काशिका (पदमञ्जरीव्याख्यासहिता)/सप्तमोऽध्यायः/प्रथमः पादः

काशिका (पदमञ्जरीव्याख्यासहिता)
प्रथमः पादः
[[लेखकः :|]]
द्वितीयः पादः →

        ॐ
अथ सप्तमाध्याये प्रथमः पादः
युवोरनाकौ ।। 7 - 1 - 1 ।।
शास्त्रस्य लाघवार्थं युवू प्रत्ययौ उपदिष्टौ, तयोरनेनानाकावादेशौ विधीयेते तत्रतत्र ह्यनाकयोरेवोपदेशे शास्त्रस्य गौरवं स्यात् । इह कस्मान्न भवति - यु मिक्षणे, युतः युतवान् उदितोर्युवोरिदं ग्रहणम् । कथम् ल्यडादिषूकारोऽनुनासिक इत्संज्ञकः । एवमपि द्यूत्वा, द्यूतः, द्यूतवान - अत्र प्राप्नोति, ऊठस्त्वनुदिदवकाशः अथार्थवतो युवुशब्दस्य ग्रहणम्, अनर्थकश्चनायम्, तेन धात्वन्तस्य न भवति । भुज्युः, मृत्युः, कंयुः शंयुः ऊर्णायुरित्यादावुकारस्यानित्संज्ञकत्वादादेशाभावः । यदि तर्हि ल्युडादिषूकार इत्संज्ञकः - नन्दनः, कारकः, उगिदचाम् इति नुम् प्राप्नोति उगितो झलन्तस्य नुम्, न चौतौ झलन्तौ । तत्तर्हि झल्ग्रहणं कर्त्तव्यम् नेत्याह, यदेतत् नपुंसकस्य झलचः इति झल्ग्रहणं तत्पुरस्तादपक्रक्ष्यते, उगिदचां सर्वनामस्थानेऽधातोर्झलः युजेरसमासे, ततः - नपुंसकस्य झलढ, इत्येव, ततः, अचः, नपुंसकस्य इत्येव, तच्चावश्यं झल्ग्रहणमपक्रष्टव्यम्, अन्यथोगितो लिङ्गविशिष्टस्यापि नुम् प्रसज्येत - गोमती भवती । इह तर्हि नन्दना, कारिका - उगितश्च इति ङीप् प्राप्नोति ज्ञापकात्सिद्धम्, यदयं क्वचिद्युवू षिट्टितौ करोति - शिल्पिनि ष्वुन्, ट्युट्युलौ तुट् च इति, तज्ज्ञापयति - न युवोरीकारो भवतीति । नैतदस्ति ज्ञापकम् षित्करणं ङीषर्थम्, टित्करणमनुपसर्जनार्थम्, टितो ह्यनुपसर्जनात् ङीप् भवति, उगितः पुनरविशेषेण । तथा शातनपातनशब्दौ ल्युडन्तौ गौरादिषु पठितौ, तत्र शातनितरा, पातनितरा, नद्याः शेषस्यान्यतरस्याम् उगितश्च इत्युगिल्लक्षणो ह्रस्वविकल्पः प्राप्नोति । ननु चोगित इत्येवमुगितसंज्ञाशब्दनेन या नदी विहिता तस्यास्तत्र ग्रहणम् नेत्याह, इह हि दोषः स्यात् - भोगवतितरा, गौरिमतितरा, शार्ङ्गरवादिङीनन्तावैतौ, तत्र ह्रस्वविकल्पो न स्यात्, इष्यते चात्रापि ह्रस्वविकल्पो भाष्यकारेण । तस्मान्नैवं शक्यम् - उदितोर्युवोर्गुहणम् इति । न चेदेवं युतः, युत्वा, भुज्युः, शंयुरित्यत्रापि प्राप्नोति तत्राह - अनुनासिकयणोरिति । सन्ति हि यणः सानुनासिकाः, निरनुनासिकाश्च, तत्र येषामादेश इष्यते तेषु यकारवकारावनुनासिकौ पठितव्यौ, तेन क्वाप्यनिष्टप्रसङ्गः । प्रत्ययोरिति । वस्तुकथनमेतत्, न त्वप्रत्ययनिवृत्त्यर्थम्, तथाविधास्यानुनासिकस्य यणोऽसम्भवात् ।।
मुत्युरिति । भुजिमृङ्भ्यं युक्त्युकौ इति सूत्रे सहनिर्दिष्टत्वादिदमुदाहृतम्, शक्यते ह्यत्र वक्तुम् - अङ्गस्य यौ युवू, कौ चाङ्गस्य युवू, ययोरङ्गमित्येतद्भवति, कयोश्चैतद्भवति प्रत्ययोः न चैष प्रत्यय इति । आनर्थक्याच्च ट्युटयुलोस्त्वनादेशे कृते पश्चात्तुडित्यर्थवत्त्‌वं प्रत्ययत्वं च । किमुच्यतेऽनुनासिकत्वं न प्रतिज्ञायत इति , न पुनर्न पठ्यते इत्यत आह - प्रतिज्ञानुनासिक्या इति । प्रतिज्ञयानुनासिक्यं येषां ते तथोक्ताः । सर्वत्र पाठाभावात्सतोऽपि वा पाठस्य सङ्कीर्णत्वात्प्रतिज्ञासमधिगम्यमेवानुनासिकत्वमित्यर्थः ।
युवोरिति समाहरद्वन्द्वेश्चेत् स नपुंसकम् इति नपुंसकत्वे सति औत्वगुणवृद्धितृज्वद्भावेभ्यो नुम् पूर्वविप्रतिषिद्धम् इति वचनात् घेर्ङिति इति गुणं बाधित्वा इकोऽचि विभक्तौ इति नुमि सति युवुन इति भवितव्यम् इतरेतरयोगद्वन्द्वे तु द्विर्वचने यणादेशे च सति द्वयोर्वकारयोः श्रवणप्रसङ्गः । स्थानिवद्भावाद्वलि लोपोऽपि नास्ति, तत्कथमयं निर्द्देशः इत्याह - युवोरिति । नपुंसकलिङ्गता चेति । न भवतीति वक्ष्यमाणेन सम्बन्धः । मध्ये हेतुः । लिङ्गमशिष्यमिति । छान्दसो वर्णलोप इति । अकृत एव यणादेश उकारस्य लोपः, कृते वा तस्मिन्नन्यतरस्य वकारस्य अपर आह - कर्मधारयोऽयम्, अवयवधर्मेण समुदायस्य व्यपदेशः । युश्चासौ समुदायो युवुलक्षणो वुश्चासाविति तत्र समुदाययस्य क्वचिदभावादवयवयोरेवानाकादेशाविति ।
आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् ।। 7 - 2 - 2 ।।
फकारादिष्वकार उञ्चारणार्थः । व्यञ्जनमात्रं स्थानि अन्ते फढखछघाम् इत्यनच्कनिर्देशात् । एवं च निरनुवन्धकपरिभाषा न प्रवर्त्तते । आढ्यकुलीन इति । अपूर्वपदात् इति वचनात् कुलात्खः इत्यनेन सपूर्वपदादपि खो भवति ।
फक्क नीचैर्गतौ ढोकृ तौकृ गत्यर्थौ । इह प्रत्ययाद्युदात्तत्वं संज्ञासन्नियोगेन विधानादन्तरङ्गम् ।
एते त्वायन्नादयोऽङ्गाधिकारे विधानाद्वहिरङ्गाः, ततश्च यत्र स्वरार्थोऽनुबन्धो नास्ति - शिलाया ढः ,
वृद्धच्छः इत्यादौ तत्राद्युदात्तत्वे कृते पश्चाद्भवन्त एते आदेशा अस्वरकस्याच उच्चारणसम्भवादनियतस्वराः स्युः इत्याङ्क्याह - आयन्नादय इत्यादि । अयमभिप्रायः - प्रत्ययादीनां फकारादीनामङ्गसम्बन्धाव्यभिचारात्प्रयोजनाभावादिह अङ्गस्य इति न सम्बध्यते, तेन एतेऽप्यन्तरङ्गा, तत्र परत्वादेतेषु कृतेषु पश्चादाद्युदात्तत्वमिति । अत्रैय ज्ञापकमाह - तथा चेति । यदि प्रत्ययस्वरे कृते आयन्नादय आदेशाः स्युः, ततो घशब्दाकारस्योदात्तत्वे कृते घकारस्य हलः स्रंसनधर्मिणः स्रंसनधमिण्यनुदात्त आदेशे कृतेऽन्तोदात्तत्वं सिद्धमिति चित्करणमनर्थकं स्यादिति भावः । इयङिति । वावचनं ज्ञापकमिति । यदि धातुप्रत्ययानामप्येते आदेशाः स्युः ऋतेश्छङ्‌ इत्येष ब्रूयात् । न च छङि सति वलादिलक्षणे इटि कृते अनादित्वादियादेशो न स्यादिति वाच्यम्, इदानीमेव ह्युक्तम् - अन्तरङ्गा आदेशा इति ।
अपर आह - यदि धातुप्रत्ययेष्वेतज्ज्ञापकं प्रातिपदिकप्रत्ययेष्वपि शख्यं वक्तुं यदयमीयसुनं शास्ति, तज्ज्ञापयत्याचार्यः न प्रातिपदिकप्रत्ययानामिमे आदेशा इति । यदि स्युस्तर्हि छसुनमेव विदध्यात् । एतावन्तश्च प्रत्ययाः - धातुप्रत्ययाः, प्रतिपदिकप्रत्ययाश्चेति, उच्यन्ते चादेशाः ते वचनात्सर्वत्रैव स्युरिति ।
इत्संज्ञया भवितव्यमिति । न च वचनसामर्थ्यादित्संज्ञाया बाधनमित्याहतिद्धितेषु हीति । प्रतिविधानं कर्त्तव्यमिति । प्रतिविधानं तु प्राचामवृद्धात्फिन् बहुलम् इति फिनो नित्करणादित्संज्ञाया अभाव इति । न च फेश्छ च इत्यत्र फिनः, फिञश्च सामान्यग्रहणार्थं नित्करणम् , वृद्धादित्यधिकाराद्धि फिञ एव तत्र ग्रहणम्, न फिनः ।।
झोऽन्तः ।। 7 - 1 - 3 ।।
आदिग्रहणं निवृत्तमिति । तदनुवृत्तौ हि शयान्तै इत्यत्र शीङो लेटि लेटोऽडाटौ इति लावस्थायामेव प्राप्ते आटि सति झकारस्यानादित्वान्न स्यात् । कथं पुनः समासनिर्द्दिष्टानामेकदेशोऽनवर्त्तते नैष दोषः, अनाश्रितार्थकं शब्दमात्रं स्वरितत्ववशादनुवर्त्तते - इति पक्षे यस्यैव स्वरितत्वं प्रतिज्ञातं तस्यैवानुवृत्तिः । अर्थाधिकारपक्षे तु समासार्थस्यैकत्वात्तस्यैवानुवृत्तिः स्याद्वा, न वा । यद्वा - प्रत्ययग्रहणं पूर्वसूत्रे पृथक् पदं लुप्तविभक्तिकम्, तेन तस्यैवानुवृत्तिर्भविष्यति । आदेशे त्वकार उच्चारणार्थः तेन पचन्तीत्यादौ श्रवणं न भवति ।।
अदभ्यस्तात् ।। 7 - 1 - 4 ।।
ददतीत्यादि । जक्षतीत्यादौ यत्रोपदेशानन्तरमभ्यस्तसंज्ञा, तत्राप्यवश्यं विकरणाभावः प्रतीक्ष्यः, अन्यथा नित्यत्वाच्छपि कृते तेन व्यवधानान्न स्यात्, ततश्च ददतीत्यादावपि शपः श्लावभ्यस्तसंज्ञायामदादेशो भवति ।
जुसादेशेन तु बाध्यत इति । तस्यानवकाशत्वात् । अत्राप्यादेशे कृते प्रत्ययाद्युदात्तत्वं भवतीति । उत्तरत्रेति भावः । इह तु अभ्यस्तानामादिः इति स्वरो भवति ।।
आत्मनेपदेष्वनतः ।। 7 - 1 - 5 ।।
अनभ्यस्तार्थमिदं वचनम् । चिन्वतामिति । लोट्, टेरेत्वम् आमेतः । च्यवन्त इति ।
ननु चात्रापि प्रागेव शपः परत्वाददादेशप्रसङ्गः, अनतः इत्यस्य तु बेभिधन्ते - इत्यादिरवकशः इत्यत आह - नित्यत्वादिति । झकारविशेषणं किमिति । श्रुतानामात्मनेपदानामधिकृतस्य प्रत्ययस्य वा विशेषणे को दोष तइति प्रश्नः । शयान्तै इति । अत्राङ्गस्यानन्तरमात्मनेपदमाटस्तद्भक्तस्य तद्‌ग्रहणेन ग्रहतथणात्, झकारस्त्वाटा व्यवहितः । अन्तादेशस्त्वङ्गविशेषानुपादानादत्रापि भवति ।।
शीङो रुट् ।। 7 - 1 - 6 ।।
झादेशस्यात् इति । ननु च नेहाद्‌ग्रहणमस्ति, यदपि प्रकृतं तदपि प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः, शीङ इत्येषा पञ्चमी अदिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति, तस्मादित्युत्तरस्य इति । शेरत इति । सार्वधातुकावयवस्य झस्यादादेशस्तदागमो रुट् तद्‌ग्रहणेन गृह्यते । अवयवस्य समुदायं प्रत्यवयवत्वं लोकेऽपि दृश्यते, यथा - देवदत्तस्याङ्गुलिरिति । सार्वधातुकस्याप्यवयवो रुडिति शीडः सार्वधातुके गुणः इति गुणो भवति ।
किं पुनः कारणं रुडागमो झदेशस्यातो विधीयते, नझकारस्यैव वधीयते, एवं हि न षष्ठी प्रकल्प्या
भवति अत आह - रुडयमिति । यदि तु ककारासञ्जनेन पूर्वान्तः क्रियेत, शेरत इत्यत्र गुणो न स्याद् अनिगन्तत्वात् । तस्मात् परादिरेव वक्तव्यः । स यदिच झकारस्यैव स्यात्, ततो यथा शयान्तै इत्यत्राटा व्यवहितत्वाज्झस्यादादेशो न भवति, तथा शेरते इत्यत्रापि न स्यात् रुटा व्यवहितत्वात् ।
ननु च युक्तमाटा व्यवधानम्, स हि सार्वधातुकभक्तस्तदेव न व्यवदध्यात्, झकारं तु व्यवदधात्येव, रुट् पुनर्झकारभक्तः स कथं तस्य व्यबधायकः उच्यते गृह्यता तावत्तद्ग्रहथणेन , तथापि निर्द्दिश्यमानस्यादेशा भवन्ति इति यदत्र निर्द्दिश्यते झ इति विशिष्टं रुपं न तदनन्तरम्, यश्चानन्तरो रेफझकारसमुदायो न स निर्द्दिश्यत इति न स्यादेवादेशः । अपर आह - आदेशो न स्यादिति, कोऽर्थः झस्य न स्यादिति, कस्य तर्हि स्यात् आदेः परस्य इति रुट एव स्यात् । न च रुटेः वैयर्थ्यं स्यात्, झकारस्य श्रवणार्थत्वात् इति, तच्चिन्त्यम् अनेकाल्त्वात्सर्वादेशः प्राप्नोति । सर्वादेशे रुटो वैयर्थ्यमिति चेत् किं कुर्मः मा भूदादेशः । शीङः इत्यनुबन्धोच्चारणं यङ्‌लुग्निवृत्त्यर्थम् - व्यतिशेश्यते । गुणोऽपि न भवति तत्राप्यनुबन्धनिर्द्दशात् ।।
वेत्तेर्विभाषा ।। 7 - 1 - 7 ।।
संविद्रत इति । समो गम्यृच्छि इत्यादिनात्मनेपदम् । वित्त इत्यादि । विद विचारणे, रुधादिरनुदात्तेत् । सत्तालाभार्थयोस्तु विकरणव्यवधानादेवाग्रहणम् । अत्र च बहुवचनं प्रत्युदाहरणम्, इतरयोरुपन्यासो विचारणार्थस्येदं बहुवचने रुपमिति प्रदर्शनार्थम् । विदन्ते इति रुपस्य लाभार्थे तौदादिके स्वरितेत्त्वादात्मनेपदे एकवचने शे मुचादीनाम् इति नुम्यपि कृते सम्भवात् । किञ्च - वेत्तेरिति श्तिपा निर्द्देशादेव यङ्‌लुकि न भवति - व्यतिवेविदते इति ।।
बहुलं छन्दसि ।। 7 - 1 - 8 ।।
बहुलवचनादन्यत्रापि भवतीति । एतदर्थमेव विभाषाग्रहणे प्रकृतेऽपि बहुलग्रहणं कृतम् ।
अदृश्रमिति । इरितो वा इति वाङ्‌ ।।
अतो भिस ऐसं ।। 7 - 1 - 9 ।।
अतिजरसैरिति । अत्रैव चैकारस्य श्रवणार्थमैसादेशः कृतः । वृक्षैरित्यादावेसादेशेऽपि वृद्ध्या रुपं सिद्धम् । अतो गुणे इति पररुपं तु न भवति यदि स्यात, इसमेव विदध्यात् ।
परत्वादिति । एत्वस्यावकाशः - वृक्षेषु, ऐसोऽवकाशः कृत एत्वे, प्रागेत्वादुभयप्रसङ्गे परत्वादेत्वप्रसङ्ग इति चेन्मन्यसे, अत एस क्व भविष्यति एत्वे कृते मुख्यमकारान्त न भवतीति प्रश्नः कृत एत्वे भौतपूर्व्यादिति । भूतपूर्वस्य भावो भौतपूर्व्यम्, साम्प्रतिकाभावाद्भूतपूर्वगतिराश्रीयत इति भावः । एस् तु नित्यस्तथा सतीति । एवं हि सत्यैस्भावो नित्यः, कृताकृतप्रसङ्गित्वात् । एत्वं त्वैसि कृते न प्राप्नोति अझलादित्वात् । न च तत्र भूतपूर्वगतिः मुख्यस्यैव सम्भावात् । एतच्चोद्यपरिहारमुत्सर्गापवादभावमनाश्रित्य कृतं द्रष्टव्यम्, तदाश्रयणे हि नाप्राप्त एत्व आरम्भादैसपवाद इत्ययुक्तो विप्रतिषेधः स्यात् ।।
नेदमदसोरकोः ।। 7 - 1 - 11 ।।
इदमदसोः इति भिसपेक्षया सम्बन्धलक्षणा षष्ठी । एभिरिति । त्यदाद्यत्वम्, हलि लोपः इतीद्भागस्य लोपः । अमीभिरिति । ऐसि प्रतिषिद्धे बहुवचने झल्येत् इत्येत्वम् एत ईद्वहुवचने इतीत्वमत्वे ।
अकोरित्येतदनर्थकम्, कथम् विशिष्टरुपाश्रयोऽयं प्रतिषेधः - इदमदसोः इति, तत्राकचि कृते रुपभेदादेव न भविष्यति तत्राह - अकोरित्येतदेवेति । ज्ञापनस्य परयोजनम् - सर्वके इत्यादौ सर्वनामकार्यप्रवृत्तिः ।
इमौ द्वौ प्रतिषेधावुच्येते, द्वावपि शक्याववक्तुम् । कथम् एवं हि वक्ष्यामि - इदमदसोः कात् इति, तन्नियमार्थं भविष्यति - इदमसोरेव कादिति । ततश्च सर्वकैरित्यादौ न स्यात्, एभिरित्यादौ च स्यादेव - तन्मध्यपरिभाषा च न ज्ञापिता स्यात् । क्वचित्तु वृत्तावेव पठ्यते - इदमदसोः कादिति नोक्तम्, विपरीतोऽपि नियमः स्यात् - इदमदसोरेव कादितीति ।।
टाङसिङसामिनात्स्याः ।। 7 - 1 - 12 ।।
अतिजरसिनेत्यादि । समासे ह्रस्वत्वे कृते इनादेशः, ततः सन्निपात्परिभाषाया अनित्यत्वाज्जरसादेशः ।
एवमतिजरसादित्यत्राप्यादादेशे कृते जरसादेशः । ननु च टाङस्योरेवाजादित्वात्प्रागिनादादेशाभ्यां जरसादेशः
