किरणतन्त्रम्
भट्टरामकण्ठः

तं नत्वा विमलं शिवार्ककिरणे शास्त्रे परे रच्यते सङ्क्षेपाद्विवृतिः पदेषु गमिका विद्याख्यपादे यतः ।
प्रोक्तो विस्तरतः पदार्थविषयो युक्त्यागमैर्निर्णयः प्रायोऽन्यत्र मया कृतान्तविमतिच्छेदाय साधारणः ॥ ०.१ ॥


पुरा किल भगवतोमापतिना गरुत्मतोऽनुग्रहं कुर्वता यथा यादृग्रूपं च शास्त्रमुपदिष्टं तथा तादृग्रूपं च कश्चित्तच्छिष्यः प्रशिष्यो वा स्वशिष्येभ्यः कथयति


_________________


कैलासशिखरासीनं सोमं सोमार्धशेखरम् ।
हरं दृष्ट्वाब्रवीत्तार्क्ष्यः स्तुतिपूर्वमिदं वचः ॥ १.१ ॥

__________
वृत्ति:
यत्तु प्रथममेवोत्सूत्रं कैश्चिच्छास्त्रस्वरूपं तत्सम्बन्धाभिधेयादि चात्र वर्ण्यते तत्सूत्रैरेव तेषां वक्ष्यमाणत्वादयुक्तमेव।
अथादौ प्रवृत्तिहेतुत्वेनावश्यं तद्वक्तव्यमिति चेत् ।
शास्त्रान्तराणामिवात्र तदभिधानेन प्रवृत्त्ययोगात् ।
अत्र हि गुरूपसदनात्प्रभृति गुरुवाक्यादेव सर्वत्र प्रवर्तितव्यं नान्यत इति
दर्शयिष्यामः।

तत्र कैलासस्य शिखरमग्रप्रदेशः। तस्मिन्नासीनं तं दृष्ट्वेत्यनेन योगिमध्यस्थितत्वेन वक्ष्यमाणादस्य ब्रह्मविष्णुलोकाभ्यामूर्ध्वमण्डलमध्ये वक्ष्यमाणस्य देवस्य विशेषः।
सहोमया वर्तते यस्तमित्यनेन कैलासशिखरासीनान्तराच्छ्रीमन्नन्दिकेश्वरादेर्विशेषः॥

अथ रूढिर्योगमपहरतीति न्यायतोऽत्र सोमशब्देन कश्चिच्चन्द्रमेव प्रत्येष्यतीति तदर्थमेतत्सोमार्धं शेखरे शिरसि यस्य तं दृष्ट्वेति।
किञ्च हरति बन्धनानि पुंभ्यः पुंसोऽप्यूर्ध्वं पदमिति हरः तं स्वगुरुं तार्क्ष्यो दृष्ट्वेत्यर्थः।
अत एवास्य निर्वाणदीक्षा सम्पन्नेति प्रतीयते।
नादीक्षितानां श्रवणाधिकार इति वक्ष्यति यतः।
हरशब्दस्य रूढ्यैवोमापत्यर्थत्वे व्याख्यायमाने गतार्थत्वं व्यवच्छेदान्तराभावादिति विशिष्टक्रियायोगाभिधानेनैव व्याख्यानं ज्यायः।
अत्र च प्रणामसामर्थ्यादेव दर्शनस्य सिद्धेर्नायमर्थो हरं दृष्ट्वेति।
अपि तु स्तुतिपूर्वं दृष्ट्वेति स्तुतिपूर्वमिति पदमत्र क्रियाविशेषणत्वेन व्याख्येयम्। न तु वचोविशेषणत्वेन।
ततश्च वक्ष्यमाणान्धकमथनादिकर्मस्तुत्या विशिष्टकर्मयुक्तं भगवन्तमाराध्येदं वचनं वैनतेयोऽब्रवीदित्यत्रार्थः। तन्न दोषः कश्चिदिति॥

अथ कासौ स्तुतिर्यत्पूर्वं दृष्ट्वेत्युक्तम्। तत्रोच्यते


____________________

जयान्धकपृथुस्कन्ध- बन्धभेदविचक्षण ।
जय प्रवरवीरेश- संरुद्धपुरदाहक ॥ १.२ ॥
जयाखिलसुरेशान- शिरश्छेदभयानक ।
जय प्रथितसामर्थ्य- मन्मथस्थितिनाशन ॥ १.३ ॥
जयाच्युततनुध्वंस- कालकूटबलापह ।
जयावर्तमहाटोप- सरिद्वेगविधारण ॥ १.४ ॥
जय दारुवनोद्यान- मुनिपत्नीविमोहक ।
जय नृत्तमहारम्भ- क्रीडाविक्षोभदारुण ॥ १.५ ॥
जयोग्ररूपसंरम्भ- त्रासितत्रिदशासुर ।
जय क्रूरजनेन्द्रास्य- दर्शितासृक्सुनिर्झर ॥ १.६ ॥
जय वीरपरिस्पन्द- दक्षयज्ञविनाशन ।
जयाद्भुतमहालिङ्ग- संस्थानबलगर्वित ॥ १.७ ॥
जय श्वेतनिमित्तोग्र- मृत्युदेहनिपातन ।
जयाशेषसुखावास- काममोहितशैलज ॥ १.८ ॥
जयोपमन्युसन्ताप- मोहजालतमोहर ।
जय पातालमूलोर्ध्व- लोकालोकप्रदाहक ॥ १.९ ॥

__________

वृत्ति:
अन्धकस्य महासुरस्य यौ विस्तीर्णौ स्कन्धौ तयोर्बन्धो विचित्रः सन्निवेशः तस्य भेदो विदारणम्। तस्मिन्यो विचक्षणः पण्डितस्त्वमेव, नान्यः। तस्यामन्त्रणं हे तथाभूत भगवन् जयेति।
किञ्च प्रकृष्टो वरो ब्रह्मदत्तो येषां ते प्रवराश्च वीराश्च प्रवरवीरेशाः। तैरेव समुपरुद्धं यत्त्रिपुरं तस्य दाहक हे भगवञ्जयेति।
तथाखिलानां सुराणामीशानो ब्रह्मा तस्य यच्छिरः तस्य च्छेदः पुराणेतिहासादिभिरुक्तस्तेन भयानको रौद्रमूर्तिः तस्य सम्बोधनम्।
किं च सकलत्रैलोक्यमोहकत्वेन यः प्रथितसामर्थ्यो मन्मथः कामस्तस्य भोगादिस्थितिहेतुत्वात्स्थितिः शरीरं तस्य नाशन हे भगवन् जयेति।
अपि चाच्युतस्य विष्णोस्तनुध्वंसनहेतुत्वात्तनुध्वंसः कालकूटस्तस्य वेगस्तमपहरतीति। यदुक्तं वायुपुराणे

विषेणोद्भूतमात्रेण तेन कालानलत्विषा।
।ॄउओते{विषेणोद्भूत॰।देव्दोत्जनार्दनः
Vआयुपुराण ५४:५८.}
निर्दग्धो रक्तगौराङ्गः कृतः कृष्णो जनार्दनः॥ इति

तस्य बलान्यपहरतीति बलापहो यस्तस्य सम्बोधनम्।
किञ्च आवर्तः परिभ्रमस्तेनात्यन्तभीषणाटोपो वेगवत्प्रवाहः स यस्याः सरितः प्रकरणाज्जाह्णव्याः सावर्तमहाटोपसरित् । तस्या वेगो बलं तद्विधारण। किल शिरसि तथाभूता महानदी भगवतैव धार्यते नान्येनेत्यतिशयस्तुतिः॥ २--४॥

किञ्च दारूणि देवदारूणि तेषां वने यदुद्यानमाश्रमस्तस्मिन्ये मुनयस्तेषां तेषां च याः पत्न्यस्तासां विमोहक। अविजितकामक्रोधादीन्मुनीन्पत्नीश्च केनापि प्रयोजनेन विमोहयतीत्यत्र प्रशंसार्थोऽन्यथा कुत्सैवेयं कुतः स्तुतिरिति।
तथा नृत्तं विचित्राभिनयाद्यात्मको गात्रविक्षेपस्तस्य महारम्भलक्षणा क्रीडा। अस्य वैलक्षण्येन ताण्डवरूपं विहरणम्। तया विक्षोभोऽनवस्थितिर्जगतस्तेन दारुण भीषण हे भगवञ्जयेति। तदिदमुक्तम्।

चलति मही दलन्ति गिरयः स्खलन्त्युदधयो नमन्ति खेचरा इत्यादि
त्रिभुवनमस्वतन्त्रमिह यस्य नृत्तसमये स पातु नो हर इत्यन्तम्।


किञ्च उग्रं भीषणं यद्भैरवाकारं रूपमुमासन्त्रासदानाय घटत इतीतिहासपुराणादिगीतं तस्य संरम्भो जगत्त्रासलक्षणाभिनयानुकारस्तेन त्रासिता देवासुरा येन तस्य सम्बोधनम्।
किञ्च क्रूरजनानां रक्षसामिन्द्रो रावणस्तस्यास्येषु दर्शितोऽसृगेव सुनिर्झरः प्रपातो येन तस्यामन्त्रणम्।
किञ्च वीरो वीरभद्रः तस्य परिस्पन्दः प्रेषणं तेन दक्षस्य प्रजापतेर्यज्ञविनाशन हे भगवञ्जयेति प्रशंसार्थोऽन्यथा निन्दैव कुत्सितत्वादस्येति।
किञ्च अद्भुतमाश्चर्यभूतं यन्महालिङ्गं सकलत्रैलोक्यस्य व्यापकं तस्य संस्थानमाकारविशेषो ज्वालात्मकः तस्य बलं तेजसोऽसह्यत्वं तेन गर्वित ब्रह्मविष्ण्वादिभ्योऽपि सातिशय हे भगवञ्जयेति। यदुक्तं वायुपुराणादौ

अकस्माद्ब्रह्मविष्ण्वाद्यैर्ज्वालालिङ्गं तदद्भुतम्।
दृष्टमभ्युद्गतं येन व्याप्तं सर्वं चराचरम्॥ इति॥ ५--७॥

किञ्च श्वेतो महामुनिः तन्निमित्तमुग्रस्य मृत्युदेहस्य निपातन हे भगवञ्जयेति।
अपि चाशेषस्य सुखस्याभिरतेरावासः स्थानं कामस्तेन मोहिता शैलजा गौरी येनेति कामोऽपि यस्य वशे गौरी वा सर्वलोकेश्वरी यं प्रति साभिलाषेति प्रशंसार्थः।
किञ्च उपमन्योर्यः सन्ताप स्तपोजनितशरीरक्लमः यच्च मोहजालमेव पञ्चविधविपर्ययात्मकं तमोवृत्ति त्वात्तमस्तद्धरति यस्तस्य सम्बोधनम्।
किञ्चान्यत् । पातालानां मूलं कालाग्निभुवनं तत ऊर्ध्वं लोकः स्थावरादिमनुष्यान्तः षड्विधो भूतसमूहः। अलोकस्तु तद्विलक्षणः पिशाचादिपिता महान्तोऽष्टविधो दैवसर्गः। यदुक्तं सांख्यैः

अष्टविकल्पो दैवस्तैर्यग्योनिश्च पञ्चधा भवति।
।ॄउओते{अष्ट्देव्दोत्सर्गः
।षन्ख् । ५३.}


मानुष्यस्त्वेकविधः समासतो भौतिकः सर्गः॥ इति।


तस्य दाहकेत्युपलक्षणम्। स्थितिसंरक्षणदानभवानुग्रहकर्तः हे भगवन् जय। जयेति जयत्येवास्य श्रीकण्ठनाथस्याधिकारात् ।
तदेवमपदान षोडशकात्मिकया स्तुत्या भगवतः श्रीकण्ठनाथस्यास्यैव दर्शनं, न योगिनां विद्येशानां वा मध्यपठितस्येति दर्श्यते।
तथैतावद्भिरेवापदानैरियं स्तुतिर्दृष्टा नापदानान्तरैश्चक्रप्रसाददेहार्धगौरीधारणादिभिरपीति।

अन्धयतीत्यन्धको मलः तस्य पृथुस्कन्धावूर्ध्वाधोदृक्प्रतिरोधशक्ती ताभ्यां बन्धनं पुंसां दृक्क्रियावरोधः। तस्य भेदे दीक्षाद्वारेण यो विचक्षणस्तस्य सम्बोधनम्। इत्येवं सर्वथेयमत्र दीक्षानिर्वर्त्यकार्यस्तुतिर्गौणलाक्षणिकया वृत्त्येति व्याचक्षते।
तेषां प्रसिद्धस्यार्थस्य परित्यागेऽत्रासिद्धस्य च कल्पने किं कारणमिति वक्तव्यम्। कारणं विनैव हि तथात्वे सर्वत्र गौणमुख्यार्थाव्यवस्थितिः पदवाक्ययोरप्रतिप त्तिरेव। तदुक्तम्।

नर्ते प्रयोजनादिष्टं मुख्यशब्दार्थ लङ्घनम्। इति।
।ॄउओते{नर्त्देव्दोत्लङ्घनम्
षोउर्चे उन्क्नोwन्.
़ुओतेदल्सो अद् ।ंत् ।Vড়्। ३:२० अन्दोन् प्.१२
ओf थे {ःेतुबिन्दुटीका}.}

श्रीमद्रौरवाददौ परमशिवविषयत्वात्स्तोत्रस्य परमशिवे चाशरीरत्वेन शशाङ्कार्धशेखरत्वाद्यसम्भवाद्युक्तैवाप्रसिद्धार्थकल्पनेत्यविरोधः॥८--९॥

अथ किं तद्वचो यदब्रवीत्तार्क्ष्यः स्तुतिपूर्वं दृष्ट्वेत्युक्तम्। तत्रोच्यते


_________________________________________________________


भक्तस्य मम भीतस्य शिवज्ञानं परं वद ।
यदवाप्य नराः सर्वे मुक्तिमायान्ति केवलाम् ॥ १.१० ॥

__________

वृत्ति:
भजतीति भक्तः सेवकः बिभे तीति च भीतः।
तस्य यद्यपि दीक्षया संसारभीतत्वमपाकीर्णं तथापि नित्यनैमित्तिकादिकर्म चोदितत्वादनुष्ठेय म्।
तदननुष्ठाने विपरीतानुष्ठाने वा पुनरपि संसाराद्भीतत्वमस्त्येव। यदुक्तम्

आज्ञाविलङ्घनात्प्रोक्तं क्रव्यादत्वं शतं समाः।
।ॄउओते{आज्ञा॰।देव्दोत्समाः
आत्त्रिबुतेद्wइथ्थे एxप्रेस्सिओन् {पौष्करादौ}
ब्य् ।ृअम्। अद् ।ंत् । ।Vড়्। ५:६, प्.१०८.}
इत्यदोषः।
ततश्च यथा पूर्वं मम भक्तस्य सतो भीतस्य दययैव दीक्षाख्योऽनुग्रहस्त्वया कृतस्तथैवाधुना शिवस्य सर्वज्ञस्य श्रेयोहेतोर्भगवतः कार्यरूपतया प्राप्यत्वेन च सम्बन्धि ज्ञानं शास्त्रं वदेति।
शिवज्ञानपदेन कौलमहाव्रतादिनिरासस्तेषामसर्वविषयत्वेन वैशेषिकादेरिव सर्वज्ञकृतत्वाभावात् ।
परमित्यनेन स्रोतोन्तरेभ्यो वामदक्षिण गारुडभूततन्त्रेभ्योऽस्य विशेषस्तेषां शिवकृतत्वेऽपि सिद्धिप्रधानत्वेनापरत्वात् ।

ननु वेदादिज्ञानान्येवं हरिहरहिरण्यगर्भाद्यात्मकप्रसिद्धशिवकृतानि पराणि भविष्यन्तीति। तदयुक्तं तेषामशिवत्वरूपमुक्त्युपदेशकत्वेन शिवकृतत्वासिद्धेः। समलत्वमेव ह्यात्मनामशिवता। तद्विरहः केवलित्वं शिवतेति। मलकैवल्यं च तैर्मुक्तावुपदिष्टं मलस्वरूपस्यापरिच्छेदात् । अपरिच्छिन्नस्य हर्तुमशक्यत्वादिति। यज्ज्ञानं प्राप्य नरा मुक्तिमायान्ति केवलां तद्वदेति वेदादिशास्त्रनिषेधः
। ।च्रुx सर्व इति
।ॄउओते{टेस्तिमोनिउम्:
तथा किरणवृत्तौ भगवता
रामकण्ठाचार्येण्देव्दोत्(षेए
१:१.११--१२) यदवाप्य नरास्सर्व इत्यत्र
’सर्व इति ’’ब्राह्मणाः क्षत्रिया
वैश्याश्शूद्रा म्लेच्छाद्यो पि हीऽऽति
श्रुत्यधिकारिण एव गरुत्मतो
धिकारप्रक्रमतस्सर्वपदस्यानियतार्थत्वाद्ऽ इति
व्याख्यातम्। {शैवागमादिमाहात्म्य}
ईFড়् ट्.३७२, प्.१२२५, लिनेस्११--१६.}

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा म्लेच्छादयोऽपि हि। इति

श्रुत्यधिकारिण एव। गरुत्मतोऽधिकारः प्रकृतं सर्वपदस्य नियतार्थत्वात् ।च्रुx । यदुक्तम्

अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः।
।ॄउओते{अर्थः।देव्दोथेतवः
{Vआक्यपदीय} २:३१५ दन्द्३१६ द्.}


प्रोक्ताः सामान्यशब्दानां विशेषस्थितिहेतवः॥ इति।

एवं च दीक्षितत्वेऽप्यविदितशास्त्रविवेकस्य तार्क्ष्यस्यायं प्रश्नस्तथाभू
तशास्त्राधिगमायेति प्रतीयते न तु ज्ञस्येति॥

अथ प्रतिवचनम्
एवमुक्तो हरः प्राह विस्फुरच्चन्द्रशेखरः ।

__________

वृत्ति:
एवं स्तुतिपूर्वदर्शनपूर्वकं शास्त्रवि षयाविवेकप्रदर्शनतः शास्त्रं वैनतेयेन पर्यनुयुक्तः सन् सविस्मयत्वे सत्युत्पन्नशिरःकंपत्वाद्विशेषेण स्फुरच्चन्द्रशेखरः श्रीकण्ठदेवः प्राह।
किञ्च प्राहेत्युच्यते।


_________________________________________________________


भगवानुवाच
भद्रमेतत्त्वया पृष्टं शृणु ज्ञानं महोदयम् ॥ १.११ ॥
किरणाख्यं महातन्त्रं परामृतसुखप्रदम् ।
सर्वानुग्राहकं शुभ्रं पदार्थोद्द्योतकं स्फुटम् ॥ १.१२ ॥

__________

वृत्ति:
यदेतद्भद्रं सकलान्यशास्त्रफलविलक्ष णश्रेयःसाधकं शास्त्रं वदेति त्वया पृ ष्टं तच्छृणूच्यत इति प्रतिज्ञा। अत एवात्र भद्रपदस्यैव मङ्गलाद्यर्थत्वादादिसूत्रत्वेऽपि नाथशब्दानुपादानादेर्दोषः।
महांश्च दर्शनान्तरसिद्ध्यानभिभाव्य उदयः सिद्धिलक्षणो यस्मादित्यनेनास्य शास्त्रस्य प्रयोज नमुक्तम्।
अत एव तथाभूतार्थप्रकाशकत्वात्किरणाख्यमेतदुक्तम्।
महच्च तत्परमेश्वरप्रयुक्तत्वात् । तन्त्रमित्यनेनास्य प्रामाण्यमुक्तम्।
ईश्वरकृतत्वेनैव शास्त्र स्य प्रामाण्यात्, नाकृतकत्वेनासंभवात् । रचना कर्तारं नव्यभिचरतीति यतः।
परं च तत्सर्वार्थव्यापकत्वादमृतं चाविनश्वरमिति परामृतं यत्सुखं परा परिपूर्णता सर्वज्ञत्वकर्तृत्वाभिव्यक्तिः।
तद्ददातीत्युपायत्वेनाभिव्यनक्तीत्यर्थः।
।ॄउओते{टेस्तिमोनिउम्:
श्रीमता रामकण्ठेन किरणवृत्तौ किरणाख्यं महातन्त्रं
परामृतसुखप्रदं। इत्यत्र परञ्च तत्
सर्वार्थव्यापकत्वादमृतञ्चाविनश्वरं।
यत्सुखं। परा परिपूर्णता
सर्वज्ञत्वसर्वकर्त्तृत्वाभिव्यक्तिः
तद्ददात्युपायत्वेनाभिव्यनक्तीति
परामृतसुखप्रदमिति।
ञ् ।ञानप्रकाशऽस्{शिवज् ।ञानबोधवृत्ति}, प्प्.२३--४.}
तदेतन्मुक्तिलक्षणं प्रयोजनान्तरम्। सम्बन्धस्तूपायोपेयत्वादिलक्षणोऽत्रार्थसिद्धः। सर्वेषां तु भक्तानां ब्राह्मणादीनामनु पश्चात्शक्तिनिपातात्
ग्राहकं स्वीकारकम्। न तु शक्तिपातं विना
ब्राह्मणजातिमात्रस्यापि विशिष्टतराधिकारविषयत्वमित्यर्थः।

शुभ्रमिति वक्ष्यमाणपादचतुष्टयशोभायुक्तत्वात् । न त्वानर्थक्यलूनविशीर्णात्मकमिति विशि ष्टस्वरूपकथनम्। पदार्था अर्थराशयः षट्पश्वादयो वक्ष्यमाणास्तेषामुद्द्योतकमित्यनेनास्याभिधेयकथ
नम्। स्फुटमित्यनेन संहितान्तरेभ्योऽस्य विशेषः।
तानि ह्यस्फुटं कृत्वा पदार्थानामुद्द्योतकान्यतस्तैरगतार्थत्वमित्यर्थः।
एवं च स्वरूपागतार्थत्वप्रामाण्याधिकारिसम्बन्धाभिधेयप्रयोजनानि शास्त्रस्योक्तानीति प्रतिज्ञारूप मेतदेवादिसूत्रम्
अथातोऽनादि मध्यान्तेत्यादि श्रीमद्रौरव
।ॄउओते{अथातोऽनादिमध्यान्तं

{ऋऔरवसूत्रसङ्ग्रह} १:१ .}
इव अथाणोर्बन्धसोपान
।ॄउओते{अथाणोर्बन्धसोपान॰
।ंत् ।Vড়्। २:१ .}
इत्यादि श्रीमन्मतङ्ग इव चैवंरूपत्वादादिसूत्रस्य।
न तु पशुपाशेत्यादि तस्यैतत्सूचितार्थान्तरप्रतिज्ञारूपत्वेनोत्तरसूत्रत्वादिति दर्शयिष्यामः।
यत्त्वत्र सम्बन्धादीनामेतदभिधानं प्रमाणत्वादकर्तव्यमिति चोदयित्वा लोक इव संशयहेतुत्वेनापि कर्तव्यमिति केनापि प्रतिविहितं तदयुक्तमेव।
तर्कशास्त्राणामिव लौकिकवाक्यस्येव चास्य सूत्रस्याभिधानमात्रत्वासिद्धेः।
परमेश्वरप्रणीतं ह्येतदागमरूपं प्रमाणमिति कथं सन्दिग्धविषयं स्यात्प्रमाणस्य स्वप्रमेयनिश्चयरूपत्वेन तद्विषयसंशयनिवृत्तिफलत्वादिति
सम्बन्धादिनिश्चयत्वेनैवात्र प्रतिविधेयमिति॥

अथ किं तस्य शुभ्रत्वम्। कीदृशाश्च ते पदार्था येषामेतद्द्योतकमुक्तम्।
कियत्संख्याश्चे ति तदर्थमेतत्प्रतिज्ञासूत्रान्तरम्॥


_________________________________________________________


पशुपाशपतिज्ञान- विचारप्रतिपादकम् ।
क्रियाचर्यासमोपेतं योगभूतिभरावहम् ॥ १.१३ ॥

__________

वृत्ति:
पशुशब्दो निर्मलानामप्रयोगात्समलानामेवात्मनामभिधायकः।
ते च बहवोऽपि सकलाकलभेदेन द्विरूपाः। तत्र सकला द्विरूपाः सूक्ष्मदेहाः स्थूलदेहाश्च।
अकला अपि विज्ञानाकलाः प्रलयाकलाश्चेति द्विरूपा एव। ते सर्व एव पशवः पशुशब्दवाच्याः तावदत्रैकः पदार्थः पशुरित्युच्यते।

पाशास्तु
।ॄउओते{टेस्तिमोनिउम्:
पाशस्तु मलकर्ममाययोस्तेषां पशूनां
त्रिविधा। इति रामकण्ठे (सिच्)
।ीसन् Vओल्.ईईई, प्.२३.}
मलकर्ममायीयाः ते षां पशूनां त्रिविधाः।
तथा हि विज्ञानकेवलिनो मल एव। प्रलयकेवलिनो मलः कर्म च।
सकलस्य तु मलकर्ममायीयाः पाशाः।
कस्यचिच्च विज्ञानयोगसन्न्यासैर्भोगाद्वा कर्मक्षयतः संस्कारवशेनैव
।ॄउओते{विज्ञानयोगसन्न्यासैर्भोगाद्वा कर्मक्षयतः
Cf. {ড়रमोक्षनिरासकारिका} ५५ द्,
wहिछ्रेअद्स्भोगाद्वा कर्मणः
क्षयात्तो गिवे अ मेत्रिचल्लस्त्{पाद}.}
चक्रभ्रमणवद्धृतशरीरत्वान्मलमायीयावेवेति सर्वमेतद्वक्ष्यामः।
तत्र मल एक एवानेकपुरुषावारकानेकशक्तिः।
न पशुतत्त्वात्तत्त्वान्तरं तेन विना पशुत्वायोगात् ।
वस्त्वन्तरं तु भवत्येव। कर्मापि न तत्त्वान्तरं धर्मादिभावाष्टकभेदेन प्रकृतिसंस्काररूपत्वात्तेन विना प्रकृतेर्बन्धत्वायोगात् ।
प्रतिपुरुषमनुष्ठेयत्वेन भिन्नत्वात्विचित्रत्वादनेकप्रत्ययात्मनोपभोग्यमनन्तमेव।

मायीयस्तु कलादिक्षित्यन्तत्रिंशत्तत्त्वात्मकः प्रतिपुरुषं सूक्ष्मदेहात्मना भिन्नो नवत्यधिकशतत्रयभुवनात्मना चाभिन्नः प्रतिभुवनं भूतात्मक स्थूलदेहत्वेन भिन्नश्चाभिन्नश्च स्थूलदेहस्यात्मान्तरैरपि भोग्यत्वादित्यपि निवेदयिष्यामः। मायापि पाशयोनित्वात्पाशः। तिरोभावनशक्तिरपि मायागर्भाधिकारीश्वराभिव्यक्ता पाश एवेत्येतावदर्थजातमत्र द्वितीयः पदार्थः पाश इत्युच्यते।

पतिस्तु भगवान् शिवसदाशिवरूपतत्त्वद्वयभेदेन भुवनपञ्चकभेदेन
।ॄउओते{भुवनपञ्चकभेदेन वक्ष्यमाणः
।Kइर् । ८:१३९--४१.}
वक्ष्यमाणः परमेश्वरः सह मुक्तैस्तृतीयः पदार्थः कथ्यते। ज्ञानपदेन च ज्ञायतेऽनेनेति कृत्वा शक्तिपदार्थोऽत्रेश्वरतत्त्वत्वेन वक्ष्यमाणभुवनचतुष्टययुक्तश्चतुर्थोऽभिधीयते।
।ॄउओते{वक्ष्यमाणभुवनचतुष्टययुक्तः
।Kइर् । ८:१३८ --१३९ .}
तदधिष्ठानं विना पुंसां ज्ञानानुत्पादात् ।
तथा च श्रुतिरपि धियो यो नः प्रचोदयादिति।
।ॄउओते{धियो यो नः प्रचोदयात्
{ऋग्वेद} ३.६२.१०.}

विचारयति पुरुषकर्मानुसारेण जगतः साधारणासाधारणात्मनः सृष्टिसंहारादिकमिति विचारोऽत्र पञ्चमपदार्थतया विद्या विद्येशात्मकतत्त्वद्वयरूपषड्विंशतिभुवनभेदभिन्नोऽर्थराशिः प्रतिपाद्यते।
एषां पञ्चानां पदार्थानां प्रतिपादकं शास्त्रं विद्यापादात्मकं शृण्विति प्रतिज्ञातार्थानुषङ्गः। न तु पशुपाशपतीनां यत्ज्ञानं यश्च विचारोऽनुमानं तयोः प्रतिपादकमेतच्छास्त्रं शृण्विति व्याख्येयम्।
शास्त्रस्य शब्दात्मकत्वेनानन्वयात् । न हि शब्दात्ज्ञानं प्रतीयते। ।च्रुx वाचकत्वेनास्य वाच्यसंकेतित्वात् ।च्रुx । अपि त्वर्थ एव। ज्ञानं तु ततोऽनुमेयम्।

अथ ज्ञानशब्दोऽत्रार्थात्पश्वादिज्ञानहेतौ वाक्ये प्रयुक्तो विचारशब्दोऽपि तदनुमानहेतौ लिङ्ग इति व्याख्यायते।
।च्रुx एवमपि रूढार्थत्यागेनानयोरत्र प्रवृत्तेरविशेषाद्वरं।च्रुx।
पदार्थ विषयतैव युक्तेति। पदार्थानां पञ्चत्वसिद्धिः। यदुक्तं श्रीमद्रौरवे

पदार्थाः पञ्च विख्याता विद्येशवदनोद्भवाः।
।ॄउओते{पदार्थाः।देव्दोत्समासतः
।ृऔष् । ४:४८; च्f.
विधिः क्रिया कला योगः शिवश्चेति समासतः।
पदार्थाः पञ्च विज्ञेयाः शैवशास्त्रे ह्यनुत्तरे
ॠउओतेद्ब्यालक अद्{ःरविजय} ६:१४७.}

विधिः क्रिया कलायोगौ शिवश्चेति समासतः।


इति पूर्वैव व्याख्या युक्ता। क्रिया करणं संस्करणं दीक्षेति। चर्या चरणं नित्यादिकर्मानुष्ठानं ताभ्यां समं तुल्यत्वेनोपेतं क्रियाचर्यात्मकपादद्वय युक्तमप्येतच्छास्त्रं शृण्वित्यर्थः।
यो योगश्चेतसो ध्येयेनार्थेन सम्बन्धस्तद्विषयः समाधिरेकाग्रतारूपो वा
तस्य भूतिः प्रत्याहाराद्यङ्गावैकल्येन भवनं तस्याभरोऽनन्तफलाविर्भावः
तमावहति यच्छास्त्रं तच्छृण्विति चतुर्थस्य पादस्य प्रतिज्ञेत्यर्थादत्र पादसंख्यापि प्रतीता। क्रियादिपादत्रयप्रतिपाद्यश्चार्थः
षष्ठः पदार्थः कथ्यते यः श्रीमतङ्गादावुपायपदार्थत्वेनोक्तः।
अर्थतथात्वस्थितिश्च संहितान्तरात्संहितान्तर संशयविषयेषु युक्तैककर्तृकत्वाच्छ्रुत्यादिशास्त्रेष्विवेत्य दोषः।
तदेवं

चतुष्पादमिदं शास्त्रं षट्पदार्थाभिधायि च।


इत्य स्यानुषङ्गिकस्य प्रतिज्ञासूत्रस्यार्थः॥


अत्र पूर्वः पक्षः


_________________________________________________________


गरुड उवाच
यद्येवं स पशुस्तावत्- कीदृशो बध्यते कथम् ।
मुच्यते कथमाख्याहि संदेहविनिवृत्तये ॥ १.१४ ॥

__________

वृत्ति:
यद्येवं पश्वादयः षट्पदार्थास्त्वया व्याख्येयत्वेनोद्दिष्टाः।
तत्र यः प्रथमपदार्थत्वेन सङ्गृहीतः पशुः स कीदृश इति तस्य तावल्लक्षणं वक्तव्यं यतः
सौगतैरसौ प्रतिक्षणं ध्वंसित्वेन विज्ञानसन्तानात्मकः।
वेदान्तविद्भिश्च कैश्चिद्ब्रह्मकार्यत्वेनानित्य इष्यते।
नैयायिकादिभिस्तु नित्यः। तथा चार्वाकैश्चतुर्महाभूतात्मकः।
वैशेषिकादिभिस्तु तद्विलक्षणः। तथा सांख्यैस्तु बद्धावस्थायां मुक्त्यवस्थायामिव ज्ञत्वस्वभावश्चाकर्ता च।
जैमिनीयादिभिस्तु ज्ञः कर्ता चेति।
नैयायिकादिभिश्च बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारैर्नवभिर्गुणैर्युक्तः।
सांख्यैस्तु निर्गुणः। एवं पुरुषकारवादिभिः प्रभुः स्वतन्त्रः । दैववादिभिश्चास्वतन्त्रः। तथा दिगम्बरैर्जीवोत्पत्तिवादिभिश्च वेदान्तविद्भिरव्यापकः। नैयायिकादिभिश्च व्यापक इत्येवमनेकाप्रतिष्ठितकुयुक्त्यधिगमात्संशयोऽस्माकम्।
ततस्तन्निवृत्त्यर्थमाख्यातव्यं भवता कोऽत्र पक्षः सर्वज्ञेनानेन दर्शनेनानुगृहीतो य आगमसंवादित्वात्प्रमाणं
को वाननुगृहीतो य आगमविरुद्धत्वादप्रमाणमिति।
किञ्च बध्यते कथमिति केन प्र कारेण। किं नैयायिकादीनामिव शरीरेन्द्रियैरेवाथ सांख्यादीनामिव बुद्ध्यादिभिरपीति संशयः।
किञ्च मुच्यते कथमिति किं ज्ञानेनैव सांख्यादीनामिव। किं योगेन पातञ्जलादीनामिव सन्न्यासेन वा वेदान्तवादिनामिव क्रियया वा जैमिनीया नामिव।
यदाहुः

नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया।
।ॄउओते{नित्यनैमित्तिक्देव्दोत्काम्यनिषिद्धयोः
।ष्लोक् {सम्बन्धाक्षेपपरिहार} ११०.}

मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः॥ इति।


एवमत्रापि सन्देहोऽतस्तन्निवृत्तये वक्तव्यमिति॥

अथ सन्देहाष्टकनिवृत्तये सिद्धान्तः॥


_________________________________________________________


भगवानुवाच
पशुर्नित्यो ह्यमूर्तोऽज्ञो निष्क्रियो निर्गुणोऽप्रभुः ।
व्यापी मायोदरान्तस्थो भोगोपायविचिन्तकः ॥ १.१५ ॥

__________
वृत्ति:
नित्यत्वश्रुत्यात्र सौगतादिमततिरस्कारेण नैयायिकादिदृष्टहेतूनामनुग्रहः।
किं चामूर्त इति। मूर्तिः काठिन्यं विद्यते यस्य स मूर्तः स्पर्शवदर्थः
महाभूतचतुष्टयात्मक उच्यते तद्रूपो न भवतीति भूतचैतन्यवादितिरस्कारेण तद्वैलक्षण्यप्रतिपादकसौगतादिदृष्टहेतूनामनुग्रहः।
अपि चाज्ञो निष्क्रिय इत्यकलावस्थायां
ज्ञानक्रियारहित एव सक लावस्थायां
चालवणः सूप इतिवदल्पज्ञोऽल्पक्रियश्चेति सांख्यादि प्रतिक्षेपेण
जैमिनीयादिपक्षानुग्रहः।
निर्गुण इत्यनेन तु नैयायिकादिदृष्टबुद्धिसुखदुःखादिनवात्मगुणप्रतिक्षेपेण सांख्यादिदृष्टस्य निर्गुणत्वस्यानुग्रहः।
अप्रभुरित्यने नाप्यल्पप्रभुत्वं प्राग्वदुच्यते।
इदानीमर्जनीयदृष्टादृष्टफलविचित्राग्निष्टोमादिकर्मविषय एव प्रभुः प्राग र्जितकर्मभोगे त्वप्रभुरेवेति पुरुषकारदैववादिनोर्द्वयोरप्येकांशितयानुग्रहः।
व्यापीत्यनेनाव्यापकजीवपुद्गलवादिप्रतिक्षेपेण तद्व्यापकवादिनैयायिकाद्यनुग्रहः। इत्यत एव सर्वान्यागमदर्शनज्ञत्वात्गरुत्मतो नात्रात्मनित्यत्वादिसिद्धौ हेतवः कथिताः।
तैर्विनापि स्थाणुपुरुष विषयसंशयस्य स्थाणुरयमित्याप्तवाक्यादि वास्यापि संशयस्य चक्रस्यान्यतरपक्षानुग्रहेण तदुक्तहेत्वनुग्रहेण वा निवृत्तिसिद्धेस्तेषामल नुपयोगात् ।
यदिवानुभवसिद्धत्वमने नात्मनः प्रतिपाद्यते अनुभवसिद्धौ हेतूनामनुपयोगात्यथा घटोऽयं लोहितः परिवर्तुल इत्यत्रानुभवसिद्धत्वान्नास्य हेतुः सम्भवति।
तथा ग्राहकात्मन्यपि परात्मप्रकाशकतयानुभवसिद्धेः स्थैर्यमनुभवसिद्धमेव तथावगमात् । इति किमत्र हेतुना कार्यम्।
न च क्षणिके तस्मिन्कालादाविव विभ्रमात्स्थैर्यमध्यारोपितमिति वाच्यम्।
स्वात्मनि क्रियाविरोधेनाविकल्पत्वाद्विकल्पानामध्यारोपासम्भवादिति दर्शितमस्माभिर्मतङ्गवृत्तौ
।ॄउओते{दर्शितमस्माभिर्मतङ्गवृत्तौ अद्
।ंत् । ।Vড়्। ६:२४ ब्.}
तत एवावधार्यम् । न च स्थिरस्यार्थक्रियानुपपत्तिलक्षणेनानुमानेनात्र क्षणिकत्वं साधयितुं शक्यं तस्याप्यसिद्धत्वादि दोषदुष्टत्वादित्यपि दर्शितमस्माभिर्नरेश्वरपरीक्षाप्रकाशे।
।ॄउओते{दर्शितमस्माभिर्नरेश्वरपरीक्षाप्रकाशे
अद् ।णर् । १:२२, प्प्.५२--५६.}
ततोऽवधेयम्।

