामित्यन्वः, न त्वेकशेष इति । एकस्मिन्कारके विवक्षिते, एकविभक्तौ वा परतो ये सरूपा दृष्टाः शब्दास्तेषामित्यर्थः । तत्र च शिष्यमाण एव निवर्त्तमानस्याप्यर्थमाचष्टे । अग्निचिदिति प्रत्ययनिवृत्तौ प्रकृतिवदिति द्विवचनबहुवचने यथायोगं भवतः । तत्र यदुक्तम्-हरितहरिणयर्ङ्यन्तयोर्न स्यादिति, तन्न; प्रातिपदिकग्रहणं नानुवर्त्तते, तेन ङ्यन्तयोहेव सारूप्याद् भविष्यति । यदप्युक्तम्-मातृशब्दयोः प्रसङ्ग इति, अर्थविप्रतिषेधान्न भविष्यति । कृते ह्येकशेषे ताभिरित्यनुप्रयोगे पुनर्थो न गम्यते, तैरित्युक्ते स्त्र्यर्थः । वक्ष्यमाणस्य वा एवकारस्येहानुकर्षणादेकविभक्तौ यानि सरूपाण्येवेत्याश्रयणात्परिच्छेतृवाचिनश्च 'अप्तृन्तृच्' इति सर्वनामस्थाने दीर्घविधानादसारूप्यादेकशेषाभावः । अत्र पक्षे एकग्रहणं चिन्त्यप्रयोजनम् । तदेवं पञ्चसु पक्षेषु त्रयः स्वीकृताः ।
वृक्षश्च वृक्षश्चेति । 'अनैमित्तिक एकशेषः ' इति पक्षे विभक्तौ सारूप्यं दर्शयितुं विभक्त्यन्तेन विग्रहः । कथं पुनर्विग्रहः, यावता एकशेषवृत्तिर्नित्या ? नैतद्वृत्त्या समानार्थवाक्यम्, प्रत्येकमत्र विवक्षा । आतश्च प्रत्येकम्; यतोऽत्र भेदनिबन्धेन समुच्चयश्चशब्देन द्योत्यते, भिन्नार्थमपि किञ्चिन्मात्रासाधर्म्याद्वाक्यं भवत्येव । समानार्थन्तु बाध्यत एव, यथा-वृक्षौ च वृक्षौ वृक्षाश्च वृक्षाश्च वृक्षा इति । ननु यद्येतावदेकार्थाभिनिवेशिनः शब्दाः--आकाशद्रव्यत्वगोत्वादयः, न तेषु द्विवचनबहुवचनेनाप्येकशेषः; ये त्वनेकार्थाभिनिवेशिनः--गौः शुक्लः, पाचक इत्यादयः, तेष्वनुस्यूतं किञ्चिदर्थगतमेकं गोत्वादिनिमित्तं वक्तव्यम्; अन्यथा सम्बन्धग्रहणासम्भवादत्र गवादिषु तद्गुणता जातिर्निमित्तं न, यथा शुक्लादिष्वपि गुणमात्रनिष्ठषु । गुणनिष्ठेषु तु स्वगतया जात्या एकीभूतो गुणः । एवं पाचकादिष्वपि गोत्वाश्वत्वे सामान्ये, निः साम्यानि सामान्यानीत्यत्र भिन्नेष्वभिन्नप्रत्ययहेतुत्वं तावेतावित्यादौ परोक्षत्वप्रत्यक्षत्वादिकम् ।
अभावाश्चत्वार इत्यत्र निरूपाख्यत्वमित्यादि सर्वत्र द्रष्टव्यम् । निमित्ततद्वतोश्च तादात्म्यम्, सर्वं हि वस्तु एकं नाना च गवादिरूपेणैकं खण्डादि प्रातिपदिकरूपेण नाना । एवं स्थिते यदि तावज्जातिरेव शब्दार्थस्तदा तस्या एकत्वान्नानेकशब्दप्रसङ्गः । अथाप्युभयम्, एवमपि जातिरूपेणैव शब्दो द्रव्यमभिधत्ते