← दशमः सर्गः किरातार्जुनीयम्
एकादशः सर्गः
भारविः
द्वादशः सर्गः →


अथामर्षान्निसर्गाच्च जितेन्द्रियतया तया ।
आगजामाश्रमं जिष्णोः प्रतीतः पाकशासनः ।। ११.१ ।।

मुनिरूपोऽनुरूपेण सूनुना ददृशे पुरः ।
द्राघीयसा वयोतीतः परिक्लान्तः किलाध्वना ।। ११.२ ।।

जटानां कीर्णया केशैः संहत्या परितः सितैः ।
पृक्तयेन्दुकरैरह्नः पर्यन्त इव संध्यया ।। ११.३ ।।

विशदभ्रूयुगच्छन्न- वलितापाङ्गलोचनः ।
प्रालेयावततिम्लान- पलाशाब्ज इव ह्रदः ।। ११.४ ।।

आसक्तभरनीकाशैरङ्गैः परिकृशैरपि ।
अद्यूनः सद्गृहिण्येव प्रायो यष्ट्यावलम्बितः ।। ११.५ ।।

गूढोऽपि वपुषा राजन्धाम्ना लोकाभिभाविना ।
अंशुमानिव तन्वभ्र- पटलच्छन्नविग्रहः ।। ११.६ ।।

जरतीं अपि बिभ्राणस्तनुं अप्राकृताकृतिः ।
चकाराक्रान्तलक्ष्मीकः ससाध्वसं इवाश्रयं ।। ११.७ ।।

अभितस्तं पृथासूनुः स्नेहेन परितस्तरे ।
अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते मनः ।। ११.८ ।।

आतिथेयीं अथासाद्य सुतादपचितिं हरिः ।
विश्रम्य विष्टरे नाम व्याजहारेति भारतीं ।। ११.९ ।।

त्वया साधु समारम्भि नवे वयसि यत्तपः ।
ह्रियते विषयैः प्रायो वर्षीयानपि मादृशः ।। ११.१० ।।

श्रेयसीं तव सम्प्राप्ता गुणसम्पदं आकृतिः ।
सुलभा रम्यता लोके दुर्लभं हि गुणार्जनं ।। ११.११ ।।

शरदम्बुधरच्छाया गत्वर्यो यौवनश्रियः ।
आपातरम्या विषयाः पर्यन्तपरितापिनः ।। ११.१२ ।।

अन्तकः पर्यवस्थाता जन्मिनः संततापदः ।
इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते मनः ।। ११.१३ ।।

चित्तवानसि कल्याणी यत्त्वां मतिरुपस्थिता ।
विरुद्धः केवलं वेषः संदेहयति मे मनः ।। ११.१४ ।।

युयुत्सुनेव कवचं किं आमुक्तं इदं त्वया ।
तपस्विनो हि वसते केवलाजिनवल्कले ।। ११.१५ ।।

प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे ।
महेषुधी धनुर्भीमं भूतानां अनभिद्रुहः ।। ११.१६ ।।

भयंकरः प्राणभृतां मृत्योर्भुज इवापरः ।
असिस्तव तपस्थस्य न समर्थयते शमं ।। ११.१७ ।।

जयं अत्रभवान्नूनं अरातिष्वभिलाषुकः ।
क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ।। ११.१८ ।।

यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः ।
ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः ।। ११.१९ ।।

मूलं दोषस्य हिंसादेरर्थकामौ स्म मा पुषः ।
तौ हि तत्त्वावबोधस्य दुरुच्छेदावुपप्लवौ ।। ११.२० ।।

अभिद्रोहेण भूतानां अर्जयन्गत्वरीः श्रियः ।
उदन्वानिव सिन्धूनां आपदां एति पात्रतां ।। ११.२१ ।।