किञ्च अमूर्तत्वमस्य प्राग्वदेव मूर्तोपलक्षितस्पर्शयुक्तमहाभूताकारशरीरादन्यत्वं तद्ग्राहकतया प्रकाशनादित्यनुभवेनैव
भूतात्मनिषेधः।
अत एव भूतोद्भूताच्चास्य विलक्षणत्वेनानुभवान्न भूतेभ्यः समुत्पत्तिः।
प्रतिजन्म पूर्वतरजन्मानुभवसंस्कारोत्पन्नस्मरणपूर्वचेष्टादर्शनतोऽनादित्वेन नित्यत्वेन सिद्धेश्चेति प्रदर्शितं रौरववृत्तिविवेके
।ॄउओते{इति प्रदर्शितं रौरववृत्तिविवेके परमोक्षनिरासकारिकासु
अद् ।ড়रमोक्स् ४४--६.}
परमोक्षनिरासकारिकास्वस्माभिः। प्रोक्तञ्चान्यैः

आद्यः करणविन्यास ः प्राणस्योर्द्ध्वं समीरणम्।
।ॄउओते{आद्यः।देव्दोत्पूर्ववेदनाम्
।Vअक्य् १:१३०. ़ुओतेदद् ।ড়रमोक्स् ४४ अन्द् ।णर् । १:१९, प्.४५.}

स्थानानामभिघातश्च न विना पूर्ववेदनाम्॥ इति।

तथास्य किञ्चिज्ज्ञत्वकर्तृत्वाल्पप्रभुत्वं प्राग्वदनुभवसिद्धमेव। एवं निर्गुणत्वमपि बुद्धिसुखदुःखादीनां कादाचित्कत्वेनानुभवतो घटादेरिव ग्राह्यत्वेन तद्विरुद्धधर्मतयानुभवात् ।
सर्वदैव हि क्रमेण युगपद्वानेकग्राह्यविषय ग्राहकरूपमप्यभिन्नमेवात्मतत्त्वमनुभवसिद्धमिति दर्शितमस्माभिर्नरेश्वरपरीक्षाप्रकाशे।
।ॄउओते{इति
दर्शितमस्माभिर्नरेश्वरपरीक्षाप्रकाशे
अद्१:२२, प्प्.५२--६.}
व्यापित्वमप्यस्य दिक्कालानवच्छेदेन तद्ग्रहीतृतया
प्रत्यग्रूपेण भासनात्न च ग्राह्येण घटादिनेव ग्राहकस्यावच्छेदो युक्तः। तदिदमाहुः

अनवच्छिन्नसद्भावं वस्तु यद्देशकालतः।
।ॄउओते{अनवच्छिन्नसद्भावं।देव्दोत्विभुनित्यते
{टन्त्रवार्त्तिक} २.१.५.}

तन्नित्यं विभु चेच्छन्तीत्यात्मनो विभुनित्यते॥ इति।


अनुभवत एव सर्वधर्मयुक्तस्यास्य सिद्धिरिति दर्शयितुं नात्र हेतवः कथिताः। श्रुतिरप्येवमाह

तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति।
।ॄउओते{तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति
{Kअठोपनिषत्} ५:१५ द्,
{श्वेताश्वतरोपनिषत्} ६:१४ द्
अन्द्{ंुण्डकोपनिषत्} २.२.११ द्.}


इत्यविरोधः। तदेवं परस्परविरुद्धार्थानेकपशुदर्शनजनितं पशुविषयसंशयषट्कं तावदपाकृत्य स्वदर्शनप्रसिद्धमेवास्यावस्थाभेदेन स्थानवैचित्र्यमुच्यते।
मायाया उदरञ्चान्तश्च तयोः स्थित इति।
तत्र मायोदरे प्रलयकेवली स्थितः। मायाप्रान्ते तन्मस्तके तु विज्ञानकेवलीति भेदः। मायोदरमेवान्त इति तु व्याख्यायमाने विशेषणमफलमेव।
अत एव प्रलयकेवलिगतत्वेन प्रश्नो भविष्यति।
स्थितो मायोदरे कथमिति।
।ॄउओते{स्थितो मायोदरे कथम्
।Kइर् । २:६ .}
न तु मायोदरान्त इति। सकलस्तु भोगोपायः कार्यकरणादिस्तत्र चिन्तकोऽनुभवितेति तत्रस्थ उच्यते। यद्वक्ष्यति एवं तत्त्वकलाबद्धस्तन्मय इति
।ॄउओते{एवं तत्त्वकलाबद्धस्तन्मयः ।Kइर् ।
१:१९ द्.}


अधुना बध्यते कथमित्यस्य संशयस्य निरासः॥

_________________________________________________________


तस्याशुद्धस्य सम्बन्धं समायाति शिवात्कला ।

__________

वृत्ति:
तस्येत्यनेन प्रकृतस्य पशोरेव परामर्शः।
नात्राशुद्धस्य मलयुक्तस्येति व्याख्येयम्।
नापि कलादियुक्तस्य सकलस्य अनुक्रमेण वक्ष्यमाणत्वात् ।
अपि तु मलकर्मयुक्तस्येति ततोऽयमर्थः --- तस्य पशोर्मलकर्मयुक्तस्यैव कला सम्बन्धमायाति न तु कर्मरहितस्य विज्ञानकेवलिनः। यद्वक्ष्यति
भोगं भुङ्क्ते स्वकर्मत इति।
।ॄउओते{भोगं भुङ्क्ते स्वकर्मतः
।Kइर् । १:२० .}
विशेषणोपादानसामर्थ्यादेवात्र विज्ञानकेवलिस्वरूपनिश्चयः।
कलायाञ्च भोग्यत्वं परिमितत्वमुच्यते। अत एव घटादिवदस्याः कार्यत्वाचेतनत्वयोः सिद्धिरिति।
कारणमस्याश्चतुर्थेऽध्याये वक्ष्यति।
।ॄउओते{चतुर्थेऽध्याये वक्ष्यति सेए ।Kइर् ।
४:१७--२२.}
इह तु पुरुषं प्रति बन्धकत्वमात्रमेव प्रतिपाद्यते।
सा च शिवात्तेन सह सम्बन्धमायाति।
अत एवाचेतनत्वादस्वातन्त्र्येणेति एतच्च तत्त्वान्तराणां वक्ष्यमाणानामपि मन्तव्यं तेषामपि परिमितत्वात् । यद्वक्ष्यति
एवं तत्त्वकलाबद्ध इति।
।ॄउओते{एवं तत्त्वकलाबद्धः
।Kइर् । १:१९ .}
ततोऽयमर्थः---यद्यदचेतनं तत्तद्विशिष्टज्ञानक्रियायुक्तकर्तृप्रेरितमेवान्येन सह सम्बन्धमुपयाति घटादिवत् ।
अचेतनं च कलाद्यतस्तदपि विशिष्टज्ञानक्रियायुक्तकर्तृ प्रेरितमेव पुंसा सम्बध्यत इति।
यश्चासौ कर्ता स शिव इति पतिपदार्थस्याप्यत्रैव निर्णयः।
न च वाय्वादिभिरनेकान्तः तेषामपि पक्षीकृतत्वात् ।
स्थूलं विचित्रकं कार्यमित्यादिना
।ॄउओते{स्थूलं विचित्रकं कार्यम्
।Kइर् । ३:१२ .}
तु तस्य कार्यत्वहेतुतोऽपि निर्णयो भविष्यतीत्यविरोधः॥

ननु कलैव तावदसिद्धेति कुतस्तस्याः प्रेरणतः कर्ता सिध्यतीति। तत्रोच्यते
तयोद्बलितचैतन्यो विद्याख्यापितगोचरः ॥ १.१६ ॥
रागेण रञ्जितश्चापि प्रधानं च गुणात्मना ।
बुद्ध्यादिकरणानीक- सम्बन्धाद्बध्यते पशुः ॥ १.१७ ॥

__________

वृत्ति:
तया कलयोद्बलितं मलनिवृत्तिद्वारेण समर्थीकृतं चैतन्यं यस्य पुंसः स तथोक्तः। एतदुक्तं भवति --- वक्ष्यमाणस्य युक्तिसिद्धस्य पुंसो दृक्क्रियावरणात्मनो मलस्यावश्यं सकलावस्थायां कश्चित्परिमितोऽर्थो निवर्त्तकोऽभ्युपगन्तव्यः।
अन्यथा प्रलय केवलिनां मुक्तानामिव संवेदनस्य किञ्चिद्विषयस्यानुभूयमानस्यानुपपत्तिः।
स च न तावत्पुरुषः प्राग्वदशक्तेः। नापि कर्म अत एव भोगान्यथानुपपत्तिसिद्धेश्च।
न हि यत्कार्यान्तरान्यथानुपपत्त्या संसिद्धसत्ताकमत्यन्तातीन्द्रियं
वस्तु तत्कार्यान्तरकारणत्वेन शक्यमध्यवसातुमनेकेन्द्रियादिकारणान्तरकॢप्तेरप्यभावप्रसङ्गात् ।
अत एव नेन्द्रियादि नेश्वरो वेति यस्तस्य निवर्तकः सा कलेति कलालक्षणेन तावद्बन्धेन प्रथमं बध्यत इति।
तदनु विद्याख्यापितो गोचरो विषयो यस्य स तथोक्तः। विनिवृत्तमलस्यापि हि पुंसः स्मृतिप्रतिभाविकल्पादिवक्ष्यमाणबुद्धिवृत्त्यात्मकसंवित्तौ अवश्यं करणान्तरेण भवितव्यं संवित्तित्वादिन्द्रियार्थसंवित्तिवत् ।
न चात्र बुद्धिः करणं कर्मत्वात्तस्याः।
न चाप्यहंकारादयः तेषां शरीरधारणादिक्रियान्तर करणत्वेन वक्ष्यमाणत्वादत्रापि करणत्वासिद्धेर् ।च्रुx इत्युक्तम्।च्रुx ।
अतो यत्तत्र करणं सा विद्येति बन्धान्तरसिद्धिः।
किञ्च रागेणाभिष्वङ्गात्मना रञ्जितो बद्धः।
अयमर्थः --- योऽयं विषय विषयो रागोऽभिष्वङ्गात्मको नायं विषयधर्मोऽध्यात्मन्येव परिस्पन्द्दात्मकत्वाद्वीतरागाभावप्रसङ्गाच्च।
नाप्यवैराग्यलक्षणो बुद्धिधर्मः।
तस्य भावात्मकतया वासनारूपत्वेनावस्थितेरसंवेद्यत्वात् ।
नापि तद्वृत्त्यात्मकः अभिलषणीयतानुसन्धानेऽपि वीतरागस्य तददर्शनात् ।
नापि कर्मादीनां मलनिवृत्त्यादिवदित्युक्तम्।
पारिशेष्याद्यस्य धर्मः स रागोऽन्यो बन्धः।

ततः प्रधानं सत्त्वादिगुणाकारेण स्थूलभुवनाकारेण च
सम्बध्यते। चशब्दात्कालादीन्यपि वक्ष्यमाणपृथिव्यन्ततत्त्वसहितानि स्वस्वगुणात्मना भुवनाकारेण च सम्बध्यन्त इति।
तत्त्वसर्गवद्भुवनसर्गोऽप्यत्र बन्धत्वेनोक्तः।
ततश्च बुद्ध्यादीनि यानि सांख्यादिप्रसिद्धानि बुद्ध्यहंकारमनोलक्षणानि करणानि च यानि च पञ्चबुद्धीन्द्रियपञ्चकर्मेन्द्रियरूपाण्यनीकं च यत्समूहात्मकं भूततन्मात्रात्मकं दशविधं कार्यान्तरं तत्सम्बन्धात्बद्ध्यत इति सांख्यादिप्रसिद्धस्य बुद्ध्यादेर्वक्ष्यमाणप्रकारेण बन्धस्यानुग्रहः न तु वैशेषिकादिदृष्टस्य देहेन्द्रियात्मन एवेति।
अत एव चात्र दर्शनान्तराप्रसिद्धानां कलादीनामेव बन्धानां कार्यद्वारेणोपन्यासोऽप्रसिद्धत्वादेव तत्प्रसिद्धानां चानुवादमात्रमेवेति न तेषां लक्षणानभिधानादव्याप्तिदोष इति।
अत एव नियत्यात्मनोऽपि बन्धस्य कार्यद्वारेण स्वरूपमुपन्यस्यते
ततो नियतीत्यादि


_________________________________________________________


ततो नियतिसंश्लेषात्स्वार्जितेऽपि नियम्यते ।

__________
वृत्ति:
ततः कार्यकरणसम्बन्धादनन्तरं नियत्या यः संश्लेषः सम्बन्धस्ततो हेतोः प्रागर्जिते कर्मफले नियम्यते पुरुषः।
अयमर्थः---कर्मफलं प्रति नियमः पुंसां न कर्महेतुकः तस्य कृष्यादिकर्मवत्स्वफलजननमात्र एवोपयोगात् ।
नापि तत्त्वान्तरहेतुः स्वकार्यैरेव तेषां सिद्धेः कार्यान्तरहेतुत्वे प्रमाणाभावादित्युक्तम्।
अतः कृष्यादौ राजनियुक्तेनेवात्रापि केनचिन्नियामकेन भवितव्यम्।
योऽसौ नियामकः स नियत्याख्योऽपरो बन्धः।
अत एवास्य मायाकार्यत्वेन वक्ष्यमाणस्यापि कार्यकरणसम्बन्धोत्तरकालं व्यापार इति पश्चादत्र निर्देशः। तथा कालस्यापीत्यदोषः।

अथ कीदृशो नियत्या नियम्यत इत्युच्यते।


_________________________________________________________


कालेन कालसंख्यान- कार्यभोगविमोहितः ॥ १.१८ ॥

__________

वृत्ति:
कालस्य सम्बन्धि यत्संख्यानलक्षणं कार्यं चिरक्षिप्रादि न तु दिशः क्रोशयोजनादि नापि संख्यायाः शतसहस्रादि तेन हेतुना कालेन भोगे मोहितो यः स नियत्या नियम्यते। कालस्यापि भोगहेतुत्वात् । यदाहुः

चिरेण बत लब्धासि न जाने करवाणि किम्।
।ॄउओते{चिरेण बत्देव्दोत्निगिरामि किम्
षोउर्चे उन्क्नोwन्. आल्सो ॠउओतेद्wइथ्
भवन्तीं fओर्पिबामि अद् ।ंत् ।Vড়्। १२:२०--१, प्.३४६.}

प्रविशामि किमंगेषु पिबामि निगिरामि किम्॥ इति।


स च भोगहेतुत्वेनाप्रसिद्धत्वादत्र कार्यद्वारेणोपन्यस्तः। स्वरूपेण वैशेषिकादिसिद्धोऽपि। यदाहुः

कालश्चिरक्षिप्रप्रत्ययलिङ्ग इति।
।ॄउओते{कालश्चिरक्षिप्रप्रत्ययलिङ्गः
Cf. {ড়दार्थधर्मसङ्ग्रह} प्.६३, लिनेस्१५--१६.}
ओर परफ्रसे ओf {Vऐशेषिकसूत्र} २.२.७.}


यत्तु तस्य नित्यत्वादि तैर्गीयते यदाहुः
नित्यमेकं विभु द्रव्यं परिमाणं क्रियावताम्।
।ॄउओते{नित्यमेकं।देव्दोत्कालविदो विदुः
।Vअक्य् ३.९.१. आल्सो ॠउओतेदद् ।ंत् ।Vড়्। १२:३--४, प्.३३७.}

व्यापारव्यतिरेकेण कालं कालविदो विदुः॥ इति।


तन्मायाकार्यत्वेन वक्ष्यमाणत्वात्
।ॄउओते{मायाकार्यत्वेन वक्ष्यमाणत्वात्
।Kइर् । ४:२२.}
भूतभविष्यद्वर्तमानभेदेन च भेदाद्यथेह नेष्यते तथोक्तं मतङ्गवृत्तावस्माभिस्तत एवावधार्यमिति॥
।ॄउओते{तथोक्तं मतङ्गवृत्तौ
अध्याय १२ ओf थे ।Vড়्.}

अथैषां कलादीनां तत्त्वरूपत्वमव्यापकत्वं स्थूलदेहपूर्वकत्वं चोच्यते


_________________________________________________________


एवं तत्त्वकलाबद्धः किञ्चिज्ज्ञो देहसंयुतः ।
मायाभोगपरिष्वक्तस्तन्मयः सहजावृतः ॥ १.१९ ॥

__________

वृत्ति:
तत्त्वानि चैतानि कलादिक्षित्यन्तानि प्रागुक्तानि कलाश्च ता इति
कार्यत्वेन वक्ष्यमाणत्वाद्व्यक्तत्वे सत्यव्यापकत्वात् ।
।ॄउओते{कार्यत्वेन वक्ष्यमाणत्वात्
।Kइर् । ४:२२--३.}
यदुक्तं सांख्यैः

हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्।
।ॄउओते{हेतुमदनित्यम्।देव्दोत्विपरीतमव्यक्तम्
।षन्ख् । १०.}

सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्॥ इति।

ताभिरेवमुक्तप्रकारेण बद्धः सकल एवाप्राप्तबाह्यशरीरः प्रणष्टबाह्यशरीरो वा सूक्ष्मदेहतयेत्यर्थः।
व्यापकत्वे ह्येषां सूक्ष्मदेहत्वानुपपत्तिः। यदुक्तम्

अन्तराभवदेहस्तु निषिद्धो विन्ध्यवासिनेति।
।ॄउओते{अन्तराभवदेहस्तु निषिद्धो विन्ध्यवासिना
।ष्लोक् {आत्मवाद} ६२ ब्.}


तत्त्वकलाबद्धः सन्स्थूलदेहसंयुक्तः किञ्चिज्ज्ञो भवति न तु तदबद्ध इति सकलस्य भेदान्तरप्रतिपादनेन भूतसृष्टेरपि बन्धत्वमुक्तम्।
स्थूलदेहयुक्तश्च पुमान्---मायायाः सम्बन्धी भुज्यते अनुभूयत इति मायाभोगोऽनात्मन्यात्माभिमानरूपो यो मोहस्तेन परिष्वक्तो व्याप्तः सन् तन्मयोऽनात्मन्यात्माभिमानमयो भवति।
न कार्यकरणेभ्यो व्यतिरिक्तमात्मानं मन्यत इति।
इदमेव तन्मायाया मोहकत्वमिति वक्ष्यामः।
।ॄउओते{वक्ष्यामः
।Kइर्V। अद्२:१५.}
प्रोक्तं च श्रीमत्स्वायम्भुवे

इत्थं मायाञ्जनस्थोऽणुर्निजदोषतिरस्कृतः।
।ॄउओते{इत्थं।देव्दोत्रञ्जितः
।ष्वयम्। १:१४.}

याति तन्मयतां तेषु मायाभोगेषु रञ्जितः॥ इति।


मलस्य त्वावारकत्वमेव बन्धकत्वं चक्षुषः पटलादेरिव प्रलयकेवलाद्यवस्थायां सिद्धमित्युक्तं सहजेन मलेनावृत इति॥

अथ कर्मबन्धः।


_________________________________________________________


ततः सुखादिकं कृत्स्नं भोगं भुङ्क्ते स्वकर्मतः ।

__________

वृत्ति:
ततः स्थूलदेहसम्बन्धादनन्तरं प्रागर्जित शुभाशुभकर्मजनितभावप्रत्ययात्मना सुखदुःखादिकं फलं भुङ्क्त इति भावसृष्टेः कर्मबन्धरूपत्वमुक्तम्।
तथा कृत्स्नं निरवशेषं सर्वकर्मक्षयेऽपि तत्संस्कारशेषेण चक्रभ्रमवद्धृतशरीरत्वात्तत्संवेदनमात्रं भोगं भुङ्क्त इति सकलस्यावस्थान्तरं बन्धत्वेनोक्तम्।
तदियता बध्यते कथमित्येतत्प्रश्नस्य निरासाय पाशपदार्थः सर्वोऽभिहितः॥

अधुना मुच्यते कथमित्येतस्य समाधिः।


_________________________________________________________


समे कर्मणि सञ्जाते कालान्तरवशात्ततः ॥ १.२० ॥
तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा ।
सर्वज्ञः स शिवो यद्वत्किञ्चिज्ज्ञत्वविवर्जितः ॥ १.२१ ॥
शिवत्वव्यक्तिसम्पूर्णः संसारी न पुनस्तदा ।

__________

वृत्ति:
कालयति कृष्णतां नयति मलिनी करोतीति कालो मलः।
कालनीलादीनां पदानां वर्णविशेषाभिधायकत्वात् । यदाहुः

यन्न किञ्चिदपि तन्महात्मनः सङ्गमेन परभावमश्नुते।
।ॄउओते{यन्न किञ्चिदपि।देव्दोत्यन्नभः
षोउर्चे उन्क्नोwन्.}

चन्द्रमःकरनिपीतकालिम क्षीरसिन्धुरिव भाति यन्नभः॥ इति।


तस्यान्तरं परिणामस्तस्य वशः सामर्थ्यं तस्मात्कालान्तरवशात्यस्तीव्रः शक्तिपातो न त्वस्माद्भूतभविष्यदादिकालान्तरवशादिति ततःशब्दस्यार्थः।
मलपरिपाकस्यैव शक्तिपातहेतुत्वात् । यद्वक्ष्यति

कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः। इति।
।ॄउओते{कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः
।Kइर् । २:२९ द्.}


श्रीमत्स्वायम्भुवेऽपि

क्षीणे तस्मिन्यियासा स्यात्परं निःश्रेयसं प्रति॥ इति।
।ॄउओते{क्षीणे तस्मिन्यियासा स्यात्परं
निःश्रेयसं प्रति ।ष्वयम्। १:१७ द्.}


तेन यदस्य सममिष्टनिमित्तमनिष्टनिमित्तं च कर्म।
यदाहुः

न हृष्यत्युपकारेण नापकारेण कुप्यति।
।ॄउओते{न हृष्यत्युपकारेण्देव्दोतुच्यते
षोउर्चे उन्क्नोwन्, बुत्fरेॠउएन्त्ल्य्चितेद्, ए.ग्.,
ब्य् ।ाघ् । अद् ।ृअत् ।
३१३--४ अन्दिन् {षर्वज् ।ञानोत्तरवृत्ति}, ईFড়् ट्. ९८५,
प्.३; ब्य् ।णरयन् अद् ।ंर्ग् ।Vড়्। ५:५, प्.१३६,
अन्दिन् थे {अनुबन्ध} तो वोल्.१ ओf
थे ।ंत् । ओन् प्.५७९ अन्दिन् थे {शतरत्नोल्लेखनी} प्.८२.}

यः समः सर्वभूतेषु जीवन्मुक्तः स उच्यते॥ इति।


तस्मिन् सञ्जाते सति गुरुणा मन्त्रगणेनेश्वरेणाचार्याधिकरणेन दीक्ष्यते नान्यथा।
तथाभूतकर्मसमत्वं विनाचार्यस्य शक्तिपातानिश्चयात् ।
न त्वत्र कर्मणां विरुद्धफलानां साम्यं युगपत्परिपाकात्तीव्रवेगत्वेन वा व्याख्येयम्।
तन्निमित्तस्य शक्तिपातस्य मोक्षहेतुत्वाभावात् ।
अत एवासौ विरुद्धकर्मद्वयापेक्ष संकटात्पुंसां मोक्षहेतुः न बन्धान्तरात्तस्य प्राग्वदविशेषादिति दर्शयिष्यामः।
।ॄउओते{इति दर्शयिष्यामः
अद् ।Kइर् । ५:१२ दन्देल्सेwहेरे इन्
थे चोम्मेन्तर्योन् थे fइfथ्{पटल}.}

स चैवं दीक्षितः सद्योनिर्वाणदीक्षया यदा भवति तदा शिववत्सर्वज्ञः सर्वकर्ता च किञ्चिज्ज्ञत्वहेतुभिर्बन्धैर्विवर्जितश्च भवति।
यदा त्वसद्योनिर्वाणदीक्षया दीक्षितो न पुनः संसारी यदा
पतितशरीरो भवति तदा शिवत्वव्यक्तिसंपूर्णो भवति न प्रागारब्धकार्यकर्मभोगोपरोधे न सर्वात्मना बन्धक्षयस्य शिवत्वस्य व्यक्तेश्चाकरणादिति वक्ष्यामो येनेदं तद्धि भोगत इत्यत्र।
।ॄउओते{येनेदं तद्धि भोगतः
।Kइर् । ६:२० .}
शिवत्वस्य व्यक्तिरिह मोक्षः न तु सिद्धे संक्रान्तिरावेशः समुत्पत्तिर्वेत्येतदप्यतः सिद्धम्।
एवं चेह दीक्षयैवेश्वरव्यापारात्मिकया पुंसां विमोक्षः न विज्ञानयोगसन्न्यासैः
।ॄउओते{विज्ञानयोगसन्न्यासैः
।ড়रमोक्स् ५५ .}
द्रव्यत्वाद्बन्धस्य चक्षुषः पटलादेरिव तेषां निवृत्तिहेतुत्वासिद्धेः।
अपि तु पटलादेश्चक्षुर्वैद्यव्यापारेणेवेश्वरव्यापारेण मन्त्रकरणेन दीक्षाख्येनैवेति ज्ञानविचारोपायपदार्थानामप्यत्रैव निर्णयः
सिद्धः।

अथ सर्वेषां प्रश्नसमाधानानामुपसंहारः।


_________________________________________________________


एवं क्रमाद्विबद्धः सन्मुच्यते क्रमयोगतः ॥ १.२२ ॥
केवलः सकलः शुद्धस्त्र्यवस्थः पुरुषः स्मृतः ।

__________

वृत्ति:
यदुक्तं बध्यते कथं मुच्यते कथमिति
।ॄउओते{।देव्दोत्बध्यते कथम्। मुच्यते कथम्
।Kइर् । १:१४ च्.}
च तत्रोक्तमेवं कलादिना क्रमेण विशेषतः सर्वबन्धेन बद्धः सकलीभूतो यः स मलपरिपाकशक्तिपातकर्मसाम्यतदनुमानदीक्षाक्रमेणैव मुच्यते।
ततश्च योऽक्रमेण बद्धो विज्ञानकेवली प्रलयकेवली वा स मलपरिपाकादनन्तरं शक्तिपातमात्रादक्रमेणैव मुच्यत इत्युक्तं भवति।
यदप्युक्तं स पशुः कीदृश इति तस्याप्युपसंहारः। केवलः कलादिरहितत्वाविशेषाद्विज्ञानाकलप्रलया कलभेदभिन्नोऽप्येक एवोक्तः।
सकलस्तु कलादियोगाविशेषात्पूर्वं त्र्यवस्थोऽपि प्रतिपादितोऽत्रैकत्वेनोपसंहृतः।
शुद्धस्तु दीक्षितत्वाविशेषात्प्राक्सदेहादेहभेदेन द्विविधोऽप्यत्रैकत्वेनोपसंहृत इति मुक्त्यवस्थाव्यतिरेकेणावस्थान्तरभेदतः संस्कार्याः षडत्र श्रीमद्रौरवादाविव त्रित्वेनोपसंहृताः। शुद्धस्यापि विद्यापदादूर्ध्वं संस्कार्यत्वात् । यदुक्तं श्रीमद्रौरवे

चेतनस्यापि शुद्धस्य क्षेत्रज्ञस्य शरीरिणः।
।ॄउओते{चेतनस्यापि।देव्दोतिष्यते
णोत्त्रचेद्.}

ज्ञस्वभावात्मनोऽकर्तुस्तस्य संस्कार इष्यते॥


इति संक्षेपेण त्र्यवस्थः पुरुषो नित्यत्वादिध र्मयुक्त उपसंहृत इति।

यस्तु त्र्यवस्थः पुरुष इत्येतत्सूत्रमवस्थान्तरव्युदासपरत्वेन नियमार्थ इति व्याचष्टे तेन सकलस्य तावदवस्थाभेदेन भेदः प्रागुक्तः शुद्धस्य तु युक्तिसिद्धत्वादवश्याभ्युपगमनीय इत्यज्ञानत एव नियमः प्रदर्शितः।
यदपि विज्ञानकेवलिनोऽसम्भवात्केवलावस्थाभेदो नोपपन्न इत्युक्तं तदप्य युक्तं, तस्या सम्भवासिद्धेः।
तथा हि यो यद्बन्धव्यतिरिक्तो यस्य बन्धः स तद्व्यतिरेकेण तस्य सम्भवतीति निगडव्यतिरेकेणेव वैरदण्डादि कर्ममायीयबन्धव्यतिरिक्तश्च मलो भवद्भिरपि पुंसो बन्ध इष्यते।
न तदव्यतिरिक्तो नैयायिकादिभिरिवेति।
ततः केवलमलबद्धः पुरुषः संभवति। योऽपि तन्निराकरणाय प्रयोगो रचितो मलकेवलिनो कर्मबन्धेनापि बद्धा अनादिमलसम्बन्धित्वात्प्रलयकेवलिवदिति।
तत्र पक्षस्तावन्माता मे वन्ध्येतिवत् ।
केवलमलबन्धत्वे कर्मणोऽपि बन्धत्वानुपपत्तेः।
तदुपपत्तौ वा केवलार्थानुपपत्तितः स्ववचननिराकृतत्वाद्दुष्ट इत्ययुक्त एव।
यदाहुः

न तस्य हेतुभिस्त्राणमुत्पत्स्यन्नेव यो हतः। इति।
।ॄउओते{न तस्य्देव्दोथतः
षोउर्चे उन्क्नोwन्.}


आगमनिराकृतश्च। यदुक्तं श्रीमन्मालिनीविजयादौ

विज्ञानकेवलानष्टौ सर्गादाविच्छया पतिः।
।ॄउओते{विज्ञानकेवलानष्टौ ।ंलिनि।
१:१९ .}
।ॄउओते{सर्गादाविच्छया पतिः
।ंोक्स् ७२ .}

अनुगृह्णाति मन्त्रेशान्मायागर्भाधिकारिणः॥ इति।
।ॄउओते{अनुगृह्णाति मन्त्रेशान्मायागर्भाधिकारिणः
।ंोक्स् ७८ ब्.}


किञ्च यावत्प्रोक्तयुक्तिसिद्ध्यसंभवात्विज्ञानकेवलिनो न निराकृतास्तावदयं
हेतुः सन्दिग्धविपक्षव्यावृत्तत्वातहेतुरेव।
यावच्चास्य हेतुत्वं न विनिश्चितं तावन्न ते निराकर्तुं शक्या इति इतरेतराश्रयाद्व्याप्त्यसिद्धेर्नास्य हेतुत्वम्। अत्र च हेतुत्वे प्रलयकेवलिनिरासेऽपि हेतुत्वमेव। तेषामपि कलादिबन्धैर्भवितव्यम्। अनादिमलसम्बन्धित्वात्सकलवदिति।
साधु समर्थितः स्वनय इत्यलं स्वशास्त्रवेतालोत्थापकैः सह निर्बन्धेनेति।

अथ समस्तस्यास्य प्रकरणस्योपसंहारः।


_________________________________________________________


पशुरेवंविधः प्रोक्तः किमन्यत्परिपृच्छसि ॥ १.२३ ॥

__________

वृत्ति:
पशुपदार्थोऽत्रैवंविधः पश्वादिपदार्थपञ्चकयुक्तः प्रकर्षतो लक्षणेनोक्तः।
वस्तुतः पदार्थान्तराणां तादर्थ्येनैव प्रवृत्तिरिति किमन्यत्परिपृच्छसि।
सर्वं प्रागुद्दिष्टमत्रैव मया लक्षणेन
प्रतिपादितमित्यर्थः॥


।Cओलो
इति श्रीनारायणकण्ठात्मजभट्टरामकण्ठविरचितायां श्रीमत्किरणवृत्तौ प्रथमं प्रकरणम्॥

Cःाড়्ट्Eऋ २

अथ तेषामेव पदार्थानां परीक्षार्थं प्रश्नपूर्वं प्रकरणान्तरमेतावत एव प्रश्नस्यावशिष्टत्वात्


_________________________________________________________


गरुड उवाच
योऽसावात्मा त्वया प्रोक्तः किंचिज्ज्ञः सर्वविच्छिवः ।
निमित्तमनयोर्ब्रूहि शुद्धाशुद्धस्वरूपयोः ॥ २.१ ॥

__________

वृत्ति:
तत्रास्य तावत्प्रकरणस्यारम्भे पञ्चविधः सम्बन्धो वक्तव्यः। तदुक्तं श्रीमत्पौष्करे

अनन्तरं यत्पटलात्सूत्रं तन्त्रे प्रवर्तते।
।ॄउओते{अनन्तरं यत्पटलात् ।देव्दोत्पटलाच्च
णोत्त्रचेद्. ़ुओतेदल्सो अत्थे बेगिन्निन्ग्स्
ओf थे थिर्द्{पटल}॥सोf थे ।ंत्V।
अन्दोf थे ।ंर्ग्V.}

वक्तव्यस्तस्य सम्बन्धः पञ्चधा समवस्थितः॥

तन्त्रवस्त्वात्मकात्सूत्राद्वाक्यात्प्रकरणात्तथा।

पटलाच्च। इति।

तत्रेह तन्त्रवस्तुनः षट्पदार्थात्मनः प्रतिज्ञातत्वात्तत्सम्बन्धस्तत्परीक्षात्मकः।
सौत्रस्तु पदार्थोद्द्योतकपदेन। वाक्येन तु पशुर्नित्य इत्यादिना।
।ॄउओते{Kइर्१:१३ अन्द्१:१५ .}
प्रकरणेन विद्यापादेन।
पटलेन तु लक्षणप्रतिपादनानन्तरं परीक्षेत्येवं विद्यापादं यावत्सूत्रप्रकरणपदार्थसम्बन्धाः प्रतिपटलमनुसन्धेयाः।
वाक्यपटलसम्बन्धौ तु भेदेनैव प्रतिपटलमवस्थिताविति
तथैव दर्शयिष्यामः।

अयञ्चात्र प्रश्नार्थः---योऽसौ नित्यत्वादिधर्मयुक्तः सकलाकलाद्यवस्थाभेदेन किञ्चिज्ज्ञ इत्यशुद्धः पशुरात्मा त्वया प्रोक्तः प्रागुक्तः पशुर्नित्य इत्यादिना।
।ॄउओते{पशुर्नित्यः
।Kइर् । १:१५ .}

यश्चासौ सर्वज्ञः सर्वकर्ता च शुद्धः शिवो दृष्टान्तत्वेनोक्तः सर्वज्ञः स शिवो यद्वदित्यादिनानयोः शिवात्मनोः सम्बन्धिनी ये शुद्धाशुद्धे निर्मलमलयुक्ते स्वरूपे तद्विषयनिमित्तं ब्रूहि।
।ॄउओते{सर्वज्ञः स शिवो यद्वत्
।Kइर् । १:२१ .}
।ॄउओते{टेस्तिमोनिउम्:
रामकण्ठोऽप्याह---यश्चासौ
सर्वज्ञः सर्वकर्ता च शुद्धः शिवः
तथा किञ्चिज्ज्ञो ह्यशुद्ध आत्मा। तयोः
शिवात्मनोः सम्ब(न्धी ये? न्धिनी) तु
शुद्धाशुद्धे निर्मलमलयुक्ते स्वरूपे इति
[सिच्] {।=ईशानशिवगुरुदेवपद्धति}
Vओल्.३, प्.२.}

केन निमित्तेन शिव एव शुद्धो नात्मा केन निमित्तेनात्मैवाशुद्धो न शिवः। न ह्यहेतुर्नियमो युक्त इति प्रश्नः।

अत्र समाधिः।
भगवानुवाच
अनादिमलसम्बन्धात्किञ्चिज्ज्ञोऽसौ मयोदितः ।
अनादिमलमुक्तत्वात्सर्वज्ञोऽसौ ततः शिवः ॥ २.२ ॥
आदिमत्त्वं यदा सिद्धं निमित्तं कल्प्यते तदा ।
ईदृग्रूपं स्मृतं ताभ्यां शुद्धाशुद्धं यथार्थतः ॥ २.३ ॥
विशुद्धः स्फटिकः कस्मात्कस्मात्ताम्रं सकालिकम् ।
यथास्मिन्न निमित्तं हि तथा नैव शिवात्मनोः ॥ २.४ ॥

