किरातार्जुनीयम्/चतुर्दशः सर्गः

← त्रयोदशः सर्गः किरातार्जुनीयम्
चतुर्दशः सर्गः
भारविः
पञ्चदशः सर्गः →

ततः किरातस्य वचोभिरुद्धतैः पराहतः शैल इवार्णवाम्बुभिः ।
जहौ न धैर्यं कुपितोऽपि पाण्डवः सुदुर्ग्रहान्तःकरणा हि साधवः ।। १४.१ ।।

सलेशं उल्लिङ्गितशात्रवेङ्गितः कृती गिरां विस्तरतत्त्वसंग्रहे ।
अयं प्रमाणीकृतकालसाधनः प्रशान्तसंरम्भ इवाददे वचः ।। १४.२ ।।

विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषां ।
प्रवर्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती ।। १४.३ ।।

भवन्ति ते सभ्यतमा विपश्चितां मनोगतं वाचि निवेशयन्ति ये ।
नयन्ति तेष्वप्युपपन्ननैपुणा गम्भीरं अर्थं कतिचित्प्रकाशतां ।। १४.४ ।।

स्तुवन्ति गुर्वीं अभिधेयसम्पदं विशुद्धिमुक्तेरपरे विपश्चितः ।
इति स्थितायां प्रतिपूरुषं रुचौ सुदुर्लभाः सर्वमनोरमा गिरः ।। १४.५ ।।

समस्य सम्पादयता गुणैरिमां त्वया समारोपितभार भारतीं ।
प्रगल्भं आत्मा धुरि धुर्य वाग्मिनां वनचरेणापि सताधिरोपितः ।। १४.६ ।।

प्रयुज्य सामाचरितं विलोभनं भयं विभेदाय धियः प्रदर्शितं ।
तथाभियुक्तं च शिलीमुखार्थिना यथेतरन्न्याय्यं इवावभासते ।। १४.७ ।।

विरोधि सिद्धेरिति कर्तुं उद्यतः स वारितः किं भवता न भूपतिः ।
हिते नियोज्यः खलु भूतिं इच्छता सहार्थनाशेन नृपोऽनुजीविना ।। १४.८ ।।

ध्रुवं प्रणाशः प्रहितस्य पत्त्रिणः शिलोच्चये तस्य विमार्गणं नयः ।
न युक्तं अत्रार्यजनातिलङ्घनं दिशत्यपायं हि सतां अतिक्रमः ।। १४.९ ।।

अतीतसंख्या विहिता ममाग्निना शिलामुखाः खाण्डवं अत्तुं इच्छता ।
अनादृतस्यामरसायकेष्वपि स्थिता कथं शैलजनाशुगे धृतिः ।। १४.१० ।।

यदि प्रमाणीकृतं आर्यचेष्टितं किं इत्यदोषेण तिरस्कृता वयं ।
अयातपूर्वा परिवादगोचरं सतां हि वाणी गुणं एव भाषते ।। १४.११ ।।

गुणापवादेन तदन्यरोपणाद्भृशाधिरूढस्य समञ्जसं जनं ।
द्विधेव कृत्वा हृदयं निगूहतः स्फुरदसाधोर्विवृणोति वागसिः ।। १४.१२ ।।

वनाश्रयाः कस्य मृगाः परिग्रहाः शृणाति यस्तान्प्रसभेन तस्य ते ।
प्रहीयतां अत्र नृपेण मानिता न मानिता चास्ति भवन्ति च श्रियः ।। १४.१३ ।।

न वर्त्म कस्मैचिदपि प्रदीयतां इति व्रतं मे विहितं महर्षिणा ।
जिघांसुरस्मान्निहतो मया मृगो व्रताभिरक्षा हि सतां अलंक्रिया ।। १४.१४ ।।

मृगान्विनिघ्नन्मृगयुः स्वहेतुना कृतोपकारः कथं इच्छतां तपः ।
कृपेति चेदस्तु मृगः क्षतः क्षणादनेन पूर्वं न मयेति का गतिः ।। १४.१५ ।।

अनायुधे सत्त्वजिघांसिते मुनौ कृपेति वृत्तिर्महतां अकृत्रिमा ।
शरासनं बिभ्रति सज्यसायकं कृतानुकम्पः स कथं प्रतीयते ।। १४.१६ ।।