न प्रातिस्विकेनाकारेणेति नास्त्यनेकशब्दप्रसङ्गः । केवलद्रव्यपदार्थपक्षेऽपि अस्मिन्विषयेऽनेकार्थाभिधानसामर्थ्यं शब्दस्य द्व्यादिपदवदभ्युपगन्तव्यम्, अन्यथा सत्यप्येकशेषे तन्न स्यादिति सिद्धमेकशब्दत्वम् । द्रव्यगतसङ्ख्याप्रतिपादनाय द्विवचनबहुवचने भविष्यत; नार्थ एतेनेत्याशङ्क्याह -- प्रत्यर्थमित्यादि । एकैकस्मिन्नर्थे यस्माच्छब्दानां निवेशस्ततोऽनेकेन शब्देनानेकस्याभिधानं सिद्ध्यति । तत्रैवं स्थितेऽनेकार्थाभिधाने कर्त्तव्ये यावन्तस्तेऽर्थास्तावतां शब्दानां प्रयोगः प्राप्नोति, इष्यते चैकशब्दत्वम्, तस्मादेकशेष आरभ्यते ।
अयमभिप्रायः--केवलं जातिपक्षे अक्षाः पादाः माषा इत्यादौ अनेकशब्दत्वं स्याद्, न हि बिभीतकदेवनशकटाक्षेष्वनुस्यूतं किञ्चित्सामान्यमस्ति । अत एव तत्र व्युत्पत्तिर्भेदेनापेक्ष्यते, एवमुभयपक्षेऽपि । केवलद्रव्यपक्षेऽपि वृक्षश्चेति वाक्येऽनेकशब्ददर्शनाद्विरूपेषु द्वन्द्वदर्शनाच्चारम्भणीयमेतदिति ।
रूपग्रहणं किमिति । अन्तरङ्गत्वादहेयत्वादुपदेशानपेक्षत्वाच्च रूपकृतमेव समानत्वं ग्रहीष्यते इति प्रश्नः । प्रतिपतिलाघवं च समानानामित्युच्यमाने भवति रूढिशब्दत्वेन रूढिरिति तुल्यार्थावगमात् । रूपग्रहणे तु वर्तिपदार्थमवगम्यान्यपदार्थोऽवगन्तव्य इति गौरवं भवति । भिन्नेऽप्यर्थे इति । 'स्वं रूपम्' इत्यत्र रूपग्रहणेन ज्ञापितं शास्त्रे रूपवदर्थोऽपि तन्त्रमिति । ततश्चार्थरूपाभ्यां समानत्वं गृह्येतेति भावः ।
एकग्रहणं किमिति । शेष इत्येकत्वं विवक्ष्यत इति प्रश्नः । द्विबह्वोरिति ।द्वित्वबहुत्वविषयस्यानेकस्य शब्दस्येत्यर्थः । ननु द्वयोर्बहूनां चेति बहुवचनप्रसङ्गाद् इह शेषविधानद्वारेण संस्क्रियमाणत्वाच्छिष्यमाणं प्रधानम्, प्रधाने च सङ्ख्या न विवक्ष्यते, यथा-ग्रहं संमार्ष्टीति, विषम उपन्यासः; संमार्गे विधौ द्वितीयानिर्देशात् ग्रहाः प्रधानभूताः, संमार्गस्तु तेषां संस्कारः । संस्कारो नाम तस्य भवति यच्छास्त्रान्तरे प्रयोजनवत्यां क्रियायां साधनत्वेन विनियुक्तम्, संस्कृतस्य वा यस्य विनियोगः, द्रव्यमात्रस्य रूपसंस्कारोऽनर्थकः स्यात् । यदिह संमार्गसंकारो विधीयमानः शास्त्रान्तरे विनियुक्तं ग्रहमपेक्षते ततर् नवसङ्क्या ग्रहा श्रुता इति तदपेक्षः संमार्गविधिर्नवानामपि भवितुमर्हति । ग्रहमित्येकवचनं तु कर्मत्वमात्रमभिधायकतार्थं भविष्यति । इह तु शेषस्य वाक्यान्तरेऽनवधारणादिदमेवोत्पत्तिवाक्यामिति विवक्षणीया सङ्ख्या, पशुमालभेतेतिवत्, सत्यम्; इदमेवैकग्रहणं ज्ञापकम्-शास्त्रान्तरानवगतेऽपि प्रधाने सङ्ख्या न विवक्ष्यत इति, तेन कर्तुरीप्सिततममित्यत्र ईप्सिततमस्य सङ्ख्याया अविवक्षा सिद्धा भवति ।