__________

वृत्ति:
यथा ह्यात्मनोऽनादित्वान्नान्यत्स्वरूपे निमित्तं तथा कालिकया सह वर्तत इति सकालिकस्य ताम्रादेरिवाशुद्धत्वेऽपि।
यथा चेश्वरस्य प्रोक्तेन वक्ष्यमाणेन च प्रमाणेन सिद्धस्यानादित्वान्नान्यत्स्वरूपे निमित्तं तथा स्फटिकादीनामिव शुद्धत्वेऽपीति।
आदिमतो हि वस्तुनो निमित्तमन्विष्यते घटादेरिवान्यथासिद्ध्यसम्भवादिति।
ईदृगनादिशुद्धाशुद्धस्वरूपं यथार्थतः सत्यार्थत्वेन स्मृतं ताभ्यामितीशात्माभ्यामित्यर्थः।
अत्र च मलसम्बन्धस्यानादित्वेन मलस्याप्यनादित्वं सिद्धम्।

अधुनैतदनुवादेन प्रश्नान्तरम्


_________________________________________________________


गरुड उवाच
किंनिमित्तं पुनर्बद्धो बन्धेनात्मा कलादिना ।

__________

वृत्ति:
द्विविधं हि निमित्तमुच्यते लोके करणं प्रयोजनञ्च। यथा पाकादेरिन्धनादि अन्नादेर्ब्राह्मण भोजनादि च।
तत्र कलादिबन्धस्यैव पुंप्रवृत्तौ करणनिमित्तमुक्तं कर्माणि।
तस्याशुद्धस्य सम्बन्धं समायाति शिवात्कलेत्यादिना
।ॄउओते{तस्याशुद्धस्य सम्बन्धं समायाति शिवात्कला
।Kइर् । १:१६ ब्.}
प्रयोजननिमित्तमाक्षिप्तमित्यर्थः।
पूर्वमेव कलादिना बद्धः सन्पुरुषः प्रलयवशात्केवलः
सम्पन्न इति केन प्रयोजनेन पुनरिति पश्चाद्बद्धः।
महाप्रलय इव कस्मात्कलाद्यबद्धान्पशूनधिष्ठाय भगवान्नानुगृह्णाति सर्वदैव मुक्त्यवधित्वेनोक्तं मलपरिपाकान्तं यावन्नास्त इत्यर्थः।
ननु तत्रापि पुंभोगः प्रयोजनमुक्तमेव ततः सुखादिकं कृत्स्नं भोगं भुङ्क्ते स्वकर्मत इति नाक्षेपः।
।ॄउओते{ततः सुखादिकं कृत्स्नं भोगं भुङ्क्ते स्वकर्मतः
।Kइर् । १:२० ब्.}

सत्यम्। अत एव तदप्याक्षिप्तमत्र। प्रयोजनत्वाभावात् । प्रयोजकस्य प्रयोज्यस्य चोपकारकं प्रयोजनमुच्यते वैद्यराज्ञोरिव पथ्ययूषादिनोपकारः।
न चैतत्प्रयोजकस्य परिपूर्णत्वात्परोपकारायैव प्रवृत्तेरुपकारकम्।
नापि प्रयोज्यस्य दुःखमोहरूपत्वेनात्यन्तविनश्वरसुखमात्ररूपत्वेन चानर्थरूपत्वादित्यनेनापि भोगात्मनानर्थेन किन्निमित्तं भगवता पुमांसः कदर्थ्यन्त इत्यपि प्रश्नार्थः। तन्न विरोधः।
द्वितीयस्तु प्रश्नः स मायान्तर्गत इत्यादि


_________________________________________________________

स मायान्तर्गतः प्रोक्तो व्यापकश्च त्वया विभो ॥ २.५ ॥
व्यापकत्वात्स सर्वत्र स्थितो मायोदरे कथम् ।
परस्परविरुद्धत्वात्कथमेतद्भविष्यति ॥ २.६ ॥

__________

वृत्ति:
यदुक्तं प्राग्व्यापी मायोदरान्तस्थ इति
।ॄउओते{व्यापी मायोदरान्तस्थः
।Kइर् । १:१५ .}
तन्माता च मे वन्ध्या चेतिवत्परस्परविरुद्धं व्यापित्वञ्चाव्यापित्वञ्चात्मनोऽभिदधदयुक्तमेव।
तत्र प्रथमस्य प्रश्नस्य निरासः


_________________________________________________________


भगवानुवाच
मुक्त्यर्थं स पशुर्बद्धो नान्यथा सास्य जायते ।
यावच्छरीरसंश्लेषो न सञ्जातो न भोगभुक् ॥ २.७ ॥
मायेयं तद्वपुस्तस्य तदभावान्न निर्वृतिः ।
तेन तेनास्वतन्त्रत्वान्मलिनो मलिनीकृतः ॥ २.८ ॥

__________

वृत्ति:
नामिश्रं परिणमत इति
।ॄउओते{नामिश्रं परिणमते
षोउर्चे उन्क्नोwन्. आल्सो चितेदद् ।ंत् ।Vড়्।
२:१९, प्.३५ अन्द् ।णर्ড়्। ३:२, प्.१५५.}
न्यायेन केवलस्य मलस्य परिपाकाभावतो मुक्त्यसम्भवान्मलपरिपाकार्थमेव भोगात्मना बन्धेन पशुर्योजितः।
भोगश्च न विना मायीयैः कलादिभिः कार्यकरणैरिति तैरपि स्थूलसूक्ष्मशरीराकारेण बन्धो यतः
ततो न शरीराभावान्निर्वृतिर्मुक्तिः। येन नामिश्रं परिणमत इत्युक्तं तेन कारणेन बद्धत्वादेव मलिनः संस्तेन कलादिना मलिनीकृतः। अत्र
दृष्टान्तः


_________________________________________________________

यथा वस्त्रं सदोषत्वान्मलान्तःस्थं विशुद्ध्यति ।
अशुद्धः पुद्गलोऽप्येवं मायोदरगतोऽपि सन् ॥ २.९ ॥

__________

वृत्ति:
अत्र मलिनो मलिनीकृत इत्युपक्रमसामर्थ्यादन्तःशब्दोऽन्तरशब्दस्यार्थे वर्तते।
तदयमर्थः---यथा वस्त्रं सदोषत्वान्मलिनत्वादेव भस्मगोमयादिमलान्तरस्थं विशुद्ध्यति दार्ष्टान्तिकेऽप्युच्यते।
अशुद्धः पुद्गलोऽप्येवमित्यत्रापिशब्दो भिन्नक्रमः।
अशुद्धोऽपि पुद्गल आत्मा मायोदरगतः सन्नेवमिति विशुध्यत्यशुद्ध्यन्तरेण युक्त इत्यर्थः।
अपिशब्दादमायोदरगतोऽपि विज्ञानकेवली।
ननुविज्ञानकेवलिनामशुद्ध्यन्तरस्य निवृत्तत्वादुक्तदृष्टान्तनयेन शुद्धिर्नोपपद्यत एव। न।
अत एवोपपत्तेः निवर्त्यमानेनापि तेन वस्त्रादेर्मलनिवृत्त्यनुगुणस्य संस्कारस्य कृतस्य दृष्टत्वात् । सर्वथा नाशुद्ध्यन्तरोपकारं विना पूर्वाशुद्धेर्निवृत्तिरित्यत्र दृष्टान्तार्थः।

द्वितीयस्यापि प्रश्नस्य निरासः।


_________________________________________________________


मायोदरं हि यत्प्रोक्तं कलाद्यवनिलक्षितम् ।
तस्मिन्यश्च लयः प्रोक्तः सूक्ष्मदेहविवक्षया ॥ २.१० ॥

__________

वृत्ति:
यश्च व्यापकस्याप्यात्मनो मायोदरे लयो व्यापी
।ॄउओते{व्यापी मायोदरान्तस्थः
।Kइर् । १:१५ .}
मायोदरान्तस्थ इत्यत्रोक्तः स सूक्ष्मदेह विवक्षयेति तत्कर्माक्षिप्तस्य सूक्ष्मस्यान्तराभवदेहस्य मायोदरेऽवस्थितेरुपचारेणोक्तः तथा भौवनशरीरस्यापि।
न त्वात्मविवक्षयेत्यविरोधः। ततश्च मायोर्ध्ववर्तित्वमपि विज्ञानकेवलिनः सूक्ष्मदेहसम्बन्धायोग्यत्वेनोपचाराद्वक्ष्यमाणाध्वव्याप्तिप्रतिपादनार्थमित्यपि द्रष्टव्यम्।

अथ मलस्वरूपपरीक्षार्थं प्रश्नः


_________________________________________________________

गरुड उवाच
त्वयानादिर्मलः प्रोक्तो मायेयोऽस्यात्मनोऽपि वा ।
गुणस्तद्व्यतिरिक्तो वा मलो ब्रूहि किमात्मकः ॥ २.११ ॥

__________

वृत्ति:
इह हि पूर्वमनादिमलसम्बन्धादित्यादिनानादित्वं मलस्योक्तम्।
।ॄउओते{अनादिमलसम्बन्धात्
।Kइर् । २:२ .}
स तु मलः स्वरूपेण किमात्मक इत्यधुना वक्तव्यम्। यतः कैश्चित्सांख्यानुसारिभिर्मायायाः परस्याः प्रकृतेरेवायं मायीयो गुणः पुंधर्मावारको मलोऽभ्युपगतः।
नैयायिकादिभिस्तु पुरुषस्यैवाज्ञत्वात्मकः स्वाभाविको गुणो मलः मनःसंयोगादिना ज्ञातृत्वाभ्युपगमादिष्यते।
वेदान्तवादिभिः पुनर्माया मल आत्मगुणव्यतिरिक्तोऽनर्थभूत एवासौ प्रतिपन्न इति दर्शनान्तराणामत्र त्रिविधा विप्रतिपत्तिरिति।
तत्रावस्तुत्वं तावन्मलस्य प्रतिक्षिप्यते


_________________________________________________________


भगवानुवाच
सहजः स्यान्मलो माया- कार्यमागामिको मलः ।

__________

वृत्ति:
आत्मनः परमार्थतो जन्मानुपपत्तेः सहजशब्देनात्र तेनात्मना सहानादिसिद्धोऽर्थान्तरभूतो मलः कथ्यते।
ततश्च नावस्तुभूतः। अपि तु चक्षुषः पटलादिवद्वस्तुरूप एव मल इत्युक्तं भवति।
अवस्तुत्वे हि तस्य शशविषाणादेरिव नित्यनिवृत्तत्वाद्दीक्षाज्ञानादेः सर्वस्यैतन्निवृत्तिहेतोरानर्थक्यप्रसङ्गः।

यद्येवं मायाकार्यात्मक एव वस्तुभूतो मलः
प्रागुक्तो विद्यते। यदुक्तम्
मायाभोगपरिष्वक्तस्तन्मय इति।
।ॄउओते{मायाभोगपरिष्वक्तस्तन्मयः
।Kइर् । १:१९ द्.}

तत्किमन्येनानेन कल्पितेनेति।
तदर्थमेतन्मायाकार्यमागामिकस्तदुत्तरकालभावी
मल ।च्रुx इत्ययमर्थः।च्रुx। यद्येवं मलिनस्य मायाकार्यं बन्धाय
भवेत्तदा अनादिमलमुक्तस्य शिवस्यापि न किं भवेदिति वक्ष्यामः।
।ॄउओते{अनादिमलमुक्तस्य शिवस्यापि न किं भवेत्
।Kइर् । २:१७ ब्.}

तस्माद्बन्धमोक्षान्यथानुपपत्त्या मायाकार्याद्व्यतिरिक्तः सहजो वस्तुभूत एव मलोऽभ्युपगन्तव्यः।
यद्येवं मायैवासौ भविष्यतीति मायामलवादिनः। तदप्ययुक्तं यतः


_________________________________________________________


माया नो मोहिनी प्रोक्ता स्वतः कार्यात्प्रकाशिका ॥ २.१२ ॥

__________

वृत्ति:
नो निषेधे। नैव मायायाः स्वतः पुं मलिनीकरणमुपपद्यते शक्तिरूपत्वेनाव्यक्तरूपत्वे सत्यक्रियावत्त्वात्क्षीराद्यवस्थितदधिनवनीतादिशक्तिवत् । यदुक्तं सांख्यैः

हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम्।
।ॄउओते{हेतुमदनित्यमव्यापि।देव्दोत्विपरीतमव्यक्तम्
।षन्ख् । १०.}

सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्॥ इति।


किञ्च यैव कलादिकार्यहेतुर्माया सैव किं मलोऽथान्या। यद्यन्या ततो व्यतिरिक्त एव मल इति नास्ति विवादः। सैव चेत्तदयुक्तम्।
यतः कार्यादिति कार्यद्वारेण
प्रकाशनकर्तृस्वभावासिद्धा ततो न मोहिनी नावरणकर्तृस्वभावा सवितृवत्स्वभावविरुद्धकार्यासिद्ध्या गम्यत
इत्यर्थः।

न चायमसिद्धो हेतुरित्युच्यते।


_________________________________________________________


यतः स्वकार्यसंश्लेषाच्चैतन्यद्योतिकात्मनः ।
मलं विदार्य चिद्व्यक्तिमेकदेशे करोत्यसौ ॥ २.१३ ॥
__________

वृत्ति:
यतो मलनिवृत्तिपूर्वमात्मनश्चिद्व्यक्तिमेकदेश एव कार्यकरणादिनैव सा कुर्वती दृश्यत इत्युक्तं तयोद्बलितचैतन्य
।ॄउओते{तयोद्बलितचैतन्यः
।Kइर् । १:१६ .}
इत्यादिना ततस्तेनैव कार्यकरणात्मना स्वकार्यक्रमेण सम्बन्धादात्मनश्चैतन्योपोद्बलिका सिद्धैवेति।
अत्र कलाया एव मलविदारणे विद्यादीनां चात्र चिद्व्यक्तौ व्यापार इति दर्शितं प्रागेव। एवञ्च


_________________________________________________________


स्थिता प्रकाशिका कार्यान्मोहकत्वे न संस्थिता ।

__________

वृत्ति:
कार्यद्वारेण यतः प्रकाशिका सिद्धा ततो मोहकत्वेन पुंसो नावस्थितेति स्वभावविरुद्धकार्यासिद्ध्या प्रतीयत इत्युक्तम्।
ततश्च येन कार्येण सह यद्विरुद्धं कार्यं तत्तत्कारणव्यतिरिक्तकारणजन्यं यथा प्रकाशलक्षणकार्यविरुद्धमन्धकारात्मकं कार्यं प्रकाशकारणव्यतिरिक्तकारणजन्यम्।
पुंप्रकाशकार्यविरुद्धं च पुंमोहात्मकं कार्यमतस्तदपि पुंप्रकाशकारणव्यतिरिक्तकारणजन्यमिति
यत्तत्कारणं स मायाव्यतिरिक्तो मलोऽत्र कार्यविशेषानुमानसिद्ध इति तात्पर्यार्थोऽस्य निगमनवाक्यस्येति न गतार्थता।
अत एवोपसंहरिष्यति व्यतिरिक्तः स युक्तित इति।
।ॄउओते{व्यतिरिक्तः स युक्तितः
।Kइर् । २:१७ .}
न चाव्यक्तकार्यैः सत्त्वरजस्तमोभिरत्रानैकान्तिकता तेषामविरोधेनापि सिद्धेः। यदुक्तं साङ्ख्यैः

अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः। इति।
।ॄउओते{अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः
।षन्ख् । १२ द्. आल्सो चितेदद् ।णर्ড়्। २:१५,
प्.१४२.}


ननु प्रकाशविशेष एव मोहोऽनात्मन्यात्माभिमानात्मक इति साङ्ख्याः।
यदाहुः

भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः।
।ॄउओते{भेदस्तमसोऽष्टविधो।देव्दोत्भवत्यन्धतामिस्रः
।षन्ख् । ४८.}

तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः॥ इति॥


ततोऽत्र स्वभावविरोधासिद्धेः कुतो व्यतिरिक्तमलसिद्धिः। तदयुक्तम्


_________________________________________________________


प्रकाशो व्यक्तिशब्देन मलशब्देन चावृतिः ॥ २.१४ ॥

__________

वृत्ति:
अयमर्थः---नात्र प्राकृतोऽयं मोहो विवक्षितोऽस्य शरीरसद्भाव एव सिद्धेः।
अपि तु आत्मनश्चिद्धर्मत्वेन व्यापकतया वक्ष्यमाणस्य सर्वज्ञत्वप्रसङ्गस्य परिहारायावश्यमावृतिरूपो मलशब्दवाच्योऽन्य एव मोहोऽभ्युपगन्तव्यः।
स च प्रकाशावरणरूपत्वाद्व्यक्तिशब्दवाच्येन पुंप्रकाशेन सह विरुध्यत इति नासिद्धोऽत्र व्यतिरिक्तमलसाधनस्वभावविरोध इति।
अस्त्वस्यावृत्यात्मनो मलस्याज्ञानहेतुत्वान्मोहकत्वं यस्त्वयं प्राकृतो मोहः कथितस्तस्य पुंव्यक्तिरूपत्वात्तदयुक्तमेवेति। न यतः।


_________________________________________________________


व्यक्तिर्याणोर्मलः प्रोक्तः स्फुटं दीपान्धकारवत् ।

__________

वृत्ति:
यथा दीपः प्रकाशकोऽपि नीलोत्पलादौ रक्तोत्पलादिविपरीतप्रकाशकत्वातन्धकारो मोहः प्रोक्तस्तथात्मव्यक्तिरप्यनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मत्वेन विपरीतेन प्रकाशमाना स्फुटमेव कृत्वा मलो मोहः प्रोक्तः।
।ॄउओते{अनित्याशुचिदुःखानात्मसु
Cf. ।ाघ्ऽस्{षर्वज् ।ञानोत्तरवृत्ति} ईFড়् ट्.८५, प्.६, लिनेस्५--६:
यदाहुः---अनित्याशुचिदुःखानात्मसु
नित्यशुचिसुखात्मप्रतिपत्तिरविद्येति
Cf. अल्सो {य़ोगसूत्र} २:५:
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या}
एतदुक्तं भवति। न केवलमज्ञानमेव यावद्विपरीतज्ञानमपि मोह एवेत्यदोषः। अत एव

_________________________________________________________


मायापि मोहिनी प्रोक्ता विषयास्वादभोगतः ॥ २.१५ ॥

__________

वृत्ति:
तेनैव रूपेणास्माभिर्मायाभोगपरिष्वक्त
।ॄउओते{मायाभोगपरिष्वक्तः
।Kइर् । १:१९ .}
इत्यादिना मायापि मोहिनी प्रोक्ता। न केवलो मल इत्यपिशब्दार्थः।
सा च विषयिविषययोर्य आस्वादो रसोऽस्य भोगः प्रकाशस्तेन मोहिका कार्यद्वारेणेत्यर्थः।
ततः साङ्ख्यैः सहात्रास्माकं न विवादः। विवादविषयस्तु प्राकृतमोहव्यतिरिक्तो मलः साधित एवेति। एवं च


_________________________________________________________


यत्र तत्र स्थितस्यास्य स्वकर्ममलहेतुतः ।
मायोत्थं बन्धनं तस्य सनिमित्तं प्रवर्तते ॥ २.१६ ॥
अनादिमलमुक्तस्य शिवस्यापि न किं भवेत् ।
तस्मान्माया मलो नैव व्यतिरिक्तः स युक्तितः ॥ २.१७ ॥

__________

वृत्ति:
कलादिक्षित्यन्तभुवनेषु सर्वत्र पुंसो यथा मायाप्रवृत्तौ कर्माणि निमित्तं तथा मलोऽपि।
अन्यथा तस्य चिद्धर्मत्वेन वक्ष्यमाणत्वात्सर्वज्ञत्वसर्वकर्तृत्वेन शिवत्वप्रसङ्गतो मायीयबन्धा प्रवृत्तिरेव।
ननु कर्माणि तत्प्रवृत्तौ निमित्तमस्तु मलेन किम्।
नैवं मल मुक्तस्य सर्वस्य शिवत्वेनानुष्ठातुरभावात्तेषां कर्मणामप्यसिद्धेः॥

ननु कर्मैवावरणत्वेन कल्प्यतां किं मलेनेति क्षपणकाः। तदयुक्तम्। तस्य कृष्यादाविव स्वफलहेतुमात्रत्वेन सिद्धेः आवरणत्वादर्शनात्
अर्थालोचनादावप्येवं तस्यैव हेतुकल्पनेनेन्द्रियादेरभावप्रसङ्गाच्चेत्युक्तम्।
ततश्च मायाप्रवृत्तौ कर्मव्यतिरिक्त एव मलोऽभ्युपगन्तव्य इति। यत एवं तस्मान्न माया मलः।
यथा च तद्व्यतिरिक्तस्तथा युक्तितोऽनुमानेनैव साधित इत्युपसंहारः।

अत्र पूर्वपक्षाशङ्का


_________________________________________________________


मायाकार्यं समस्तं स्यात्कुतोऽन्यः सहजो मलः ।

__________

वृत्ति:
।च्रुx मायाकार्यं कलादि समस्तमित्यविकलं तत्त्वात्मकमेव बन्धनं स्यात् ।च्रुx ।
यद्वा निरवशेषभूतभुवनात्मकं स्यादिति।
अयमर्थः---यद्बन्धनं तत्तत्त्वमेवाध्वनि भुवनाद्यात्मना वा संनिविष्टं यथा मायाकार्यं बन्धनं तद्वन्मलो बन्धनं भवद्भिरुक्तं सोऽपि तत्त्वान्तरमध्वनि वा भुवनाद्यन्तरमिति तत्त्वातिरेको भुवनातिरेकश्च
प्रसज्यत इति।
अथ तत्त्वभुवनाद्यात्मकत्वमस्य नेष्यते ततः शशविषाणादेरिव बन्धनत्वमप्यस्यासिद्धमित्युक्तम्।
कुतोऽन्यः सहजो मल इति।

अत्र परिहारः


_________________________________________________________


आत्मस्थं तत्पशुत्वं स्यात्पशुरप्यध्वमध्यगः ॥ २.१८ ॥
प्रोक्तो येन मतस्तेन मलस्तद्भिन्नलक्षणः ।

__________

वृत्ति:
अयमर्थः---कर्मणास्य हेतोरनैकान्तिकत्वं तस्य बन्धत्वेऽपि तत्त्वभुवनादिस्थित्य भावात् ।
अथ मायातत्त्वे स्थितत्वात्तस्य नानैकान्तिकविषयतेति।
उच्यते---यद्येवं तदपि पशुत्वमिति मलः पशुतत्त्वस्थं तेन विनात्मनां पशुत्वायोगात् । तद्द्वारेण तदप्यध्वनि स्थितमिति मायाकार्यात्तत्त्वभुवनादेर्भिन्नलक्षणोऽपि मलः कर्मवद्बन्ध इत्यदोषः॥

यस्तु सहजः स्यान्मलो माये त्येवमादिभिः पदच्छेदैर्बलादेव
।ॄउओते{सहजः स्यान्मलो माया
।Kइर् । २:१२ .}
सूत्राणि मायामलपक्षेऽपि प्रत्यावृत्त्या व्याचष्टे स सन्दिग्धशास्त्रार्थो मायाया मलत्वे हेतुं प्रष्टव्यः।
न ह्यन्यथात्यन्तातीन्द्रियवस्तुनः कार्यभेदेनेन्द्रियादेरिव सिद्धभेदस्य शक्यमभेदमध्यवसातुम्। इन्द्रियादेरपि कलान्तस्य सतन्मात्रस्याभेदप्रसङ्गात् ।
ननूक्तो हेतुर्मायाव्यतिरिक्तमलास्तित्वे प्रमाणाभावादिति।
न अस्याव्यापकरूपभावत्वेनानैकान्तिकत्वात् ।
व्यापको हि निवर्त्तमानो व्याप्यं निवर्त्तयति वृक्ष इव शिंशपां नान्यो घटादिरनवस्थाप्रसङ्गात् ।
न प्रमेयसत्ताव्यापकं प्रमाणं सर्वस्य सर्वज्ञताप्रसङ्गादिति प्रमाणनिर्वृत्तावप्यर्थाभावासिद्धेः संशय एवात्र व्यतिरिक्तसत्तायां युक्तः। असिद्धश्चायं हेतुः व्यतिरिक्तमलास्तित्वे स्वभावविरुद्धकार्योपलंभलक्षणस्य प्रमाणस्य प्रागुक्तत्वात् ।

यदप्यस्य दूषणत्वेनानयोः कार्ययोः शिवत्वपशुत्वरूपत्वेनैकस्मिन्नात्मनि समावेशात्सहावस्थानविरोधो नास्त्ये वेत्युक्तं तदप्ययुक्तं परस्परपरिहाराविरोधेऽप्यनयोरितरेतराभावरूपत्वाद्वृक्षतदभावयोरिव नैकस्मात्कारणादुद्भवः सम्भवति यतः।
अयमेव चास्माकमत्र प्रतिज्ञातोऽर्थ इति।
विरुद्धयोरप्यनयोः सहानवस्थानोपदर्शनमेतद्दोषोद्भावनमेव प्रतिज्ञातार्थाबाधनात् ।
न च शिवत्वस्येव पशुत्वस्याप्यात्मन्यवस्थानमिति युक्तम्।
तस्य वस्त्वन्तराकारमलरूपत्वेन तद्व्यतिरिक्ततयावस्थितेः।
वक्ष्यति च आत्मनोऽनादिसम्बन्धाद्धर्म इत्युपचर्यत इति।
।ॄउओते{आत्मनोऽनादिसम्बन्धो धर्म इत्युपचर्यते
।Kइर् । २:२३ द्.}
नापि तत्कार्ययोः प्रकाशावरणयोः सहावस्थानमात्मनोऽवस्थाभेदात्सकलाकलाद्यवस्थाभेदवदिति।

यदपि चक्षुरादिनालोकादिसहकारिसन्निधानासन्निधानाभ्यां प्रकाशाप्रकाशादिविरुद्धं कार्यं कुर्वतास्य हेतोरनैकान्तिकत्वमुक्तं तदतितरामयुक्तम्।
सहकार्यसन्निधाने हि तत्स्वकार्यमकुर्वद्दृष्टं न तु तद्विरुद्धं कुर्वदभावस्यावस्तुत्वेन करणासम्भवात् ।
सविता पुरुषादीनामिवोलूकादेः प्रकाशमेव करोति।
स तु प्रकाशकोऽत्यन्तभास्वरत्वेन तस्य नेत्रोपघातहेतुत्वात्मन्दनेत्रस्येव स्वकार्या करणादप्रकाशक इत्युपचर्यत इति न तु तमोवदप्रकाशकरणादिति नानैकान्तिकविषयः।
ततश्च सर्वदोषरहितात्प्रागुक्तात्स्वभावविरुद्धकार्योपलम्भान्मायाव्यतिरिक्त एव मलः सिद्ध्यतीत्यलमागमार्थबहिष्कृतैः सह विवादेनेति।

तदेवं प्रमाणतो मायाव्यतिरिक्तस्य मलस्य सिद्धस्य संहितान्तरैरभिख्यानप्रदर्शनाय पर्यायान्तराण्युच्यन्ते।


_________________________________________________________


मलोऽज्ञानं पशुत्वं च तिरस्कारकरस्तमः ॥ २.१९ ॥
अविद्या ह्यावृतिर्मूर्छा पर्यायास्तस्य चोदिताः ।
स चाविद्यादिपर्याय- भेदैः सिद्धो मते मते ॥ २.२० ॥

__________

वृत्ति:
अथ किमसौ मलः संहितान्तरेष्विव दर्शनान्तरेषु प्रसिद्धः। नेत्युच्यते


_________________________________________________________


तत्सद्भावात्पशुः पाश्यः शोध्यो बोध्यो मतस्त्विह ।

__________

वृत्ति:
तस्यास्य मलस्य सद्भावादिहेत्यस्मिन्नेव पारमेश्वरे दर्शने पशुः प्रेर्यः पाश्यश्च कलादिना शोध्यश्च दीक्षया बोध्यश्च शास्त्रात्मना ज्ञानेनाभिमतो न तथा दर्शनान्तरेषु।
ततश्च दर्शनान्तरमुक्ताः पशव एव मलस्य तैरज्ञातत्वेन विच्छेत्तुमशक्यत्वादित्युक्तं भवति। यद्येवमात्मनः पाश्यादिवृत्तिभेदा अप्यनादिस्थिता एव। ततस्तेषामपि बन्धान्तरत्व प्रसङ्गः। तदयुक्तम्। यतः


_________________________________________________________


पाश्यादिवृत्तयो यास्तु तस्य भेदाः प्रकीर्तिताः ॥ २.२१ ॥
मले सति भवन्त्येता भोक्तृत्वं च न केवलम् ।

__________

वृत्ति:
एषां पाश्यादिवृत्तीनां मलनिवृत्तौ निवृत्तिसिद्धेर्मलनिमित्तत्वं सिद्ध्यति प्रदीपनिमित्तत्वमिव प्रभाया इति।
न पृथग्बन्धान्तरत्वमिति। तदियता मलस्यावस्तुत्वे मायास्वभावत्वे च निषिद्धे अधुना आत्मनोऽपि वा गुण
।ॄउओते{आत्मनोऽपि वा गुणः
।Kइर् । २:११ च्.}
इति पूर्वोक्ततृतीयप्रश्नान्तरानुवादेन पूर्वः पक्षः।


_________________________________________________________


गरुड उवाच
यद्येवं संस्थितः पाश्यो मलोऽस्य पशुसंगतः ॥ २.२२ ॥
आत्मनः किं न धर्मोऽसौ युक्तितः कल्प्यते मलः ।

__________

वृत्ति:
यद्येवं चिद्रूप एवात्मा पाश्यो व्यवस्थित इति किञ्चिज्ज्ञत्वान्यथानुपपत्त्यास्यावारकोऽपि मलः कल्प्यते।
हन्त तर्हि आत्मन एवासौ अज्ञानात्मा मलो धर्मत्वेन युक्तितोऽनुमानेन कल्प्यताम्। यदाहुर्नैयायिकवैशेषिकाः---यद्यत्र कारणान्तरेण क्रियते तत्तत्र नास्त्येवान्धकार इव प्रदीपादिना क्रियमाणः प्रकाशः।
क्रियते च कार्यकरणादिभिरात्मनि विज्ञानं। ततस्तदपि तत्र नास्तीत्यज्ञस्वभाव एवात्मा सिध्यति कुतो व्यतिरिक्तमलसिद्धिः।

अत्र सिद्धान्तः


_________________________________________________________


भगवानुवाच
आत्मनोऽनादिसम्बन्धाद्धर्म इत्युपचर्यते ॥ २.२३ ॥
कथं तज्ज्ञानयुक्तत्वादज्ञानगुणतां गतः ।

__________

वृत्ति:
भवेदेवं यद्ययं हेतुरस्मान्प्रति सिद्धः स्यात् । असिद्धस्तु कार्यकरणादीनां तत्रास्माभिर्ज्ञानव्यञ्जकत्वेनाभ्युपगमात् ।

ननु तद्भावतदभावयोर्दर्शनादर्शनाभ्यां ज्ञानस्य कार्यकरणादिकारणत्वं सिध्यति। न तयोर्व्यञ्जकत्वेनापि संभवेनानैकान्तिकत्वादिति नानेना सिद्धेन हेतुनात्मन्यज्ञत्वसिद्धिः।
ततश्चावश्यं तस्याशुद्धात्मनोऽनादिसम्बन्धेनावरणेन व्यतिरिक्तेन भवितव्यमिति।
तद्योगादशुद्ध इत्युपचारादागमे कथितो द्रष्टव्यो नाज्ञस्वभावत्वादेवेति।

तर्ह्यत एव तत्राज्ञत्वसंशयो युक्तो न तज्ज्ञत्व निश्चयो येन व्यतिरिक्तमलसिद्धिरिति। तत्रोच्यते


_________________________________________________________


तस्य धर्मो न धर्मत्वे परिणामः स्फुटो भवेत् ॥ २.२४ ॥

__________

वृत्ति:
न तस्यात्मनो धर्मः स्वभावो वाज्ञानात्मा मलो घटादिवदनात्मत्वप्रसङ्गात् । अथ यत्र ज्ञानं समवेतमुत्पद्यते स आत्मेति। तदप्ययुक्तम्।
तस्य पूर्वमज्ञानं प्रति धर्मित्वे घटादेरिव पश्चादपि ज्ञानसमवायो नोपपद्यत एव।
अथाज्ञानात्मनस्तु तस्य ज्ञानाभ्युपगमे स्फुटमेव रूपान्तरपरिणामः स्यादामलकादेः पीततोत्पत्त्यात्मक इवेति वक्ष्यमाणो दोषः।
।ॄउओते{वक्ष्यमाणो दोषः
षेए ।Kइर् । २:२६ ब्.}

ननु ज्ञानं तावदस्मदादिप्रत्यक्षत्वे सत्यचाक्षुषप्रत्यक्षत्वाद्रसादिवद्गुणः।
गुणेन च द्रव्याश्रितेन भवितव्यमिति यस्तस्याश्रयः स तद्विलक्षणत्वादज्ञानरूप एवात्मा सिद्ध्यति। तदप्ययुक्तम्। यतः।
चिद्धर्मे पुंसीत्यादि।


_________________________________________________________


चिद्धर्मे पुंसि नो धर्मो यदि स्यात्परिणामवान् ।

__________

वृत्ति:
चित्ज्ञानमेव धर्मः स्वभावो यस्य
स तथाभूतः ।च्रुx पुमित्यनुभवति सर्वमिति
पुमान्।च्रुx।
आत्मा स्वसंवेदनेन स्वपरात्मप्रकाशतया प्रतिपुरुषं सिद्ध्यति किमन्येन साधनेन।

ननु ज्ञानस्य रसादेरिव गुणत्वे हेतुरुक्त एव।
सोऽप्ययुक्तः दृष्टान्तस्यास्मान्प्रति साध्यधर्मा सिद्धत्वात् । रसादयो हि भावाः संहता एव जायमानाः संहता एव निरुद्धाश्च सांख्यसौगतादिभिरिवास्माभिरपि प्रमाणसिद्धत्वादर्थक्रियाकरणाः कथ्यन्ते।
न त्वन्यः कश्चित्तेषामाश्रयभूतस्तद्व्यतिरेकेण तस्यानुपलम्भनादिति।
कथं तर्हि पृथिव्यां गन्ध इत्यादिव्यवहारः।
कुदर्शनाभ्यासमूलो भ्रान्त एव। यदि वा विशिष्टसमुदायैकदेशप्रतिपादनाय वनस्य धवः शोभन
।ॄउओते{वनस्य धवः शोभनः
च्f.। ।णर्ড়्। अद्१:४, प्.११.}
इतिवद्युक्त एवेति। अतश्च ज्ञानस्यापि गुणत्वासिद्धेस्तद्रूप एवात्मा सिद्ध इत्युक्तम्।
तर्हि ज्ञानस्यानित्यत्वेन संवेदनाद नित्यत्वमस्य। तदयुक्तम्।
द्विविधं हि ज्ञानमध्यवसायात्मकमितरच्च। तत्र यदध्यवसायात्मकं तद्बुद्धिधर्मत्वेनास्माभिरप्यनित्यमिष्यत एव।
यदनध्यवसायात्मकं पौरुषं संवेदनात्मकं ज्ञानं तस्य न कदाचिदप्यभावः संवेद्यते सर्वदैव ग्राहकरूपतयैकरूपेण संवेदनात् ।
नापि तस्य क्रमेणार्थक्रियानुपपत्तिरित्यादि सर्वं दर्शितमस्माभिर्नरेश्वरपरीक्षाप्रकाशे विस्तरेणेति तत एवावधार्यम्।
।ॄउओते{दर्शितमस्माभिर्नरेश्वरपरीक्षाप्रकाशे
अद्१:२२, प्.५२.}


तस्मिञ्ज्ञानात्मकत्वाच्चित्स्वभावे पुंसि नाज्ञानं मलो धर्मो युक्तः। आमलकादीनामिव रूपान्तरपरिणाम प्रसङ्गात् । तथा हि

_________________________________________________________


एकस्मिन्व्यज्यते ज्ञानमन्यस्मिंस्तत्तिरोहितम् ॥ २.२५ ॥

__________

वृत्ति:
एकस्मिन्रूपादौ विषये ज्ञानमुत्पद्यते अन्यस्मिंस्तु रसादावुत्पन्नमपि नष्टं भवद्भिरिष्यते यतस्ततश्च रूपान्तरपरिणामोऽस्यात्मनः। को दोष इत्युच्यते।


_________________________________________________________


परिणामोऽचेतनस्य चेतनस्य न युज्यते ।

__________

वृत्ति:
यः परिणामी सोऽचेतनः सिद्धो यथामलकादिरर्थ इति परिणामित्वादात्मनोऽप्यचेतनत्वप्रसङ्ग इत्यवश्यं तत्प्रसङ्गपरिहारायात्मा नैवाज्ञानस्वभावोऽभ्युपगन्तव्यः।
अपि तु विज्ञानस्वभाव एवेति। तस्यावारकस्वभावो व्यतिरिक्तो मलः सिद्धः।
अन्यथा सर्वज्ञत्वप्रसङ्गादिति तृतीयस्यापि प्रश्नस्य निरासः।

यद्येवं व्यतिरिक्तमलपक्षेऽप्येष एव दोष इति समुच्चयेन चोदकः।


_________________________________________________________


गरुड उवाच
तयोश्चानादिसम्बन्धाद्विश्लेषो न विभुत्वतः ॥ २.२६ ॥
सहजप्रक्षये प्राप्ते तस्य नाशो न किं भवेत् ।