या गम्याः सत्सहायानां यासु खेदो भयं यतः ।
तासां किं यन्न दुःखाय विपदां इव सम्पदां ।। ११.२२ ।।
दुरासदानरीनुग्रान्धृतेर्विश्वासजन्मनः ।
भोगान्भोगानिवाहेयानध्यास्यापन्न दुर्लभा ।। ११.२३ ।।

नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते ।
आसक्तास्तास्वमी मूढा वामशीला हि जन्तवः ।। ११.२४ ।।

कोऽपवादः स्तुतिपदे यदशीलेषु चञ्चलाः ।
साधुवृत्तानपि क्षुद्रा विक्षिपन्त्येव सम्पदः ।। ११.२५ ।।

कृतवानन्यदेहेषु कर्ता च विधुरं मनः ।
अप्रियैरिव संयोगो विप्रयोगः प्रियैः सह ।। ११.२६ ।।

शून्यं आकीर्णतां एति तुल्यं व्यसनं उत्सवैः ।
विप्रलम्भोऽपि लाभाय सति प्रियसमागमे ।। ११.२७ ।।

तदा रम्याण्यरम्याणि प्रियाः शल्यं तदासवः ।
तदैकाकी सबन्धुः सन्निष्टेन रहितो यदा ।। ११.२८ ।।

युक्तः प्रमाद्यसि हितादपेतः परितप्यसे ।
यदि नेष्टात्मनः पीडा मा सञ्जि भवता जने ।। ११.२९ ।।

जन्मिनोऽस्य स्थितिं विद्वांल्लक्ष्मीं इव चलाचलां ।
भवान्मा स्म वधीन्न्याय्यं न्यायाधारा हि साधवः ।। ११.३० ।।

विजहीहि रणोत्साहं मा तपः साधि नीनशः ।
उच्छेदं जन्मनः कर्तुं एधि शान्तस्तपोधन ।। ११.३१ ।।

जीयन्तां दुर्जया देहे रिपवश्चक्षुरादयः ।
जितेषु ननु लोकोऽयं तेषु कृत्स्नस्त्वया जितः ।। ११.३२ ।।

परवानर्थसंसिद्धौ नीचवृत्तिरपत्रपः ।
अविधेयेन्द्रियः पुंसां गौरिवैतेइ विधेयतां ।। ११.३३ ।।

श्वस्त्वया सुखसंवित्तिः स्मरणीयाधुनातनी ।
इति स्वप्नोपमान्मत्वा कामान्मा गास्तदङ्गतां ।। ११.३४ ।।

श्रद्धेया विप्रलब्धारः प्रिया विप्रियकारिणः ।
सुदुस्त्यजास्त्यजन्तोऽपि कामाः कष्टा हि शत्रवः ।। ११.३५ ।।

विविक्तेऽस्मिन्नगे भूयः प्लाविते जह्नुकन्यया ।
प्रत्यासीदति मुक्तिस्त्वां पुरा मा भूरुदायुधः ।। ११.३६ ।।

व्याहृत्य मरुतां पत्याविति वाचं अवस्थिते ।
वचः प्रश्रयगम्भीरं अथोवाच कपिध्वजः ।। ११.३७ ।।

प्रसादरम्यं ओजस्वि गरीयो लाघवान्वितं ।
साकाङ्क्षं अनुपस्कारं विष्वग्गति निराकुलं ।। ११.३८ ।।

न्यायनिर्णीतसारत्वान्निरपेक्षं इवागमे ।
अप्रकम्प्यतयान्येषां आम्नायवचनोपमं ।। ११.३९ ।।

अलङ्घ्यत्वाज्जनैरन्यैः क्षुभितोदन्वदूर्जितं ।
औदार्यादर्थसम्पत्तेः शान्तं चित्तं ऋषेरिव ।। ११.४० ।।

इदं ईदृग्गुणोपेतं लब्धावसरसाधनं ।
व्याकुर्यात्कः प्रियं वाक्यं यो वक्ता नेदृगाशयः ।। ११.४१ ।।