शेषग्रहणं किमिति । साध्वनुशासनप्रक्रमात्सरूपाणामेकः साधुर्भवतीति विज्ञास्यत इति भावः । आदेशो मा भूदिति । असति हि शेषग्रहणे 'षष्ठी स्थाने योगा' इति वचनात् स्थानषष्ठी स्यात्, ततश्चादेशः स्याद्, अस्तु; शब्दतोऽर्थतश्चान्तरतमो भविष्यति ? नैवं शक्यम्, स्वरे हि दोषः स्याद् द्वयोरश्वशब्दयोः समुदायः स्थानी, तत्र च द्वावुदात्ताविति द्व्युदात्त आदेशः स्यादेतेन द्व्यनुदात्तत्त्वं व्याख्यातम् ।
एकविभक्ताविति किमिति । नानाविभक्तौ वैरूप्यमवश्यंभावीति भावः । पयः पय इति । एकविभक्तावित्यस्मिन्नसति सरूपाणां सर्वत्र सह प्रयोगो न स्याद् । अथ क्रियमाणेऽप्यस्मिन्ननैमित्तिकपक्षे कस्मादेवात्र न भवति, एतदपि ह्येकस्यां विभक्तौ परतः सरूपं दृष्टमेव ? नैष दोषः; एकग्रहणमस्मिन्पक्षे अतिरिच्यत इत्युक्तम्, तत्सामर्थादेकस्यामेव विभक्तौ विषयभूतायां भविष्यति । अत्र तु सत्येकशेषे पर्यायेण विभक्तिः स्यात् ।
अथ वा-किं न एतेन पक्षेण क्लेशतो व्याख्येयेन ? स्तां द्वावेव पक्षौ ? इह एकश्चेति सङ्ख्याश्बदानामेकशेषो न भवति, अनिभिधानाद् । विंशत्यादीनां तु भवत्येव ।।
वृद्धो यूना तल्लक्षणश्चेदेव विशेषः ।। 1.2.65 ।।
वृद्धशब्दोऽयं लोके चरमे वयसि प्रसिद्धः,युवशब्दो द्वितीये, तयोरिह ग्रहणे तरुणश्च वृद्धश्च युवा च स्थविरश्चेत्यादौ स्यात् । 'वृद्धिर्यस्याचामादिस्तद्वृद्धम्जीवति तु वंश्ये युवा'- -अनयोः शास्त्रीययोर्ग्रहणे औपगवश्चानन्तर औपगविश्च युवेत्यादावपि स्यात् । अतो युवशब्दस्य तावत्कृत्रिमस्य व्यवहितापत्यवाचिनोऽत्र ग्रहणम्, तत्साहचर्याद्वृद्धशब्दस्यापि व्यवहितापत्यवाचिनः शास्त्रान्तरे प्रसिद्धस्य ग्रहणमित्याह--वृद्धशब्द इत्यादि । गोत्रग्रहणे त्वपत्याधिकारादन्यत्र लौकिकस्य ग्रहणमित्यपत्यमात्रस्य ग्रहणं स्यात् । क्वचित्पुनरधिकोऽपि ग्रन्थः पठ्यते--यूनेति सहयोग एषा तृतीयेति । स इदानीन्तनैः प्रक्षिप्तः, यूना सह वचन इति सहशब्दं प्रयुञ्जानः सूत्रे सहयोगे तृतीयेति दर्शयति । अत एव ज्ञाप्यते-सहविवक्षायामेकशेष