काशिका (पदमञ्जरीव्याख्यासहिता)/षष्ठोऽध्यायः/द्वितीयः पादः

← प्रथमः पादः काशिका (पदमञ्जरीव्याख्यासहिता)
द्वितीयः पादः
[[लेखकः :|]]
तृतीयः पादः →

अथ षष्ठाध्याये द्वितीयः पादः
पदमञ्जरी
बहुव्रीहौ प्रकृत्या पूर्वपदम् ।। 6 - 2 - 1 ।।
 इह यस्य विकारः प्राप्तस्तस्य प्रकृतिभावो विधेयः। न च कृत्स्नस्य पूर्वपदस्य शेषनिघातलक्षणो विकारः प्राप्तः किन्तु तत्स्थयोरुदात्तस्वरितयोरेव, तस्मात्त्योरेव पूर्वपदशब्दो वर्तते,तदाह - पूर्वपदग्रहणमित्यादि। समासान्तोदात्तत्वे हीत्यादिना विकारप्राप्तिं दर्शयति। समासान्तोदात्तत्वापवादोऽयमिति। नाप्राप्ते तस्मिन्नारम्भात् । ननु च यत्र सामान्यविधिप्रपृत्तिमनपेक्ष्य विशेषविधिप्रवृत्तिस्तत्रापबादत्वम्, यथा -- कर्मण्यण् आतोऽनुपसर्गे कः इति इह तु सत्यां विकारप्राप्तौ प्रकुतिभावो विधेयः, विकारप्राप्तिश्च समासस्येत्यस्मिन् प्रववृत्त इति कथं तत्प्रवृत्त्यपेक्षस्तदपवादः, अतः समासस्येत्यस्मिन्प्रवृत्ते प्राप्तस्य शोषनिधातस्यैवायमपवादो युक्तः नैतदेधम, यद्ययं निघातापवादः स्यात्, तत्रैवायं ब्रूयाद् - अनुदात्तम्पदमेकवर्जम बहुव्रीहौ पूर्यपदम् इति । नन्वेवनुत्यमाने समपाद इत्यादौ स्वाभाविकस्यापि पूर्वपदानुदात्तस्य प्रतिषेधप्रसङ्गः, किं कारणम् अनन्तरस्य विधिर्वा भवति प्रतिपेधो वा इति तस्मात्समासस्येतेयस्यानन्तरमारभ्यमाणस्तस्यैवायमपवादः। ननु चेक्तम् -- कथं तत्प्रवृकत्त्यपेक्षस्तदपवादः इति उच्यते निदानेच्छेदेन निदानिन उच्छेदः शक्यते कर्तुम्, समासान्तोदात्तत्वं च शेषनिधातलक्षणस्य पूर्वपदविकारस्य निदानम्, अतस्तदभावद्वयोरेण निदानभूतस्य समासान्तोदात्तस्यैवास्मिन् विषयेऽप्रवृत्तिराख्यायते । नन्वेवं नानापदस्वरप्राप्तौ समाससान्तोदात्तस्यारम्भात्तदप्रवृत्तौ द्वयोरपि पूर्वेत्तरपदयोः प्रकृत्स्वरप्रसङ्गः, तथा हि सति न बहुव्रीहेः इति समासान्तोदात्तत्वमेव प्तिपेवेत्, अस्तु वा समासान्तोदात्तत्वम्, अस्तु वा सोषविधातः, पश्चात्तु प्रकृत्वेत्यनेन स्वरविशेशमुपलक्ष्य स स्वरः पूर्वपदस्य विधीयते, शेषविधातात्प्राक् पूर्वपदास्य प्रकृत्या यः स्वरस्तत्स्वरकं पूर्वपदं बहुव्रीहौ भवतीतिः यदि वा प्रकृत्या इत्यनेनस्वरविशेषे उपलक्षिते सत्ययमर्थो भवति बहुव्रीहौ पूर्वपदस्य स्वभाविको यः स्वर आद्युदात्तत्वादिकः स भवतीति, एवं च यथा पूर्वपदस्यादिरुदात्तो भवतीत्युक्तेन समासस्येत्येतत्प्रवृत्त्यपेक्षा, तादृगोतदिति युज्यते तदपवादता।
कृष्णो मृग इति। यस्याजिनं कृष्णाजिनमित्युच्यते।
ब्रह्मचारिन्शब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्त इति। तथा चाधीयते---
ब्रह्मचारी चरति विषयद्विषाम्। कस्य ब्रह्मचार्यसीत्यादौ णिनिः, पूर्वपदाद्युत दात्तत्वं तु न भवति, प्रवृद्धादिषु पाठादाकुतिगणो हि स इष्यते । वृत्तौ तु कृदुत्तरपदप्रकृतिस्वरेणेत्युपलक्षणम् । अपर आह-छ़न्दसि परादिश्च परान्तश्च इत्यन्तेदात्तत्वम्। वृत्तेस्त्वयमर्थः -- ब्रह्मेव चरति ब्रह्मचारीत्युपमानमत्र पूर्वपदम्, ततः किम् उपमानं शब्दार्थप्रकृतावेव इति नियमात्कृदुत्तरपदप्रकृतिस्वर एव भवतीति । स्नातकशब्दः कन्प्रत्ययान्त इति। यावादिषु स्नात वेदसमाप्तौ इति पठ्यते ।
मनोर्जातावञ्यतौ षुक्च, मनुष्यः । यदि तर्ह्मयं प्रकृतिभावः समासान्तोदात्तत्वं बाधते, सर्वानुदात्तेऽपि पूर्वपदे बाधेत, तत्रापि ह्यस्य प्रवृत्तिर्न केनचिद्वार्यते, विशेषविधिश्च प्रवर्तमानः सत्यपि सम्भवे, सामान्यविधेर्बाधको भवति, तक्रदानमिव दधिदानस्य इत्यत आह -- उदात्तग्रहणमित्यादि । न्यायतेऽप्ययमर्थः सिद्धः, कथं यस्य विकारः प्राप्तस्तस्य प्रकृतिभावो विधेयः, विकारप्राप्तिश्चोदात्तस्वरितयोरेव, अत एव पूर्वमुक्तमुदात्ते स्वरिते वा वर्तते इति।
समभाग इति । समशब्दः सुञो डमप् इति व्युत्पादितः सर्वानुदात्ततः । नन्वत्रासत्यपि समासान्तोदात्तत्त्वे भागशब्दस्य कर्षात्वतः इति अन्तोदात्तात्वत् समाभागशब्दोऽन्तोदात्त एव भविष्यति। तस्मादुदाहराणदिगियं दर्शिता, समपाद इत्युदाहर्तव्यम्, पादशब्दो वृषादित्वादाद्युदात्तः।
किमर्थं पुनरिदमुच्यते पूर्वपदप्रकृतिस्वरो यथा स्यात्, समासान्तोदात्तत्वं मा भूदिति,नञ्सुभ्याम् इत्येतन्नियमार्थं भविष्यति - यदि बहुव्रीहौवन्तोदात्तत्वं भवति नञ्सुभयामेवेति। न चैवं नानापदस्वरप्राप्तौ समासान्तोदात्तत्वविधानान्नियमेन तस्मिन्व्यावित्तितेऽपि पूर्वोत्तरापदयोर्द्वयोरपि पर्यायोण प्रकृतिस्वरप्रसङ्गः,
शितेर्नित्याबह्वच् इत्यस्य नियमार्थत्वात् यदि बहुव्रीहावुत्तरपदं प्रकृत्या भवति शितेरेव परमिति उच्यते नञ्सुभयाम् इत्येष तावन्नियमे नेपपद्यते अनुदरः, सूदर इत्यादौ उदाराश्वेषु क्षेपे इति पूर्वपदान्तोदात्तस्य प्राप्तस्य बाधनाद्विधिसम्भवात्। शितेर्नित्याबह्वच् इत्येतदपि -- शितेर्नित्याबह्वजेवेत्यनेन नियमेत शीतिललाटादिषेवेवोत्तरपदाप्रकृतिस्वरं निवर्तयेत्, न चित्रगुप्रभृतिष्वित्यारभ्यमेवैतत् ।
  बहुव्रीहिग्रहणं तु शक्यमकर्तुम् तत्पुरुषे कस्मान्न भवति तत्पुरुषे तुल्यार्थ इत्यादिनियमार्थं भविष्यति - तत्पुरुषे तुत्यार्थाद्येवेति, गन्तव्यपण्यमेव वाणिजे,गतादिष्वेवोत्तरवदेषु द्विगावित्यादि। द्वन्द्वे कस्मान्न भवति राजन्यबहुवचने इत्येतन्नियमार्थं भविष्यति - द्वन्द्वे भवति राजन्यबहुवचनद्वन्द्व एवेति। अव्ययीभावे कास्मान्न भवति परिप्रत्युपापावर्ज्यमान इत्यादि नियमार्थं भविष्यति -- परिप्रत्थुपापा एवाव्ययीभाव इति । विपरीतस्तु नियमः सर्वत्र न भविष्यति नानिष्टार्था शास्त्रप्रवूत्तिरिति। एवमप्यसति बहुवीहिग्रहणे समासान्तोदात्तस्य पूर्वपदप्रकृतिस्वरस्य चैकविशयत्वाद्विरोधाच्च तुल्यश्वतः, पञ्चारत्निरित्यादौ पर्यायः प्राप्नोति तत्पुरुषादिषु तुल्यार्थादीन्येव पूर्वपदानि प्रकृतिस्वराणि भवन्ति नान्यानि इत्येव हि नियमः कृतः, न तुल्यार्थादिपूर्वपदेषु तत्पुरुपादिषु पूवपदाप्रकृतिस्वलत्वमेव इति । अथाम्यगृह्यमाणविशेषत्वादुभयनियमः तत्पुरुपादिषु तुल्यार्थादीन्येव, तेषु पूर्वपदप्रकृतिस्वरत्वमेवेति तथा च बह्वन्यतरस्याम् इति वर्तमाने दिष्टिवितस्त्योश्च इति विकल्पो विधीयते, पञ्चदिष्टिः, पञ्चवितस्तिरित्यादौ इगन्ते द्विगौ इति नित्यपूर्वपदप्रकृतिस्वरो मा भूदिति तथापि चित्रगुरित्यादौ बहुव्रीहौ पर्यायप्रसङ्गः, ज्ञापकात्सिद्धम्, यदयम् द्वित्रिभ्यां पाद़्दन्मूर्द्धसु इति द्विपादित्यादावान्तोदात्तविकल्पं शास्ति, तज्ज्ञापयति - न बहुव्रीहावन्तोदात्तत्वं पर्यायोण भवति इति एवमप्युदात्तविषयमेव ज्ञापकं स्यात् -- बहुव्रीहावन्तोदात्तत्वं पर्यायेण भवति इति । किञ्च स्यात् उदात्तस्वरितयोस्तु पूर्वोत्तरपदस्थयोः पर्यायप्रसङ्गः । न च स्वरिते य उदात्तस्तदाश्रयं ज्ञापकं युज्यते, अचो ह्युदात्तसंज्ञा, न च वर्णैकदेशो गृह्मते । अथ वर्णत्वावर्णत्वकृतं भेदमुत्सृन्योदात्तश्रुतिपरं ज्ञापकं वण्यैत, तदा बहुव्रीहिग्रहणं शक्यमकर्तुम् ।।
तत्पुरुषे तुल्यार्थतुतीयसप्तम्युपमानाव्ययद्वितीयाकृत्या ।। 6 - 2 - 2 ।।
सदृक्शब्दोऽपीत्यादि। कृदुत्तरपदप्रकृतीस्वरेणेत्येतदपेक्षते।
कुमुदशब्दोऽपीत्यादि । तत्र यदा कप्रत्ययान्तस्तदा थाथादिस्वरेणान्तोदात्तः, तथा च अनुदात्तस्य च यत्रोदात्तलोपः इत्यत्र कुमुद्वानित्युदाहृतम्, उक्तं च -- कुमुदातयोऽन्तोदात्ता इति। यदा त्वव्युत्पन्नं तदा नब्विषयस्यनिसन्तस्य इत्याद्युदात्त इत्युक्तम् । अपर आह - जलजे नपुंसकविषयः कुमुदशब्दः, यस्तु वानरविशेषे कुमुदशब्दः स पुंल्लिङ्गः, तत्रेह जलजवाच्युदाहृतः, अनुदात्तस्य च इत्यत्र तु वानरवचन इति ।
दूर्वाकाण्डशरकाण्डशब्दावित्यादि। आद्यप्राप्तिप्रदर्शनमेतत्, षट् च कण्डादीनि इत्युत्तरपदाद्युदात्तत्वेन तत्र भाव्यम्।
नञ्कुनिपातानामिति। निपातत्वादेव सिद्धे नञ्ग्रहणम् अकरणिरित्यादौ परस्यापि कृत्स्वरस्य बाधनार्थम् । तथा चाव्यथीत्यत्रापि कृता सह निर्दिष्टो यत्र नञ्, तत्रापि नञ एव स्वरो भवति, तथा विभक्तिस्सरान्नञ्स्वरो बलीयान् भवति । कुग्रहणं तु चादिषु पाठाभावात्, पठितव्यस्त्वसौ, अन्यथाऽव्ययसंक्षा न स्यात स्वरादिष्वपि पाठाभावात् । स्नात्वाकालक इति । मयूरव्यंसकादिरयम् । यद्येवम्,स तत्रैवान्तोदात्तः पठिष्यते एवमपि परिगणनं कर्तव्यम्,सामिकृतम्,स्वयन्धौतमित्यादौ प्रकृतिरवरो मा भूदिति। इह कस्मान्न भवति-परमं कारकं परमकारकम्,परमेण कारकेण परमकारकेण,परमे कारके परमकारके इति न हि विशेषणसमासः प्रथमान्तानामेवेति नियमेऽस्ति । तेन द्वितीयाद्यन्तं पूर्वपदमित् चोद्यम् । परिहारस्तु लक्षणप्रतिपदोक्तपरिभाषया तृतीयादीनां प्रतिपदं यः समासस्तत्रायं स्वरः। अयं तु विभक्तिविशैषमनुपादाय विशेषणसमास इति ।।
वर्णे वर्णोष्वनेते।। 6 - 2 - 3 ।।
अनेते तइति प्रतिषेधाद्वहुवचननिर्देशाच्चोत्तरपदे स्वरूग्रहणं न भवति, तत्साहचर्यात्पूर्वपदेऽपि। कृष्णाशब्दो नक्प्रत्ययान्तोऽन्तोदात्त इति । फिषि तु कृष्णस्यामृगाख्या चेत् ति छन्दस्यन्तोदात्तत्वम्, अन्यत्राद्युदात्तत्वं व्यवस्थितम्।।
गांधलवणायोः प्रमाणे।। 6 - 2 - 4 ।।
शम्बगाधमिति।गाधृ प्रतिष्ठायाम्,गाध्यत तइति गाधः अर्द्धर्चादिः, इयत्तायाः परिच्छित्तः - इयत्तापरिच्छेदः । क्रियाशब्दोऽत्र प्रमाणशब्दो गृह्यते, न त्वायोममाने रूढ इत्यर्थः ।।
दायाद्यं दायादे।। 6 - 2 - 5 ।।
दातव्यो दायः - भागः, अंश इत्यर्थः । दायमादत्ते दायादः, मूलविभुजादित्वात्कः, दायादास्य भावो दायाद्यम् । किं पुनस्तत् दायास्यादानं तत्सम्बन्धो वा। इह तु लक्ष्यमाणोऽऽदीयमाने एव दायद्यशब्दो वर्तते ।
अथेत्यादि । वक्ष्यमाणोऽभिप्रायः । तमेवाविष्करोति - यद्येवमिति । शेषलक्षणौवेति। सामान्यलक्षणैवात्र षष्ठी, न प्रतिपदमित्येवशब्दस्यर्थः । यदि शेषलक्षणैवात्र षष्ठी, किमर्थं पुनस्तत्र विधानम् इत्याह - तास्यास्त्विति । सप्तमी तावद्विधेया, अप्राप्तत्वात् । तत्र यदि सैव विधीयेत, ततोऽसौ विशेषविहितत्वात् षष्ठ्या बाधिका विज्ञायेत, मैवं विज्ञायीति पुनः सैव शेषलक्षणा षष्ठ्यभ्यनुज्ञायते, न त्वपूर्वा विधीयत इत्यर्थः ।।
प्रितिबन्धि चिरकृच्छयोः ।। 6 - 2 - 6 ।।
कार्यसिद्ध प्रतिबध्नातीति प्रतिबन्धि, आवश्यके णिनिः । विशेषणसमास इति । ननु च सामानाधिकरण्ये सति स भवति, न चेह तदस्ति गमनशब्दस्य गतिवाचित्वात् चिरशब्दस्य च कालवाचित्वात् नैष दोषः चिरकालभाविनि गमनेऽत्र चिरशब्दो वर्त्तते । मयूरव्यंसकादिर्वैष इति । गमनमत्र विशेष्यम्, तद्विशेषणे तु चिरकृच्छ्रे, अतो विशेष्यस्य पूर्वनिपातार्थं मयूरव्यासकादित्वमेष्टव्यमिति भावः । पूर्वपदस्य प्रतिबन्धिवाचित्वमुपपन्नयति । गमनं हीत्यदि । कराणनैकल्याद्धि चिरकारभावि गमनं कृच्छ्रयोगि च, कृच्छ्रम् - दुःखम्, तद्योगि च कार्यसिद्धेः प्रतिबन्धि जायते ।।
पदेऽपदेशे ।। 6 - 2 - 7 ।।
अच्चारः - पुलीषक्रिया ।।
निवाते वातत्राणे।। 6 - 2 - 8 ।।
ड्यक्प्रत्ययान्तोऽन्तोदात्त इत्यपरे इति । कवतेर्ड्यक् इति सूत्रमधीयते । डकारस्येत्संज्ञा न भवति गुणप्रतिषेधार्थात्ककारानुबन्धात् ।।
शारदेऽनार्तवे ।। 6 - 2 - 9 ।।
उदाहरणे ऱज्जूद्‌धृते रज्जुशब्दो दृषत्पिष्टेषु दृषच्छब्दः, ततः कर्मधारयऽस्वपदविग्रहः। सृजेरसुम् च इत्यत्र स्कन्देः सलोपश्च इत्यतः सलोप इति वर्तते, तेन सृजेरन्त्यादचः परोऽयमसुम्, सलोपे यणादेशेऽसुमः सकारस्य जश्त्वे च रज्जुरिति भवति ।।
अध्वर्युकषाययोर्जातौ।। 6 - 2 - 10 ।।
नियतविषया इति। वरणविशेषनियता इत्यर्थः।।
सदृशप्रतिरुपयोः सादृश्ये ।। 6 - 2 - 11 ।।
सदृशाग्रहणमनर्थकम् तुतीयासमासवचनात्। सदृशशब्देन तुतीयासमास उच्यते - पूर्वसदृशसमोनार्थ इति, तत्र तुतीयापूर्व पदं प्रकृतिस्वरं भवतीत्येव सिद्धमत आह - षष्ठीसमासार्थं चेति। तुल्यार्थयोगे षष्ठ्यपि विधीयते, तत्र यदा तस्याः षष्ठ्याः समासः क्रियते, तदापि यथा स्यादित्येवमर्थ सदृशग्रहणम्। ननु चानभिधानात्षष्ठीसमासो न भविष्यति त्रैशब्द्यं हि नः साध्यम् -- मातुः सदृशः,मात्रा सदृशः मातृसदृश इति एतच्च विनापि षष्ठीसमासेन सिद्ध्यत्येव अत आह -- इहेत्यादि। अलुकि सति रूपविशेषस्य विद्यमानत्वादवश्यकर्तव्यः षष्ठीसमासः, तदर्थं चेह सदृशग्रहणं कर्तव्यम् । यद्येवम्, तृतीयासमासे सदृशग्रहणम्, यथा -- विद्या सदृशो विद्यासदृश इति। न ह्यत्र षष्ठ्यर्थोऽस्ति,किन्तु तृतीयार्थः, विद्यया हेतुना सदृश इत्यर्थः, अन्यो देवदत्तादिरत्र प्रतियोगी । अपर आह -- तृतीयासमासोऽप्यलुकि प्रयजयति -- मनसः संज्ञायां मनसासदृश इति। अत्रेत्यादि। दशि दशनस्पर्शनयोः दंशेष्टो न आ च इति टप्रत्ययः नकारस्य चाकारः टित्त्वान्ङीप्, यस्योतिलोपः, अनुदात्तस्य च यत्रोदात्तलोपः इति उदात्तत्वम् । वृषलशब्दाज्जातिलक्षणो
ङीष् ।।
द्विगौ प्रमाणे।। 6 - 2 - 12 ।।
कर्दमादीनाञ्च इत्यत्र मकरकुक्तकुटपारेवतेत्यादेः सूत्रादादिग्रहणमनुवर्तते। अथ द्वितीयं प्रागीपात् इत्यते द्वितीयग्रहणम् । परमसप्तसममिति।समाहारे द्विगुः पात्त्रादित्वान्नपुंसकत्वम्,मूलोदाहरणे तु तद्धितार्थे द्विगुरुत्तरपदम्।।
गन्तव्यपण्यं वाणिजे।। 6 - 2 - 13 ।।
वणिगेव वाणिजः प्रज्ञादित्वादण्। सप्तमीसमासा एत एति । सप्तमी इति योगविभागात् । गोवाणिजादयस्तु षष्ठीसमासाः।।
मात्रो पज्ञोपकमच्छाये नपुंसके।। 6 - 2 - 14 ।।
फिपिति आदिमेन योगेन शान्तनवीयं न चतुष्कं सूत्रमुपलक्षणयति । तत्र समुद्रशब्दः गागरार्थत्वादन्तोदात्तः ।।