प्राप्नोति, स हि नित्यः परश्च, तत्र कृतेऽनदन्तत्वादेवेनादादेशयोरभावे अतिजरसा, अतिजरस इति भवितव्यम् । नैष दोषः, एवं हि इनादेशस्य, अदादेशस्य च विधानमनर्थकम्, नादेशोऽदेशश्च विधेयः स्यात्, का रुपसिद्धः
इह तावद् वृक्षेणेति एत्वे योगविभागः करिष्यते - बहुवचने झल्येत्, ओसि च, ततः आङि च - आङि च परतोऽत एत्वम्- वृक्षेण । नैवं शक्यम्, थइह ह्यनेनेति हलि लोपः इति इद्रपलोपे सति एनेति प्राप्नोति हलि लोपः इत्यपनीय झलि लोपः इति सूत्रे करिष्येत, तत्र नकारस्याझल्त्वाल्लोपाभावः । न स शक्यो झलि लोपो वक्तुम्, इह हि न स्यात्, - अयाविष्ट, अजनयत्, अयेति इदमश्चतुर्थ्यकवचनस्य सुपां सुलुक इत्यादिना यादेशः, सुपि च इति दीर्घाभावः छान्दसः, तत्रास्याझलादित्वादिद्रूपलोपो न स्यात् । तस्माद्धलि लोप एव कर्त्तव्यः, ततश्चानेनेति न सिध्यति एवं तर्हि अनाप्यकः इति द्विनकारकोऽयं निर्द्देशः, तत्रादेशसम्बन्धी पदान्तत्वाल्लुप्तः नश्च आप् च नाप्, तत्र परत इदोऽनादेश इति सूत्रार्थाश्रयणादिद्रूपलोपापवोदो नशब्दे परतो नादेश एव भविष्यति । यद्यवम्, आदेशेन लोपस्यासिद्धत्वाद्राजेत्यादाविव सूत्रे दीर्घप्रसङ्गः - अनाप्यकः इति नैष दोषः, सुपां सुलुक् इति लुकि कृते न लुमताङ्गस्य इति प्रतिषेधः । वृक्षादित्यत्रापि सवर्णत्वेनैव सिद्धम्, अकारोच्चारणसामर्थ्यादतो गुणे पररुपं न भविष्यति । तदेवमिनादेशस्यादादेशस्य च विधानसमर्थ्यात्पूर्वमिनादादेशौ, पश्चाज्जरसादेश इत्यषामभिप्रायः ।
यथा त्वित्यादि । भाष्ये हि पूर्वोक्तप्रक्रियाश्रयणेन नाधेशोऽदादेशश्च व्यवस्थापितः । यदि चैतद्रूपद्वयमिष्टं स्यात्, तयोरादेशयोः प्रत्याख्यानमनुपपन्नं स्यात् । तत्र सन्निपातपरिभाषया जरसादेशाभावादतिजरेण, अतिजरादिति भाष्यकारस्याभिप्रेतिमिति केचित् । प्रागेव जरसादेशे - अतिजरसा, अतिजरस इत्यभिप्रेतमित्यन्ये ।।
ङेर्यः ।। 7 - 1 - 13 ।।
ङे इति चतुर्थ्यकवचनस्य ग्रहणमिति । तस्य हि ङे इति रुपं प्रतिपदोक्तं सप्तम्येकवचनस्य घेर्ङिति इति गुणे लाक्षणिकम् । यद्यपि ङेः इति विभक्त्यन्तमुपात्तम्, तच्चोभयोरपि लाक्षणिकम्, थथापि प्रत्ययात्पूर्वस्य भागस्य लाक्षणिकत्वप्रतिपदोक्तत्वापेक्षेया परिभाषाप्रवृत्तिः । यद्येवम्, ङेराम्नद्याम्नीभ्यः इत्यत्राप्येवमेव प्रसङ्गः तस्माव्द्याख्यानमेवात्र शरणम् । लिङ्गं च - तस्मै प्रभवति, तदस्मै दीयते, तस्मै हितम्, तदस्यैं प्रहरणमिति क्रीडायां णः इत्यादि । वृक्षायेति । सुपि च इति दीर्घः ।
कथं पुनरकारसन्निपातकृतो यशबद्स्तद्विधातनिमित्तं भवति अत आह - सन्निपातलक्षण इति । अनित्यत्वं तस्याः कष्टाय क्रमणे इति निर्द्देशादवसीयते ।।
सर्वनाम्नः स्मै ।। 7 - 1 - 14 ।।
भवत इति । द्विर्यन्तास्त्यदादयः इति वचनादन्यत्र त्यदाद्यत्वाभावादनकारन्तत्वम् । अन्वादेशेऽशदेशे कृत इति । अनन्वादेशे त्वत्रास्मै चेद्रूपलोपः, न चाकृते इद्रूपलोपे एकादेशः प्राप्नोतीति । न चाद्‌गुणप्रसङ्गः, नित्येनेद्रूपलोपेन बाधितत्वात् । एकादेशः प्राप्नोतीति । नित्यत्वात् । वाक्यसंस्कारपक्षे चैतच्चोद्यम् । तद्ध्यर्थप्रतिपादनाय लोके प्रयुज्यते, तदेव च शास्त्रे विभज्यान्वाख्यायते । अन्तरङ्गत्वादिति । एकपदा(यत्वादन्तरङ्गत्वम्, पदद्वयाश्रयत्वादेकादेशो बहिरङ्गः ।।
पूर्वादिभ्यो नवभ्यो वा ।। 7 - 1 - 16 ।।
द्वये पूर्वादयः - सूत्रपठिताः, गणपाठपठिताश्च, सर्वनाम्नः इति चेहानुवर्त्तते तत्रासति नवग्रहणे ङसिङ्योर्येन सर्वनामसंज्ञा स गणपाठ एव गृह्यत इति नवग्रहणम् ।
इह जसिङसिङीनां शीस्मात्स्मिनः पूर्वादिभ्यो नवभ्यो वा, औङ आपः, शी नपुंसकाच्च इति सूत्रन्यासः कर्त्तव्यः, एवं जसि विभाषार्थानि त्रीथणि सूत्राणि न कर्त्तव्यानि भवन्ति तथा तु न कृतमित्येव ।।
जसः शी ।। 7 - 1 - 17 ।।
दीर्घोच्चारणमुत्तरार्थमिति । खथइह त्वत इत्यधिकाराद् गुणेन भवितव्यमिति, ह्रस्वेऽपि सिद्धम् । न च सर्वे छत्त्रिण इत्यत्र षत्वतुकोरसिद्धः इत्येकादेशस्यासिद्धत्वाद् ह्रस्वाश्रयस्य नित्यस्य तुकः प्रसङ्गः, तत्र हि पदान्तपदाद्योर्य एकादेशस्तस्यैवासिद्धत्वम् ।।
औङ आपः ।। 7 - 1 - 18 ।।
औङः इति निर्द्देशं क्रियमाणमनुवादपूर्वमाक्षिपति ।
औकारोऽयमिति । कोऽयं प्रकारः, कृत्सितोऽयं सूत्रप्रणयनप्रकारः, सिद्धस्य ह्यनुवाद उपपद्यते, यथा - ङेर्यः इति, अयं तु न क्वापि सिद्ध इति परिहरति - कामान्यार्थ इति । औतः इत्युच्यमाने प्रथमाद्विवचनस्यैव स्यान्िरनुबन्धकत्वात्, न सानुबन्धकस्यौटः । यद्यपि टकारः प्रत्याहारार्थत्वात्समुदायानुबन्धः, तथापि प्रत्ययानुबन्धत्वमपि तस्याविरुद्धम् । व्द्यर्था अपि हेतवो भवन्ति, तद्यथा - आम्राश्च सिक्ताः पितरश्च प्रीणिताः इति, औट इत्युच्यमाने प्रथमाद्विवचनस्य न स्यात् । तस्माद् द्वयोरपि सामान्यग्रहणार्थो ङकारानुबन्धनिर्द्देशः । नन्वसतोऽवुवादोऽनुपपन्न इत्याक्षेपः, तत्र प्रयोजनाभिधानमसङ्गतम् नैष दोषः, ओदौटोरौङिंति वधिवाक्यमस्मादेवानुवादादनुमास्यते, तस्यैव प्रयोजनाभिधानम् । पुनश्चोदयति - तस्य चेति । तस्य ङकारानुबन्धस्यासञ्जनेऽस्मिन्नेवं विज्ञायमाने ङित्कायं याडापः इत्येतत्ते एवंवादिनस्तव, श्यां शीशब्दे परतः, प्रसक्तम् । प्रसजतु नाम तत्राह - स दोष इति । दोष इत्यनेन सामानाधिकरण्यात्स इति पुंल्लिङ्गनिर्द्देशः । परिहरति - ङित्त्व इति । वर्णमात्रनिर्द्देशः इति ववक्षितम्, वृत्तभङ्गभयात्त्वस्थाने माक्षशब्दः प्रयुक्तः । याडापः इत्यत्र ङितीति यदनुवृत्तं न स बहुव्रीहिः ङ इद्यस्येति किं तर्हि कर्मधारयः - ङश्चासविच्चेति, ततः किम् इत्यत आह वर्णे यत्स्यादिति । यस्मिन्विधिस्तदादावल्ग्रहणे ।
अयं तावन्ङित्त्वमभ्युपेत्य परिहार उक्तः, ङित्वमेव तु नास्तीत्याह - वर्णश्चायमिति । चशब्दो वार्थे पठितः । वर्णो वायमित्येव वा पाठः । औङिति वर्णो वायमुपात्तो न प्रत्ययः । ङकारस्तु मुखसुखार्थः, यथा - ऋदोरप् इत्यत्र दकारः । अङ्गाक्षिप्तस्य प्रत्ययस्य तेन विशेषणादौकारान्तस्य प्रत्ययस्येत्यर्थः । वर्णरुपतया चौकारग्रहणे सति द्वयोरप्यौकारयोर्ग्रहणं भवति प्रत्ययविषयत्वादननुबन्धकपरिभाषायाः । ङित्वेऽप्यदोष इति । ङित्त्वे सति यो दोषः सोऽपि न भवति, ङित्त्वस्यैवाभावादित्यर्थः, पूर्वेण वा परिहारेणास्यान्वयः ।
परिहारान्तरमाह - निर्देशोऽयमिति । पूर्वाचार्याणां हि सूत्रे द्वे अप्येते द्विवचने औङिति पठ्येते, तदाश्रयेणायं निर्देशः, तेन द्वयोरपि ग्रहणं भवति । न च ङित्कार्यप्रसङ्गः, न हि पूर्वाचार्यानुबन्धैरिह कार्याणि क्नियन्ते ।।
जश्शसोः शिः ।। 7 - 1 - 20 ।।
कुण्डश इति । जातिशब्दोऽप्ययं यदार्थप्रकरणादिना जात्याधारभूतायामेकस्यां व्यक्तौ वर्त्तते, तदा वृत्तिविषय एकवचनो भवतीति संख्यैकवचनात् इति शस् भवति । अर्थप्रकरणाद्यभावे तु तत्र प्रत्युदाहृतम् - घटंघटं ददातीति ।।
अष्टाभ्य औश् ।। 7 - 1 - 21 ।।
कृताकारोऽष्टन्शब्दो गृह्यत इति । कृताकारस्यानुकरणमष्टाशब्दः, न तु विभक्तौ लक्षणवशादात्वं कृतमित्यर्थः ।
कृताकारस्य ग्रहणं किमिति । आत्ववतोऽनुकरणं किमित्याश्रितमित्यर्थः । यदाऽऽत्वं भवति तदैव यथा स्यादित्युत्तरम् ।
अष्टेति । कथं पुनरत्रात्वाभावः, यावता न हि तद्विधौ विकल्पः सन्निहितः इत्यत आह - एतदेवेति । इह अष्टनः इति वक्तव्यम् - यथा अष्टन आ विभक्तौ इत्यत्र, एवं सिद्धे अष्टाभ्यः इति निर्द्देशात्कृतात्वास्यानुकरथणमिति तावन्निश्चितम् तसेय चैतत्प्रयोजनम् - यदात्वं भवति तदैव यथा स्यादिति । यदि च नित्यननु च अष्टनो दीर्घात् इति दीर्घग्रहणेनायमार्थो ज्ञापितः, तद्वा ज्ञापकमिदं वा, को नवत्र विशेषः इहेयत्तावद्वक्तव्यम् - षड्भ्यो लुक् इत्यस्यायमपवाद इति । अस्यैवेत्यवधारणं द्रष्टव्यम् । कारणमाह - नाप्राप्ते चेति । स हि समास एव प्राप्नोति, न तु वाक्ये । अष्टपुत्र इति । अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते इति वचनाद्वाक्यावस्थायामेव प्राप्तोऽप्यौश् न क्रियते, औश एव वा स्थानिवद्भा बाल्लुक् । तदन्तग्रहणमत्रेष्यत इति । अङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति वचनात् । यद्येवम्, यत्राष्टशब्दार्थ उपसर्जनं तत्रापि प्राप्नोति अत आह - प्रिया,्टान इत्यत्रेति । यथा पुनरत्रात्वं न भवति, तथा तद्विधावेव
वक्ष्यते ।।
षड्‌भ्यो लुक् ।। 7 - 1 - 22 ।।
षट्‌प्रधानादिति । षट्‌संज्ञकानामर्थः प्रधानं यत्र तस्मादित्यर्थः । प्रियषष इति । अन्यपदार्थप्रधानोऽयं बहुव्रीहिः, सर्वनामसंख्ययोरुपसंख्यानम् इति षषः पूर्वनिपाते प्राप्ते वा प्रियस्य इति प्रियशब्दस्य पूर्वनिपातः ।।
स्वमोर्नपुंसकात् ।। 7 - 1 - 23 ।।
सु इति प्रथमैकवचनस्य ग्रहणम्, न सप्तमीबहुवचनस्य अमा एकवचनेन साहचर्यात् । तद्भाह्मणकुलमित्यत्र परत्वात्त्यदाद्यत्वे कृते लुग्न प्राप्नोति अतोऽम् इत्यम्भावेन बाधितत्वात्, तस्मात्त्यदादिभ्यश्चेति वक्तव्यम् अत आह - तद् ब्राह्मणकुलमित्यत्रेति । नित्यत्वाद्वेति । लुका त्यादाद्यत्वं बाध्यत इत्यनुषङ्गः ।
कथं पुनर्लुको नित्यत्वम्, यावता त्यदाद्यत्वे कृते अतोऽमित्यपवादविधानात सोऽप्यनित्य एव अत आह - लुको हीति । यदि ह्यतोऽमित्येतन्न स्यादकारान्तमप्यङ्गं लुको निमित्तं स्यादेव, ततः किम् इत्यत आह - यस्य चेति । त्यदाद्यत्वं तु लुकि कृते नैव प्राप्नोति न लुमताङ्गस्य इति निषेधात् । यद्येवम्, तदपि लक्षणान्तरेणैव बाध्यते नासावत्वस्य प्रतिषेधः, कस्य तर्हि प्रत्ययलक्षणस्य, प्राप्तिर्हि प्रत्ययलक्षणेन ।।
अतोऽम् ।। 7 - 1 - 24 ।।
अत्रामिति पदच्छेदः, न तु मिति तथा हि सति लाघवाय मत तइत्येव ब्रूयात् । किमर्थं पुनरम्बिधीयते न मकार एवोच्येत, द्वितीयैकवचनेऽपि आदेः परस्य इत्यकारस्य मकार कृतेऽन्यस्य मकारस्य संयोगान्तलोपेनैव सिद्धमिष्टम् दीर्घप्रसङ्गस्तु सुपि च इति दीर्घः प्राप्नोति । न च दीर्घविधौ सन्निपातपरिभाषा
प्रवर्त्तते वृत्रायेत्यादावपि प्रसङ्गात् । तस्मादमेव विधेयः ।
अपर आह - अम्विधानसामर्थ्यादतिजरसमित्यत्र जरसादेशो भवतीति, तच्चिन्त्यम् सन्निपातपरिभाषया जरसादेशस्याप्रसङ्गात् । अम्विधानं तु दीर्घबाधनेन चरितार्थमिति ।।
अद्‌ड्डरादिभ्यः पञ्चभ्यः ।।7 - 1 - 25 ।।
अद्‌ड्डादेशो भवतीति । वविक्षितादेशरुपप्रतिपादनाय ष्टुत्वं न कृतम् । कथं पुनर्ज्ञायते - डिदयमादेश
इति यदि हि डिन्नस्यात् डतरादिभ्यः पञ्चभ्योऽत् इत्येव ब्रूयात् । किं पुनः कारणं सावेव दीर्घनिवृत्तिः प्रयोजनमुच्यते, न त्वमि इत्याह - इह त्विति । एवं तर्हीति । पूर्वसूत्रविहितमममनुवर्त्य डतरादिभ्य इति पञ्चम्याः षष्ठी प्रकल्प्य तस्यैवामो दकारो विधास्यत इति चोद्यार्थः । हे कतरदित्यत्र सम्बुद्धिलोपो मा भूदिति । अयं च दोष पूर्वस्मिन्नपि पक्षे समानः ।
ननु च सम्बुद्धिलोपे हल्ड्याब्भ्यः इत्यतोऽपृक्तग्रहणमनुवर्तयिष्यते, इह च आदेः परस्य इत्यमोऽकारस्य दकारे कृते मकारस्य संयोगान्तलोपः, तस्यासिद्धत्वान्नायमपृक्तः, एवमदादेशो नापृक्तः, यद्यपृत्तग्रहणमनुवर्तते, हे काण्डेत्यामोऽपि न स्यादिति दोषः । तदिदमुक्तम् -- अथ निवृत्तमपृक्तग्रहणम्, ततो निवृत्ते डतरादिषु दोषः - हे कतरदित्यादौ लोपः स्यादिति । अतो डित्त्वादद्‌डादेशविधानात्तस्य च डित्त्वान्न सम्बुद्धिलोपः, नापि पूर्वसवर्णदीर्घत्वमित्यर्थः ।
यदि पुनः पूर्वसूत्रबिहितमममनुवर्त्य तस्यैवादादेशो विधीयते शक्यं डित्त्वमकर्त्तुम् ।।
नेतराच्छन्दसि ।। 7 - 1 - 26 ।।
अतोऽमित्यस्यानन्तरमेवेति । अमादेश एवाद्‌डादेशस्यापवादो भविष्यति, ततश्च न इति वक्तव्यं न भवतीति भावः ।।
युष्मदस्मद्भ्यां ङसोऽश् ।। 7 - 1 - 27 ।।
शित्करणं सर्वादेशार्थमिति । अन्यथा आदेः परस्य इत्यादेः स्यात् । ननु चाकारस्याकारवचने प्रयोजनाभावादाद्यनुसंहारे बाधिते अलोन्त्यस्य इति मकारस्याकारे सति अतो गुणे इति पररुपेणैव सिद्धम् अत आह - अन्यथा हीति । आदेश इति व्यपदेश आदेशव्यपदेशः, यस्यादेशस्य प्रयोजनं नास्तीति मन्यसे तसयैव स्यादित्येवशब्दार्थः । किं पुनरादेशव्यपदेशेन प्रयोजनं यत आदेरेव स्यात् तत्राह -ततश्चेति । ह्यर्थे चः
पठितः । ततो ह्यादेशव्यपदेशाद् योऽचि इति यत्वं न स्यात्, यत्वाभावः प्रयोजनमादेशव्यपदेशस्य स्यादित्यर्थः । योऽचि ित्यत्र युष्मदस्मदोरनादेशे इति वर्त्तते । ननु चानादेशो या विभक्तिरित्येवं तत्र विज्ञास्यते, न हि तदादिविधिरस्ति यत अनादेशादाविति विज्ञायेत ततश्च सत्यष्यादेशादित्वे विभक्तेरनादेशत्वात्स्यादेव यत्वमिति व्यर्थमेवाकारस्याकारविधानम् एवं मन्यते - सर्वे सर्वपदादेशाः इति न्यायेनादिविकारद्वारेण विभाक्तेरेवादेशो विधीयत इति विभक्तिरेवादेश इति । सर्वे सर्वपदादेशाः इत्यत्र न पदशब्देन सुप्तिङन्तमुच्यते, किं तर्हि पद्यते गम्यतेऽनेनार्थं इति पदम्, ततश्च पचत्वित्यत्र यथा तिशब्दस्य तुशब्दो भवति, तद्वदत्रापि ङसोऽशेव विधीयत इति भवत्येवादेशात्वं विभक्तेः ।।
