अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः । आङ्ग्लमासिक्या Readers Digest पत्रिकया काचित् जागतिकसमीक्षा कृता । तद्विषयक: ‘किं वयं निष्कपटा: ?’ इत्येष: मुखपुटलेख: 2007 तमस्य वर्षस्य अगस्टमासीयायां सञ्चिकायां प्रकटित: आसीत् । तस्य लेखस्य भावानुवादः अस्ति अयम् । एषा अस्ति जनसमूहस्य नेत्रोन्मीलिका काचित् समीक्षा ।

किं वयं परिशुद्धाः ?सम्पाद्यताम्

2020 तमवर्षाभ्यन्तरे भारतदेश: विश्वस्य शक्तिशालि राष्ट्रं भवेत् इत्येतं स्वप्नं बालानां कोमलेषु मनस्सु आरोपयन् अस्ति भूतपूर्व: राष्ट्रपति: श्रीमान् अब्दुलकलामवर्य: । बौद्धिकदृष्ट्या, सङ्ख्यात्मकदृष्ट्या, तान्त्रिकदृष्ट्या, शौर्यसामर्थ्यादिदृष्ट्या, प्राचीनमौल्यदृष्ट्या वा यदि चिन्तयेम तर्हि भासते एव यत् एतस्य स्वप्नस्य साकारीकरणं भारतीयै: कर्तुम् अशक्यं सर्वथा न इति । परन्तु एतदस्ति न सुलभसाध्यम्, अपि तु कष्टसाध्यम् । पुरा येन भारतेन समग्रस्य जगत: सांस्कृतिकं दिग्दर्शनं कृतम् आसीत् तत् अद्यत्वे प्रश्नं जनयति - ‘एतेन तादृशी स्थिति: वस्तुत: आसादिता आसीत् किम् ?’ इति ।

अस्य देशस्य समृद्धियुक्ताया: संस्कृते: दर्शनेन अनेके वैदेशिका: व्यामुग्धा: आसन् । तेषु अन्यतमा: - जगत: विविधेभ्य: देशेभ्य: आगता: यात्रिका:, वणिज:, आक्रमणकाराश्च । पिपासया पीडितेन फाहियानेन यदा अत्र जलं याचितं तदा तेन क्षीरं प्राप्तम् आसीत् ! अत्रत्येषु चोरेषु अपि निष्कपटताशीलादय: मया दृष्टा: इति विवृणोति ह्यूयन्त्साङत: । जगदाधिपत्यप्राप्तये कृतसङ्कल्पम् अलेक्साण्डरम् उद्दिश्य कौपीनधारिणा आत्मसन्तृप्तेन केनचित् संन्यासिना उक्तम् आसीत् - ‘आदौ मनस: इन्द्रियाणां च निग्रह: क्रियताम्’ इति । तदा अलेक्साण्डरस्य मनसि अपि प्रश्न: उद्भूत: - ‘वस्तुत: किंनिमित्तकम् एतत् भौतिकजीवनम् ? कस्य तृप्त्यै ?’ इति । भौतिकजगति ख्यातनामानं महाविज्ञानिनं ऐन्स्टीन्वर्यम् आन्तरिकं जगत् प्रवेष्टुं प्रेरितवती एषा अस्मदीया मातृभूमि: एव ।

केनचित् देशेन समाजेन वंशेन व्यक्त्या वा आसादितया भौतिकसमृद्ध्या किं सर्वं सिद्ध्येत् ? भौतिकसमृद्धिमात्रं किं विकासद्योतकं वर्तते ? वस्तूनां सम्पादनं, तेषां भोग: च किम् आनयेत् शाश्वतं सुखम् ? शीलरहिता व्यक्ति: न कदापि प्राप्नुयात् जीवनोन्नतिम् । स: एव शीलवान् भवेत्, य: अस्ति सत्यसन्ध: सदाचारश्च । निष्कापट्येन एव सत्यशीलता आसादयितुं शक्या । सत्यशीलताया: अभिव्यक्ति: एव निष्कपटता । पारदर्शकता इत्यपि निर्दिश्यते एषा । नैतिकाधार: दृढ: यदि न स्यात् तर्हि तदुपरि विद्यमानं राष्ट्रभवनं दृढं कदापि न तिष्ठेत् ।