सुखप्रिययोर्हिते ।। 6 - 2 - 15 ।।
समानाधिकरणसमासा एते इति । गमनादीनां विशेष णत्वात्पूर्वनिपातं मन्यते । अथ तु सुखप्रिययोर्विशेषणत्वं तदा मयूरव्यांसकादित्वमेष्टव्यम । आयत्यामिति । परिणामे, आगामिकाले, भाविकाल इति यावत् ।।
प्रीतौ च ।। 6 - 2 - 16 ।।
इह तु सुखपिरययोः तइत्येतावत्सूत्रं कृत्वा हिते च इति वक्तव्यम्, तत्राद्ये सूत्रे सुखप्रिययोः प्रीत्यव्यभिचारादेव प्रीतौ गम्यमानायां भविष्यति तत्राह - सुखप्रिययोरित्यादि । ब्राह्मणशब्दोऽणन्तः । छात्त्रशब्दः छत्त्रा दिभ्यो णः इति णप्रत्ययान्तः । कन्याशब्दः स्वरितान्त इति । तिल्यशिक्यमर्त्यकाश्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः इति फिषि पाठात् ।।
पत्यावैश्वर्ये।। 6 - 2 - 18 ।।
धान्यमन्तः स्वरितमिति । आनन्तरपठितेन फिट्‌सूत्रेण।। गवादीनां तु पूर्वमेव स्वरकथनम् ।।
न भूवाक्चिद्दिधिषु।। 6 - 2 - 19 ।।
भूवादीनां समाहारद्वन्द्वे नपुंसकहस्वत्वम्, अत्र पूर्वपदप्रकृतिस्वरप्रतिषेधाद् वृत्तिकारेण पूर्वपदानां स्वरो व्याख्यातः । तत्रादितस्त्रयः क्किबन्ताः । अन्दूदृभ्भूजम्बूकफेलूकर्कन्धूदिधिषूः इति कूप्रत्ययान्तो दिधिषूशब्दो निपातितिः ।।
वा भुवननम्।। 6 - 2 - 20 ।।
भुवनशब्दो भाषायां बहुलवचनात्साधुः ।।
आशङ्काबाधनेदीयस्सु समाभावने ।। 6 - 2 - 21 ।।
शकि शङ्कायाम् बाधृ विलोडने, आङ्‌पूर्वाभ्यां कर्मणि घञ् । अतिशयेनान्तिको नेदीयः, अन्तिकबाढयोर्नेदसाधौ । अस्तित्वाध्यवसायः - अस्तित्वनिश्चयः। गमनाशङ्कादयो विशेषणसमासाः, मयूरव्यंसकादयो वा ।।
पूर्वे भूतपूर्व।। 6 - 2 - 22 ।।
आढ्यो भूतपूर्व इति। यः पूर्वमाढ्य आसीत्स एवमुच्यते। अत्रेत्यादि। परमश्चासौ पूर्वश्चेति। सोऽयं वाक्यार्थः पूज्यमानतालक्षणः, तस्मिन्निह प्रत्युदहरणे समास इत्यर्थः। न त्विति । परमो भूतपूर्व इति। योऽयं वाक्यार्थः पूर्व परम आसीदित्यवंरूपः, न तस्मिन् तत्र समास इति यावत्, किं कारणम् इत्याह-तथा
चेति । ह्यर्थे ।।
सविधसनीडसमार्यादसवेशसदेशेषु सामीप्ये।। 6 - 2 - 23 ।।
उदाहरणेषु षष्टीसमासः, मद्रादीनां पूर्वमेव स्वर उक्तः।।
विस्पष्टादीनि गुणवचनेषु।। 6 - 2 - 24 ।।
विस्पष्ट इति । स्पश बाधनस्पर्शनयोः इत्यस्य निष्टायाम् वा दान्त इत्यादिना स्पष्ठशब्दो निपातितः विशब्देन गतिसमासः। चित्र चित्रीकरणे चुरादिः, तस्मादेरचे, विशेषेण चित्रं विचित्रम्, प्रादिसमासः । चिती संज्ञाने विगतं चितमस्य विचित्तः, आञ्जू व्यक्त्यादिषु तस्य विपूर्वस्य निष्टाया गतिस्वरः, तत्रेकारस्य यो यण् स उदात्तयण् भवति ।
सम्पन्नशब्दस्याथादिस्वरेणेति । गतिस्वरस्तु न भवति, किं कारणम्, कर्मणि इति तत्रानुवर्तते, अयं तु कर्तरि क्तः। पटुपण्डितशब्दौ प्रत्ययस्वरेणेति। अन्तोदात्त इत्यपेक्षेते। यदेकवचनान्तं प्रकृतम्, तस्य वचनविपरिणामं कृत्वाऽन्तोदात्ताविति सम्बन्धः कर्तव्यः। पाटयतेः फरिपाटिनमिजनीनां गुक्पटिनाकिधश्च इत्युप्रत्ययः, पटिश्चादेशः, इकार उच्चारणार्थः पटुः । पडि गतौ निष्ठा, पण्डितः। कुशान् लातीति कुशलः, ला आदाने चपलशब्दश्चित्स्वरेणेति । अन्तोदात्त् इत्यपेक्षेते । चचिदिति वर्तत इति । वृषादिभ्यशिचत् इत्यतः। निपुणाशब्द इत्यादि। पूर्ववत्सम्बन्धः। पुण कर्मणि शुभे।।
श्रज्यावमकन्यापवत्सु भावे कर्मधारये।। 6 - 2 - 25 ।।
उदाहरणेषु मयुरव्यंसकादित्वाद्विशेष्यस्य पूर्वनिपातः। इष्ठेयसुनोः प्रशास्यस्य श्रः ज्य च युवाल्पयोः कनन्यतरस्याम्। पापिष्ठ इति । विन्मतोर्लुक्।
कुमारश्च।। 6 - 2 - 26 ।।
कुमारश्रमणेति। लिङ्गविशिष्टपरिभाषया कुमारीशब्दस्य समासे पुंवद्भावः। कुमार क्रीडायाम् इत्यस्मात्पचाद्यच्, कुमारः । केचित्पुनरित्यादि चकारे ह्यत्र, क्रियते, अस्यैव, विधः समुञ्चयार्थः।।
आदिः प्रत्येनसि।। 6 - 2 - 27 ।।
प्रतिगत एनसेति। अवादयः कुष्टाद्यर्थे तृतीयया इति तत्पुरुषः । द्वितीये तु विग्रहे बहुव्रीहिः । कथं पुननन्तरेणोदात्तग्रहमुदात्तस्वरो लभ्यते इत्याह -- उदात्त इत्येतदिति । सामर्थ्यमेव दर्शयति । पूर्वपदेति । प्रकृत्येति हि वर्त्तते, तत्रैवमभिसम्बन्धः -- पूर्वत्र कुमारशब्दे प्रकृतिभावेन यः स्वरः सथापितः सोऽत्रादेर्भवतीति।।
इगन्तकालकपालमगालशरावेषु द्विगौ।। 6 - 2 - 19 ।।
कृताणप्रत्ययलोपा इति। कुतोऽण्प्रत्ययलोपो यषां ते तथोक्ताः । द्विगाविति किं परमशराव इति । षष्ठीसमासोऽयम् । बहुव्रीरौ तु पूर्वपदप्रकुतिस्वरेण भाव्यमेव । इगन्तप्रकुतिस्वरत्वे यण्गुणयो रुपसंख्यानम् -- पञ्चारत्न्यो दशारत्न्यः,यण्गुणयोः कृतयोरिगन्ते द्विगावित्येष स्वरो न प्राप्नोति इत्यत आह यण्गुणयोरित्यादि। प्राक्सुबुत्पत्ते। स्वरो भवन्नन्तरङ्गः, यण्गुणौ तु सुबपेक्षत्वाद्वहिरङ्गौ । स्थानिवद्भावाद्वेति । न चात्र स्वरविधौ न स्थानिवत्त्वम्, अलोपाजादेशत्वात् । पञ्चारत्न्य इति । छान्दसोऽयं प्रयोगः। तत्र जसि च इति गुणे न भवति जसादिषु छन्दसि वा वचनम् इति वचनात्।।
बह्वन्यतरस्याम्।। 6 - 2 - 30 ।।
बहुशब्दोऽन्तोदात्त इति। कुर्भ्रुश्च इति वर्तमाने लन्धिबंह्योर्न लोपश्च इति कुप्रत्यये व्युत्पादितत्वात् ।।
सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात्।। 6 - 2 - 32 ।।
ण्यप्रत्ययान्ताविति। वुञ्छणादिषु सङ्काशादिभ्यो ण्यः। अवतेः कक्प्रत्ययः, ज्वरत्वर इत्यादिनोठ्, ऊकः । कुम्भकलशशब्दाभ्यां जातिलक्षणो ङीष्, भ्राष्ट्रशब्दो भ्रस्जेष्ट्रनि वृद्धौ च व्युत्पादितः । चक्रशब्दः कुञः को द्वे च।
सप्तमीस्वर इत्यादि। तत्पुरुषे तुल्यार्थ इत्यादिना सप्तम्यन्स्य यः प्रकृतिभावः परत्वात्थाथादिस्वरेण बाधित इति। यत्र तु कृत्स्वरेण बाधित थइति पाठः, तत्र कृदान्तस्य यः स्वरः थाथादिलक्षणस्तेनेत्यर्थः ।।
परिप्रत्युपापा वर्ज्यमानाहोरात्रावयधेषु।। 6 - 2 - 33 ।।
परित्रिगर्त्तमिति । त्रिगर्त्तन्वर्जयित्वेत्यर्थः। अपपरी वर्जने इति कर्मप्रवचनीयसंज्ञा, पञ्चम्यगाङ्‌परिभिः इति प़ञ्चमी । अपपरिबहिरञ्चवः पञ्चम्या इत्यव्ययीभावः। सौवीरादयोऽपि जनपदविशेषाः। प्रतिपूर्वाह्णमिति । लक्षणेनाभिप्रती आभिमुख्ये इत्यव्ययीभावः। उपपूर्वाह्णमिति । अव्ययं विभक्ति इत्यादिना सामीप्ये। किं पुनः
कारणमपपरर्योरेव वर्ज्यमानमुदाहृतम्, नेतरयोः तत्राह - तत्रेति । अथाहोरात्रावयवा अपि इतरयोरपपर्थोः कस्मान्नोदाह्रियन्ते अत आह -- अहोरात्रावयवा अपीति । परिवनमित्यत्रेति । परिप्रत्युपापा इत्यस्यावकाशः - परित्रिगर्तमिति, वनं समासे इत्यस्यावकाशः -- प्रवणमिति परिवनमित्यत्र वनं समासे इत्येतद्भवति विप्रतिषेधेन । अपवादत्वं चात्र हेतुः, न विप्रतिषेधः । समासस्य इत्येव सिद्धे वनस्य पुनर्वचने एतत्प्रयोजनम् -- येऽन्ये तदपवादास्तद्वाधनार्थम् । सर्वयैवाव्ययस्वरं बहुव्रीहिस्वरं च बाधते, एवमिदमपि बाधिष्यते।।
राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु।। 6 - 2 - 34 ।।
श्वाफल्कचैत्रकरोधका इति । प्रमादपाठोऽयम् । अत्र त्रिपदे हि द्वन्द्वे यत्यक्वमपेक्षेय पूर्वपदं तस्यैव भवति, ततश्च चैत्रकशब्दस्य स्वरवचनमनुपपन्नं, तस्मात् श्वाफल्कचैत्रकाश्चैत्रकरीधको इति पाठः । एकस्तु चैत्रकशब्दो लेखकैः पुनरुक्तिशङ्कया त्यक्तः । शिनिशब्द आद्युदात्त इति । शिङो निन् ह्रस्वश्च बहुलवचनात् । तदपत्येष्विति । यद्यपि शिनिशब्द इति प्रकृतम्, तथापि शब्दस्यापत्यास्यासम्भवाच्छिनेः क्षत्क्षियस्यैव यान्यपत्यानि तेष्वित्यर्थः। अभेदेन - अभेदोपचारेण ।
ननु च राज्ञोऽपत्ये जातिग्रहणम् इति वचनाद् राजन्यशब्दः क्षत्त्रियजतिवचनः, ततश्च द्वैप्यभैमायना
इत्युक्तं प्रत्युदाहरण् नोपपद्यते, तेषामपि क्षत्त्रियत्वाद्‌ अत आह -- राजन्यग्रहणमित्यादि । अन्धकवृष्णीनां क्षत्त्रियत्वाव्यभिचाराद् राजन्यग्रहणमुक्तविशेषपरिग्रहार्थमिति भावः ।।
सङ्ख्या।। 6 - 2 - 35 ।।
एकादशोति । सङ्ख्याया अल्पीयस्याः इत्येकशब्दस्य पूर्वनिपातः, प्रागेकादशभ्यो छन्दसि इति निपातनाद्दीर्घः । द्वादशेति। द्व्यष्टनः सङ्ख्यायाम् इत्यात्वम् ।।
आचार्योपसर्जनश्चान्तेवासी।। 6 - 2 - 36 ।।
आचार्य उपसर्जनं यस्य स आचार्योपसर्जनः, अन्ते वसतीत्युन्तेवासी, शयवासवासिष्वकालाद् इत्यलुक्। गौणश्चायं निर्देशः। द्वन्दवस्य यान्यवयवपदानि तान्याचार्योपसर्जनवचनत्वादन्तेवासिवाचित्वाञ्च तथोच्यन्ते। तदवयवद्वन्द्वोऽप्यवयवधर्मेण तथोच्यते। पाणिनिशब्दादिञ् न भवतीति पूर्वमेवोक्तम् । रौढिशब्दादपि न भवति, न द्व्यचः प्राच्यभारतेषु इति निषेधात्।
आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणमिति । न पूर्ववदविशेषणम् । प्रथमा तु सप्तम्यर्थे द्रष्टव्या । किमर्थं पुनर्द्वन्द्वविशेषणं विज्ञायते इत्याह -- सकलो द्वन्द्व इति। इह मा भूदिति। पूर्वपदविशेषणेत्वत्रापि स्यात् ।।
कार्त्तकीजपादयश्च।। 6 - 2 - 37 ।।
प्रकृतिस्परपूर्वपदा इति । प्रकृतिशब्दः स्पाभाविक् वर्त्त ते, प्रकृति -- स्वाभाविकः स्वरो येषां तानि प्रकृतिस्वराणि, एवंविधानि पूर्वपदानि येष्विति बहुव्रीहिः। कृतस्यापत्यम्, कुजस्यापत्यमिति । आणन्तानेताविति । ऋषिवाचित्वादाभ्यामण् । उत्तरपदस्य व्युत्पत्तिप्रदर्शनं प्रासङ्गिकम्, पूर्वपदस्यैव तु स्वरसिद्धये प्रदर्शनीयम् । माण्डूकेशब्दः ढक्च मण्डूकात् इति ढगन्तः।
अवन्त्यश्मका इति। अवन्तिशब्दोऽन्तोदात्तः, तस्मात् वृद्धेत्कोसलाजादाङ् तस्य तद्राजत्वाद्बहुषु लुक्, अवन्तीनां निवासो जनपदः, जातुरर्थिकस्याणा जनपदे लुक्। अश्मकशब्दात् साल्वावयव इत्यादिना इञ्, लुगादि पूर्ववत्।
श्यापर्णीति । शार्ङरवाद्यञो ङीन् ।
कपिरन्तोदात्त इति । प्रातिपदिकस्वरेण, कमु कान्तौ क्तिच्, पृषोदरादित्वादत उत्वम् ।
कुन्तिशब्दोऽन्तोदात्तः, अवन्तिवत्कुन्तयः। शोभनं राष्ट्रमस्य सुराष्ट्रः, तस्यापत्यानि बहूनि जनपदशब्दात्क्षत्त्रियादञ् लुगादि पूर्ववत् । चिति स्मृत्याम्, क्तिच्, कुन्तिवच्चिन्तयः ।
तडि ता़डने, तण्डः, तस्मादेवावपुर्वाद्वतण्डः, वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः इत्यकारलोपः। मदी हर्षे, विपूर्वात् क्तः, न ध्याख्या इत्यादिना नत्वाभावः, न विमत्तोऽविमत्तः।
शलङ्कु शलङ्कं चेति । ऩडादिष्वेतत्पठ्यते । बभ्रोरपत्यं बाभ्रतवः, अण् । दानच्चयुतो दानच्युतः तदपत्यमपि दानच्युत एव। कटशब्दः पचाद्यजन्तः, लोकेऽक्षि यस्य स लोकक्षः, तस्यापत्यं लौकाक्षिः, तस्य
छात्त्रा लौकाक्षाः । स्त्रीकुमारमिति । समाहरद्वन्द्वः ।
मुद हर्षे, इगुपधलक्षणः कः, मुदः, पिप्पतमत्तीति पिप्पलादः, कर्मण्यण् । वदेः सः, वत्सः, जीर्यतेरतृन्, जरन् , तयोः समाहारद्वन्द्वः ।
षिद्भिदादिभ्योऽङ्, जरा । भुजिमृङ्‌भ्यां युक्त्युकौ मृत्युः ।।
महान् व्रीह्यपराह्वगृष्टीष्वासजाबालभारभारतहेलिहिलरौरवप्रवृद्धेषु।। 6 - 2 - 38 ।।
महच्छब्दोऽन्तोदात्त इति । वर्तमाने पृषद्‌बृहन्महनत् इत्यत्र तथा निपातनात् । तस्येत्यादि । एतञ्च लक्षणप्रतिपदोक्तपरिभाषया लभ्यते ।
यद्येवम्, प्रवृद्धग्रहणमनर्थकम्, कर्मधारयेऽनिष्ठा इति वक्ष्यमाणेनैव सिद्धत्वात्, कृद्‌ग्रहणे गरिकारकपूर्वस्यापि ग्रहणम् इति प्रवृद्धशब्दस्यापि क्तान्तत्वाद् अत आह - कर्मधारयेऽनिष्ठेत्ययमपीति ।
तत्रापि लक्षणप्रतिपदोक्तपरिभाषया क्तान्तेन प्रतिपदोक्तो यः कर्मधारयस्तस्य ग्रहणमित्यर्थः ।।
क्षुल्लकश्च वैश्वदेवे।। 6 - 2 - 39 ।।
क्षुधं लातीति क्षुल्लः। आतोऽनुपसर्ग कः, तोर्लि इति परसवर्णः ।।
उष्ट्रः सादिवाम्योः।। 6 - 2 - 40 ।।
उष्ट्रशब्दः ष्ट्रन्प्रत्ययान्त इति। उष दाहे इत्येतस्मात् ष्ट्रन् इति वर्तमाने उषिखनिभ्यां कित् इत्येवं व्युत्पादितत्वात् ।।
गौः सादसादिसारथिषु।। 6 - 2 - 41 ।।
गोसादा इति । सदेर्घञ्, ततः, षष्ठीसमासः । गां सादयतीति वेति । सदेर्ण्यन्तात्कर्मण्यण्, तस्मादेव णिनिः - गोसादी । अत्र सादसादिनोः कृत्स्वरस्यापवादः, सारथौ तु समासस्वरस्य।।
कुरुगारिहपतरिक्तगुर्वसूतजरत्यश्लीलदृढरुपा पारेवडवा तैतिलकद्रूः पण्यकम्बलो दासीभाराणां च।। 6 - 2 - 42 ।।
अत्र कुरुगार्हपतेत्येवमादयः पण्यकम्बलपर्यन्ताः सप्त समासाः । तत्रादितो द्वाविविभक्तिकौ, इतरे प्रथमैकवचनान्ताः। सा च प्रथमा सुब्व्यत्ययेन षष्ठ्याः स्थाने द्रष्टव्या । दासीभाराणामिति । बहुवचननिर्देशादाद्यर्थो व्याख्यायते।
कुर्भ्रुश्च, कृग्रो रुच्च -- कुरुः, वृजी वर्जने निदित्यधिकारे इगुपधात्किः -- वृजिः, फिषि तु इगन्तानाञ्च द्व्यषाम् इति पत्रेऽन्तोदात्तः। तस्यार्थः-नजपदशब्दानामिति वर्तते,अन्तः पूर्वो वा इति च,जनपद वाचिनामिगन्तानां द्व्यचामादिरुदात्तो भवति अन्तो वा - काशयः ,चेदयः। एतेन कुरुशब्दो व्याख्यातः।
रिक्तपूर्वादयः कर्मधारयाः। श्रीर्यस्यास्तीति श्रीशब्दो लावण्यवचनः । कपिलकादित्वाल्लल्वमिति । कृपो रो लः इत्यत्रैतद्वक्ष्यते । श्रीर्यस्यास्ति तच्छ्रीलशब्देनोच्यत इति । एतदेवोपपादयति -- अशलीलदृढरूपेति हीति । संस्थानमात्रेण शोभनेति। कुब्जत्वादीनामभावात्, दृढत्वाच्च संस्थानस्य । मात्रशब्दव्यार्व्यं दर्शयति - निःश्रीकेति । असेयैवार्यं विस्पष्टीकरोति - लावण्यरहितोति ।
तितिलिनोऽपत्यमिति। तिलशब्दान्मत्वर्थीय इनिः, पृषोदरादित्वात्तिशब्दस्य द्विर्वचनम्। तत्र यदापत्येऽर्थेऽण् तदा नस्तद्धिते इति टिलोपः यदा तु छात्त्रे तदा नान्तस्य टिलोपे इत्यादिनोपसङ्ख्यानेन टिलोपः । ये तु तत्र तैतिलिशब्दं पठन्ति, तेऽत्रापि तैतिलिनोऽपत्यमिति विगृह्णन्ति, पृषोदरादित्वेनेव च रूपसिद्धिः । पण्यशब्दः अवद्यपण्य इत् यदन्तः यतोऽनावः इत्याद्युदात्तः।