__________

वृत्ति:
तयोरात्ममलयोर्योऽनाद्यावार्यावारकलक्षणः सम्बन्धः स स्वभावविशेष एव तस्मान्न विश्लेषो निवृत्तिरनादित्वादेव यथा चेतनाज्जडाद्वा स्वभावादित्यनिर्मोक्षः।
अथ तस्माद्विश्लेष इष्यते। यद्येवं सहजस्य स्वभावस्य प्रक्षये सति तस्यापि नाशः स्वभावान्तरोत्पादरूपः परिणामो भवेदिति स एव तदवस्थो दोषो यः प्रागव्यतिरिक्त मलपक्षे प्रोक्तः।
अथ न तयोः स्वभावाद्विश्लेषः अपि तु परस्परसंश्लेषान्नेत्रतदावरणयोरिव ततो नैष दोष इत्युच्यते सोऽपि न युक्तः।
विभुत्वत इति व्यापकत्वात् । अव्यापकस्य ह्यव्यापकाद्देशान्तरनयने विश्लेषः। व्यापकस्य तु सर्वत्रावस्थानान्न कुतश्चिद्विश्लेषः सम्भवतीत्यनिर्मोक्षः।
अथ तथाभूतस्यापि विश्लेष इष्यते। यद्येवं सहजस्य सहभाविन आवरकस्य प्रक्षये तस्याप्यावार्यत्वस्य स्वभावस्य नाशो रूपान्तरपरिणाम इति स दोषस्तदवस्थ एव।

अत्र सिद्धान्तः


_________________________________________________________


भगवानुवाच
विभोरपि मलस्यास्य तच्छक्तेः क्रियते वधः ॥ २.२७ ॥
उपायाच्छक्तिसंरोधः कथंचित्क्रियते मले ।
यथाग्नेर्दाहिका शक्तिर्मन्त्रेणाशु निरुद्ध्यते ॥ २.२८ ॥
तद्वत्तच्छक्तिसंरोधाद्विश्लिष्ट इति कथ्यते ।

__________

वृत्ति:
अत्र मलविषयस्तावदयमदोषः। यतो न केवलमस्यैवाव्यापकस्य मोहात्मनः प्राकृतस्य मलस्य यावद्व्यापकस्याप्याणवमलस्योपायेन मन्त्रदीक्षात्मना शक्तेरावारकस्वभावस्याग्नेर्दाहकत्वस्येव वधोऽन्यथाभावः क्रियत एव।
कथञ्चिदित्यारब्धकार्यकर्मभोगोपरोधेनासर्वात्मना तदनुपरोधेन तु सद्योनिर्वाणदीक्षया सर्वात्मनेति।
ततश्च मलस्य परिणामिनित्यत्वाभ्युपगमान्नैष स्वभावान्तरपरिणामसाधनप्रसङ्गो युक्तः सिद्धसाधनादित्युक्तं भवति।
अत एव मलस्य स्वभावान्तरपरिणतेः स्वरूपसत्त्वेऽप्यामयाद्विश्लिष्टः पुरुष इतीव मलशक्तिरोधादपि विश्लिष्टः कथ्यते।
ततो विश्लेषो न विभुत्वादित्ययमप्यदोषः।

इदानीं पुरुषविषयोऽपि दोषः प्रतिक्षिप्यते।


_________________________________________________________


कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः ॥ २.२९ ॥

__________

वृत्ति:
शक्तेः संरोधः शक्तिसंरोधः। तस्य मलस्य तं कृत्वा भवनिःस्पृहः क्रोधरागादिरहितः पुरुषः क्रियते परमेश्वरेण।
अत एव शक्तिपातनिश्चयायाक्रोधरागादीनि लिङ्गानि दीक्षाधिकारार्थं गुरुभिः शिष्याणां परीक्ष्यन्त इत्युक्तम्।
।ॄउओते{।देव्दोतित्युक्तं षेए १:२२.१०--१५.}
ततश्च मलस्य रूपान्तरापत्तिमात्रमेव तदानीं न त्वात्मनः स्वभावान्तरपरिणामः। तस्मान्न पूर्वोक्तदोष इत्युक्तं भवति।
सति हि मले यस्तस्य मलानपेक्षयार्थग्राहकस्वभावः स एवासत्यपि यतः।
कथं तर्हि सति मलेऽर्थं न गृह्णाति। बालभाषितमेतत् ।
यो हि मलानपेक्षयार्थग्राहकः स कथं तत्सन्निधाने भवेत् ।
नन्वधुनास्यार्थः प्रकाशते प्राक्तु नेति कथं न स्वभावान्तरपरिणामः।
तदप्ययुक्तम्। तद्विषयीकरणमेवार्थानां प्रकाशो नान्यः।
न तु मलानपेक्षयात्मनि सर्वदास्तीत्युक्तम्।
अतो न स्वभावभेदालम्बनगतत्वादित्येवमादि विस्तरेण स्वभावान्तरत्वापादको विरुद्धधर्माध्यासप्रकारो नरेश्वरपरीक्षाप्रकाशे पराकृतोऽस्माभिरिति
।ॄउओते{नरेश्वरपरीक्षाप्रकाशे पराकृतः
ईतिस्नोत्चेर्तैन् तो wहिछ्पस्सगे थिस्रेfएर्स्.}
तत एवावधार्यम्।

योऽपि सहभाव्यावरणनिवृत्तित आत्मनोऽप्यावार्यत्वनिवृत्तिलक्षणस्वभावान्तरपरिणामदोष उक्तः तत्राप्युच्यते


_________________________________________________________


सहजा कालिका ताम्रे तत्क्षयान्न च तत्क्षयः ।
यद्वत्ताम्रे क्षयस्तद्वत्पुरुषस्य मलक्षयः ॥ २.३० ॥
यथा तण्डुलकम्बूके प्रक्षीणेऽपि न तत्क्षयः ।

__________

वृत्ति:
सहचरकालिकानिवृत्त्या न ताम्रस्य कश्चिद्विकारो दृश्यते यथा तथा मलनिवृत्त्याप्यात्मनो न विकार इत्येतावतांशेन दृष्टान्तत्वं नान्यथा ताम्रस्य परिणतिधर्मत्वेनाभ्युपगमादिति।
एतदुक्तं भवति---औपाधिकोऽयं मलसन्निधानासन्निधानकृतो भेदः।
न त्वात्मनो मलानपेक्षयार्थग्रहणैकस्वभावस्यान्योऽनावार्यस्वभावो यो भेदं विदध्यादिति स्वभावान्तरपरिणामाभावान्न पूर्वोक्तदोषप्रसङ्गः।

अयमेव पक्षः प्रमाणसिद्ध इत्यनुमानसिद्धेनापि दृष्टान्तान्तरेण पोष्यते
विषसम्बन्धिनी शक्तिर्यथा मन्त्रैर्निरुद्ध्यते ॥ २.३१ ॥
तथा न तद्विषं क्षीणमेवं पुंसो मलक्षयः ।

__________

वृत्ति:
मोहमारणहेतुत्वान्मलस्थानीयायां सहजायामपि शक्तौ पुरुषस्थानीयस्य विषस्यनिवृत्तायां न कदाचिद्वर्णाकृत्यादिस्वरूपनाशो यथा तथा पुंसो मलक्षय इति।
अंशेन दृष्टान्तत्वादधुना प्रत्यक्षसिद्धदृष्टान्तान्तरेण प्रकरणोपसंहारः
फलं कतकवृक्षस्य क्षिप्तं सकलुषे जले ॥ २.३२ ॥
कुरुते शक्तिसंरोधं किं क्षिपत्यन्यतो जलात् ।
शिवज्ञानं तथा तस्य शक्तिसंरोधकारकम् ॥ २.३३ ॥

__________

वृत्ति:
यथा हि कतकाभिधानस्य वृक्षविशेषस्य फलम् ।च्रुx मेघजादि सहजकलुषयुक्त्च्रुx। एव जले प्रक्षिप्तं तस्याः कलुषलक्षणायाः शक्तेः संरोधं विदधल्लक्ष्यते। न तु जलात्किञ्चिदपि स्वभावान्तरमन्यतोऽन्यत्र क्षिपेदिति कालुष्यमात्रमेव तस्य निवर्तयति नान्यत्किञ्चिदित्यर्थः।
तथा शिव एव ज्ञानं सर्वेषां चिच्छक्तिव्यञ्जकत्वेन ज्ञानहेतुत्वात्तस्येति मलस्य शक्तिसंरोधकारकं दीक्षया तदधिकारोत्पादनाय वा शक्तिपातेनेत्युक्तम्।
यदि वा शिवस्य ज्ञेयतया संबन्धि यद्दीक्षितानां नित्यकर्तव्यतया
वक्ष्यमाणज्ञानं तदारब्धकार्यकर्मभोगोपरोधेनाक्षपितस्य दीक्षया सर्वात्मना मलस्यैव प्रत्यहमपचयात्क्रमेण शक्तिसंरोधकारकं न तु पुरुषस्येति। ततश्च तस्यांशेऽपि स्वभावान्तरपरिणामाभावान्न पूर्वोक्तमचेतनत्वं दूषणं मलस्य त्वेतद्भूषणमेवेति न व्यतिरिक्तमलपक्षे कश्चिद्दोष इति।


।Cओलो
इति नारायणकण्ठात्मजभट्टरामकण्ठविरचितायां श्रीमत्किरणवृतौ द्वितीयं प्रकरणम्


Cःाড়्ट्Eऋ ३

अथ पदार्थानामेव परीक्षार्थं प्रश्नपूर्वं रकरणान्तरम्। अत्र च सूत्रपदार्थप्रकरणसम्बन्धाः प्राग्वद्द्रष्टव्याः।
पाटलिकस्तु व्यतिरिक्तमलसिद्धेरनन्तरं मलस्यैवा रागत्वपरीक्षात्मको वाक्यात्मकोऽपि रागेण रञ्जितश्चेति
।ॄउओते{रागेण रञ्जितश्च वाक्येन।
।Kइर् । १:१७ .}
तथा च प्रश्नः।


_________________________________________________________


गरुड उवाच
भोक्तृत्वं मलतः प्रोक्तमभिलाषान्न किं भवेत् ।
स च रागाद्यतो रागो वक्तव्योऽत्र मलेन किम् ॥ ३.१ ॥

__________

वृत्ति:
ननु मलशब्देन चावृतिरित्यादिना
।ॄउओते{मलशब्देन चावृतिः
।Kइर् । २:१४ .}
प्रबन्धेन मलत आवरणं कार्यं पुंविषयं मुख्यमुक्तम्।
आनुषङ्गिकं तु भोक्तृत्वादि। यदुक्तम्

पाश्यादिवृत्तयो यास्तु तस्य भेदाः प्रकीर्तिताः।
।ॄउओते{पाश्यादिवृत्तयो।देव्दोत्भोक्तृत्वञ्च न केवलम्
।Kइर् । २:२१ --२२ .}

मले सति भवन्त्येता भोक्तृत्वञ्च न केवलम्॥ इति।


कोऽयं प्रश्नः। अथावार्यत्वमेवात्र भोक्तृत्वमुच्यते न तु भोगैकरसिकत्वमिति प्रश्नः।
यद्येवं ततो मल एव वक्तव्यः किं रागेणेति रागाक्षेपप्रश्नो युक्तः, न तु मलेन किमिति।
रागाद्यभावेऽपि प्रलयकेवलाद्यवस्थायां तत्कार्यस्य भावादिति।
सत्यमेतत् । किन्तु नात्र सर्वथा मलाभावः पूर्वपक्षीकृतो यदात्र भोक्तृत्वे मलेन किमिति।
भोक्तृत्वं हि भोगैकरसिकत्वात्मकं रागकार्यात्प्रागुक्तादभिष्वङ्गादेव दृष्टात्सिद्धमिति किमत्र मलस्यापि हेतुत्वेन कल्पितेन।
रागस्यैवात्र पारम्पर्येण हेतुत्वमिति प्रश्नार्थः।
तन्न विरोध इति। अत एवात्र मलस्याभ्युपगमेनैव समाधिः


_________________________________________________________


भगवानुवाच
भोक्तृत्वं नाम यत्प्रोक्तमनादि मलकारणम् ।

__________

वृत्ति:
यदेतद्भोक्तृत्वमस्माभिः प्रागुक्तं तदनादि। यतो मलकारणमुक्तं ततो
मलस्यानादित्वात्तदप्यनादि। एतदुक्तं भवति---अन्यदेवास्मान्मोहजनिताद्भोक्तृत्वाद्भोगयोग्यत्वलक्षणमेतद्भोक्तृत्वम्।
प्रलयाकले विद्यते न तु विज्ञानकेवले कर्माभावात् ।
तस्य कर्मवन्मलोऽपि कारणं परिणतमलस्य प्रलयाकलस्यापि परमेश्वरानुग्राह्यत्वान्न तत्सम्भवति यतः।

ततश्च नाभिलाषोऽस्य निमित्तमित्युच्यते


_________________________________________________________


अभिलाषस्तनौ सत्यां सा तनुः केन हेतुना ॥ ३.२ ॥
रागोऽपि तन्निमित्तत्वात्प्रवृत्तः

__________

वृत्ति:
अभिलाषोऽप्ययं सति स्थूलेऽस्मिञ्छरीरे भवतीति। तच्छरीरं सूक्ष्मदेहात्मकरागादिसम्बन्धात् ।
रागादीनां तु प्रवृत्तौ तद्भोक्तृत्वं निमित्तमिति कथमस्याभिलाषो निमित्तमाशङ्क्यते। अभिलाषहेतोरस्य रागादेरप्येतन्निमित्तत्वात् ।
तत्र दृष्टान्तः


_________________________________________________________


पुरुषस्य तु ।
चौर्यं हि बीजमापेक्ष्य यथा निगडबन्धनम् ॥ ३.३ ॥
एवं पशुत्वमापेक्ष्य रागतत्त्वं प्रवर्तते ।

__________

वृत्ति:
यथा चौर्यं बीजभूतमा समन्तादपेक्ष्यपुरुषस्य निगडादिबन्धनं प्रवर्तते तथैव प्रागुक्तनयेन
।ॄउओते{प्रागुक्तनयेन
षेए ।Kइर् । १:१६ ff.}
प्रलयकेवलिनः पशुत्वं मलमपेक्ष्य रागादयः प्रवर्तन्त इति कुतो रागस्यात्र हेतुत्वमाशङ्क्यते। तदेवं


_________________________________________________________


एतस्मादस्य भोक्तृत्वं तनुर्भोगोऽन्यहेतुजः ॥ ३.४ ॥
पशुत्वेन हि भोक्तृत्वं मायाबन्धस्तनौ स्थितः ।
सुखदुःखादिको भोगः कर्मतः संस्थितः पशोः ।
नान्यथास्य विनिर्दिष्टं भोगभोक्तृत्वबन्धनम् ॥ ३.५ ॥

__________

वृत्ति:
पशुत्वसंज्ञकान्मलादस्य भोक्तृत्वं मायातस्तच्छरीरं कर्मतः पुनर्भोगः कर्मणामेव सुखदुःखात्मना परिणामादिति साक्षान्निमित्तत्वमत्रोक्तं न तु परम्परया पारम्पर्येण सर्वस्यास्य मायात्मनः कर्माक्षिप्तत्वादिति दर्शयिष्यामः।
।ॄउओते{इति दर्शयिष्यामः
अद् ।Kइर् । ३:७--८.}
प्रोक्तञ्च श्रीमत्स्वायम्भुवे

कर्मतश्च शरीराणि विषयाः करणानि च। इति।
।ॄउओते{कर्मतश्च शरीराणि विषयाः करणानि
च ।ष्वयम्। १:१३ ब्.}


नान्यथैतस्य भोगश्च भोक्तृत्वं च शरीरं च विनिर्दिष्टमिति। तदियता पशुपदार्थः परीक्षित इति॥

अधुना पाशपदार्थपरीक्षाविशेषार्थः प्रसङ्गात्प्रश्नः


_________________________________________________________


गरुड उवाच
यदेतत्कर्म देवेश प्रोक्तं भोगनिबन्धनम् ।
कर्मार्जनं तनौ सत्यां सृष्टिकाले तनुः कुतः ॥ ३.६ ॥

__________

वृत्ति:
यदेतत्सुखदुःखादिको भोग इत्यादिना कर्म भोगनिबन्धनमुक्तं तन्न व्यापकमित्यध्याहारः। यतो महाप्रलयादनन्तरं सर्गारम्भकाले प्रथमः शरीरादिभोगः कुतश्चिदेव निमित्तादिष्यते। न कर्मतः।
तदुत्तरकालभाविनां कर्मनिमित्तत्वादिति। यदाहुः---

आद्यो हि देहः पुरुषार्थमूलस्ततोऽप्यन्ये कर्ममूलाः प्रतिपन्ना इति।
।ॄउओते{आद्यो हि देहः।देव्दोत्प्रतिपन्नाः
षोउर्चे उन्क्नोwन्. आल्सो ॠउओतेदिन् ।णर्ড়्,
प्.२१२ अद्३:८७, बुत्wइथ्प्रपन्नाः fओर्प्रतिपन्नाः}


अत्र सिद्धान्तः

_________________________________________________________


भगवानुवाच
यथानादिर्मलस्तस्य कर्माप्येवमनादिकम् ।
यद्यनादि न संसिद्धं वैचित्र्यं केन हेतुना ॥ ३.७ ॥

__________

वृत्ति:
पुरुषाणां हि सर्वदा शारीरभोगादिवैचित्र्यान्यथानुपपत्त्या कर्मणः सत्त्वं सृष्टिकालेऽपि पशुमृगपक्षिसरीसृपस्थावरमनुष्यादि जन्मवैचित्र्यश्रुतेः।
महाप्रलयेऽपि कर्मसिद्धितः प्रवाहानादिः कर्मशरीरप्रबन्धः सिद्ध्यति।
।ॄउओते{टेस्तिमोनिउम्:
किरणवृत्तौ भगवता रामकण्ठेन
’पुरुषाणां हि सर्वथा
शरीरभोगवैचित्र्यान्यथानुपपत्त्या
कर्मणः सत्वम्। प्रथमसृष्टिकालेऽपि
पशुपक्षिमृगसरीसृपस्थावरमनुष्यादिवैचित्र्यश्रुतेः
महाप्रळयेऽपि कर्मसिद्धितः
प्रवाहानादिः कर्मशरीरप्रबन्धः
सिद्ध्यतीऽति व्याख्यातम्। {षिद्धान्तसारावलिव्याख्या} अद्
।Vড়्। ७, प्.५८, लिनेस्१८--२१.}
ततश्च मलस्यापि केवलस्यात्र शरीरहेतुत्वप्रतिषेधस्य सामर्थ्यसिद्धेः
आद्यो हि देहः पुरुषार्थमूल इत्ययं पक्षोऽत्यन्तायुक्त इत्युक्तं भवति।
एतदेवास्य प्रवाहानादित्वमुपसंहर्तुं मायाधिकरणत्वं च दर्शयितुं सूत्रम्


_________________________________________________________


तस्मादनादिकं कर्म मायाप्येवं भवस्तथा ।
तथानादिः शिवः कर्ता सर्वस्य जगतः स्थितः ॥ ३.८ ॥

__________

वृत्ति:
एवं कर्मनिबन्धनो भवः कलादिक्षितिपर्यन्ततत्त्व भूतभुवनरूपः संसारो मायीयस्तन्निबन्धनं च पुनरर्ज्यमानं कर्मेति कर्मभवयोः परस्परहेतुत्वेन प्रवाहानादित्वसिद्धिः।
भवानादित्वादेव च तदुपादानेन कर्मानादित्वाच्च तदधिकरणेनापि प्रकृत्यात्मनानादिना भवितव्यम्।
कृष्यादिकर्मणां प्रकृतिसंस्कारकत्वेन दृष्टत्वान्नैयायिकादिपरिकल्पितात्मसंस्कारकत्वायोगादात्मनः परिणामित्वप्रसङ्गाच्च।
यच्च तद्भवो पादानं कर्माधिकरणं च सा मायाप्यनादिसिद्धा।
तथा भवस्य तनुकरणभुवनात्मनः प्रवाहानादित्वेनोक्तत्वात्तत्कर्तापीश्वरोऽनादिः सिध्यतीति।

अथ पाशपदार्थपरीक्षाविशेषादनन्तरं प्रसङ्गात्पतिपदार्थपरीक्षार्थं प्रश्नः


_________________________________________________________


गरुड उवाच
शिवः कर्ता त्वया प्रोक्तः स कथं गम्यते प्रभो ।

__________

वृत्ति:
ईश्वरे हि जगत्कर्तरि सिद्धे तस्यानादित्वं साधयितुं शक्यम्। स एव कथं गम्यते। न तावत्प्रत्यक्षतोऽतीन्द्रियत्वेन तस्य भवद्भिरभ्युपगमात् । तदुक्तं जैमिनीयैः

न च कैश्चिदसौ ज्ञातुं कदाचिदपि शक्यते।
।ॄउओते{न च कैश्चिदसौ।देव्दोत्ब्रूयादात्मैश्वर्यप्रसाधनात्
।ष्लोक् {सम्बन्धाक्षेपपरिहार} ५७ द्, ५८ बन्द्६०.
आल्सो चितेदद् ।ंत् ।Vড়्। ३:६, प्.४९ अन्द्बेfओरे ।णर् । २:१, प्.११३.}

स्वरूपेणोपलब्धेऽपि स्रष्टृत्वं नावगम्यते॥

न च तद्वचनेनैषा प्रतिपत्तिः सुनिश्चिता।

असृष्ट्वापि ह्यसौ ब्रूयादात्मैश्वर्यप्रसाधनात् ॥ इति।


नापि रूपोपलब्ध्यादिना चक्षुरादिरिव पूर्वोक्ततनुकरणभुवनादिकार्यान्यथानुपपत्ति लक्षणेनानुमानेन तस्य महाभूतेभ्य एवोत्पत्तिदृष्टेः। यदाहुः सौगताः

यस्मिन्सति भवत्येव यत्ततोऽन्यस्य कल्पने।
।ॄउओते{यस्मिन्सति।देव्दोथेतूनामनवस्थितिः
{ড়्रमाणवार्त्तिक} १:२६ (wइथ्
येषु सत्सु fओर्यस्मिन्सति).
आल्सो चितेदद् ।णर् । १:४, प्.९ अन्द्२:४, प्.१२० अन्द् ।ंत् ।Vড়्। ६:२१, प्.१५२.}
तद्धेतुत्वेन सर्वत्र हेतूनामनवस्थितिः॥

शस्त्रौषधादिसम्बन्धाच्चैत्रस्य व्रणरोपणे।
।ॄउओते{शस्त्रौषधादि।देव्दोत्प्रकल्प्यते
{ড়्रमाणवार्त्तिक} १:२४.}

असम्बद्धस्य किं स्थाणोः कारणत्वं प्रकल्प्यते॥ इति।


नाप्यागमेन तस्याकृतकत्वेन भवद्भिरनभ्युपगमात् ।
तत्कृतस्यान्योन्यसंश्रयेणाप्रामाण्यात् । न च प्रमाणान्तरमस्ति भवताम्।
तत्साधनप्रमाणाभावान्न कथंचिद्गम्यत इत्यर्थः।

यद्येवमत एवैतद्विषयसंशयोऽस्तु। नास्तीश्वर इति कुतो बाधकप्रमाणाभावादिति। उच्यते।


_________________________________________________________


वैकरण्यादमूर्तत्वात्कर्तृत्वं युज्यते कथम् ॥ ३.९ ॥

__________

वृत्ति:
करणानामभावो वैकरण्यं तस्मादीश्वरो जगतः कर्ता न संभवति। करणाभावाद्दण्डचक्रसूत्रादिरहितः कुम्भकार इव कुम्भे। तदिदमुक्तं जैमिनीयैः

न च निःसाधनः कर्ता कश्चित्सृजति किञ्चन। इति।
।ॄउओते{न च निःसाधनः कर्ता कश्चित्सृजति किञ्चन
।ष्लोक् {सम्बन्धाक्षेपपरिहार}
५० द्. आल्सो ॠउओतेदद् ।णर् । ३:२, प्.१५५.}


किञ्च मूर्तत्वं कठिनता। अत्र शरीरयोगस्तदभावादीश्वरो न सम्भवति कर्तेति। तदिदमुक्तं तैरेव

अशरीरो ह्यधिष्ठाता नात्मा मुक्तात्म वद्भवेत् ।
।ॄउओते{अशरीरो ह्यधिष्ठाता नात्मा मुक्तात्मवद्भवेत्
।ष्लोकस्। ७८ द्. आल्सो
ॠउओतेदद् ।णर् । २:८, प्.१३० अन्द्fरेॠउएन्त्ल्यिन् थे ।ंत्V.}

इत्येवं साधकबाधकप्रमाणाभावसद्भावाभ्यामीश्वराभावसिद्धिरिति
पूर्वः पक्षः। अत्र सिद्धान्तो बाधकनिरासपूर्वः। तस्मिन्ह्यनिराकृते साधकस्य हेतोरप्रवृत्तिरेव।
तत्प्रतिज्ञावचनस्यानुमाननिराकृतत्वात् । यदाहुः

सन्दिग्धे हेतुवचनाद्व्यस्तो हेतोरनाश्रयः। इति।
।ॄउओते{सन्दिग्धे हेतुवचनाद्व्यस्तो हेतोरनाश्रयः
{ড়्रमाणवार्त्तिक}
४:९१. आल्सो ॠउओतेदद् ।णर् । २:४, प्.११९.}


तथैवोपक्रम्यते


_________________________________________________________


भगवानुवाच
यथा कालो ह्यमूर्तोऽपि दृश्यते फलसाधकः ।
एवं शिवो ह्यमूर्तोऽपि कुरुते कार्यमिच्छया ॥ ३.१० ॥

__________

वृत्ति:
तत्र यस्तावदकर्तृत्वसिद्धावत्रामूर्तत्वादिति हेतुरुक्तः स कालेनानैकान्तिकस्तस्यामूर्तत्वेऽपि पुष्पफलादिकर्तृत्वप्रसिद्धेः।
अथ कालस्याचेतनत्वेन स्वकार्यं प्रति कारणत्वात्कर्तृत्वासिद्धेः नानैकान्तिकविषयता। तत्रोच्यते तर्हि कालस्यात्रोपलक्षणत्वादस्मदाद्यात्मनानैकान्तिकस्तस्यामूर्तस्यापि स्वदेहस्पन्दादिकार्यदर्शनात् ।
दृष्टान्तोऽप्यत्र साध्यधर्मासिद्धः मुक्तात्मनोऽप्यस्माभिः सर्वाधिष्ठातृत्वेनाभ्युपगमादिति।

यस्त्वत्रवैकरण्यादिति हेतुरुक्तः सोऽप्यसिद्ध एव। तथा हि


_________________________________________________________


इच्छैव करणं तस्य यथा सद्योगिनो मता ।

__________

वृत्ति:
इच्छात्मिकैव शक्तिस्तस्य करणं योगिन इव विद्यते यतः।
योगिनश्च सर्ववादिनां सिद्धा एव चार्वाकैरपि विषग्रहचिकित्साकारित्वेन
मण्यौषधादिवन्न प्रतिक्षेप्तुं शक्याः। यदाहुः

अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव इति।
।ॄउओते{अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः
आल्सो ओच्चुर्सिन् {ऋअत्नावली} आच्त्२, प्.३९
अन्दिन् थे {शुक्लकुरुकुल्लासाधन}
(णो.१८० इन् {षाधनमाला}),
प्.३६५. आल्सो ॠउओतेदद्६:१६ अन्दद् ।ंत् ।Vড়्। ७:४९, प्.२४९.}


अथ वैकरण्यमत्रेन्द्रियाभावो हेतुरभिप्रेतस्तत्राप्युच्यते


_________________________________________________________


शल्याकृष्टिकरो दृष्टो ह्यक्षहीनोऽपि कर्षकः ।
व्यापारो न च दृश्येत कार्यमिच्छा प्रतीयते ॥ ३.११ ॥

__________

वृत्ति:
तदानीमयस्कान्तमणिनानैकान्तिको हेतुः। स हीन्द्रियहीनोऽपि शल्यात्मकायःसमाकर्षको दृष्टो यतः। अत्रापि प्रागुक्तकालवदनैकान्तिकाक्षेपतत्समर्थनं तथैव द्रष्टव्यमिति।

तदेवमसत्तानिश्चायके बाधकेऽपनीतेऽधुना सत्तासंशयनिवारणाय
प्रमाणमुच्यते


_________________________________________________________


स्थूलं विचित्रकं कार्यं नान्यथा घटवद्भवेत् ।
अस्ति हेतुरतः कश्चित्

__________
वृत्ति:
इह हीश्वरसिद्धौ सांख्यसौगतजैमिनीयार्हतचार्वाकाः प्रतिपक्षाः। तत्र पूर्वयोर्यदेतद्विचित्रकमित्यदृष्टकर्तृकं तनुकरणभुवनादिकं प्रागुक्तं जगद्धर्मित्वेन चिकीर्षितं तत्प्रतिक्षणं परिणामादुत्पादाद्वा कार्यत्वेन सिद्धमेव। अपरेषां तु

न कदाचिदनीदृशं जगत्
।ॄउओते{न कदाचिदनीदृशं जगत्
षोउर्चे उन्क्नोwन्. आल्सो ॠउओतेदद् ।णर् । २:१, प्.११५.}

इत्यभ्युपगमात्तदेकदेशभुवनादि तथा न सिद्धमिति तान्प्रति
स्थूलत्वेन कार्यत्वमत्र साध्यते। यत्स्थूलं तत्कार्यं यथा घटादि स्थूलं चैतददृष्टकर्तृकं भुवनादि ततः कार्यमिति।
न चात्रेश्वरशरीरेण नित्येन वेदेन वानैकान्तिकत्वम्। यथोक्तं जैमिनीयैः

अनेकान्तश्च हेतुस्ते तच्छरीरादिना भवेत् । इति।
।ॄउओते{अनेकान्तश्च हेतुस्ते तच्छरीरादिना भवेत्
।ष्लोकस्। ७७ ब्.
़ुओतेदद् ।णर् । २:८, प्.१३३ अन्दद् ।ंर्ग् । १:९, प्.२१.}


तस्यास्माभिः सर्वथा वेदस्य चानित्यत्वेनाभ्युपगमात् । तस्मिन्नपि च कार्ये सिद्धेऽधुना कार्यत्वेनात्र सर्वस्मिञ्जगति कर्तृपूर्वकत्वं साध्यते।
न तु स्थूलत्वेन तद्व्यापकत्वादिति।
यत्कार्यं तद्विशिष्टज्ञानक्रियायुक्तकर्त्रा विना न सिध्यतीति यथा घटादि। कार्यं चैतत्सर्वमेव जगत् ।
अतस्तदपि विशिष्टज्ञानक्रियायुक्तेन कर्त्रा विना न भवतीति।
यस्तत्कर्ता स ईश्वरः सिद्ध एवेत्येवमत्र पदत्रयस्य नान्योन्यं गतार्थतेत्यविरोधः।
न च कार्यत्वमत्र तथाभूतं न सिद्धमित्याशङ्कनीयम्। यदाहुः सौगताः

सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत् ।
।ॄउओते{सिद्धं यादृगधिष्टातृ।देव्दोथुताशने
ড়्रमाणवार्त्तिक १:१३--१४. आल्सो
ॠउओतेदद् ।ंत् ।Vড়्। ६:१००, प्.२२७ अन्दद् ।णर् । २:५, प्.१२२.}

सन्निवेशादि तद्युक्तं तस्माद्यदनुमीयते॥

वस्तुभेदे प्रसिद्धस्य शब्दसाम्यादभेदिनः।

न युक्तानुमितिः पाण्डुद्रव्यादिव हुताशने॥ इति।


कार्यमात्रस्य कर्तृमात्रेण घटादौ कृतकत्वमात्रस्यानित्यत्वमात्रेणेव व्याप्तेः सिद्धत्वात् । अन्यथा तत्राप्यन्यत्रापि च दृष्टान्तसाध्यधर्मभेदेन हेतुभेदकल्पने सर्वानुमानाभाव एव। अविशेषात्पाण्डुत्वस्य तु भावात्धूमाभावेऽपि हिममक्कोलादिषु च तद्दर्शनात्वह्न्यनुमापकत्वमयुक्तमेव।
नाप्यनैकान्तिकः सर्वस्यादृष्टकर्तृकस्य वनतृणादेरपि पक्षीकृतत्वात् । न च विरुद्धो हेतुः यथाहुर्जैमिनीयाः
तथासिद्धे च दृष्टान्ते भवेद्धेतोर्विरुद्धता।
।ॄउओते{तथासिद्धे च दृष्टान्त्देव्दोत्प्रसज्यते
।ष्लोक् {सम्बन्धाक्षेपपरिहार} ८०. आल्सो
ॠउओतेदद् ।ंर्ग् । ३:१, प्.१०१; अद् ।णर् । २:७, प्.१२८
अन्द्fरेॠउएन्त्ल्यिन् थे ।ंत्V.}

अनीश्वरविनाश्यादिकर्तृकत्वं प्रसज्यते॥ इति।


विपर्ययव्याप्त्यभावात् । दृष्टान्ते हि घटादावयं हेतुः स्वसाध्ये स्वकार्यसर्वज्ञत्वसर्वकर्तृत्वलक्षणेनेश्वरत्वेन व्याप्तः सिद्धो यतस्तस्यांशेनापि वैकल्येन घटादर्शनादविनाशित्वेनापि कुम्भकारात्मनो नित्यत्वात्तस्यैव च कर्तृत्वात् । नापि धर्मिस्वरूपविपरीतसाधनोऽयं विरुद्धः। यथाह मण्डनः

सन्निवेशादिमत्सर्वं बुद्धिमद्धेतु यद्यपि।
।ॄउओते{संनिवेशादिमत्सर्वं।देव्दोतुपकार्योपकारकाः
{Vइधिविवेक} प्प्.२१९ अन्द्२२४.
़ुओतेदद् ।ंत् ।Vড়्। ६:१००, प्.२२९ अन्द्(सेचोन्द्
वेर्से ओन्ल्य्) अद् ।णर् । २:२०, प्.१४६.}

प्रसिद्धसन्निवेशादेरेककारणता कुतः॥

रथाद्यवयवा नानातक्षनिर्मापिता अपि।

दृश्यन्ते जगति प्राय उपकार्योपकारकाः। इति।


यतो रथाद्यवयवानामनेकतक्षनिर्मितानामपि नैकस्थपतिबुद्धिक्रियाभ्यां विनैकरथारम्भकत्वं दृष्टमिति।

नाप्यनीश्वरकर्तृकं जगत्कार्यत्वात्घटादिवदिति विरुद्धाव्यभिचार्याक्रान्तत्वादहेतुरयमिति वाच्यम्।
धूमादग्न्यनुमानवदत्र वस्तुबलप्रवृत्तत्वेन तदसम्भवादिति भवतामभ्युपगमः।
अन्यथा पर्वतादावपि धूमादग्न्यनुमानेऽत्रापर्वतवर्ती वह्निः धूमात्यत्र धूमस्तत्रापर्वतवर्ती वह्निर्यथा महानसेऽत्र च धूमस्तस्मादपर्वतवर्ती वह्निरिति सर्वत्र विरुद्धाव्यभिचार्यनुमानावस्करसंभवादनुमानाभाव एवेत्येवमादयोऽत्र हेतुदोषा विस्तरेणास्माभिर्नरेश्वरपरीक्षाप्रकाशे प्रतिक्षिप्ता इति तत एवावधार्याः।
।ॄउओते{नरेश्वरपरीक्षाप्रकाशे प्रतिक्षिप्ताः
अध्याय २.}


अत्र पराभिप्रायः।


_________________________________________________________

कर्म चेत्

__________

वृत्ति:
अनेन हि प्रयोगवचनेन भवद्भिः कर्तृमात्रं साध्यमुपक्षिप्तम्।
तच्चोभयवादिसिद्धं कर्मास्त्विति श्रावणः शब्द इतिवत्सिद्धसाधनत्वादयुक्तमेतत् । यदाहुर्जैमिनीयाः।

कस्यचिद्धेतुमात्रस्य यद्यधिष्ठातृतेष्यते।
।ॄउओते{कस्यचिद्धेतुमात्रस्य्देव्दोत्सिद्धसाधनम्
।ष्लोकस्। ७५. ़ुओतेदद् ।णर् । २:१४, प्.१३६.}

कर्मभिः सर्वभावानां तत्सिद्धेः सिद्धसाधनम्॥ इति।


अत्र सिद्धान्तः।


_________________________________________________________


न ह्यचेतनम् ॥ ३.१२ ॥

__________

वृत्ति:
न सिद्धसाधनं यस्मात्कर्माचेतनमिति।
अयमर्थः---नास्माभिरत्र कर्तृत्वमात्रं साध्यतेऽपि तु विशिष्टज्ञानक्रियायुक्तः कर्तेति कुतोऽचेतनैः कर्मभिः सिद्धसाधनमिति।
यद्येवं धर्मिविशेषविपरीतसाधनोऽयं विरुद्धः। यदाहुः।

कार्यं शरीरयुक्तेन कर्त्रा व्याप्तं सदैव यत् ।
।ॄउओते{कार्यं शरीरयुक्तेन् देव्दोत्प्रसज्यते
षोउर्चे उन्क्नोwन्. आल्सो चितेदद्
।ंत् ।Vড়्। ६:१००, प्.२२९ wइथ्घटादि fओर्सदैव}

कार्यत्वात्तेन जगतः कर्ता देही प्रसज्यते॥ इति।


तदयुक्तं यतः


_________________________________________________________


प्रोक्तः स निष्कलः स्थूलस्तथा सकलनिष्कलः ।
ईशः सदाशिवः शान्तः कृत्यभेदाद्विभिद्यते ॥ ३.१३ ॥