अथो शरस्तेन मदर्थं उज्झितः फलं च तस्य प्रतिकायसाधनं ।
अविक्षते तत्र मयात्मसात्कृते कृतार्थता नन्वधिका चमूपतेः ।। १४.१७ ।।

यदात्थ कामं भवता स याच्यतां इति क्षमं नैतदनल्पचेतसां ।
कथं प्रसह्याहरणैषिणां प्रियः परावनत्या मलिनीकृताः श्रियः ।। १४.१८ ।।

अभूतं आसज्य विरुद्धं ईहितं बलादलभ्यं तव लिप्सते नृपः ।
विजानतोऽपि ह्यनयस्य रौद्रतां भवत्यपाये परिमोहिनी मतिः ।। १४.१९ ।।

असिः शरा वर्म धनुश्च नोच्चकैर्विविच्य किं प्रार्थितं ईश्वरेण ते ।
अथास्ति शक्तिः कृतं एव याच्ञया न दूषितः शक्तिमतां स्वयंग्रहः ।। १४.२० ।।

सखा स युक्तः कथितः कथं त्वया यदृच्छयासूयति यस्तपस्यते ।
गुणार्जनोच्छ्रायविरुद्धबुद्धयः प्रकृत्यमित्रा हि सतां असाधवः ।। १४.२१ ।।

वयं क्व वर्णाश्रमरक्षणोचिताः क्व जातिहीना मृगजीवितच्छिदः ।
सहापकृष्टैर्महतां न संगतं भवन्ति ग्ॐआयुसखा न दन्तिनः ।। १४.२२ ।।

परोऽवजानाति यदज्ञताजडस्तदुन्नतानां न विहन्ति धीरतां ।
समानवीर्यान्वयपौरुषेषु यः करोत्यतिक्रान्तिं असौ तिरस्क्रिया ।। १४.२३ ।।

यदा विगृह्णाति हतं तदा यशः करोति मैत्रीं अथ दूषिता गुणाः ।
स्थितिं समीक्ष्योभयथा परीक्षकः करोत्यवज्ञोपहतं पृथग्जनं ।। १४.२४ ।।

मया मृगान्हन्तुरनेन हेतुना विरुद्धं आक्षेपवचस्तितिक्षितं ।
शरार्थं एष्यत्यथ लप्स्यते गतिं शिर्ॐअणिं दृष्टिविषाज्जिघृक्षतः ।। १४.२५ ।।

इतीरिताकूतं अनीलवाजिनं जयाय दूतः प्रतितर्ज्य तेजसा ।
ययौ समीपं ध्वजिनीं उपेयुषः प्रसन्नरूपस्य विरूपचक्षुषः ।। १४.२६ ।।

ततोऽपवादेन पताकिनीपतेश्चचाल निर्ह्रादवती महाचमूः ।
युगान्तवाताभिहतेव कुर्वती निनादं अम्भोनिधिवीचिसंहतिः ।। १४.२७ ।।

रणाय जैत्रः प्रदिशन्निव त्वरां तरङ्गितालम्बितकेतुसंततिः ।
पुरो बलानां सघनाम्बुशीकरः शनैः प्रतस्थे सुरभिः समीरणः ।। १४.२८ ।।

जयारवक्ष्वेडितनादमूर्छितः शरासनज्यातलवारणध्वनिः ।
असम्भवन्भूधरराजकुक्षिषु प्रकम्पयन्गां अवतस्तरे दिशः ।। १४.२९ ।।

निशातरौद्रेषु विकासतां गतैः प्रदीपयद्भिः ककुभां इवान्तरं ।
वनेसदां हेतिषु भिन्नविग्रहैर्विपुस्फुरे रश्मिमतो मरीचिभिः ।। १४.३० ।।

उदूढवक्षःस्थगितैकदिङ्मुखो विकृष्टविस्फारितचापमण्डलः ।
वितत्य पक्षद्वयं आयतं बभौ विभुर्गुणानां उपरीव मध्यगः ।। १४.३१ ।।

सुगेषु दुर्गेषु च तुल्यविक्रमैर्जवादहंपूर्विकया यियासुभिः ।
गणैरविच्छेदनिरुद्धं आबभौ वनं निरुच्छ्वासं इवाकुलाकुलं ।। १४.३२ ।।