परन्तु अद्यतनीया जागतिकी, सामाजिकी, व्यावहारिकी च परिस्थिति: यदि अवलोक्येत तर्हि ज्ञायेत यत् जगति असत्यवादिन:, कपटिन:, कुत्रन्त्रिण: च दिने दिने शक्तिशालिन: भवन्त: सन्ति इति । अद्य समाजे गौरवादराणां प्रदर्शनस्य आधार: भवति न तस्य जनस्य सुशीलता, अपि तु धनिकत्वम् एव । अद्यत्वे सत्यनिष्कपटतादीनाम् आधारेण जीवनौन्नत्यस्य प्राप्ति: कष्टसाध्या इति भाव: समाजे प्राचुर्येण यत् दृश्यते तत् तु अतिरस्कारार्हं सत्यम् । मनश्शान्तिसमाधानसन्तृप्त्यादय: अद्य स्वप्नायन्ते । समग्रं राष्ट्रियोत्पादनं, प्रतिजनं सम्पादनम्, आर्थिकाभिवृद्धिश्च परिगण्यते विविधानां देशानां वृद्धे: तोलनावसरे । परन्तु आङ्ग्लमासिक्या ‘रीडर्स डैजेस्ट्’नामिकया पत्रिकया काचित् जागतिकसमीक्षा कृता । तद्विषयक: ‘किं वयं निष्कपटा: ?’ इत्येष: मुखपुटलेख: 2007 तमस्य वर्षस्य अगस्टमासीयायां सञ्चिकायां प्रकटित: आसीत् । एषा अस्ति जनसमूहस्य नेत्रोन्मीलिका काचित् समीक्षा । निष्कपटतास्तरस्य अवगमनार्थं रीडर्सडैजेस्ट्जनै: चितं साधनम् आसीत् - अद्यत्वे सर्वै: बहुधा उपयुज्यमाना जङतमदूरवाणी । तै: एवं कृतं - चितेषु 32 देशेषु प्रतिदेशं 30 स्थलेषु जङ्गमदूरवाण्य: विभिन्नेषु सार्वजनिकेषु स्थलेषु स्थापिता: । ता: दूरवाण्य: शब्दं कुर्वत्य: जनान् आकर्षन्ति स्म । ता: आसन् मध्यमस्तरीया: नूतना: दूरवाण्य: । दूरवाणीं परित: प्रवर्तमानानि दृश्यानि अवलोकमाना: भवन्ति स्म दूरे स्थिता: वार्ताहरा: । कदाचित् दृश्यचित्रीकरणम् अपि क्रियते स्म । विविधेषु परिसरेषु जनसञ्चारयुक्तेषु विविधेषु स्थलेषु च जङ्गमदूरवाण्य: स्थापिता: आसन् ।

एतस्या: समीक्षाया: फलरूपेण य: निष्कर्ष: प्राप्त: स: अस्ति नितरां कुतूहलकर: ।

अस्यां समीक्षायां प्रथमस्थानं प्राप्नोत् लुब्जानानगरं, यच्च स्लोवेनियादेशस्य राजधानी अस्ति । एष: देश: युगोस्लोवियात: 1992 तमे वर्षे स्वातन्त्र्यं प्राप्तवान् ‘नवजात:’ लघुदेश: । अत्रत्या जनसङ्ख्या अस्ति - 2,67,000 मिता । अस्मिन् नगरे स्थापितासु 30 जङ्गमदूरवाणीषु 29 दूरवाण्य: प्रत्यागता: सन्ति ! द्वितीयं स्थानं प्राप्तं केनाडादेशस्य टोरेण्टोनगरेण । तत्र 30 दूरवाणीषु 28 दूरवाण्य: प्रतिप्राप्ता: सन्ति । तृतीयं स्थानं प्राप्तं दक्षिणकोरियादेशस्य सियोल्नगरेण ।