पण्यकम्बलः संज्ञायामिति । नियतप्रमाणस्य वियतमूल्यस्य कम्बलस्यैषा संज्ञा । समासन्तोदात्तत्वमेवेति । ननु च पण्यशब्दस्य कृत्यप्रत्ययान्तत्वात् तत्पुरुषे तुल्यार्थ इति पूर्वपदप्रकृतिस्वरेण भाव्यम् अत आह प्रतिपदोक्ते हीति । कृत्यतुल्याख्या अजात्या इति यः कृत्यसमासः प्रतिपदोक्तः, तत्रैव स स्वरः । अयं तु विशेष्यण इति सामान्यलक्षणविहितः,कम्बलशब्दस्य जातिशब्दत्वात्। कृत्यतुल्याख्या अजात्या इत्येतद्धि गुणक्रियावाचिनामनियते पूर्वनिपात्प्रसङ्गे कृत्यान्तस्य पूर्वनिपातार्थम्, न तु जातिप्रतिषेधार्थम् । आनात्येति तु वचनं न्ययसिद्धार्थानुवाद एवेति स्थितिः। चन्द्रे माङो डिच्च इति मिथुनेऽसिः, पूर्ववच्च
सर्वमित्यसिप्रत्ययः प्रकृतः। चन्द्रशब्द उपपदे माङ्‌माने इत्यस्मादसिप्रत्ययो भवति डिच्च, डित्त्वाट्टिलोपः, चन्द्रमिव मीयते चन्द्रमाः। चन्द्रमिति रजतम्, अमृतं च। चन्द्र इति वा मीयते चन्द्रमाः। चन्द्रशब्दस्तु स्फायितञ्चि इत्यादिना रक्प्रत्ययान्तः।
यस्य तत्पुरुषस्वेत्यादिना दासीभारादेराकृतिगणत्वं दर्शयति।।
चतुर्थी तदर्थे ।। 6 - 2 - 43 ।।
तस्मै इदं तदर्थम् , तच्छब्देन चतुर्थ्यन्तार्थ उच्यते, यदाह -- तदभिधेयार्थं यदिति। तस्य चतुर्थ्यन्तस्य यदभिधेयं तदर्थमित्यर्थः । रमन्तऽस्मिन्स्थिता इति रथः, हनिकृषिनीरमिकशिभ्यः क्यन्, अनुदात्तोपदेश इत्यनुनासिकलोपः,वल्लीशब्दो गौरादिङीषन्तः ।
तदर्थ इति किम्,कुबेरबलिरिति । अत्र तादर्थ्यस्य भावाद्‌ गोसुखमिति प्रत्यदाहार्यं मन्यन्ते । प्रकृतिविकारभावे स्वरोऽयमिष्यत इति । समासप्रकरण एवैतत्सम्यगुपपादितम्, आत्रापि ज्ञापकं वक्ष्यति।।
अर्थे।। 6 - 2 - 44 ।।
तदर्थविशेषा एव दारुहिरण्यादयो भवन्तीति। दारुहिरण्यादयो विशेषा एव तदर्था भवन्तीत्यर्थः । तादर्थ्यं हि तच्छेषभावः, सच विशेषाणमेव भवति, न सामान्यस्यति मन्यते ।
केचित्पुनरित्यादि । त एवं मन्यन्ते नेयं राजाज्ञा - विशेषा एव तदर्था इति, तेन सामान्यवाचिन्यप्यर्थशब्दे पूर्वेणैव सिद्धम् इति । अश्पघास इति । ननु च तदर्थेन प्रकृतिविकारभावे समासः इत्यक्तम् अश्वघासादयः षष्ठीसमासाः इति च एवं मन्यते -यदात्र प्रकृतिविकारभावे स्वे इति स्थितम् ,तदाश्वघासादौ चतुर्थोसमासेऽपि दोष इति। श्वश्रुश्वशुरमिति। विभाषा सेना इत्यादिना नपुंसकत्वम्।।
क्ते च ।। 6 - 2 - 45 ।।
गोभ्यो रक्षितं दीयत इति सम्प्रदाने चतुर्थीति। अथ तादर्थ्ये चतुर्थ्या को दोषः चतुर्थो तदर्थे इत्येव स्वरस्यसिद्धत्वात् । नैतदस्योदाहरणमुपपद्यते कथम् प्रकृतिविकारभावे स्वरः इत्युक्तम्, न चात्र प्रकृतिविकारभवः सत्यम् समासविधौ तु रक्षितग्रहणस्येदं प्रयोजनं दर्शितम् ।।
कर्मधायेरऽनिष्टा ।। 6 - 2 - 46 ।।
श्रिञ् सेवायाम्, औणादिके निन्प्रत्यये श्रेणिः, मुदि ग्रो गग्गौ,बहुलवचनात्पूङोऽपि गक् पूगः। कृताकृतमिति । क्तेन नञ्विशिष्टेनानञ् इति समासः । अनिहष्टेत्यनुच्यमानेऽत्रैव स्यात्, अयं हि क्तसंशब्द नेन विहितत्वाच्छ्रोण्यादिसमासादपि प्रतिपदोक्तः ।।
अहीने द्वितीया।। 6 - 2 - 47 ।।
हीनम् - त्यक्तम्। अहीनयाचिनि समास इति । पूर्वपदद्वारेण तसमासस्याहिनवाचित्वम्।
द्वितीयानुपसर्ग इति वक्तव्यमिति । अहीनग्रहणमपनीय अनुपसर्गग्रहणं कर्तव्यम्, व्यापकत्वादित्यर्थः। इह मा भूदिति। इहापि मा भूदित्यर्थः। अनुपसर्गग्रहणे चेह क्रियमाणे प्रवृद्धादिषु खट्‌वारूढशब्दो न पाठ्यः, आरूढशब्दस्य सोपसर्गत्वात्। एतत्स्वराभावे थाथादिस्वरेणैवान्तोदात्तस्य सिद्धत्वात्।।
तृतीया कर्मणि ।। 6 - 2 - 48 ।।
अयमपि थाथादिस्वरपवादः। अहिरन्तोदात्त इति । आङ्‌पूर्वाद्धनो डिप्रत्ययः, आङश्च ह्रस्वः। आहन्ति परान्, आहन्यते परैरिति वा अहिः। केचिदिति। ते तत्रोदात्तग्रहणमनुवर्तयन्ति, तथात च -अहन्नहिम्, अहिरिव भोगैरिति आद्युदात्तमधीयते ।।
गतिरनन्तरः।। 6 - 2 - 49 ।।
अनन्तरः इति पुंल्लिङ्गनिर्देशाद् गतिशब्दः क्तिजन्तः, निपातनाच्चानुनासिकलोपः। प्रकृतः, प्रहृत इति । अत्र समासान्तोदात्तत्वम्, अव्ययपूर्वपदप्रकृतिस्वरत्वम्, कृत्सवरः, थाथादिस्वरः, इत्येतेषु प्राप्तेषु पूर्वपदप्रकृतिभावे विधीयते।
व्यवहितस्य गतेरयं स्वरी न भवतीति। ननु च निर्दिष्टग्रहणमानन्तर्यार्थम्, प्रत्ययग्रहणपरिभाषया च हृतशब्दस्क्तान्तः, तत्कथं क्तान्ते परतो विधीयमानो व्यवहितस्य प्रसज्यते कृद्‌ग्रणपरिभाषाया
क्तान्तेऽनुप्रवेशादुच्छब्दस्य प्रसङ्ग इति चेत्, यद्येवम्, क्रियमाणेऽप्यनन्तरग्रहणे स्यात्, उद्‌धृतशब्दः क्तान्तस्तस्यानन्तर एव गतिरिति एव गतिरिति नैष दोषः, अनन्तरग्रहणसामर्ध्याद्धान्तोरनन्तरो गतिराश्रयिष्यते । नन्वेवमप्यत्र परत्वाद् गतिर्गतौ इति निघातो भविष्यति, सति च तस्मिन् उदात्तस्वरिताधिकारादेव पूर्वपदप्रकृतिस्वरस्याप्रसंग इति व्यवहितनिवृत्त्यर्थमनन्तरग्रहणं न कर्तव्यम् अनन्तरप्राप्त्यर्थं तु । तत्र च यत्रैक एव गतिस्तत्र नार्थाऽनेन । यत्र त्वनेको गतिस्तत्रासौ न प्राप्नोति, तानन्तर इत्यनेनानेकगतिसमवधानेऽनन्तरस्य प्राप्नोति, तदनन्तर इत्यनेनानेकगतिसमवधानेऽनन्तरस्य प्राप्यते अन्यथाऽभ्युद्‌धृतमित्यत्रोद्‌ध़ृतशब्दस्य कृद्‌ग्रहणपरिभाषया क्तान्तत्वे सति समासान्तोदात्तत्वे तदपवादे च कृत्स्वरे तदवपादस्थाथादिस्वरः प्राप्नोति। ननु च यथा प्रथमे समासे गतिस्वरेण बाधितस्य थाथादिस्वरस्य पुनर्द्वितीये समासे प्राप्तिः, तथा तदपवादो गतिस्वरोऽप्यनेन पुनर्भविष्यति नैतदेवम् अपूर्वपदत्वात् । कुगतिप्रादयः इत्यत्र निष्कान्तोदौ पदकार्यप्रवृत्तये सुबित्यनुवर्तनीयम्, तत्रैकत्वस्य विवक्षितत्वात्सुबन्तसमुदायस्य चासुबन्तत्वान्न दूयोर्युगपत्समासो लभ्यत इति क्रमेणासौ विधेयः । गतिकारकोपपदानाम् इत्यनेनाप्युत्तरपदस्य
प्राक् सुबुत्पत्तेः समास उच्यते, न पूर्वपदस्यापि निष्क्रान्तचर्मकारादौ पदकार्यस्यासिद्धिप्रसङ्गात् । अत उच्छब्दस्य पूर्वं समासः, पश्चादुद्‌धृतशब्देनाभिशब्दस्य, ततश्चाभिशब्द एव पूर्वपदं नोच्छब्द इति
पूर्वपदं नोच्छब्द इति पूर्वपदस्य गतेः प्रकृतिस्वरो विधियमानोऽपूर्वपदो न स्याद् । अतः कक्षान्तरप्र्तमपि थाथादिस्वरं बाधित्वऽपूर्वपदस्याप्यनन्तरस्य वाक्यभेदेन प्रकृतिभावो यथा स्यादित्येवमर्थमनन्तरग्रहणम्। तदाह -- अनन्तरे पुनरिष्यत इति ।
यद्येवम्, कारकबूर्वेऽतिप्रसङ्गः, दूरादागतो प्राप्तो देवदत्तेनेत्यत्राप्यागतशब्देन स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन इति समासे कृते तस्यामवस्थायां थाथादिस्वर इष्यते, तमपि बाधित्वाऽपूर्वपदस्याप्युद एव स्वरः प्राप्नेति नैष दोषः थाथादिसूत्रे गतिग्रहणं निवतिष्यते ततः किम् प्रकृतमित्यादौ कृत्स्वरस्यैव प्राप्तत्वात्तस्यैव गतिस्वरापवादः,न तु थाथादिस्वरस्य प्रसङ्गः, तत्र स एव भविष्यति। अभ्युद्‌धृतमित्यादौ तु यत्र कक्षान्तरेऽपि कृत्स्पर एव प्राप्तस्तत्रापि स एव भविष्यतीति ततश्चापूर्वपदार्थमनन्तरग्हणमपि न कर्तव्यं भवति। कथम् उद्‌धृतशब्दे गतिस्वरे प्रवृत्ते पश्चादभिशब्दस्य समासे कृते गतिर्गतौ इति इति निघाते चोदात्तस्वरिताधिकाराद्‌ गतिरित्यस्य पूर्वपदप्रकृतिभावस्याप्रवृतत्तौ समासस्वरापवादः कृत्स्वरो भवन् कृद्‌ग्रहणपरिभाश्योद्‌धृतशब्दस्य कृदन्तत्वात्तत्स्वर उच्छब्दोदात्तत्वमेव भविष्यति। यदि थाथादिशूत्रेण गतिग्रहणं निवर्त्तिष्यते
प्रभेद इत्यत्र कृत्स्वरेण घञो ञित्त्वाद्धातोरुदात्तत्वं स्याद्,अन्तोदात्तत्वं चेष्यते। एवं तर्ह्यनुवर्तते गतिग्रहणम्,क्तेन तु न सम्बद्ध्यते,तत्कथं थाथादिसूत्रात् क्तग्रहणमपनीय पृथक्कर्तव्यम् तत्र च गतिग्रहणं निवर्त्तिष्यते ।
एवमपि विशुष्क इत्यादौ यत्र कर्तरि क्तान्तमुत्तरपदम् शुष्कधृष्टौ इत्याकारकपूर्वस्य त्वित्यादि।
कारकपूर्वस्य तु सति शिष्टत्वात थाथादिस्वर एव भवति दूरदागत इति। दिना चाद्युदात्तम् तत्र कृत्स्वरे सत्युत्तरपदमाद्युदात्तं स्यादन्तोदात्तं चेष्यते।अतः कृद्‌ग्रहणेनापि गतिग्रहणमवश्यं सम्बन्धनीयम्,ततश्च पूर्वोक्तदोषप्रसङ्गः,तत्राह-कारकपूर्वस्य त्विति। अयमभिप्रायः-अनन्तरशब्दोऽयमननन्तरमपेक्ष्य प्रवर्तते,तत्र च अनन्तरो गतिः इत्युक्ते अननन्तरोऽपि गतिरेव प्रतीयते सन्निधानात्। ततश्चापूर्वपदार्थमप्यन्न्तरग्रहणं गतिद्वयसमवधान एवानन्तरस्य प्रकृतिस्वरत्वं प्रापयतीति दूरादागत इत्यादौ न दोष इति।
अथ वा - कारकाद्दत्तश्रुतयोरेवाशिषि इत्यत्र कारकादिति विभज्यते, तत्र च क्तप्रहणमनुवर्तते, अन्तोदात्तः इति गतिः इति च, कारकात्परं क्तान्तमुत्तरपदमन्तोदात्तंभवतीत्यर्थः। तत्र दूराद्‌ गत इत्यादौ थाथादिसूत्रेणै वान्तोदात्तत्वस्य सिद्धत्वाद् दूरादागत इत्यादौ गतिरनन्तरः इत्यनन्तरग्रहणेनैवापूर्वपदार्थेन प्राप्तास्य गतिस्वरस्यापवादः कारकादित्ययं योगो ज्ञायते। यद्येवम्, अनन्तरग्रहणं न कर्तव्यम्,कथम् असत्यनन्तरग्रहणे दूरादागतः,आभ्युद्‌धृत तइत्वादौ सर्वत्र द्वितीये समासे कृते सतिशिष्टस्थाथादिस्वर एव प्राप्तः, ततश्च कारकादित्ययं योगो नियमार्थो भवति। तत्र च गतिग्रहणमनुवर्तयितव्यम्, ततश्चात्रायमर्थः - कारकादेव परं सगतिकं क्तान्तभुत्तरपदमन्तोदात्तमिति। ततश्चाभ्युद्‌धृत इत्यादौ नियमेन थाथादिखरे व्यावर्तिते
कृत्स्वरो भवन् कृट्‌ग्रहणपरिभाषयोद्‌धृतादेः कृदन्तत्वात्तस्यैव यः स्वर आद्युदात्तत्वं स एव भविष्यति। ननु च विपरीतोऽपि नियमः सम्भाव्येत - कारकात्परं सगतिकमेवेति,ततश्च पूर्वह्णशुष्क इत्यत्र थाथादिस्वरे कृत्स्वरेण शुष्कधृष्टौ इत्याद्युदात्तत्वं श्रूयेत नैष दोषः,आचायेप्रवृत्तिर्ज्ञापयति - न विपरीतो नियम इति, यदयम् दत्तश्रुतयोरेवाशिषि इत्याह। न हि विपरीते नियमे कारकात्परयोर्दत्तक्षुतयोरन्यस्य वा क्तान्तस्योत्तरपदस्यान्तोदात्तत्वं प्रसक्तम्। अतो नार्थोऽपूर्वपदार्थनानन्तरग्रहणेन । एवं तर्हि व्यवहितनिवृत्त्यथेमेवानन्तरग्रहणम्, ननु चोक्तम्-परत्वाद्‌ गतिर्गतौ इति निध्ते कृते उदात्तस्वरिताधिकारादेव प्रकृतिभावस्याप्रसङ्गः इति यत्र तर्हि गतिर्गतौ इति निघातो नास्ति तत्र प्रसङ्गः। क्व चासौ नास्ति
पादादौ। वक्ष्यति हि आ पादपरिसमाप्तेरपादादावित्यधिकारः इति, तथा च चउपप्रेतकुशिताश्चेतध्वमिति पादादावुपशब्दं गतिपरमपि उदात्तमधीयते,तथाभ्युद्‌धृतमिति यदाभिशब्दः पादादौ वर्तते तदा निघाताभावादनेन व्यवहितस्यापि गतेः प्रकृतिभावः स्यात् नैतदस्ति यावता प्रत्ययग्रहणपरिभाषया हृतशब्दः क्तान्तः,नोद्‌धृतशब्दः। एवं तर्ह्येतद् ज्ञापयति-कृद्‌ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवतीति।
ननु कृद्‌ग्रहणे गतिपूर्वस्य ग्रहण् ज्ञापितम्,कारकपूर्वस्य तु कथम् उच्यते पूर्वचार्यैस्तावदेषा परिभाषा व्युत्पादिता,इहाप्यनन्तरग्रहणेनैकदेशद्वारेण कृत्स्न एव परिभाषार्थो ज्ञाप्यते। यदित कृद्‌ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवति, कथं समुद्‌धृत इति प्रत्युदाहरणम्, यावता उद्‌धृतशब्दः क्तान्तः, तस्य चानन्तर एव सम् इत्यत आह - अनन्तरग्रहणासामर्थ्यादिति । इह व्यवहितनिवृत्तिफलेनानन्तरग्रहणेन परिभाषाया ज्ञापनादन्तत्रैतत्फललाभ इति भावः ।
प्रकृतः कटमिति । आदिकर्मणि क्तः कर्तरि च इति कर्तरि प्रत्ययः।।
तादौ च निति कृत्यतौ ।। 6 - 2 - 50 ।।
प्रजल्पाक इति। जलपभिक्ष इति षाकन्। इह गतेः स्वरो विधीयते,क्रियायोगे च गतिसंज्ञा, धातुश्च क्रियावाची, धातोश्च द्वये प्रत्ययाः - कृतस्तिङश्च, तत्र तिङन्ते पूर्वपदस्यासम्भवात्कृदन्तादेव भविष्यति, नार्थः कृद्‌ग्रहणेन इदं तर्हि प्रयोजनम् -यथा तादिग्रहणं कृद्विशेषणं विज्ञायते तकारादौ निति कृतीति अन्यथा नितीत्यनेन प्रत्ययग्रहणपरिभाषया तदन्तस्योपस्थानात्तस्यैवोत्तरपदस्य तकारादित्वं विशेषणं स्यात्। ततश्चेहैव स्यात् - प्रतरिता, प्रतरितमिति इह न स्यात् - प्रकर्त्तुम्। नैतदस्ति प्रयोजनम् ,क्रियमाणेऽपि कृद्‌ग्रहणे अनिष्टं शक्यं विज्ञातुम्‌तकारादावुत्तरपदे निति कृतीति, अक्रियमाणेऽपि चेष्टम् निद्यस्तकारादिस्तदन्तउत्तरपदेति ततश्च यथा उतश्च प्रत्ययात् इत्यत्रासंयोगपूर्वग्रहणेनोकारो विशेष्यते न प्रत्ययः, तथेहापि नित एव विशेषणं तादिग्रहणं भविष्यतीति अत्राह कृद्‌ग्रहणामुपदेशे ताद्यर्थमिति। अयमभिप्रायः - कृद्‌ग्रहणेन कृत्संज्ञाप्रवृत्तिकाले यस्तादिस्तत्रेति । किमेवं सति सिद्धं भवति तत्राह -इहापीति । असति कृद्‌ग्रहणे, तादिग्रहणेन स्वरप्रवृत्तिसमये यस्तादिस्तत्रेति विज्ञायेत, ततश्च प्रलपितेत्यादौ इडागमे कृते न स्यात् सम्प्रत्यतादित्वात् , कृद्‌ग्रहणात्तु भवति
आदिग्रहणं तु शक्यमकर्तुम् ,यस्मिन्विधिस्तदादावल्ग्रहणे।। तवै चान्तश्च युगपत्।। अन्त उदात्तो भवतीति। कथं पूनरन्तरेणोदात्तग्रहणमुदात्तो भवतीत्ययमर्थो लभ्यते एवं मन्यते प्रकृत्येति वर्तते, तत्रैवमभिसम्बन्धः क्रियते-तवैप्रत्ययान्तस्य यः स्वरः प्रकृत्याश्र्यः प्राप्तः सोऽन्तस्य भवतीति, स चोदात्त एवति। युगपदिति पर्यायनिवृत्त्यर्थम्।।
अनिगान्तोऽञ्चतौ वप्रत्यये।। 6 - 2 - 52 ।।
