← षष्ठः सर्गः किरातार्जुनीयम्
सप्तमः सर्गः
भारविः
अष्ठमः सर्गः →


श्रीमद्भिः सरथगजैः सुराङ्गनानां गुप्तानां अथ सचिवैस्त्रिलोकभर्तुः ।
संमूर्छन्नलघुविमानरन्ध्रभिन्नः प्रस्थानं समभिदधे मृदङ्गनादः ।। ७.१ ।।

सोत्कण्ठैरमरगणैरनुप्रकीर्णान्निर्याय ज्वलितरुचः पुरान्मघोनः ।
रामाणां उपरि विवस्वतः स्थितानां नासेदे चरितगुणत्वं आतपत्रैः ।। ७.२ ।।

धूतानां अभिमुखपातिभिः समीरैरायासादविशदलोचनोत्पलानां ।
आनिन्ये मदजनितां श्रियं वधूनां उष्णांशुद्युतिजनितः कपोलरागः ।। ७.३ ।।

तिष्ठद्भिः कथं अपि देवतानुभावादाकृष्टैः प्रजविभिरायतं तुरङ्गैः ।
नेमीनां असति विवर्तनई रथौघैरासेदे वियति विमानवत्प्रवृत्तिः ।। ७.४ ।।

कान्तानां कृतपुलकः स्तनाङ्गरागे वक्त्रेषु च्युततिलकेषु मौक्तिकाभस् ।
सम्पेदे श्रमसलिलोद्गमो विभूषा रम्याणां विकृतिरपि श्रियं तनोति ।। ७.५ ।।

राजद्भिः पथि मरुतां अभिन्नरूपैरुल्कार्चिः स्फुटगतिभिर्ध्वजाङ्कुशानां ।
तेजोभिः कनकनिकाषराजिगौरैरायामः क्रियत इव स्म सातिरेकः ।। ७.६ ।।

रामाणां अवजितमाल्यसौकुमार्ये सम्प्राप्ते वपुषि सहत्वं आतपस्य ।
गन्धर्वैरधिगतविस्मयैः प्रतीये कल्याणी विधिषु विचित्रता विधातुः ।। ७.७ ।।

सिन्दूरैः कृतरुचयः सहेमकक्ष्याः स्रोतोभिस्त्रिदशगजा मदं क्षरन्तः ।
सादृश्यं ययुररुणांशुरागभिन्नैर्वर्षद्भिः स्फुरितशतह्रदैः पयोदैः ।। ७.८ ।।

अत्यर्थं दुरुपसदादुपेत्य दूरं पर्यन्तादहिममयूखमण्डलस्य ।
आशानां उपरचितां इवैकवेणीं रम्योर्मीं त्रिदशनदीं ययुर्बलानि ।। ७.९ ।।

आमत्तभ्रमरकुलाकुलानि धुन्वन्नुद्भूतग्रथितरजांसि पङ्कजानि ।
कान्तानां गगननदीतरङ्गशीतः संतापं विरमयति स्म मातरिश्वा ।। ७.१० ।।

सम्भिन्नैरिभतुरगावगाहनेन प्राप्योर्वीरनुपदवीं विमानपङ्क्तीः ।
तत्पूर्वं प्रतिविदधे सुरापगाया वप्रान्तस्खलितविवर्तनं पयोभिः ।। ७.११ ।।

क्रान्तानां ग्रहचरितात्पथो रथानां अक्षाग्रक्षतसुरवेश्मवेदिकानां ।
निःसङ्गं प्रधिभिरुपाददे विवृत्तिः सम्पीडक्षुभितजलेषु तोयदेषु ।। ७.१२ ।।

तप्तानां उपदधिरे विषाणभिन्नाः प्रह्लादं सुरकरिणां घनाः क्षरन्तः ।
युक्तानां खलु महतां परोपकारे कल्याणी भवति रुजत्स्वपि प्रवृत्तिः ।। ७.१३ ।।