इति । विशेषो वैरूप्यमिति । शब्दस्य वृद्धयुवनिमित्तस्य ग्रहणान्नान्य इति भावः । पदार्थं दर्शयित्वा तदयमर्थ इत्याह-वृद्धयुवनिमित्तकमेवेत्यादि । समानायामाकृताविति । आकृतिः शब्दस्य प्रवृत्तिनिमित्तं गर्गापत्यत्वादि । क्वचित्तु प्रकृताविति पाठः, प्रकृतिः मूलप्रकृतिर्गर्गशब्दादिः । गार्ग्यश्चेत्यादि । गर्गवत्सशब्दाभ्यां गर्गादित्वाद्यञन्ताभ्यां यूनि 'य़ञिञोश्च' इति फक् । गार्ग्यायणाविति । प्रकरणादिनात्र जीवद्वंश्यतावसायः; शब्दस्य गोत्रद्वयस्यापि साधारणत्वाद् ।
यद्येवम्, गार्ग्यश्च गार्ग्यश्चेति गोत्रशब्दयोरेव पूर्वेणैकशेषोऽस्ति प्रकरणादिनैव युवत्वमन्यतरस्य गंस्यते । यूनो हि द्वावाकारौ-जीवद्वंश्यत्वम्, पौत्रप्रभृत्यपत्यत्वं च; तत्र विशेषाविवक्षायां सामान्यशब्दो न निवर्तते, यथा-वस्तुतो भूतानद्यतनेऽपि 'अभून्नृपो विबुधसखः' इति लुङ् भवति, तस्मान्नार्थ एतेन ? उच्यते; प्रकरणानपेक्षेण शब्देन जीवद्वंश्यत्वं प्रतिपादयितुकामो द्वन्द्वं प्रयुञ्जीत गार्ग्यायणाविति । अतो द्वन्द्वनिवृत्यर्थं वचनम् । प्रत्युदाहरणे तु सर्वत्र द्वन्द्वो भवति--गार्ग्यवात्स्यायनाविति । नन्वत्र विशेषान्तरसद्भावेऽपि तल्लक्षणो विशेषो विद्यत इति स्यादेकशेषः, नैष दोषः; एवमर्थवचनं व्यज्यते-योऽसौ विशेषो यस्य सद्भावात्पूर्वेणापप्राप्तिः, स तल्लक्षणश्चेदिति । एवं च यावदुद्देश्यं विधेयसम्बन्धात् सूत्रारम्भहेतुभूतस्य कृत्स्नस्य विशेषस्य तल्लक्षणत्वविधानात् कुतोऽत्र प्रसङ्गः ! इह तु प्राप्नोति--भागवित्तिभागवित्तिकाविति, कृत्स्नस्य विशेषणस्य तल्लक्षणत्वात् ? एवकारेण तु व्यावर्त्यते, न ह्यत्र तल्लक्षण एव विशेषस्तदाह--कुत्सा सौवीरत्वं चापरो विशेष इति । विशेषहेतुरित्यर्थः ।।
स्त्री पुंवच्च ।। 1.2.66 ।।
स्त्रीत्वस्य वैरूप्यकारणस्याधिक्याद्वचनं पुंवच्चेति वक्ष्यामीति च । अत्र स्त्रीशब्दस्य स्वरित्वे स्त्र्यधिकारविहितानां टाबादीनां ग्रहणादयमर्थो भवति- पुंवत् स्त्रीप्रत्ययो न भवति । यथा पुंवदस्यास्तनावित्यभावातिदेशस्तद्वत् । ततश्च स्त्रीत्वस्यानिवृत्तत्वाद् गार्ग्यश्च स्त्रियो गार्ग्यायणश्च गर्गा इत्यत्र 'यञञोश्च' इति लुग् न स्यात् । 'अस्त्रियाम्' इत्यधिकारात् प्रसज्यप्रतिषेधेऽयं दोषः । पर्युदासे तु शिष्यमाणस्य निवर्त्तमानार्थाभिधायित्वादिस्ति स्त्रीसदृशोऽयं दोषः ।