वप्रत्यय इति। वकारः प्रत्ययो यस्य स तथोक्तः। प्राङिति। ऋत्विक् इत्यादिना क्विन्। स च वकारमात्र एव ककारादीनाम नुबन्धत्वात्। उगिदचाम् इति नुम् हल्‍ड्यादिसंयोगान्तलोपौ। क्विन्प्रत्ययस्य कुः इति कुत्वम् - चकारस्य ङकार। पराङिति। पारशब्द आद्युदात्तः, तेनात्र स्वरितो वाऽनुदात्तेऽपदादौ इत्येष विधिर्न भवति। प्रत्यङिति। ननु चात्रान्तरङ्गत्वाद्यणादेशे कृते,अनिगन्तत्वात्प्रकृतिभावेन भवितव्यम्, अनिगन्तः इत्यस्य तु प्रतीच इत्यादिरवकाशः तत्र अचः इत्यकारलोपाद्यणादेशाभावः। न च यणादेशस्य स्थानिवद्भावोऽस्ति अपूर्वविधित्वात्, पूर्वपदस्य प्रकृतिस्वरविधानात् यत्तर्हि न्यधीचेत्यधेः प्रकृतिभावं शास्ति,
त़ज्ज्ञापयति-यण्विषयऽयं स्वरो न भवतीति। यदि स्याद्,अध्यङित्यत्राप्यऽनेनैव सिद्धं स्यात्। नैतदस्ति ज्ञापकम्,अधीच इत्यादौ यत्र यण् नास्ति तदर्थमेतत्स्यात् यत्तर्हि नेः प्रकृतिस्वरं शस्ति,निशब्दस्यैकाच्त्वाद्,नीच इत्यादावुत्तरस्य प्रकृतिस्वरस्य च विशेषो नास्ति। एतदषि न ज्ञापकम्, वचनसामर्थ्यादकृत एवान्तरङ्गे यणादेशे निशब्दस्य स्वरार्थेमेतत्स्यात्,यणआदेशे कृते स्वरभाजोऽभावात् प्रत्यङादिषु तु यणादेश एवान्तरङ्गत्वात्प्राप्नोति,तस्माद्यण्विषये प्रतिपेधो वक्तव्यः न वक्तव्यः स्थानिवद्भावात्सिद्धम्। ननु चोक्तम् पूर्वपदस्य प्रकृतिस्वरो न यणः पूर्वस्य इति नैतदस्ति उक्तमेतत् पूर्वपदशब्दः पूर्वपदस्योद उदात्ते स्वरिते वा वर्तते इति।
चोरिति। चौ इति यत्पूर्वपदन्तोदात्तत्वं विधी.यत् तच्चुशब्देन लक्ष्यते। चोः-चुस्वरादित्यर्थः। एष स्वरो भवतीति । विप्रतिषेधेनेति भावः। चुस्वरस्यावकाशः दधीचः दधीचात,यत्र गतिर्नास्ति अनिगन्तस्वरस्यावकाशः -पराङ्, पराञ्चौ,पराञ्चः, पारच इत्यादावुभयप्रसङ्गे परत्वादिनिगन्तस्वर एव भवति। नायं युक्तो विप्रततिषेधः, चुस्वरःसतिशिष्टः कथम् चौ इत्युच्यते, यत्रास्यैतद्रूपम्, भसंज्ञावनिमित्ते प्रत्यये,अल्लोपे च कृते सम्भवति एवं तर्हि नायं विप्रतिषेध उपन्यस्तः किं तर्हि इष्टिरेषा चोरनिगन्तोञ्चतावप्रत्यय इत्येष स्वर इष्यते इति।।
नयधी च।। 6 - 2 - 53 ।।
अधीच इति। अत्रापि कृत्स्वरादयमेव इष्यत इति दर्शयति।।
ईषदन्यतरस्याम् ।। 6 - 2 - 54 ।।
ईषद्भेद इत्यादौ तु कृत्स्वंर एव भवतीति । परत्वात् । अपर तआह - ईषदकृता तइति प्रतिपदेक्तस्य समास्य
ग्रहणादुपदसमासस्याप्रवृत्तिरिति ।।
हिरण्यपरिमाणं घने ।। 6 - 2 - 55 ।।
हिरण्यपरिमाणवाचीति । परमाणविशिष्टहिरण्यवाचीत्यर्थः । तत्र सुवर्णशब्दः परिमाणे, उपपदादौ तत्परिच्छिन्ने हिरण्य च वर्तते, यथा - प्रश्थादिशब्दो दार्वादिनिर्मिते परिमाणे तत्परिमिते च व्रीह्यादौ वर्तते । पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश पलं सुवर्णाश्‍त्वारः , द्वयोः सुवर्णयोः समाहारो द्विसुवर्णं पात्त्रादि । द्विसुर्णपरिमाणमिति । अत्र सुवर्णशब्द उपले वर्तते । काञ्चनधनमिति । परिमाणग्रहणमकृत्वा हिरण्यमित्युच्यमाने इहापि स्यात्, काञ्चनशब्दस्य हिरण्यवाचित्वात् । परिमाणवाची त्वेष न भवति ।।
कतरकतमी कर्मधारये ।। 6 - 2 - 57 ।।
इह त्वित्यादि । कतरकतमौ जातिपरिप्रश्ने इति प्रतिपदसमासः तस्येह ग्रहणम्, स कर्मधारय एव । तस्मान्नेडार्यं कर्मधारयग्रहणमिति भावः ।
राजा च ।। 6 - 2 - 59 ।।
 राजाव्राह्मण इति । राजशब्दो ब्राह्मणे ताद्धूर्म्यादूर्तत इति सामानाधिकरण्यात्कर्मधारयः, राजशब्दः कनिन्प्रत्ययान्तत्वादद्युदात्तः ।
पृथग्योगकरणमुत्तरार्थमिति । उत्तरो विधी राजशब्दस्यैव यथा स्यात्, आर्यशब्दस्य म भूत् । यथासङ्ख्याभावोऽपि पृथग्योगकरणस्य प्रयोजनम्, तत्तु नोक्तमित्येतावत् ।।
षष्ठी प्रत्येनसि ।। 6 - 2 - 60 ।।
राज्ञः प्रत्येना इति । षष्ठ्या आकोशे इत्युलुक् ।।
क्ते नित्यार्थे ।। 6 - 2 - 61 ।।
नित्यशब्द आभीक्ष्ण्ये कौटस्थ्ये च वर्तते , इह त्वाभीक्ष्ण्ये। कृत एतत् क्त इत्युच्यते, क्तश्च इत्युच्यते, क्तश्च धातोर्विधीयते, धातुश्च क्रियावचनः, क्रियायाः क्षणिकत्वात्कौटस्थ्यं नोपपद्यते, तस्मादाभीक्ष्ण्य नित्यशब्दः । द्वतीयासमासोऽयमिति । द्वितीय पुनरत्यन्तसंयोगे अथ वा - कर्णणि, कालभावाध्वगतव्याः कर्मसंज्ञा ह्यकर्मणाम् इति तततम् इति भावे क्त इत्यादि । यदा तु कर्मणि क्तः तदा गतिरनन्तरः इति पूर्वपदप्रकृतिस्वरेणाद्युदात्तो भवति । समासस्वरस्य द्वीतियापुर्वपदप्रकृतिस्वरो बाधकः, तस्य थाथादिस्वरः, तस्यापवादः ।।
ग्रामः शिल्पिनि ।। 6 - 2 - 62 ।। ग्रम इति स्वरुपग्रहणम् ।।
राजा च प्रशंसायाम् ।। 6 - 2 - 63 ।।
षष्ठीसमासे चेति । प्रशंसेत्यनुषङ्गः । राजयोग्यतया तस्येति । स हि कर्मणि प्रवीणत्वाद्राजानं प्रति योग्यो भवति । राजार्ह इति चोक्ते प्रशंसा गम्यते ।।
आदिरुदात्तः ।। 6 - 2 - 64 ।।
पूरपदगमित्यस्येहार्थात्षष्ठ्या विपरिणामः । सर्वत्र वात्र प्रकरणे पूर्वपदविषये षष्ठ्यर्थे प्रथमा ।।
सप्तमीहारिणी घर्म्येऽहरणे ।। 6 स- 2 - 64 ।।
हारीत्यावश्यके णिनिः । घर्म्ये इत्यर्थग्रहणम् । हरणप्रतिषेधात्तस्ताहचर्याद्धारीत्यर्थग्हणम् । आचारनियतमिति । आचारेण नियनमाचारनियतम्, आचारवशादवश्यकर्तव्यमित्यर्थः । कथं पुनस्ताद्धर्म्यम् तत्राह - घर्मो ह्यनुवृत्त आचार इति । जनपदे ग्रामे चरणे कुरु वाऽनुवृत्तः परम्परायात इत्यर्थः । तस्मादनपेतं धर्म्यम्, धर्मपथ्यर्थ इत्यादिना यत् । तेन वा प्राप्यमिति । नौवयोधर्म इत्यादिना यत् । याज्ञिकाश्वादौ षष्ठीसमासः ।
चिदित्यादिना शाणादेर्देयस्याचारनियततां दर्शयति । याज्ञिकादीनामश्वादीति । दातव्यमित्यनुपङ्गः ।
क्वचिदयमाचारा व्यपस्थित इति च । वर्द्धितको नाम - मूले स्थूलोऽग्रे सूक्ष्म ओदनपिण्डः, स कर्मकराय दीयते, अन्यथा कर्म न कुर्यादिति, न त्वयं धर्मः । बीजावाबः - वीजनिषेकः, गर्भाधानम् । वाडवहरणमिति । क्वचिदयमाचारो व्यवस्थितः - वाडवाय बीचनिषेकादुत्तरकालं शरीरपुष्ट्यर्थं योग्यमश्नादि दात्व्यमिति । हरणशब्दः कर्मसाधनः । अत्रास्मिन्स्वरे निवृत्ते कृत्स्वरे प्राप्ते अनो भावकर्मवचनः इत्युत्तरपदान्तोदात्तत्वं भवति । ननु च परत्वादेवायं स्वरो भवतिष्यति, तत्किं हरणप्रतिषेधेन तत्राह - परोऽपीत्यादि । अत्र पूर्वपदानां स्वरो नाऽऽख्यातः अप्रयोजनत्वात् ।।
युक्ते च ।। 6 - 2 - 66 ।।
वल्लवादयः शब्दा गवादीनां पालकवचनाः । मथणिं ददातीति मणिन्दः पृषोदरादिः । गाः सञ्चष्टे, समि ख्यः इति कः गौसंख्यः, उपपदसमासः । नन्वत्र परत्वात्थाथादिस्वरः प्राप्नोति, अस्य तु गौबल्लवादिरवकाशः सत्यम्, पूर्वविप्रतिषेधास्त्वत्र पठितव्यः, चित्स्वराद्धारिस्वरः - पितृगवः, मातृगावः, कृत्स्वराञ्च वाडवहार्यम् । युक्तस्वरश्च कृत्स्वरादित्येव, कृतो यः स्वरस्थाथादिसृत्रेण तस्माद्युक्तस्वरो भवति पूर्वविप्रतिषेधेनेत्यर्थः । युक्तः समाहि इति । युज समाधौ इत्यसेयैतद्रूपमित्यर्थः ।।
विभाषाऽध्यक्षे ।। 6 - 2 - 67 ।।
अध्यक्षशब्दोऽपि समासे युक्तवाच्येवेति सूत्रे पूर्वेण नित्ये प्राप्ते विकल्पः ।।
पापं च शिल्पिनि ।। 6 - 2 - 67 ।।
पापमिति स्वरुपग्रहणम्, शिल्पिनीति चार्थग्रहणम् व्याख्यानात् ।।
गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे ।। 6 - 2 - 69 ।।
गोत्रान्तेवासिनोरर्थग्रहणम्, इतरयोः स्वरुपगरह्णम्। अपत्याधकारादन्यत्र लीकिकं गोत्रमित्यनेन लौकिकमपत्यमात्रं गोत्रं गृह्यते । जङ्घादानगहं ददानीति । जङ्घादानं करवाणीत्यर्थः , ओदनपाकं पचतीतिवत् । अत्र शाद्वादा वात्स्यानाभव पादप्रक्षालनं क्रियते, तत्रावात्स्यः सन्वात्स्योऽहणिति ब्रूतं, तल्लाभाय
जङ्घावात्स्य इति क्षिप्यते । वत्सश्बदो सौश्रुतः । भार्याप्रधानतयेति । शाकपार्थिवादित्वादुत्तरपदलोपी समास कइति दर्शयति । वशाब्राह्मकृतेय इति वशा - वन्ध्या भार्या, सौश्रु तवत्समासः । दक्षेण प्रोक्तं दाक्षम्, तदधीते दाक्षः, दाक्षेश्छात्त्रो वा दाक्षः । चारशब्दो नडादिः, चारायणेन प्रोक्तमधीते तस्य वा शिष्यश्चारायणीयः । एवं पाणिनीयः । कुमार्यादिलाभकामा इति । तत्प्रोक्ते ग्रन्थे श्रद्वायामसत्यामपि ये कुमार्यादिलाभकामास्तत्र प्रवर्तन्ते त एवं क्षिप्यन्ते । पूर्ववत्समासः । माणवब्राह्मणयोरपत्यवाचित्वेन प्रसिद्ध्यभावात्पृथग्ग्रहणम् । अपर आकह - तस्येदम् इत्यणन्तयोर्ग्रहण्, निपातनाञ्च माणवे णत्वमिति ।
भयब्राह्मण इति । यो ब्राह्मण एव सन् राजदण्डादिभयेन ब्राह्मणाचारं करोति, न श्रद्धया, स एवं
क्षिप्यते । कर्तृकरणे कृता बहुलम् कइति बहुलवचनादकृतापि समासः । दासीश्रोत्रियो दासीब्राह्मणवत् ।।
अङ्गानि मैरेये ।। 6 - 2 - 70 ।।
अङ्गम् - आरम्भकम्, बहुवचनं स्वरुपविधिनिरासार्थंम् । सुराव्यतिरिक्तं मद्यम् - दैरेयम् । तदङ्गवाचिनीति । दैरेयशब्द इति प्रकृतम्, कइह तु तच्छब्देन तदर्थः परामृश्यते । पौष्पासव इति । आसवः - मद्यविशेषः, यत् पौष्पैण मधुना द्रव्यान्तरेण चारभ्यते तस्य पौष्पमङ्गं भवति । पुष्पासव कइति तु युक्तः पाठः ।।
भक्ताख्यास्तदर्थेषु ।। 6 - 2 - 71 ।।
बहुवचननिर्देशादेव स्वरुपविधिनिरासे सिद्धे आख्याग्रहणं भक्तविशेषवाचिनां भक्षादीनां गर्हणार्थम् अन्यथा पर्यायाणामन्नादीनामेव ग्रहणं स्यात् । भिक्षाकंण्दयः षष्ठीसमासाः येषां प्रकृतिविकारभावे चतुर्थीसमास इति पक्षः । अन्येषां चतुर्थीसमासाः ।।
गोविडालसिहसैन्धवेषूपमाने ।। 6 - 2 - 72 ।।
गौविडालसिहसैन्धवेषूपमाने ।। उपमानशब्दस्य सह गवादिभिः प्रत्येकं सम्बन्धादेकवचनम् । उपमानार्थोऽपीति । यो यत्रोदाहरणे उपमानार्थः समाभवति स तत्र योजयितव्यः । यथाप्रसिद्धं चेति । यस्योदाहरणस्य च यथा लोके प्रसिद्धिः स तथा योजयितव्यः । तत्र दिङ्मात्रं दर्शयति - गवाकृत्येत्यादि । आकृतिः - संस्थानम् , संनिवेशितम् - व्यवस्थापितम् । ेवमन्यत्रापि यत्किञ्चित् सादृश्यं योजनियम् ।।
 अके जीविकार्थे ।। 6 - 2 - 73 ।।
जीविकावाजिनीति । प्रवृत्तिनिमित्तकथनमेतत्, जीविकारुपप्रवृत्तिनिमित्त इत्यर्थः । पर्यवसानभूमिस्तु तध्वान्, तदाह - दन्तलेखनादिभिर्यषामिति । रमणीयकतेति । अत्रापि नित्यं क्रीडाजीविकयोः इति समासः, क्रीडायामेव हि तृजन्तं सम्भवति, न पुनर्जीविकायामिति तत्रार्थः ।।
प्राचां क्रीडायाम् ।। 6 - 2 - 74 ।।
प्राचां क्रीडायामिति श्रुतयोरेवान्वयसम्भवान्मतेनेत्यध्याहारो न युक्त इति चमत्वाऽऽह - प्राग्देश्वतिनां या
क्रीडेति ।।
अणि नियुक्ते ।। 6 - 2 - 75 ।।
नियुक्त इति युजिर्योगे इत्यस्यैतद्रूपमित्याह - नियुक्तीऽधिकृत इति । स च कस्मिश्चत्कर्तव्ये तत्परो न भवतीति । कार्यान्तरेऽपि नियोगसम्भावात् ।।
शिल्पिनि चाकृञः ।। 6 - 2 - 76 ।।
युक्ते च इत्येव सिद्धे कृञः प्रतिषेधार्थ वचनतम् । तन्तुवाय इति ह्वावामश्च इत्यण्, अतो युक् । अयस्कार इति अतः कृकगम इत्यादिना विसर्जनीयस्य सत्वम् ।।
गौतन्तियवं पाले ।। 6 - 2 - 78 ।।तनु विस्तारे , क्तिच्, तन्तिः - वत्सानां बन्धनरज्जुः ।।
उपमानं शब्दार्थप्रकृतावेव ।। 6 - 2 - 80 ।।
उष्ट्रक्रोशीत्यादौ कर्तर्युपमाने इति णिनिः । उपमानगर्हणमित्यादि । अन्यथा योगाविभागेन नियमाश्रयणसामर्थ्याद्विशिष्टविषयो नियम इत्येतावद् गम्यत, न त्विष्टो विषयविभाग इति भावः ।
शब्दार्थप्रकृताविति किमिति । सूत्रारम्भः किमर्थ इत्यर्थः । वृकवञ्चीति । कृत्सवर एव भवति । प्रकृतिरेवेत्यादि । असति प्रकृतिगरह्णे शब्दार्थात्परो यो णिनिस्तदन्त उत्तरपदे इति विज्ञायेत्, ततश्च यत्रापि धातूपसर्गसमुदायात् शब्दार्थात्परो णिनिः, तत्रापि स्यात् कृदुग्रहणे गतिकारकपूर्वस्यापि ग्रहणाण्णिन्यन्तमेवोत्तरपदमिति कृत्वा । प्रकृतिग्रहणे तु न भवति ।
योऽत्र धातुर्नासौ शब्दार्थः, यश्च शब्दार्थो धातूपसर्गसमुदायो न ततो णिनिर्विहित इति, सिद्धे विधिरारभ्यमाणोन्तरेथणाप्येवकारं नियमाय भवति, नार्थ एवकारेण तत्राह - एवकारकरणमित्यादि । असति हि तस्मिन्विपरीतो नियमः स्यात् - शब्दार्थप्रकृतौ यदि भवति उपमान एवेति । एवं च प्रकृतिर्नियम्येत, नोपमानम् । तस्मादुपमानावधारणार्थमेवकारः क्रियते । किम पुनः कारणमुपमानावधारणमाश्रीयते अत आह - शब्दार्थप्रकृताविति । तुशब्दो हेतौ, उपमाननियमे हि शब्दार्थप्रकृतेरनियतत्वात्तत्राप्यविशेषेण सर्वस्याद्युदात्तत्वं
लभ्यते, नान्यथा । किञ्च - प्रिकृत्यवधारणेऽस्यानियतत्वाद् वृकवञ्चीत्यादावाद्युदात्तत्वप्रसङ्गः ।।
युक्तारोह्यादयश्च ।। 6 - 2 - 81 ।।
पूर्वोत्तरपदनियमार्थमिति । यत्र युक्तादीन्येव पूर्वपदानि, कआरोहायादीन्यव चोत्तरपदानि -- तत्रैव यथा स्यादित्यर्थः । आगतमत्स्यादिषु च बहुव्रीहिः, कर्मधारयो वा ।
एकशितिपादिति । संख्यासुपूर्वस्य इति पादशब्दाकारस्य लोपः, संख्यासुपूर्वस्य समासस्य योऽन्ते पादशब्दरतस्य लोपो भवतीति तत्रार्थः । ननु चेह इण्भकापाशल्यतिमर्ञ्चिभ्यः कन् इति कन्नन्त एकशब्द आद्युदात्तः, ततश्च बहुव्रीहौ प्रकृत्य इत्येव सिद्धमाद्युदात्तत्वम् तत्राह - एकः शिति पादोऽस्येति त्रिपदौ बहुव्रीहिरिति । ततः किमित्याह - तत्रेति । यद्युत्तरपदे परत एकशितिशब्दस्तत्पुरुषः, ततो।पि किम् इत्याह - तस्येति । तस्य तत्पुरुषसंज्ञकस्यैकशितिशब्दस्य समासान्तोदात्तत्वं प्राप्तम् । ननु समासस्वरापवादो बहुव्रीहिस्वः तत्राहनिमित्तिस्वरबलीयस्त्वादिति । समासस्वरस्येति शेषः । निमित्तमुत्तरपदं द्विगोस्‌त्रिपदो बहुव्रीहिस्तस्य यः स्वरः , तस्मात्समासस्वरस्य बलीयस्त्वादित्यर्थः । बलीयस्त्वंतु सतिशिष्टत्वात् । सतिशिष्टत्वं तु बहुव्रीहौ सति पश्चात्तत्पुरुषे कृते प्राप्नोतीति ।