दशभ्य: वर्षेभ्य: पूर्वं सधनस्यूतान् सार्वजनिकेषु स्थलेषु संस्थाप्य समीक्षा कृता आसीत् एतै: एव रीडर्सडैजेस्टजनै: । धनस्यूतेषु सहस्राधिकानि रूप्यकाणि स्थापितानि आसन् । तदवसरे दक्षिणकोरियादेशे स्थापितेषु दशसु धनस्यूतेषु 9 धनस्यूता: प्रत्यागता: आसन् । इदानीम् अपि स्वस्य निष्कपटता प्रमाणीकृता अस्ति दक्षिणकोरियादेशेन ।

अस्या: समीक्षाया: निमित्तं भारते मुम्बयीनगरं चितम् आसीत् । त्रिंशत्यां दूरवाणीषु कति प्रत्यागता: स्यु: इति ज्ञातुं स्यात् एव अस्मासु सर्वेषाम् अपि समुत्सुकता । रीडर्सडैजेस्ट्-पत्रिकाया: सम्पादक: मोहनशिवानन्द: अपि एतत् ज्ञातुं परमोत्सुक: आसीत् एव । ‘कीदृशी अर्थहीना समीक्षा एषा ! एका अपि दूरवाणी न प्रत्यागच्छेत्’ इति तस्य मित्रेण अभिप्रेतम् आसीत् । मोहन-शिवानन्दस्य ऊहनम् आसीत् - त्रिंशत्यां षट् वा दूरवाण्य: प्रत्यागच्छेयु: इति । किन्तु प्राप्त: परिणाम: आसीत् वस्तुत: अनूह्य: एव । भौतिकदृष्ट्यैकप्रधाने मुम्बयीनगरे 24 दूरवाण्य: प्रत्यागता: !!! सम्पादकस्य ऊहा विपरीता जाता आसीत् । विगते वर्षे कृतायां विनम्रता-समीक्षायां मुम्बयी-नगरेण उपान्त्यस्थानं प्राप्तम् आसीत् । सधनस्यूतसमीक्षायां दशसु षट्स्यूतमात्रं प्रत्यागतम् आसीत् ।

इदानीन्तन्यां समीक्षायाम् अमेरिकादेशस्य न्यूयार्कनगरेण पञ्चमं स्थानं (30/24) प्राप्तम् अस्ति । न्यूझिल्याण्डदेशस्य आक्लाण्ड्नगरेण अष्टमं स्थानं (30/24) प्राप्तम् अस्ति । फ्रान्सदेशस्य प्यारिस्नगरेण (30/21), जर्मनदेशस्य बर्लिन्नगरेण (30/21) च चतुर्दशं स्थानं प्राप्तम् । आस्ट्रेलियाया: सिड्निनगरेण रषियादेशस्य मास्कोनगरेण च (30/17) चतुर्विंशतितमं स्थानं प्राप्तम् अस्ति । हाङ्काङ्ग्नगरं मलेशियादेशस्थं कौलालम्पूरनगरं च त्रिंशत्यां 13 दूरवाणी: प्रत्यर्प्य अन्तिमं स्थानं प्राप्तवती स्त: । भारतस्य साम्प्रदायिकप्रतिस्पर्धिदेशे पाकिस्ताने कति दूरवाण्य: प्रतिप्राप्ता: इति न ज्ञायते । तत्र इयं समीक्षा प्रवृत्ता उत न इति विषय: इतिवृत्ते न उल्लिखित: । वाचका: एव ऊहितुम् अर्हन्ति तस्य कारणम् ।