__________

वृत्ति:
कार्यस्य शरीरव्यभिचारात्स्वदेहस्पन्दात्मकं कार्यमस्मदादेर्न देहान्तरपूर्वकं सिद्धमित्युक्तं यतः।
।ॄउओते{इत्युक्तं यतः
।Kइर्V। अद्३:१०.}
ततश्च कुम्भकाराद्यात्मनोऽपि स्वकार्यं प्रति शक्तोद्युक्तप्रवृत्तात्मना त्र्यवस्थस्य सिद्धेर्जगत्कर्तापि त्र्यवस्थ एवानुमीयते। यदाहुः

शक्तोद्युक्तः प्रवृत्तश्च कर्ता त्रिविध इष्यते। इति।
।ॄउओते{शक्तोद्युक्तः प्रवृत्तश्च कर्ता त्रिविध इष्यते
षोउर्चे उन्क्नोwन्. आल्सो चितेदद् ।ंत् ।Vড়्।
३:२०, प्.६९. Bहत्त्थेरे ओब्सेर्वेस्थतित्
अप्पेअर्सस्{शतरत्नस्ण्ग्रह} १४ (प्.२२) अन्द्
इसत्त्रिबुतेद्तो थे ।ंर्ग्. ईन् बोथ्थोसे प्लचेस्थे
fइर्स्त्{पाद} रेअद्स्
शक्तोद्युक्तप्रवृत्तश्च---अन् ’िम्प्रोवेद्ऽ
रेअदिन्गिन् wहिछितिस्नो लोन्गेर्नेचेस्सर्य्तो अस्सुमे अ दोउब्ले सन्धि.}


तत्र यच्छक्तत्वं कार्यं प्रति योग्यत्वं सा निष्कलावस्था शान्त इत्युच्यते। यत्तूद्युक्तत्वं सा सकलनिष्कलावस्था सदाशिवः कथ्यते।
प्रवृत्तक्रियत्वं तु स्थूलावस्था ईश्वर इति।
कृत्यविषयोऽयमवस्थाभेदस्तेनोपचारादेतत्तत्त्वत्रयं भिन्नमित्युच्यते। न परमार्थत्वादित्यर्थः। यद्वक्ष्यति

पुंसामनुग्रहार्थं तु परोऽप्यपरतां गतः। इति।
।ॄउओते{पुंसामनुग्रहार्थं तु परोऽप्यपरतां
गतः
।Kइर् । ३:२३ बन्द्९:१७ द्.}


एवं च ज्ञानपदार्थस्याप्यत्रैव परीक्षासिद्धिः। अत्र प्रश्नः


_________________________________________________________


गरुड उवाच
निष्कलः स कथं ज्ञेयः सकलोऽपि पुमांस्तदा ।
द्विस्वभावस्तथा योऽन्यो विरुद्धः स परस्परम् ॥ ३.१४ ॥

__________

वृत्ति:
इह हि पूर्वं शिवज्ञानं तथा तस्येत्यादिना
।ॄउओते{शिवज्ञानं तथा तस्य
।Kइर् । २:३३ .}
दीक्षितानां शिवो ज्ञेयत्वेनोक्तः। न च निष्कलो ज्ञातुं शक्यते साकारविषयत्वाद्बुद्धेः। यदाहुः

आकारवांस्त्वं नियमादुपास्यो न वस्त्वनाकारमुपैति बुद्धिः। इति।
।ॄउओते{आकारवांस्त्वं।देव्दोत्बुद्धिः
षोउर्चे उन्क्नोwन्. Cइतेदद् ।ंत् ।Vড়्।
३:२३, प्.७१; ब्य् ।ाघ् । अद् ।टत्ড়्। ६;
अन्द्ब्य् ।ट्र्यम्बक् अद् ।Kइर् । ३:२०, प्.।थिन्स्पचे
६६, लिनेस्१--२. Bहत्तोब्सेर्वेस्थतितिस्
चितेद्[ब्य्ञ् ।ञानप्रकाश]
इन् थे [{शिव-}]{योगसार} (प्.४९) अन्द्
अत्त्रिबुतेद्तो अ {य़ोगस्ण्ग्रह}.}

ततश्चाशक्यानुष्ठेयत्वात्तद्विषयज्ञानमनुपदेश्यमेव।
नापीश्वरः सकलो भवति शरीरित्वेन देवदत्तादिवत्सर्वज्ञत्वकर्तृत्वाभावात् ।
नापि सकलनिष्कलं नाम वस्तु सम्भवति विरुद्धयोर्घटतदभावयोरिवैकत्र समावेशासम्भवादिति तत्त्वत्रयादस्मादेकस्य ज्ञानोपदेशवैयर्थ्याद्द्वयोश्च स्वरूपानुपपत्तेरेवावक्तव्यतेति प्रश्नार्थः। सिद्धान्तस्तु


_________________________________________________________


भगवानुवाच
पशोः शक्तिनिपातेन मन्त्रशक्त्या च सर्वदा ।
निष्कलं लक्ष्यते शक्त्या सूक्ष्मं विषविकारवत् ॥ ३.१५ ॥

__________

वृत्ति:
पशोर्यः परमेश्वराच्छक्तिपातो या च मन्त्रशक्तिर्दीक्षा ताभ्यां या शक्तिर्ज्ञानक्रियात्मिका निर्मलीकृता तया सर्वदैव निष्कलतत्त्वं लक्ष्यते।
विषदीक्षाशुद्धस्य मन्त्रिणः शक्त्यैव विषस्य विकारो मृतितापात्मक इव। शक्त्यतिशयख्यापनांशत्वेन दृष्टान्तत्वम्।
अयं त्वत्रार्थः---यदि निष्कलत्वादेवास्य ज्ञेयत्वं नोपपद्यत इति प्रश्नस्तदात्मना व्यभिचारः। तस्य कार्यकरणव्यतिरेकेण स्वतः परतश्च कायवाग्व्यवहारात्मनानुमानेन ज्ञेयत्वात् ।

अथ बौद्धस्य ज्ञानस्याकारग्रहणेनैव वस्तुव्यवस्थापकत्वादनाकारो न ज्ञेय इति प्रश्नार्थः। तदा सिद्धसाधनत्वमेव ज्ञानशक्त्यैवात्र तस्य ज्ञेयत्वेनोक्तत्वान्न बुद्ध्यादिभिरित्यदोषः। योऽपि सकलत्वात्भगवतोऽनीश्वरत्वप्रसङ्ग उक्तः सोऽप्ययुक्त इत्युच्यते


_________________________________________________________


सकलोऽपि पुमान्नैव मायावयववर्जनात् ।

__________

वृत्ति:
अन्यदेवैतत्सकलत्वं सकलशक्तिप्रसरात्मकं यद्योगादीश्वरोऽपि सकल इत्युच्यते। न तु पुरुषवन्मायीयकलादिशरीरयोगादिति सकलशब्दवाच्यत्वेऽप्यत्र न पुरुषत्वं तथाभूतस्य सकलत्वस्यासिद्धत्वादिति भावः।

अथ कर्तृत्वात्तस्य पुरुषस्येव कथं न मायात्मिकास्ताः कलाः कल्प्यन्त इति। तत्रोच्यते


_________________________________________________________


निर्मलत्वाच्छिवस्यात्र न कल्प्यास्त्वसिताः कलाः ॥ ३.१६ ॥

__________

वृत्ति:
अन्यथासिद्धत्वादस्य हेतोर्यतो न मायात्मिकास्ताः कलाः पुंसः कर्तृत्वं जनयन्ति येन तदन्यथानुपपत्त्यात्र कल्प्याः स्युः।
परिणामित्वेनाचेतनत्वप्रसङ्गादित्युक्तं परिणामोऽचेतनस्येत्यादिना।
।ॄउओते{परिणामोऽचेतनस्य
।Kइर् । २:२६ .}
अपि तु निर्मलीकुर्वन्तीति।
तत्तु निर्मलीकृतं स्वत एव कार्यकरणाय प्रवर्तत इतीश्वरे स्वभावनैर्मल्यात्तथास्वभावा न कलास्ताः कल्पयितुं समर्था इति कुतः कर्तृत्वात्तत्र कलासिद्धिः। कथं तर्ह्यसौ सकलः कथ्यत इत्युच्यते।


_________________________________________________________


मन्त्रात्मिकाः कलास्तस्य ते च मन्त्राः शिवात्मिकाः ।

__________

वृत्ति:
शिवस्यात्मभूता ये मन्त्राः सद्योजातादयो वक्ष्यमाणास्त एव
।ॄउओते{मन्त्राः सद्योजातादयो वक्ष्यमाणाः
षेए ।Kइर् । ६२ (।ेद्ड् । प्प्.१७१--३).}
तस्यात्यन्तभिन्नसृष्ट्यादिकार्यपञ्चकनिर्वर्तनाय कलाः शक्तेर्भागा इव कथितास्ताभिः सह तदानीं कार्यनिर्वर्तकत्वेन वर्तत इति सकलः प्रोक्तः।
एतदुक्तं भवति---नात्र निष्कलात्सकलादेः परिणामान्तरत्वेन चेतनान्यत्वं परिणामोऽचेतनस्येत्यादिना तस्य निषेधात् ।
।ॄउओते{परिणामोऽचेतनस्य
।Kइर् । २:२६ .}
नापि विवर्तभेदेनासत्यत्वात्तदाकारस्यासत्यरूपोपग्राहिता विवर्तो यतः।
न चाप्यण्वन्तरतयानन्तादीनामिव परमेश्वरात्मनोऽत्रैकत्वेनैव श्रुतेः।
प्रागवस्थाभेदेन कल्पित एव भेदः प्रोक्तः।
संस्कार्याण्वपेक्षया तत्र स्थूलसूक्ष्मपरभेदेन क्रियाशक्त्यभिव्यक्तिक्रमेण सातिशयत्वादीश्वरसदाशिवशिवतत्त्वदीक्षितानां वास्तवभेद इति तत्त्वत्रयमेतत्कल्पितमेवास्ति।
कथं तर्हि पञ्चवक्त्राद्याकारः शास्त्रे भगवानुक्तः इति तदर्थमेतत्


_________________________________________________________


तैः प्रकल्प्य शरीरं स्वं शुद्धाक्षाध्यासितं महत् ॥ ३.१७ ॥
यावदेवं न कुरुते तावन्नो गुरुपद्धतिः ।

__________

वृत्ति:
तैरीशानादिभिः शिवात्मकैर्मन्त्रैर्मूर्धादिभेदेन तदवान्तराष्टत्रिंशत्कलाभेदेनेन्द्रियाद्यात्मना चाध्यासितं स्वं शरीरं ध्येयाद्याकारं परिकल्प्य भगवानत्र यावदेवमिति वक्ष्यमाणप्रकारेण सृष्ट्याद्यनुग्रहं न करोति तावन्न गुरुसाधकादिक्रम इति वक्ष्यति लक्ष्यते सकलं ध्यानादिति।
।ॄउओते{लक्ष्यते सकलं ध्यानात्
।Kइर् । ३:२० .}
अयमर्थः---भोगमोक्षप्रदध्यानादिकर्मोपायभूतत्वेन स्वात्मनो रूपं कल्पितं न तु तत्तस्य पारमार्थिकं शरीरमिति। तथा हि

_________________________________________________________


कुरुतेऽनुग्रहं देही सर्वेषामेव देहिनाम् ॥ ३.१८ ॥

__________

वृत्ति:
शरीरद्वारेण हि सेव्यमानो राजादिरनुग्रहं कुर्वन्दृश्यते नाशरीरी।
अस्मदाद्यगोचरत्वादित्यत्राराधनोपायत्वेनाकारोपदेशोऽयं भगवत इति॥

ननु यदि भगवतस्त्वपारमार्थिकं शरीरं कथमधिष्ठेयम्।
अधिष्ठीयमानं कथं न शरीरमिति। तत्रोच्यते


_________________________________________________________


यथैव योगिनः शक्तिर्ग्रहणे मोचनेऽपि हि ।
तद्वदेवात्र बोद्धव्यं ग्रहणं मोचनं विभोः ॥ ३.१९ ॥

__________

वृत्ति:
यथा योगशक्त्या योगी कुड्यादिकमशरीरभूतमपि संसार्यनुग्रहार्थमधिष्ठाय परित्यजति। यदाहुः

सान्निद्ध्यमात्रतस्तस्य पुंसश्चिन्तामणेरिव।
।ॄउओते{सान्निध्य्देव्दोत्देशनाः
।ष्लोक् {चोदनासूत्र} १३८. ़ुओतेद्
अद् ।णर् । २:८, प्.१३१.}

निःसरन्ति यथाकामं कुड्यादिभ्योऽपि देशनाः॥ इति।


तथैव परमेश्वरोऽप्यनुग्रहार्थं बाह्यप्रतिमादिवत्तद्ध्येयाकारं बुद्धिनिर्मितशरीरभूतमप्यधिष्ठाय परित्यजतीत्यदोषः। अपि च


_________________________________________________________


मुद्रामण्डलमन्त्रैश्च त्रिधासिद्धिविचेष्टितैः ।
लक्ष्यते सकलं ध्यानात्सर्वज्ञानप्रवृत्तितः ॥ ३.२० ॥

__________

वृत्ति:
मुद्राः परमेश्वरस्यावाहनविसर्जनादौ तच्छक्त्यभिव्यक्तिस्थानतया वक्ष्यमाणाः करसन्निवेशविशेषाः।
।ॄउओते{वक्ष्यमाणाः करसन्निवेशविशेषाः
षेए ।Kइर् । १५ (।ेद्ड् । प्प्.४४-५).}
मण्डलानि च तस्यैवावाहनपूजनाद्यधिकरणत्वेन वक्ष्यमाणा
।ॄउओते{वक्ष्यमाणा रजोविन्यासविशेषाः
षेए ।Kइर् । २०। (।ेद्ड् । प्प्.६०--३).}
रजोविन्यासविशेषाः। मन्त्राश्च तस्यैवावाहनादौ ये सद्योजातादयः ते सर्व एव। उत्तमादिभेदेन त्रिप्रकारायां सिद्धौ विचेष्टितं येषां ते तथाभूतास्तैरपि हेतुभूतैः सकलमेतदुपायतत्त्वं लक्ष्यते।
निष्कलस्य व्यापकत्वेनावाहनाद्यनुपपत्तेस्तदुपदेशानर्थक्यात् ।
ध्यानाच्चैतत्सकलं लक्ष्यत इत्येतत्प्रागेव दर्शितम्।
।ॄउओते{इत्येतत्प्रागेव दर्शितम्
।Kइर् । ३:१८--१९ अन्द्चोम्मेन्तर्य्थेरेओन्.}
तथा सर्वेषां दशाष्टादशभेदभिन्नानां ज्ञानानां या प्रवृत्तिस्तयापि सकलं लक्ष्यते। यदुक्तं श्रीमत्पौष्करे

मूर्ध्नस्तु विजयं तन्त्रं ललाटात्पारमेश्वरम्।
।ॄउओते{ठेसे लिनेसोf थे [।ড়ौ-]{ড়ारमेश्वर}
असॄउओतेद्ब्य्टक्षकवर्त ओन् f.४।रेच्तो,
लिनेस्६--७ (सेए आप्पेन्दिx ईईई) रेअद्थुस्:
मूर्ध्नस्तु विजयं ज्ञानं ललाटात्पारमेश्वरम्।
नेत्रेभ्यश्चैव निश्श्वासं ज्ञानराजमनुत्तमम्।
श्रवणाभ्यां च प्रोद्गीतं मुखाच्च मुखबिम्बकम्}

विनिर्गतं महेशस्य मुखाच्च मुखबिम्बकम्॥ इत्यादि।

निष्कलस्य त्ववयवविभागाभावादेताः श्रुतयोऽनुपपन्नाः स्युरिति।
एवमेतत्प्रकरणं ध्येयाकारनिष्ठत्वेन बुद्ध्याकारनिष्ठत्वेन च व्याख्येयम्।
न तु बैन्दवशरीरप्रतिपादकत्वेन तस्य भगवत्यसम्भवात् ।
शरीरं हि यदचेतनमपि व्यवधानेन ज्ञानक्रियाशक्त्यभिव्यञ्जकं तदस्मदादेरित्युच्यते।
विद्याविद्येशानां तु क्रियाशक्त्यभिव्यञ्जकमेव तेषां सर्वज्ञत्वाद्भगवतस्त्वभिव्यक्तसर्वशक्तित्वान्न कथञ्चित्तदुपपद्यत इत्यधिष्ठानमात्रेण तु शरीरत्वे सर्वं सर्वस्य शरीरं स्यादित्यनवस्था।
तस्मात्पूर्वैव व्याख्या युक्तेति।
एवं सकलविषयमपि दूषणं परिहृत्याधुना सकलनिष्कलविषयं परिह्रियते


_________________________________________________________


द्विस्वभावगतो योऽन्यो देवः प्रोक्तो न निष्कलः ।
बृहच्छरीरमापेक्ष्य कलाहीन इति स्मृतः ॥ ३.२१ ॥

__________

वृत्ति:
यस्त्वाभ्यां निष्कलेश्वराभ्यामन्यस्तृतीयो देवः सदाशिवभट्टारकःस
द्विस्वभावगततया सकलनिष्कलत्वेनापेक्षाभेदात्केवलमस्माभिः प्रोक्त एव। न तु विरुद्धस्वभावोऽभ्युपगतः।
शिवापेक्षया ह्यसावुद्युक्तशक्त्यवस्थात्मकत्वाद निष्कलः सकल इत्युच्यते।
ईश्वरशरीरं तु प्रवृत्तक्रियात्मकत्वेन बृहदिति स्थूलतरमपेक्ष्य निष्कल इत्यविरोधः।
ततश्च न निष्कलवदत्राज्ञेयत्व दोषः प्रागुक्त उच्यते।


_________________________________________________________


एवमीशः स्थितः साक्षाद्योगिनां योगकारणम् ।

__________

वृत्ति:
एवं ध्येयाकारशरीरयोगेनेश्वरः सदाशिवश्च साक्षादाकारवत्त्वेन चित्तविषयत्वाद्योगादिकारणं समुपपद्यते।
तदेवम्।


_________________________________________________________


योगो न लक्ष्यहीनत्वान्न नाडी न च धारणा ॥ ३.२२ ॥
पुंसामनुग्रहार्थं तु परोऽप्यपरतां गतः ।

__________
वृत्ति:
यतो निष्कले लक्ष्यभूतस्याकारस्याभावान्न योगो ज्ञानं वोपपद्यते।
नापि मध्यनाड्यादिना योगप्रकरणवक्ष्यमाणनयेन गमागमादि व्यापके तदनुपपत्तेः।
नापि देशबन्धश्चित्तस्य धारणेति ततः समस्तपुरुषानुग्रहानुपपत्तिरित्यालोच्य भगवान्निष्कलोऽपि ध्येयाकारशरीरेणापरतां शरीरित्वं गत इति तथात्वे प्रयोजनमप्यत्रोक्तमिति।

न केवलमनेनैव सदाशिवाद्यात्मना ध्येयशरीरभेदेनापरतां गतो यावत्स्ववाचकमन्त्रावस्थाभेदेन मन्त्रान्तरवाच्यवाचकभेदेन चेत्युच्यते।


_________________________________________________________


नादबिन्दुखमन्त्राणु- शक्तिबीजकलान्तगः ॥ ३.२३ ॥

__________

वृत्ति:
तत्र नादः कुण्डलिन्यभिधानायाः परस्या वाक्च्छक्तेरव्यक्तशब्दात्मकः प्रथमः क्षोभः।
बिन्दुश्च तस्यैवेषत्स्थूलतान्तःसंजल्पात्मकत्वम्।
खं चात्र परमाकाशं महामायैव सर्वपुरुषसंयुक्ता शक्तिस्तत एव नादात्मनः शब्दस्योदयादिसंवेदनात् । प्रोक्तं च श्रीमत्कालोत्तरे

आगोपालाङ्गना बाला म्लेच्छाः प्राकृतभाषिणः।
।ॄउओते{आगोपालाङ्गना।देव्दोत्नित्यं ब्रुवन्ति तम्
।षर् । १:६ द्--७ ब्.}

अन्तर्जलगताः सत्त्वास्तेऽपि नित्यं ब्रुवन्ति तम्॥ इति


सैव पश्यन्त्य वस्थेत्यागमान्तरानुसारिणः।
यदाहुः

अविभागात्तु पश्यन्ती सर्वतः संहृतक्रमा।
।ॄउओते{अविभागात्तु।देव्दोत्वागनपायिनी
़ुओतेद्थुसद् ।ंत् ।Vড়्।
७:४५--६, प्.२४७ अन्द् ।षर् । १:८, प्.१६.
Bहत्तोब्सेर्वेस्थतितिस्चितेदिन् थे सुप्पोसेद्
औतो-चोम्मेन्तर्योन् थे ।Vअक्य् (अद्१:१४३).
ऋऔ इन्च्लुदेस्थे वेर्से (wइथविभागा
तु) इन् स्मल्ल्त्य्पे अस्।Vअक्य् १:१६६.
Cf.। अल्सो ।ृअत् । ७५ --७६ :
अविभागेन वर्णानां सर्वतः संहृतिक्रमात् ।
स्वयंप्रकाशा पश्यन्ती मायूराण्डरसोपमा।
स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी}

स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी॥ इति


मन्त्रश्च स्थूलशब्दः परमेश्वराभिधायकोऽत्र व्योमव्याप्यादिक इत्येवमवस्थाभेदेन चत्वारि स्थानानि वाचः प्रोक्तानि।
श्रुतिरप्याह

चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः।
।ॄउओते{चत्वारि।देव्दोत्मनुष्या वदन्ति
{ऋग्Vएद} १.१६४.४५. ़ुओतेदद् ।षर् । १:८, प्.१६.}

गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति॥


श्रीमत्कालोत्तरे तु बिन्दुनादयोर्द्वयोरपि सूक्ष्मतया विशेषाभावात्त्रीणि रूपाण्यस्याः

स्थूलं शब्द इति प्रोक्तं सूक्ष्मं चिन्तामयं भवेत् ।
।ॄउओते{स्थूलं।देव्दोत्परिकीर्तितम्
।षर् । १:८.}

चिन्तया रहितं यच्च तत्परं परिकीर्तितम्॥ इति।


आगमान्तरेऽपि तिस्रो वाचः प्रोक्ताः।

घोषिणी जातनिर्घोषा अघोषा च प्रवर्तते।
।ॄउओते{घोषिणी।देव्दोत्गरीयसी
{ंहाभारत} १४.२१:१६. ़ुओतेदद् ।षर् । १:८, प्.१५.}

तयोरपि च घोषिण्योर्निर्घोषेह गरीयसी॥ इति


केवलमात्मसमवेता एवैकान्ततस्तैरिष्यन्ते। अस्माभिस्तु तस्यापरिणामित्वात्परिग्रहवर्तिन्य इति दर्शितं नादसिद्धौ।
।ॄउओते{इति दर्शितं नादसिद्धौ
{णादकारिका} १८--२० .}
अणुश्च मन्त्रान्तरवाच्यो मन्त्रमन्त्रेश्वरवर्गः शक्तिश्च तदधिष्ठायिका पारमेश्वरी।
अत एव मन्त्राभियुक्तस्य द्वयमप्याराध्यं शिवो मन्त्रश्चेत्युक्तं भवति।
बीजं चात्र प्रागुक्तमन्त्रारम्भकं प्रणवादि।
कलाश्च प्रणवादिबीजावयवभूता अकाराद्यास्तासामन्तो विगलत्कलाविभागरूपोऽप्राप्तविश्रान्त्यात्मत्वेनोपलभ्यमान एव च ध्वनिर्बिन्दुनादः कथ्यते।
तानेतान्मन्त्रावस्थाविशेषान्पुंसामनुग्रहार्थं शरीरतया तदाकारध्येयत्वेन गतो भगवान्।
अत एव तेषां शरीरात्मनाधिष्ठेयानामुत्कर्षापकर्षभेदेन स्वर्णरजतप्रतिमादीनां प्रतिष्ठयेवोपकारं सेवाविशेषं ज्ञात्वा तदनुरूपमेव फलं साधकेभ्यो भगवान्प्रयच्छति।
अन्यथा कः सुखसाध्यं स्थूलं स्थूलतरं वा साधनं परिहृत्य सूक्ष्मे सूक्ष्मतरे वा प्रवर्त्तेत।
यदाहुः

अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।
।ॄउओते{अर्के चेन्मधु।देव्दोत्यत्नमाचरेत्
षोउर्चे उन्क्नोwन्. ़ुओतेद्(वरिओउस्ल्य्wइथक्के चेनन्दत्रैव)
अद् ।ंोक्स् १५३--४; ।षर् । ८:१२, प्.६९ अन्दिन् थे
{शाबरभाष्य} १.२.१.४, प्.११, wहेरे थे fइर्स्त्wओर्दिस्
इन्दिस्पुतब्ल्यर्के.}

इष्टस्यार्थस्य सम्प्राप्तौ को विद्वान्यत्नमाचरेत् । इति।


अत्र दृष्टान्तः।


_________________________________________________________


योगी यथोपकारज्ञः सर्वज्ञत्वात्फलप्रदः ।

__________

वृत्ति:
स ह्युपकारकेभ्यः स्वल्पमहदुपकारापेक्षया तथारूपमेव फलं ददद्दृष्टो यतः। तदेवं


_________________________________________________________


इच्छानुग्रहकर्तृत्वाल्लयभोगाधिकारवान् ॥ ३.२४ ॥
त्रिविधः कृत्यभेदेन दर्शितो नामभेदतः ।

__________

वृत्ति:
ध्येयाकारशरीरभेदभिन्नोऽपि भगवान्परमार्थत इच्छामात्रेणानुग्रहादिकर्तृत्वादेव प्रागुक्तनयतः कृत्यभेदेन विभिन्नो लयभोगाधिकारवान् भिन्न इत्युच्यते।
सर्वज्ञत्वस्याभेद इति यावत् ।

अथ ज्ञानपदार्थपरीक्षानन्तरं विचारपदार्थपरीक्षा।


_________________________________________________________


ईश्वरोऽधःस्थविद्यानां पतीन्संप्रेरयत्यसौ ॥ ३.२५ ॥
।ॄउओते{टेस्तिमोनिउम्:
।णरयन् ॠउओतेस्थिसुनितेxअच्त्ल्यस्
चोन्स्तितुतेदद् ।ंर्ग् । १३:१६०, प्.१३३.}


_________________________________________________________


तेन प्रेरितमात्रास्ते कुर्वतेऽधस्तनं जगत् ।

__________

वृत्ति:
प्रकृतत्वात्पतिभ्योऽधस्तिष्ठन्तीति अधःस्था विद्याः सप्तकोटिसंख्याता मन्त्रास्तेषां ये पतयोऽनन्तादयो वक्ष्यमाणास्तान्प्रेरयति।
।ॄउओते{अनन्तादयो वक्ष्यमाणाः
षेए ।Kइर् । ३:२६ --२७ अन्द्चोम्मेन्तर्यन्द्
अध्याय ४ पस्सिम्.}
अत एवेश्वरात्तेषां क्रियाशक्त्या न्यूनत्वमिति भावः।
ते च यदैव तेन नियुक्तास्तदैवाधस्तनं मायात्मकं जगत्कुर्वन्तः स्वकार्याय प्रवर्तन्ते न तु मन्त्रवत्कालान्तरेणेति।

यद्येवमुपरितनं जगत्कः करोतीत्युच्यते।


_________________________________________________________


शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुः ॥ ३.२६ ॥

__________

वृत्ति:
शुद्धे विद्यातत्त्वभुवनाद्यात्मके मन्त्रमन्त्रेशाध्वनि शिवः कर्ता।
तत्कृतास्ते तद्भुवनादिकं च समस्तमित्यर्थः।
अनन्तोऽनन्तादिरित्यर्थः। अनन्तादिको वर्गोऽसिते मायावर्त्मनि प्रभुः स्थित्यादिकर्तेति।

अथ शुद्ध इवाशुद्धेऽपि कथं न स एव प्रभुरिति। उच्यते।


_________________________________________________________


यथा भूमण्डलेशेन नियुक्तः स्वसमप्रभुः ।
तथासौ कुरुते सर्वं तच्छक्तिप्रतिबोधितः ।

__________

वृत्ति:
दृष्टवददृष्टकल्पना। यथा भूमण्डलेशोऽत्र नृपतिरन्तरङ्गममात्यपुरोहितादिप्रकृतिवर्गं स्वयमेव कुर्वन्दृश्यते बहिरङ्गमात्मकल्पामात्यादिप्रेरणेनैवेत्येवमत्रापि श्रुतेरविरोधः।
तच्छक्तिप्रतिबोधित इत्यनेन विज्ञानकेवलिनः सतोऽनन्तादिवर्गस्यानुग्रह इति। अप्रतिबुद्धो हि प्रतिबोध्यते।
तच्चाप्रतिबुद्धत्वं मलत एवोक्तं यतः।
।ॄउओते{मलत एवोक्तं यतः
ए.ग्.। ।Kइर् । २:१४ अन्द्चोम्मेन्तर्य्थेरेओन्.}


अथानन्तादेः स्वरूपम्


_________________________________________________________


सर्वज्ञः शुद्धदेहश्च सर्वज्ञानप्रकाशकः ॥ ३.२७ ॥
__________

वृत्ति:
ईश्वरादयं कर्तृत्वेनैव कलया न्यूनो, न तु ज्ञत्वेनापीत्यर्थः।
शुद्धदेहश्च न मायागर्भाधिकारिवदशुद्धदेहः।
सर्वेषां च दशाष्टादशभेदभिन्नानां शिवज्ञानानामुपदेष्टृत्वेन स्थितः, न तु गुर्वन्तरवत्कतिपयानामिति॥

।Cओलो
इति नारायणकण्ठात्मजभट्टरामकण्ठविरचितायां श्रीमत्किरणवृत्तौ तृतीयं प्रकरणम्॥


Cःाড়्ट्Eऋ ४

अथ विचारपदार्थस्यैव विस्तरपरीक्षार्थं प्रश्नपूर्वकं प्रकरणान्तरम्।


_________________________________________________________


गरुड उवाच
शिवशक्तिप्रभावाच्च किलानन्तः प्रबुध्यति ।
प्रबोधिका च सा शक्तिः सर्वगा परिपठ्यते ॥ ४.१ ॥
अन्येषां सन्निकृष्टापि बोधं सा कुरुते न किम् ।
योग्यानामुपकारी चेद्रागवान्स्याच्छिवस्तदा ॥ ४.२ ॥

__________

वृत्ति:
अत्र च सूत्रपदार्थप्रकरणसम्बन्धाः प्राग्वदेव द्रष्टव्याः।
पाटलिकस्तु विचारपदार्थस्यैवानन्तरं विशेषपरीक्षात्मकः।
वाक्यात्मकस्तु प्रोक्तोऽनन्तोऽसिते प्रभुरित्यादिभिरनेकविधः।
।ॄउओते{प्रोक्तोऽनन्तोऽसिते प्रभुः
।Kइर् । ३:२६ .}
अयं चात्र प्रश्नार्थः। तच्छक्तिप्रतिबोधितोऽनन्तेशादिवर्ग इत्युक्तम्।
।ॄउओते{तच्छक्तिप्रतिबोधितः
।Kइर् । ३:२७ .}

ततश्चेश्वरशक्तेर्व्यापकत्वेन सर्वत्र सन्निहितत्वतो विशेषाभावात्सर्वेषामात्मनामनन्तादिरूपता स्यात्न वा कस्यचिदपि।
सेवनादियोग्यतापेक्षया तत्करणे च तस्य रागद्वेषादियोगात्पुरुषवदनीश्वरत्वप्रसङ्ग इति।

अत्र सिद्धान्तः


_________________________________________________________


भगवानुवाच
यथार्करश्मिसम्पर्कात्पद्मबोधः समो न किम् ।
कानिचित्प्रतिबुध्यन्ति तथान्यानि न जातुचित् ॥ ४.३ ॥
रागद्वेषौ न चार्कस्य तथेशस्य न तौ यतः ।
अधिकारान्नियोगोऽस्य न नियोगं विना स्थितिः ॥ ४.४ ॥
तत्सामर्थ्यादनन्तस्य सर्वज्ञत्वं भवेत्खग ।

__________

वृत्ति:
सत्यम्। व्यापिका शक्तिर्योग्यतापेक्षया चानुग्राहिका।
न च तया रागद्वेषानुमानम्।
तथाभूतायास्तस्या अत्रासिद्धत्वाद्यतोऽधिकारिणामधिकारो मलस्य पक्वत्वमत्र योग्यता।
पक्वमलानां सा बोधप्रदेत्युच्यते।
यथा सवित्रा प्रतिबोधयोग्यं प्रतिबोध्यते।
तस्मादधिकाराद्योग्यतालक्षणादनन्तस्य नियोगस्तन्नियोगं विना बहिरङ्गकार्यस्य न व्यवस्थानमुपपद्यत इत्युक्तं यतः।
न च तथाभूतस्य योग्यतानुसरणस्य रागद्वेषाद्यविनाभावः सिद्ध इति न ततोऽत्रानीश्वरत्वप्रसङ्गः।

अधुनात्रैव परीक्षान्तराय प्रश्नः।


_________________________________________________________


गरुड उवाच
सर्वज्ञत्वं तनौ सत्यामनन्तस्य न युज्यते ॥ ४.५ ॥
नियतानि यतोऽक्षाणि नियतग्राहकाणि च ।

__________

वृत्ति:
यदुक्तं सर्वज्ञः शुद्धदेहश्चानन्त इत्येतन्नोपपद्यते।
यतः प्रागुक्तनयेन प्रतिनियतकार्यकरणात्मकशरीरयोगः प्रतिनियतग्राहकत्वेन व्याप्तः सर्वशरीरिगततया सिद्धः।
अतः शरीरित्वेन विरुद्धव्याप्योपलब्ध्या सर्वज्ञत्वनिषेधः क्रियत इत्यर्थः।

नन्वसिद्धोऽयं हेतुरन्यत्वात्कार्यकरणादेः शुद्धदेहत्वेनानन्तस्योक्तत्वादिति। अत्रोच्यते


_________________________________________________________


मायात्मकं शरीरं तच्छिष्टकर्मनिमित्तजम् ॥ ४.६ ॥
यदि नाम विशेषः स्यात्सुदूरश्रवणादिकः ।

__________

वृत्ति:
न तावदमायात्मकत्वमकर्मजत्वं वा तच्छरीरस्य शुद्धत्वं संभवति शरीरत्वादस्मदादिशरीरवदिति। यदाहुः

मायोर्ध्वं देहसद्भाव इति वार्तैव भद्रिका। इति।
।ॄउओते{मायोर्ध्वं देहसद्भाव इति वार्तैव भद्रिका
षोउर्चे उन्क्नोwन्. Cf.। वेर्सेस्wइथ्थे
समे चोन्च्लुदिन्ग्fओर्मुल इन् {ण्यायं ञ्जरी} Vओल्.१,
प्.८१ (८४ ) अन्द्प्.९१ (१०४ ).}


।च्रुx यदि परं ब्रह्मादिशरीरस्येव विशिष्टकर्मजत्वमेव ततोऽस्य वाच्यम्।च्रुx ।
ततश्च तथाभूतशरीरयोगात्तस्य तद्वदेव सुदूरश्रवणादिक एव विशेषः सिध्यतीति। यदाहुः

यो यत्रातिशयो दृष्टः स एवान्यत्र लङ्घनात् । इति।
।ॄउओते{यो यत्रातिशयो दृष्टः स एवान्यत्र लङ्घनात्
षोउर्चे उन्क्नोwन्.}


न तु सर्वज्ञत्वमतो नायमसिद्धो हेतुरिति पूर्वः पक्षः।

अत्र सिद्धान्तः।

_________________________________________________________


भगवानुवाच
शुद्धयोनिमयं तस्य वपुरुक्तमकर्मजम् ॥ ४.७ ॥
तस्यैवं पाशमुक्तत्वाज्ज्ञानं केन निवार्यते ।

__________

वृत्ति:
शरीरस्य मायात्मकत्वेनेह व्याप्तिरसिद्धा, शुद्धविद्यात्मनोऽपि सम्भवादित्युक्तं शुद्धेऽध्वनि शिवः कर्ता इत्यादिना।
।ॄउओते{शुद्धेऽध्वनि शिवः कर्ता
।Kइर् । ३:२६ .}
अत एव न तत्कर्मजं मायाधिकरणत्वात्कर्मणां तत्रासम्भवात् ।
अपि त्वधिकारनिबन्धनमेव। तस्यानन्तस्यैवमुक्तेन प्रकारेण पाशैर्मायात्मकैर्मुक्तत्वात्सर्वज्ञत्वं केन वारयितुं शक्यमित्यविरोधः।
अस्तु वा शुद्धयोनेरपि पाशत्वं दीक्षया विच्छेद्यत्वात् । तथापि


_________________________________________________________


तत्स्थं सर्पं विषं यद्वत्तद्गतं न विबाधते ॥ ४.८ ॥
बाधतेऽनन्तमेवं न तद्गतः पाशसञ्चयः ।

__________

वृत्ति:
यथा हि विषस्रष्टुः सर्पस्य शरीरस्थमपि विषं
सर्पान्तराद्वा प्रतिसंक्रान्तं तन्न विषतया बाधकं तथानन्तस्य
।च्रुx तत्स्थानसाधकगतः शरीरादिजनकत्वाक्षिप्तशुद्धविद्याकर्तृत्वात्तदात्मकः।च्रुx। पाशसञ्चयः शरीरात्मको न बाधक इति।
एवं माया गर्भाधिकारिणोऽपि वीरभद्रादयो न मायापाशसञ्चयेन बाध्यन्त इत्युक्तं भवति।
तदुक्तं गुरुभिः