च पर्युदासे तु शिष्यमाणस्य निवर्त्तमानार्थाभिधायित्वादस्ति स्त्रीसदृशोऽर्थं इति सिद्ध्यति । इह तु गर्गान्पश्येति स्त्रीत्वस्यानिवृत्तत्वान्नायं पुंसां बहुत्वे शस् उत्पन्न इति नत्वं न स्यात् । स्त्र्यर्थवृत्तेः शब्दस्य तु ग्रहणे स्त्रीशब्दस्य पुंशब्दस्येव रूपं भवतीत्यर्थः स्यात् । स्त्रीत्वं त्वनुवृत्तमेव । तत्र यद्यपि गर्गा इति बहुषु पुंशब्दस्य रूपमिति तस्मिन्नतिदिष्टे जसादिषु न दोषः, नत्वं तु विभक्तिकार्यं न स्यात् । एवं स्त्र्यर्थग्रहणे तु पुमर्थातिदेशात्तत्प्रतिबद्धानां कार्याणां सिद्धिरिति न कश्चिद् दोषः । स्त्रीति चोक्तेऽर्थ एव प्रतियते । शब्दानामर्थपरत्वात्स्वरूपग्रहणं त्वनाशङ्क्यमेव; वृद्धो यूनेत्यनुवर्त्तनाद् । अतोऽर्थस्यैव ग्रहणमित्याह-स्त्र्यर्थः पुमर्थवद्भवतीति । गार्गी चेत्यादि । गार्ग्यवात्स्यशब्दाभ्याम् । 'यञश्च' इति ङीप् । दाक्षीति । 'इतो मनुष्यजातेः' दाक्षी इति ङीषि निवृत्ते इञन्ताद् द्विचने 'प्रथमयोः' इति दीर्घः । इतमपि द्वन्द्वनिवृत्त्यर्थमेव वचनम् ।।
पुमान् स्त्रिया ।। 1.2.67 ।।
स्त्रीपुंसलक्षणश्चेदेव विशेष इति । पदान्तरगम्येऽपि तल्लक्षणे विशेषे भवति, यथा-गौश्चायं गौश्चेयमिति एतौ गावौ चरत इति । एवं कन्याखुकृकवाकुग्रामणीखलपूप्रभुतिषु पुंसः शेषो वेदितव्यः । इह कस्मान्न भवति-हंसश्च वरटा च कच्छपश्च डुलिष्वरुश्यश्च रोहिच्च अश्वश्च व़डवा च पुरुषश्च योषिंच्चेति, सर्वत्राप्यत्र स्त्रीपुंसकृत एव विशेषः ? 'सरूपाणाम्' इति वर्त्तते, तेन समानायां प्रकृतौ यत्र स्त्रीपुंसकृत एव विशेषस्तत्रैव भवति । इह तु ब्राह्मणवत्सश्च ब्राह्मणीवत्सा चेत्यत्र प्राप्नोति, नैष दोषः' स्त्रीपुंसयोः सहविवक्षायामेकशेषः । सा च प्रधानयोरेव भवतीति यत्र प्रधानस्त्रीपुंसकृत्त एव विशेषस्तत्रैवैकशेषः, इह त्वप्रधानकृतोऽपीत्येकशेषाभावः । इहापि मृगक्षीरादिवज्जातिविवक्षायां कुक्कुटावित्यादि सिद्धम् । द्वन्द्वनिवृत्त्यर्थन्तु वचनम् । प्रागित्यव्ययमिति । प्रपूर्वादञ्चतेः क्विन्नन्तादस्तातेः 'अञ्चेर्लुक्' इति लुकि 'तद्धितश्चासर्वविभक्तिः' इत्यव्ययत्वं सत्त्वासत्त्वयोर्द्वन्द्वैकशेषौ चिन्त्यौ ।।
भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ।। 1.2.68 ।।