ङे प्रथमयोरम् ।। 7 - 1 - 29 ।।
ङे इत्याविभक्तिकोऽयं निर्देश इति । प्रथमयोरिति प्रथमाद्वितीययोर्ग्रहणम् इति वक्ष्यति, तदत्र समासे सति बहुवचनप्रसङ्ग इति भावः । प्राधानयलक्षणस्य प्रथमार्थस्येहासम्भावत्सन्निवेशविशेषापेक्षया प्रथमस्य ग्रहणमिति तावन्निश्चितम् । तिङ्‌प्रथमयोस्तु युस्मादस्मद्भ्यामसम्भव एव, तत्र प्रत्यययोर्ग्रहणम्, विभक्त्योर्वेति संशयः । यदि स्त्रीलिङ्गनिर्द्देशस्ततो विभक्त्योर्ग्रहणम्, पुंल्लिङ्गनिर्देशे तु प्रत्यययोः । तत्र निर्वयमाह - प्रथमयोश्च विभाक्त्योरिति । एतदेव स्पष्टयति - प्रथमाद्वितीयोरिति । कथं कुनः प्रथमाशब्देन द्वितीयोच्यते, साहचर्यात । ननु सकृत्प्रयुक्तः शब्दो मुख्यवृत्तिर्वा भवतु, जघन्यवृत्तिर्वा, न पनरुभयवृत्तिः सत्यम् प्रथमाद्वितीयासमुदाये जघन्यवृत्तिरेवायमुद्भतावयवभेदश्च समुदाय इति द्विवचनम् । कथं पुनर्ज्ञायते - विभक्त्योर्ग्रहणमिति द्वितीयायां च इत्यात्वविधानात् । तद्ध्यदेशार्थमुच्यते, अनादेशे युष्मदस्मदोरनादेशे इत्येव सिद्धत्वात् । यदि चात्र विभक्त्योर्ग्रहणं स्यात्, एवमस्यादेशार्थतोपपद्यते । ननु च योऽचि इति यत्वबाधनार्थं तत्स्यात् यद्येताबत्प्रयोजनं स्यात्, यत्वमेवायं विशिष्य ब्रूयात् - योऽच्यापीति । आबिति प्रत्याहारः अनाप्यकः इति वत् । यतस्तु द्वितीयायामात्वं शास्ति, ततो ज्ञायते - विभक्त्योरिह ग्रहणमिति ।।
शसो न ।। 7 - 1 - 29 ।।
नेत्यविभक्तिको निर्द्देशः, तथा च पूर्वसूत्रेण प्राप्तस्यायममः प्रतिषेध इति माष्ये शङ्कितम् - कः पुनः प्रतिषेधे सति दोषः, यावताऽमि प्रतिषिद्धे योऽचि इति यत्वे च द्वितीयायां इत्यात्वे कृते प्रथमयोः पूर्वस्यर्णदीर्घत्वे कृते तस्माच्छसो नः पुंसि इति नत्वे च युष्मानिति सिद्ध्यत्येव सत्यं पुंसि सिद्ध्यति स्त्रीनपुंसकयोस्तु न सिद्ध्यति, तदिदं दर्शितम् - युष्मान् अस्मान् ब्राह्मणीरित्यादि ।
अलिङ्गे वा युष्मास्मदी इति । लिङ्गानुशासने तथा पाठात् । उदाहरणे तु आदेः परस्य इत्यकारस्य नकारे सकारस्य संयोगान्तलोपः ।।
भ्यसो भ्यम् ।। 7 - 1 - 30 ।।
एत्वं प्राप्नोतीति । सुपि च इति दीर्घस्याप्युपलक्षणमेतत् । अङ्गवृत्त इत्यादि । अस्यार्थः पूर्वमेव व्याख्यातः ।
केचित्पुनरित्यादि । येषां शेषेलोपोऽन्त्यस्य लोपः तेषाम् अतो गुणे पररुपत्वमेकादेशः, स्वरश्च । एत्वनिवृत्त्वार्थमिति । अत्रापि दीर्घस्याप्युपलक्षणम्, एत्वनिवृत्त्या चाकारोच्चारणस्यार्थवत्त्वात्सवर्णदीर्घत्वं तेषां न
भवति । येषां त्विति । अन्त्यलोपपक्षे मतभेदः - भयमादेशः, अभ्यमादेश इति । टिलोपपक्षे त्वषश्यमभ्यमादेशः, अन्यथा रुपासिद्धे । नन्वेवं स्वरे दोषः, कथम् अनुदात्तस्य च यत्रोदात्तलोपः इत्यत्र कर्षात्वतो घञोन्त उदात्तः इत्यन्तोदात्तग्रहणमनुवर्त्तते, ततश्च भ्यमोऽन्तोदात्तत्वं प्राप्नोति अत्यत आह - उदात्त्निवृत्तिस्वरश्चेति । न तत्रान्तग्रहणमनुवर्त्तते, उच्चारणक्रमे प्रत्यासत्या चादेरेवोदात्तत्वं भवतीत्यर्थः ।।
साम आकम् ।। 7 - 1 - 33 ।।
सामिति षष्ठीबहुवचनमागतसुट्कं गृह्यत इति । अङ्गसंज्ञानिमित्तस्यान्यस्यासम्भवात् ।
अथ किमर्थमागतसुट्‌को गृह्यत इति । यद्यपि षष्ठीबहुवचनमागतसुट्‌कं गृह्यत इति प्रकृतम्, इह तु प्रत्त्योपेक्षया पुंल्लिङ्गनिर्द्देशः । नपुंसकलिङ्गमेव वा पठितव्यम् । अथेति न प्रयोजनप्रधानः प्रश्नः, किं तर्हि युष्मदस्मद्भ्यां परस्यैवंविधस्यासम्भवप्रधानः । अत एवाह - न ह्यादेशविधानकाले सुड्‌विद्यत इति । सुड्‌विधौ
आज्जसेरसुक् इत्यत आदित्यनुवर्त्तते, अकारान्तत्वं च युष्मदस्मदोः शेषे लोपः इत्यन्त्यस्य लोपे भवति, कश्च शेषः आदेशः । अनादेशे यत्वात्वयोर्विधानात् । आदेशत्वं चाकमादेशे सति । न च त्यदाद्यत्वेनाकारान्तत्वम् त्यदाद्यत्वं प्रति द्विपर्यन्तास्त्यदादयः इति स्मरणात् । तस्मादादेशविधानकाले सुण्नविद्यते । उत्तरवादी तु - आदेशविधानकालेऽसत एव सुट उपादानम्, अथापि तस्योपादाने प्रयोजनमस्तीत्याह - तस्यैव त्विति । यद्यसुट्‌को गृह्यते, ततः पूर्वोक्तेन न्यायेन पश्चाद्भवतः सुटः केन निवृत्तिः स्यात् स्थानिन्यन्तर्भूतत्वादिति । तेन सहस्थानित्वेनोपादानसामर्थ्यादिति भावः । एतच्च पाक्षिकं प्रयोजनम् । कतरस्मिन्पक्षे यदा शेषेलोपोऽन्त्यलोपस्तदा, यदा तु टिलोपस्तदा पश्चादपि सुटः प्रसङ्गाभावान्नैतत्प्रयोजनम् ।
दीर्घोच्चारतणमित्यादि । अन्यथातो गुणे पररुपत्वं स्यात् । नन्वकारोच्चारणसामर्थ्यान्न भविष्यति, अन्यथाऽकमेव विदध्यात् अत आह - अकमि त्विति ।
आत औ णलः ।। 7 - 1 - 34 ।।
पपावित्यादौ पा - अ इति स्थिते युगपत् त्रीणि कार्यणि प्राप्नुवन्ति द्विर्वचनम्, सवर्णदीर्घत्वमेकादेशः, औत्वमिति, तत्र येन क्रमेणैतानि कर्तव्यानि, तद्दर्शयति - अत्रेति । लित्स्वरं तु नोपन्यस्याति, सर्वथान्तोदात्तत्वसिद्धेः । उक्तक्रमे हेतुमाह - एकादेशादिति । यदि पूर्वमेकादेशः स्याव्द्यपवर्गाभावादौत्वं न स्यादित्यनवकाशं तत् । परत्वादेकादेश इति । अत्र वृद्धिरेकादेशः, तस्य स्थानिवद्भावाद् द्विर्वचनम्, स्थानिवद्भावस्तु द्विर्वचनेऽचि इति । तत्र ह्यचीति न स्थानिवद्भावस्य निमित्तनिर्द्देशः किं तर्हि अजादेशस्य - द्विर्वचननिमित्तेऽचि योऽजादेश इति । तेन सम्प्रत्यच्परत्वाभावेऽपि स्थानिवद्भावो भवत्येव । ओकारौकारयोर्लाघवे विशेषाभावात्प्रयोगसमवाय्यौकार एव विहितः । अपर आह - आङ्‌प्रश्लिष्टाकार ओकारः, तस्योच्चारणे प्रयत्नलाघवं भवति विश्लिष्टाकार औकारस्तस्योच्चारणे प्रयत्नगौरवं भवति, तद्विधानं दरिद्रात्यर्थम्ददरिद्रौ, अत्र दरिद्रातेरार्द्धधातुके लोपो वक्तव्यः इत्याकारलोपेऽप्यौकारस्य श्रवणम् भवति । यद्यपि सिद्धश्च प्रत्ययविधौ इति वचनाल्लिटि विवक्षित एवाकार लोपे सत्यौत्वस्याप्रसङ्गः, यद्यपि च सास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम् इत्यामि सति णल एवासम्भवः, तथाप्यौत्वविधानसामर्थ्याद् द्वयमप्येतन्न भवति ।।
तुह्योस्तातङाशिष्यन्यतरस्याम् ।। 7 - 1 - 35 ।।
जीवतात्त्वमिति । अत्र स्थानिवद्भावेन तातङो हिग्रहणेन ग्रहणाद् अतो हेः इति लुक् प्राप्नोति नैष दोषः हुझल्भ्यो हेर्धिः, इत्यनुवर्त्तमाने पुनः अतो हेः इति हिग्रहणम् - हिरेव यो हिस्तस्य यथा स्यात्, स्थानिवद्भावेन यो हिस्तस्य माभूदित्येवमर्थम् ।
ङित्करणमित्यादि । यद्यपि सर्वादेशतायाः प्राग्गुणवृद्धिप्रतिषेधार्थत्वमनिश्चतम्, तथापि सर्वादेशत्वेऽपि ङित्त्वस्य प्रयोजनं तातङि सम्भवति, अनङादिषु तु नैव सर्वादेशत्वे प्रयोजनं सम्भवतीति तेष्वनन्यार्थङित्त्वेषु ङिच्च इत्येतत् सहसा प्रवर्त्तते, तातङि तु प्रयोजनान्तरसम्भावनया कियानपि विलम्बो भवति । तेनास्मिन्विषये उत्सर्गापवादयोस्तुल्यकाला प्रवृत्तिरित्यपवादमपि ङिच्च इत्येतद्वाधित्वा अनेकाल्शित्सर्वस्य इत्येतदेव परत्वात्प्रवर्त्तत इति भावः । एतच्च ङिच्च इत्यत्र सम्यगुपपादितम् । तत्र ब्रूतादित्यादौ गुणप्रतिषेधः, मृष्टादित्यत्र वृद्धिप्रतिषेधः । ङित्त्वाच्चास्येति । ननु च ङित्कार्यं भवतु, स्थानिवद्भावप्राप्तपित्त्वात्पित्कार्यमपि, को विरोधः अत आह - ङिच्च पिन्न भवतीति । वचनमिदम् सार्वधातुकमपित् इत्यत्र योगविभागेन कल्पितम् । ब्रुव ईडिति । उपलक्षणमेतत्, तृण्ढाद्भवान् इत्यत्र तृणह इम् न भवतीति ।
तातङि ङित्त्वमित्यादि श्लोकद्वयं क्वचित्पठ्यते । तातङि व्यवस्थितं ङित्त्वं संकमकृत्स्यात्, संक्रमो नाम - गुणवृद्धिप्रतिषेधः, अर्हार्थे लिङ्, गुणवृद्धिप्रतिषेधकृद्धवितुमर्हति । अन्त्यविधिश्चेत्, अन्त्यविधिहेतुत्वादन्त्यविधिर्ङित्त्वम् । करणसाधनो वा विधिशब्दः अन्त्त्यस्य यथा स्यादित्येवमर्थं चेत् ङित्त्वमित्यर्थः । निराकरोति - तच्च तथा न । चशब्दोऽवधारणे प्रतिषेधेन सम्बध्यते, तत् ङित्त्वं तथा सति नैव कर्त्तव्यम् । एरुः इत्यस्यानन्तरम् तुह्योस्तादाशिषि इति वक्तव्यम्, एरुरित्येव, एवं सिद्धे ङित्करणं गुणवृद्धिप्रतिषेधार्थमिति निश्चीयते । न च सर्वादेशतामन्तरेण तत् तत्प्रतिषेधार्थत्वं ङित्त्वस्योपपद्यत इति
सर्वादेशस्तातङ् भवति । ननु चान्त्यविधिश्चास्तु अवयवे कृतं लिङ्गम् इति न्यायेन गुणवृद्धिप्रतिषेधार्थश्चास्तु ङित्करणसामर्थ्यादित्याशङ्क्य परिहारान्तरमाह - हेरधिकार इति । अतो हेः इत्यत्र लोपविधौ हुझल्भ्यो हेर्धिः इत्यतो हेरित्यधिकारे सत्येव तयोऽयं हेरित्यधिकारस्तं ज्ञापकमाह सूत्रकारः, तस्य ह्येततप्रयोजनम् -स हिरेव यो हिस्तस्य यथा स्तात्, स्थानिवद्भावेन यो हिस्तस्य मा भूदिति । तच्च सर्वादेशत्वे सत्युपपद्यते ।
ननु च हिरेव यो हिस्तस्य यथा स्याद्विकृतो यो हिस्तस्य मा भूदित्यन्त्या देशत्वेऽपि तातङो हेरित्यधिकार उपपद्यत इत्यादशङ्क्य साक्षात्परिहारमाह - तातङो ङित्त्वसामर्थ्यादिति । ङित्त्वसामर्थ्यात्किलायमान्त्यविधिः स्यात्, तच्च सामर्थ्यं नास्ति, सर्वादेशत्वेऽपि प्रयोजनसम्भवात् । ततश्च पूर्वोक्तया रीत्या विप्रतिषेधात्सर्वादेश एव तातङ् भवति । अनङ्‌ सौ तित्यादावनङादीनां नैवं ङित्त्वसामर्थ्याभावः, तेन तेऽन्त्यविकारदा जाताः ।।
विदेः शतुर्वसुः ।। 7 - 1 - 36 ।।
विद ज्ञान इति । सत्ताविचारणार्थयोरात्मनेपदित्वेन शतुरसम्भवः, लाभार्थस्य तूभयपदित्वेन शतुः सम्भवेऽपि तुदादित्वाद्विकरणेन व्यवधानमिति ज्ञानार्थस्यैव लुग्विकरणस्य परस्मैपदिनो ग्रहणमिति भावः ।
क्वसोरपि सामान्यग्रहणार्थमिति । अन्यथा वसः सम्प्रसारणम् इत्युच्यमाने निरनुबन्धकत्वादस्यैव ग्रहणं स्यात् । ननु च क्रियमाणेऽप्युकारानुबन्धे एकानुबन्धकत्वादस्यैव ग्रहणं स्यात् तत्राह - एकानुबन्धकग्रहण इति ।
समासेऽनव्पूर्वे क्त्वो ल्यप् ।। 7 - 1 - 37 ।।
पूर्वशब्दोऽवयवचनः,, अनञ्पूर्वोऽवयवो यत्र समासे सोऽनञ्पूर्वः । प्रकृत्येति । समानकर्तुकयोः पूर्वकाले इति क्त्वा, कुगातिप्रादयः इति समासः, ल्यपि सति ह्रस्वस्य तुक् । पार्श्वतःकृत्येति । आद्यादित्वात्सप्तम्यन्तात्तसिः, स्वाङ्गे तस्प्रत्यये कृभ्वोः इति क्त्वा, तृतीयाप्रभृतीन्यन्यतरस्याम् क्त्वा च इति समासः । नानाकृत्य, द्विधाकृत्येति । नाधार्थप्रत्ययेच्व्यर्थे इति क्त्वा, पूर्ववत्समासः ।
अकृत्वा, अहृत्वेति । हृत्वेत्येतत्प्रत्यदारणम्, अत्र कृत्वाशब्दो नञ्सदृशः पूर्वोऽस्ति, समुदायस्तु समासो न भवति । परमकृत्वेति । सन्महन् इत्यादिना समासः, तुमर्थाधिकाराद्भावे क्त्वा प्रत्ययः । पारम्यमपि क्रियाया एव विशेषणमिति समानाधिकरण्यम् ।
कथं पुनरिदं प्रत्युदारहणम्, यावता भवत्येवायमनञ्पूर्वः समासः इत्यत आह- जनञिति हीति अनञ् इति पुर्युदासोऽयम्, तत्र नञिवयुक्तन्यायेन नञ्सदृशमव्ययं परिगृह्यते, तेन नञ् अनव्ययं च परमशब्दािकमनञ् न भवति, तअमेदादनव्ययत्वाच्च । स्नात्वाकलक इत्यादिष्विति । आदिशब्देन पीत्वास्थिरक इत्येवमादेर्ग्रहथणम्, यत्रोत्तरपदे क्रिया नोपादीयते तत्राध्याहृतक्रियापक्षेः क्त्वाप्रत्ययः । सापेक्षत्वेऽपि निपातनात्समासः । निपातनाल्ल्यबादेशो न भवतीति । न प्राकरणिकः समास एव तत्र निपात्यते, किं तर्हि यस्य लक्षणं नास्ति तत्सर्वमिति भावः ।
निर्धारणे सप्तमीति । जातावेकवचनम्, वचनव्यत्यो वा । समास एव निर्धार्यत िति । निर्धारणस्य तुल्यजातीयापेक्षत्वात् । कथं पुनः समासः क्त्वान्तो भवति, यावता प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहण्, न च समासात् क्त्वा विहितः अथ कृद्‌ग्रहणए गतिकारकपूर्वस्यापि ग्रहणात्समासस्य क्त्वान्त्ता एवमपि प्रकृत्य, पार्श्वतःकृत्येत्यादावेव स्यात्, उच्चैकृत्येत्येवमादौ तु न स्यात्, अगतित्वादकारकत्वाच्च इत्याशङ्क्याह - स चेति । तत्र निर्द्दिश्यमानस्यादेशा भवन्ति िति क्त्वामात्रस्यैव ल्यब्भवति । ननु प्रत्ययविषये पूर्वेण परिभाषाद्वयेन तदन्तविधिव्यवस्था, न तु येन विधिस्तदन्तस्य इत्यनेन तत्राह - तथा चेति । कथं पुनरेतज्ज्ञापकम् इत्याह - गतिकारकपूर्वस्य त्विति । कथं नास्ति प्रसङ्गः इत्याह - नञ्न गतिरिति । अदो जग्धिर्ल्यप्ति किति इत्यत्र यदुक्तम् - जग्धौ सिद्धमन्तरङ्गत्वात् इत्यादि, तत्स्मारयति - प्रधाय, प्रस्थायत्येवमादिष्विति ।
के पुनरन्तरङ्गा विधयः हित्वदत्वात्वेत्वेत्वदीर्घत्वशूडिटः । हित्वम् दधातेर्हिः, हित्वा, प्रधाय। दत्वम् - दो दद्धोः, दत्वा, प्रदाय । आत्वम् - जन सनखनां सन्झलोः खात्वा, प्रखाय, प्रखन्य। इत्वम् -
द्यतिस्यतिमास्थामित्ति किति, स्थित्वा, प्रस्थाय । ईत्वम् - घुमास्थागापाजहातिसां हलि पीत्वा, प्रपाय। दीर्घत्वम् - अनुनासिकस्य क्विझलोः क्ङिति, शान्त्वा, प्रशम्य । शू - च्छ्वोः शूडनुनासिके च पृष्ट्वा, आपृच्छ्य । उठ् - द्यूत्वा । इट् - उदितो वा, देवित्वा, प्रदीव्य, अत्रेटि सति न क्त्वा सेट् इति कित्त्वप्रतिषेधाद् गुणः स्यात् ।