एवमपीत्यादि । स्पष्टार्थम् । निमित्तिस्वर बलीयस्त्वस्यापीत्यादि । तथा च समर्थसूत्रे वार्त्तिकम् - एकशितिपात्स्वरवचनं तु ज्ञापकं निमित्तिस्वरबलीयस्त्वस्य इति । उभयमन्तरेणाप्यनुपपद्यमानमेकशितिपाद्‌ग्रहणमुभयमपि कज्ञापयति ।।
दीर्घकाशतुषभ्राष्ट्रवटं जे ।। 6 - 2 - 82 ।।
कुटीज इति । सप्तम्यां जनेर्डः ।।
अन्त्यात्पूर्वं बह्वचः ।। 6 - 2 - 83 ।।
आमलकीज इति । दीर्घान्तेऽपि बह्वचि परत्वादयमेव स्वरो भवति ।।
ग्रमेऽनिवसन्तः ।। 6 - 2 - 84 ।।
निपूर्वाद्वसेरौणादिकोऽधिकरणे झच् , निवसग्त्यस्मिन्निति निवसन्तः । देवग्राम इति । प्राचीनपरिक्षिप्तदेशेऽयं ग्रामशब्दः । यद्येवम्, निवसन्तवाची भवति तत्राह - देवस्वामिक कइति । ततश्चायं न देवापेक्षया ग्रामो निवसन्त इति भावः । दाक्ष्यादयो निवसन्ति यस्मिन्नित्यादि । अन्ये निवसन्तु, तत्र मा वा यसन्, ते तावदवात्सुरित्येतावता तेपामिति व्यपदिश्यत इत्यर्थः ।।
घोषादिषु च ।। 6 - 2 - 85 ।।
 
यान्यत्रेति । घोषकुटादीनि । अपरे पुनरिति । थेषां घोषकुटादिष्वपि शब्देषु तावद्भवति, न निवासनामधेयेषु ।।
छात्त्र्यादयः शालायाम् ।। 6 - 2 - 86 ।।
यदा शालान्त थइत्यादि । विभाषा सेनासुरा इत्यादिना शालान्तस्य तत्पुरुषस्य विभाषा नपुंसकत्वमुक्तम् । तत्रास्यावकाशो यो नपुंसकलिङगो न भवति - छात्त्रिशाला, गोशरितिः तत्पुरुषे शालायाम् इत्यस्यावकाशो यश्छात्त्र्यादिपूर्वपदो न भवति - वाराह्मणशालम्, क्षत्त्रियशालमिति, यश्छात्त्र्यादिपूर्वपदो नपुंसकलिङ्गश्च, तत्रैकदेशबिकृतस्यानन्यत्वादयमपि प्राप्नोति, तत्पुरुषे शालायाम् इत्ययं च तत्र पूर्वविप्रतिषेधादयमेव भवति ।।
प्रस्थेऽवृद्धमकर्क्यादीनमा ।। 6 - 2 - 87 ।।
मालीदीनां च इति वचनादवृद्धमिति पदच्छेदः । कर्क्यादिप्रतिषेधस्तु नामधेयार्थः स्यात् - वुा नामधेयस्य वृद्धसंज्ञा वक्तव्या इति ।।
अर्मे चावर्णं द्वय्च्त्र्यच् ।। 6 - 2 - 90 ।।
  वृहदर्ममिति । स्वरविधौ व्यञ्जनमविद्यमानवत् इत्येतदत्र नाश्रीयते अनित्यत्वात् । नहार्ममिति । आत्वे कृतेऽवर्णान्तत्वादस्ति प्राप्तिः । नवाममिति । नवशब्दः प्रत्यग्रवचनोऽकारान्तः ।।
न भूताधिकसञ्जीवमद्राश्मकज्जलम् ।।ल 6 - 2 - 91 ।।
मद्राश्मग्रहणं सङ्घातविगृहीतार्थमिति । मद्रशब्दस्य केवलस्य मद्राश्मशब्दस्य च सङ्घातस्य प्रतिषेधार्थमित्यर्थः ।
मद्राश्मार्ममिति । अनोऽश्मायः सरसां जातिसंज्ञयोः इति समासान्ते सत्यवर्णान्मेतद्भवति, तदेवम् - मद्रार्मम्, मद्राश्मार्ममिति देव एवोदाहरणे । प्रायेण तु अश्मार्ममिति तृतीयमप्युदाहरणं पठ्यते, तदयुक्तम्, अश्मशब्दस्य नकारान्तत्वात् । न च लोपे कृतेऽवर्णान्तत्वम्, स्वरविधौ नलोपस्थासिद्धत्वात् । तथा च वक्ष्यति - पञ्चार्मम्, दशार्ममित्यत्र अर्मे चावर्णं द्व्यच्त्र्यच् इत्यं स्वरो न भवतीति । ।
अपर आह मद्राश्मग्रहणं सङ्घातविगृहीतार्थम् इत्यस्य भाष्येऽदर्शनादनार्षो वृत्तौ पाठ इति ।
दिवोदासावेति । दिवश्च दासे इति षष्ठ्या अलुक् ।।
अन्तः ।। 6 - 2 - 92 ।।
अत्रापि प्रकरणे पूर्वपदविशषया प्रथमा षष्ठ्यर्थे द्रष्टव्या ।।
सर्व गुणकार्त्स्न्ये ।। 6 - 2 - 93 ।।
यत्र गुणान्तरस्याभावस्तत्र गुणकार्त्स्न्यं भवति । सर्वश्वेत इति । पूर्वकालैक इत्यादिना कर्मधारयः । अत्र शुक्लेन गुणेन सर्वावयवानां वायप्तिर्गम्यते ।
आश्रयव्याप्त्या परमत्वमिति । यद्यप्यौज्ज्वल्यादिनापि परमत्वं सम्भवति, अत्र त्वेवंविधं परमत्वं विवक्षितमित्यर्थः । सर्वसौवर्ण इति । विकारविषयमत्र कार्त्स्न्यम् । कार्त्स्न्ये इति किमिति । गुणवाचिन्युत्तरपदे न स्रवशब्दस्य कार्त्सस्न्यं व्यभिचरतीति प्रश्नः । सर्वेषां श्वेततरः सर्वश्वेत इति । गुणिकार्त्स्न्ये सर्वशब्दः, न गुणकार्त्स्न्ये । सर्वषामिति च गुणसम्बन्धे षष्ठी, पटस्य शौक्ल्यमितिवद् । गुणवाचिन एव च प्रत्ययः, सर्वेषां पटानां द्रव्यान्तराधारो यः श्वेतगुणस्तदपेक्षया सातिशयः श्वेतो गुण इत्यर्थः ।
गुणात्तरेणेति । गुणाद्युस्तरप्प्रत्ययस्तदन्तेनेत्यर्थः । वचनमेवेदम्, तेन पूरणगुण कइति प्रतिषेधं बाधित्वा समासश्च भवति, तरब्लोपश्च ।।
संज्ञायां गिरिनिकाययोः ।। 6 - 2 - 94 ।।
अञ्जनागिरिरिति । वनगिर्योः संज्ञायाम् इति दिर्घत्वम् ।।
कुमार्या वयसि ।। 6 - 2 - 95 ।।

वृद्धकुमारीति । विशेषणसमासः । जरत्कुमारीति । जरतीशब्दस्य पूर्वकालैक इत्येनेन, अत्रोभयत्र पुंवत्कर्मधारय इत्यादिना पुंपद्भावः ।
ननु च कुमारीशब्दः प्रथमे वयसि वर्तते, तथा च वयसि प्रथमे इति ङीबत्र विहितः, तस्य कथं चरमवयोवाचिभ्यां वृद्धाचरतीशब्दाभ्यां सामानाघिकरण्यम् अत आह - कुमारीशब्द इत्यादि । कुमार्यां हि द्वयं दृष्टम् - प्रथमं वयः , पुंसा सहासम्प्रयोगश्च तत्र प्रथमार्थप्रहाणेन द्वितीयमर्थमसम्प्रयोगमात्रमुपाददानस्य सम्भवति सामानधिकरण्यमित्यर्थः । तच्चेति । वृद्धादिशब्दान्तराभिधेयमित्यर्थः । कुमारत्वमेवेति । यदेतत्कुमारीशब्दस्य प्रवृत्तिनिमित्तं न तद्वयो गृह्यत इत्यर्थः । एतच्च वयोग्रखहणसामर्थ्याल्लभ्यते अन्यथा कुमारीशब्दप्रयोगो नियमतः प्रथमवयो गम्यते इत्यनर्थकं तत्स्यात् ।
परमकुमारीत्यत्र कुमारत्वमेव प्रतीयते, न वयोऽन्तरमिति भवति प्रत्युदाहरणम् ।।
उदकेऽकेवले ।। 6 - 2 - 96 ।।
असन्देहार्थम् केवल उदके इत्यवचनाद् अकेवले इति पदच्छेदः । मश्रम् - द्रव्यान्तरसंयुक्तम् ।।
द्वीगौ क्रतौ ।। 6 - 2 - 97 ।।
गर्गत्रिरात्रादयः षष्ठीसमासाः । तिसृणां रात्रीणां समाहारस्त्रिरात्रः, अहः सर्व इत्यादिनाच समासान्तः । अतिरात्र इति । रात्रिमतिक्रान्त इति प्रादिसमासः ।।
सभायां नपुंसके ।। 6 - 2 - 98 ।।
गोपालसभादौ अशाला च इति नपुंसकत्वम् ।
रमणीयसभमिति । अत्राभिधेयवशान्नपुंसकत्वम्, न प्रतिपदोक्तम् ।।
अरिष्टगौडपूर्वे च ।। 6 - 2 - 100 ।।
पूर्वग्रहणं किमिति । अरिष्टगौडयोरिति वक्तव्यम् इति प्रश्नः । इहापि यथा स्यादिति । पूर्वग्रहणे हि सति वहुव्रीहिर्लभ्यते - अरिष्टगौहौ पूर्वौ यस्मिन्समास इति । तेनारिष्टाश्रितपुरम्, गौडभृत्यपुरमित्यत्रापि पूर्वपदमान्तोदात्तं भवति । असति तु पूर्वग्रहणे श्रितः भृत्यशब्दाभ्यां व्यवहितत्वादपूर्वपदत्वादरिष्टगौडयोस्तावन्न स्यात् समुदाययोश्च सूत्रेऽनुपात्तत्वात् ।।
न हास्तिनफलकमार्देयाः ।। 6 - 2 - 101 ।।
मार्देय इति । ढेलोपोऽकद्र्‌वाः इत्युकारलोपः ।।
दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु ।। 6 - 2 - 103 ।। चानराटे स्वरुपग्रहणम्, इतरेषु अर्थग्रहणम्। पूर्वेषुकामशमीति । दिक्संख्ये संज्ञायाम् इति समासः । पूर्वपञ्चाला इति । समुदाये हि वृत्तोः शब्दा अवयवेष्वपि वर्तन्ते तइति पञ्चालैकदेशे पञ्चालशब्दः, ततः पूर्वापरप्रथम इत्यादिना कर्मधारयः । शब्दग्रहणमित्यादि । दिशि दृष्टः शब्दो दिक्शब्द इत्युत्तरपदेलोपो समासः तेन कालवाचिनोऽपि ग्रहणात् पूर्वयायतमित्यादावपि भवति ।।
आचार्योपसर्जनश्चान्तेवासिनि ।। 6 - 2 - 104 ।।
आचार्योपसर्जनग्रहणमन्तेवासिनो विशेषणम्, सप्तम्यर्थे प्रथमा । आचार्योपसर्जनान्तेवासिवाचिनीति । आचार्य उपसर्जनं यस्य स आचार्योपसर्जनः स चासावन्तेवासी च आचार्योपसर्जनान्तेवामी, तद्वाचिनि। पूर्वपाणिनीया इति । पूर्ववत्समासः, पाणिनेश्छात्त्राः पाणिनीयाः , अत्रान्तेवासिनः प्रधानम्, आचार्यस्तूपसर्जनम्
। काशकृत्स्निशब्दात् अतश्च इत्यण् । पूर्वपाणिनीयं शास्त्रमिति । पाणिनीयं शास्त्रं पूर्वम, चिरन्तनमित्यर्थः ।
उत्तरपदवृद्धौ सर्वं च ।। 6 - 2 - 105 ।।
वृद्धौ इत्येतावतैव तद्वदुत्तरपदपरिग्रहे सिद्धे उत्तरपदग्रहणात्तदधिकारो लक्ष्यते ।।
बहुव्रीहौ विश्वं संज्ञायाम् ।। विशेः क्वनि विश्वशब्द आद्युदात्तः । विश्वामित्त्र इत्यादि । अस्यावकाशः - विश्वदेवः , विश्वयशाः , संज्ञायां मित्त्राजिनयोः इत्यस्यावकाशः - कुलमित्त्रः, कुलाजिनः, विश्वामित्त्रः, विश्वाजिन इत्यत्रोभयप्रसङ्े संज्ञायां मित्त्राजिनयोः इत्येतद्भवति विप्रतिषेधेन ।।
उदराश्वेषुषु ।। 6 - 2 - 107 ।।
अयमपि पूर्वपदप्रकृतिस्वरस्यापवादः । वृकशब्दः प्रणिनां च कुपूर्वाणाम् इत्याद्युदात्तः, वृकास्येवोदरं यस्य वृकीदरः । दाम ुदरे यस्य दामोदरः, दामशब्दो मनिन्प्रत्ययान्तः । हरतेः सर्वधातुभ्य इन् इतीन्, हरिदश्वो यस्य हर्यश्वः । यौवनशब्दोऽव्युत्पन्नं प्रतिपदिकम्, लघावन्तेद्वयोश्च वह्वषो गुरुः इत्याद्युदात्तः । यूनो भावो यौवनमिति युवाद्यणन्तत्वे प्रत्ययस्वरेणान्तोदात्तत्वात् पूर्पपदप्रकृतिस्वरेणैव सिद्धम् । सुवर्णपुङ्खेशुरिति । शोभनो वर्णो येषां ते सुवर्णाः, नञ्सुभ्याम् इत्यन्तोदात्तत्वम्, सुवर्णाः, पुङ्खायोषां ते सुवर्णपुङ्खाः, पूर्वपदप्रकृतिस्वरेण मध्योदात्तत्वम्, पननरिषुशब्देन बहुव्रीहिः । महेषुरिति । महच्छब्दोऽन्तोदात्त इति महान्व्रीह्यपराह्ण इत्यत्रोक्तम् । तस्मात्तत्पूर्वपदप्रकृतिस्वरेणैव सिद्धे सति तस्यान्यार्थ आरम्भः अपवादत्वादनेनैवान्तोदात्तत्वं युक्तमित्यस्योपन्यासः ।।
क्षेपे ।। 6 - 2 - 108 ।।
कुण्डशब्दः नब्विषयस्यानिसन्तस्य इत्याद्युदात्तः । घटशब्दः पचाद्यजन्तः । महेषुवदस्योपन्यासः । कटुशब्दात्संज्ञायां कन् । स्पन्दितशब्दो निष्ठान्तः । निहन्यतेऽनेनेति निघातः ततोऽन्योऽनिघातः , अतोऽव्ययपूर्वपदप्रकृतिस्वरत्वम्, चरिचलिपतिवदिनां वा द्वित्वमच्याक्चाभ्यासस्य - चलाचलः ।
अनुदर इत्यादि । अस्यावकाशः - कुण्डोदर इत्यादि, नञ्सुभ्याम् इत्यस्यावकः शः - अयशः, सुयशः, एवं स्थिते विप्रतिषेधः ।।
नदी बन्धुनि ।। 6 - 2 0 109 ।।
बन्धुनि इति शब्दरुपापेक्षया नपुंसकनिर्देशः, गर्गवत्स शब्दाभ्यां गर्गादियञन्तभ्याम् यञश्च इति ङीप् , गार्गीवात्सीशब्दौ ञित्स्वरेणाद्युदात्तौ । ब्रह्मशब्दो बृहेर्मनिन्प्रत्यये निपातितः ।।
निष्ठोपसर्गपूर्वमन्यतरस्याम् ।। 6 - 2 - 110 ।।
प्रक्षालितपाद इति । क्षल शौचकर्मणि चुरादिः, धावु गातिशुद्ध्योः, च्छ्वोः, शूठ् इत्युठ्, एत्येधत्युठसु इति वृद्धिः, प्रक्षालितप्रधौतशब्दौ गतिस्वरेणाद्युदात्तौ ।
मुखं स्वाङ्गमित्येतद्भवतीति । विकल्पितमुत्तरपदान्तोदात्तत्वम्, तेन स्वाङ्गवाचिनि मुखशब्दे स्वरत्रयं भवति - अनेन पूर्वपदान्तोदात्तत्वम्, मुखं स्वाङ्गम् इत्येतत्, उभाभ्यां मुक्ते पूर्वपदप्रकृतिभावेन गतिरनन्तरः इत्याद्युदात्तत्वं च । न चेदिति । स्वाङ्वा चीति सम्बध्यते, यदि मुखशब्दः स्वाङ्गवाची न भवतीत्येर्थः ।
प्रसेचकशब्दः कुदुत्तरपदप्रकृतिस्वरेण मध्योदात्तः, शुष्कशब्दः शुष्कधुष्टौ इत्याद्युदात्तः ।।
उत्तरपदादिः ।। 6 - 2 - 111 ।।
उत्तरपदग्रहथखणमसमस्तं लुप्तषष्ठीकम् । अत्रापि प्रकरण उत्तरपदनिर्देशे षष्ठ्यर्थे प्रथमा ।।
कर्णो वर्तणलक्षणात् ।। 6 - 2 - 112 ।।
दात्राकर्णः श़डकूकर्ण इति । दात्रं कर्णे यस्य, शङकुः कर्णे यस्यति विग्रहः, सप्तम्याः पूर्वनिपाते गड्‌वादिभ्यः परवचनम् इति पनिपातः । कर्णे लक्षणस्याविष्टेत्यादिना दीर्घत्वम् । लक्ष्यते येन तल्लक्षणम्, ततश्च स्थूलकर्ण इत्यत्रापि प्राप्नोति, स्थौल्योनापि हि लक्षणीयत्वादत आह - पशूनां विभागज्ञापनार्थमित्यादि । एतच्च सामान्योक्तावपि वर्णग्रहणाल्लभ्यते अन्यथा वर्णेनापि लक्ष्यमाणत्वांत्तदमर्थकं स्यात् । श्विता वर्णे पचाद्यच् , कूट दाहे, इगुपधलक्षणः कः, शुभ शुम्भ शोभार्थे, अनुदात्तेतश्च हलादेः, इति युच् - शोभनः । प्रत्युदाहरणे सर्वत्र पूर्वपदप्रकृतिस्वर एव भवति । अण्ठकरणादीनां समाहारद्वन्द्वे नपुंसकह्नस्वत्वम् ।।
कण्ठपृष्ठग्रीवाजङ्घं च ।। 6 - 2 - 114 ।।
सुग्रीव इति । अत्र परत्वात् नञ्सुभ्याम् इत्यन्तोदात्तत्वेनभाव्यम्, अस्य तु दशग्रीवादिरवकाशः यदि तु नेष्यते, चकारस्यैव विधेः समुञ्चयार्थ इति व्याख्यातव्यम् । नाडीजङ्घ इति । नाड्याकारे जङ्घे यस्य नाडीजङ्घः ।।
नजो जरमरमित्त्रमृताः ।। 6 - 2 -116 ।।
जरणं जरः, ऋदोरप् । मरणं मरः, अरु देव निपातनादप् । ऋिमिदा स्नेहने - अस्मात् क्त्रः, मित्त्रम् ।।
सोर्मनसी अलोमोषसी ।। 6 - 2 - 117 ।।
मँश्च मनसी । सुप्रथिमेति । पृथोर्भावः, पृथ्वादिब्य इमनिच्, र ऋतो हलादेर्लघोः इति रादेशः । पीयत इति पचः पिबतेरिञ्च इत्यसुन् । अशोर्देवने युट् च इत्यसुन् , युडागमः , यशः । स्त्रुरिभ्यां तुट् स्रोतः । सुस्रत्, सुध्वद् इति । स्रंसुध्वंसुभ्यां क्विप्, वसुस्रंसु इत्यादिना दत्वम्, तस्यासिद्धत्वादत्रासन्तत्वम् ।
राज - तक्षशब्दौ कनिन्युवृशषि इत्यादिना कनिप्रत्ययान्तौ । लुनातेर्मनिन - लोम, उष दाहे, मिथुनेऽसिः इति वर्तमाने उषः कित् ।
अनिनस्मन्ग्रहणानीति । अन्, इन्, अस्, मन् - इत्येतानि गृह्यन्ते येषु सूत्रेषु तानि तथोक्तानि, तत्र तदन्तविधिं प्रयोजयन्तीति वचनादनर्थकानामप्यनिन्प्रभृतीनां ग्रहणं भवतीत्युक्तं भवति । तेन सुप्रथिमा, सुस्रत्, सुध्वदित्यादिकमप्यदाहरणमुपपद्यत इति भावः ।
कपि परत्वादिति । सोर्मनसी इत्यस्वावकाशः - सुकमा, सुशर्मा, कपि पूर्वम् इत्यस्यावकाशः - अयवकः, सुयवक इति एकस्थले विप्रतिषेधः ।।
आद्युदात्तं द्व्यच् छन्दसि ।। 6 - 2 - 119 ।।
कुर्भ्रश्च इति वर्तमाने अर्जिद्दशिकम्यमिपशिबाधामृजिपसितुग्धुग्दीर्घहकाराश्च । बाधते येन परानिति बाहुः ।।
वीरवीर्य्यौ च ।। 6 - 2 - 120 ।।
वीर विक्रान्तौ चुरादिः, ततः पचाद्यचि - वीरः, अचो यत् - वीर्यंम्, वीरेषु वा साधुरिति पारग्घितीयौ यत् । तत्रेत्यादि । कथं पुनरेतज्ज्ञापकम् इत्याह - तत्र हि सतीति । फिषितु बिल्वभक्ष्यवीर्याणि छन्दसि इति छन्दस्यन्तस्वरितत्वं भाषायां वाद्युदात्तत्वं शब्दस्य स्थितम् ।।