अन्येषां देशानां स्थिति: या कापि भवतु नाम । अस्माकं देशस्य विभिन्नेषु नगरेषु, तत्रापि अस्माकं परिसरे स्वत: वयम् एव यदि परीक्षार्थिन: स्याम तर्हि कथम् अभविष्यत् अस्मदीय: व्यवहार: इत्येष: अस्ति सर्वै: चिन्तनीय: विषय: । स्वविमर्शार्थम् आत्मावलोकनार्थं च जङ्गमदूरवाणीधनस्यूतसदृशानि साधनानि अपेक्षितानि एव इति नास्ति । कस्यचित् लघु-अमूल्य-वस्तुविषये कथं भवति अस्मदीय: व्यवहार: ? अत्याकर्षकम् आत्मीयञ्च वस्तु किञ्चन अनाथस्थितौ यदि दृश्येत तर्हि अस्माकं मन: कथं प्रवर्तेत ? एकान्ते स्थले यत्र परीक्षक: दण्डनं वा न विद्यते, तत्र अनाथम् आकर्षकं च वस्तु यदि लभ्येत तर्हि क: स्यात् अस्माकं व्यवहार: ?

एते व्यवहारा: पूर्वयोजिता: भवितुं नार्हन्ति । एतादृशेषु अनिरीक्षितेषु अवसरेषु अधिकतया मानव: प्रलोभनवश: एव भवति । प्रलोभनात् बहि: आगन्तुम् अगाधम् आन्तरिकं स्थैर्यम् अपेक्षितम् । आन्तरिकसम्पत्ति: अलौकिकसन्तृप्ति: च भवेत् । ‘आवश्यकम्’ इत्येष: भाव: विलुप्त: स्यात् । वस्तुत: एतादृश: प्रसङ्ग: एव अस्माकं सज्जनत्वस्य निकष: ।

जङ्गमदूरवाणीसमीक्षासम्बद्धा: केचन कुतूहलकरा: अंशा: अत्र दत्ता: सन्ति - मुम्बयीनगरस्थं जननिबिडं छत्रपतिशिवाजीरैल्वेस्थानकम् । अष्टाविंशतिवर्षदेशीयस्य विमासंस्थाया: अधिकारिण: धर्मेन्द्रकुमारस्य समीपे काचित् अज्ञाता जङ्गमदूरवाणी शब्दम् अकरोत् । धर्मेन्द्रकुमारेण स्वीकरण-समनन्तरं शब्दस्य स्थगनम् अभवत् । एषा कस्य दूरवाणी स्यात् इति चिन्तयन् तत्रत्यां नामावलीम् अपश्यत् स: । ‘अम्बा’ इति नाम दृष्टं तत्र । तस्य नाम्न: पुरत: विद्यमानाया: सङ्ख्याया: सम्पर्कं कृत्वा स: दूरवाण्या: प्राप्तिविषयम् असूचयत् । केषुचित् एव क्षणेषु ‘अम्बा’ तत्र आगत्य धन्यवादं संसूच्य दूरवाणीम् अनयत् । स: एव ‘धर्मेन्द्र:’ तां दूरवाणीं कोशे संस्थाप्य ‘अधर्म’मार्गे मतिं यदि कृतवान् स्यात् तर्हि तदीयं नाम कृतवद्भ्यां मातापितृभ्यां महत् दु:खम् अनुभूतं स्यात् खलु ?

मुम्बयीनगरस्य कोलाबाप्रदेशे शीतलपेयविक्रयिकेण बालकेन मुखेशकुमारेण प्राप्तिसमनन्तरम् एव सा दूरवाणी प्रत्यर्पिता । फ्रूटीपेयस्य मिनरल्जलस्य च विक्रयिकेण बालेन उच्यते - ‘अन्यस्य दूरवाण्या: उपयोग: मया किमर्थं करणीय: ? यदि आवश्यकं स्यात् तर्हि मया एव क्रीयेत’ इति । एषा अस्ति अनुकरणयोग्या निष्कपटता ।

केनचित् धनिकेन अनपेक्षितस्य वस्तुन: प्रत्यर्पणं यत् क्रियते तत्र कापि विशेषता नास्ति । परन्तु दरिद्रेण प्राप्तस्य अमूल्यस्य वस्तुन: तिरस्कार: य: कृत: स: न तावत् सुकर: । परन्तु बहुषु प्रसङ्गेषु धनिकत्वम् इतोऽप्यधिकं प्रलोभनम् उत्पादयति इत्येतदपि वास्तवम् एव । न्यूझिलेण्डदेशस्य ओक्ल्याण्ड्नगरे 50 वर्षदेशीया काचित् सालङ्कारा आधुनिकमहिला स्वेन प्राप्तां दूरवाणीं स्वीकृत्य अदृश्यतां गता । कस्यचन आधुनिकवाणिज्यसमुच्चयस्य पुरत: तया सा दूरवाणी प्राप्ता आसीत् ।