पूर्वग्रहणं किमर्थम्, अनञ् इत्येवोच्यमाने बहुव्रीहिः स्यात् - अविद्यमानो नञ् यस्मिन्नसावनञिति, तथा च स्त्रैणीकृत्येत्यत्रापि प्रतिषेधः स्यात् । पूर्वग्रहणे तु सति, तस्य नियतदेशावयववचनत्वान्नायं दोषः । लित्करणं प्रचिकीर्ष्येत्यत्र प्रत्ययात्पूर्वस्य स्वरार्थम् । प्रकृत्येत्यादौ तु धातुस्वरेणेव सिद्धम् । पित्करणं तुगर्थम् ।।
क्त्वापि छन्दसि ।। 7 - 1 - 38 ।।
अपिशब्दाल्ल्यबपीति । स च समासेऽसमासे च भवति, अप्राप्तिविषये ल्यपः प्रापणार्थत्वादपिशब्दस्य, अन्यथा वा छन्दसि इत्येव वाच्यं स्यात्, तथा च छन्दोविधानमुनवदधानाः कल्पसूत्रकारा अपि प्रयुञ्जते - आज्येनाक्षिणी अज्येत्यादि ।।
सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः ।। 7 - 1 - 39 ।।
सुशब्द आदेश उच्यमाने अन्ये सुपो न प्राप्नुवन्ति, तस्मात् सुग्रहणमपनीय सुड्ग्रहणं कर्त्तव्यमित्याह - सुपां सुप इति । तिङां तिङ इति । एतच्च व्यात्ययो बहुलम् इति सिद्धम् । सुपां सुप इत्ययमपि तस्यैव प्रपञ्चः । तक्ष्ण्वन्तीति प्राप्त तु युक्तः पाठः ।
आद्रे चर्मन्निति । ननु च पूर्वसवर्णेनाप्येतत्सिद्धम्, कथम् चर्मन् - इ इति स्थिते इकारस्य पूर्वसवर्णो नकारः, तत्र परतः स्वादिषु इति पदसंज्ञायां सत्यां पूर्वस्य नकारस्य लोपः, तत्रायमप्यर्थः - न ङिसम्बुद्ध्योः इत्यत्र ङिग्रहणं न कर्त्तव्यं भवति, अप्रातिपदिकत्वादेव विभक्तिनकारस्य लोपाप्रसङ्गात्, पूर्वस्य तु नकारस्येष्ट एव लोपः नैतदस्ति अत्र हि पूर्वसवर्णो भवन्नान्तर्यतो निरनुनासिकस्य निरनुनासिको दकार एव स्यात् । अस्तु, संयोगान्तलोपो भविष्यति नात्र संयोगान्तलोपः प्राप्नोति, स्वादिषु इति पदसंज्ञायां सत्यां पूर्वनकारस्य लोपे सति असंयोगान्तत्वात् । नलोपो हि संयोगान्तलोपे सिद्धः । एवं तर्हि न ङिसम्बुद्ध्योः इत्यत्र ङिग्रहणं करिष्यते, तत्र नलोपाभावे संयोगान्तलोपः तदेवमस्यान्यथासिद्धत्वादुदाहरणान्तरमाह - हविर्द्धाने यत्सुन्वन्तीति । यत् - इ इति स्थिते अत्र यदि पूर्वसवर्णो दकारः स्यात्त्यदाद्यत्वे सति स्थानिवद्भावात्स्मिन्भावः प्राप्नोति । तस्मादत्र लुगेव कर्त्तव्यः । अनेकाल्षु च भ्यामादिषु अन्त्यस्य पूर्वसवर्णे पूर्वभाग्य श्रवणाप्रसङ्गः, तस्मात्तत्रापि लुगेव कर्त्तव्यः ।
धीतीत्यादि । धीति -मति - सुष्टुतिशब्देभ्यस्तृतीयेकवचनस्य पूर्वसवर्ण इकारः, कवर्णदीर्घत्वम् ।
न तादू ब्राह्मणादिति । तच्छब्दाद् ब्राह्मणशब्दाच्च शस्, तस्यादादेशः, न विभक्तौ तुस्माः इति इत्संज्ञाप्रतिषेधः । या देव विप्नतात् त्वा महान्तम् इति बह्वचाः । यूयं वयमिति प्राप्त इति । प्रमादपाठोऽयम्, तथा हि - न युष्मे बाजबन्धवः इत्यत्र मन्त्रे ऋक्षाश्वमेधनाम्नो राज्ञोर्दानं स्तूयते, व्यत्ययेन द्वयोर्बहुवचनम्, बाजमित्यन्ननाम, अन्नप्रदानेन सर्वेषां बन्धवस्तेषां सम्बोधनं हे बाजबन्धवः । युष्में युषमासु अधीत्यस्यानेन सम्बन्धः, सच सप्तम्यर्थातनुवादी । निनित्सुश्च निन्दनशीलोऽपि मर्त्यौ युष्मासु अवद्यं न धारयति नावधारयति, अवद्याभावादित्यर्थः । अस्मे इन्द्राबृहस्पती थइत्यत्रापि रयिं धत्तमिति क्रिया, दधातिश्च दानार्थः । तस्माद्युष्मासु अस्मःयमिति युक्तः पाठः । यूयादेश इत्याद्यपि न पठितव्यम् ।
अनुष्टमेति प्राप्त इति । अध्रिगुप्रैषै तु ता अनुष्ट्योव्यावयतादिति अनुपूर्वात्तिष्ठतेः आतश्चोपसर्गे इत्यङ्‌, अनुष्ठानमनुष्ठा, तयाऽनुष्ठ्या ।
प्रबाहवेति । धेर्ङिति इति गुणः । ननु ङित्त्वे विद्याद्वर्णनिर्द्देशमात्रं वर्णे यत्स्यात्तच्च विद्यात्तदादौ इत्युक्तम् सत्यम् ङित्करणसामर्थ्यात्तु गुणः । प्रबहुनेति प्राप्त इति । बाहुनेति तु युक्तः पाठः प्रशब्दस्याख्यातेन सम्बन्धनात् । अयाचोऽकारः सुपि च इति दीर्घनिवृत्त्यर्थः ।।
अमो मश् ।। 7 - 1 - 40 ।।
अमिति मिबादेशो गृह्यत इति । द्वितीयैकवचनस्य ग्रहणं न भवति छन्दसि दृष्टानुवधानाद्वक्ष्यमाणेषु बाहुल्येन तिङा निर्द्देशात् । वधीमिति । हन्तेर्लुङ्, लुङि च इति वधादेशः, च्लेः सिच्, इट्, मिपोऽम्भावः, तस्य मश् - अकार उच्चारणार्थः, अस्तिसिचोऽपृक्ते इतीट्, इट ईटि इति सिचो लोपः, सवर्णदीर्घत्वम् ।
शित्करणं सर्वादेशार्थमिति । अन्यथा हि अलोऽन्त्यस्य इति मकारत्य मकारवचने प्रयोजनाभावात्सर्वादेशो भविष्यति, अत आह - मकारस्यापीति । यथा मो राजि समः कौ इत्यत्रेति भावः । पञ्चमीनिर्द्देशाभावात्तु आदेः परस्य इत्येतन्न भवति । अथोच्यते - द्विमकारकोऽयं निर्द्देशः करिष्यते, तत्रैकस्य संयोगान्तलोपेऽपि वधीमित्यादि सिद्धमिति एवमपि लाघवे नास्ति विशेषः । किञ्चसंयोगान्तलोपस्यासिद्धत्वादपृक्तलक्षण ईट् एव स्यात् । एवं तर्हि यकारादिः करिष्यते, किम् यकारो न श्रूयते, बलि लुप्तनिर्द्दिष्टो यकारः नात्र किञ्चित् प्रम, णमस्ति, तस्माच्छित्करणम् ।।
लोपस्त आत्मनेपदेषु ।। 7 - 1 - 41 ।।
अदुह्रेति । दुरेर्लङ् आत्मनेपदेष्वनतः इति झस्यादादेशः, बहुलं छन्दसि िति रुट्, तकारस्य लोपे द्वयोरकारयोः अतो गुणे पररुपत्वम् । शये इति । शेते इत्यत्र तलोपे कृते अयादेशः । दुहामिति । लोट्, टेरेत्वम्, आमेतः, तलोपः ।
अपीत्यधिकारादिति । एवं च आत्मनेपदेषु इति वचनं तस्यैव प्रपञ्चः ।।
तस्य तात् ।। 7 - 1 - 44 ।।
लोण्मध्यमपुरुषबहुवचनस्येति । प्रथमपुरुषैकवचनस्य तु ग्रहणं न भवति, छन्दसि दृष्टानुविधानात् । पूर्वोत्तराभ्यां बहुवचनाभ्यां वा साहचर्यात् । कृणुतादिति । कृवि हिंसाकरणयोः, धिन्वकृण्व्योर च इत्युप्रत्ययः, वकारस्य चाकरः, अतो लोपः ।।
तप्तनप्तनथनाश्च ।। 7 - 1 - 45 ।।
शृणोतेति । श्रुवः श्रृ च इति श्नुप्रत्ययः श्रृभावश्च, पित्त्वे सति ङित्त्वाभावाद्‌ गुणः । दधातनेति । अत्रापि पित्त्वाभावात् श्नाभ्यस्तयोः इत्याकारलोपाभावः । जुजुष्टनेति । व्यत्ययेन परस्मैपदम्, तुदादित्वाच्छः, तस्य बहुलं छन्सि इति श्नुः ,द्विर्वजनम् । जुषेरनुदात्तेत्वात् जुषध्वमिति प्राप्त इति तु युक्तः पाठः । यदिच्छतेति प्राप्त इति । बह्वचास्तु - कोवस्तो मरुतो यतिष्टन इत्यस्यामृचि यतिष्ठनेति पठन्ति । यतिस्थनेति पदकाले, तत्रास्ते रुपम् ।।
इदन्तो मसि ।। 7 - 1 - 46 ।।
मसीत्यविभक्तिको निर्द्देशः । इकार उच्चारणार्थः । अन्तशब्दोऽवयववचनः - इत् अन्तो यस्य स इदन्तः । तपरकरणमसन्देहार्थम्, यन्तः इत्युच्यमाने सन्देहः स्यात् - किं यकारन्त ईदन्तः इदन्तो वेति तत्र यदि सकारोपमर्द्देन इकारान्तमभिप्रेतं स्यात्, मस इत इत्येव वाच्यं स्यात् । तस्मादवस्थित थएव सकार इकाह उपसृज्यते । अन्तग्रहणाच्च तद्ग्रहणेन गृह्यते, ततश्च टित्त्वादेरागमलिङ्गस्याभावेऽपि अर्थादागमोऽयं सम्पद्यते । तदिदमुक्तम् - मसः सकारान्तस्येत्यादि । एवं च मस इक् इति वक्तव्यम् प्रत्याहारसन्देहप्रसङ्गात्तथा नोक्तम् ।।
क्त्वा यक् ।। 7 - 1 - 47 ।।
दत्त्वायेति । दो दद्धोः । सौभाग्यमस्यै दत्त्वाय, दत्त्वायास्मभ्यं द्रविणेह भद्रः - इत्यादिमन्त्रगतमुदाहरणम् । दत्त्वाय सविता धियमिति क्वचित्, पठ्यते, तत्र तैत्तिरीयकास्तत्वायेति पठन्ति ।
क्त्वापि छन्दसीत्यादि । एवं हि पुनः क्त्वाग्रहणं न कर्त्तव्यं भवति ।।
आज्जसेरसुक् ।। 7 - 1 - 50 ।।
जसेः िति पूर्वाचार्यानुरोधेन निर्द्देशः । ब्राह्मणास इति । असुकि कृते जसः सकारस्य श्रवणम्, असुकः सकारस्य विसर्जनीयः ।
येपूर्वास इत्यादि । चोद्यम् - उपरास इति । अपरशब्दस्यादेरुकारश्छान्दसः । यदि पुनरयं पूर्वान्तः क्रियते - अस्य जस्यसुक् इति, नैवं शक्यम्, अतो गुणे पररुपत्वं हि स्यात् । अकारोच्चारणं तु - उत्तरसूत्रे
दध्यस्यतीत्यादौ श्रवणार्थ स्यात् । सकृद्‌गतावित्यादि परिहारः । यद्यप्येत्सर्वनामसंज्ञाया पूर्वादिषु जसि विकल्पनादेव सिद्धम्, उभयासो जातवेदःस्याम इत्यत्र तु शीभावप्रसङ्गः, अत्र हि प्रथमचरम इति वकल्पं बाधित्वा सर्वादिषु पाठान्नित्या संज्ञा भवति, सा ह्यन्तरङगा ।।
अश्वक्षीरवृषलवणानामत्मप्रीतौ क्यचि ।। 7 - 1 - 51 ।।
अश्वस्यतीति । असुकोऽकारः पूर्वत्र ब्राह्मणास इत्यादौ चरितार्थ इति अतो गुणे इति पररुपत्वं भवति, नः क्ये इति नियमादपदान्तोकारः । मैथुनेच्छायामिति । अश्वविषयेच्छा यदा मैथुनार्था, तदेवासुग्भवति । मैथुनेच्छापरत्वाच्च प्रयोगस्याश्ववृषोपादानमतन्त्रमिति मनुष्यादिविषयेऽपि प्रयुज्यते इति - रामो वृषस्वन्तीमिति । तृष्णातिरेक इति । अभ्यवजिहीर्षा - अतिरेकः, क्षीरलवणविषय इच्छातिरेको यदाभ्यवहारार्थो न तु होमाद्यर्थेस्तदेत्यर्थः । सर्वप्रातिपदिकेभ्य इति । तादर्थ्ये एषा चतुर्थी सर्वप्रातिपदिकार्थम्, सर्वेषां प्रतिपदिकानामित्यर्थः ।
आमि सर्वनाम्नः सुट् ।। 7 - 1 - 52 ।।
इमे बहव आमः - ङस् - ओस् - आम्, ङेराम्नद्याम्नीभ्यः, किमेत्तिङव्ययधादाम्वद्रव्यप्रकर्षे, कास्प्रत्ययादाममन्त्रे लिटि तेषु कस्येदमामो ग्रहणम् इत्याह - आमिति षष्ठीबहुवचनं गृह्यत इति । तस्य हि परत्वादिति ।
सुटो नुटश्च षष्ठीबहुवचनमवकाशः, आट्‌प्रभृतीनां चतुर्थ्येकवचनादि, ङेराम उभयप्रसङ्गे परत्वादाडादयो भवन्ति, तेषु कृतेषु सकृद्‌गतिन्यायाश्रयणात् सुट्‌नुटौ न भवतः । यश्च घादामुरिति । किमेत्तिङव्ययघादामु इत्येव । चस्त्वर्थे, तुरेव वा पठितव्यः । आम् च लिटीति । लिटि परतो य आम् कास्प्रत्ययात् इति विहित इत्यर्थः । न तौ सर्वनाम्नः परौ स्त इति । तेनात्र तावत्तयोरग्रहणम्, यस्य चात्र ग्रहणं तस्यैवोत्तरत्राप्यधिकार इति नुड्‌विधावपि तयोरग्रहणमिति भावः । आचारक्विबन्तानां सर्वादीनां सर्वार्थत्वाभावात्सर्वनामसंज्ञाभावात्सर्वनाम्नो लिट्यामोऽसम्भवः । यस्तु मन्यते - इह सामान्यग्रहणे सति यथासम्भवं प्रकरणे कार्यप्रतिपत्तिः, ततश्च तयोरपि नुट्‌प्रसङ्ग इति, तं प्रति परिहारान्तरमाह - सानुबन्धकाविति वेति । सामान्यग्रहणे तु सति पचतितरामित्यत्र यस्येतिलोपं बाधित्वा परत्वान्नुट् स्यात् । कारयाम्, चिकीषीमित्यत्र तु नित्यत्वाद् अयामन्त इत्ययादेशे, अतो लोपे च कृते ह्रस्वाभावान्नास्ति नुटः प्रसङ्गः ।
उत्तरार्थमिति । त्रेस्त्रयः इत्यामि परतो यथा स्तात । इह त्विति । पञ्चमीनिर्देशस्तु आत् इत्.यनुवृत्तेन सामानाधिकरण्यादवसीयते, एवं च कृत्वा हलि सर्वेषाम् इति निर्देशोपपत्तिः ।।
त्रस्त्रयः ।। 7 - 1 - 53।।
त्रेरिति षष्ठी, न पञ्चमी, णिजां त्रयाणाम् इति निर्देशात् ।।
ह्रस्वनद्यापो नुट् ।। 7 - 1 - 54 ।।
ह्रस्वनद्याप इति पञ्चमी, नामि इति लिङ्गेन अन्यथाऽङ्गनिमित्तस्य नामो न ह्यस्ति सम्भवः ।।
षट्‌चतुर्भ्यश्च ।। 7 - 1 - 55 ।।
नुटि कृते नोपधायाः इति दीर्घः । नलोपः प्रातिपदिकान्तस्य । षण्णमिति । झलां जशोऽन्ते - इति षकारस्य डकारः, यरोऽनुनासिके इति डकारस्य णकारः, ष्टुत्वम् ।
अथ ष्णान्ताः षट्‌ इति रेफस्च प्रक्षेपणेन रेफान्ताया कअपि संक्याया षटसंज्ञा कस्मान्न विहिता, एवं ह्यत्र चतुर्ग्रहथणं न कर्त्तव्यं भवति, तथा षट्‌त्रिचर्भ्यो हलादिः ित्यत्रापि इत्यत आह - रेफान्ताया इति । बहुवचननिर्देशादिति । शब्दप्राधान्ये हीतरेतरयोगे द्विवचनेन भाव्यम्, समाहारद्वन्द्वे त्वेकवचनेन भाव्यम्, अर्थप्राधान्ये तु षट्‌संज्ञका एव प्रत्येकं बह्वर्थाश्चतुःशब्दश्चेत्युपपद्यते बहुवचनम् । अत्रामः परत्वं शब्दद्वारकम् । परमषण्णामिति । अत्रापि बडर्थप्राधान्यात्तत एव पर आम् भवति । बहुव्रीहौ त्वन्यपदार्थस्य प्राधन्यान्न षडर्थापेक्षं परत्वमिति न भवति ।
प्रियपञ्च्‌जामिति । अल्लोपे कृते चुत्वम् - ञकारः ।।
श्रीग्रामण्योश्छन्दसि ।। 7 - 1 - 56 ।।
नित्यार्थ वचनमिति । अन्यथा भाषायामिव विकल्पः स्यात्, छन्दसि नुडेव चेद् दृश्यते, तस्य च लक्षणमस्ति, कोऽयं विकल्पप्रसङ्ग इति चिन्त्यमेतत् ।
सूताश्च ते ग्रामण्यश्चेति । नेदं कर्मधारयस्य वाक्यम्, किं तर्हि बहुवचनान्तयोर्यदेतरेतरयोगे द्वन्द्वस्तदा नुड्‌विधेः प्रयोजनम् । यदैकवचनान्तयोः समाहारद्वन्द्वं कृत्वा एकशेषः क्रियते तदा ह्रस्वान्तत्वादेव नुट् सिद्ध इति न प्रयोजनमिति दर्शयति । एवं च तेशब्दो न पठितव्यः ।
अत्रापि नुडेव चेद् दृश्यते तस्य च निर्वाहोऽस्ति, इतरेतरेतरयोगद्वन्द्वो न करिष्यते, तदेवमिदं सूत्रं भाष्ये प्रत्याख्यातम् ।।
गोः पादान्ते ।। 7 - 1 - 57 ।।
छन्दसि इत्यधिकारदृक्पादस्यै ग्रहणम्, श्लोकपादस्येत्याह - ऋक्पादान्त इति ।।
इदितो नुम् धातोः ।। 7 - 1 - 58 ।।
कुडि दाहे, हुङि सङ्घाते ।
अङ्गाधिकारान् नुमयं प्रत्यये परतो भवेत् ।
कुण्डेत्यादौ ततश्च क्तिन्स्यान्नाकारो गुरोर्हलः
इत्याशङ्क्याह - अयमिति । अत्र प्रमाणमाह - तथा हीति । कथं पुनरेतज्ज्ञापकम्, यावता इक्श्तिपौ धातुनिर्द्देशे वक्यतव्यौ इति इक्प्रत्यये कृतेऽङ्गसंज्ञायां सत्यां नुमा भवितव्यमिति लक्षणवशादेव नुमनुषक्तयोर्ग्रहणं कर्त्तव्यम् एवं मन्यते - नायमिका निर्देशः, किं तर्हि आगन्तुकेनेकारेण, तत्राप्राप्तो नुमिति ।