कूलतीरतूलमूलशालाक्षसममव्ययीभावे ।। 6 - 2 - 121 ।।
सुषममित्यादौ सुविनिर्दुर्भ्यः सुपिसूतिसमाः इति षत्वम्, तस्यासिद्धत्वात्समशब्द एवायम् । तिष्ठद्‌गुप्रभृतिष्वेते पठ्यन्त इति । तेनाव्ययीभावसंज्ञा । पर्यादिभ्य इत्यादि । परिप्रत्युपापा इत्यस्यावकाशो यत्र कूलादयौ न सन्ति - परित्रिगर्तमिति, कूलादीनामाद्युदात्तस्यावकाशो यत्र पर्यादयो न भवन्ति - अवकूलम्, तअतिकूलमिति पर्यादिभ्यः परेषु कूलादिषु विप्रतिषेधः ।।
कंसमन्थशूर्पपाय्यकाण्डं द्विगौ ।। 6 - 2 - 122 ।।
द्विकंस इति । द्वाभ्यां कंसाभ्यां क्रीत इति तद्धितार्थे समासः , कंसाट्टिठन् इति टिठन्, तस्य अध्यर्धपूर्व इति लुक् । द्विमन्थ इति । आर्हादगौपुच्छ इत्यादिना ठक्, शेषं पूर्ववत् । द्विशूर्पमिति । शूर्पादञन्यतरस्याम् । द्विपाय्यमिति । पाय्यसान्नाय्य इत्यादिना परिमाणे निपातितः । प्राग्वतेष्ठञ् । द्विकाण्डमिति । देव काण्डे प्रमाणमस्य प्रमाणे द्वयसच् इत्यादिना मात्रजादयः, तेषाम् प्रमाणे लो द्विगोर्नित्यम् इति लुक् ।।
तत्पुरुषे शालायां नपुंसके ।। 6 - 2 - 123 ।।
दृढशालमिति । बहुव्रीहिरयम् । तत्र पूर्वपदप्रकृतिस्वर एव भवति, पूर्वपदं च निष्ठान्तत्वादन्तोदात्तम् । ननु चात्र लक्षणप्रतिपदोक्तपरिभाषयैव भविष्यति सत्यम्, उत्तरार्थं तत्पुरुषग्रहणमवश्यं कर्तव्यं तदिहैव क्रियते, परिभाषाया अनाश्रयणाय ।।
कन्था च ।। 6 - 2 - 124 ।।
शोभवनः शमो यस्य तस्यापत्यं सौशमिः । आङ्‌पूर्वात् ह्वयतेः आतश्चोपसर्गे इति कः चप सान्तवने औणादिकः पः बहुलवचनादिडभावः - चप्पः ।।
आदिश्चिहणादीनाम् ।।थ 6 - 2 - 125 ।।
चिनोतेः क्विप्, चित्, हन्तेः पचाद्यच्, हनः, चिहणम् - निपातनात्तलोपो णत्वं च । मल मल्ल धारणे, तआभ्यां रप्रत्ययः, निपात्नाल्लस्य डत्वम् - मडरः, मद्दुरः । विगततुलस्येदं वैतुलम् । पटदिति कायति - पटत्कः । कै गै रै शब्दे । आतोऽनुपसर्गे कः । बिडमादेत्ते बिडालः । ला आदाने सोपसर्गादप्यस्मादेव निपातनात्कः, तस्यापत्यं बैडालिः, तस्येव कर्णावस्य बैडालिकर्णः । अपहे तु इकारान्तं पठन्ति - बैडालिकणिरिति । कुक्कु रटतीति, कुक्कुटः, निपातनाद्रशब्दस्य लोपः, चिनोतेः क्विप् , चित्, कणतेरच्, कणः, चिता कणः, चिक्कणः, निपातनात्तकारस्.य ककारः । तकारमेवान्ये पठन्ति । चिहणादयश्चैते गौत्रनामधेयाति स्मर्यन्ते ।
आदिरिति वर्तमान इति । पूर्वं ह्यादिग्रहणमुत्तरपदाभिसम्बद्वमिह पूर्वपदानां चिहणादीनामाद्युदात्तत्वमिष्यते, अतस्तदर्थं पुनरादिग्रहणं कृतम् ।।
चेलखेटकटुककाण्डं गर्हायाम् ।। 6 - 2 - 126 ।।
पुत्रचेलमिति । चेलवत्तुच्छमित्यर्थः । खेट इति तृणनाम, तद्वद् दुर्बला उपानत्खेटम्। कटुकम् - अस्वादु, तथा दध्यपि गतस्वादुकत्वात् कटुकम्। काण्डमिति शरनाम, तद् यथा सत्त्वपीडाकरम्, एवं भूतमपि ।।
चीरमुपमानम् ।। 6 - 2 - 127 ।।
वस्त्रचीरमिति । वस्त्रं चीरमिवेति पूर्ववद्व्याध्रादिसमासः ।।
कूलसूदस्थलकर्षाः संज्ञायाम् ।। 6 - 2 - 129 ।।
भजीसूदमिति । भाजीशब्दो जानपदादि सूत्रेण ङीषन्तः ।।
अकर्मधारये राज्यम् ।। 6 - 2 - 130 ।।
चेलराज्यादिस्वरादिति । आदिशब्देन वर्ग्यादिस्वरपरिग्रहः, चेलरजायादिस्वरस्यावकाशः - भार्याचेलम्, ब्राह्मणराज्यम्, तत्पुरुषे तुल्यार्थ इत्यादिना विहितस्याव्ययस्वरस्यावकाशः - निष्कौशाम्बिः, कुचेलम्, कुराज्यमित्यत्रोभयप्रसङ्गे पूर्वविप्रतिषेधः।।
पुत्रः पुम्भ्यः ।। 6 - 2 - 132 ।।
कुनटस्यापत्यं कौनटिः । दामकमाहिषकशब्दौ संज्ञायां कन् इति कन्नन्तौ ।।
नाचार्यराजर्त्‌विक्संयुक्तज्ञात्याख्येभ्यः ।। 6 - 2 - 133 ।।
संयुक्ताः स्रीसम्बन्धिनः श्यालादय इति । योगरुढिरेषा तेषाम्, यथा सम्बन्धिशब्दः । ज्ञातयो मातापितृसम्बन्धेन बान्धवा इति । पित़सम्बन्धिष्वेव तु ज्ञातिशब्दो लोके प्रसिद्धः । आख्याग्रहणमाचार्यादिभिः प्रतेयकमभिसम्बध्यत । भ्रातुष्पुत्र इति । कस्कादिषु पाठात् षत्वम् ।।
चूर्णादीन्यप्राणिषष्ठ्याः ।। 6 - 2 - 134 ।।
चूरी दाहे अस्मात् क्तः चूर्णम्। वा गतिगन्धनयोः, पा रक्षणे - आभ्यां करिशब्द उपपदे आतोऽनुपसर्गे कः, करिवम्, करिपम्। महेरिनण्, बहुलवचनात् शकेरपि भवति - शाकिनम्, शकादिभ्योऽटच्, शकटम्, तद्वहतीति शकटादण् - शाकटम् । द्राक् क्षरति द्राक्षा, पृषोदरादिः । तुस शब्दे ततो बहुलवचनात् क्तः उपधादीर्घत्वं च । कुं दुनोति, कुत्सितं वा दुनोतीति क्किप्, अस्मादेव निपातनात्तुगभावः, पूर्वपदस्य च मुम् कुन्दुं मिमीते कुन्दुमः । दलेः कपन्, दलपः । चमेरसच् चमसः ततो जातिलक्षणो ङीष् - चमसी । कनी दीप्तिकान्तिगतिषु - अस्मात् पचाद्यच्, अस्मादेव निपातनाद् द्वर्वचनम् - चक्कनः । च्कन इत्यन्ये पठन्ति, तत्रापि निपातनादेव रुपसिद्धिः । चोलस्यापत्यम् द्व्यचः इत्यण् - चौलः । एते चूर्णादयः ।
पूर्वाचार्योपचारेणेति । उपचारः प्रयोगः ।।
कुण्डं वनम् ।। 6 - 2 - 136 ।।
कुण्डशब्ददीऽत्रेत्यादि । जनविशेषाभिधायी कुण्डशब्दस्तस्य नान्तरेण साद्दश्यम्, ततोऽन्यत्र वने वृत्तिः सम्भवतीति भावः । अन्ये तु वनेऽपि मुख्य एव कुण्डशब्द इत्याहुः । तत्र वनशब्देन विशेषणेन भाजन विशेषवाजी निवर्त्यते, समुदायवाची चात्र वनशब्दः, न तूदकवाची, आह हि - कुण्डाद्युदात्तत्वे तत्समुदायग्रहणमिति, तच्छब्देन पूर्वदार्थः परामृश्यते । उपर आह - वनसमुदाये इति वक्तव्यम्, न तु वने इति
, तेन शरवणसमुदायः शरकुण्डशब्देनोच्यत इति ।।
प्रकृत्या भगालम् ।। 6 - 2 - 137 ।।
भगालमित्यर्थग्रणमित्याह - भगालवाचीति । अत्र च व्याख्यानमेव शरणम् । भगालादयचो दध्योदात्ता इति । लघावन्ते द्वयोश्च बह्वषो गुरुः इति वचनात् ।।
शितेनित्याबह्वज्बबहुव्रीहावभसत् ।। 6 - 2 - 138 ।।
अंसौष्ठशब्दावित्यादि । अम् रोगे, अमेः सन् , असः, उष दाहेः उषिकुषिगात्तिभ्यस्थन्, ओष्ठः । दर्शनीयशब्दोऽनीयर् - प्रत्ययान्तो मध्योदात्तः । शितिशब्दः वर्णानां तणतिनितान्तानाम् इत्याद्युदात्तः ।।
गतिकारकोपपदात् कृत् ।। 6 - 2 - 139 ।।
प्रकारक इत्यादौ कुगतिप्रादयः इति समासः । इध्मप्रव्रश्चानादौ कर्मणि षष्ठ्याः समासः, करणे ल्युट्, इध्मं प्रवृश्च्यते येन सोऽत्र इध्मप्रवश्चनः, शद्ऌ शातने, णिच्, शदेरगतौ तः । पलशानि शात्यन्ते येन स दण्डः पराशशतनः । श्मश्रु कल्प्यते येन स क्षुरादिः श्मश्रुकल्पनः । कृपू सामर्थ्ये ण्यन्तः , केवलो वा । ईषत्कर इति । एतदुपपदग्रहणस्य साक्षादुदाहरणम्। सुदुरोस्तु गतित्वादपि सिद्धम्, स्तम्बेरमादौ च कारकत्वात् । उच्चैः कृत्य उच्चैः कारमित्यादिकमप्युपदगरह्णस्यैवोदाहरणम्।
देवदत्तस्येति शेषलक्षणा षष्ठीति । न कर्मलक्षणा, तथा हि सति कारकमेव देवदेत्तः स्यात्, तृजकाभ्यां कर्तेरि च इति समासप्रतिषेधप्रसङ्श्च ।
अथ कृद्ग्रहणं किमर्थंम् निर्गतः कौशाम्ब्याः निष्कौशाम्बिरित्यत्र मा भूत् । नैतदस्ति प्रयोजनम्,
यत्क्रियायुक्ताः पारदयस्तं प्रति गत्युपसर्गसंज्ञा भवन्ति, न च कैशाम्बीशब्दं प्रति क्रियायोगः, कारकमपि क्रियाया एव सम्भवति, उपपदमपि धात्वधिकारे सप्तमीनिर्दिष्टं प्रत्ययनिमित्तमुच्चते तदेवं गत्यादिभिस्त्रिभिरपि क्रियावाच्युत्तरपदमाक्षिप्यते, धातुश्च क्रियावाची, धातोश्च द्वये प्रत्ययाः - कृतः तिङश्च, तत्र तिङ्न्ते समासाभावात्कृदन्तमेव सम्भवतीति अनुव्यचलदित्यत्र तु न गतित्वनिबन्धनः समासः किं तर्हि सुबिति योगविभागनिबन्धनः धातुप्रत्ययसमुदायपरिग्रहार्थं तु, अन्यथा यत्क्रियायुक्तास्तं प्रतीति वचनाद्धातुमेव प्रति गतित्वाद्धातावेवोत्तरपदे स्वरः स्यात् - प्रणीः, उन्नीरिति इह न स्यात् - प्रणयकः ,उन्नायक इति ।
एतदपि नास्ति प्रयोजनम् यत्क्रियायुक्ताः इति नैवं विज्ञायते - यस्य क्रिया यत्क्रिया यत्क्रियायुक्तास्तं प्रतीति, एवं विज्ञायमाने त्वन्वयव्यतिरेकाभ्यां धातोरेव क्रिया वाच्येति तमेव प्रति गत्युपसर्गसंज्ञाप्रसङ्गः, कथं तर्हि विज्ञायते । या क्रिया यत्क्रिया तं क्रियालक्षणमर्थं प्रतिगत्युपसर्गसंज्ञे भवतः, केवलायाश्च क्रियाया वाचकमुत्तरपदं नास्तीति क्रियाविशिष्टसाधनवाचिनि प्रणीः, प्रकारक इत्यादौ क्रियायां सिद्धताभिधायिनि, प्रभवनमित्यादौ च सर्वत्र भविष्यतीति नार्थ एतेन कृद्‌ग्रहणेन अत आह - कृद्ग्रहणं विस्पष्टार्थमिति । य एवं प्रतिपत्तुमसमर्थस्तं प्रति विस्पष्टार्थं क्रियत इत्यर्थः ।
यदि तर्हि विस्पष्टार्थमपि तावत्कृद्ग्रहणं क्रियते, आमन्ते तर्हि न प्राप्नोति - प्रपचतितराम्, प्रपचतितमामिति, ततश्च समासस्वरं बाधित्वाऽव्ययस्वर एव स्यात् इत्यत आह - प्रपचतितरामित्यादि । अत्र हि प्रशब्दस्य तरबन्तेन समासः, नामन्तेन । कथम् अन्तरङ्गत्वाद्धातुः पूर्वमुपसर्गेण युज्यते, प्रपचित्यस्यामवस्थायां सुबभावात् समासो न कृत इत्येतावत्, ततस्तिङ्, तस्यामप्यवस्थायां सुबभावः, ततस्तरप्, तद्धितान्तत्वात्सुप् , तेन समासः, ततश्चाम्प्रत्ययः, तत आम्श्वरः सतिशिष्टः । कथं पुनस्तरवन्तेन समासः कथं च न स्यात् गतिकारकोपपदानां कृद्भिः सह समासवचनम् इति वचनात् नात्र कृद्भरेव समास इति नियम्यते, कि तर्हि यदि गत्यादीनां समासो भवति तेनतेन लक्षणेन, तदा कृद्भिः प्रक् सुबुत्पत्त्ेरिति ननु चेवमपि तरबन्तेन समासो न लभ्यते, कि कारणम् असुबन्तत्वात् प्रतिपदिकाधिकाराद्धि तत एव किमेत्तिङव्ययधात् इत्याम् भवति, न सुबन्तात् , न च गतिकारकोपपदानामित्येतदस्ति, अकृदन्तत्वात् अत्राहुः - घकालतनेषु इति ज्ञापकात्सुबन्तादेव सर्वे तद्धिताः, ङ्याप्प्रातिपदिकग्रहणं तु वृद्धाद्यर्थमेवाधिक्रियते, ततश्चामुत्पत्तये यः सुप् तदन्तेन समास इति । अपर आह - कुगतिप्रादयः इत्यत्रातिङिति वक्ष्यमाणस्य प्रतिकर्षादुत्तरपदमसुबन्तमेव समस्तयते, ततश्च तरबन्तेन समासो लभ्यत इति ।
इत्येक इति । अस्य कृद्ग्रहणं विस्पष्टार्थम्, न चामन्ते दोषप्रसङ्ग इत्येवं केचिद्व्याचक्षते ।
प्रपचिदेश्याद्यर्थं त्वित्यादि । तुशब्दः पक्षं व्यावर्तयति । आदिशब्देन प्रपचतिकल्पम् , प्रपचतिदेशीयम्, प्रपचतिरुपमित्येतेषां ग्रहणम्। प्रपचतिदेश्यादावर्थः प्रयोजनं यस्य तत्तथोक्तम् । एतदुक्तं भवति - न विस्पष्टार्थं कृद्गरह्थणम्, अपि तु प्रपचिति देश्यादौ यत्र सतिशिष्टस्वरान्तरं नास्ति, तत्रायं स्वरो मा भूद्, अव्ययपूर्वपदप्रकृतिस्वर एव यथा स्यादित्येवं सप्रयोजनं दृश्यते इति । इदं तु वक्तव्यम् - प्रपचतितरामित्यादौ तरबन्तेन समासे पश्चादाम् भवन् प्रत्ययग्रहणपरिभाषया पचितितरशब्दस्यैव घान्तत्वात् तत एव स्यात् । तत्र को दोषः सोपसर्गस्य सङ्घातस्यैकपद्याभावाद् आम्प्रपचतितरां देवदेत्तेत्यादौ आम एकान्तरमामन्त्रितमनन्तिके इत्येष विधिर्न स्यात्, शेषनिघातश्च प्रशब्दस्य न स्यात् भिन्नपदत्वात् । तस्मात् प्रशब्दस्यामन्तेन समासोऽङ्गी
कर्तव्यः, न तरबन्तेन । तत्र समासत्वात् समुदायस्य प्रातिपदिकत्वे विभक्तावैकपद्यं भवति । स्वरे तु देषप्रसङ्गात् कृद्‌ग्रहणमपि त्यक्तव्यमिति भाष्ये स्थितम्, प्रपचतिदेशीयादौ का गतिरिति न विद्मः ।।
उमे वनस्पत्यादिषु युगपत् ।। 6 - 2 - 140 ।।
वनशब्दः नब्विषयस्वानिसन्तस्य इत्याद्युदात्तः पातेर्डतिः पतिः ।
तनुशब्दोऽन्तोदात्त इति । केचितु तस्याप्याद्युदात्तत्वमत्र निपातयन्ति, तथा च तनूनपादुच्यते गर्भ आसुरः इत्याद्युदात्तमधीयते ।
नरा अस्मिन्नित्यादि । शंसेः अकर्तरि च कारके संज्ञायाम् इत्यधिकरणे वा घञ् । अबन्त इति । कृत्यल्युटो बहुलम् इति कर्तरि ॠदोरप् ।
शुनः शेप इति । बहुव्रीहिः । शुनः पुच्छशेपलाङ्गूलेषु इत्येनेन षष्ठ्या अलुक् । उभावाद्युदात्ताविति । श्वन्शब्दः प्रातिपदिकस्वरेण शेपशब्दः स्वाङ्गशिटामदन्तानाम् तइत्यनेन । शिट् इति सर्वादीनां संज्ञा, स्वाङ्गवाचिनां शिटामदन्तानां चांदिरुदात्तो भवतीत्यर्थः । शडि रुजायाम् पचाद्यच् शण्डः, प्रामादित्वादाद्युदात्तः ।
मर्चयतेः इम्भीकापाश्ल्यतिमर्चिभ्यः कन् इति कन्, तितुत्र तइत्यादिना इट् प्रतिषेधः, कुत्वम् - मर्कशब्द तआद्युदात्तः ।
तुष्णाब्द इति । तृषेर्निष्ठायामस्मादेव निपातनादिडभावः , निष्ठा च द्व्यजनात् इत्याद्युदात्तत्वम् ।
लबि अवस्रन्सने पचाद्यच्, अस्मादेव निपात्नाल्लकारस्य बकारः, बिश्वानि वयांस्यस्य विश्ववयाः, मृडः अन्येभ्योऽपि दृश्यते इति विच् - मरिति । भुजिमृङ्भ्यां युक्त्युकौ - मृत्युः ।।
देवताद्वन्द्वे च ।। 6 - 2 - 141 ।।
उदाहरणेषु देवताद्वन्द्वे च इति पूर्वपदस्यानङ् । अत्र त्रय उदात्ता इति । त्रयाणां पपदानामादयः ।।
नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु ।। 6 - 2 - 142 ।।
अग्निशब्दः अङ्गेर्निर्नलोपश्च इति निप्रत्ययान्तः । कृवापाचिमिस्वदिसाध्यशूभ्य उण् , युक्, वायुः ।
उत्तरपदग्रहकणमित्यादि । अन्यथाऽस्मिन्प्रकरणे द्वन्द्वेः सप्तम्या निर्दिष्टः, नोत्तरपदम् तत्र अनुदात्तादौ इति सप्तम्यन्तं द्वन्द्वस्यैव विशेषणं स्यात्, ततश्चन्द्रसूर्यावित्यादौ प्रितषेधः स्यचात् । उत्तरपदग्रहणे तु सति तस्यैव श्रुतस्य अनुदात्तादौ ित्येतद्विशेषणं भवति ।
अनुदात्तादावित्यादि । तअन्यथा विधिप्रतिषेधयोः समानविषयत्वाद्विकल्पः प्रसज्येत । प्रथेः षिवन् सम्प्रसारणं च । शुक्रशब्दोऽयम् ऋज्रेन्द्राग्र इत्यादिना निपातितोऽन्तोदात्तः ।।
अन्तः ।। 6 - 2 - 143 ।।
तत्र समासस्योत्तरपदस्वेति । क्वचित् समासस्यान्त उदात्तो भवति, क्वचिदुत्तरपदस्येत्यर्थः । विषयविभागमुत्तरत्र दर्शयिष्यति ।।