एतादृशी एव घटना मुम्बयीनगरे प्रवृत्ता आसीत् विगत-वर्षस्य समीक्षावसरे । वनितास्यूतहस्ता कर्तितकेशा काचित् मध्यवयस्का महिला पुत्र्या सह यानस्थानके यानस्य प्रतीक्षावसरे प्राप्तं धनस्यूतं स्वायत्तीकृतवती आसीत् । धनस्यूतम् इतस्तत: परिवर्तयन्ती एतस्य स्वामी क: स्यात् इति ज्ञातुं प्रयतमानाया: पुत्र्या: हस्तात् बलात् स्वीकृत्य स्ववनितास्यूते स्थापयन्ती सा माता अवलोकिता आसीत् वार्ताहरेण । तस्याम् एव मुम्बय्यां धान्ययुक्तानां गोणीस्यूतानां वहनेन जीवत: भृतकस्य व्यवहारस्तु सर्वथा भिन्न: एव आसीत् । स्वेन प्राप्तस्य धनस्यूतस्य स्वामिन: सङ्केतम् अन्विष्य प्रत्यर्पणावसरे उपायनीकर्तुम् अग्रे आगतं वार्ताहरम् उद्दिश्य तेन भारवाहकेण उक्तम् - ‘महाशय ! अन्यस्य धनस्य उपयोग: पापकर: । तस्य धनस्य प्रत्यर्पणम् अस्ति मम धर्म: । तन्निमितं किमर्थम् उपायनम् ?’ इति । तस्य निष्कापट्यं दृष्टवान् वार्ताहर: आश्चर्येण स्तब्ध: जात: । क्व वस्त्राभरणादय:, क्व भवनकार्-यानादय:, क्व अहङ्कारप्रतिष्ठादय:, क्व च मलिनवस्त्रधारिण: स्वेदयुक्तशरीरवत: निष्कपटता !! हृदयवैशाल्यं निष्कपटता इत्यादय: कुत्र निहिता भवन्ति इति किं पुन: वक्तव्यम् ? श्रीमान् वस्तुत: क: इति पुनर्वक्तव्यं नास्ति खलु ?

अस्मिन् अवसरे जङ्गमदूरवाणीं प्राप्तवत्य: सप्त महिला: अपि दूरवाणीं प्रत्यर्पितवत्य: सन्ति । अग्रजया सह ‘भारत-द्वार’समीपे (गेट् वे आफ् इण्डिया) स्थिता द्वादशकक्ष्याया: विद्यार्थिनी अश्विनी केनचित् उन्नतोद्योगिना जनेन अज्ञात-स्वामिकाया: दूरवाण्या: स्वीकरणम् अवलोकितवती । तं जनम् अनुसृत्य गत्वा वार्ताहर्यै दूरवाण्या: प्रत्यर्पणं कारितवती सा । मुम्बय्या: युवक: चेतन: आत्मना प्राप्ताया: दूरवाण्या: प्रत्यर्पणावसरे अवदत् - ‘एषा दूरवाणी मया सर्वथा न स्थाप्यते एव । यत: बाल्ये एव मत्पित्रा पाठितम् अस्ति - अपरस्य वस्तु अचिरात् प्रत्यर्पणीयम् इति’ इति ।

द्विपञ्चाशद्वर्षदेशीय: फेनेक्कोज्मा हङ्गेरिदेशस्य गृहनिर्माणगणे कश्चन कर्मकर: । आ षड्भ्य: वर्षेभ्य: निवासविहीन: अस्ति स: । रेल्वेस्थानके प्राप्तां जङ्गमदूरवाणीं प्रत्यर्पयन् स: अवदत् - ‘वस्तूनि लभ्यन्ते लुप्यन्ते च । परन्तु कदापि परिशुद्धता लुप्ता न भवेत्’ इति ।