न ज्ञातं तात यत्नस्य पौर्वापर्यं अमुष्य ते ।
शासितुं येन मां धर्मं मुनिभिस्तुल्यं इच्छसि ।। ११.४२ ।।

अविज्ञातप्रबन्धस्य वचो वाचस्पतेरिव ।
व्रजत्यफलतां एव नयद्रुह इवेहितं ।। ११.४३ ।।

श्रेयसोऽप्यस्य ते तात वचसो नास्मि भाजनं ।
नभसः स्फुटतारस्य रात्रेरिव विपर्ययः ।। ११.४४ ।।

क्षत्रियस्तनयः पाण्डोरहं पार्थो धनंजयः ।
स्थितः प्रास्तस्य दायादैर्भ्रातुर्ज्येष्ठस्य शासने ।। ११.४५ ।।

कृष्णद्वैपायनादेशाद्बिभर्मि व्रतं ईदृशं ।
भृशं आराधने यत्तः स्वाराध्यस्य मरुत्वतः ।। ११.४६ ।।

दुरक्षान्दीव्यता राज्ञा राज्यं आत्मा वयं वधूः ।
नीतानि पणतां नूनं ईदृशी भवितव्यता ।। ११.४७ ।।

तेनानुजसहायेन द्रौपद्या च मया विना ।
भृशं आयामियामासु यामिनीष्वभितप्यते ।। ११.४८ ।।

हृतोत्तरीयां प्रसभं सभायां आगतह्रियः ।
मर्मच्छिदा नो वचसा निरतक्षन्नरातयः ।। ११.४९ ।।

उपाधत्त सपत्नेषु कृष्णाया गुरुसंनिधौ ।
भावं आनयने सत्याः सत्यंकारं इवान्तकः ।। ११.५० ।।

तां ऐक्षन्त क्षणं सभ्या दुःशासनपुरःसरां ।
अभिसायार्कं आवृत्तां छायां इव महातरोः ।। ११.५१ ।।

अयथार्थक्रियारम्भैः पतिभिः किं तवेक्षितैः ।
अरुध्येतां इतीवास्या नयने बाष्पवारिणे ।। ११.५२ ।।

सोढवान्नो दशां अन्त्यां ज्यायानेव गुणप्रियः ।
सुलभो हि द्विषां भङ्गो दुर्लभा सत्स्ववाच्यता ।। ११.५३ ।।

स्थित्यतिक्रान्तिभीरूणि स्वच्छान्याकुलितान्यपि ।
तोयानि तोयराशीनां मनांसि च मनस्विनां ।। ११.५४ ।।

धार्तराष्ट्रैः सह प्रीतिर्वैरं अस्मास्वसूयत ।
असन्मैत्री हि दोषाय कूलच्छायेव सेविता ।। ११.५५ ।।

अपवादादभीतस्य समस्य गुणदोषयोः ।
असद्वृत्तेरहोवृत्तं दुर्विभावं विधेरिव ।। ११.५६ ।।

ध्वंसेत हृदयं सद्यः परिभूतस्य मे परैः ।
यद्यमर्षः प्रतीकारं भुजालम्बं न लम्भयेथ् ।। ११.५७ ।।

अवधूयारिभिर्नीता हरिणैस्तुल्यवृत्तितां ।
अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनां ।। ११.५८ ।।

शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः ।
जन्मिनो मानहिनस्य तृणस्य च समा गतिः ।। ११.५९ ।।

अलङ्घ्यं तत्तदुद्वीक्ष्य यद्यदुच्चैर्महीभृतां ।
प्रियतां ज्यायसीं मा गान्महतां केन तुङ्गता ।। ११.६० ।।

तावदाश्रीयते लक्ष्म्या तावदस्य स्थिरं यशः ।
पुरुषस्तावदेवासौ यावन्मानान्न हीयते ।। ११.६१ ।।