संवाता मुहुरनिलेन नीयमाने दिव्यस्त्रीजघनवरांशुके विवृत्तिं ।
पर्यस्यत्पृथुमणिमेखलांशुजालं संजज्ञे युतकं इवान्तरीयं ऊर्वोः ।। ७.१४ ।।

प्रत्यार्द्रीकृततिलकास्तुषारपातैः प्रह्लादं शमितपरिश्रमा दिशन्तः ।
कान्तानां बहुमतिं आययुः पयोदा नाल्पीयान्बहु सुकृतं हिनस्ति दोषः ।। ७.१५ ।।

यातस्य ग्रथिततरङ्गसैकताभे विच्छेदं विपयसि वारिवाहजाले ।
आतेनुस्त्रिदशवधूजनाङ्गभाजां संधानं सुरधनुषः प्रभा मणीनां ।। ७.१६ ।।

संसिद्धाविति करणीयसंनिबद्धैरालापैः पिपतिषतां विलङ्घ्य वीथीं ।
आसेदे दशशतलोचनध्वजिन्या जीमूतैरपिहितसानुरिन्द्रकीलः ।। ७.१७ ।।
आकीर्णा मुखनलिनैर्विलासिनीनां उद्भूतस्फुटविशदातपत्रफेना ।
सा तूर्यध्वनितगभीरं आपतन्ती भूभर्तुः शिरसि नभोनदीव रेजे ।। ७.१८ ।।

सेतुत्वं दधति पय्ॐउचां विताने संरम्भादभिपततो रथाञ्जवेन ।
आनिन्युर्नियमितरश्मिभुग्नघोणाः कृच्छ्रेण क्षितिं अवनामितस्तुरङ्गाः ।। ७.१९ ।।

माहेन्द्रं नगं अभितः करेणुवर्याः पर्यन्तस्थितजलदा दिवः पतन्तः ।
सादृश्यं निलयननिष्प्रकम्पपक्षैराजग्मुर्जलनिधिशायिभिर्नगेन्द्रैः ।। ७.२० ।।

उत्सङ्गे समविषमे समं महाद्रेः क्रान्तानां वियदभिपातलाघवेन ।
आ मूलादुपनदि सैकतेषु लेभे सामग्री खुरपदवी तुरङ्गमाणां ।। ७.२१ ।।

सध्वानं निपतितनिर्झरासु मन्द्रैः संमूर्छन्प्रतिनिनदैरधित्यकासु ।
उद्ग्रीवैर्घनरवशङ्कया मयूरैः सोत्कण्ठं ध्वनिरुपशुश्रुवे रथानां ।। ७.२२ ।।

सम्भिन्नां अविरलपातिभिर्मयूखैर्नीलानां भृशं उपमेखलं मणीनां ।
विच्छिनां इव वनिता नभोन्तराले वप्राम्भःस्रुतिं अवलोकयांबभूवुः ।। ७.२३ ।।

आसन्नद्विपपदवीमदानिलाय क्रुध्यन्तो धियं अवमत्य धूर्गतानां ।
सव्याजं निजकरिणीभिरात्तचित्ताः प्रस्थानं सुरकरिणः कथंचिदीषुः ।। ७.२४ ।।

नीरन्ध्रं पथिषु रजो रथाङ्गनुन्नं पर्यस्यन्नवसलिलारुणं वहन्ती ।
आतेने वनगहनानि वाहिनी सा घर्मान्तक्षुभितजलेव जह्नुकन्या ।। ७.२५ ।।

सम्भोगक्षमगहनां अथोपगङ्गं बिभ्राणां ज्वलितमणीनि सैकतानि ।
अध्यूषुश्च्युतकुसुमाचितां सहाया वृत्रारेरविरलशाद्वलां धरित्रीं ।। ७.२६ ।।

भूभर्तुः समधिकं आदधे तदोर्व्याः श्रीमत्तां हरिसखवाहिनीनिवेशः ।
संसक्तौ किं असुलभं महोदयानां उच्छ्रायं नयति यदृच्छयापि योगः ।। ७.२७ ।।