तिरोहितश्वभ्रनिकुञ्चरोधसः समश्नुवानाः सहसातिरिक्ततां ।
किरातसैन्यैरपिधाय रेचिता भुवः क्षणं निम्नतयेव भेजिरे ।। १४.३३ ।।

पृथूरुपर्यस्तबृहल्लताततिर्जवानिलाघूर्णितशालचन्दना ।
गणाधिपानां परितः प्रसारिणी वनान्यवाञ्चीव चकार संहतिः ।। १४.३४ ।।

ततः सदर्पं प्रतनुं तपस्यया मदस्रुतिक्षामं इवैकवारणं ।
परिज्वलन्तं निधनाय भूभृतां दहन्तं आशा इव जातवेदसं ।। १४.३५ ।।

अनादरोपात्तधृतैकसायकं जयेऽनुकूले सुहृदीव सस्पृहं ।
शनैरपूर्णप्रतिकारपेलवे निवेशयन्तं नयने बलोदधौ ।। १४.३६ ।।

निषण्णं आपत्प्रतिकारकारणे शरासने धैर्य इवानपायिनि ।
अलङ्घनीयं प्रकृतावपि स्थितं निवातनिष्कम्पं इवापगापतिं ।। १४.३७ ।।

उपेयुषीं बिभ्रतं अन्तकद्युतिं वधाददूरे पतितस्य दंष्ट्रिणः ।
पुरः समावेशितसत्पशुं द्विजैः पतिं पशूनां इव हूतं अध्वरे ।। १४.३८ ।।

निजेन नीतं विजितान्यगौरवं गभीरतां धैर्यगुणेन भूयसा ।
वनोदयेनेव घनोरुवीरुधा समन्धकारीकृतं उत्तमाचलं ।। १४.३९ ।।

महर्षभस्कन्धं अनूनकंधरं बृहच्छिलावप्रघनेन वक्षसा ।
समुज्जिहीर्षुं जगतीं महाभरां महावराहं महतोऽर्णवादिव ।। १४.४० ।।

हरिन्मणिश्यामं उदग्रविग्रहं प्रकाशमानं परिभूय देहिनः ।
मनुष्यभावे पुरुषं पुरातनं स्थितं जलादर्श इवांशुमालिनं ।। १४.४१ ।।

गुरुक्रियारम्भफलैरलंकृतं गतिं प्रतापस्य जगत्प्रमाथिनः ।
गणाः समासेदुरनीलवाजिनं तपात्यये तोयघना घना इव ।। १४.४२ ।।

यथास्वं आशंसितविक्रमाः पुरा मुनिप्रभावक्षततेजसः परे ।
ययुः क्षणादप्रतिपत्तिमूढतां महानुभावः प्रतिहन्ति पौरुषं ।। १४.४३ ।।

ततः प्रजह्रे समं एव तत्र तैरपेक्षितान्योन्यबलोपपत्तिभिः ।
महोदयानां अपि संघवृत्तितां सहायसाध्याः प्रदिशन्ति सिद्धयः ।। १४.४४ ।।

किरातसैन्यादुरुचापनोदिताः समं समुत्पेतुरुपात्तरंहसः ।
महावनादुन्मनसः खगा इव प्रवृत्तपत्त्रध्वनयः शिलीमुखाः ।। १४.४५ ।।

गभीररन्ध्रेषु भृशं महीभृतः प्रतिस्वनैरुन्नमितेन सानुषु ।
धनुर्निनादेन जवादुपेयुषा विभिद्यमाना इव दध्वनुर्दिशः ।। १४.४६ ।।

विधूनयन्ती गहनानि भूरुहां तिरोहितोपान्तनभोदिगन्तरा ।
महीयसी वृष्टिरिवानिलेरिता रवं वितेने गणमार्गणावलिः ।। १४.४७ ।।

त्रयीं ऋतूनां अनिलाशिनः सतः प्रयाति पोषं वपुषि प्रहृष्यतः ।
रणाय जिष्णोर्विदुषेव सत्वरं घनत्वं ईये शिथिलेन वर्मणा ।। १४.४८ ।।

पतत्सु शस्त्रेषु वितत्य रोदसी समन्ततस्तस्य धनुर्दुधूषतः ।
सरोषं उल्केव पपात भीषणा बलेषु दृष्टिर्विनिपातशंसिनी ।। १४.४९ ।।