थाथाधञ्क्ताजबित्रकाणाम् ।। 6 - 2 - 144 ।।
आद्युदात्तमुत्तरपदं स्यादिति । यदिदं नोच्येतेति भावः । दूरादागत तइति । तअत्र कर्मणि क्तः , ग्रामादिरभिघेयः, कृता आङो गतिसमासे गतिरनन्तरः इति प्रकृतिभावे चागत इत्याद्युदात्तम्, तेन स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन इति समासः पञ्चम्याः स्तोकादिभ्यः इत्यलुक्, तत्र कारकात्परमागतमित्येतत् कृदुत्तरपदप्रकृतिस्वरेणाद्युद्त्तं स्यात् । विशुष्क इति । शुषेरकर्मकत्वात् कर्तारि क्तः, शुष्कधृष्टौ इत्याद्युदात्तत्वम्, ततो गतिसमासः । आतपशुष्क इति । नायम् सिद्धसुष्क इति सप्तमीसमासः, सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात् तइति पूर्वपदप्रकृतिस्वरप्रसङ्गात् । तस्मात् कर्तृकरणे कृता बहुरम् इति समासः ।
प्रक्षयः, प्रजय इति । एरच् । ननु च कृदुत्तरपदप्रकृतिस्वरेणैवात्रान्तोदात्तोत्वं सिद्धम् अत आह - क्षयो निवास इत्यादि ।
प्रलवः प्रसव इत्यादि । ॠदोरप् ।
प्रलवित्रमिति । अर्त्तिलूधूसूखनसहचर इत्र) ।
गोवृष इति । वृषु मृषु सेवने । सुस्तुतमिति । सुः पूजायाम्, अतिरतिक्रमणे च इति कर्मप्रवचनीयसंज्ञा, स्वती पूजायाम् इति प्रादिसमासः ।।
सूपमानात् क्तः ।। 6 - 2 - 145 ।।
वृकावलुप्तमित्यादि । लूञ् छेदने , च्युङ् प्रुङ् प्लुङ् गतौ, नर्द गर्द शब्दे - सर्वत्र कर्तृकरकणे कृता बहुलम् इति समासः । कवृकैसरिवालुप्तमित्यादिविग्रहः । उपमानादपीत्यादि । अत्रेतिशब्दस्यानन्तरं प्रप्त इत्यस्यानुषङ्गः ।।
संज्ञायामनाचितादीनाम् ।। 6 - 2 - 146 ।।
सम्भूतादयः शब्दा रामायणादीनां संज्ञाः, रामायणशब्दो नपुंसकलिङ्गः, प्रायेण तु पुंल्लिङ्गः पठ्यते। उपहूत िति । ह्वञो निष्ठायां यजादित्वात् सग्प्रसारणम्। परिजग्ध इति । अदो जग्धिरादेशः । प्राप्त्यर्थाद्भवतेरिति । चुरादौ आधृषाद्वा इत्यधिकारे भू प्राप्तवात्मनेपदी इति पठ्यते ।
किं पुनः कारणं प्रयत्नेन कर्मणि क्त तउपपाद्यते अत आह - गातिरनन्तर इत्यत्र हीति । तद्वाधनार्थञ्चेदमिति । प्रकृतोदाहरणाभिप्रयमेतद् , न सूत्राभिप्रायम् । घनुष्खातेति । नित्यं समासेऽनुत्तरपदस्थस्य इति षत्वम् ।
चिञ् चयने ष्ठा गतिनिवृत्तौ, ण्यन्तः केवलश्च, ग्रह उपादाने , वच परिभाषणे, पद गतौ शिलष आलिङ्गने , डुधाञ् धारणपोषाणयोः - सर्वत्र कर्णमि क्तः, एते आचितादयः ।
संहिताऽगवीति गाणसूत्रम्, तद् व्याचष्टे - याद गोरन्यस्वेति ।।
प्रवृद्धादीनां च ।। 6 - 2 - 147 ।।
वृधु वृद्धौ यु मिश्रणे डुधाञ् धारणे रुह बीजजन्मनि शसु हिंसायाम् । खट्वारुढ इति । खट्वा क्षेपे इति समासः । नैतदिह पठितव्यमिति अहीने द्वितीया तइत्यत्रावोचाम । कविभिः शस्तः, तृतीय कर्मणि तइत्यस्यापवादः ।
प्रायोवृत्तिप्रदर्शनार्थ इति । प्रायो बाहुल्येन या वृत्तिर्यानादिष्वर्थेषु तस्याः प्रदर्शनार्थ इत्यर्थः ।
पुनरुत्स्यूतमिति । सीव्यतेः च्छ्वोः शूडनुनासिके इति ऊठ्, पनश्चनसोश्छन्दसि िति गतिसंज्ञायां समासः ।।
कारकादत्तश्रुतयोरेवाशिषि ।। 6 - 2 - 148 ।।
संज्ञायामनाचितादीनाम् इति वहितमन्तो दात्तत्वमनेन नियम्यते, देवा एनं देयासुः इत्येवं प्रार्थितैर्देवैर्दत्तो देवदत्तः, आशिषि लिङ्‌लोटौ इति वर्तमाने क्तिच् क्तौ च संज्ञायाम् इति क्तः , दो दद्धोः ।
सम्सूतो रामायण इति । कारकात् इत्युनच्यमाने गतिकारकोपपदात् इति त्रितयाधिकाराद्यथैव कारकान्नियमो भवति, तथा गतेरपि स्यात् ।
एवकारकरणं किमिति । सिद्धे विधिरारभ्यमाणोऽन्तरेणाप्येवकारं नियमार्थो भविष्यतीति प्रश्नः । कारकावधारणमित्यादि । असति ह्येवकारं विपरीतो।पि नियमः स्यात् - कारकादेव दत्तश्रुतयोरिति । एवं चाकारकाद् दत्तश्रुतयोर्न स्यात्, इष्यते, च , तथा कारकस्यानियतत्वाद् देवपालित इत्यादावन्तोदात्तप्रसङ्गः । अतः कारकावधारणं यथा स्याद्दत्तश्रुतावधारणं मा भूदित्येवमर्थं करणमित्यर्थः । अयमपि नियम इष्यत इति । एतच्च तन्त्रेण सूत्रद्वयोच्चारणादेकसूत्रेऽपि आशिष्येवेति भिन्नकमत्वादेवकारस्य लभ्यते ।।
इत्यम्भूतेन कृतमिति च ।। 6 - 2 - 149 ।।
सप्तप्रलपितमित्यादि । कथं पनरेतान्युदाहरणानि, यावता कृतामित्युच्यते, न च प्रलपितादीनि कृतानि, अभूतप्रादुर्भाव एव हि करोतिर्वर्तते, ततश्च सुप्रकृतं सुप्रभाषितं सुप्रोत्पादितमित्यादिकमेवोदाहर्तव्यम् अत आह - कृतमिति क्रियासामान्ये करोतिर्वर्तत इति । ततश्च यथा क्रियावचनो धातुः क्रियायां क्रियार्थायाम् इत्यादौ विशेषाणामपि ग्रहणं भवति, तद्वदत्रापि । अभूतप्रादुर्भावः - निष्पादनम् ।।
अनो भावकर्मवचनः ।। 6 - 2 - 150 ।।
पयः पानादीनाममुपपदसमासः । राजभोजनादौ षष्ठ्या समासः ।
सर्वषु प्रत्युदाहरणेष्वित्यादि । एतेन गातिकारकोपपदात् इत्यस्यायमपवाद इति दर्शयति ।।
मन्क्तिन्व्याख्यानशयनासनस्था?Rनयाजकादिक्रीताः ।। 6 - 2 - 151 ।।
रथवर्त्मेति । वृत्तेरधिकरणे मनिन्, कर्तरि षष्ठ्या समासः । पाणिनिकृतिरिति । कर्मणि क्तिन्, पूर्ववत्समासः । व्याख्यानशब्दः करणसाधनः, शयनासनस्थानशब्दा अधिकरणसाधनाः। प्रकृतिः, प्रहृतिरिति । तादौ च निति कृत्यतौ इति पूर्वपदप्रकृतिस्वर एवात्र भवति ।।
सप्तम्याः पुण्यम् ।। 6 - 2 - 152 ।।
उणादीनां त्विति । अतः कृकमिकंस इत्यत्र कमिग्रहणैनैव सिद्धे कंसग्रहणादुणादिषु
पाक्षिकव्युत्पत्तिकार्यमिति भावः । पूञो यत्, णुक् ह्रस्वश्च, पुण्यम् । ह्रस्वविधानादगुणत्वम् । यतोऽनावः इत्याद्युदात्तवम् ।।
ऊनार्थकलहं तृतीयायाः ।। 6 - 2 - 153 ।।
उदाहरणेषु पूर्वसदृश इति तृतीयासमासः ।
अत्र केचिदित्यादि । नन्वेवमूनशब्दस्यापि स्वरुपग्रहणं प्रसज्येत, ततश्च तदर्थानामान्येषां ग्रहणं न स्यात् अत आह - ऊनशब्देनैव त्विति । अर्थनिर्देशार्थत्वं तु व्याख्यानादवसेयम् ।।
मिश्रं चानुपसर्गमसन्धौ ।। 6 - 2 - 154 ।।
कथं पुनर्मिश्रशब्दस्य विधीयमानः सम्मिश्रशब्दस्य प्राप्वोति, कथं वा मिश्रशब्देन समान उच्यमानः सोपसर्गेण लभ्यते अत आह - इहेत्यादि ।
प्रत्युदाहरणे सन्धिं दर्शयति - बाह्मकणैरिति । एतदेव स्पष्ययति - एकार्थ्यमापच इति ।
कथं पुनः सन्धिशब्दस्यायमर्थः इत्याह - सन्धिरिति । पणबन्धः - परिभाषणम् - यदि मे भवानेषं कुर्यादहमपि ते इदं करिष्यामीत्येवंरुपः ।
केचित्पुनरिति । गृह्यमाणो विशेषो व्यावृत्तिर्थस्यां प्रत्यासत्तो सा तथोक्ता । ततः किम् इत्याह - तत्रेति । यद्यपि राज्ञोऽपि ब्राह्मणैस्सह प्रत्यासत्तिरस्ति, तथापि सत्यामपि तस्यां परस्परमूर्तिविभागस्वरुपभेदो गृह्यत इति प्रत्युदाहरणोपपत्तिरित्यर्थः ।
उदाहरणेषु नैवमित्याह - उदाहरणेष्विति ।।
नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः ।। 6 - 2 - 155 ।।
सम्पादि - शोभनम् । कार्णवेष्टकिकमिति । सम्पादिनि इति प्राग्वतेष्ठ्य् । छैदिक इति । छैदादिभ्यो नित्यम् इति आर्हादगोपुच्छ इत्यादिना ठक् । वत्सीय इति । प्राक् क्रीताच्छः । सान्तापिक इति । तस्मै प्रभवति सन्तापादिभ्यः इति पाग्वतेष्ठ्ञ् ।
नञ तिति किमिति । प्रतिषेधे प्रायेण नञ एव प्रवृत्तिदर्शनात्प्रश्नः । विगार्दभरथिक तइति । अव्ययपूर्वपदप्रकृतिस्वर एवात्र भवति । गर्दभरथिकादन्य इत्यादि । उदाहरणादस्य विशेषंम प्रदशेयितुम् गुणप्रतिषेधे इति सूत्रावयवं व्याचष्टे - गुण इति । तद्धितार्थः सम्पाद्यादिः, तस्य यत्प्रवृत्तिनिमित्तं सम्पादित्वादि । आदिशब्देन तदर्हत्वादेर्ग्रहणम्, स गुण इत्युच्यते । उक्तं हि - संसर्गभेदकं यद्यत् सव्यापारं प्रतीयते । गुणत्वं परतन्त्रत्वात्तस्य शास्त्र उदाहृतम् ।। इति ।
कथं तस्य गुणस्य प्रतिषेध उच्यते इत्याह - कर्णवेष्टकाभ्यां न सम्पादीति । ववेढेति । अर्हर्थे तृच्, ढत्वधात्वष्टुत्वधलोपषु सहिवहोरोदवर्णस्य इत्योत्वम् ।।
ययतोश्चातदर्थे ।। 6 - 2 - 156 ।।
पाशतृणशब्दाभ्यां समूहे पाशादिभ्यो यः दन्तकर्णशब्दाभ्यां भवार्थे दिगादिभ्यो यत्, शरीरावयवाच्च इति यत् ।
पाद्यमिति । पादार्घाभ्यां च इति यत् । अदेयमिति । अर्हार्थे अचो यत् ईद्याति इतीत्वम्, गुणः । निरनुबन्धकैकानुबन्धयीरिति । एते च परिभाषे - वामदेवाद् ड्यड्‌ड्यौ इत्यत्र ज्ञापिते ।।
अच्कावशक्तौ ।। 6 - 2 - 157 ।।
अविक्षिप इति । वक्ष्यमाणैः कृत्योकेष्णुज्भिः साहचर्यादच्कयौः कृतोरिदं ग्रहणम्, तेन कृद्‌ग्रहणपरिभाषया विक्षिपशब्दस्य कान्तत्वम् ।
दीक्षितपरिव्राजकौ शास्त्रनिषेधान्न पचतः, न त्वशक्तत्वात्, तेन तत्र व्रतं गम्यते, न त्वशक्तिः ।।
आक्रोशे च ।। 6 - 2 - 158 ।।
अपचोऽयं जाल्म ईति । लोभोऽत्र विवक्षितः, न त्वशाक्तिः ।।
संज्ञायाम् ।। 6 - 2 - 159 ।।
अदेवदत्त इति । यो देवदत्तः सन् तत्कार्यं न करोति, स एवमाक्रुश्यते ।।
कृत्योकेष्णुच्चार्वादयश्व ।। 6 - 2 - 160 ।।
द्व्यनुबन्धकस्यापि ग्रहणमिति । भवतीति वक्ष्यमाणेन सम्बन्धः । अत्रैव हेतुः - इकारादेविंधानसामर्थ्यांदिति । भवतेरुदात्तत्वात्ततः परस्य खिष्णुच इटैवेकारादित्वे सिद्धे इकारादेर्विधानमिह सामान्यग्रहणार्थमे वेति भावः । अचारुरित्यादि ।
चरेर्ञुण् चारुः । साधेरुण् साधुः । युधा चरति यौधिकः । एजेः खश् अङ्गमेजयः, ततोऽन्योऽनङ्गमेजयः । वदेरान्यः । न कस्मादकस्मात् । वृतु वर्तते, वृधु वृद्धौ, ञित्वरा सम्भ्रमे, रुच दीप्तौ धृङ् अवस्थाने - एते शानजान्ताः गृह्यते । संज्ञायां कन् - गृहपतिकः । गृहपतिरित्यन्ये पठन्ति ।।
बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने ।। 6 - 2 - 162 ।।
प्रथमेति स्वरुपग्रहणम् । पूरणशब्दस्य स्वरितत्ात्तदधिकारविहितानां प्रत्ययानां ग्रहणम् ।
अनेन प्रथम इति । अत्र तृतीयापूर्वपदप्रकृतिस्वर एव भवति ।
यत्प्रथमा इति । यः प्रथम एषामिति बहुव्रीहिः । अत्रापि पूर्वपगदप्रकृतिस्वर एव भवति ।
इदम्प्रधाना इत्यर्थं इति ।
अनेन प्रधानवचनः प्रथमशब्दो न त्वेकसंख्यावचन इति दर्शयन् गणनाभावमाह - उत्तरपदस्वेत्यादि । सर्वत्रेह समासस्येति प्रकृतम्, उत्तरपदादिः इत्यतः प्रभति उत्तरपदस्य इति च, तत्र चोत्तरपदं कायित्वेनाश्रीयते । तेन यदा कबुत्पद्यते तदा कपि परतो यत्पूर्वं प्रथमेति तदन्तोदात्तं भवति, न तु कबन्तम् । कप्प्रत्ययो हि समासस्यैवान्तः, नोत्तरपदस्य । यदा च समासार्थादुत्तरपदादकृत एव समासे समासान्त इति पक्षः, तदापि प्रथमपूरणयोः इति विशेष्टरुपग्रहणात्, कपश्च तत्रान्तर्भावादुपात्तयोरेव स्वरः । ननु यदत्रोत्तपरपदं कबन्तं न तदुपात्तम्, यच्चोपात्तं न तदुत्तरपदम्, कपा सहोत्तरपदत्वादिति नात्र कपः स्वरप्रसङ्गः, नापि ततः पूर्वपदस्य सेवरेण भवितव्यम् । तस्मादिस्मिन् पक्षे उत्तरपदग्रहणमुपान्तस्योपलक्षणम्। प्रायोण हि तदुत्तरपदम्, उत्तरपदस्य कार्थित्वात् । कोऽर्थः प्रायोणोत्तरपदभूतयोः प्रथमपूरणयोः कार्तित्वादित्यर्थः ।।
विभाषा छन्दसि ।। 6 - 2 - 164 ।।
द्विस्तना - इत्यन्तोदात्तम् । चतुस्तना - इत्याद्युदात्तम् ।।
संज्ञायां मित्त्राजिनयोः ।। 6 - 2 - 165 ।।
विश्वामित्त्र इति । मित्त्रे चर्षौ इति दीर्घः, परत्वादनेनान्तोदात्तत्वं प्राप्तं प्रतिषिध्यते, ततः बहुव्रीहौ विश्वं संज्ञायाम् इति पूर्वपदान्तोदात्तं भवति ।।
व्यवायिनोऽन्तरम् ।। 6 - 2 - 166 ।।
उदाहरणे व्यवधानवाचिनोऽन्तराशब्दात् तत्करोति इति णिचि पचाद्यच् । प्रत्युदाहरणे त्वन्यवाच्यन्तरशब्दः ।।
मुखं स्वाङ्गमः ।। 6 - 2 - 167 ।।
दीर्घमुखा शालेति । मुखशब्देनात्र द्वारप्रदेशः शालाया उच्यते । ननु च स्वमङ्गं, ततश्च भवितव्यमेवात्रापि अत आह स्वाङ्गमद्रवादिलक्षणं गृह्यत इति ।।
नाव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ।। 6 - 2 - 167 ।।
उच्चैर्नीचैः शब्दै स्वरादिष्वन्तोदात्तौ । प्राक्शब्दः अनिगन्तोऽञ्चतौ इत्याद्युदात्तः । प्रत्यङित्यत्र कृदुत्तरपदप्रकृतिस्वरः । गोमहतोरुक्तः स्वरः । स्थूलशब्दः ऋज्रेन्द्र इत्यादौ निपातितः, अन्तोदात्तः । मुषेः क्तिच् - मुष्टिः । कुश्च, प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च इति पृथुः । वदेः सः वत्सः । गोमुष्टिवत्सपूर्वस्यत्यादि । अस्य प्रतिषेधस्यावकाशो यत्र गवाध्युपमानं न भवति - गौर्मुखमित यस्य, मुष्टिर्मुखमिव यस्य, वत्सो मुखमिव यस्येति, सर्वत्र गवाद्युपमेयम्, नोपमानम् विकल्पस्योत्तरस्यावकाशो यत्र गवादिपूर्वपदं न भवति - सिंहमुखः व्याघ्रमुखः, गावादावुपमाने उभयप्रसंगेऽयमेव भवति प्रतिषेधः पूर्वविप्रतिषेधेन ।।
निष्ठोपमानादन्यतरस्याम् ।। 6 - 2 - 169 ।।
हिंसेः पचाद्यच्, प़ृषोदरादित्वादाद्यन्तविपर्ययः - सिंहः । व्याजिघ्रतीति व्याघ्रः । आतश्चोपसर्गे इति कः । पाध्राध्माधेट्दृशः इति शो न भवति, जिघ्रतेः संज्ञायां प्रतिषेधः इति वचनात् ।।
जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतिमितप्रतिमन्नाः ।। 6 - 2- 170 ।।
ननूदाहरणेषु प्रत्युदारहणेषु च नि,्ठेति निष्ठान्तं पूर्वं प्रयोक्तव्यं स्यात् इत्यत आह - एतष्विति । प्रत्युदारहणे,्ित्यादि । तत्र पुत्रशब्दोऽन्तोदात्तः । वसेष्ट्रन् - वस्त्रम् , दस्यैव ल्युट् - वसनम् । कुण्डशब्दः नब्विषयस्यानिसन्तस्य इत्याद्यदात्तः ।।
वा जाते ।। 6 - 2 - 171 ।।
दन्तस्तनशब्दौ स्वाङ्गशिटामदन्तानाम् इत्याद्युदात्तौ । मासशब्दः प्रामादीनां च इत्याद्युदात्तः । संवत्सरशब्दः बंहिष्ठवत्सरतिशत्थान्तानाम् इत्यन्तोदात्तः । अस्यार्थः - बंहिष्टवत्सरतिशत्थ ित्येवमन्तानामन्त उदात्तो भवति - बंहिष्ठः, संवत्सरः, सप्ततिः, अशीतिः, त्रिंशत्, चत्वारिंशत्, गूथम्, पूथम् ।