एतदेव ओशो पृच्छति - ‘भवत: परिशुद्धताया: मूल्यं कियत् ?’ इति । मार्गे शतं रूप्यकाणि यदि दृश्येरन् तर्हि ‘एतन्नाधिकम्’ इति तिरस्कुर्याम । परन्तु सहस्रं रूप्यकाणि यदि दृश्येरन् तर्हि किं कुर्याम ? यदि धनिकत्वं स्वस्य स्यात्, यदि च लक्षं कोटि: वा रूप्यकाणि प्राप्येरन् तर्हि अपि किं वयं तिरस्कुर्याम ? य: यावत: धनराशे: वश: अभवत् तस्य परिशुद्धताया: मूल्यं स्यात् तावदेव ।

‘भारते सर्वमपि क्रेतुं शक्यम्’ इत्येष: केषाञ्चन वैदेशिकानाम् अभिप्राय: । पि.वि.नरसिंहराव: यदा प्रधानमन्त्री आसीत् तदवसरे परमाणुपरीक्षाविषयिण्या: परमरहस्य-सभाया: विषय: अमेरिकादेशेन ज्ञात: आसीत् । सभारम्भत: पूर्वं बेङ्गलूरुनगरस्य वसतिगृहे निवसते नरसिंहराववर्याय साक्षात् अमेरिकादेशात् आगतम् आसीत् दूरवाण्या प्रबोधन-वचनं - ‘जगरूका: भवत ! परमाणुपरीक्षा यदि क्रियेत...’ इति ! तस्य श्रवणात् नरसिंहराव: दिग्भ्रान्त: !!! भारतवर्षे सि.ऐ.ए.सम्बद्धै: गुप्तचरै: अप्रविष्टं किञ्चन स्थलं न स्यात् इति वचनं किञ्चन श्रूयते ।

एतस्य अपवादरूपेण अस्ति 1998 तमे वर्षे कृता पोखरान्परमाणुपरीक्षा । द्विसहस्राधिका: जना: यद्यपि परमाणुपरीक्षाकार्ये निरता: आसन्, यद्यपि अमेरिकाया: गूढचारोपग्रहै: आसंवत्सरम् आविश्वम् अवलोक्यते स्म सूक्ष्मेक्षिकया, तथापि सि.ऐ.ए.जनै: यथा न ज्ञायेत तथा अणुविस्फोटनं यत् साधितं तत् किम् अस्ति सामान्य: विषय: ? देशविषयिणीम् असीमां निष्ठां भारतीया: बहुवारं प्रमाणीकृतवन्त: सन्ति एतादृशेषु प्रसङ्गेषु ।

परन्तु अद्यत्वे सर्वत्र दृश्यमानां भीकरीं भ्रष्टाचारपीडां किं वयं बहि: प्रेषयितुं न शक्नुयाम ? अस्माकं निष्ठा, देशभक्ति:, शीलं, निष्कपटता, कर्तव्यपरता च कीदृशी ? तेषां प्रखरता कीदृशी ? एतेषां प्रश्नानाम् उत्तरं सर्वै: अपि स्वस्य आन्तर्ये अन्वेष्टव्यम् अस्ति । अवश्यम् आत्मपरिष्कार: चिन्तनीय: अस्ति । तत्र एव निहितम् अस्ति देशस्य प्रगतिबीजम् । तं बीजभावं सर्वत्र आवपेम, वर्धयेम च । कलामवर्यस्य स्वप्नं साकारीकुर्याम ।

आधारःसम्पाद्यताम्

'सम्भाषणसन्देशः' - जनवरी २००९
लेखकः - मूलम् - अनामिकः
अनुवादः - शुभा
"https://sa.wikisource.org/w/index.php?title=किं_वयं_निष्कपटा:_%3F&oldid=41164" इत्यस्माद् पुनः प्राप्तिः