इदमपि द्वन्द्वनिवृत्त्यर्थं वचनम् । स्वसृशब्दस्य ह्येकापत्यत्वं निमित्तम्, दुहितृशब्दस्यापत्यत्वमेव । भ्रातृपुत्रशब्दयोः स्त्रीत्वपुंस्त्वं चोभयत्र विशेषः । तत्र 'भ्रातरौ पुत्रौ' इति स्त्रीपुंस्त्वाविवक्षायां सिद्धं स्वसृदुहित्रोरभिधानम् । एकशेषारम्भेऽप्ययमेव निर्वाहः ।।
नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ।। 1.2.69 ।।
शुक्ला च शुक्लं चेति । विभक्तौ विभक्त्यन्तयोश्चासारूप्यादप्राप्त एकशेषः, शुक्लं च शुक्लश्चेति विभक्त्यन्तयोरसारूप्यम् । विभक्तौ सारूप्येऽपि पुंनपुंसकयोः पर्यायः स्यादिति वचनम्, एकवद्भावार्थं च । तल्लक्षणश्चेदेव विशेष इति वर्तत इति । शुक्लं च कृष्णश्चेत्यत्र मा भूत् । एवाकारस्तु हिमहिमान्यौ अरण्यारण्यान्यावित्यत्र मा भूदिति । 'अत्र हिमारण्ययोर्महत्त्वे' इति महत्त्वमपरो विशेषः, अन्यतरस्यांग्रहणमानन्तर्यादेकवच्चेत्यनेन सम्बन्ध्यते, न त्वेकशेषेण चेत्याह-एकवच्चेत्यादि । अस्य ग्रहणमेकवच्चेत्यस्योत्तरत्रानुवृत्तिर्मा भूदिति । इह शुक्लेन च वस्त्रेण शुक्लेन च कम्बलेन तेनानेन शुक्लेनेति तल्लक्षणविशेषाभावादेकशेषो न प्राप्नोति, सामान्यविवक्षायामेकशब्दत्वमेकवचनं नपुंसकत्वं च भविष्यति । यद्येपम्, तदिदं शुक्लमित्यत्राप्येवमेव भविष्यति, नार्थ एतेन ? द्वन्द्वनिवृत्त्यर्थं तु वचनम् ।
अनपुंसकेनेति किमिति । नपुंसकेनापि सहवचने सरूपाणामित्येकशेषेण भवितव्यमिति प्रश्नः, तेन यथा स्यादेनेन मा भूदिति प्रत्युत्तरम् । को न्वत्र विशेष इत्यत्र आह- एकवच्चेति ।।
पिता मात्रा ।। 1.2.70 ।।
अभ्यर्हितत्वान्मातुः पूर्वनिपातः, 'पितुर्दशगुणं माता गौरवेणातिरिच्यते' । पितरावित्यभिधानं जनयितृत्वमात्रविवक्षायां लिङ्गाविवक्षायां समर्थनीयम् । एकशेषारम्भेऽपि द्वन्द्वस्त्विष्यत एवेति नार्थ एतेन ।।
श्वशुरः श्वश्र्वा ।। 1.2.71 ।।
पितृश्वशुरौ मातृश्वक्षूभ्यामिति नोक्तम्, लाघवार्थम् । श्वश्रूशब्दोऽव्युत्पन्नं प्रातिपदिकं श्वशुरस्योकाराकारलोपश्चेत्यूङन्तत्वे प्रत्ययान्तत्वाद् ब्रह्मबन्धूरित्यादिवदेकदेशाभावाच्चाप्रातिपदिकत्वेऽपि श्वश्रेत्यस्मादेव निर्देशाल्लिङ्गात् सुपस्तद्धिताश्च भवन्ति । श्वश्रूश्वशुराविति । अभ्यर्हितत्वादेव पूर्वनिपातः, 'श्वश्रूः पूर्वजपत्नी च मातृतुल्या प्रकीर्तिता' अत्रापि दम्पत्योर्जनयितृत्वमात्रविवक्षायां लिङ्गाविवक्षायां समर्थनीयम् । अनारम्भपक्षेऽपि श्वश्रूश्वशुरावित्यभिधाने द्वन्द्वस्त्विष्यत वेति, नार्थ एतेन ।।