नात्र किञ्चित्प्रमाणमस्तीत्याशङ्क्याह - धातुग्रहणं चेति । धातुत्वमेवापेक्षितं न त्वङ्गत्वमित्येवमर्थं धातुग्रहणम्, नान्यत्किञ्चित्प्रयोजनमस्तीति भावः । ननु च भेत्ता, अभैत्सीदित्यत्राधात्वोस्तासिचसिचोरिदितोर्नुम्निवृत्त्यर्थं धातुग्रहणं स्यात् अत आह - तासिसिचोरिति । ननु चामंस्तेत्यादौ आत्मनेपदं ङितमपेक्ष्य सिजन्तस्य अनिदिताम् इति लोप मा भूदित्येतत्सिचीदित्कार्यं स्यात् इत्यत आह - अमंस्तेत्यादाविति । यथा हनः सिच् इति कित्त्वविधानमस्य लिङ्गं तथा तत्रैव प्रतिपादितम् ।
तासेस्तर्हीदित्करणं मन्तेत्यादौ आत्मनेपदैकवचनस्य डादेशे कृते टिलोपे च मनत् - आ इति स्थिते नकारस्योपधालोपे मा भूदित्येवमर्थं स्यादत आहमन्तेत्यत्रेति । नकारलोपो न भवतीत्यनुषङ्गः ।
जयादित्यस्तु - आभीयमसिद्धत्वमनित्यमाश्रित्य तासेरिदितकरणमनुनासिकलोपप्रतिषेधार्थमित्यवोचत् । तन्मते धातुग्रहणं तासिनिवृत्त्यर्थं कर्तव्यमिति उपदेशे नुम्भवति इत्यत्र यत्नान्तरमास्थेयम् ।
इह भिदिर्‌प्रभृतिषु इकारस्य उपदेशेऽजनुनासिक कइत् इतीत्संज्ञा, रेफस्यापि हलन्त्तयम् इति, ततश्चेदित्त्वान्नुम् प्राप्नोति तत्राह - इरितामिति । इरितामिर उपसङ्ख्यानम् इत्यौपसङ्ख्यानिकी समुदायस्येत्संज्ञा, न प्रत्येकं सौत्री, ततश्चानिदित्त्वान्नुम् न भवतीत्यर्थः ।
नन्वेवमपि स्वरितेत्त्वनिबन्धनमात्मनेपदं न प्राप्नोति भिदिर्‌प्रभृतिषु, तस्मात्प्रत्येकपक्षे परिहारो वाच्यः - िति मत्वा प्रत्येकपक्षे परिहारमाह - अवयवशोऽपीति । अपर आह - इदित इति नायं बहुव्रीहिः, किं तर्हि कर्मधारः ततश्च वर्णग्रहणमिदं भवति । तत्र तदन्तविधिनेत्संज्ञकेकारान्तस्य धातोर्नुमिति । अथेदितो धातोवो ननमनुषक्ता एव कस्मान्न पठिताः, एवं हीदं न कर्त्तव्यं भवति नुम्ग्रहणं तावदुत्तरार्थं कर्त्तव्यम्, इदितां च भूयस्त्वातप्रत्येकं नक्रोच्चारणादिदमेव सूत्रं लघीयः ।।
शे मुचादीनाम् ।। 7 - 1 - 59 ।।
मुचादयः मुच्लृ मोक्षणे इत्यारभ्य तुदादिष्वा गणान्ताद्वेदितव्याः ।
के पुनस्तृफादय इति । व्यवस्थावाचिन्यादिशब्दे निरनुषङ्गाणामपि ग्रहणप्रसङ्गादिति प्रश्नः । प्रकारवाची आदिशब्दः, प्रकारश्च सादृश्चम्, तच्च नकारानुषक्ततयेत्युत्तरम् । यदि सानुषाङ्गणां पुनर्नुम् विधीयते, एषं सति परस्य नकारस्यानुस्वारपरसवर्णयोः कृतयोर्नकारमकारयोः श्रवणप्रसङ्गः इत्यत आह - तेषामिति । अथास्य नुमोऽपि लोपः कस्मान्न भवति तत्राह - चेति । विधानसामर्थ्यादिति । अयं च मुचादिष्वेव
लोपाभावस्य हेतुः । तृम्फादिषु तु परनकारलोपस्य चिणो लुग्न्यायेनासिद्धत्वादेव पूर्वनकारस्य लोपाभावः सिद्धः । अथ मुचादिष्वेव तृम्फादयः कस्मान्न पठिताः इत्यत आह - ये त्विति । अयमभिप्रायः - सानुषाङ्गाणां निरनुषङ्गाणां च तन्त्रेणार्थनिर्देशः । तत्र यदि सर्वे मुचादिषु पठ्येरन्, निरनुषङ्गाणामपि नुम्प्रसङ्गः । सानुषाङ्गाणां निष्कृष्य पाठे द्विरर्थनिर्द्देशेन गौरवप्रसङ्ग इति ।।
मस्जिनशोर्झलि ।। 7 - 1 - 60 ।।
टुमस्जो शुद्धौ तृच्, एकाचः, इतीट्प्रतिषेधः, अन्त्याज्जकारात्पूर्वो नुम्, स्कोः संयोगाद्योरन्ते च इति सलोपः, कुत्वम्, अनुस्वारपरसवर्णौ । नंष्टेति । रधादिभ्यश्च इतीडभावपक्षे नुम् । मज्जनमिति । जकारे परतः सकारस्य श्चुत्वे च प्राप्ते जश्त्वस्यासिद्धत्वात् श्चुत्वम्, शकारस्य जश्त्वम् - जकारः ।
मस्जेरित्यादि । यद्यन्त्यादचः परः स्यात्तदा नसजानां समुदायस्यैका संयोगसंज्ञेति सकारस्यासंयोगादित्वाल्लोपो न स्यात् । अथापि सजयोः पृथक्संयोगसंज्ञामाश्रित्य लोपः स्याद् एवमपि तस्य लोपस्यासिद्धत्वान्नकार उपधा न भवतीति तस्य लोपो न स्यात् । तस्मादन्त्याज्जकारात्पूर्वः सजयोर्मध्ये नुमेषितव्यः ।।
रधिजभोरचि ।। 7 - 1 - 61 ।।
रध हिंसासंराध्योः जभ जृभी गात्रविनामे, इहास्य नुमोऽवकाशः - रन्धनम्, ररन्धतुरित्यादि, अत उपधायाः वृद्धेरवकाशः - पाचकः, पाठकः, रन्धकइत्यादावुभयप्रसङ्गे परत्वाद्वद्धिः प्राप्नोति तत्राह - परापि सतीति । वृद्धिस्तु नुमि कृते न प्राप्नोति, अकारस्यानुपधात्वादित्यनित्या । रद्धेति । रधादिभ्यश्च इति पक्षे इडभावः झपस्तथोर्धोऽधः इति तकारस्य धत्वम् ।
इह जभेरचि रधेलिटि च नेटि - इति सूत्रन्यासः कर्त्तव्यः तथा तु न कृतमित्येव ।।
नेट्यलिटि रधेः ।। 7 - 1 - 62 ।।
नुमि कृते इत्यादि । ननु चेटि सत्यजादित्वान्नुमा भवितव्यम्, प्रागेव चेटः कित्त्वं प्राप्नोति न च अलिटि इत्यस्य वैयर्थ्यम्, थल्यर्थवत्त्वान् एवं हि धातोरित्यनुवृत्तेरुपदेश एव नुम् भवति । अचीत्येषा तु विपयसप्तमी ।
अथेति । येषां छान्दसः क्वसुस्तेषामेष विचारो नास्ति, छन्दसि दृष्टानुविधानात् । एत्वाभ्यासलोपयोः कृतयोरिति । वस्वेकाजाद्‌घसाम् इत्यत्र कृतद्विर्वचनानामेकाचां ग्रहणादेव मुक्तम् । तत्र नुमागम इति । अचीति वचनात् । तस्येत्यादि । यद्यपि ररन्धिवेत्यादिवत् क्वसावप्यातिदेशिकं कित्त्वं नास्ति, तथाप्यौपदेशिकं कित्त्वमाश्रित्य नलोपो भवतीत्यर्थः ।
अथेत्यादि । एवं सति नेट्यलिटि इति द्वावपि प्रतिषेधौ न वक्तव्यौ भवत िति भावः । विपरीतमावधारणं सम्भाव्येतेति । एवकारे तु क्रियमाणे न लाघ्रवे विशेषः ।।
रभेरशब्लिटोः ।। 7 - 1 - 63 ।।
रभ राभस्ये, अनुदात्तेत् ।।
लभेश्च ।। 7 - 1 - 64 ।।
डुलभष् प्राप्तौ, अनुदात्तेन । लम्भो वर्त्तत इति । उपसर्गादेव खल्घञोः इति नियमस्य वक्ष्यमाणत्वादपपाठोऽयम् । खनो घ च इति चकाराद् भगः पदम् इतिवत् घप्रत्यय इत्येके । योगविभाग उत्तरार्थ इति । उत्तरोविधिर्लभेरेव यथा स्याद्रभेर्मा भूत् । कॢञ्च - शिब्लिटोर्यथासंख्यनिरासार्थश्च ।।
आङो यि ।। 7 - 1 - 65 ।।
अत्र धातोः इत्यनुवृत्तेरुपदेशावस्थायामेव नुमा भवितव्यम्, तस्माद् यि इति विषयसप्तमीत्याह - यकारादौ प्रत्यये विषय इति । प्रागित्यादिना विषयसप्तम्याश्रयणस्य फलं दर्शयति । तत्रेत्यादि । रुपे तु नास्ति विशेषः, ण्यत्प्रत्ययेऽपि वृद्ध्या नैव भवितव्यम् , नित्ये नुमि सति विहितनिमित्तत्वात् । यति पुनरुत्तरपदाद्युदात्तत्वं स्यादिति । यतोऽनावः इत्युत्तरपदाद्युदात्तत्वात् । आलभ्य इति । यक् । अनुषङ्गलोपः क्रियत इति । एतेन यक्ल्यपौ व्याख्यातौ । तेन यि इति सामान्योक्तावपि ण्यदेवोदाहृत इति भावः ।।
उपात्प्रशंसायाम् ।। 7 - 1 - 66 ।।
अत्र प्राप्तिरेव धात्वर्थः । प्रशंशा तु गम्यमानतया विशेषणम् । अतो यस्य प्राप्तिर्यतो वा प्राप्तिः प्रशंसाहेतुर्भवति तत्रोदाहरणम् । विपर्यये तु प्रत्युदाहरणम् ।।
उपसर्गात् खल्घञोः ।। 7 - 1 - 67 ।।
सिद्धे सतीति । लभेश्च इत्यनेन । उपसर्गादेवेति । विपरीतस्तु वियमो न भवति - उपसर्गात्खल्घञोरेवेति गृधिवञ्च्योः हलम्भने इति निर्द्देशात् ।।
न सुदुर्भ्या केवलाभ्याम् ।। 7 - 1 - 68 ।।
केवलशब्दः शब्दोपात्तादन्यस्य सजातीयस्याभावमाचष्टे । यथा हि -
केवलाभ्यामिहैताभ्यां प्रवेष्टव्यमितीरिते ।
अन्यस्य पुरुषस्यैव प्रवेशः प्रतिषिध्यते ।।
न शुकादेः, तथेहापि परस्परयुताधिमौ ।
एकाकिनौ विजातीयसहितौ चापि केवलौ ।।
सुदुर्लभम्, सुलभम्, दुर्लभम्, अतिसुलभमित्युदाहरणानि । सुलाभः, दुर्लाभ इति । भावे घञ् । कर्मणि
तु खल् भवति । यद्वा - सुः क्षेपे, यथा - सुषिक्तं नामेति । दिर्निन्दायाम्, यथा - दुर्ब्राह्मण इति । तेन कृच्छ्राकृच्छ्रार्थत्वाभावात्खलभावः ।
तृतीयां मत्वेति । तृतीयापक्षे त्विदं प्रत्युदाहरणमित्यर्थः । अथ पञ्चमीपक्षे कस्मान्न प्रत्युदाहरणम् कइत्याह - पञ्चम्यां हीति । न च तदापि प्रसुल्म्भमिति प्रत्युदाहरणम् उक्तं हि भाष्ये - नैषोऽस्ति प्रयोगः इति ।
अतिसुलभमित्यत्रेति । उपसर्गात् इत्यनुवृत्तेरुपसर्गयोः सुदुरोरिह ग्रहणमिति भावः । अतिरतिक्रमणे च इत्यतेः कर्णप्रवचनीयसंज्ञा, तया चोपसर्गसंज्ञा बाध्यते, एकसंज्ञाधिकारात् । पञ्‍चमीनिर्देशपक्षेऽपीति । एवं च सर्वथा केवलग्रहणस्य कर्त्तव्यत्वात्क्रमव्यतिक्रमे कार्णाभावात्पूर्वतृतीयाश्रयणेन प्रत्युदाहरणं दर्शितम् ।।
विभाषा चिण्णमुलोः ।। 7 - 1 - 69 ।।
तेनानुपसृष्टास्य विकल्प इति । तथा च वार्त्तिकम् चिण्णमुलोरनुपसर्गस्य इति ।।
उगिदचां सर्वनामस्थानेऽघातोः ।। 7 - 1 - 70 ।।
धातुवर्जितानामिति । नेदमधातोरित्यस्याथप्रदर्शनम् , तस्यान्यपरत्वात् । तस्माद् अञ्चतिग्रहणं नियमार्थम् इति यद्वक्ष्यते, तत्सिद्ध एवायमर्थः प्रदर्शितः । अधातोः इत्यस्य त्वर्थप्रदर्शने उगितामङ्गानामञ्चतेश्चाधातोश्चोहगितो नुम् भवतीति प्रदर्शनीयम् । अञ्चतेश्चेति । अजिति प्रत्यहारग्रहणं तु न भवति नपुंसकस्य झलचः इति पुनरज्ग्रहणात् । तत्र हि प्रत्याहारस्यैव ग्रहणम्, नाञ्चतेः, झलन्तत्वात् । भावनिति । अत्वसन्तस्य च इति दीर्घः । अत्रावयवे कृतं लिङ्गं समुदास्यापि विशेषकं भवतीत्यङ्गस्योगित्त्वम् । प्राङिति । ऋत्विक् इत्यादिना क्विन, सुः, हल्ङ्यादिसंयोगान्तलोपौ, क्विन्प्रत्ययस्य कुः इति कुत्वम् - नकारस्य ङकारः ।
अञ्चतिग्रहणं नियमार्थमिति । न हि अधातोः इति प्रतिषेधादप्राप्ते विध्यर्थमेतद्भवति । एवं ह्यधातोरिति न वक्तव्यम् नियमादेव सिद्धेः । उखास्रदिति । वसुस्रंसु इत्यादिना दत्वम् ।
अधातोरिति किमिति । अञ्चतिग्रहणान्नियमादेव धातोर्न भविष्यतीति प्रश्नः । अधातुभूतपूर्वस्यापीति । यस्य कदाचिदधातुत्वं दृष्टं तस्य सम्प्रति धातुत्वे सत्यपि यथा स्यादित्यर्थः । गोमत्यतेरिति । सुप आत्मनः क्यच्, अवद्यमानः प्रत्ययः - अप्रत्ययः, स पुनः क्विप् । अतो लोपः, क्यस्य विभाषा इति यलोपः, नुम् - गोमान् । कथं पुनरत्र दीर्घत्वम्, यावता अत्वासन्तस्य चाधातोः इत्युच्यते नैष दोषः, अधातोः इति विभज्यते, तत्सामर्थ्यादसन्तस्यैष प्रतिषेधः, नात्वन्तस्य । अत एव तत्र वृत्तौ असन्तस्यैव प्रत्युदाहरणमुपन्यस्तम् ।।
युजेरसमासे ।। 7 - 1 - 71 ।।
युङ्‌, युञ्जौ, युञ्ज इति । पूर्ववत्क्विबादि । अश्वयुगिति । सत्सूद्विष इत्यादिना क्बिप् । एतदेवासमासवचनं ज्ञापकम् - अङ्गाधिकारे तस्य च तदुत्तरपदस्य च ग्रहणं भवति इति ।
युजेरितीकारनिर्देशादिति । नावमिका धातुनिर्देशः, किं तर्हि धातुपाठगतस्येकारस्यानुकरणमिति भावः । युजमिति । सम्पदादित्वाद्भावे क्विप् ।।
नपुंसकस्य झलचः ।। 7 - 1 - 72 ।।
त्रपूणीति । यद्यप्यत्र इकोऽचि विभक्तौ इत्येव नुम्सिद्धः, तथापि अचः, इति प्रत्याहारग्रहणस्यानन्यार्थत्वादनेनैव नुम् भवति । कः पुनरत्र विशेषः - तेन वा नुमि सति, अनेन वा न तु कश्चिद्विशेषः, भ्यायस्तु प्रदर्शितः । यद्येवम्, मा कारि प्रत्याहारग्रहणम्, अकार एव गृह्यताम् - झलत इति कः पुनरेवं लाघवे विशेषः । किञ्चाक्ष प्रत्याहारग्रहणात् उगिदजाम् इत्यत्र अञ्चतेर्ग्रहणम्, न प्रत्याहारस्य इत्युक्तम्, तदपि विघटितं स्यात् ।
बहुपुरीति । बहवः पुरो येषामिति बहुव्रीहौ ऋक्पूर्ब्धूः पथामानक्षे इत्यकारः समासान्तः प्राप्तः, समासान्तविधेरनित्यत्वान्न भवति । विमलाद्यौर्येषु तानि विमलदिवि दिनानि । इह झल्लक्षणस्य नुमोऽवकाशो यदुगिदनुपंसकम् - सर्पीषि, धनूषि, तउगिल्लक्षणस्वावकाशो यदनुगिन्नपुंसकम् - गोमान् , यवमान्, उगितो झलन्तस्य नपुंकस्योभयप्रसङ्गे परत्वादनेनैव नुम् भवति । अस्तु, कृते पुनः प्रसङ्गविज्ञानादुगिल्लक्षणोऽपि नुम् प्राप्नोति, कथं पुनरेकमन्त्यमचमपेक्ष्यानेकस्य परत्वं सम्भवति मा नाम सम्भूत्प्रयोगे, विधानकाले तु सम्भवति, यथा पचतीति लटः शपश्च तत्र तुदन्ती, नुदन्तीत्यत्र परस्थ नकारस्यानुस्वारपरसवर्णयोः कृतयोर्द्वयोर्नकारयोः श्रवणं प्रति विशेषोऽस्ति ।
इह तर्हि - कृषन्ति, रुपन्तीत्यत्र परस्य नुमोऽनुस्वारपरसवर्णयोः कृतयोः पूर्वस्याझल्परत्वादनुस्वारपसवर्णौ न स्त इति अट्‌कुप्वाङ्नुम्व्यवायेऽपि इति णत्वं प्राप्नोति, यदा पुनरेको नुम् तदा तस्यानुस्वारश्च प्राप्नोति णत्वं च, तत्र णत्वस्यासिद्धत्वादनुस्वारे कृते परसवर्णः, तस्यासिध्दत्वाण्णत्वाभावः सिद्धः, तस्मादुगिल्लक्षणस्य प्रतिषेधो वक्तव्यः इत्याशङ्क्याह - उगितो झलन्तस्येति । सकृद्गतिन्यायोऽत्राश्रीयत इत्येवकारेण दर्शयतिः अनेनैवेति ।
अन्त्यात्पूर्व इति । रेफजकारयोर्मध्य इत्यर्थः ।।
इकोऽचि विभक्तौ ।। 7 - 1 - 73 ।।
इक इति किमिति । पूर्वत्र यदज्ग्रहणं तदिहैव कर्त्तव्यम् - नपुंसकस्य झलः, अचोऽचीति तेन तु हलन्तस्य न भविष्यति, सन्ध्यक्षरन्तं तु नपुंसकं नास्त्येवेति प्रश्नः । अत एवादन्तं प्रत्युदाहरति, न हलन्तम् ।