स पुमानर्थवज्जन्मा यस्य नाम्नि पुरःस्थिते ।
नान्यां अङ्गुलिं अभ्येति संख्यायां उद्यताङ्गुलिः ।। ११.६२ ।।

दुरासदवनज्यायान्गम्यस्तुङ्गोऽपि भूधरः ।
न जहाति महौजस्कं मानप्रांशुं अलङ्घ्यता ।। ११.६३ ।।

गुरून्कुर्वन्ति ते वंश्यानन्वर्था तैर्वसुंधरा ।
येषां यशांसि शुभ्राणि ह्रेपयन्तीन्दुमण्डलं ।। ११.६४ ।।

उदाहरणं आशीःषु प्रथमे ते मनस्विनां ।
शुष्केऽशनिरिवामर्षो यैररातिषु पात्यते ।। ११.६५ ।।

न सुखं प्रार्थये नार्थं उदन्वद्वीचिचञ्चलं ।
नानित्यताशनेस्त्रस्यन्विविक्तं ब्रह्मणः पदं ।। ११.६६ ।।

प्रमार्ष्टुं अयशःपङ्कं इच्छेयं छद्मना कृतं ।
वैधव्यतापिताराति- वनितालोचनाम्बुभिः ।। ११.६७ ।।

अपहस्येऽथवा सद्भिः प्रमादो वास्तु मे धियः ।
अस्थानविहितायासः कामं जिह्रेतु वा भवान् ।। ११.६८ ।।

वंशलक्ष्मीं अनुद्धृत्य समुच्छेदेन विद्विषां ।
निर्वाणं अपि मन्येऽहं अन्तरायं जयश्रियः ।। ११.६९ ।।

अजन्मा पुरुषस्तावद्गतासुस्तृणं एव वा ।
यावन्नेषुभिरादत्ते विलुप्तं अरिभिर्यशः ।। ११.७० ।।

अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति ।
पुरुषोक्तिः कथं तस्मिन्ब्रूहि त्वं हि तपोधन ।। ११.७१ ।।

कृतं पुरुषशब्देन जातिमात्रावलम्बिना ।
योऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयं उदाहृतः ।। ११.७२ ।।

ग्रसमानं इवौजांसि सदसा गौरवेरितं ।
नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्पुमान् ।। ११.७३ ।।

यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया ।
ममैवाध्येति नृपतिस्तृष्यन्निव जलाञ्जलेः ।। ११.७४ ।।

स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनं ।
कृच्छ्रेषु व्यर्थया यत्र भूयते भर्तुराज्ञया ।। ११.७५ ।।

कथं वादीयतां अर्वाङ्मुनिता धर्मरोधिनी ।
आश्रमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः ।। ११.७६ ।।

आसक्ता धूरियं रूढा जननी दूरगा च मे ।
तिरस्करोति स्वातन्त्र्यं ज्यायांश्चाचारवान्नृपः ।। ११.७७ ।।

स्वधर्मं अनुरुन्धन्ते नातिक्रमं अरातिभिः ।
पलायन्ते कृतध्वंसा नाहवान्मानशालिनः ।। ११.७८ ।।

विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि ।
आराध्य वा सहस्राक्षं अयशःशल्यं उद्धरे ।। ११.७९ ।।

इत्युक्तवन्तं परिरभ्य दोर्भ्यां तनूजं आविष्कृतदिव्यमूर्तिः ।
अघोपघातं मघवा विभूत्यै भवोद्भवाराधनं आदिदेश ।। ११.८० ।।

प्रीते पिनाकिनि मया सह लोकपालैर्लोकत्रयेऽपि विहिताप्रतिवार्यवीर्यः ।
लक्ष्मीं समुत्सुकयितासि भृशं परेषां उच्चार्य वाचं इति तेन तिरोबभूवे ।। ११.८१ ।।

इति भारविकृतौ महाकाव्ये किरातार्जुनीये एकादशः सर्गः ।