कलायोगेऽपि नो वश्याः कलानां पशुसङ्घवत् ।
।ॄउओते{कालयोगेऽपि।देव्दोत्तदुपर्यतः
।ंोक्स् ८२ --८३ . आल्सो ॠउओतेदद् ।णर् । २:८, प्.१३३.}

वश्यास्ताः पशुभिः सार्धं तेषां ते तदुपर्यतः। इति।

यद्येवं पाशान्तरवच्छुद्धविद्यापि पाशत्वेनानन्तस्य भगवतो विच्छिन्नेति कथं ततोऽयं शरीरात्मकः पाशसञ्चय इति। तत्रोच्यते


_________________________________________________________


छिन्ना छिन्नोद्भवा यद्वत्स्थानाश्रयवशाद्भवेत् ॥ ४.९ ॥
स्थानयोगेन मन्त्रेशे हठवत्तनुधारणम् ।

__________

वृत्ति:
यथा छिन्नोद्भवा गडूची मूलतो विच्छिन्नापि स्थानविशेषमाश्रयमाश्रित्य पुनः प्ररोहं याति।
एवं शुद्धविद्यापि छिन्नापि अनन्तस्य तदधिकारित्वलक्षणं स्थानविशेषमाश्रित्य तच्छरीराद्यात्मना पुनः प्ररोहमायातीत्यधिकारसामर्थ्यादनन्तेशस्यानिच्छतोऽपि बलादिव शरीरधारणमित्यविरोधः।
यदपि तच्छरीरस्य कर्मजत्वेऽनुमानमुक्तं तदप्यनैकान्तिकमित्युच्यते।


_________________________________________________________


मन्त्रशक्त्या यथा देहो विधृतस्तिष्ठते चिरम् ॥ ४.१० ॥
प्राप्नोत्यभीप्सितं स्थानं कालदष्टोऽपि शक्तितः ।
एवं तच्छक्तिसामर्थ्यादास्ते तस्य वपुर्यतः ॥ ४.११ ॥
अतः सुनिर्मलं ज्ञेयं बिसिनीपत्त्रवद्वपुः ।

__________

वृत्ति:
मरणकाल एव यो दष्टः सर्पेण स कालदष्टः क्षीणकर्मेत्यर्थः।
तस्य यथा मन्त्रशक्त्यैव धृतो देहश्चिरं तिष्ठत्यभीप्सितञ्च स्थानं प्राप्नोति प्रागुक्तस्यैव पुंसः शक्त्या ज्ञानक्रियात्मिकया तथेश्वरशक्तिसामर्थ्यादधिकाराख्यादनन्तेशस्य शरीरमकर्मजमेवेति।

अतस्तत्पूर्वयुक्त्या च कार्ममायीयलक्षणैः।

असंस्पृष्टं मलैर्ज्ञेयं पद्मपत्रमिवाम्भसा॥ इति।


अस्मदादीनामपि केषाञ्चिदकर्मजदेहदर्शनाच्छरीरत्वादित्यस्य हेतोरत्रानैकान्तिकत्वमित्युक्तं भवति।
ननु बोधायतनं शरीरमस्मदादीनामिव तस्येति किमुच्यते हठवत्तनुधारणमिति तदर्थमेतत् ।


_________________________________________________________


तन्त्रैरुपकृतः कल्यो यथा देहगतो रसः ॥ ४.१२ ॥
स तिष्ठति शरीरेऽस्मिंस्तद्वद्बोधो महाबलः ।

__________

वृत्ति:
यथा कलने गतौ साधुः कल्योऽत्यन्तानवस्थितः शरीरे रसः पारतः स एव तन्त्रैस्तत्कुटुम्बधारणादिभिर्द्रव्यान्तरैरुपकृतः
।ॄउओते{तत्रि कुटुम्बधारणे
{ढातुपाठ} १०:१३९.}
तस्मिञ्छरीरे तिष्ठति तथैवानन्तेशस्येश्वरेच्छाशक्त्यात्मकैः तन्त्रैरुपकृतोऽपि बोधो महाबलोऽपि विच्छिन्नमलत्वेन सर्वार्थः शरीरे तिष्ठति।
एतदुक्तं भवति---अविच्छिन्नमलानां बोधाभिव्यञ्जनाय शरीरमुपपद्यते न तु विच्छिन्नमलानामीश्वरतत्त्वाश्रितानामपीत्यनन्तस्य न बोधोपकाराय शरीरधारणमिति हठतः प्रोक्तम्।
किं सर्वथा तस्यैतदनुपकारकमेव। नेत्युच्यते


_________________________________________________________


यथा भेषजसामर्थ्यादशक्तानां बलं परम् ॥ ४.१३ ॥
याति तच्छक्तिसामर्थ्यादनन्तस्य परे बलम् ।
तेन सामर्थ्ययोगेन योनिं प्रेरयते क्षणात् ॥ ४.१४ ॥

__________

वृत्ति:
अशक्तानां यथौषधादिसामर्थ्याच्छक्तिरुपचयं याति।
एवं तस्य शरीरस्य या शक्तिः तया यत्सामर्थ्यं कर्तृत्वसमर्थनं तस्मादनन्तेशस्य परस्मिञ्छिवतत्त्वे बलं संस्कार्यसंयोजनाद्यात्मकं यातीति।
अयमर्थः---सर्वज्ञत्वेऽपि तस्य शिवात्कलया कर्तृत्वन्यूनत्वेनात्र संस्कार्यसंयोजनादिव्यापारानुपपत्तेरवश्यं तावतोऽपि कर्तृत्वांशस्याभिव्यञ्जनायास्मदादेरिव शरीरमुपयुज्यत इत्यदोषः।

अत्रैव परीक्षान्तराय प्रश्नः


_________________________________________________________

गरुड उवाच
प्रेरकोऽधस्तने मार्गे मायायाः प्रेरकेण किम् ।
स्वत एव विकारेण जगत्यस्मिन्विकारिणी ॥ ४.१५ ॥
जगद्योनिर्यतः प्रोक्ता तद्विकाराः कलादयः ।
विकारात्सर्वनाशः स्याद्विकारो न जगत्कथम् ॥ ४.१६ ॥

__________

वृत्ति:
ननु चायं प्रश्नोऽनुपपन्नः पूर्वमेवेश्वरसिद्धौ न्यायनिराकृतत्वात्समाधिरपि प्रागुक्त एव यतः। यदुक्तं कर्म चेन्न ह्यचेतनमिति।
।ॄउओते{कर्म चेन्न ह्यचेतनम्
।Kइर् । ३:१२ .}
अथ किमत्र प्रयोज्येन प्रेरकान्तरेणेति प्रश्नः।
सोऽपि यथा भूमण्डलेशेनेत्यादिना निराकृतत्वादयुक्त एव।
।ॄउओते{यथा भूमण्डलेशेन
।Kइर् । ३:२७ .}
नापि सांख्यदृशात्र पुनरीश्वराक्षेप इति युक्तं व्याख्यातुम्।
पूर्वमेव स्थूलं विचित्रकं कार्यमित्यादिना तद्दृष्टेरपि निरासस्य सम्भवात् ।
।ॄउओते{स्थूलं विचित्रकं कार्यम्
।Kइर् । ३:१२ .}
तदसम्भवे हि प्रश्नान्तरमुपपद्येतापि नान्यथा कलादेरपि प्रसङ्गादिति।
तत्रोच्यते अन्य एवायमभ्युपगतः महाप्रलयापेक्षयात्रेश्वराभावप्रसाधनप्रसङ्गः प्रश्नार्थः।
महाप्रलये ह्यनन्तादीनामुपसंहृतत्वाद्भगवतश्चेश्वराद्यवस्थातिरस्कारेण शान्ततयैवावस्थितेः प्रेरकाभावे सति जगद्योनित्वान्माया यथा स्वत एव सूक्ष्मसूक्ष्मतराद्यवस्थाविकारेण स्वकार्यव्यक्तियोग्यतया परिणामिनी समभ्युपगम्यते तथैव सर्गारम्भकाले कलादिकार्यात्मना भविष्यतीति किं तस्याः प्रेरकेण कल्पितेनेति।
अथ तदापि प्रेरकोपसंहारो नेष्यते महाप्रलयानुपपत्तिरविशेषादिति प्रसङ्गविपर्ययः।
किञ्च विकारित्वान्मायाया निरंशत्वे सति सर्वात्मना परिणामतः क्षीरदध्यादीनामिव कार्यकाले विनाशप्रसङ्गः।
सांशत्वे हि तस्या घटादिवत्कारणपूर्वकत्वेन परमकारणत्वाभावः।
अथ विकारस्तस्या नेष्यते ततोऽनुपादानत्वाज्जगत उत्पत्त्यभाव इति प्रसङ्गद्वयेन पूर्वः पक्षः।

अत्र सिद्धान्तः


_________________________________________________________


भगवानुवाच
अचेतनत्वात्प्रेर्या सा पुरुषार्थेन हेतुना ।
स्वतो न विकृतिस्तस्मादनन्तोऽस्याः प्रचोदकः ॥ ४.१७ ॥
__________

वृत्ति:
महाप्रलयेऽपि पुरुषार्थतया कलादिव्यक्त्यनुगुणेन सूक्ष्मसूक्ष्मतराद्यवस्थाभेदेन भगवतः साक्षात्प्रेर्यैव।
तदानीमपीश्वराद्यवस्थानुपसंहारान्न पूर्वः प्रसङ्ग इत्यर्थः।
यदुक्तं श्रीमन्मृगेन्द्रे

स्वापेऽप्यास्ते बोधयन्बोधयोग्यान्रोध्यान्रुन्धन्पाचयन्कर्मिकर्म।

मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन्पश्यन्सर्वं यद्यथा वस्तुजातम्॥ इति।
।ॄउओते{स्वापेऽप्यास्त्देव्दोत्वस्तुजातम्
।ंर्ग् ।Vড়्। ४:१५. आल्सो ॠउओतेदद् ।णर् ।
२:३१, प्.१५३.}


महाप्रलयश्च बहिरङ्गकलादिकार्योपसंहारः।
तत्रैव चानन्तादेः कर्तृत्वमित्युक्तं यतः।
नापि द्वितीयप्रसङ्ग इत्युच्यते


_________________________________________________________


वायुवेगाद्यथोदन्वानुपर्येव विकारभाक् ।
अक्षोभ्यत्वात्तथा माया सविकारा कलादिभिः ॥ ४.१८ ॥

__________

वृत्ति:
यथा ह्युदधिः परिमिताभिः शक्तिभिस्तरङ्गात्मकं विकारमनुभवति न सर्वाभिरेवं शक्तिसमाहारात्मकत्वान्मायायाः कतिपयाभिरेव शक्तिभिः सा कलादिविकारमनुभवति न सर्वाभिस्तेन रूपेणाक्षोभ्यत्वादिति।
अत्र पराभिप्रायः


_________________________________________________________


नाक्षुब्धा कार्यकर्त्री चेत्

__________

वृत्ति:
विकृतानामप्यविकृतानामिव शक्तीनां तत्सहभावित्वादक्षोभे तासामपि विकारानुपपत्तेः कार्यानुपपत्तिरित्यवश्यं सर्वैव क्षुब्धाभ्युपगन्तव्येत्यक्षोभ्यत्वादित्ययं हेतुरत्रासिद्ध इति।

अत्र सिद्धान्तः।


_________________________________________________________


क्षोभोऽस्याः स्यात्तदीरणम् ।
सा शक्तिः प्रेरिता तेन नित्यं कार्यकरी भवेत् ॥ ४.१९ ॥

__________

वृत्ति:
अयं सामान्यक्षोभः सर्वशक्तिविषयः प्रेरणात्मकस्तस्या अभ्युपगम्यत एव।
कार्यात्मकस्तु विशेषक्षोभः कस्याश्चिदेव शक्तेरिति।
एवञ्च नात्रासिद्धतेत्युच्यते


_________________________________________________________


उक्ताक्षोभ्या विभुत्वात्सा कारणं जगतः स्थिता ।
यथा मायाधिका व्याप्य न तत्कार्यगणोऽध्वनि ।
भावान्कलादिकान्व्याप्य स्थिताक्षोभ्या ततःस्मृता ॥ ४.२० ॥

__________

वृत्ति:
विभुत्वेन सर्वशक्त्यात्मना न कार्यतया क्षोभ्यत इत्यक्षोभ्यत्वेनोक्ता भवति।
जगत्कारणात्मनानुमीयते। तेन रूपेणाक्षोभ्यैव यतो भवन्तीति भावास्तत्कार्यात्मकाः कलादयः तान्व्याप्य स्थिता। घृतकीटन्यायेन तद्गर्भ एव तेषामुत्पत्तिरित्यर्थः न तु तद्भावभावित्वात् ।
घटादेः कार्यस्य मृदादिद्रव्यमेव कारणं लोके दृष्टं न तु तच्छक्तिः।
तत्किमुच्यते शक्तिः कार्यकरीति। तत्रोच्यते


_________________________________________________________


तत्कार्यकारिका शक्तिः क्रियाख्या सूक्ष्मरूपिणी ।
स्थूलकार्यासु सूक्ष्मापि स्थिता न्यग्रोधबीजवत् ॥ ४.२१ ॥

__________

वृत्ति:
लोकेऽपि न्यग्रोधबीजवत्सूक्ष्मापि शक्तिस्तस्य स्थूलस्य कार्यस्य कारिका परिणतिशब्दवाच्या नित्यानुमेयधर्मिणी सिद्धैव।
न तु द्रव्यमशक्त्यवस्थायामपि
तस्य भावात् । यदाहुः

शक्तिः कारकं न द्रव्यं व्यभिचारादिति।
।ॄउओते{शक्तिः कारकं न द्रव्यं व्यभिचारात्
षोउर्चे उन्क्नोwन्.}


नापि सहकारिसन्निधानमशक्तस्य तत्सहकारियोगेऽपि तत्कार्यादर्शनादिति शोभनमुक्तं शक्तिः कार्यकरीति।
ततः प्रकृते किमुच्यते


_________________________________________________________


कारणं तेन सा ज्ञेया स्थूलस्यास्य समन्ततः ।

__________

वृत्ति:
येनैवमनेकशक्तिरूपापि माया न सर्वशक्त्यात्मना परिणमत इत्युक्तं
तेन कारणेन सा काचिदेव शक्तिरस्य स्थूलस्य कलादेः कार्यस्य सामस्त्येन कारणं प्रोक्ता।
न तु शक्त्यन्तरमिति द्वितीयोऽपि प्रसङ्गोऽनुपपन्न इति।

अथ किं सर्वस्य जगतः साक्षात्कारणम्। नेत्युच्यते


_________________________________________________________

तस्मात्कला तुटिः संस्था बोधिनी ह्यभिलाषकृत् ॥ ४.२२ ॥
सूक्ष्मं चातो गुणास्तेभ्यो बुद्धिर्बुद्धेरहंकृतिः ।
तस्मादेकादशाक्षाणि पञ्च तन्मात्रकाणि च ।
तेभ्यो भूतानि जातानि सर्वमीशः सृजत्यधः ॥ ४.२३ ॥

__________

वृत्ति:
तस्मान्मायातत्त्वात्कला तुटिश्च कालः संस्था च प्रागुक्ता नियतिरेव साक्षादुत्पन्नाः। यदुक्तं श्रीमत्स्वायम्भुवे

तस्मात्कालकले इति
।ॄउओते{तस्मात्कालकले
।ष्वयम्। २:९ . Cf.। ।षद्योऽस्
इन्तेर्प्रेततिओन् (प्.४३):
कला च कला चेत्येकशेषः। कालश्च कला च कालकले।
तत्रैकः कलाशब्दो नियतिमभिधत्ते,
द्वितीयस्तु कलामेव। कथं कलाशब्दो
नियतिमभिधत्ते। यतः सापि कलयति
प्रेरयतीति नियतिः कर्मफलभोजकत्वेन।}


कलाशब्देन तत्र नियतेरप्युपादानात् । बोधनी तु प्रागुक्ता विद्या।
हीति यस्मात्कारणादुत्पन्ना तस्मादेवाभिलाषकृत्प्रागुक्तो रागः।
सूक्ष्मं च गुणकारणतया प्रागुक्तं प्रधानमुत्पन्नं तत एव।
प्रक्रमान्तरनिर्देशान्न मायातः किन्तु कार्यप्रक्रमात्पूर्वश्रुतायाः कलात एव। यदुक्तं श्रीमद्रौरवे

कलातत्त्वाद्रागविद्ये द्वे तत्त्वे सम्बभूवतुः।
।ॄउओते{कलातत्त्वाद्रागविद्य्देव्दोतव्यक्तं च
।ृऔष् । २:१५.}

अव्यक्तं चेति


अत इति सूक्ष्मपदोपात्तात्तत्त्वात्प्रधानाद्गुणाः सत्त्वादयस्त्रयस्तेभ्यो बुद्धिरिति गुणेभ्यः।
बुद्ध्यादेः सामान्यशास्त्रप्रसिद्धस्य तत्त्वादिवस्तुनः प्रकारविशेषपरिग्रहार्थमनुवाद इति दर्शितं प्रागेव। प्रोक्तं च सांख्यैः

प्रकृतेर्महांस्ततोऽहंकारस्तस्माद्गणश्च षोडशकः।
।ॄउओते{प्रकृतेर्महांस्ततो।देव्दोत्पञ्चभूतानि
।षन्ख् । २२.}

तस्मादपि षोडशकात्पञ्चभ्यः पञ्चभूतानि॥ इति।


सर्वमिति भूतभावभुवनात्मकम्। यच्चाधः स्थूलभूतमयं ब्रह्माण्डं तदप्यसृजत् । तदेवं


_________________________________________________________


सोऽसृजद्भगवानीशः शिवशक्तिसमन्वितः ।
।ॄउओते{Cf. ।ृऔष् । २:१९ अन्द् ।ष्वयम्। २:११ , अन्द् ।ृऔष् । १:१२ अन्द् ।ष्वयम्। २:१० .}
कृत्स्नं मायात्मकं कार्यं शुद्धाशुद्धविमिश्रितम् ॥ ४.२४ ॥

__________

वृत्ति:
पारम्पर्येणैतत्सर्वं मायातः स एवानन्तेशोऽसृजत् ।
तत्प्रतिस्थानं शुद्धैश्चाशुद्धैश्चाधिकारिभिर्विमिश्रितम्।
तेऽपि तेनैव निर्मिता इत्यर्थः। यदुक्तं श्रीमद्रौरवे

पतयश्चाञ्जनातीताः साञ्जनाश्च पृथग्विधाः।
।ॄउओते{पतयश्चाञ्जनातीताः।देव्दोत्व्यवस्थिताः
।ृऔष् । २:२० (Eद्.। रेअद्स्वापि fओर्देवास्).}

भुवने भुवने देवास्तन्नियोगाद्व्यवस्थिताः॥ इति।


स्वरूपेणापि तच्छुद्धमशुद्धं च विमिश्रितं सोऽसृजदिति।
यदुक्तं सांख्यैः

ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः।
।ॄउओते{ऊर्ध्वं।देव्दोत्॰पर्यन्तः
।षन्ख् । ५४. आल्सो ॠउओतेदद् ।णर् । ३:१७८, प्.२७१.}

मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः॥ इति।

अत्र पराभिप्रायः


_________________________________________________________


योनिजं बुद्धिभेदाच्च तदेकं चेद्द्विधा कथम् ।

__________

वृत्ति:
योनिर्माया तज्जत्वेनाविशेषात्सर्वमेव ।च्रुx शुद्धानां शरीरं शुद्धम् ।बेगिन्सुप्प्ल्य्शुद्धम् ।ेन्द्सुप्प्ल्य्वा भुवनं स्यात् ।च्रुx ।
एकरूपमेवेत्यर्थः।
किञ्चित्त्वशुद्धानामशुद्धं वा मिश्रितं वेत्येवं द्विधा कथमसृजत् । असंभवात् । यदाहुः

नोपादानं विरुद्धस्येति।
।ॄउओते{नोपादानं विरुद्धस्य
{ড়्रमाणवार्त्तिक}, {प्रत्यक्षपरिच्छेद} २६३ .}


अथैकस्माद्द्वितयमेतत्प्रकारतया भिद्यते।
यथान्नादोदनापूपाविति।
ततो नानयोर्विरोधसम्भव इति। तदयुक्तमित्युच्यते बुद्धिभेदाच्चेति।
बुद्धिभेदे ह्यन्नादोदनादेस्तत्प्रकारतया द्वितयत्वम्।
यस्य त्वेकस्माद्बुद्धिभेदेऽसत्यनेकत्वं नासौ तत्प्रकारतया द्विधा भवति। घट इव तदभावतया। बुद्धिभेदेऽसत्यनेकत्वं च।
प्रागुक्तादशुद्धाच्छुद्धं शुद्धाच्चाशुद्धम्। अतस्तदपि तत्प्रकारतया द्विधा कथम्। नैवेति। प्रकारभेदाभावादत्र घटतदभावयोरिव वस्तुभेद एव।
अतो नोपादानं विरुद्धस्येति युक्त एव प्रश्नः। सिद्धान्तस्तु


_________________________________________________________


दृष्टं खद्योतकादेस्तद्विरुद्धं चैकहेतुकम् ॥ ४.२५ ॥

__________

वृत्ति:
अयुक्तमेतदसिद्धत्वात् । न हि ।च्रुx प्रकारान्तरस्य प्रकारान्तरकारणप्रकारान्तरत्वमस्माभिस्तद्बुद्धिभेदादिष्यत्च्रुx ।
अपि तु प्रकारिण एव तथादृष्टत्वात् ।
खद्योतमशकमक्षिकादीनां हि प्रकाशाप्रकाशरूपेण बुद्धिभेदेऽपि स्वेदैकयोनिजत्वेन बुद्ध्यभेदात्तत्प्रकारत्वं दृष्टम्।
तद्वदत्र शुद्धाशुद्धयोरुत्पद्य ज्ञानाज्ञानरूपेण बुद्धिभेदेऽपि योनिजत्वेन बुद्धिभेदाभावात्तत्प्रकारभेदेनैव द्विधाभावो युक्त इति प्रकाराणां परस्परपरिहारविरोधेऽप्येकप्रकार्युपादानहेतुत्वं खद्योतमशकमक्षिकादीनामिव दृष्टं न विरुध्यत इत्यदोषः। तथा हि


_________________________________________________________


एवं तद्भिन्नसंस्थानं शुद्धाशुद्धाङ्गसंयुतम् ।
ज्ञेयं कारणशक्त्युत्थं कार्यं बीजनिमित्तजम् ।

__________

वृत्ति:
एवमेकबीजभूतयोनिशक्तिनिमित्तत्वेऽपि शुद्धाशुद्धामित पक्षस्थं भिन्नसंस्थानं भिन्नप्रकारतया ज्ञेयम्। न घटतदभाववद्भेदेनेति।

अथ प्रकृतोपसंहारः


_________________________________________________________


एवमेतत्समादिष्टं तत्कार्यं विग्रहाश्रयम् ॥ ४.२६ ॥

__________

वृत्ति:
विग्रहेऽस्मिन्स्थूलशरीरे सूक्ष्मदेहतयाश्रयो यस्य तन्मायाकार्यं कलादि सूक्ष्मदेहतयैवमादिष्टं परमेश्वरेण। कथमित्युच्यते


_________________________________________________________


यद्यप्येतन्मिथः कार्यं विरुद्धमसितात्मकम् ।
तथाप्येतत्सुसंश्लिष्टमेकस्मिन्वस्तुनि स्फुटम् ॥ ४.२७ ॥
नरार्थं साधयेद्भिन्नं नरस्य शकटाङ्गवत् ।

__________

वृत्ति:
यद्यप्यशुद्धं मायाकार्यं कलाद्येतत्परस्परपरिहारस्वभावतया घटतदभावादिवत्तद्विरुद्धं तथाप्येतदेकस्मिन्सूक्ष्मदेहे वस्तुनि संश्लिष्टं स्फुटं कृत्वा पुरुषस्यार्थं प्रागुक्तेन चैतन्योपोद्बलेनोपलब्धं कलादिव्यापारभेदेन साधयतीति सम्भाव्यते शकटाङ्गानीव शकटाश्लिष्टानीति।


_________________________________________________________


एवमेतदनन्तेन सृष्टं देहनिबन्धनम् ॥ ४.२८ ॥

__________

वृत्ति:
यस्मादेवं पुरुषार्थसाधकमेतत्तस्मात्कारणाद्देहे निबन्धनं स्थितिर्यस्य तद्देहनिबन्धनं स्थूलदेहाधारत्वेन पुरुषार्थसाधकतयानन्तेशेन सृष्टं नान्यथेति।

अथ कोऽसौ पुरुषार्थः कथं च देहनिबन्धनोऽसावित्युच्यते


_________________________________________________________


न देहेन विना मुक्तिर्न भोगश्चित्क्रियागुरुः ।

__________

वृत्ति:
तत्र मुक्तिर्भोगश्च यश्चित्क्रिययोर्गुरुरुपदेष्टा भोगेन हि चित्क्रिये उपदिश्येते।
येनाभोगे न प्रलयकेवलाद्यवस्थायामित्येष द्विविधः पुरुषार्थः। स च देहेन विना नोपपद्यते। मुक्तिर्हि मलपरिपाकं विना नोपपन्ना।
नामिश्रं परिणमत इति न्यायेन।
केवलस्य च तस्य परिपाकासम्भवादवश्यं तत्परिपाकसहभावित्वेन शरीरापेक्षेत्युक्तम्।
भोगोऽपि भोगसाधनानामेषामधिकरणं विना व्यापारादर्शनाद्देहापेक्षा सुसिद्धैवेत्यविरोधः।
न केवलमत्रानन्त एव कर्ता यावत्


_________________________________________________________


एतच्च कुरुते शम्भुः स्वतन्त्रत्वात्प्रभुत्वतः ।
सर्वानुग्राहकः शान्तस्तद्वशादखिलं फलम् ॥ ४.२९ ॥

__________

वृत्ति:
परमेश्वरश्च तत्करोति न केवलोऽनन्तेश इति चकारोऽत्र भिन्नक्रमः।
प्रयोज्यप्रयोजकभावेन द्वयोरत्र कर्तृत्वमित्यर्थः॥

।Cओलो
इति नारायणकण्ठात्मजभट्टरामकण्ठविरचितायां श्रीमत्किरणवृत्तौ चतुर्थं प्रकरणम्॥


Cःाড়्ट्Eऋ ५

अथ पाशपदार्थस्यैव परीक्षान्तरार्थं प्रश्नपूर्वं प्रकरणान्तरम्॥


_________________________________________________________


गरुड उवाच
शक्तिपाताद्भवेद्दीक्षा निपातो न विभुत्वतः ।

__________

वृत्ति:
अत्र सूत्रपदार्थप्रकरणसंबन्धाः प्राग्वद्द्रष्टव्याः। वाक्यात्मकस्तु

तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा
।ॄउओते{तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा
।Kइर् । १:२१ ब्.}

इत्यादिभिरनेकविधः। पाटलिकस्तु सर्वानुग्राहकः शान्त इत्यादि।
।ॄउओते{सर्वानुग्राहकः शान्तः
।Kइर् । ४:२९ .}

अयं चात्र प्रश्नार्थः। यदुक्तं
तीव्रशक्तिनिपातेन गुरुणा दीक्षित इत्येतदयुक्तम्। पातो ह्यव्यापकत्वेन व्याप्तः कुण्डबदरादिसिद्धस्तद्विरुद्धं च व्यापकत्वं ततो व्यापकविरुद्धोपलब्ध्यात्र व्यापकत्वेन शक्तेरव्यापकत्वाभावे पतनाभावः साध्यत इति। न चायमसिद्धो हेतुः।

प्रबोधिका च सा शक्तिः सर्वगा परिपठ्यत इति
।ॄउओते{प्रबोधिका च सा शक्तिः सर्वगा परिपठ्यते
।Kइर् । ४:१ द्.}


पूर्वमेव व्यापकत्वेनास्याः समभ्युपगमादिति। न तु मायया नैकान्तिकत्वमत्रेत्युच्यते


_________________________________________________________


शिवस्य समवेतत्वात्सर्वदैव स्थिता पशौ ॥ ५.१ ॥

__________

वृत्ति:
परिग्रहवर्त्तिनी शक्तिरचेतना मायेत्युक्तम्। ततश्च परिणतिस्वभावत्वात्कार्यक्रमेण पुंसः प्रलयोत्तरकालं सा पततीति युज्यते वक्तुम्। इयं तु परमेश्वरसमवेतत्वाच्चिद्रूपत्वेनापरिणतिधर्मिणी। यदुक्तम्

परिणामोऽचेतनस्य चेतनस्य न युज्यत इति।
।ॄउओते{परिणामोऽचेतनस्य चेतनस्य न युज्यते
।Kइर् । २:२६ ब्.}


ततश्च सर्वदैव पशौ सानुग्राहिकात्वेन संस्थितेति नानैकान्तिकता समवेतत्वे सतीति विशेषितत्वादत्र हेतोरित्यर्थः।

अथ सैव स्थितिः पात इत्युच्यते। यद्येवं


_________________________________________________________


स्थितत्वात्सर्वदा शक्तेर्भवोच्छित्तिर्न किं भवेत् ।

__________

वृत्ति:
तस्याः सर्वपुरुषगतत्वेनानादिव्यवस्थितेः सर्वपुरुषाणामप्यनादिरेव दीक्षायोगान्मोक्ष इति संसाराभावप्रसङ्गः। अभ्युपगम्यापि शक्तेः प्रागुक्तं पातमित्युच्यते


_________________________________________________________


कालो वा स च कः प्रोक्तो यदि कालः शिवेन किम् ॥ ५.२ ॥

__________

वृत्ति:
वाशब्दः पक्षान्तराभ्युपगमसूचनार्थः। अथवा यदुक्तं प्राक्

समे कर्मणि सञ्जाते कालान्तरवशादिति।
।ॄउओते{समे कर्मणि सञ्जाते कालान्तरवशात्
।Kइर् । १:२० द्.}

मलपरिपाककालः प्रोक्तः। चशब्दात्कोऽन्यः प्रोक्त इति। किं प्रागुक्त एव शक्तिपातस्य कालोऽन्यो वेत्यर्थः। न तु तस्यैवाज्ञातत्वेन व्याख्येयं प्राक्प्रतिपादितत्वेन तस्याज्ञानसम्भवाभावात् ।
यदपि कालः शक्तिपातस्य निमित्तं, शक्तिपातो दीक्षाया इति प्रागुक्तं तदप्ययुक्तम्।
यतः कालो यदि शक्तिपातस्य हेतुरिष्यते ततः स एव दीक्षाहेतुरस्तु किं शिवेनात्र शक्तिपातद्वारेण मोक्षहेतुना कल्पितेन।
भोगे तु स्थूलं विचित्रकं कार्यमित्यादिना प्रतिपादितत्वात्तस्य कर्तृत्वमस्त्विति प्रश्नार्थः।
।ॄउओते{स्थूलं विचित्रकं कार्यम्
।Kइर् । ३:१२ .}

इदं प्रश्नजातं क्रमेण निराकरोति।
भगवानुवाच
उपचारेण शब्दानां प्रवृत्तिरिह दृश्यते ।
यथा पुमान्विभुर्गन्ता नित्योऽप्युक्तो विनश्वरः ॥ ५.३ ॥
पाशच्छेदो यथा प्रोक्तो मन्त्रराड्भगवाञ्छिवः ।
एवं शक्तिनिपातोऽपि प्रोच्यते सोपचारतः ॥ ५.४ ॥

__________

वृत्ति:
तत्र यदुक्तं निपातो न विभुत्वतः शक्तेरिति तत्सिद्धसाधनमेव।
अत एव त्वदुक्तप्रमाणबाधितत्वान्मुख्यार्थासम्भवेनास्माभिरपि शक्तिपातश्रुतीनामुपचरितार्थत्वमभ्युपगतं।
यथा नित्यव्यापकधर्मयुक्तोऽपि पुरुषो गन्ता विनश्वरश्च स्वशरीरेणोपचारेणोच्यते। यथा च पाशानां दीक्षितं पुरुषं प्रत्यप्रवर्तनमेव च्छेद इव च्छेद उच्यते।
न तु वास्तवो द्वैधीभावः। यथा च मन्त्रैर्विराजत इति मन्त्रराट्परमेश्वरोऽपि सन् भगवानुपचारादुच्यत इत्यविरोधः।
अथात्रोपचारस्य निमित्तमनादिस्थिताया वामशक्तेस्तावत्पातपदप्रवृत्तावुच्यते


_________________________________________________________


निपातो भयदो यद्वद्वस्तुनः सहसा भवेत् ।
तद्वच्छक्तिनिपातोऽपि प्रोक्तो भवभयप्रदः ॥ ५.५ ॥
तस्मादन्यत्र यात्येव तथात्मा देशिकं प्रति ।

__________

वृत्ति:
यथा हि पाषाणादिपातो भयदः पुंसामेवमनादिरपि परमेश्वरशक्तेः सम्बन्धः संसारभयहेतुत्वात्पात इवोच्यते।
ज्येष्ठाशक्तिसम्बन्धिनोऽपि दीक्षापूर्वभावित्वेन प्रागुक्तस्य पातस्योपचारनिमित्तमुच्यते


_________________________________________________________


गुरुर्यथाग्रतः शिष्यान् सुप्तान्दण्डेन बोधयेत् ॥ ५.६ ॥


_________________________________________________________


शिवोऽपि मोहनिद्रायां सुप्ताञ्छक्त्या प्रबोधयेत् ।
यदा स्वरूपविज्ञानं पतितेति तदोच्यते ॥ ५.७ ॥
तस्माच्छक्तिनिपातः स्यान्निपातश्चिह्नवाचकः ।

__________

वृत्ति:
यथाग्रे स्थितत्वाविशेषेऽपि शिष्याञ्छासनेऽर्हान् योग्यानेव गुरुर्दण्डेन बोधयति न त्वशिष्यान्।
एवं मोहो मलस्तस्य निद्रा कार्यं प्रत्यसामर्थ्यं परिपाकविशेषस्तस्यां सत्यामपि ये सुप्तास्तन्निवृत्त्युपायसंविद्विकलास्तान्परमेश्वरस्तयैव पूर्वव्यवस्थितया शक्त्या बोधयति।
एवं सैव मलपरिपाकयोग्यतानुसारेण यदा विशिष्टं तन्निवृत्त्युपायविज्ञानं संसारवैतृष्ण्यादिक्रमेण जनयति तदा ज्येष्ठा शक्तित्वेन कार्यहेतुः पतितेत्युपचारादुच्यते। यदुक्तं

कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः। इति।
।ॄउओते{कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः
।Kइर् । २:२९ द्.}

श्रीमन्मतङ्गेऽपि

संसारात्स विरज्येत प्रध्वस्तकलुषः सदा। इति।
।ॄउओते{संसारात्स विरज्येत प्रध्वस्तकलुषः सदा
।ंत् ।Vড়्। १०:२५ द्.}


श्रीमत्स्वायम्भुवेऽपि

तन्निपातात्क्षरत्यस्य मलं संसारकारणम्।
।ॄउओते{तन्निपातात् ।देव्दोत्परं निःश्रेयसं प्रति
।ष्वयम्। १:१७.}

क्षीणे तस्मिन्यियासा स्यात्परं निःश्रेयसं प्रति। इति॥


ततश्च यदुक्तं

स्थितत्वात्सर्वदा शक्तेर्भवोच्छित्तिर्न किं भवेदिति।
।ॄउओते{स्थितत्वात्सर्वदा शक्तेर्भवोच्छित्तिर्न किं भवेत्
।Kइर् । ५:२ ब्.}


तदप्यदूषणमेव। सर्वदास्थितत्वेऽपि तस्यास्तत्र मलपरिपाकानुसारेण तदैव भवविच्छित्तिकारणत्वं नान्यदान्यत्र चेति यतः।

तृतीयोऽपि प्रश्नः प्रतिषिध्यते।


_________________________________________________________


तन्निपातस्य सः कालः कर्मणां तुल्यतैव च ॥ ५.८ ॥

__________

वृत्ति:
यदुक्तं कालो वा स च कः प्रोक्त
।ॄउओते{कालो वा स च कः प्रोक्तः
।Kइर् । ५:२ .}
इति तत्रोच्यते---कर्मणां तुल्यतैव चेति।
चशब्दात्तुशब्दतो वा चस्थानीयात्प्रागुक्तश्च मलपरिपाकः। एवकारेण चात्र तृतीयस्य कालस्याभावः कथ्यते। न प्रागुक्तस्यापि समुच्चीयमानावधारणत्वात् ।
तुल्यशब्दस्योभयार्थत्वात्कर्मणोर्द्वयोः साम्यं परिपाकस्तीव्रवेगता चेति दर्शयिष्यामः कर्मांशो योऽधिकः पूर्वं भोगद इत्यत्र।
।ॄउओते{कर्मांशो योऽधिकः पूर्वं भोगदः
।Kइर् । ५:१० द्.}
तदानीं हि
युगपत्तुल्यबलविरुद्धकर्मद्वयाकृष्टस्य पुंसः कामुकद्वया कृष्यमाणायाः कामिन्या इव भोगानुपपत्तिरिति वक्ष्यामः

समत्वे सति यो भोगः कथं तस्य प्रजायत इति।
।ॄउओते{समत्वे सति यो भोगः कथं तस्य प्रजायते
।Kइर् । ५:११ ब्.}