अचीति किमिति । त्रपुभ्यामित्यादौ हलादौ सत्यपि नुमि स्वादिषु इति पदसंज्ञायां सत्याम् नलोपः प्रातिपदिकान्तस्य इति लोपेनैव सिद्धमिष्टमिति प्रश्नः । इतरोऽपि विदिताभिप्राय आह - उत्तरार्थमिति । अस्थिदधिसक्थ्यक्ष्णामनङ्‌ अचि यथा स्यात्, हलादौ अस्थिभ्यामित्यादौ मा भूत् । पुनश्चोदयतियद्येवमिति । परिहरति - इह त्विति । हे त्रपो इति । अत्र प्रागेव गुणान्नुमः प्रसङ्गः , गुणे कृतेऽनिगन्तत्वादप्रसङ्गः । स्यादेतत् - अस्त्वत्र नुम्, स्वमोर्नपुंसकात् इति सोर्लुकि सुबन्तं पदमिति पदसंज्ञायां नलोपो भविष्यतीति तत्राहन ङिसम्बुद्ध्योरिति । ननु चेत्यादि । एवकारो भिन्नक्रमः प्रतिषेधेन सम्बद्ध्यमान औपचारिकमपि विभक्तेरस्तित्वं प्रतिषेधति । द्विविधं विभक्तेरस्तित्वम् - मुख्यम्, औपचारिकं च । तत्र मुख्यं श्रूयमाणायाः, इतरल्लुप्तायाः प्रत्ययलक्षणेन । तदिह लुप्तत्वान्मुख्यं तावन्नास्ति, प्रत्ययलक्षणप्रतिषेधेनौपचारिकमपि नास्त्येव, तत्र विभक्तौ इत्युच्यमानो नुम् कः प्रसङ्गे यत्सर्वथैवासत्यां विभक्तौ स्यात् नैष प्राप्नोति, नार्थोऽज्ग्रहणेन । एतदेवेत्यादि । अन्यथा ह्यज्ग्रहणं न कुर्यात्, कृतं तु, ज्ञापयति - अत्रोगन्ते नपुंसके सम्बुद्धिविषये प्रत्ययलक्षणप्रतिषेधो न भवतीति । तथा चेत्यादिना ज्ञापकस्य प्रयोजनं दर्शयति । सम्बुद्धौ च इति वर्त्तमाने ह्रस्वस्य गुणः इति वहितो गुणः सम्बुद्धिगुणः ।
लौम्बुरवमिति । विकारे ओरञ् ।
इकोऽचीत्यादि । इकः अचीत्युच्यते व्यञ्जनादौ मा भूत् - त्रपुभ्याम्, त्रपुभिः । अस्तु लोपः, अस्त्वत्र नुम् नलोपः प्रातिपदिकान्तस्य इति नलोपो भविष्यति स्वरः कथम् - पञ्चत्रपुभ्याम्, पञ्चत्रपुभिः इगन्ते उत्तरपदे द्विगौ पूर्वपदं प्रकृत्या भवतीत्येष स्वरो न प्राप्नोति नुमि सत्यनिगन्तत्वात् । नलोपेऽपि कृते स्वरविधौ
तस्यासिद्धत्वादनिगन्तत्वादनिगन्तत्वमेव ।
स्वरो वै श्रूयमाणेऽपि लुप्ते किन्न भविष्यतीति । वैशब्दः क्षमायाम् । श्रूयमाणेऽपि वै नकारे स्वरो भवति - पञ्चत्रपुणे, पञ्चत्रपुणः । स लुप्ते किं न भविष्यति, यत्र शास्त्रवशेन सम्भवो न प्रत्यक्षेण, तत्र किं न भविष्यति भविष्यत्येव । किं पुनः कारणं श्रूयमाणेऽपि नुमि स्वरो भवति सङ्घातभक्तोऽसौ नोत्सहते तदुत्तरपदेगन्ततां विहन्तुम् । यदि चान्तरङ्गः स्वराः, प्रागेव विभत्त्युत्पत्तेर्भविष्यति । अत्र तर्हि - अतिराभ्याम्, अतिराभिरिति - अतिरिभ्यामिति स्थिते नुमि कृते तेन व्यवधानाद् रायो हलि इत्याकारो न प्राप्नोति, नलोपेऽपि कृते सुब्विधौ तस्यासिद्धत्वाव्द्यवधानमेव, सङ्घातभक्तो नुम् तमेव न व्यावदध्यात्, रैशब्दं तु व्यवदधात्येव । अथापि अत्र अङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति रैशब्दान्तस्याङ्गत्वविधानान्नास्ति नुमाङ्गस्य व्यवधानम् अथापि निर्दिश्यमानस्यादेशा भवन्ति इति रैशब्दस्य व्यवधानमेव । अथाप्यङ्गस्यात्वम्, एवमपि नुम एवात्वं प्राप्नोति, तत्र पूर्वस्य यणि सति अतिर्याभ्यामिति स्यात् । तथा प्रियतिसृभ्यां ब्राह्मणकुलाभ्यामित्यत्र प्रियत्रिभ्यामिति स्थिते तिसृभावो न स्यात् नुमा व्यवधानात् । नलोपेऽपि कृत इत्यादि पूर्ववत् ।
नैष दोषः, रायात्वं तिसृभावश्च व्यावधानान्नुमा अपि भवतः । व्यवधानादिति कर्मणि ल्यब्लोपे पञ्चमी, नुमा व्यवधानं प्राप्यापि भवत इत्यर्थः । विभक्तिविधानदशायां यदानन्तर्थं तत्तत्राश्रीयते, न त्वादेशविधानदशायामिति भावः । नुमा अपीत्यत्र संहिताया अविवक्षितत्वात्सवर्णदीर्घत्वं न कृतम् । अन्ये मध्ये हि शब्दं पठन्ति । अपिशब्देनैतत्सूचयति - प्रकारान्तरेणाप्यात्वतिसृभावौ सिद्ध्यत इति । तत्कथम् कअतिरिभ्यामिति स्थिते नुभात्वयोरुभयोरप्यनित्ययोः परत्वादात्वमेवं तिसृभावः, तत्र सकृद्‌गतिन्यायाश्रयणेन नुमभावः, सत्यापि वा नुमि न कश्चिद्दोषः एवं तर्हि नुम्नुटोर्विप्रतिषेधार्थमज्ग्रहणं कृतम् । ह्रस्वनद्यापो नुट् इत्यसायावकाशः - अग्नीनां वायूनाम्, नुमोऽवकाशः - त्रपुणे, जतुने, त्रपूणाम्, जतूनामित्यत्रोभयप्रसङ्गे पूर्वविप्रतिषेधेन नुडिष्यते । नामि इति दीर्घो यथा स्याद् इति । स च विप्रतिषेधोऽज्ग्रहणे सत्युपपद्यते द्वयोरप्यनित्यत्वेन तुल्यबलत्वात् । असति हि त्वज्ग्रहणे कृताकृतप्रसङ्गित्वान्नित्यत्वान्नुमेव स्यात् ।
एतदपि प्रयोजनं दूषयति -नुङ्‌ वाच्य इति । क्रियमाणेऽप्यज्ग्रहणे नुट् तत्र वाच्यः - वचनेनैव साध्यः, अन्यथा परत्वान्नुमेव स्यात् । ततश्चाज्ग्रहणं कर्त्तव्यम्, पूर्वविप्रतिषेधश्च वक्तव्यः - इति यत्नद्वयमाश्रयणीयम् । तत्राज्ग्रहणमकृत्वा एक एव नुडर्थो यत्नः कर्त्तव्य इत्यर्थः ।
इदं तर्हि प्रयोजनम् - तेनैव यत्नेन नुटि तत्रैवानजादौ नुम् मा भूत् अस्तु, लोपो भविष्यति, नलोपस्यासिद्धत्वादनजन्तत्वात् नामि इति दीर्घत्वं न स्यात् । मा भूदेवम्, नोपधायाः इत्येवं भविष्यति इह तर्हि शुचीनाम् , इन्हन्पूषार्यम्णां शौ, सौ च इति नियमाद्दीर्घत्वं न स्यात्, प्रतिपदोक्तस्येनस्तत्र ग्रहणम्, लाक्षणिकश्चायम् । एवं प्रत्याख्यातेऽज्ग्रहणे प्रयोजनमाह - उत्तरार्थं त्विति । तुशब्दः तर्ह्यर्थे । यद्युत्तरत्रास्य प्रयोजनं तर्हि तत्रैव कर्त्तव्यमा अत आह - इह किञ्चिदिति । तुशब्दस्य यण् न कृतः इकोऽसवर्णे शाकल्यस्य इति प्रकृतिभावविधानात् । त्रपो इति । अत्र तु सम्बुद्धौ शाकल्यस्येतावनार्षे इति प्रगृह्यत्वादवादेशाभावः ।
केचिदत्र हे त्रपो, हे त्रपु - इति द्वैरुप्यमिच्छन्ति, प्रत्ययलक्षणप्रतिषेधस्यानित्यत्वं ज्ञाप्यते, न त्वस्मिन्विषये सर्वथैवाभाव इति वदन्ति । तथा च भाष्ये हे त्रपु, हे त्रपो इति द्वयमप्युदाहृतम् । अन्ये तु हे त्रप्विति प्राप्ते हि त्रपो इति भवतीति भाष्यं व्याचक्षणाा नित्यमेव गुणमिच्छन्ति । तथा च वृत्तौ गुण एवोदाहृतः ।.
तृतीयादिषु भाषितपुंस्कं पुंवद् गालवस्य ।। 7 - 1 - 74 ।।
नपुंसकस्य इति यत्षष्ठ्यन्तं प्रकृतं तदिह भाषितपुंस्कम् इत्यनेन सम्बन्धात्प्रथमान्तं सम्पद्यते । पुंवदिति । पुंशब्देन तुल्यमित्यर्थः । केन पुनः प्रकारेण पुंशब्देन तुल्यं वर्त्तते इत्यपेक्षायामाह - यथेति । नुम्ह्रस्वयोरभावः पुंशब्देन दृष्टः, तद्‌द्वारेण यत्सादृश्यं तदिहातिदिश्यते, अन्यस्य कस्यचित्तृतीयादिशु पुंशब्देन सादृश्यस्यासम्भावत् । तेनार्थान्नुम्ह्रस्वयोः प्रतिषेधोऽयं सम्पद्यते । नन्वेवमपि प्रकृतत्वान्नुम एवाभावातिदेशो युक्तः , न ह्रस्वस्य, ततश्च ह्रस्वस्यावस्थितत्वात्तदाश्रयाणां गुणनाभावनुडौत्त्वात्त्वनां प्रतिषेधो वक्तव्यः । गुणः - घेर्ङिति, ग्रामण्ये कुलानाम् औत्वम् - औत्, अच्च घेः, ग्रामण्यां ब्राह्मणकुले नैष दोषः, अतिदेशसामर्थ्याद्
ह्रस्वाभावोऽप्यतिदिश्यते, अन्यथा प्रतिषेधमेव गालवस्य विदध्यात् । ग्रामणीर्ब्राह्मण इति । भाषितपुंस्कप्रदर्शनमेत् । ग्रामणि ब्राह्मणकुलमिति । नपुंसकह्रस्वत्वं भवति, अतस्तदभावोऽतिदिश्यत इत्यनेन दर्शितम् । परिशिष्टमुदाहरणं शुचि ब्राह्मणकुलमिति प्रक्रमाभेदाय दर्शितम् । प्रत्युदाहरणेषु यथायोगं नित्यमेव मुम्ह्रस्वौ भवतः ।
पीलु फलमिति । विकारे ओरञः फले लुक् । समानायामाकृताविति । अस्यैव विवरणम् - तुल्ये प्रवृत्तिनिमित्त इति । यद्योगाद् द्रव्ये शब्दनिवेशः, तत्प्रवृत्तिनिमित्तं ग्रामनयनादि । अस्त्वेवम्, प्रकृते किमायातम् तत्राह - इह त्विति । पुंसशब्ददस्य या प्रवूत्तिस्तत्र वृक्षाकृतिः वृक्षावान्तरजातिर्निमित्तमित्यर्थः । फलाकृतिनैपुंसक इति । प्रवृत्तिनिमित्तशब्दस्येत्यनुषङ्गः । फलाकृतिः - फलावान्तरजातिः । तत्र यद्यपि पीलोः फलमिति व्युत्पत्तौ वृक्षावान्तरजातिरप्यङगीकृता, तथापि न सा फले प्रवृत्तिनिमित्तम्, किं तर्हि फलावान्तरजातिरेवेति भिद्यते निमित्तम् । तदेतदेवमित्यादि स्त्रियाः पुंवत् इत्यत्रैतव्द्याख्यातम्, तत एवावधार्यम् ।
कीलालपेनेति । ह्रस्वस्य निवृत्तौ आतोः धातोः इति लोपः स्यात् ।.
अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः ।। 7 - 1 - 75 ।।
अनङो द्वितीयोऽकार उच्चारणार्थः, ङकारोऽन्तादेशार्थः, अस्थ्यादयः नब्विषयस्यानिसन्तस्य इत्याद्युदात्तः, शेषमनुदात्तम् । तत्रान्तर्यतोऽनुदात्त आदेशे प्राप्ते उदात्तवचनमस्थ्नेत्यादौ अल्लोपोऽनः इत्यकारलोपे अनुदात्तस्य च यत्रोदात्तलोपः इति विभक्तेरुदात्तत्वार्थम् । विभाषा ङिश्योः इत्यल्लोपाभावपक्षे त्वकारस्य उदात्तस्य श्रवणं भवति - अस्थनीति, यथा छन्दस्यपि दृश्यते इत्यत्र - इन्द्रो दधीचो अस्थमिरिति ।
एतैरस्थ्यादिभिरित्यादि । अत्र अङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति तदन्तस्य तावद्‌ ग्रहणं भवति । तथा नुपंसकस्य इत्यनुवृत्तं श्रुतत्वादस्थ्यादीनां विशेषणम्, न प्रकृतस्याङ्गस्य, तेनानपुंसकस्यापि तस्य ग्रहणम् । किमर्थं पुनरस्थ्यादयो नपुंसकत्वेन विशेष्यन्ते यदृच्छाशब्दानां पुंल्लिङ्गानां मा भूत् - दधिर्नाम कश्चित्, तेन दधिनेति । नैतदस्ति प्रयोजनम् -
अभिव्यक्तपदार्था ये स्वतन्त्रा लोपविश्रुताः ।
शास्त्रार्थस्तेषु कर्त्तव्यः शब्देषु न तदुक्तिषु ।।
एवं तर्हि, नपुंसकस्य इत्यनुवृत्तस्यान्वयप्रदर्शनमात्रं कृतम् - एतैरस्थ्यादिभिर्नपुंसकैरिति ।।
छन्दस्यपि दृश्यते ।। 7 - 1 - 76 ।।
छन्दसि इत्येव सिद्धे अपि दृश्यते इत्येतत्सर्वोपाधिव्यभिचारार्थम् अन्यथारम्भसामर्थ्यात्कस्यचिदेव व्यभिचारः शङ्क्येत । तदिदमुक्तम् - यत्र विहितस्ततोऽन्यत्रापि दृश्यत इति । अस्थन्वन्तमिति । अनङि कृते अनोनुट् इति मतुपो नुट्, अनङो नकारस्य लोपः ।।
ई च द्विवचने ।। 7 - 1 - 77 ।।
अक्षी इति । अक्षि - औ इति स्थिते औङः शीभावः, पूर्वस्य इकारः, तत्र प्रथमयोः पूर्वसवर्णः इति दीर्घस्य दीर्घाज्जसि च इति नित्ये प्रतिषेधे प्राप्ते वा छन्दसि इति पक्षे पूर्वसवर्णदीर्घत्वम् । अकः सवर्णेदीर्घः इति वा दीर्घत्वम् । ननु चासत्यप्यस्मिन्वचने पूर्वसवर्णदीर्घत्वेनैव सिद्धम् नात्र पूर्वसवर्णदीर्घत्वम् प्राप्नोति, परत्वान्नुमा बाध्यते । एवं तर्हि छन्दसि नपुंसकस्य पुंवद्भावो वक्तव्यः - मधोस्तृप्ता इवासते - इत्येवमाद्यर्थम्, तेन पुंवद्भावेन नुमि शीभावे चासति पूर्वसवर्णदीर्घत्वनापि सिद्धम् - अक्षी इति सत्यम् स्वरस्तु न सिध्यति, अक्षिशब्दस्य नब्विषयस्यानिसन्तस्य इत्याद्युदात्तत्वात् । न च पुंवद्भावेन स्वरस्याप्यभावातिदेश इष्यते । तस्मात्स्वरार्थमात्रापीकार एव विधेयः ।।
नाभ्यस्ताच्छतुः ।। 7 - 1 - 78 ।।
दददिति । श्नाभ्यस्तयोरातः इत्यकारलोपः । जक्षदित्यादौ जक्षित्यादयः षट् इत्यभ्यस्तसंज्ञा । कथं पुनश्चतुर्भिर्योगैर्व्यवहितस्य नुमः प्रतिषेधः शक्यो विज्ञातुम् इत्याह - शतुरन्तरो न विहित इति । अनन्तर ईकारः शत्रन्तस्य न विहितः, एवं तदनन्तर इति यावद्विहितान्वेषणे नुमि पर्यवसानम् ।।
आच्छीनद्योर्नुम् ।। 7 - 1 - 80 ।।
अवर्णान्तादङ्गादुत्तरस्य शतुरिति । सूत्राक्षरैस्तावदयमेवार्थः प्रतीयते इत्येवं व्याख्यातम्, न पुनरयं व्यवस्थितः सूत्रार्थः, दूषणस्य वक्ष्यमाणत्वात् । तस्मान्नाप्रदर्शितविषयं दूषणं शक्यं वक्तुमिति विषयप्रदर्शनपरमिदं द्रष्टव्यम् । याती कुले इति । नपुंसकाच्च इत्यौङः शीभावः । याती ब्राह्मणीति । उगितश्च इति ङीप् । करिष्यतीति । लृट्, लृटः सद्वा, ऋद्वनोः स्ये इतीट् ।
अत्रेत्यादि चोद्यम् । अन्तरङ्गत्वं पुनरेकादेशस्य शतृमात्रापेक्षत्वात् । नुमस्तु बहिङ्गत्वम् शीनद्युत्पत्त्यपेक्षत्वात् । व्यपवर्गः - भेदः - इदमवर्णान्तमङ्गम्, अयं शतृग्रत्यय इत्येवंरुपः । स एकादेशे कृते नास्ति, क्षीरोदकवत् । तद्यथा - क्षीरोदके संयुक्ते न ज्ञायेते - इदं क्षीरमिदमुदकम्, अमुष्मिन्नवकाशे क्षीरममुष्मिन्नवकाशे उदकमिति ।
अवर्णान्तादङ्गादुत्तरस्य शतुरिति न युज्यते वक्तुमिति । यथा पूर्वमवोचस्तथा न युज्यत इत्यर्थः । तथा हि सर्वत्रैवावर्णस्य निवृत्त्या भवितव्यम्, क्वचिल्लुका - अदती, ध्नतीति, क्वचिच्छ्‌लुना - जुह्वतीति, तुदतीत्यादावेकादेशेन, लुनतीत्यादौ श्नाभ्यस्तयोरातः इत्याकारलोपेन । स्यादेतते - एकादेशविषेयेऽन्तादिवद्भावेन व्यापवर्गो भविष्यतीति तत्राह - उभयत आश्रय इति । यत्र च पूर्व परं चोभयं युगपदाश्रीयते न तत्रान्तादिवद्भावोऽस्तीति, यथा उपसर्गाद्‌ध्रस्वः ऊहते, प्रोहते एतेर्लिङि अभीयादिति । इहाप्यवर्णान्तमङ्गं शता चेत्युभयं युगपदाश्रीयते, इति नास्त्यन्तादिवद्भावः । एतर्ह्यच्यते चेदमवर्णान्तादङ्गादुत्तरस्य शतुरिति, न च सम्प्रत्येवंविधः शता क्वचित्सम्भवति, तत्र भूतपूर्वगतिराश्रयिष्यते - पूर्वं यः शता क्वचित्सम्भवति, तत्र भूतपूर्वगतिराश्रयिष्यते - पूर्वं यः शता अवर्णान्तादङ्गादुत्तर आसीदिति तत्राहभूतपूर्वगत्याश्रयणे वेति । समाधिः - समाधानम्, परिहारः । अवर्णान्ताच्छब्दादिति । अङ्गादिति द्रष्टव्यम्, अन्यथा ददतीत्यादावपि प्रसङ्गात् । भवति ह्यत्रापि शत्रवयवादकारत्परस्तकारः । कथं पुनरवर्णान्तस्याङ्गत्वम् एकादेशस्यान्तवद्भावात् । न हीदानीं परम्प्रत्यादिषत्वं विवक्षितम् तकारस्य स्वयमेव सत्रवयवत्वात् । एवं तेन तकारेण पुनरङ्गस्य तदन्तविधिः, अङ्गस्य इत्येतदत्रावर्त्यते ।