दिशः समूहन्निव विक्षिपन्निव प्रभां रवेराकुलयन्निवानिलं ।
मुनिश्चचाल क्षयकालदारुणः क्षितिं सशैलां चलयन्निवेषुभिः ।। १४.५० ।।

विमुक्तं आशंसितशत्रुनिर्जयैरनेकं एकावसरं वनेचरैः ।
स निर्जघानायुधं अन्तरा शरैः क्रियाफलं काल इवातिपातितः ।। १४.५१ ।।

गतैः परेषां अविभावनीयतां निवारयद्भिर्विपदं विदूरगैः ।
भृशं बभूवोपचितो बृहत्फलैः शरैरुपायैरिव पाण्डुनन्दनः ।। १४.५२ ।।

दिवः पृथिव्याः ककुभां नु मण्डलात्पतन्ति बिम्बादुत तिग्मतेजसः ।
सकृद्विकृष्टादथ कार्मुकान्मुनेः शराः शरीरादिति तेऽभिमेनिरे ।। १४.५३ ।।

गणाधिपानां अविधाय निर्गतैः परासुतां मर्मविदारणैरपि ।
जवादतीये हिमवानध्ॐउखैः कृतापराधैरिव तस्य पत्त्रिभिः ।। १४.५४ ।।

द्विषां क्षतीर्याः प्रथमे शिलामुखा विभिद्य देहावरणानि चक्रिरे ।
न तासु पेते विशिखैः पुनर्मुनेररुंतुदत्वं महतां ह्यगोचरः ।। १४.५५ ।।

समुज्झिता यावदराति निर्यती सहैव चापान्मुनिबाणसंहतिः ।
प्रभा हिमांशोरिव पङ्कजावलिं निनाय संकोचं उमापतेश्चमूं ।। १४.५६ ।।

अजिह्मं ओजिष्ठं अमोघं अक्लमं क्रियासु बह्वीषु पृथङ्नियोजितं ।
प्रसेहिरे सादयितुं न सादिताः शरौघं उत्साहं इवास्य विद्विषः ।। १४.५७ ।।

शिवध्वजिन्यः प्रतियोधं अग्रतः स्फुरन्तं उगेषुमयूखमालिनं ।
तं एकदेशस्थं अनेकदेशगा निदध्युरर्कं युगपत्प्रजा इव ।। १४.५८ ।।

मुनेः शरौघेण तदुग्ररंहसा बलं प्रकोपादिव विष्वगायता ।
विधूनितं भ्रान्तिं इयाय सङ्गिनीं महानिलेनेव निदाघजं रजः ।। १४.५९ ।।
तपोबलेनैष विधाय भूयसीस्तनूरदृश्याः स्विदिषून्निरस्यति ।
अमुष्य मायाविहतं निहन्ति नः प्रतीपं आगत्य किं उ स्वं आयुधं ।। १४.६० ।।

हृता गुणैरस्य भयेन वा मुनेस्तिरोहिताः स्वित्प्रहरन्ति देवताः ।
कथं न्वमी संततं अस्य सायका भवन्त्यनेके जलधेरिवोर्मयः ।। १४.६१ ।।

जयेन कच्चिद्विरमेदयं रणाद्भवेदपि स्वस्ति चराचराय वा ।
तताप कीर्णा नृपसूनुमार्गणैरिति प्रतर्काकुलिता पताकिनी ।। १४.६२ ।।

अमर्षिणा कृत्यं इव क्षमाश्रयं मदोद्धतेनेव हितं प्रियं वचः ।
बलीयसा तद्विधिनेव पौरुषं बलं निरस्तं न रराज जिष्णुना ।। १४.६३ ।।

प्रतिदिशं प्लवगाधिपलक्ष्मणा विशिखसंहतितापितमूर्तिभिः ।
रविकरग्लपितैरिव वारिभिः शिवबलैः परिमण्डलता दधे ।। १४.६४ ।।

प्रविततशरजालच्छन्नविश्वान्तराले विधुवति धनुराविर्मण्डलं पाण्डुसूनौ ।
कथं अपि जयलक्ष्मीर्भूतभूता विहातुं विषमनयनसेनापक्षपातं विषेहे ।। १४.६५ ।।

इति भारविकृतौ महाकाव्ये किरातार्जुनीये चतुर्दशः सर्गः ।