एवं च सत्यनादौ संसारे कस्यचित्कदाचित्तथाभूतकर्मसंकटान्तःप्रवेशेन भोगानुपपत्तेः संसाराभावप्रसङ्ग इत्यवश्यं तत्परिहारायानीश्वरवादिभिरप्यत्रेश्वरशक्तिपातः कामिन्यादौ राजशक्तिवदभ्युपगन्तव्यो गत्यन्तराभावात् ।
अनेनैव च रूपेण कर्मणोः समत्वमत्र शक्तिपातस्य कालो ज्ञेयो न तु संख्याकृतमिति दर्शयितुं पुनरुक्तिः।


_________________________________________________________


तुल्यत्वं कर्मणः कालः

__________

वृत्ति:
समसंख्यत्वेन ह्यविरोधतो न कदा चिद्भोगानुपपत्तिः।
अन्यथा विशेषाभावात्सर्वदैव शक्तिपातप्रसङ्गतः कर्मभोगासम्भवात् ।
नाभुक्तं कर्म नश्यतीत्यागमविरोधः।
।ॄउओते{नाभुक्तं कर्म नश्यति
षोउर्चे उन्क्नोwन्. आल्सो ॠउओतेद्(अस्{श्रुति})
अद् ।ंत् ।Vড়्। ८:१०३, प्.२८८ अन्द्थेरेअfतेर्(सेए नोते तो त्रन्स्लतिओन्).}

अत एव मलपरिपाकलिङ्गत्वेन प्रागुक्तादपि कर्मसाम्यादिदमन्यदेव कर्मविरोधात्मकं शक्तिपातैकनिवर्त्यं कर्मसाम्यमित्यदोषः।

अथ शक्तिपातात्कीदृशं तत्कर्मद्वयं भवतीति तदर्थमेतत्


_________________________________________________________


क्षीणं वा यदि वासमम् ।

__________

वृत्ति:
यदा तयोर्विरुद्धयोरपि कर्मणोरवशिष्टं सर्वमेव कर्मावापगतत्वेन सममेव सम्पद्यते तदानीं कर्मान्तरस्यानावापगतस्यानुरोध्यस्यासम्भवात्तत्त्वैः समग्रैरेव सह क्षीणं भवतीति पुंसां विज्ञानकेवलित्वमेव।
यद्वक्ष्यति समे भोगस्तदा न हीति।
।ॄउओते{समे भोगस्तदा न हि
।Kइर् । ५:११ .}
यदि वेति पक्षान्तरम्। यदा पुनर्न सर्वमेव तयोर्विरुद्धयोरपि कर्मणोरवशिष्टमावापगमनाय योग्यमपि तु किञ्चिज्जात्यन्तरादिहेतुत्वेनापि सम्भवतीति तदानीं तदनुरोघेन शक्तिपातादन्यतरदसममपतितशक्तिकं भवतीति विरोधाभावात्सर्वाण्येव भोग्यानि सम्पद्यन्त इति वक्ष्यति

अधिकन्यूनसम्बन्धाद्व्याकुलत्वं न जायत इति।
।ॄउओते{अधिकन्यूनसम्बन्धाद्व्याकुलत्वं न जायते
।Kइर् । ५:१२ द्.}


अत्र पराभिप्रायः


_________________________________________________________


समत्वं तत्कथं गम्यं

__________

वृत्ति:
यदेतद्युगपत्परस्परविरोधात्मकं समत्वं तत्कथं ताभ्यां कर्मविशेषाभ्यां प्राप्यम्।
नैवेत्यर्थः। अनुष्ठानक्रमस्यैव फलदानापेक्षितत्वादिति भावः।

अत्र सिद्धान्तः

_________________________________________________________


न्यूनाधिकतुटिः कथम् ।

__________

वृत्ति:
न्यूना चाधिका च तुटिः कालः। स कथं गम्यते।
कृष्यादिभिर्दृष्टैः कर्मभिरित्यध्याहारः।
एतदुक्तं भवति---कृष्यादिकर्मभिरयं हेतुरनैकान्तिकः।
यतस्तेषां क्रमेणाप्यनुष्ठितानां कदाचित्पश्चादनुष्ठितस्य न्यूनः कालः शीघ्रमेव पूर्वानुष्ठितेन सहभाव फलं कुर्वन्दृश्यते।
पूर्वानुष्ठितस्य त्वधिकश्चिरात्मक इति तद्वदत्रापि सम्भवाद्गम्यमेवैतत्कर्मणोः समत्वमित्यविरोधः। ततश्च


_________________________________________________________


एवं सूक्ष्मं समानत्वं यस्मिन्काले तदैव सा ॥ ५.९ ॥


_________________________________________________________


स्वरूपं द्योतयत्याशु बोधचिह्नबलेन वै ।

__________

वृत्ति:
एवं दृष्टस्येवादृष्टस्यापि कर्मणः सम्भाव्यमानं परस्परविरोधात्मकं समानत्वमस्मदाद्यगोचरत्वात्सूक्ष्मं यस्मिन् काले भवति तस्मिन्नेव काले सा पारमेश्वरी शक्तिः।
बोधचिह्नस्य यद्बलं मलपरिपाको यदुक्तम्

कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः। इति।
।ॄउओते{कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः
।Kइर् । २:२९ द्.}


श्रीमन्मतङ्गेऽपि
संसारात्स विरज्येत प्रध्वस्तकलुषः सदेति।
।ॄउओते{संसारात्स विरज्येत प्रध्वस्तकलुषः सदा
।ंत् ।Vড়्। १०:२५ द्.}

श्रीमत्स्वायम्भुवेऽपि

क्षीणे तस्मिन्यियासा स्यात्परं निःश्रेयसं प्रतीति।
।ॄउओते{क्षीणे तस्मिन्यियासा स्यात्परं निःश्रेयसं प्रति
।ष्वयम्। १:१७ द्.}


तेन स्वरूपं सर्वज्ञत्वादि पुंसो दीक्षाद्वारेण द्योतयति। यदुक्तं

गुरुणा दीक्षितो यदा।
।ॄउओते{गुरुण दीक्षितो यदा।
सर्वज्ञः स शिवो यद्वत्
।Kइर् । १:२१ च्.}

सर्वज्ञः स शिवो यद्वदिति

न तत्र मलपरिपाकापेक्षोऽन्यः शक्तिपातः अपि तु स एव प्रसङ्गादुभयनिमित्तं सम्पद्यत इति भावः।
वैशब्दोऽपि प्रकारान्तरे बोधचिह्नबलाभावे तु
क्षीणं वा यदि वासममित्युक्तमेव
।ॄउओते{क्षीणं वा यदि वासमम्
।Kइर् । ५:९ .}
प्रकारान्तरं यतः।
एवं च यः शक्तिपातो मलपरिपाकनिमित्तत्वेन संहितान्तरेषु श्रुतः स दीक्षाक्रमेणात्रापि मोक्षहेतुतया प्रोक्त एव। यस्तु कर्मसाम्यनिमित्तोऽत्र श्रुतः तत्साम्यपरिहारायप्रोक्तेन नयेन तत्क्षयाय वा पर्यवस्यतीत्यविरोधोऽत्र संहितान्तरैरस्य विशेषस्य तैरनुक्तेरिति।

ननूभयोरप्यनयोर्मोक्षहेतुत्वमस्तु। एवमप्येष विरोधो न भवत्येवेति। अस्तु यदि मलपरिपाकस्येव कर्मसाम्यस्यापि तन्निमित्तत्वप्रतिपादकं स्फुटं वचनं भवेत्तस्य तु कर्मसाम्यपरिहारमात्रफलं शक्तिपातं प्रति तन्निमित्तत्वं प्रतिपादयति नान्यत्रेत्युक्तम्।
वक्ष्यति च समे भोगस्तदा न हीति।
।ॄउओते{समे भोगस्तदा न हि
।Kइर् । ५:११ .}
सामान्यशास्त्रेष्वपि तस्य कर्मसाम्य निवृत्तिफलत्वेन सिद्धेरिति दर्शयिष्यामः।
।ॄउओते{दर्शयिष्यामः
अद् ।Kइर् । ५:१२ द्.}
न चोद्भूतविरोधनिवर्तनाय प्रवृत्तस्यानुद्भूतविरोधमल निवर्तनमपि शक्तिपातस्य युक्तम्। सर्वात्मस्वविशेषतस्तन्निवर्तनप्राप्तेर्मोक्षप्रसङ्गात् ।
ननु यथा मलपरिपाकनिमित्तशक्तिपातो दीक्षया कर्मणां क्षयमनुद्भूतविरोधानामपि विधत्त इति भवद्भिरिष्यते, तद्वत्कर्मसाम्यनिमित्तो मलस्यानुद्भूतविरोधस्यापि तयैव क्षयं विधास्यतीति नैष प्रसङ्गः।
न तेषां तदानीमप्यनुपजातविरोधित्वासिद्धेः। कर्मणां हि भोगदानाय मलः सहकारिकारणमविद्यानुबन्धं विना मुक्तस्येव भोगायोगादिति तस्यान्यथाभावे तेषामुद्भूतविरोधित्वमेवेति युक्त एव तदा क्षयः न त्वेवं कर्माविरोधो मलस्यावस्थितेः सहकारिकारणं येन तन्निवृत्तौ तस्यावस्थानानुपपत्तेस्तदानीमुद्भूतविरोधित्वेन क्षयः सम्भाव्येत।
अनादित्वेन सिद्धेरनुद्भूतविरोधस्यापि क्षयाभ्युपगमे प्रोक्त एव प्रसङ्ग इत्यन्य एवायं कर्मविरोधपरिहारमात्रफलः शक्तिपातस्त्रिधायुक्तितोऽभ्युपगन्तव्य इत्यविरोधः।

अथ केन हेतुना विरुद्धयोः कर्मणोर्युगपत्सम्भव इत्युच्यते


_________________________________________________________


कर्मांशो योऽधिकः पूर्वं भोगदस्त्वितरः पुनः ॥ ५.१० ॥

__________

वृत्ति:
शुभाशुभानेककर्मवत्त्वेऽपि पुंसो य एव कर्मविशेषः कृष्यादिवत्पश्चादनुष्ठितोऽपि कर्मान्तराद्युपकारजनितपरिपाकवशात्तीव्रवेगत्वेन चाधिकः शक्त्या भवति स एव प्रथमं भोगप्रदः। प्रोक्तं चान्यैरपि तीव्रवेगानामासन्नं फलमिति।
यस्तु तस्मादन्यः पुनरिति पश्चात्कुतश्चित्कर्मान्तरप्रतिबन्धकापगमतः शक्तिप्रतिलम्भतो वा भोगद इति। किमत इत्युच्यते


_________________________________________________________


समत्वे सति यो भोगः कथं तस्य प्रजायते ।

__________

वृत्ति:
एवं च सति कुतश्चित्कारणसामर्थ्याद्द्वयोः शुभयोरशुभयोर्वा परिपाकवशात्तीव्रवेगत्वेन वा समत्वे संजाते सति तस्य पुंसो युगपद्विरुद्धकर्मद्वयाकृष्टस्य कथं भोगः।
नैव जायत इत्यवश्यं विरोधपरिहारायात्र शक्तिपातोऽभ्युपगन्तव्य इत्युक्तं प्रागेव।
नन्वेवं सर्वाण्येव कर्माणि स्वस्वफलमात्रसाधकत्वात्परस्परविरुद्धत्वेन
समानानीति सर्वदा शक्तिपातप्रसङ्गः। नेत्युच्यते


_________________________________________________________


मिश्रं वारम्भकं कर्म समे भोगस्तदा न हि ॥ ५.११ ॥
वक्तव्यश्चाधिकः कश्चिदन्यथा न सुखेतरम् ।

__________
वृत्ति:
त्रिविधं हि कर्म जात्यायुर्भोगदं पुंसो भोगारम्भकं न केवलं भोगप्रदमेवायुःप्रदं वा जातिविशेषं विना भोगानुपपत्तेः। नापि जातिप्रदमेव ताभ्यां विना जन्म समनन्तरमेव पुंसो मरणात्भोगा नुपपत्तेरिति।
समे विजातीयेनामिश्रे केवलभोगप्रदे केवलायुःप्रदे केवलजातिप्रदे वा कर्मणि सति भोगो नोपपद्यत इति तत्राधिकः कश्चित्कर्मविशेषो विजातीयः। भोगप्रदे जातिप्रदः। तस्मिन्वा भोगप्रद इत्यादिर्वक्तव्यः।
अन्यथा सुखदुःखभोगानुपपत्तेस्तथाभूतकर्मसद्भावेऽपि विज्ञानकेवलित्वमेव तस्येति न सर्वदा कर्मणां विरोधेन शक्तिपातप्रसङ्गः। तदविरोधस्यैव सर्वदा सम्भवादिति।


_________________________________________________________


अधिकन्यूनसम्बन्धाद्व्याकुलत्वं न जायते ॥ ५.१२ ॥

__________

वृत्ति:
यत्रापि पुरुषे द्वयोर्विरुद्धयोर्युगपदुपस्थितयोः कर्मणोः साम्यं तत्रापि प्रागुक्तनयेन कर्मान्तरानुरोधतः शक्तिपातो न क्षयं विधत्ते। अपि तु कस्यचिदधिकत्वं कस्यचिन्न्यूनत्वमिति तयोर्व्याकुलत्वं विरोधो न जायत इति।
अयमेवायुर्वेदेऽप्यायुष्यानायुष्य कर्मणोर्व्याकुलत्वपरिहाराय प्रकारः प्रोक्तः

शिलाजतुप्रयोगाद्वा प्रसादाद्वापि शाङ्करात् ।

अजासत्रप्रयोगाद्वा क्षयः क्षीयेत नान्यथा॥ इति।

निद्रास्तोत्रादौ च नारायणभट्टोक्त एव महाभारते च दर्शितः

कान्तारेषु च सन्नानां मग्नानां च महार्णवे।
।ॄउओते{कान्तारेषु च्देव्दोत्गतिः परमा नृणाम्
णोत्त्रचेदिन् {ंहाभारत}.}

दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम्॥

सौगतैरपि तारास्तोत्रादौ

हरिकरिशिखिफणितस्करनिगडमहार्णवपिशाचभयशमनि।
।ॄउओते{हरिकरिशिखिफणितस्कर॰।देव्दोत्भगवति तारे नमस्तुभ्यम्
षोउर्चे उन्क्नोwन्.}

शशिकिरणकान्तिहारिणि भगवति तारे नमस्तुभ्यम्॥ इति।


कथं तर्हि तज्जायत इतीत्याह


_________________________________________________________


अधिकन्यूनशून्यत्वात्तत्स्थानमभिगच्छति ।

__________

वृत्ति:
यदा तयोर्विरुद्धयोर्द्वयोरपि कर्मणोः सर्वमेवान्यत्कर्मावापगतत्वेनाधिकन्यूनरहितं सममेव संपद्यते कस्मिंश्चित्पुरुषे तदानीं व्याकुलत्वं न जायत इति कर्मान्तरस्यानुरोध्यस्या सम्भवेन शक्तिपातात्तेषां सर्वेषां क्षयः प्रोक्त इति
स क्षीणकर्मा पुरुषस्तदानीं तत्स्थानं प्राक्यत्समे भोगस्तदा न हीत्यत्रोक्तं
।ॄउओते{समे भोगस्तदा न हि
।Kइर् । ५:११ .}
विज्ञानकेवलित्वं प्राप्नोतीत्येतत्तदानीं शक्तिपातस्य प्रयोजनमित्यर्थः।

अथ यथायं शक्तिपातोऽस्मदाद्यगोचरत्वेन प्राक्सूक्ष्म उक्तो व्याध्यादिनिवृत्त्यनुमेयो वा तथैव किमसौ प्रागुक्तो न वेत्युच्यते


_________________________________________________________


स पात इति मन्तव्यस्तस्य भक्तिर्विलक्षणा ॥ ५.१३ ॥

__________

वृत्ति:
स प्रागुक्तो मलपरिपाककालभावी शक्तिपात इत्येवं नियतपुरुषगतत्वेन मन्तव्यः। यस्य ह्यसौ भवति तस्य भक्तिर्विलक्षणा भवतीति। यदुक्तं प्राक्

कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृह इति।
।ॄउओते{कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः
।Kइर् । २:२९ द्.}

श्रीमत्स्वायम्भुवेऽपि क्षीणे तस्मिन्यियासा स्यादित्यादि।
।ॄउओते{क्षीणे तस्मिन्यियासा स्यात्
।ष्वयम्। १:१७ .}

अथास्मात्कालद्वयात्


_________________________________________________________


काल एव स निष्णातः शक्तेरात्मपरिग्रहः ।

__________

वृत्ति:
स एव प्रागुक्तः शक्तेः पातकालः। स निष्णातः कुशलः यस्मादात्मा परिगृह्यते अनुगृह्यते तस्मिन्नित्यात्मपरिग्रहः स काल इति।
तस्मात्तमेव तत्रापेक्षते भगवान्नान्यं पुनः


_________________________________________________________


अनादिकर्मसम्बन्धाच्छिवः कालमपेक्षते ॥ ५.१४ ॥
कालच्छिद्रमिति प्रोक्तं तज्ज्ञश्च भगवाञ्छिवः ।

__________

वृत्ति:
अनादिर्यः कर्मात्मकः सम्यग्बन्धस्तस्मादेव यो भोगस्तस्यानुपपत्त्या कालच्छिद्रमित्यनेन शब्देन प्रोक्तः कर्मविरोधात्मकस्तमत्रापेक्षते शक्तिपातहेतुत्वेन। शक्तिपातात्तेषां विरोधपरिहारः क्षयो वा नान्यथा सम्भवतीत्येवं भगवान् जानाति यतः।

अथ कथमसौ तमेव कालं कर्मणां क्षयेऽपेक्षते। न तु तदविरोधकालमपीत्युच्यते।


_________________________________________________________


यथा कश्चिच्चले लक्ष्ये कञ्चित्कालमपेक्षते ॥ ५.१५ ॥
तज्ज्ञोऽपि स शिवस्तद्वत्समकालमपेक्षते ।

__________

वृत्ति:
यथा ह्यत्यन्तसुशिक्षितोऽप्यर्जुनादिर्धनुर्धरो न सदैव शत्रुतो विनिर्गतं शराद्यायुधजातं स्वशरैश्छिनत्ति।
अपि तु यदा स्वशरीरोपघातायायुष्यकर्मविरोधेन तदुपस्थितं भवति तस्मिन्नेव काले विरुद्धत्वादेव तद्वदेव तत्भगवानपि कर्मविरोधलक्षणं साम्यमेव शक्तिपातेऽपेक्षते विरुद्धत्वादेव तदानीं भोगासम्भवादित्युक्तम्। न तु तदविरोधकालमप्यविरोधेनैव तदानीं भोगोपपत्तेरिति।
यदा त्वेतन्नाभ्युपगम्यते तदा


_________________________________________________________


अभावात्तत्समत्वस्य युगपन्मुक्तिरन्यथा ॥ ५.१६ ॥

__________

वृत्ति:
अन्यथा विरोधाभावेन सर्वपुरुषाणां युगपच्छक्तिपातप्रसङ्गात्कर्मभ्यो
मुक्तिर्विज्ञानकेवलित्वं स्यादित्यवश्यं तत्परिहारायात्र कर्मसाम्यमेव हेतुत्वेन वाच्यमित्यविरोधः।

यद्येवं स मलपरिपाकलक्षणः कालो भगवतानुग्रहेऽपेक्ष्यते। न तु तदपरिपाकलक्षणोऽपीत्यत्र को हेतुरित्युच्यते


_________________________________________________________


नोपायसाधनापेक्षा क्रमो यदि स नेष्यते ।

__________

वृत्ति:
यदि स क्रमः कालोऽनुग्रहे नापेक्ष्यते तदा गुर्वाद्युपायदीक्षादिसाधनापेक्षा नात्र भवेत् । सर्वेषां युगपदनुग्रहस्तदानीं प्रसज्यत इत्यर्थः। ततश्चावश्यं तत्परिहाराय केनापि निमित्तेन भवितव्यम्।
तच्चक्षुरादौ पटलादीनामिव मलस्य परिपाकात्मकमेवोक्तमिति न कश्चिद्दोषः॥

अधुना चतुर्थमपि प्रश्नं निवर्तयति


_________________________________________________________


प्रभुरत्र शिवो ज्ञेयः प्रभुत्वं किं तुटेर्मतम् ॥ ५.१७ ॥
प्रभुत्वं ज्ञस्वभावत्वादज्ञत्वान्न तुटिः प्रभुः ।
__________

वृत्ति:
यदुक्तं काल एव मोक्षहेतुरस्तु। किं शक्तिपातहेतुनात्र शिवेन कल्पितेनेति। तदयुक्तं हेतुत्वभेदात् । निमित्तं हि कालोऽत्राचेतनत्वादमावास्यादिर्यागादेरिव कर्ता तु भगवानमावास्यादियागे द्विजातिवच्चेतनत्वात् ।
न च निमित्ताभ्युपगमे कर्त्रभावप्रसङ्गो युक्तः। विरोधाभावात् । कर्त्रन्तराभ्युपगमे तु स युक्त एव। स एवाविरोधः कार्ये कर्तृनिमित्तयोर्दृष्टान्तेनोच्यते


_________________________________________________________


सति काले प्रभुत्वं स्यात्पद्मबोधे यथा रवेः ॥ ५.१८ ॥
न च कालादृते तत्र विकासः प्रतिपद्यते ।
तथापि भास्करः प्रोक्तो लोकेऽस्मिन्पद्मबोधकः ॥ ५.१९ ॥
कालोऽपि योग्यता सा चेद्द्योतकोऽप्युपचारतः ।

__________

वृत्ति:
दार्ष्टान्तिकेऽप्युच्यते


_________________________________________________________


एवं यद्यपि तुल्यत्वं कर्मणः काल एव सः ।
तथापि प्रभुरत्रेशः शक्तिपातस्य संस्थितः ॥ ५.२० ॥

__________

वृत्ति:
पशूनामशक्तत्वेनान्धादीनामिव पाशविमोक्षकर्तृत्वासम्भवात् ।
पाशानाञ्च जडत्वेन पटलादीनामिव स्वतः पशुभ्यो निवृत्त्यनुपपत्तेस्तत्पतिरेव प्रतिनियतकालापेक्षया चक्षुर्वैद्यादिरिव मोक्षकर्ता युक्त एव प्रोक्त इत्यदोषः।

अत्र शक्तेरनेकपुरुषप्रबोधकर्तृत्वादनेकत्वप्रसङ्गदोष इति पराभिप्रायः


_________________________________________________________

एका सती बहूनां सा कथं बोधं करोति चेत् ।

__________

वृत्ति:
सिद्धान्तस्तु


_________________________________________________________


बहूनामप्यदोषः स्याद्विभुत्वान्न निवार्यते ॥ ५.२१ ॥

__________

वृत्ति:
यतो व्यापकत्वेन बहूनामप्युपकारोऽस्याः शक्तेर्न निवार्यते। ततोऽयमदोष इति।

अथ प्रकरणार्थोपसंहारः


_________________________________________________________


एवं शक्तिसमायोगः प्रोक्तः सूक्ष्मोऽत्र शासने ।

__________

वृत्ति:
एवं शक्तिपातः प्रागुक्तः। सर्वप्रश्नशून्यो मया प्रोक्तोऽत्रेति। अत्र प्रसङ्गात्प्रश्नः


_________________________________________________________


गरुड उवाच
एवं तच्छक्तिसंयोगाद्दीक्षा यदि च संस्थिता ॥ ५.२२ ॥
दीक्षितोत्तरकालेऽपि तिरोभावः प्रदृश्यते ।
तिरोभावकरी शक्तिर्यदि तस्य न निर्वृतिः ॥ ५.२३ ॥
तथा करोतु स स्वामी यथासौ नान्यथा भवेत् ।

__________

वृत्ति:
एवमनेन क्रमेण विशिष्टात्परमेश्वरशक्तिसम्बन्धाद्यदि पुंसो दीक्षेति मोक्षहेतुरनुग्रहस्ततो दीक्षोत्तर कालमपि तच्छक्तिसम्बन्धस्य भावात्तिरोभावः समयोल्लङ्घनाद्यात्मको न भवेत् । दृश्यते चासौ ततस्तद्भावभावित्वस्य व्यभिचाराच्छक्तिपातस्यानुग्रहहेतुत्वासिद्धेः। यदुक्तं

तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा।
।ॄउओते{तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा
।Kइर् । १:२१ ब्.}

इत्येतत्पुनरप्ययुक्तमेव। अथानुग्रहहेतुरसाविष्यते यद्येवं तथा करोतु स शक्तिपातलक्षणं स्वमस्यास्तीति स्वामी यथासौ पुरुषो नान्यथा भवेन्न तिरोभावहेतुषु प्रवर्तत इत्यर्थः। न च तथा करोति तदानीमपि तिरोभावहेतुष्वनुष्ठानदर्शनात्तत्नानुग्रहहेतुः शक्तिपात इति पूर्वः पक्षः। अत्र सिद्धान्तः


_________________________________________________________


भगवानुवाच
तिरोभावगतानां सा पुरुषाणां शिवेच्छया ॥ ५.२४ ॥
न तिरोभावकर्तृत्वादुच्यते सा तिरोहिका ।
तिरोभावाय पातो न यतोऽनुग्रहधर्मिणी ॥ ५.२५ ॥

__________

वृत्ति:
इह तावत्तिरोभावगतानामपरिणतमलानां न सा शक्तिरनुग्राहिका संस्थितेति सम्बन्धः। नापि सा दीक्षा तेषामाचार्यैर्लोभाज्ञानादिभिः कृता शिवेच्छया तस्याः संस्थितत्वादित्युक्तम्। न तस्या ज्ञानं सम्भवतीति शूद्राणामुपनयनादिवदनधिकारिणां सा निष्फलैव।
तेषां तु तिरोभावकर्त्री तदानीमन्यैव तिरोहिका शक्तिः संस्थितेत्युच्यते।
यतस्तस्या नैव तिरोभावाय पातः सम्भवति अनुग्रहधर्मित्वादिति यदुक्तम्

तिरोभावकरी शक्तिर्यदि तस्य न निर्वृतिः
।ॄउओते{तिरोभावकरी शक्तिर्यदि तस्य न निर्वृतिः
।Kइर् । ५:२३ द्.}


इत्येतत्तावदसिद्धमेव। यद्येवमनुग्रहधर्मित्वात्कथं न सर्वेषामनुग्रहं विधत्त इति। तत्रोच्यते


_________________________________________________________


येनासन्नतमः कालस्तेनात्मानं प्रकाशयेत् ।

__________

वृत्ति:
येन कारणेन यस्यैव पुंसो मलपरिपाककालोऽसावासन्नस्तेन तस्यैवात्मानं प्रकाशयतीत्युक्तम्

कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृह इति।
।ॄउओते{कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः
।Kइर् । २:२९ द्.}

ततोऽयमप्यदोषः। यदुक्तं दीक्षोत्तरकालमपि सा शक्तिः कथं तिरोभावहेतुत्वेन संस्थितेति। तदप्ययुक्तम्। यतः


_________________________________________________________


प्रकाश्य याति विद्युद्वत्सा शक्तिः पुंप्रबोधिनी ॥ ५.२६ ॥

__________

वृत्ति:
पुंसस्तदानीं प्रतिबोधं मलक्षयात्मकं कृत्वा सा शक्तिरचिरेणैव कालेन विद्युद्वद्याति तस्माद्व्यापारान्निवर्त्तते। कृतस्य पुनः करणासम्भवादिति न्यायसिद्ध एवायमर्थ इति भावः।
दीक्षोत्तरं तु मोक्षप्राप्तिर्यावत्सामान्येन सा तस्याधिष्ठायकत्वेन स्थितेति न शक्तिपातस्यानुग्रहं प्रति व्यभिचारदोषः।
एवमपि दीक्षाया मोक्षव्यभिचारप्रसङ्गदोषस्तदुत्तरकालं तिरोभावदर्शनादिति। अत्राप्युच्यते


_________________________________________________________


यदि सर्वात्मना वायं दीक्षितोऽपि तिरोहितः ।
द्विविधेऽपि तिरोभावे स्थानप्राप्तिः क्वचिद्भवेत् ॥ ५.२७ ॥

__________

वृत्ति:
।च्रुx अदीक्षितस्तावत्सर्वात्मना तिरोहितोऽपि सन्कृतदीक्षस्तस्येत्युक्तम्।
यदि सम्यग्दीक्षितोऽप्ययं कदाचिद्दैवान्मानुषाद्वा प्रतिबन्धात्सर्वात्मना तिरोहितो वाशब्दादसर्वात्मना च तदास्यास्मिन् द्विविधेऽपि तिरोभावे क्वचिदिति कस्मिंश्चित्क्रव्यादयोन्यादौ समयातिक्रमफलप्राप्तिर्भवतीति। यदुक्तं श्रीमत्पौष्करे

समयोल्लङ्घनात्प्रोक्तं क्रव्यादत्वं शतं समाः। इति।
।ॄउओते{समयोल्लङ्घनात्प्रोक्तं क्रव्यादत्वं शतं समाः
णोत्त्रचेदिन् ।ড়ौ, बुत्= ।षर् । २५:२ द्.
Cf.। नोते अद् ।Kइर्V। १:१०.५.
ठे समे हल्f-वेर्से इसॄउओतेद्थेरे अन्दिन् ६:८.१२.}

न तु सर्वस्मिन्समयातिक्रमे वक्ष्यमाणैः प्रायश्चित्तैः क्षपित इति क्वचिद्ग्रहणम्। किमत इत्युच्यते।


_________________________________________________________


तत्र स्थितस्य तस्येह वासना सैव जायते ।
तद्युक्तस्य विमोक्षः स्यादात्मनो निर्विकल्पकः ॥ ५.२८ ॥

__________

वृत्ति:
तत्र समयातिक्रमफलभोगस्थाने क्रव्यादयोन्यात्मनि पिशाचादिशरीरेऽप्यवस्थितस्य समयातिक्रमकर्तुर्दीक्षितस्य वासना सैवेति। यैवानतिक्रान्तसमयानां शिवभक्त्यादिहेतुर्वासना दृष्टा सैवाभिव्यज्यते।
अतश्च दीक्षितत्ववासनायोगात्तत्प्रायश्चित्तफलं काम्यवद्दीक्षाफलविघ्नभूतं भुक्त्वासावात्मा मोक्षं दीक्षाफलं प्राप्नोत्येव। यदुक्तम्

प्रायश्चित्तविशुद्धस्य गतिः शुद्धा प्रकीर्तिता। इति।
।ॄउओते{प्रायश्चित्तविशुद्धस्य गतिः शुद्धा प्रकीर्तिता
षोउर्चे उन्क्नोwन्.}

तथा हि


_________________________________________________________


अनेन क्रमयोगेन तिरोभावगतो भवेत् ।
आनर्थक्यप्रसङ्गः स्याद्यदि मुक्तिर्न सा भवेत् ॥ ५.२९ ॥

__________

वृत्ति:
पूर्वं मलपरिपाकस्ततः शक्तिपातस्ततो दीक्षेत्यनेन क्रमयोगेन यो दीक्षितः कथञ्चित्तिरोभावगतो भवेत्तस्य यदि समयातिक्रमफलभोगादनन्तरं न तद्दीक्षाफलं मुक्तिर्भवेत् ।
ततस्तद्दीक्षाक्रमस्यानर्थक्यं प्रसज्येत। न च परमेश्वरव्यापारत्वात्तस्यासावुपपद्यत इति अवश्यं तत एव तस्य तदानीं मुक्तिरभ्युपगन्तव्येति न दीक्षाया अपि स्वकार्यव्यभिचारप्रसङ्गदोष इति।
ननु तुल्ये शक्तिपाते दीक्षायोगे वा कथं कश्चिदेवोत्तरकालं तिरोभावेन युज्यते नान्य इत्यत्रोच्यते।


_________________________________________________________


मन्दा मन्दतरा शक्तिः कर्मसाम्यविवक्षया ।

__________

वृत्ति:
कर्मणा मलपरिपाकलक्षणेन यत्साम्यं मन्दत्वं मन्दतरत्वं वा तस्य विवक्षाहेतुत्वाद्विवक्षा ज्ञानमेव तया हेतुभूतया मन्दा मन्दतरा वा शक्तिः पारमेश्वरी दीक्षा वा यस्योपतिष्ठते तस्य प्रत्यवाययोगो भवत्येव। यस्य तु मलपरिपाकलक्षणेन कर्मणा तीव्रेण तीव्रतरेण वा साम्यं तद्विवक्षया तीव्रा तीव्रतरा वा शक्तिः पतति तस्य न प्रत्यवायः कथमपि सम्भवतीत्युक्तं भवति।
एवमनुग्रहशक्तेर्मन्दत्वोपचारेण प्रत्यवायहेतुत्वं मन्तव्यम्। नान्यथेत्युच्यते


_________________________________________________________


न पुनस्तादृशी शक्तिः क्षीरवत्परिणामिनी ॥ ५.३० ॥
यतः शक्तिमतः शक्तिः कृत्यसंस्थानभेदगा ।
द्विजादिवर्णनिश्रेणी सा च मोचयति स्फुटम् ॥ ५.३१ ॥

__________

वृत्ति:
न पुनरनुग्रहशक्तिरेव तिरोभावात्मतां गच्छतीत्युपपद्यते यतः परमेश्वरस्य शक्तिः कृत्यस्य यत्संस्थानं स्थितिः तेनैव भेदं प्राप्ता न मुख्यत इत्युक्तम्।

ईशः सदाशिवः शान्तः कृत्यभेदाद्विभिद्यत इति।
।ॄउओते{ईशः सदाशिवः शान्तः कृत्यभेदाद्विभिद्यते
।Kइर् । ३:१३ द्}

ततश्च परमेश्वरवत्साप्यपरिणामिन्येव। यदुक्तम्

परिणामोऽचेतनस्य चेतनस्य न युज्यते। इति।
।ॄउओते{परिणामोऽचेतनस्य चेतनस्य न युज्यते
।Kइर् । २:२६ ब्.}

सा च द्विजादीनां वर्णानां परमपदं मोक्षाख्यं गच्छतां निश्रेणी सोपानपङ्क्तिः ऊर्ध्वगतिहेतुत्वादिति। एवं

तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा
।ॄउओते{तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा
।Kइर् । १:२१ ब्.}


इत्येतत्सूक्तमेवेति॥ एवं समाप्तश्च पञ्चमोऽध्यायः॥

।Cओलो
इति नारायणकण्ठात्मजभट्टरामकण्ठविरचितायां श्रीमत्किरणवृत्तौ पन्चमं प्रकरणम्॥

Cःाড়्ट्Eऋ ६


अथोपायपदार्थस्य परीक्षार्थं प्रश्नपूर्वकं प्रकरणान्तरम्


_________________________________________________________


गरुड उवाच
सर्वानुग्राहकः प्रोक्तः शिवः परमकारणः ।
द्विजातयस्तु ये वर्णा न्यूनाधिकतया स्थिताः ॥ ६.१ ॥
संस्कारोऽपि यदैवं स्यात्फलमेवं न किं भवेत् ।
संस्कारः सदृशस्तेषां न्यूनाधिकगतिः कथम् ॥ ६.२ ॥

__________

वृत्ति:
अत्र सूत्रपदार्थप्रकरणसम्बन्धाः प्राग्वद्द्रष्टव्याः। वाक्यात्मकस्तु गुरुणा दीक्षितो यदेत्यादिभिरनेकविधः।
।ॄउओते{गुरुणा दीक्षितो यदा
।Kइर् । १:२१ .}
पाटलिकस्तु पूर्वपटलोपसंहार एव दर्शित इति।
अयं चात्र प्रश्नार्थः---परमेश्वरस्तावन्मलपरिपाकादनु पश्चात्संस्कार्यतया सर्वेषां ग्राहक इत्युक्तम्।
एतेषां मध्याद्द्विजातयस्त्रयो वर्णाः, नैकः। यदुक्तम्

मातृतः प्रथमा जातिरौपनायनिकापरा।

ब्रह्मक्षत्रविशां येन तेनोक्तास्ते द्विजातयः॥ इति।
।ॄउओते{मातृतः प्रथमा।देव्दोत्तेनोक्तास्ते द्विजातयः
षोउर्चे उन्क्नोwन्.}

जातिस्वाभाव्यादेवगोगवयगर्दभादिवत्सामान्यशास्त्रेषूत्तममध्यमन्यूनत्वेन स्थितास्तेषां च यः सामान्यशास्त्रविहितो गर्भाधानादिरष्टचत्वारिंशद्भेदभिन्नः संस्कारः तज्जातेरेव पतितत्वमात्रनिवृत्तिफलो वेदविद्भिरिष्यते तच्छरीरस्य वा। यदाह मनुः

कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च।

गार्भैर्होमैर्जातकर्मचौलमौञ्जीनिबन्धनैः॥ इति।
।ॄउओते{कार्यः शरीरसंस्कारः।देव्दोत्॰मौञ्जीनिबन्धनैः
{ंनुस्मृति} २:२६.}

ततश्चायमपि दीक्षाख्यः संस्कारः संस्कारत्वा देवमिति जातेः शरीरस्य वा स्यात् । तथा च फलं तद्वदेवास्यानुग्रहात्मकं न किं भवेत् । नैव किञ्चिद्भवेदिति। ततश्च

गुरुणा दीक्षितो यदा।
सर्वज्ञः स शिवो यद्वद्
।ॄउओते{गुरुणा दीक्षितो यदा। सर्वज्ञः स शिवो यद्वत्
।Kइर् । १:२१ च्.}

इत्यस्याः श्रुतेर्विरोध इत्यर्थः। यतो वैदिकेनायं संस्कारः सदृशस्तेषां ततो वैदिकात्न्यूना गतिरस्माच्चाधिकेत्येतत्कथम्। नैवोपपद्यत इति प्रश्नः। सिद्धान्तस्तु