सामोदाः कुसुमतरुश्रियो विविक्ताः सम्पत्तिः किसलयशालिनीलतानां ।
साफल्यं ययुरमराङ्गनोपभुक्ताः सा लक्ष्मीरुपकुरुते यया परेषां ।। ७.२८ ।।

क्लान्तोऽपि त्रिदशवधूजनः पुरस्ताल्लीनाहिश्वसितविलोलपल्लवानां ।
सेव्यानां हतविनयैरिवावृतानां सम्पर्कं परिहरति स्म चन्दनानां ।। ७.२९ ।।

उत्सृष्टध्वजकुथकङ्कटा धरित्रीं आनीता विदितनयैः श्रमं विनेतुं ।
आक्षिप्तद्रुमगहना युगान्तवातैः पर्यस्ता गिरय इव द्विपा विरेजुः ।। ७.३० ।।

प्रस्थानश्रमजनितां विहाय निद्रां आमुक्ते गजपतिना सदानपङ्के ।
शय्यान्ते कुलमलिनां क्षणं विलीनं संरम्भच्युतं इव शृङ्खलं चकाशे ।। ७.३१ ।।

आयस्तः सुरसरिदोघरुद्धवर्त्मा सम्प्राप्तुं वनगजदानगन्धि रोधः ।
मूर्धानं निहितशिताङ्कुशं विधुन्वन्यन्तारं न विगणयांचकार नागः ।। ७.३२ ।।

आरोढुः समवनतस्य पीतशेषे साशङ्कं पयसि समीरिते करेण ।
संमार्जन्नरुणमदस्रुती कपोलौ सस्यन्दे मद इव शीकरः करेणोः ।। ७.३३ ।।

आघ्राय क्षणं अतितृष्यतापि रोषादुत्तीरं निहितविवृत्तलोचनेन ।
सम्पृक्तं वनकरिनां मदाम्बुसेकैर्नाचेमे हिमं अपि वारि वारणेन ।। ७.३४ ।।

प्रश्च्योतन्मदसुरभीणि निम्नगायाः क्रीडन्तो गजपतयः पयांसि कृत्वा ।
किञ्जल्कव्यवहितताम्रदानलेखैरुत्तेरुः सरसिजगन्धिभिः कपोलैः ।। ७.३५ ।।

आकीर्णं बलरजसा घनारुणेन प्रक्षोभैः सपदि तरङ्गितं तटेषु ।
मातङ्गोन्मथितसरोजरेणुपिङ्गं माञ्जिष्ठं वसनं इवाम्बु निर्बभासे ।। ७.३६ ।।

श्रीमद्भिर्नियमितकन्धरापरान्तैः संसक्तैरगुरुवनेषु साङ्गहारं ।
सम्प्रापे निसृतमदाम्बुभिर्गजेन्द्रैः प्रस्यन्दिप्रचलितगण्डशैलशोभा ।। ७.३७ ।।

निःशेषं प्रशमितरेणु वारणानां स्रोतोभिर्मदजलं उज्झतां अजस्रं ।
आमोदं व्यवहितभूरिपुष्पगन्धो भिन्नैलासुरभिं उवाह गन्धवाहः ।। ७.३८ ।।

सादृश्यं दधति गभीरमेघघोषैरुन्निद्रक्षुभितमृगाधिपश्रुतानि ।
आतेनुश्चकितचकोरनीलकण्ठान्कच्छान्तानमरमहेभबृंहितानि ।। ७.३९ ।।

सास्रावसक्तकमनियपरिच्छदानां अध्वश्रमातुरवधूजनसेवितानां ।
जज्ञे निवेशनविभागपरिष्कृतानां लक्ष्मीः पुरोपवनजा वनपादपानां ।। ७.४० ।।

इति भारविकृतौ महाकाव्ये किरातार्जुनीये सप्तमः सर्गः ।