अपरे पुनरिति । अत्रापि पक्षे युगपदुभयं नाश्रीयते, किन्तु क्रमेणेत्यस्त्यन्तादिवद्भावः । ननु च तुदन्तीत्यादावन्तादिवद्भावादवर्णान्तमङ्गं भवतुः तथापि न ततः परे शीनद्यौ, तकारेण व्यवधानात् इत्यत आह - तत्रेति । प्रकृतो नुम् प्रतिषेधेन सम्बद्ध इति तदनुवतत्ताविहापि प्रतिषेध एव विकल्पेन, शीनद्योर्वा नुम् न भवति अवर्णान्तादिति, केन पुनः प्रसङ्ग इदमेव ज्ञापकं स्यात् - अस्ति शीनद्योर्नुमिति, ततश्च कुर्वतीत्यादावनवर्णान्तन्नित्यं नुमः प्रसङ्गः, मैवं विज्ञायीति नुम्ग्रहणम् ।।
शप्श्यनोर्नित्यम् ।। 7 - 1 -81 ।।
इत्येतयोः शतुरिति । एतयोः सम्बनधी यः शता तस्येत्यर्थः, म्बन्धश्च निमित्तनिमित्तिभावः । क्वचित्तु सम्बन्धिन इति पठ्यते । नित्यग्रहणमिति । ननु चारम्भसामर्थ्यादेव नित्यं भविष्यति तत्राह - इहेति ।।
सावनडुहः ।। 7 - 1 - 82 ।।
इह चतुरनडुहोरामुदात्तः इत्यामागमः सर्वनामस्थानमात्रे विधीयमानः सोरन्यत्र सावकाशो निरवकाशेन नुमा बाध्येत, तथा सम्बुद्धेरन्यत्र सौ सावकाशो नुम् सम्बुद्धौ विशेषविहितेन अम् सम्बुद्धौ इत्यनेन बाध्येत इत्याशङ्क्याह - अत्र केचिदित्यादि । कथं पुनरादित्यास्यानुवृत्तौ सत्यामप्याममोः कृतयोर्नुम भवति, न पुनर्थ एवानडुहि नित्यः सन्निहितोऽकारस्तत एव परः स्यात् उच्यते एवं सति मिदचोऽन्त्यात्परः इति परिभाषा बाध्यते, तत्राबाधेनोपपत्तौ सत्यां बाधो न न्याय्यः । तत्र यथा परिभाषा न बाध्यते आदित्यनुवृत्तिश्च सार्थिका भवति, तथा वक्तव्यम् । यदि चाममोरकृतयोर्नुम् स्यात्, नेदमुभयमनुगृहीतं स्यादिति कृतयोरेव तयोर्नुम् भवि,्यति । आमामौ च न बाध्येते इति । न केवलममेव न बाध्यते, अपि त्वाममावुभावपि न बाध्येते इत्यर्थः । अमत्र दृष्टान्तत्वेनोपात्तः । यथाऽम् न बाध्यते तथा आमिति भावः । न पुनरमो नुमा बाधशङ्का, अमो विशेषविहितत्वात् । आमम्भ्यां च नुमितित । न बाध्यते इति वचनविपरिणामेनानुषङ्गः । अत्रापि यथा आमा न बाध्यते तथाऽमापीत्यर्थः । न पुनरामा नुमो वाधशङ्का तस्य सामान्यत्वात् । अपरे त्वित्यादि । इच्छन्ति
इति वचनादिष्टिरेवेयमिति केचित् । अन्ये त्वाहुः - भवतु वा सामान्यविशेषयोः सन्निधौ बाध्यबाधकभावः, इह त्वनेकेन योगेन व्यवधानम्, असति हि सम्भवे बाधनं भवति, तथइह च अस्ति सम्भवो यदुभयं स्यादित्याममोर्नुमश्च समावेश इति । यथेति । अक्ष नाप्राप्ते द्विवर्चने दीर्घ आरभ्यते । अथ च सम्भावात्प्रकरणभेदाच्च समावेशः । बह्वनड्‌वांहि ब्राह्मकुलानीति परत्वादामि कृते पुनः प्रसङ्गविज्ञानात् नपुंसकस्य झलचः इति नुम् भवति ।।
दृक्स्ववस्स्वतवसां छन्दसि ।। 7 - 1 - 83 ।।
ईदृङित्यादौ त्यदादिषु दृशोऽनालोचने कञ्च इति क्विनि नुमि च कृते पूर्ववत्कुत्वम् ।।
दिव औत् ।। 7 - 1 - 84 ।।
धातोः प्रतिषेधो वक्तव्यः - अक्षद्यूरिति, एकदेशविकृतस्यानन्यत्वादूठि कृते दिवशब्द एवायमिति प्रसङ्ग इति अधात्वधिकारात्सिद्धम्, अधातोः इत्यनुवर्त्तते, क्व प्रकृतम् उग्िदचां सर्वनामस्थानेऽघातोः इति ।यदि तदनुवर्तेत, नपुंसकस्य झलचः इत्यत्रापि सम्बध्येत, ततश्च काष्टतङ्‌क्षि ब्राह्मणकुलानीत्यत्र न स्यात् । तस्मादशक्यं तदनुवर्त्तयितुम् ततश्च धातोः प्रतिषेधो वक्तव्य एव इत्याशङ्क्याह - दिविति प्रातिपदिकमित्यादि ।।
पथिमथ्यृभुक्षामात् ।। 7 - 1 - 85 ।।
पन्था इति । इतोऽत्सर्वनामस्थाने इतीकारस्याकारः, सवर्णदीर्घत्वम्, थो न्थः । अनुनासिकस्य नकारस्यान्तर्यतोऽनुनासिक आकारः कस्मान्न भवति इत्याशङ्क्याह - स्थानिन्यनुनासिकेऽपीति । अक्ष कारणमाह - भाव्यमानेनेति । केचिद्भाव्यमानोऽण् सवर्णान्न गृह्यति इति पठन्ति, तेषाम्प्यण्ग्रहणं ग्राहकोपलक्षणार्थम्, तेनाकारोऽपि भाव्यमानो ग्राहको न भवति । तपरस्तत्कालस्य इत्यनेन तु ग्रहणशङ्का, उक्तं हि तत्र - अनणि विध्यर्थमेतदिति । स्यादेतत् - मा भूत्सवर्णाग्रहणम्, अनुनासिकस्यैव तु सूत्रे उच्चारणात्स एव स्यात् इत्यत आह - शूद्धो ह्ययमिति । अकारविधाने अतो गुणे परुपं स्यात् । अकारविधानं तु नकारनिवृत्त्यर्थ स्यात् लोपविधौ गौरवप्रसङ्गात् । तस्मादाकर एव विहितः ।।
इतोऽत्सर्वनामस्थाने ।। 7 - 1 - 86 ।।
अद्वचनं किमर्थम्, ह्रस्वस्य श्रवण् यथा स्यात् नैतदस्ति सै तावदकः सवर्णदीर्घत्वं भवति, अन्यत्रापि नोपषायाः, सर्वनामस्थाने इति दीर्घेण भाव्यम्, तस्मात्प्रकृत आकार एव विधेयः अत आह - आदिति वर्त्तमान इति । यत्रायं विहितोऽकारः षपूर्वो भवति तत्रास्य प्रयोजनमित्यर्थः । तदेव दर्शयति - ऋभुक्षणमित्यत्रेति । अकारविधौ त्वेकमेव रुपं स्याद् । दीर्घविकल्पस्तु तक्षणाम्, तक्षाणामित्याद्यर्थ स्यात् । स्थानिन्यादेशे च तपरकरणं मुखसुखार्थम् ।।
थो न्थः ।। 7 - 1 - 87 ।।
पथिमथोरिति । त्रयाणां प्रकृतत्वेऽप्येतयोरेव थकारसम्भवात् सम्बन्धः । आदेशेऽकार उच्चारणार्थः । स्यादेतत् - थेरन्थः इति सूत्रमस्तु, अकारोऽपि विवक्षितोऽस्तु ,थिशब्दस्यान्थ आदेशः एवं च कृत्वा इतोऽत् इति न वक्तव्यम् इति तदपि वक्तव्यम् ऋभुक्षिन्शब्दार्थम् ।।
भस्य टेर्लोपः ।। 7 - 1 - 88 ।।
पथ्यादीति । प्रत्येकमभिसम्बन्धाद् भस्य इत्येकवचनम् । विरोधादिति ।। सर्वनामस्थाने भसंज्ञाया अभावो विरोधः । इह न सम्बद्ध्यत इति । उत्तरार्थं त्वनुवर्त्तत एवेति भावः ।।
पुंसोऽसुङ्‌ ।। 7 - 1 - 89 ।।
असुङो ङकारोऽन्तादेशार्थः । उकार उच्चारणार्थः । पुमानिति । पुंस्शब्दस्योगित्त्वान्नुम्, स हि पुञो डुमसुन् इति व्युत्पाद्यते । डकारष्टिलोपार्थः उकार उगित्कार्यर्थः - बहुपुंसीति ङीब् उगिल्लक्षणो भवति । नकारः स्वरार्थः । मकारेऽकार उच्चारणार्थः ।
इहेत्यादि । चोद्यम् । प्रागेव च प्रत्ययोत्पत्तेरिति । प्रत्ययः, सर्वनामस्थानम् । समासान्तोदात्तत्वमिति । पुंस्शब्दोकारस्य । अनिष्टः स्वर इति । स्रंसनधर्मणः सकारस्य हलः स्थाने तद्धर्माऽनुदात्त आदेशः स्यादित्यर्थः
। ननु चोकारस्यकृतमपि समासान्तोदात्तत्वमसुङि कृतेऽनन्त्यत्वान्निवर्त्तिष्यते, असुङश्चान्त्यत्वात्प्रवर्त्तिष्यते नैतदस्ति, थअन्तरङे स्वरे कर्त्तव्ये बहिरङ्गस्यासुङोऽसिद्धत्वात्, प्रवृत्तस्य निवर्त्तनायोगाच्च । तदर्थमित्यादि । परिहारः । अर्थशब्दो निवृत्तवचनः, तस्यानिष्टस्वरस्य निवृत्त्यर्थमित्यर्थः । उपदेशिवद्वचनमिति । उपदेशोऽस्यास्तीत्युपदेशी, सकारः, स यथोपदेशावस्थायां सन्निहितस्तयाऽसुङपीत्यर्थः । सर्वनामस्थाने कइति विषयसप्तम्याश्रयणीयेत्युक्तं भवतीति, तत्र समासानन्तरमेव परत्वादसुङि कृते पश्चादुदात्तत्वं भवदसुङ एवाकारस्य भवतीति सिद्धमिष्टम् । यद्यवम्, पुमानित्यादावसमासेऽपि उपदेशावस्थायामसुङि कृते प्रतिपदिकस्वरो भवन्नसुङ एव स्यात् इत्यत आह - पुमानित्ययं पुनरिति । पुंस्शब्दे प्रत्ययो निदित्युक्तम्, तत्सामर्थ्यादाद्युदात्तत्वम् ।।
गोता णित् ।। 7 - 1 - 90 ।।
गाङ्‌कुटादिसूत्रे यावन्तः पक्षाः, इहापि तावन्त एव, त थएव गुणा दोषश्च, तद्वदेव चातिदेशपक्ष आश्रीयते, यदाह - णिद्भवतीति । परत्र परशब्दः प्रयुक्तोऽन्तरेणापि वतिं वत्यर्थं गमयति, यथा - सिंहो माणवक िति । णिदित्यनेन सामानाधिकरण्यात् सर्वनामस्थाने इति सप्तम्यन्तं प्रथमया विपरिणम्यते, तत्र सर्वनामस्थानस्य णित्यार्यं विधेयं न सम्भवतीति णिति यत्कार्यं तत्सर्वनामस्थाने पूर्वस्यातिदिश्यते । तदाह - णित्कार्याणि तत्र भवन्तीत्यर्थ इति ।
चित्रगुरिति । बहुव्रीहौ गोस्ज्ञियोरुपसर्जनस्य इति ह्रस्वत्वम् । अत्रासति तपरकरणेऽङ्गाधिकारे तदन्तविधेरभ्युपगमात् सर्वे सर्वपदादेशाः इति न्यायेन स्थानिवद्भावेन गोशब्दान्तत्वात् णिद्वद्भावः प्राप्नोति । तपरकरणे तु तत्कालार्थे सति न भवति भिन्नकालत्वात्, तपरस्तत्कालस्य इत्यत्राणित्यस्य निवृत्तत्वाद नणोऽपि तत्कालनियमो भवतीति मन्यते ।
कथमिति । ह्रस्वस्य गुणः जसि च इति गुणे कृते सत्यपि तकारे स्थानिवत्त्वात् तत्कालत्वाण्णित्त्वं प्राप्नोत्येवेति प्रश्नः । न च स्थानिवद्भावविषये लक्षणप्रतिपदोक्तपरिभाषा तस्य वैयर्थ्यप्रसङ्गात् । अङ्गवृत्ते इत्यादि परिहारः । णित्त्वं न भवतीति । णित्कार्यं न भवतीत्यर्थः ।
भवतु सम्बुद्धावेष परिहारः, जसि त्ववादेशामन्तरेणानिष्ठीतत्वादङ्गस्य नायं परिहारः इत्याशङ्क्याह - अथ वेति । यच्चेत्यादिनार्थद्वारकं विशेषसम्बन्धमाह । आनन्तर्यलक्षणे तु सम्बन्धे चित्रगुशब्दादपि प्रसङ्गे यदि, तर्ह्यर्थद्वारकसम्बन्धाश्रयणादेव चित्रगुशब्देऽप्रसङ्गः, किमर्थं तपरकरणम् इत्याह - तपरकरणं तु निर्देशार्थमेवेति । स्पष्टनिर्देशार्थमेवेत्यर्थः । इतरथा गोः इत्युच्यमाने गुशब्दस्यापि निर्देशः सम्भाव्येत ।
केचिदित्यादि । एवं पाठे प्रयोजनमाह - द्योशब्दादपीति । ये तर्ह्येवं न पठन्ति तेषां कथं द्योशब्दे णिद्वद्भावः इत्यत आह - गोत ित्येतदेवेति । कथं पुनरेदोकारान्तोपलक्षणं द्रष्टं शक्यम् इत्यत आह - वर्णनिर्द्देश एव तपरत्वं दृष्टम्, तस्मात्तपरकरणादिह ओकारान्तोपलक्षणं विज्ञायते ।।
णलुत्तमो वा ।। 7 - 1 - 91 ।।
णित्कार्यं वा तत्र भवतीत्यर्थं इति । एतेन पक्षे णित्कर्यस्याभावाद्वा णिद्ववतीत्त्युच्यते, न तु पक्षे णकारस्येत्संज्ञाप्रतिषेधादिति दर्शयति । एतच्च पूर्वत्र कार्यातिदेशाल्लभ्यते । चकारेति । णित्त्वपक्षे वृद्धिः, अन्यदा तदभावः ।।
सख्युरसम्बुद्धौ ।। 7 - 1 - 92 ।।
अत्रापि णिदित्यनेन सामानाधिकरण्यात् सर्वनामस्थाने इति प्रथमान्तम् । तत्रोत्तरार्थम् असम्बुद्धौ िति सप्तम्यन्तस्योपात्तस्य यथेहान्वयः, तथा दर्शयति - असम्बुद्धौ यः सखिशब्द इति ।
अनङ् सौ ।। 7 - 1 - 93 ।।
सर्वनामस्थानप्रकरणात्सम्बुद्धिपर्युदासाच्च सौ इति प्रथमैकवचनस्य ग्रहणम्, न सप्तमीबहुवचनस्य, आकारविधाने सोर्हल्ङ्यादिलोपो न स्यात् एवं तर्हि सोर्ङादेशो विधीयताम्, तएवं सिद्धे यदनङं शास्ति तज्ज्ञापयति - अनङ एव क्वचिच्छ्रवणमस्तीति । तेन यद्वक्ष्यति - सम्बुद्धावपि पक्षेऽनाङिष्यते इति, तदुपपन्नं भवति ।।
ऋदुशनस्पुरुदंसोऽनेहसां च ।। 7 - 1 - 94 ।।
सम्बुद्धावपि पक्षेऽनङिष्यते तइति यदुक्तं तदाप्तगमेन द्रढयति - तथा चोक्तमिति । सम्बोधने - सम्बुद्धौ, त्रयाणां रुपाणां समाहारस्त्रिरुपम्, पात्रादिः ।
कानि पुनस्तानि रुपाणि इत्यत आह - सान्तमित्यादि । सान्तमनङोऽभावपक्षे, नान्तं नलोपाभावपक्षे, तअदन्तं नलोपपक्षे, मध्यन्दिनस्यापत्यं माध्यन्दिनिः - आचार्यः, वष्टि इच्छति । भाषायामस्य साधुत्वं चिन्त्यमिति जक्षित्यादयः षट् इत्यत्रावोचाम । तथा व्याध्रपदां व्याध्रपादपत्यानां मध्ये वरिष्ठो वैयाघ्रपद्यआचार्यः नपुंसके नपुंसकसम्बन्धिनि, इगन्ते हे त्रपो इत्यादौ, गुणं षष्टीति श्लोकस्यार्थः ।।
तृज्वत्क्रोष्टः ।। 7 - 1 - 95 ।।
क्रोष्टुशब्दस्तुन्प्रत्ययान्त इति । क्रुश आह्वाने, सितनिगमिमसिसच्यविधाञ्कुशिभ्यस्तुन् । संज्ञाशब्द इति । तुन्प्रत्ययस्य संज्ञार्थे विधानात् । जम्बुकस्य चेयं संज्ञा । वस्तुस्वरुपकथनमेतत् । अत्रानन्तरं तस्येति पठितव्यम् क्रोष्टुरिति सूत्रे षष्ठीनिर्देशात् । तृज्वद्बवतीति । तृच इव तृज्वत् । तत्र तस्येव इति षष्ठीसमर्थाद्वतिः । तदेत्सर्वमुत्तरग्रन्थे स्पष्टीकृतम् । तृजन्तस्य यद्रूपं तदस्य भवतीति । प्रत्ययग्रहणपरिभाषया तृजन्तस्येति लभ्यते ।
अतिदेशोऽनेकप्रकारः - निमित्त व्यापदेश - तादात्म्य - शास्त्र - कार्य - स्वरुपविषयः । तत्रेहादितस्त्रयाणामसम्भावादनतिदेशः, शास्त्रकार्यातिदेशयोश्चायं विशेषः । शास्त्रातिदेशे तेनतेन शास्त्रेण कार्याणि भवन्ति, कार्यातिदेशे त्वतिदेशवाक्येनैवेति तत्र विप्रतिषेधे फलविशेषः । तद्यथा - कर्मवत्कर्मणा इत्यत्र शास्त्रातिदेशे कर्मकर्तरि भावकर्मणोः इत्येतद्वाधित्वा स्वाश्रयं कर्तुत्वमाश्रित्य शेषात्कर्त्तरि परस्मैपदप्रसङ्गः, कार्यातिदेशे त्वात्मनेपदमेव परत्वाद्भवतीति । इह तु नैवं विशेषः सम्भवतीति तयोरभेदमाश्रित्य विचारः प्रवत्तिंतो महाभाष्ये - किं पुनरयं शास्त्रातिदेशः आहोस्विद्रूपातिदेश इति तत्र शास्त्रस्य शास्त्रं प्रत्यासन्नमिति शास्त्रातिदेशः आहोस्विद्रूपातिदेश इति तत्र शास्त्रस्य शास्त्रं प्रत्यासन्नमिति शास्त्रातिदेशः प्राप्नोति, प्राधान्यात्त्ु रुपातिदेशप्रसङ्गस्तदर्थत्वादतिदेशान्तरणाम् । तत्राद्ये पक्षे आहत्य तृचि यच्छास्त्रं तद्वातिदिश्यते अनाहत्य वा यदि तृच्छब्दवच्छास्त्रमतिदिश्यते तत आहत्येति पक्षः, तअथ तृच्छब्दे ऋकार एव विवक्षितः, चकारः स्वरार्थः, तकारस्त्वप्रसिद्धाशङ्कानिवृत्त्यर्थः ऋज्वत् इत्युच्यमाने अप्रसिद्धाश्रयोऽतिदेशः शङ्क्यत, ऋक्प्) इत्यक्शब्दनिबन्धनस्य वा समासान्तस्यातिदेशः शङ्क्येत, तस्मात्तजन्ते यदृकारप्रयुक्तं शास्त्रं कार्यं वा तदतिदेशेनाहत्येति पक्षः । तत्राहत्येति पक्षे अप्तृन्तृच् इति दीर्घत्वमेकमतिदिष्टं स्यादनङ्गुणरपरत्वान्यनतिदिष्टानि - अनङ्‌ ऋदुशनस्पुरुदं सोऽनेहसां च, ऋतो ङिसर्वनामस्थानयोः, उरण् रपरः इति, नह्येतानि तृच्संशब्दनेन विधीयन्ते । ननु च दीर्घत्वेऽतिदिष्टेऽनङादीन्यप्यतिदिष्टान्येव भवन्ति, कथम् दीर्घविधौ उपधायाः इति वर्त्तते, अचश्च इति चोपतिष्ठते, ततश्च तृजन्तस्येव तुन्नन्तस्यापि दीर्घो भवतीत्युक्ते - थउपधाया अचो दीर्घो भवतीत्युक्तं भवति, न चाकृतेष्वनङादिषु तुन्नन्तस्योपधा दीर्घभाविनी सम्भवति । जसि गुणावादेशयोः सम्भवतीति चेत् न ह्येकमुदाहरणं योगारम्भं प्रयोजयति, यद्येतावत्प्रयोजनं स्यात्, अंप्तृन् इत्यत्रैव क्रोष्टुग्रहणं कुर्यात् । नन्वेवम् स्त्रियां च, विभाषा तृतीयादिष्वचि इत्येवमर्थं पुनः तृजावतक्रोष्टुः इति वक्तव्यं स्यादिति गौरवं स्यात् स्यादेतत् अचि र ऋतः इत्यस्यानन्तरम् क्रोष्टुः स्त्रियाम् विभाषा तृतीयादिष्वचि इति रादेशार्थं वक्ष्यामीति नास्ति गौरवमिति । एवमपि क्रोष्टुः, क्रोष्टरि, पञ्चक्रोष्टुभी रथैरिति न सिद्ध्यति, नापि उदात्तयणो हल्पूर्वात् इति स्वरः, तुन्नन्तस्याद्युदात्तत्वात्तदेवं जसि दीर्घातिदेशेऽपि नातिदेशाश्रणं व्यर्थमिति न तत्सामर्थ्यादनङादीनामाक्षेपतः सिद्धिः - इत्याहत्यपक्षो दुष्ट एव ।