सुखदुःखशब्दौ खान्तस्याशमादेः इत्यान्तोदात्तौ । अस्यार्थः - खान्तस्य शब्दस्याशकारमकारादेरन्त उदात्तो भवति, नखः, तउखा । अशमादेरिति किम् शिखा, मुखम् । तृपेः स्फायितञ्चि इत्यादिना रक्प्रत्ययः । कृतेश्छ्र च - कृच्छ्रम् । असेर्बहुलवचनाद्रक्, अस्रम् । अम्बिकादयश्च इति अम्बकशब्द इकन्प्रत्ययान्तो निपातितः । प्रतिगता आपोऽत्र प्रतीपम् । कृवापाजिभ्य उण् - कारुः । कृपेः क्युन् - कृपणः । सहेः क्ते सोढः । दश सुखादयः ।।
नञ्सुभ्याम् ।। 6 - 2 - 172 ।।
समासस्यैतदित्यादि । यद्यपि समास उत्तरपदं चेति प्रकृतम्, तथाप्यत्र समासस्येव कार्यिर्त्वामष्यते । एतच्च कपि पूर्वम् इति वचनादवसीयते । यदि ह्यनेनोत्तरपदस्यान्तोदात्तत्वं स्यात्, ततोऽकृमारीक इत्यादावनेनैव समद्धत्वात् अपि पूर्वम् इति न वाच्यं स्यात् । समासान्ताश्च समासवयवा भवन्तीति । समासान्ता इत्यत्रान्तग्रहणमेतदर्थम् - समासान्ताः समासग्रहणेन यथा गृह्येरन्निति, तेनानृच इत्यादौ कृते समासान्ते तस्यैव समासान्तस्योदात्तत्वं भवति । वहवृच इति । बहोर्नञ्वद् इत्यतिदेशादिदमत्रोदाहृतम् । एतच्च समासान्ताः समासस्यैवावयवाः, नोत्तरपदस्य इत्याश्रित्योक्तम् । न कपि इत्यत्र तु पूर्वं समासान्तेषु पश्चात्तदन्तेन समासः इति वक्ष्यति ।।
कपि पूर्वम् ।। 6 - 2 - 173 ।।
पूर्वेण कप एवादात्तत्वे प्राप्ते ततः पूर्वस्योदात्तचं धीयते ह्रस्वन्तेऽन्त्यात्पूर्वम् कइति वचनादिह दीर्घान्ता एवोदाहृताः । नद्यृतश्च इति कप् ।।
ह्रस्वान्तेऽन्त्यात्पूर्वम् ।। 6 - 2 - 174 ।।
ह्रस्वान्ते इत्यस्य बहुव्रीहेरन्यपदार्थ उत्तरपदं समासो वेत्याह - ह्रस्वोऽन्तो यस्यत्यादि ।
अत्र च कपि परतः इति पृथग्वचनात्तद्रहितमुत्तरपदं समासश्च गृह्यते, पूर्वग्रहणमनर्थकम्, कपि पूर्वमित्यनुवृत्तेः इत्यत आह - पूर्वमिति वर्तमाने इत्यादि । द्वितीये पूर्वग्रहणे सति प्रवृत्तिभेदो भवति, तत्रैकया प्रवृत्त्या ह्रस्वान्तऽन्त्यात्पूर्वस्योदात्तत्वं विधीयते, अपरया तु नियम्यते - ह्रस्वान्तेऽन्स्यादेव पूर्वमुदात्तं भवति, न तु कपि पूर्वमिति। तेन किं सिद्धं भवति तत्राह - तेनेति । नास्त्यस्य ज्ञ इत्यज्ञकः, शोभनो ज्ञोऽस्येति सुज्ञकः । तत्र यद्येष नियमो न स्यात्, ततोऽन्त्यात्पूर्व उदात्तभावी नास्तीति कपि पूर्वम् इत्ययमेव स्वरः स्यात् । अस्मिस्तु नियमे सति न भवति, नञ्सुभ्याम् इति कबन्तस्यैव भवति । यथा च कबन्तस्य भवति तथा तत्रैव प्रितपादितम् । व्यक्तिपक्षाश्रयणे चैतत्पूर्वग्रहणं कृतम् । जातिपक्षाश्रयणे तु यथा हलादिः शेषः इत्यत्र क्वचिदपि वर्तमानो हलादिरनादेः सर्वत्र निवृत्तिं करोति, (तथैव ) ह्रस्वान्तेऽन्त्यात्पूर्वम् इत्यत्रापि ह्रस्वजातेराश्रयणात्सर्वत्र ह्रस्वान्ते तक्रकौण्डिन्यन्यायेन कपि पूर्वम् इत्यस्याप्रवृत्तिः सिध्यति ।।
बहोर्नञ्वदुत्तरपदभूम्नि ।। 6 - 2 - 175 ।।
नञ इव नञ्वत्, अस्मादेव निपातानात्पञ्चमीसमर्थाद्वतिः । यद्वा - सम्बन्धसमामान्ये षष्ठी, तया सर्वे विभक्त्यर्था संगृह्यन्त इति पञ्चम्यर्थेऽपि तत्र तस्येव इति वतिः षष्ठ्यन्तादेव । बहूनां भावो भूमा, बहोर्लोपो भू
च बहोः, उत्तरपदशब्देन तदर्थो गृह्यते, स्वरुपणोत्तरपदस्य बहुत्वासम्भवात् । तदाह - उत्तरपदार्थबहुत्व इति । किमर्थं पुनरतिदेश आश्रीयते, न नञ्सुबहुभ्य उत्तरपदभूम्नि इत्युच्येत, एवमपि ह्युच्यमाने उत्तरपदभूम्नि इत्येतत्सम्भवव्यभिचाराभ्यां बहोरेव विशेषणं भवतिष्यति, योऽपि न गुणादयोऽवयवाः इति प्रतिषेधः, तत्राप्युत्तरपदभूम्नीत्यनुवृत्तेर्बहोरेव भवतिष्यति, न नञ्सुभ्याम् - अगुणः सगुणः इति इदं तर्हि प्रयोजनम् - प्रकरणान्तरेऽपि यो नञाश्रयः स्वरस्तस्याप्यतिदेशो यथा स्यादिति । तद्दर्शयति - नञी जरमरमित्त्रमृता इत्युक्तमित्यादि ।।
न गुणादयोऽवयवाः ।। 6 - 2 - 173 ।।
गुण संख्याने चुरादेरदन्तादेरच् । अशेः सरः . अक्षरः । छन्दो मीयते येन छन्दोमानम् । वचेः सुपूर्वात् क्तः - सूक्तम् । अधीयतेऽस्मादिति अध्यायः , इङश्च इति घञ् । एते गुणादयः ।।
उपसर्गात् स्वाङ्गं ध्रुवमषर्शु ।। 6 - 3 - 177 ।।
स्वाङ्गं प्रति क्रियायोगाभावाद् कउपसर्गग्रहणं प्रद्युपलक्षमम् । सततं यस्येत्यादिना षृष्ठस्य ध्रुवत्वं दर्शयति । तीर्थपृष्ठगूढयूथ इति पृष्ठशब्दो निपातितः ।
उद्वाहुः क्रोशतीति । अत्र क्रोशनसमय एवोद्वाहुत्वं न सर्वदेत्यध्रुवत्वम् । स्पृशेः श्वण्शुनौ पृ च स्वृशेर्धातोः श्वण्, न् - इत्येतौ प्रत्यौ भवतः, धातोश्च पृ इत्यादेशः । बहुलवचनाच्छकारस्योत्संज्ञा न भवति, यथाक्रमं वृद्धिगुणौ - पार्श्वम्, पर्शुः ।।
परेरमितोभावि मण्डलम् ।। बहुव्रीहिरयमित्यादि । यदा बहुव्रीहिस्तदा परितः कूलमस्येति विग्रहः । प्रादिसमासे तु परिगतं कूलमिति । यदा पुनरव्ययीभावस्तदा परिकूलादिति । अव्ययीभावपक्षेऽपि हीत्यादि । अव्ययीभावेऽप्ययमेव स्वर एषितव्यः न समासस्वरेण सिद्धिरित्यर्त्थः । अमितो भावोऽस्यास्तीत्यमितोभावीति । लौकिके योगे लाघवस्यासार्वत्रिकत्वाद्वहुव्रीहिरेव नाश्रित इत्याह - अमितोभावीति । सुप्यजातौ इति णिनिरिति । यच्चैवंस्वभावमिति । अभितोभवनस्वभावम् ।।
प्रादस्वाङ्गं संज्ञायाम् ।। 6 - 2 - 183 ।।
प्रकोष्ठादिषु प्रादिसमासः बहुव्रीहिर्वा ।।
निरुदकादीनि च ।। 6 - 2 - 184 ।।
एषामित्यादि । यदा प्रदिसमासस्तदा - निर्गतमुदकं निर्गतं वोदकादिति विग्रहः, बहुव्रीहौ -- निर्गतमुदकमस्मादिति । अथाव्ययीभावार्थमप्येषां ग्रहणं कस्मान्न भवति अथ आह -- अव्ययीभावे त्विति । निष्कालिक इति । कालशब्दज्जानपदादिसूत्रेण ङीष्, ततः स्वार्थे कन्, केऽणः इति ह्रस्वः, कालिका, ततः प्रादिसमासः ।
निष्पेष इति । पिषेर्घञ् । कुत्सितस्तरीय इति । दुः कुत्सायां वर्तत इति दर्शयति । अपरे निस्तरीक इति । पठन्तीत्यनुषङ्गः, निष्पूर्वोऽजिनशब्दः । स एवोदुपपूर्वः ।
परेरित्यादि । परेरुत्तरे हस्तादयोऽन्तोदात्ता भवन्ति । परिहस्त इत्यादि । (हरैरिव केशा यस्य हरिकेशः , कपेरिव कपिकेशः )।।
अभेर्मुखम् ।।6 - 2 - 185 ।।
उपसर्गात्स्वाङ्ग ध्रुवमिति सिद्ध इति । मुखं स्वाङ्गम् इति न सिद्ध्यति नाव्ययदिक्शब्द इति प्रतिषेधात् ।।
अपाञ्च ।। 6 - 2 - 186 ।।
अव्ययीभावोऽप्यत्र प्रयोजयतीति । कुतः इत्याह - तत्रापि हीति । यस्मात्तत्रापि परिप्रत्युपापा इति पूर्वपदप्रकृतिस्वरत्वमुक्तम्, तस्मात्सोऽपि प्रयोजयतीत्यर्थः ।
योगाविभाघ उत्तरार्थ इति । उत्तरत्र उपात् इत्यस्यैवानुवृत्तिर्यथा स्यात्, अभेर्मा भूत् ।।
स्फिगपूतवीणाञ्चीऽध्वकुक्षिसीरनाम नाम च ।। 6 - 2 - 187 ।।
 नामग्रहणं सीरशब्देनेव सम्बध्यते, न स्फिगादिभिःस्फिगपूतकुक्षीणां पृथग्ग्रहणात् ।
उपसर्गादध्वन इति यदा समासान्त इत्यादि । अत्र कारणमाह -- तस्मिन् हि सतीति । ननु च
चउपसर्गादध्वनः इत्यत्र तु न विकल्पः श्रुतः, नापि प्रकृतः, तत्किमुच्यते - यदा समासान्तो नास्तीति अत आह -- अनित्यस्चेति । यदि नित्यः समासान्तः स्यदध्वग्रहणमिह न कर्तव्यं स्याद्, अच्प्रत्ययस्य चित्त्वादेवान्तोदात्तत्वस्य सिद्धत्वात् कृतं तु, ज्ञापयति -- समासान्तविधिरनित्य इति ।
स्फिगपूतकुक्षीणामित्यादि । यदा ह्येतानि स्वाङ्गवाचीनि ध्रुवाणि च भवन्ति, बहुव्रीहिश्च समासः, तदा उपसर्घात्स्वाङ्गम् इत्येव सिद्धम् ।।
अधेरुपरिस्थम् ।। 6 - 2 - 188 ।।
उपरि तिष्ठतीत्युपरिस्थम्, सुपि स्थः इति कः ।
दन्तस्योपरीत्यादिनोपरिस्थत्वं दर्शयति ।
अधिकरणमिति । अत्र कृदुत्तरपदप्रकृतिस्वरेण ककाराकार उदात्तः ।।
अनोरप्रधानकनीयसी ।। 6 - 2 - 189 ।।
उदारहणे उत्तरपदार्थस्याप्राधान्यं दर्शयति । पूर्वपदार्थप्रधानः प्रादिसमासोऽयमिति । प्रधानार्थे च कनीयोग्रहणमिति । अन्यत्रा प्रधानग्रहणेनैव सिद्धत्वात् ।
अनुगतो ज्यष्ठ इति । विग्रहविशेषेण प्रधानवाचित्वं ज्येष्टशब्दस्य दर्शयति ।।
पुरुषश्चान्वादिष्ठः ।। 6 - 2 - 190 ।।
अन्वादिष्टः - अप्रधानशिष्टः, यथा भिक्षामठ गां चानयेति गोरानयनम् । कथितानुकथितो वेति । कस्मिंश्चित्प्राक्कथिते योऽन्यः पश्चात्कथ्यते स कथितानुकथितः । अनुगतः - पश्चाद्‌गतः ।।
अतेरकृत्पदे ।। 6 - 2 - 191 ।।
अकृच्च पदच्च अकृत्पदे ।। आतकारक इति । शोभनः कारकः, स्वती पूजायाम् इति प्रादिसमासः ।
अतेर्धातुलोप इति वक्तव्यमिति । अत्यङ्कुश चइत्यादौ वृत्तिवषयेऽतिशब्दो।तिक्रन्तार्थवृत्तिरिति क्रमेरप्रयोग एव धातुलोपः । अतिगार्ग्य इति । यथान्यासे त्वत्रापि प्राप्नोति गार्ग्यशब्दस्याकृदन्तत्वात् । अतिकारक इति । यथान्यासे त्वत्र न स्यात्, कारकशब्दस्य कृदन्तत्वात् । तस्मादव्याप्त्यतिव्याप्तिपरिहार्थमकृत्पदे इत्यपनीय अतेर्धातुलोपः इति वक्तव्यम् ।
नेरनिधाने ।। 6 - 2 - 192 ।।
निधानमप्रकाशतेति । न निधानमनिधानम् । निर्गतं मूलमस्य निर्गतं वा मूलन्निमूलम् ।
निधानार्थं ब्रवीतीति । अप्रकाशतां ब्रवीतीत्यर्थः । कथं पुनर्निशब्दस्यायमर्थः इत्याह - प्रादयो हीति ।।
प्रतेरंश्वादयस्तत्पुरुषे ।। 6 - 2 - 193 ।।
अंशुशब्दः कुश्च इति वर्तमाने मृगय्वादयश्च इति निपातितः । राजतेः कनिन् राजन् । उष दाहे, ष्ट्रन् --उष्ट्रः । खिट्, ण्वुल् -खेटकः । अजिरशिशिर इति किरच् - अजिरम् । द्रातेराङ्पूर्वाद् आतश्चोपसर्गे इत्यङ्, अस्मादेव निपातनादाङो रगागमझः - आर्द्रा । श्रृणोतेर्ल्युट् - श्रवणम् । कृतिभिदिलतिभ्यः कित्, तिकन् प्रकृतः - कृत्तिका । ऋघेः पचाद्यच् - अर्धः । पुर अग्रगमने इगुपधात्कः पुरम् । एते अंश्वादयः ।।
उकपाद् द्व्यजजिनमरगौरायः ।। 6 - 2 - 194 ।।
गुरी उद्यमने, पचाद्यजन्तात्प्रज्ञाद्यण्, गौरम्। तिष्येण युक्तः कालस्तैषः । लेट् लोट् इति । कण्ड्‌वादिपठिताब्यां पचाद्यच्, लेटलोटौ । दिहेर्जिह्वा उणादिः । कृषेर्वर्णे इति नक्, टाप् - कृष्णा । कन्याशब्दः अध्न्यादयश्च इति निपातितः । गुघ घनत्वे इगुपधात्कः गुधः । क्लृपिपदिभ्यां घञ् - कल्पः, पादः ।।
सोरवक्षेपणे ।। 6 - 2 - 195 ।।
उदारहणे तु स्वती पूजायाम् इति कर्मप्वचनीयस्य समासः । तेन सुप्रत्यवसिते थाथादिस्वरेण सिद्धिर्नाशङ्क्या । यदि सुशब्दोऽत्र पूजायामेव वर्तते, कथं तर्हि क्षेपो गम्यते इत्याह - वाक्यार्थस्त्विति । कथम् इत्याह - आसूयया तथाभिधानादिति । यः खल्वनर्थं उपस्थिते सुखायाम् आस्ते तं प्रकृत्यैवमुक्ते क्षेपो गम्यते ।।
विभाषोत्पुच्छे।। 6 - 2 - 196 ।।
सेयमुभयत्र विभाषेति । आद्यप्रवृत्तावव्ययपूर्वपदप्रकृतिस्वरेण बाधितत्वात् समासस्यान्तोदात्तत्वमप्राप्तम्, द्वितीयायां तु थाथादिस्वरेण नित्यं प्राप्तमिति कृत्वा ।।
द्वित्रिभ्यां पाद्दन्मूर्द्धसु बहुव्रीहौ ।। द्वित्रिभ्याम् इति दिग्योगलक्षणा पञ्चमी, पाद्दन्मूर्द्धसु इति सत्सप्तमी, बहुव्रीहिः कार्यीति, तदेतदाह - द्वित्रि इत्येताभ्यामिति । द्विपादिति । संख्या सुपूर्वस्य इत्यकारलोपः समासान्तः । दन्निति । वयसि दन्तस्य दतृ।
मूर्द्धन्नित्यादि । न ह्यकृत्समासान्तस्य सम्भवः अत आह - एतदेवेति ।
यदि तर्ह्यकृतसमासान्तस्योपादनम्, एवं सति यदि समासान्तः क्रियते, तदा न प्रापनोति तस्य शब्दान्तरत्वादित्यत आह - यदपीति । इह हि बहुव्रीहिः कार्यित्वेनोपात्तः, न मूर्द्धशब्दः । तदेकदेशत्वाच्चेति । तस्य बहुव्रीहेरेकदेशोऽवयवः समासान्तस्तद्भावस्तत्त्वम्, तस्मादित्यर्थः । तदेकदेशित्वादिति पाठे स व व्रीहिरेकदेशी अवयवी यस्य स तदेकदेशी, तस्य भावस्तत्त्वम्, तस्मादिति स एवार्थः । तदेवं बहुव्रीहेः कार्यित्वात्त्देकदेशत्वाच्च समासान्तस्य यदापि समासान्तः क्रियते, तदाप्ययं विधिर्भवत्येव ।
अपर आह - यदाप्युत्तरपदस्य कार्यित्वं तदापि परत्वादन्तोदात्तत्वे कृते पश्चात्समासान्तः, तत्र टिलोपे सति उदात्तनिवृत्तिस्वरेणैव षप्रत्ययस्य सिद्धमुदात्तत्वमिति । कल्याणमूर्द्धेति । पूर्वपदप्रकृतिस्वर एवात्र भवति । कल्याणशब्दः लघावन्ते इति मध्योदात्तः ।।
सक्थं चाक्रान्तात् ।। 6 - 2 - 198 ।।
बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् इति समासान्ते कृते यः सक्थशब्दः सोऽत्र गृह्यते । क्रशब्दोऽन्तो यस्य स क्रान्तः, ततोऽन्योऽक्रान्त इति । गौरसक्थ इति । गौरशब्दः प्रज्ञाद्यणन्तत्वादन्तोदात्तः । श्लिषेरञ्चोपपधायाः इति श्लक्ष्णशब्दोऽन्तोदात्तः ।
षचश्चित्त्वादिति । एतेन चित्स्वरस्यायमपवादः, प्राप्तविभाषेयमिति दर्शंयति ।।
परादिश्छन्दसि बहुलम् ।। 6 - 2 - 199 ।।
परादिरिति । परशब्देनात्र सक्थशब्द एव गृह्यत इति । तस्यैव पूर्वसूत्रे सन्निहितत्वात् । यद्येवम्, परग्रहणमनर्थकम्, प्कृतो हि सक्थशब्दोऽनुवर्तिष्यते नैतदस्तिः बहुव्रीहेरपि प्रकृतिस्यानुवृत्तिः स्यात्, तस्याद्युदात्तत्वं शङ्क्येत, विभाषाग्रहणे प्रकृते बहुलग्रहणस्य प्रयोजनमन्यदपि यथा स्यादिति । ऋजुवाहुरिति । बहुव्रीहिः । वाक्यतिश्चित्पतिरिति । षष्ठीसमासौ । अत्र भाषाविषये पत्यावैश्वर्ये इत्यस्य न भूवाक्चिद्दिधिषु इति प्रतिषेधे समासान्तोदात्तत्वं भवति ।
बहुलग्रहकणसिद्धमर्थं श्लोकेन दर्शयति - परादिश्च परान्तश्चेति । पूर्वपर शब्दाभ्यां पूर्वोत्तरपदयोर्ग्रहणम्। यत एवं परादिप्रभृतिरुदात्तश्छन्दसि दृश्यते, ततो हेतोर्बहुलं स्वरव्यत्यय उक्तः । स्वरव्यत्ययार्थं बहुलग्रहणं कृतमित्यर्थः ।।
इति श्रीहरदत्तमश्रविरचितायां पदमञ्जर्यां षष्ठाध्यायस्य द्वितीयः पादः।