_________________________________________________________


भगवानुवाच
न जातेर्न शरीरस्य संस्कारः प्राणिनो मतः ।

__________

वृत्ति:
नायं संस्कारो जातेः शरीरस्य वा मतः। अपि तु प्राणिनश्चेतनस्यैवानुग्रहात्मकः तथाश्रुतेरिति न साधर्म्यमात्रेणान्यथा कल्पनीयः। तन्नैष दोष इति।
ये त्वयमपि संस्कारत्वाज्जातेः शरीरस्य वा संस्कारो भवन्न दृष्टेनैव रूपेण श्राद्धादि पितृपितामहादेरिव पुरुषस्योपकारो भविष्यतीति कल्पयन्ति तान्प्रत्युच्यते

_________________________________________________________


यदि जातेस्तदेकस्मिन् दीक्षितेऽखिलदीक्षणम् ॥ ६.३ ॥
तेन जातेर्न वक्तव्यो जडत्वान्न तनोर्मतः ।
चिद्रूपानुग्रहः प्रोक्तः सर्वानुग्राहकः शिवः ॥ ६.४ ॥

__________

वृत्ति:
जातेः सर्वपुरुषगतत्वेनाविशेषादेकपुरुषमोक्षोद्देशेन संस्कारे सर्वपुरुषमोक्षप्रसङ्गः। शरीरस्य तु पुरुषभेदेन भेदादेतत्प्रसङ्गाभावेऽपि जडत्वान्निष्फल एव संस्कारः प्रोक्तः।
अथ तद्द्वारेण चेतनस्यैवासौ संस्कार इत्युच्यते यद्येवमविरोधः। यतश्चिद्रूपानुग्रहः प्रोक्तोऽस्माभिरिति।

अत्रैव परीक्षान्तराय प्रश्नः


_________________________________________________________


गरुड उवाच
सर्वानुग्रहकर्तृत्वाद्बालबालिशभोगिनाम् ।
कर्तव्योऽनुग्रहो देव स च संस्कारपूर्वकः ॥ ६.५ ॥
संस्कारेणैव मुक्तिः स्यात्प्रोक्ता तन्त्रे यदा तदा ।
क्रियाज्ञानव्रतादीनामुपायानामहेतुता ॥ ६.६ ॥

__________

वृत्ति:
इह हि परमेश्वरः सर्वेषामेव मलपरिपाकात्पश्चात्संस्कार्यतया ग्राहकः। तेषां मध्यात्

आषोडशाद्भवेद्बालः
।ॄउओते{आ षोडशाद्भवेद्बालः
षोउर्चे उन्क्नोwन्. ंोरे ओf थे वेर्से इसॄउओतेदिन् थे
।ंर्ग्Vड् । अद् ।Vড়्। १०:१४, प्प्.२६६--७ अन्दद्
।ंत् ।Vড়्। १२:५ --६ , प्.३३९, wहेरे
Bहत्तोब्सेर्वेस्थतितप्पेअर्स्(wइथ्सोमे
दिffएरेन्चेस्) इन् थे {शब्दकल्पद्रुम}
(स्.व्. {बाल}) अत्त्रिबुतेद्तो Bहरत.}

इति स्मृतेर्बालो बालोऽप्राप्तपदवाक्यप्रमाणशास्त्राभ्यासकालः कथ्यते। बालिशस्तु न ततोऽपि न्यूनवर्षः शक्तिपातनिश्चयाभावादात्मनोऽनधिकारित्वादसंस्कार्य एवासौ यतः। अपि तु स्त्रीशूद्रादिवत्पदवाक्यप्रमाणशास्त्रश्रवणायोग्यो बालिश इव बालिशः कथ्यते।
भोगी पुनर्न भोगनिष्ठ एव। तस्य मलपरिपाकाभावेन संस्कारानधिकारात् । यदुक्तम्

कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः। इति।
।ॄउओते{कृत्वा तच्छक्तिसंरोधं क्रियते भवनिःस्पृहः
।Kइर् । २:२९ द्.}


श्रीमद्विद्याधिपतिरप्याह

ते त्वच्छक्त्या नैव नियुक्ताः किल नूनं येषां भोगे संसृतिकर्तर्यभिलाषः।

किं ते तीर्णा भीममहाम्भोनिधिपारं ये यादोभिर्लुप्तशरीराः प्रतरन्त इति।
।ॄउओते{ते त्वच्छक्त्या।देव्दोत्ये यादोभिर्लुप्तशरीराः प्रतरन्ते
ড়्रोबब्ल्य्fरों थे लोस्त्{ंानस्तोत्र}, थ्रेए
वेर्सेसोf wहिछरे ॠउओतेदिन् {टन्त्रालोक} १४:१०--१२. ठेसे
अरे अल्सो इन् {मत्तमयूर} मेत्रे अन्धवे अ
सिमिलर्र्हेतोरिचल्स्त्रुच्तुरे. (आ Vइद्याधिपति इस्
अल्सो चितेदद् ।ंोक्स् ६९.)}

अपि तु श्रुतपदवाक्यादिशास्त्रः संप्राप्ततदभ्यासकालश्चैश्वर्यव्याक्षेपात्त्वकृततदभ्यासो राजा दिरेवोच्यते। तेषां मलपरिपाके सति अवश्यमनुग्रहः शक्तिपातात्मकः कर्तव्यः परमेश्वरेण। स च तथाभूतोऽनुग्रहः संस्कारस्य दीक्षात्मनः पूर्व एव पूर्वोक्तो हेतुरित्यर्थः। ततश्च

तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा।

सर्वज्ञः स शिवो यद्वदिति
।ॄउओते{तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा।
सर्वज्ञः स शिवो यद्वत्
।Kइर् । १:२१.}


श्रुत्यात्रागमे संस्कारेणैव बालादेरिव
प्रोक्ता सर्वस्य मुक्तिः स्यादिति दीक्षोत्तरकालमनुष्ठेयत्वेनोक्तानामस्माकं ज्ञानादीनां निष्प्रयोजनत्वमेव पदवाक्यप्रमाणसंस्काररहितत्वेनेहापि ज्ञानाद्ययोग्यानां बालादीनां संस्कारादेव मुक्तेः सिद्धत्वादित्यस्माकमपि पुरुषार्थानुपायभूतमेतत्क्रियाज्ञानाद्यनुष्ठानमकर्तव्यमिति प्रश्नः। सिद्धान्तस्तु


_________________________________________________________

भगवानुवाच
ये यथा संस्थितास्तार्क्ष्य तथैवेशः प्रसादकृत् ।

__________

वृत्ति:
ये पदवाक्यादिसंस्कारेण व्यवस्थिता ये च प्रकारान्तरेण बालादयः तेषां सर्वेषामेव भगवान्मलपरिपाकपरीक्षया तत्प्रकारानुसारेण प्रसादं करोति। न तु ज्ञानायोग्यान्परित्यजतीत्यर्थः। तथा हि


_________________________________________________________


केचिच्चात्र क्रियायोग्यास्तेषां मुक्तिस्तथैव हि ॥ ६.७ ॥
ज्ञानयोग्यास्तथा चान्ये चर्यायोग्यास्तथापरे ।
एवं येषां यथा प्रोक्तो मोक्षस्तेनेशयोजनात् ॥ ६.८ ॥

__________

वृत्ति:
येषां मुक्तिः सदा शिवत्वलक्षणा तथैव दीक्षाप्रकरणेनैवोक्ता तेषां मध्यात्केचिदत्र दीक्षोत्तरस्मिन्काले क्रियायां यागात्मिकायां जपबाह्यमानसभिन्नायामेव योग्या बाला भोगिनश्च न ज्ञाने। ननु ज्ञानं विना क्रियायां योग्यतैव न सम्भवतीति। यदाहुः
ज्ञात्वा चानुष्ठानमिति।
।ॄउओते{ज्ञात्वा चानुष्ठानम्
षोउर्चे उन्क्नोwन्. Cf. ञयरथ अद्{टन्त्रालोक} १५:११:
ज्ञात्वा हि अनुष्ठानं भवेदिति भावः}
सत्यम्। तत्तु क्रियाक्षिप्तत्वाज्ज्ञानं शास्त्रैकदेशमात्रविषयं
क्रियैवोक्तमित्यविरोधः। ये तु प्रोक्तेभ्योऽन्ये पदवाक्यप्रमाणकुशलास्ते ज्ञाने व्याख्याने च तदर्थ विचारे च योग्यत्वादाचार्या एवाधिक्रियन्त इत्यर्थः। ये त्वपरे बालिशत्वेनोक्ताः क्रियायामप्ययोग्यास्ते चर्यायामेव कृच्छ्रचान्द्रायणादिव्रतरूपायां योग्यत्वादधिक्रियन्त इत्येवमीशनियोजनाद्दीक्षानन्तरंतेन भगवता येषां क्रियाज्ञानाद्यधिकारिणां यथा नित्यनैमित्तिकानुष्ठानप्रकारेण मोक्षः प्रत्यवायफलेभ्यः प्रोक्तस्तैस्तथैवानुष्ठेय इत्यध्याहारः। अन्यथा

समयोल्लङ्घनात्प्रोक्तं क्रव्यादत्वं शतं समाः। इति।
।ॄउओते{समयोल्लङ्घनात्प्रोक्तं क्रव्यादत्वं शतं समाः
।षर् । २५:२ द्; बुत्च्f. ।Kइर्V। ५:२७.६ अन्द्१:१०.५ अन्द्थे
fओओत्नोते तो थे त्रन्स्लतिओनोf थे लत्तेर्.}

न प्रत्यवायफलेभ्यस्तेषां मोक्ष इत्यर्थः।
एवं तावद्यथाधिकारं ज्ञानादीनां चोदितत्वात्सर्वानुष्ठेयत्वदोषः परिहृतः।
यत्तूक्तं किमर्थमनुष्ठीयन्त इति तत्रोच्यते


_________________________________________________________

ज्ञानादीनामुपायानां दीक्षा कारणमिष्यते ।
दीक्षयैव न मोक्षः स्यादुपायः स नियामकः ॥ ६.९ ॥

__________

वृत्ति:
न ज्ञानादीनां निष्प्रयोजनत्वमत्रोपायत्वेन श्रुतत्वात् । केवलं दीक्षापूर्वत्वेन तेषां श्रुतत्वात्न दीक्षया कार्यभूतो बन्धमोक्षः तस्य तयैवासम्पादितत्वात् । अपि तूपायः स नियामक इति येषां यथा बन्धनानां मोक्षार्थं विच्छेदात्मको नियमो दीक्षया न कृतः तेषां केषाञ्चिदेव स ज्ञानादिरुपायो नियामको विच्छेदको हेतुरुक्तः। तथा हि


_________________________________________________________


सर्वानुग्रहकर्तृत्वादुपायास्ते प्रकीर्तिताः ।
एकः कस्मादुपायो न प्रोक्तस्तेन यदन्यथा ॥ ६.१० ॥

__________

वृत्ति:
इह हि वक्ष्यमाणयुक्त्यारब्धकार्यकर्मोपभोगोपरोधेनासद्योनिर्वाणदीक्षया
।ॄउओते{वक्ष्यमाणयुक्त्या
।Kइर् । ६:२० अन्द्चोम्मेन्तर्य्.}
सर्वात्मना मलादिविच्छेदशिवत्वव्यक्यात्मकोऽनुग्रहो यो भगवता न कृतः सोऽपि तेन तथैवोपदेशद्वारेण कर्तव्यः।
ततश्च तस्मिन्दीक्षया परिशिष्टे तावत्यपि मलच्छेदादौ ते ज्ञानादय उपायाः प्रकीर्तिताः। तैरुपायैः प्रत्यहं क्रमेण तथा मलादिनिवृत्तिः शिवत्वव्यक्तिश्च कर्तव्या दीक्षितैर्यथा नैवारब्धकार्यकर्मविरोधो जायते।
नापि पुनस्तथाभूतबन्धनिवृत्तेः शिवत्वव्यक्तेश्च कारणान्तरापेक्षेति यद्येवं नाभिमतं परमेश्वरस्य स्यात्तदैक एव कस्मादुपायो दीक्षाख्यस्तेन नोक्तः।
यदिति यस्मादन्यथेत्यनेकः प्रोक्तो मोक्षो वाथ चतुष्टयादित्यादिश्रुतिभिः।
।ॄउओते{मोक्षो वाथ चतुष्टयात्
।ंत् ।Vড়्। २६:६३ .}
तस्मादेतद्गम्यते---यो दीक्षया न कृतोऽनुग्रहस्तत्र ज्ञानादीनामुपायतेति। एवं च। यदुक्तम्

क्रियाज्ञानव्रतादीनामुपायानामहेतुता। इति।
।ॄउओते{क्रियाज्ञानव्रतादीनामुपायानामहेतुता
।Kइर् । ६:६ द्.}
संस्कारेणैव मुक्तिः स्यादिति च,
।ॄउओते{संस्कारेणैव मुक्तिः स्यात्
।Kइर् । ६:६ .}

तदसिद्धं दर्शितमेव विशिष्टाधिकारविषयत्वेन चैतत्सिद्धसाधनमित्युच्यते

_________________________________________________________


समयांश्चाङ्गनादीनामशक्तत्वाद्विशोधयेत् ।
अज्ञत्वान्न च दोषोऽस्ति

__________

वृत्ति:
बालिशास्तावदत्यन्ताज्ञत्वेन
।ॄउओते{टेस्तिमोनिउम्: fरों बालिशास्तावदत्यन्ताज्ञत्वेन
उप्तो अन्दिन्च्लुदिन्ग्दीक्षायामनधिकार एव
इसॄउओतेद्(प्रेfअचेद्ब्य्तथा चोक्तं श्रीमत्किरणवृत्तिकारेण
भगवता रामकण्ठगुरुणा
’’समयाश्चेत्यादि।देव्दोत्ऽऽ)
ब्य्णिर्मलमणि (=।णिर्मल) इन् हिस्{ড়्रभाव्याख्या} ओन् थे
{Kरियाक्रमद्योतिका}, प्प्.३४६--७.}
चर्यायोग्या इत्युक्तम्। ये तु ज्ञत्वेऽपि व्याधिना जरया वा अत्यन्तमशक्तास्तेषां वृद्धव्याधिताङ्गनादीनां नित्यतया वश्यानुष्ठेयत्वेन चोदितत्वाद्ये समयशब्देनोक्ताः क्रियाज्ञानचर्यात्मका उपायास्तान्विशोधयेदाचार्यो दीक्षयैवेत्युक्तं क्वचित्परमेश्वरेण

तेषां निर्बीजिका दीक्षा समयादिविवर्जिता। इति।
।ॄउओते{तेषां निर्बीजिका दीक्षा समयादिविवर्जिता
{ष्वच्छन्दतन्त्र} ४:८८ ब्.}


न त्वत्र निषिद्धाः समयत्वेन मन्तव्याः। तेषां देवगुर्वग्निद्रोहात्मनां पातकोपपातकमहापातकभेदेन कृच्छ्रचान्द्रायणादिप्रायश्चित्तक्षपणीयत्वेन वक्ष्यमाणत्वात् ।
।ॄउओते{कृच्छ्रचान्द्रायणादिप्रायश्चित्तक्षपणीयत्वेन वक्ष्यमाणत्वात्
।Kइर् । अध्यायस्४३ अन्द्४४.}
ततश्चाज्ञत्वादित्यत्यन्तशक्तिवैकल्येन ज्ञानक्रियाद्यननुष्ठानेऽपि न दोषः प्रत्यवायात्मकस्तेषामस्तीति।
चशब्दाद्ये पूर्वं तदनुष्ठितवन्तोऽपि पश्चादशक्त्या नानुतिष्ठन्ति तेषामपि न दोषः।
यतोऽर्थी शक्तो विद्वान् शास्त्रेणापर्युदस्तः कर्मण्यधिक्रियत इत्याह
।ॄउओते{अर्थी शक्तो विद्वान् शास्त्रेणापर्युदस्तः कर्मण्यधिक्रियते
़ुओतेदल्सो अद् ।षर् । १:२, प्.६.
Bहत्त्नोतेस्(अद्लोच्.) थतितप्पेअर्सस्नुम्बेर्७१९ ओf
अ {ळौकिकन्यायसाहस्री}. Cf. {शाबरभाष्य} १.३.२५.}


_________________________________________________________

ज्ञत्वाद्दोषो महान्भवेत् ॥ ६.११ ॥
तेन तेषां विमुक्तिः स्याद्दीक्षया भक्तियोगतः ।
येऽत्र शक्ता न तेषां तु शोध्यास्तेषां प्रकाशयेत् ॥ ६.१२ ॥

__________

वृत्ति:
ज्ञत्वमत्र शक्तत्वमेव। यथाह येऽत्र शक्ता न तेषां दीक्षया शोध्याः। किं तु नित्यानुष्ठेयत्वेन प्रकाशयेदिति। ततश्च शक्तत्वे सति ये नित्याद्यनुष्ठानं न कुर्वन्ति तेषां महान्दोषः प्रायश्चित्तलक्षणो भवेत् ।
नाशक्तानामिति। तर्हि किं तैर्नित्यमनुष्ठेयम्।
लौकिकेन रूपेण शिवधर्मोदितेन वा यथाशक्ति देवगुरुतद्भक्तपरिचरणादिकमेव स्वतः पुत्रभृत्यादिप्रेषणेन वा। तदेव च तेषां प्रागुक्तज्ञानादिकृत्यं साधयति। यथाह भक्तियोगत इति।
अन्यथा तेषामत्यन्तमूढत्वेन तिरश्चामिव शक्तिपातकार्यस्य भक्त्यादेरनिश्चयाद्दीक्षायामनधिकार एव। न च पुत्रादेस्तत्संस्कारार्थितया तेषां शक्तिपातानुमानं युक्तं व्यधिकरणत्वात् ।
न हि धवे धूमः खदिरे स्वकारणमग्निमनुमापयतीति।
कारणं च शक्तिपातो भक्त्यादीनामित्युक्तम्। न त्वर्थितादेः। विशेषतो भिन्नाधिकरणस्य स्नेहसंस्कारपूर्वकत्वेनैव तस्य सिद्धेः। यदाहुः

इष्टं धर्मे नियोजयेदिति
।ॄउओते{इष्टं धर्मे नियोजयेत्
षोउर्चे उन्क्नोwन्.}


न ततः शक्तिपातानुमानं युक्तं प्रतिबन्धाभावादिति। भक्तियोगत एव तेषां तिर्यग्वैलक्षण्येन ज्ञानसिद्धेरत्यन्ताशक्तत्वेन च शास्त्रचोदितानुष्ठानासम्भवादप्राप्तदीक्षाणामिवोपासकानां भगवद्विषयस्तुतिनमस्कारसपर्याद्येव नित्यमनुष्ठेयं युक्तमित्यविरोधः।
येनैव तेषां ज्ञानाद्यननुष्ठेयमित्युक्तं तेन कारणेन यदुक्तम्

क्रियाज्ञानव्रतादीनामुपायानामहेतुता। इति
।ॄउओते{क्रियाज्ञानव्रतादीनामुपायानामहेतुता
।Kइर् । ६:६ द्.}

संस्कारेणैव मुक्तिः स्यात्
।ॄउओते{संस्कारेणैव मुक्तिः स्यात्
।Kइर् । ६:६ .}

इति च तस्मिन्विषये सिद्धसाधनत्वादयुक्तमिति।


अथोपसंहारः


_________________________________________________________

एवं ज्ञानादिकं सर्वं तच्छक्तस्य प्रकाशयेत् ।
अन्यथा स्थितिभङ्गः स्यात्स्थितिश्चोक्ता शिवागमे ॥ ६.१३ ॥
तदभावे न किञ्चित्स्यात्तेनायं नियमः स्थितः ।
सर्वानुग्राहकत्वेन स्थित्युपायविवक्षया ॥ ६.१४ ॥

__________

वृत्ति:
ज्ञानयोग्यस्य ज्ञानं नित्यानुष्ठेयतया प्रकाशयेदाचार्यः।
क्रियादियोग्यस्य तु क्रियादीनि। सोऽपि तथैवानुतिष्ठेत् । अन्यथागमविहिताया नित्याद्यनुष्ठानात्मिकायाः स्थितेरननुष्ठानात्भङ्गः स्यादेव। एवं स्थितेर्भङ्गे जाते सति न किञ्चित्स्यादिति वक्ष्यमाणप्रायश्चित्ताक्रान्तत्वात्तस्य न दीक्षाफलं समनन्तरं स्यात् ।
प्रायश्चित्तविघ्नाक्रान्तत्वादिति तेन कारणेनायं ज्ञानादीनां नित्यानुष्ठेयतया पुरुषार्थत्वेन नियमः स्थित इति।
तदननुष्ठाने तु तेषां प्रायश्चित्तफलभोक्तृता। तदन्ते तु विशुद्धज्ञानकेवलित्वेन परमेश्वरादनुग्रहस्तावतोऽपि मलस्य द्रव्यत्वेन स्वतो निवृत्त्यसंभवादित्येवं स्थित्युपायविवक्षयापि सर्वेषां परिणतमलानामनुग्राहको भगवानित्यदोषः।

अत्रैव परीक्षान्तराय प्रश्नः


_________________________________________________________


गरुड उवाच
पाशविश्लेषणार्थं तु दीक्षापि क्रियते किल ।
विश्लेषोऽपि न दृश्येत अदृष्टत्वात्कथं वद ॥ ६.१५ ॥

__________

वृत्ति:
दीक्षा पाशविश्लेषहेतुः। अपिशब्दाच्छिवत्वव्यक्तिहेतुश्च न भवति क्रियात्वाद्दर्शनान्तरदृष्टज्योतिष्टोमब्रह्महत्यादिक्रियावत् । कर्मणां च पाशानां दीक्षया विश्लेषो न सम्भवेत् ।
शरीरान्तरभोग्यत्वे सति ततो देशकालदूरवर्तित्वेन दृष्टत्वात् ।
खड्गविच्छेदो दूरस्थितभटादीनामिवेति प्रश्नार्थः। सिद्धान्तस्तु


_________________________________________________________


भगवानुवाच
पाशस्तोभात्क्षयः सिद्धः संसिद्धैः सोऽपि शम्बरैः ।
शम्बराणामचिन्त्यत्वाद्यथा मूर्तविषक्षयः ॥ ६.१६ ॥
__________

वृत्ति:
पाशानां दुष्कृतकर्मरूपाणां स्तोभात्क्षयः। यस्मात्पाशस्तोभकर्म प्रायश्चित्तात्मकमुच्यते तस्मात्क्षयो दुष्कृतलक्षणानां कर्मणां येन भवतां सिद्धः तेनात्र प्रथमो हेतुरनैकान्तिक इत्यर्थः।
असिद्धश्चाकर्मत्वाद्दीक्षाया मन्त्रशक्तिर्ह्याचार्यव्यापाराभिव्यक्ता दीक्षेत्युक्तम्।
मन्त्राणां च सम्यक्सिद्धानामचिन्त्यशक्तित्वाद्विषक्षयादिरिव सोऽपि पाशविश्लेषादिः सम्भाव्यत इत्यदोषः।
लोकेऽप्याहुः

अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः। इति।
।ॄउओते{अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः
Oच्चुर्सल्सो इन् {ऋअत्नावली} आच्त्२, प्.३९ अन्दिसॄउओतेदद् ।ंत् ।Vড়्।
७:४९, प्.२४९ अन्दद् ।Kइर्V। ३:११.}


द्वितीयोऽपि हेतुरनैकान्तिक इत्युच्यते


_________________________________________________________


नामसंकीर्तनादेव यथा कश्चित्प्रसाध्यते ।
दूरस्थो मन्त्रमुख्यैस्तु तद्वत्कर्मक्षयस्त्विह ॥ ६.१७ ॥

__________

वृत्ति:
अत्र दूरस्थितोऽपि कामिन्यादिरर्थः तन्नाम्ना सङ्कीर्त्तितमात्रेण मन्त्रविशेषैः साध्यमानो दृष्टः। अशुभसूचकैश्च कर्मभिरकाल एव पुष्पफलादिः। यदाहुः

अकालजं पुष्पफलं शीतमुष्णमकालजम्।

अकालजो नदीवेगो सूचयन्ति महद्भयम्॥ इति।
।ॄउओते{अकालजं पुष्पफलं।देव्दोत्सूचयन्ति महद्भयम्
षोउर्चे उन्क्नोwन्.}


तथैव शरीरान्तरभोग्यस्वकर्माकाल एव मन्त्रबलादुपस्थापितमुपभुक्तत्वात्तत्रैव क्षयमेष्यतीति न दोषः कश्चित् ।

अत्रैव प्रश्नान्तरम्

_________________________________________________________


गरुड उवाच
अशेषपाशविश्लेषो यदि देव स दीक्षया ।
जातायामर्थनिष्पत्तौ कथं स्याद्वपुषः स्थितिः ॥ ६.१८ ॥

__________

वृत्ति:
यदि दीक्षया कर्मादिसर्वपाशविच्छित्तिर्भवेत्ततो निमित्ताभावाद्दीक्षितानां शरीरं न भवेत् । भवच्च दृष्टम्। ततो दीक्षायां सर्वपाशक्षयश्रुतिरग्निना सिञ्चेदितिश्रुतिवत्प्रत्यक्षादिबाधितत्वादप्रमाणमिति पूर्वः पक्षः।
।ॄउओते{अग्निना सिञ्चेत्
आनोल्देxअम्प्ले, थिसोच्चुर्सल्सो, ए.ग्., इन् {शाबरभाष्य} ३.२.४.}
सिद्धान्तस्तु


_________________________________________________________


भगवानुवाच
जातायां घटनिष्पत्तौ यथा चक्रं भ्रमत्यपि ।
पूर्वसंस्कारसंसिद्धं तथा वपुरिदं स्थितम् ॥ ६.१९ ॥

__________

वृत्ति:
घटस्य निष्पत्त्यर्थं हि चक्रभ्रमणं तस्यां जातायां सम्पन्नायामपि यथा तत्संस्कारत एव चक्रभ्रमणं दृश्यते तथा सद्योनिर्वाणदीक्षायां कर्मादिसर्वपाशक्षयेऽपि तत्संस्कारेणैव दीक्षितानां कियन्तं कालं शरीरं तिष्ठतीति निमित्ताभावादित्यस्य हेतोस्तत्कालनैमित्तिकाभावासिद्धावनैकान्तिकत्वान्न प्रोक्तदीक्षाफलश्रुतिबाधक्षतिरिति। तदिदमाहुः

तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धृतशरीर इति
।ॄउओते{तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धृतशरीरः
।षन्ख् । ६७ द्.}

।नोइन्देन्त्
असद्योनिर्वाणदीक्षाविषये तु सर्वपाशक्षयाश्रुतेरयं हेतुरसिद्धत्वादेवाबाधक इत्युच्यते


_________________________________________________________

अनेकभविकं कर्म दग्धबीजमिवाणुभिः ।
भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः ॥ ६.२० ॥
देहपाते विमोक्षः स्यात्सद्योनिर्वाणदापि वा ।
कार्याणुभिः सदा सिद्धैस्तेन ते शिवयोजकाः ॥ ६.२१ ॥

__________

वृत्ति:
सद्योनिर्वाणदीक्षायां तावत्सर्वाण्येव प्रागर्जितानि कर्माणि मन्त्रशक्तितः फलाप्रसवेनाप्यकाल एव भोगतः क्षयं नीयन्त इत्युक्तम्। असद्योनिर्वाणदीक्षायां तु सद्योमुमुक्षोरनधिकारान्न तस्य शरीरस्य विनाशाय मन्त्राः प्रयुज्यन्ते। अपि तु रक्षणायैव यस्माद्येनेदं कर्मणा यथा च शरीरमारब्धं तस्य भोगेनैव क्षयः। नानयेति। यत्तु दीक्षोत्तरकालमनुष्ठेयत्वाद्भविष्यदित्युक्तं कर्म तत्संस्कारारम्भसामर्थ्याभावद्वारेणानया संरुद्धम्। यतः प्रकृतौ कर्मणां संस्कारः कार्य इत्युक्तम्।
अतश्च सर्व एव मन्त्रशक्त्या दीक्षितं प्रति दग्धबीजाः सम्पन्नास्ते कर्मविशेषाः। न पुनस्तत्संस्कारपात्रतां यान्तीति सद्योनिर्वाणदीक्षायाञ्चाराधितमन्त्रसामर्थ्यतस्तत्क्षयेऽपि चक्रभ्रमवद्धृतशरीरावस्थितेरुक्तत्वान्न दीक्षानन्तरमेव शरीरपातदोष इति।

अत्र प्रश्नः


_________________________________________________________


गरुड उवाच
पाशमुक्तस्य यच्चिह्नं स्वल्पमप्यत्र किं न तत् ।
दृश्यते भक्तिचिह्नेन न च चिह्नं क्वचित्स्फुटम् ॥ ६.२२ ॥
स्फुटं यत्र क्वचिद्दृष्टं तत्रापि व्यभिचारिता ।

__________

वृत्ति:
यद्येवमसद्योनिर्वाणदीक्षयैतच्छरीरभोगप्रदकर्मपाशामुक्त्वत्वेऽपि तस्य मलाद्यन्यपाशमुक्तत्वे यच्चिह्नमविनाभावि सर्वज्ञत्वादिकं तत्स्वल्पमपि कथं न दृश्यते। तद्दर्शनाभावेन प्रमाणान्तरसिद्धप्रदीपावरणनिवृत्त्यसिद्धिवत्न तस्य तदानीं पाशमुक्तत्वसिद्धिरिति पुनरपि दीक्षाफलश्रुतेः प्रमाणान्तरेणैव बाधातप्रामाण्यमिति प्रश्नार्थः।

न च वाच्यं बाह्यचिह्नान्तरेण भक्त्यात्मनासौ पाशमुक्तो दृश्यत इति यतो न क्वचित्तत्पाशमुक्तस्य चैतच्चिह्नमुक्तम्। अपि तु शक्तिपातयुक्तस्यैव। स्फुटं च कृत्वा यत्रापि शक्तिपातयुक्ते तच्चिह्नं दृष्टं तत्राप्यस्य व्यभिचारितेत्युक्तं प्राक्तिरोभावकरी शक्तिरित्यादिना।
।ॄउओते{तिरोभावकरी शक्तिः
।Kइर् । ५:२३ .}
तत्कथमस्य व्यभिचारित्वमुच्यते। सर्वथा पाशमुक्तस्य लिङ्गादर्शनेनासिद्धेः प्रोक्त एव दोष इति प्रथमः प्रश्नः। द्वितीयस्तु


_________________________________________________________


प्रागुक्तं योजनं तस्य तद्युक्त्या ग्राहपूर्वकम् ॥ ६.२३ ॥
विभुत्वात्तस्य नो ग्राहस्तथामूर्ततयापि च ।
महानत्र विरोधः स्यात्कथमेतद्ब्रवीहि मे ॥ ६.२४ ॥

__________

वृत्ति:
यदुक्तं प्राक्मोक्षस्तेनेशयोजनादिति
।ॄउओते{मोक्षस्तेनेशयोजनात्
।Kइर् । ६:८ .}
तदयुक्तं यतो यस्य प्रत्यक्षेण परिच्छेदात्मकं ग्रहणं
।च्रुx युक्त्या आदानेषिकया।च्रुx। स्वीकारात्मकं च सम्भवति तस्य योजनं देवदत्तादेरिव राजादौ। न चात्मनोऽस्मदादिग्रहणस्वीकारौ सम्भवतो व्यापकत्वादीश्वरादेरिवेति योजनानुपपत्तिः।
अथ शरीरद्वारेण तस्य तौ भवत इत्युच्यते यदुक्तं प्राक्सूक्ष्मदेहविवक्षयेति।
।ॄउओते{सूक्ष्मदेहविवक्षया
।Kइर् । २:१० .}
तदप्ययुक्तं यतस्तथेति तस्याप्यस्मदादिग्रहणं न सम्भवति अमूर्तत्वात् । कार्यशक्त्यवस्थावत् । अत्यन्तसूक्ष्मत्वादित्यर्थः। अपि चेत्यनेनैवानुक्तं हेत्वन्तरं समुच्चितमदृष्टवशादिति।
ग्रहणे हि तस्य बान्धवादिभिरपरित्यागात्पुंसां मरणाद्यनुपपत्तिरित्यत्रादृष्टेनैव ततोऽस्मदादिग्रहणं व्यावर्त्यते। यदाहुः

पुमर्थदादृष्टवशाद्देहो नैवातिवाहिकः।

अक्षाधारोऽक्षगम्योऽयमनीशानां पिशाचवत् ॥ इति।
।ॄउओते{पुमर्थदादृष्टवशा देव्दोत्पिशाचवत्
{Bहोगकारिका} ८.}


तदेवमात्मनः सर्वथा ग्रहणाभावेन संयोजनाद्यभावात्परपुरुषार्थैकप्राप्त्युपायत्वेनोक्ताया दीक्षाया अनुपपत्तेर्महान्विरोध इति द्वितीयः प्रश्नार्थः। सिद्धान्तस्तु प्रथमप्रश्ननिरोधाय।


_________________________________________________________


भगवानुवाच
तच्चिह्नं वासनानिष्ठा- तत्कर्मण्यविकल्पना ।

__________

वृत्ति:
अयमर्थोऽसद्योनिर्वाणदीक्षायां तावदेतच्छरीरभोगप्रदं कर्म पुंसो न क्षपणीयमित्युक्तम्। मलेन च कार्यकरणैश्च विना भोगानुपपत्तेरर्थान्मलस्य सूक्ष्मदेहस्य च न सर्वात्मना विच्छेद इति प्रतीयते। अपि तु तद्भोगोपरोधेन वासनात्मनांशेन विच्छेद इति तत्र सर्वात्मना पाशान्तरविच्छेदस्याप्यसिद्धेः शिवत्वव्यक्त्यसम्भवात्तच्चिह्नं सर्वज्ञत्वादि न दृश्यत इत्यध्याहारः। यतो मलादिवासना विद्यत इति।
यत्तु चिह्नान्तरमपि तस्य नोपलभ्यत इत्युक्तं तदयुक्तं यतो या मललिङ्गयोरनयोरनया दीक्षया परिशेषितांशमात्ररूपा वासनेत्युक्तं तस्या निष्ठान्त्यो विनाशः तदर्थं यत्कर्म नित्यनैमित्तिकमनिषिद्धं ज्ञानक्रियाचर्यात्मकं प्राक्प्रतिपादितं तस्मिन्नविकल्पना विकल्पाभावः।
यथाचोदितत्वेनानुष्ठानविवेकितास्यतावत्यपि पाशमोक्षे चिह्नमव्यभिचारि दृश्यत एव। अन्यथा तथाभूतत्वानुपपत्तिरिति न तदभावात्तस्य पाशमुक्तत्वासिद्धेः प्रोक्तदोष इति।

द्वितीयस्यापि प्रश्नस्य निरासः।


_________________________________________________________


तनुस्थं हि कथं चैतत्स्पन्देनाप्यनुमीयते ॥ ६.२५ ॥

__________

वृत्ति:
यदा विभुत्वादात्मनो ग्रहणं न सम्भवतीति अयं हेत्वर्थस्तदा तनुस्थमिति कार्यकरणाभिव्यक्तं कथमेतद्व्यापकं स्वरूपमस्यात्मनः स्वसंवेदनेनानुमीयते गृह्यते ज्ञानयोगादिभिश्च संस्क्रियत इति तेनायं हेतुरनैकान्तिक इत्यर्थः। तथा स्वात्मवदन्यात्मन्यपि परिस्पन्देनेति कायवाग्व्यवहारादिना तल्लिङ्गेनानुमीयते गृह्यत इति तेनाप्यनैकान्तिकः। आकाशेनापीत्युच्यते


_________________________________________________________


विभुत्वे खं यथा शब्दादमूर्तं हि विषं यथा ।
गृह्यते मन्त्रशक्त्यासौ वाच्यस्तच्छक्तिको गुणः ।

__________

वृत्ति:
आकाशस्य प्राक्कार्यत्वेनोक्तेर्विभुत्वासम्भवादत्रान्यभूतापेक्षया विसृतत्वेऽपि यथा विशिष्टेन शब्दात्मना गुणेन तद्गृह्यते योगिभिश्च स्वीक्रियते। तथैव दीक्ष्यस्यात्रागमे मन्त्रशक्त्या ग्रहणम्।
संस्कार्यत्वसम्भवान्न योजनानुपपत्तिरिति।
यदप्युक्तं सूक्ष्मदेहस्यामूर्तत्वेनादृष्टवशाच्चास्मदाद्यगोचरत्वान्न तद्द्वारेणापि दीक्षितस्य ग्रहणमिति। तदपि मन्त्रशक्त्यास्मदादिभिरमूर्ताया अपि विषशक्तेर्ग्रहणनिदर्शनादनैकान्तिकमिति।
यथा सा विषशब्दवाच्या मारणशक्तिरस्मदादिभिर्गृह्यते तथैवात्मशब्दवाच्यो ज्ञानक्रियात्मको गुणः सूक्ष्मदेहशब्देनैव वाच्यश्च भोगसाधनात्मक आगममन्त्रशक्त्या गृह्यते संस्क्रियते चेति नात्र योजनानुपपत्तेः संस्कारानुपपत्तिदोष इति।

अथेह किमात्मको मन्त्रो यस्य शक्त्येत्युच्यते


_________________________________________________________


वाच्यवाचकयोगेन ज्ञेया मन्त्राणवः खग ॥ ६.२६ ॥

__________

"https://sa.wikisource.org/w/index.php?title=किरणतन्त्रम्&oldid=330686" इत्यस्माद् प्रतिप्राप्तम्