अथानाहत्यपक्षः, अनङादीन्यतिदिष्टानि दीर्घत्वमनतिदिष्टम्, न हि तदृत इत्येवं विधीयते । अथ तृजीतिसमुदाय एव विवक्षितः, न त्वृकारः, न चाहत्यपक्ष आश्रीयते, किं तर्हि तृचि यद् दृष्टं यत्किञ्चन निबन्धनं तस्य सर्वस्यातिदेशः एवमप्यङ्गप्रकरणादङ्गाधिकार एव विहितं यत् शास्त्रं कार्यं तदेवातिदिश्यत, न विप्रकृष्टमनाङ्गम् । यथाचि रवद्भावेन वृद्ध्यादीन्येव भवन्ति, न हनिणिङादेशः, ततश्च रपरत्वमनतिदिष्टं स्यात् । रपरत्वमप्याङ्गम्, कार्यकालं संज्ञापरिभाषम्, ऋतो ङि सर्वनामस्थानयोः गुणो भवति, उपस्थितमिदं
भवति - उरण् रपरः इति । स्त्रियां च इत्यत्र तर्हि क्रोष्ट्रीत्यत्रानाङ्गयोरीकारयणोरतिदेशो न स्यात् वचनाद्भविष्यति, न तृजन्तस्य स्त्रियामाङ्गं किञ्चिदस्ति । स्त्रियामप्याङ्गं किञ्चिदस्ति - पञ्चभिः कर्तुभिः क्रीतो रथः पञ्चकर्त्ता रथः, हे पञ्चकर्त्त, पञ्चकर्तरीति स्त्रीलिङ्गे कर्तृशब्दे ङिसम्बुद्ध्योर्दृष्टस्य गुणस्यातिदेशः स्त्रियां च इत्यज्ञ सम्भवति न हि सम्बुद्धौ तृज्वत्कोष्टुः इत्यनेन सिद्धिः, असम्बुद्धौ इत्यधिकारात् । ङौ विभाषा तृतीयादिषविचि इति विकल्पः स्यात् । स्यादेतत् - स्त्रियां च इत्यत्र न किञचिन्निमित्तमुपादीयते, ततश्च प्रागेव विभक्त्युत्पत्तेः स्त्रियां वर्त्तत इत्येवं तृजन्ते दृष्टस्यातिदेशः, न च तदाङ्गं सम्भवतीति अनाङ्गस्याप्यतिदेश इति एवमपि पञ्चभिः क्रोष्ट्रभिः क्रीतै रेथैः पञ्चक्रोष्टृभी रथैरित्यत्र न कथञ्चन तृजनतरुपप्रादुर्भावः सम्भवति । तथा विभाषा तृतीयादिष्वचि इत्यत्रापि क्रोष्टरीति आङ्गस्य गुणस्यातिदेशसम्भवात् क्रोष्ट्रा, क्रोष्टुरिति यण्शास्त्रमुत्त्वशास्त्रं चानाङ्गं नातिदिश्यते, नापि स्वरः । ननु तन्नापि तृतीयादिग्रहण सामर्थ्यादनाङ्गमप्यतिदिश्येत, अन्यथा विभाषा ङौ इत्येव ब्रूयात् नैतदस्ति अभावातिदेशार्थं तृतीयादिग्रहणं स्यात्, वतिनिर्द्देशेष्वभावातिदेशस्यापि दृष्टत्वात्, यथा - मरुभूमिवदस्मिन्ग्रामे जलमिति । शास्त्रेऽपि तृतीयादिषु भाषितपुंसक्म् - इत्यत्र नुम्ह्रस्वयोरभावोऽतिदिश्यते । यदा हि प्रत्यासत्तेराङ्गमेवातिदेश्यमिति स्थितम्, तदा न सर्वासु तृतीयादिषु भावातिदेशः सम्भवतीति यस्य शास्त्रस्य भावस्तृजन्ते दृष्टः, तुन्नन्तेऽपि तस्य भावोऽतिदिश्यते । यस्य त्वभावः, तृजन्तेऽपि तस्याभावोऽतिदेश्यः स्यात् । तदेवं शास्त्रातिदेशास्य बहुच्छिद्रत्वाद्रूपातिदेश एवायमाश्रयणीयः । तदाह रुपातिदेशोऽयमिति ।
यद्यवम्, यस्य कस्यचित्तृजन्तस्य रुपमतिदिश्यते - पक्ता, वक्तेति तत्राह - प्रत्यासत्तेरिति । अथैतस्मिन् रुपातिदेशे प्रयोगसमवायि यद्रूपम् - क्रोष्टा, क्रोष्टारौ, पञ्चक्रोष्टृभी रथैः, क्रोष्ट्रा, क्रोष्टुः, क्रोष्टरीत्येवम् - सावाकारन्तं द्विवचनादावारन्तम्, स्त्रियां क्वचिद्रेफान्तं क्वचिदकारान्तम्, तृतीयादौ रेफान्तम्, ङसिङसोरुकारान्तम्, ङावरन्तमिति तदतिदिश्यते आहोस्विच्छास्त्रीयं यद्रूपम् ण्वुल्तृचौ, तृज्वत्क्रोष्टुः इत्युपदेशवाक्येऽतिदेशवाक्ये च श्रुतं तदतिदिश्यते तत्राद्ये पक्षे उदात्तयणो हल्पूर्वात् इति स्वरो न सिद्ध्यति, न हि क्रोष्ट्रेत्यादावृकारावस्था कदाचिद्दृष्टा, यतोऽयमुदात्तयणः स्यात् । तस्माद् द्वितीयः पक्ष आश्रणीयः । तदाह - तच्च क्रोष्टृ इत्येतदिति । नन्वत्रापि पक्षे उपदेशवाक्ये, अतिदेशवाक्ये च तृशब्दस्योदात्तस्योच्चारणाभावादुच्चारितस्य वा गुणानामभेदकत्वेनाकिञ्चित्करत्वात् स्वरस्यातिदेशो न स्यात् सत्यम् चकारग्रहणसामर्थ्यात्तस्याप्यतिदेशो भविष्यति । तदाह - अन्तोदात्तमपि । यद्वा - मा भूत्स्वरस्यातिदेशः, तृजन्तरुपेऽतिदिष्टे तृज्बुध्या यथा दीर्घादीनि स्वेनस्वेन शास्त्रेण भवन्ति, स्वरोऽप्येवमेव भविष्यति । वतिनिर्द्देशाच्चायमतिदेश आश्रितः ।
यदि वतिनिर्देशमकृत्वा स्थान्यादेशभावं एवाश्रीयते, न किञ्चिदनिष्टम् तथा तु न कृतमित्येव ।।
स्त्रियां च ।। 7 - 1 - 96 ।।
क्रोषटुशब्दस्तृज्वद्भवतीत्येतत्त्वर्थकथनम् । षष्ठ्यन्तं तु युक्तं पठितुम् । अन्ये त्वेतद्‌ग्रहन्थपर्यालोपचनया पूर्वसूत्रेऽपि क्रोष्टः इति प्रथमान्तं मन्यन्ते । अनुक्रियमाणरुपविनाशप्रसङ्गात्तु तृज्वद्भावो न कृतः । वतिरपि तृतीयासमर्थादेव । तृजन्तेन तुल्यं वर्त्तत इति तद्रूपभाक्त्वेन तुल्यत्वमिति रुपातिदेशत्वम् । एवं च पूर्वसूक्षेऽप्याद्यग्रहन्थे तस्येति न पठितव्यम् । तृजन्तस्य यद्रूपं तदस्य भवतीति । एतच्चार्थकथनम् । अत्र विभक्तौ इत्यनुवर्त्तते चेत् क्रोष्ट्री भक्तिरस्येति बहुव्रीहौ भक्तिशब्दस्य प्रियादिशु पाठात्पुंवद्भावाभावे क्रोषट्री भक्तिरिति न सिद्ध्यति समासार्थाया विभक्तेर्लुमता लुप्तत्वात् । अथ वाक्यावस्थायामेव तृज्वद्भावो भविष्यति अन्तरङ्गनपि विधीन्बहिहङ्गो लुग्बाधते । तस्मान्नात्र विभक्तिर्निमित्तत्त्वेन शक्या आश्रयितुम्, किं तर्हि निमित्तम् इत्याह - केचिदित्यादि । कथं पुनर्गौरादिषु पाठे ङीष्प्रत्ययो निमित्तं भवति स्त्रियाम् इति नैवं विज्ञायते स्त्रियामर्थ इति । कथं तर्हि स्त्रिया - ई - स्त्री, स्त्रियामिति, स्त्रीत्वस्य द्योतको य ईकारस्तत्रेत्यर्थः । अर्थगतं च स्त्रीत्वमीकारे आरोप्य स्त्रियामिति नदीसंज्ञानिमित्तावामाटौ क्रियेते । एवं वदतामनिष्टमाह - तेषामिति । पञ्चक्रोष्टृभिरिति । तद्धितार्थे समासः, आर्हीयस्य ठकः अध्यर्द्धपूर्व इति लुक्, लुक्तद्धितलुकि इति स्त्रीप्रत्ययस्यापि लुक् । तत्र न लुमताङ्गस्य इति
प्रतिषेधादीकारनिमित्तस्तृज्वद्भावो न सिद्ध्यति । अन्तरङ्गातणं च विधीनां लुका बाधनोत् न पूर्वमेव तृज्वद्भावो लभ्यते । तत्र सर्वनामस्थाने पूर्वेणैव सिद्धस्तृज्वद्भाव इति तृतीयादावसिद्धिरुक्ता, सर्वनामस्थानेऽपि सम्बुद्धौ पूर्वेणासिद्धिरेव - हे पञ्चक्रोष्टरिति । तथा शसि पञ्चक्रोष्टॄन्, तथा तृतीयादिष्वजादिप्वप्युत्तरसूत्रेण विकल्पः प्राप्नोति - पञचक्रोष्ट्रा, पञ्चक्रोष्ट्रे । नन्वारब्धेऽप्यस्मिन्, परत्वाद्विकल्प एव प्राप्नोति थअन्तरङ्गत्वादयमेव नित्यो विधर्भवति । तत्र प्रतिविधेयमिति । वचनमेवात्र शरणम् ।
ये तर्हि गौरादिषु न पठन्ति तेषां किं निमित्तम् न किञ्चिदित्याह - य त्वित्यादि । स्त्रियां च वर्त्तमान इति । सूत्राक्षरामनुरोधेन चशब्दः पठितः । ननु च यद्यपि न शब्देन किञ्चिन्नमित्तमाश्रीयते, अङ्गस्य इति त्वाश्रीयते, अङ्गे चाश्रिते प्रत्ययोऽप्याश्रित एव, यथोक्तम्, अङ्गस्य इत्यत्र वव्रश्चेत्यस्य सिद्धये सत्यम् कार्यकालं संज्ञापरिभाषम् तदुक्तम् । तत्र हि पक्षे उरत् इत्यत्राङ्गसंज्ञासूत्रमुपतिष्ठते, ततश्च प्रत्ययः ित्यस्याङ्गसंज्ञायामुरदत्वं च प्रति निमित्तभावः , सन्निधेरविशिष्टत्वात् । इह तु यथोद्देशपक्ष आश्रीयते, तदतश्च वस्तुतोऽङ्गस्य स्त्रियां वर्तमानस्य क्रोष्टुशब्दस्य तृज्वद्भावो विधीयते, न तु परनिमित्तमाश्रीयते । अङ्गसंज्ञा च प्रत्ययलक्षणेन भविष्यति । अङ्गस्य इति वचनाल्लब्धाङ्गसंज्ञस्य यत्कार्यं प्रत्ययलक्षणं तदेव प्रतिषिद्ध्यति, न चाङ्गसंज्ञा अङ्गस्य कार्यम् । अन्तोदात्त एव क्रोष्ट्रीशब्दो भवतीति । गौरादिषु पाठे ङीष्प्रत्ययस्वरेणान्तोदात्तः । अत्रापि पक्षे उदात्तयणो हल्पूर्वात् तथइत्यन्तोदात्त थएवेति एवशब्दार्थः । केचित्तु - ङीपोऽपि उदात्तयणः इत्येवोदात्तत्वम् अन्यथा ङीषि परतस्तृज्वद्भावे चित्स्वरस्य सतिशिष्टत्वेन ङीषोऽनुदात्तत्वप्रसङ्ग इत्याहुः ।।
विभाषा तृतीयादिष्वचि ।। 7 - 1 - 97 ।।
अप्राप्तविभाषेयम् । स्त्रियाम् इति नानुवर्त्तते, पञ्चक्रोष्‍ट्रेत्यादावन्तरङ्गत्वात्पूर्वेण नित्यस्तृज्वद्भाव इत्यवोचाम, तेनोभयत्र विभाषापि न भवति । पूर्वविप्रतिषेधेनेति । तृज्वद्भावस्यावकाशः क्रोष्ट्रे, पुंसे नुम्नुटोरवकाशः - त्रपुणे, जतुने, अग्नीनाम्, वायूनाम, प्रियक्रोष्टुन इत्यादावुभयप्रसङ्गे पूर्वविप्रतिषेधः । अथ किमर्थ तृज्वद्भावो विधीयते, यावता क्रुशेरेव तृचि क्रोष्ट्रेत्यादि सिद्ध्यति तुन्नन्तस्यासम्बुद्धौ सर्वनामस्थाने स्ज्ञियां च प्रयोगो मा भूत्, तृजन्तस्यैव यथा स्यात् । विभाषा तृतीयादिष्वचि इत्येतत्तर्हि किमर्थम्, तृजन्तस्यैव क्रोष्ट्रेत्यादि सिद्धम्, तुन्नन्तस्य क्रोष्टुनेत्यादि यथैव तर्ह्यजादावुभयं भवति तथा हलादावपि स्यात्, एवं शस्यपि तुन्नन्तस्यैव च तत्र प्रयोग इष्यते, तेनैतदपि नियमार्थम् - तृतीयादावेवोभयम्, तत्राप्यजादावेवेति ।
यस्तु मन्यते -- अभिधानस्वभावादेव तुंस्तृचोर्व्यवस्थितविषयः प्रयोग इति, तं प्रति सूत्रत्रयमपि शक्यमकर्तुम् ।।
चतुरनडुहोरामुदात्तः ।। 7 - 1 - 98 ।।
अत्र सर्वनामस्थाने इति स्वर्यते, न तृतीयादिष्विति । आगमानुदात्तत्यवबाधनार्थमुदात्तवचनम् । तदान्तविधिरत्रेष्यत थइति ।
अङ्घाधिकारे तस्य च तदुत्तरपदस्य च इति वचनात् । प्रयचत्वा इति । बहुव्रीहौ सर्वनामसंख्ययोरुपसंख्यानमिति चतुरशब्दस्य पूर्वनिपाते प्राप्ते वा प्रियस्य इति प्रियशब्दस्य पूर्वनिपातः ।।
अम्सम्बुद्धौ ।। 7 - 1 - 99 ।।
चतुःशब्दस्य केवलस्य सम्बुद्ध्यभावादुपसमस्तस्योदाहरणम् । अनडुहस्तु प्रक्रमाभेदाय, तदन्तविधिरत्रेष्यते इति प्रदर्शनाय च तदन्तस्योदाहरणम् ।।
ऋत इद्धातोः ।। 7 -1 - 100 ।।
किरतीति । कॄ विक्षेपे , गॄ निगरणे तुदादी । आस्तीर्णम्, विशीर्णमिति । स्तॄञ् आच्छादने, शॄ हिंसायाम्, हलि च इति दीर्घः, रदाभ्याम् इति निष्ठानत्वम् ।
मातॄणामिति । दीर्घत्वे कृतेऽपि लाक्षणिकत्वादेवात्र न भविष्यतीति अत आह - लाक्षणिकस्यापीति । किं प्रयोजनम् इत्याह - चिकीर्षतीत्यादि । अतस्तदर्थ धातुग्रहणमिति भावः । क्वचित्तु वृत्तावेवैतत्पठ्यते
।।
उपधायाश्च ।। 7 - 1 - 101 ।।
पूर्वेण ॠकारान्तस्य धातोरित्त्वमुक्तम्, उपधायामपि यथा स्यादित्ययमारम्भः । ननु पूर्वयोगे धातुना ॠकारं विशेषयिष्यामः - धातोर्य ऋकारो यत्र स्थित इति, इहापि तर्हि प्राप्नोति - ॠकारमिच्छति ॠकारीयतीति एवमपि कॄतस्य इतीयता सिद्धम्, ॠतः इत्यनुवृत्तेरन्त्यस्य न भविष्यति तथा तु न कृतमित्येव ।
कीर्त्तयतीति । कत संशब्दने चुरादिः ।।
उदोष्ठ्यपूर्वस्य ।। 7 - 1 - 102 ।।
पूत्ती इति । पॄ पालनपूरणयोः न ध्याख्यापॄमुर्च्छिमदाम् इति निष्ठानत्वप्रतिषेधः । मुमूर्षतीति । मृङ् प्राणत्यागे । सुस्मूर्षतीति । स्मृ चिन्तायाम् । सुस्वूर्षतीति पाठे स्वॄ शब्दोपतापयोः, सनीवन्तर्ध इत्यादिनेडभावपक्षे रुपम् । पुर्व एव तु युक्तः पाठः, पृथगुदाहरणस्य वक्ष्यमाणत्वात् ।
दन्त्योष्ठ्यपूर्वोऽपीत्यादि । ओष्ठ्यत्वमात्रं विवक्षितं नेतरव्यावृतिरिति भावः । ओष्ठ्योऽत्रेत्यादि । यथा हलः इत्यत्राङ्गेन हल् विशेष्यते, तेन सम्प्रसारणम्, तेन च पुनरङ्गम तथेहाप्यङ्गस्यावयव ओष्ठ्यः पूर्वो यस्मात्तदन्तस्याङ्गस्येति ।
इत्त्वोत्त्वाभ्यामित्यादि । इत्त्वोत्त्वयोर्दर्शितान्युदाहरणान्यवकाशः, गुणवृद्ध्योरवकाशः - चयनं चायकः, उभयप्रसङ्गे विप्रतिषेधः । आस्तरणमिति । नात्र गुणस्य नित्यत्वम् लक्षणभेदात् । पूर्वं हीगन्तलक्षणो गुणः प्राप्नोति, इत्त्वोत्त्वयोः कृतयोर्लघूपधलक्षणः ।।
बहुलं छन्दसि ।। 7 - 1 - 103 ।।
ततुरिर्जगुरिरिति । तॄगॄभ्याम् आदृगमहनः इति किन्प्रत्ययः, उत्त्वम्, तस्य द्विर्वचनेऽचि इति स्थानिवद्भावात्तॄगॄ - इत्येतस्य द्विर्वचनम् । पप्रितममिति । पॄ इत्येतस्मात्पूर्ववत्किन्, इत्त्वोत्त्वयोरभावे यण्, तस्य स्थानिवद्भावाद् द्विर्वचनम्, अतिशायने तमप् ।।
इति श्रीहरदत्तमिश्रविरचितायां पदमञ्जर्यां सप्तमाध्यायस्य प्रथमः पादः