त्यादादीनि सर्वौर्नित्यम् ।। 1.2.72 ।।
सर्वशब्दस्यार्थमाह--त्यदादिभिरन्यैश्चेति । एतदेव प्रकटयति - सर्वग्रहणमिति । त्यादिभिरन्यैश्चेति । यदिदं साकल्यमुक्तं तदर्थमित्यर्थः; अन्यथा प्रत्यासत्तेः 'तल्लक्षणश्चेदेव विशेषः' इत्यधिकाराद्वा त्यदादिभिरेव सहवचने स्यादिति भावः । स च देवदत्तश्चेति । ननु देवदत्तोऽपि सामान्यविवक्षायां तच्छब्देनैव निर्देष्टुं शक्यते, ततश्च सरूपाणामित्येव सिद्धम् । न चारब्धेऽपि सूत्रे वृत्तौ विशेषोऽन्तर्भावयिन्तुं शक्यः, तावित्यस्य सरूपसाधारणत्वाद्विरूपाणां च नानाविधात्वात्, सत्यम्; तद्देवदत्तावित्यादिद्वन्द्वनिवृत्त्यर्थं वचनम्, अन्यथा 'तत्पुत्रस्तदीयः' इत्यादिवृत्त्यन्तरवद् द्वन्द्वोऽपि स्यात् ।
यद्यत्परमिति । त्यदादिपाठे शब्दपरविप्रतिषेधाश्रयणादिति भावः । स च यश्च यावित्यादि । भाष्ये तु 'पूर्वशेषः खल्वपि दृश्यते - स च यश्च तौ' इत्युक्तम् । इह चाहं च भवांश्चावामिति भवतीत्याहुः ।
त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि । आद्यादित्वात्तसिः, त्यदादीनां शेषे सह विवक्षितो योऽर्थः पुमान्, यच्च नपुंसकं तद्वशेन लिङ्गवचनानि भवन्तीत्यर्थः । स च देवदत्त च तौ, सा च देवदत्तश्च तौ, तच्च देवदत्ता च ते । पुंनपुंसकयोस्तु सहविवक्षायां परत्वान्नपुंसकवशेन व्यवस्था । तच्च देवदत्तश्च ते, इह स च कुक्कुटः सा च मयूरी - कुक्कुटमयूर्यावेते, अर्धं पिप्पल्यास्तद् अर्धंपिप्पली च सा अर्धंपिप्पल्यौ ते इति परवल्लिङ्गमिति समासार्थस्य लिङ्गातिदेशात्तद्विशेषणस्यापि सर्वनाम्नस्तदेव लिङ्गं भवति ।।
ग्राम्यपशुसंघेष्वतरुणेषु स्त्री ।। 1.2.73 ।।
ग्रामे भवा ग्राम्याः । 'ग्रामाद्यखञौ' । पुंसः शेषे प्राप्त इति । 'पुमान् स्त्रिया' इत्यनेन । सामर्थ्यादिति । प्रधानस्य संघस्य तारुण्यातारुण्ये न सम्भवत इत्यस्मात्सामर्थ्याद् गुणभूतानामपि पशूनां विशेषणमित्यर्थः ।
एतौ गावाविति । यद्यपि द्वयोरपि संघो भवत्येव, तथापीह संघग्रहणसामर्थ्यांद्वहूनां संघो गृह्यते, अन्यथा शेषस्यानेकविषयत्वाद् अनर्थकं न स्यात् ।
? अनेकशफेष्विति । शफाः = खुराः । उष्ट्राणां त्वारण्यत्वादेकशेषाभावः ।।
इति श्रीहरदत्तदमिश्रविरचितायां पदमञ्जर्यां प्रथमस्याध्यायस्य
द्वितीयः पादः समाप्तः ।।
* * *