प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

कुट्टनीमतम्

स जयति संकल्पभवो रतिमुखशतपत्रचुम्बनभ्रमरः ।
यस्यानुरक्तललनानयनान्तविलोकितं वसतिः ॥ १ ॥
अवधीर्य दोषनिचयं गुणलेशे संनिवेश्य मतिमार्याः ।
कुट्टन्या मतमेतद्दामोदरगुप्तविरचितं शृणुत ॥ २ ॥
अस्ति खलु निखिलभूतलभूषणभूता विभूतिगुणयुक्ता ।
युक्ताभियुक्तजनता नगरी वाराणसी नाम ॥ ३ ॥
अनुभवतामपि यस्यामुपभोगान्कामतः शरीरवताम् ।
शशधरखण्डविभूषितदेहलयः किल न दुष्प्रापः ॥ ४ ॥
चन्द्रविभूषितदेहा भूतिरताः सद्भुजङ्गपरिवाराः ।
वारस्त्रियो ऽपि यस्यां पशुपतितनुतुल्यतां याताः ॥ ५ ॥
अतितुङ्गसुरनिकेतनशिखरसमुत्क्षिप्तपवनचलिताभिः ।
मञ्जरितमिव विराजति यत्र नभो वैजयन्तीभिः ॥ ६ ॥
अविरतसंचरदबलाचरणतलालक्तकद्रवारुणितम् ।
स्थलकमलवतीं लक्ष्मीं बिभर्ति वसुधातलं यत्र ॥ ७ ॥
यत्र च रमणीभूषणरवबधिरितसकलदिङ्नभोभागे ।
शिष्याणां नाचार्यैरवद्यमवधार्यते पठताम् ॥ ८ ॥
विन्ध्यधराधरभूरिव या राजति मत्तवारणोपेता ।
बहुलनिशीथवतीव प्रोज्ज्वलधिष्ण्योपशोभिता या च ॥ ९ ॥
यतिगणगुणसमुपेता या नित्यं छन्दसामिव प्रचितिः ।
वनपङ्क्तिरिव ससाला तुरुष्कसेनेव बहलगन्धर्वा ॥ १० ॥
तारागणो ऽकुलीनः प्रियदोषा यत्र कौशिकाः सततम् ।
गद्ये वृत्तच्यवनं परगृहरोधस्तथाक्षेषु ॥ ११ ॥
शूलभृतो व्यालास्था पदवेदिषु यत्र धातुवादित्वम् ।
सुरतेष्वबलाक्रमणं दानच्छेदो मदच्युतौ करिणाम् ॥ १२ ॥
तीव्रकरत्वं भानोरविवेको यत्र मित्रहृदयानाम् ।
योगिषु दण्डग्रहणं संधिच्छेदः प्रगृह्येषु ॥ १३ ॥
छन्दःप्रस्तारविधौ गुरवो यस्यामनार्जवस्थितयः ।
वीणायां परिवादो द्विजनिलयेष्वप्रसन्नत्वम् ॥ १४ ॥
अनुरूपवृत्तघटना सत्कविकृतरूपकेषु लोके च ।
रमणीवचने यस्यां माधुर्यं काव्यबन्धे च ॥ १५ ॥
यस्यामुपवनवीथ्यां तमालपत्त्राणि युवतिवदने च ।
नखरप्रहारकणितं तन्त्रीवाद्ये च सुरतकलहे च ॥ १६ ॥
नन्दनवनाभिरामा विबुधवती नाकवाहिनीजुष्टा ।
अमरावतीव यान्या विश्वसृजा निर्मिता जगति ॥ १७ ॥
तस्यां खगपतितनुरिव विलासिनां हृदयशोकसंजननी ।
आकृष्टेश्वरहृदया प्रालेयनगाधिराजतनयेव ॥ १८ ॥
संसक्तभोगिनेत्रा मन्दरधरणीभृतो यथा मूर्तिः ।
उपरिगता शूलानामन्धासुरगात्रलेखेव ॥ १९ ॥
समुवास वाररामा मानसवसतेः शरीरिणी शक्तिः ।
निःशेषवेशयोषिद्विभूषणं ंालती नाम ॥ २० ॥
पेशलवचसां वसतिर्लीलानामालयः स्थितिः प्रेम्नः ।
भूमिः परिहासानामावसथो वक्रकथितानाम् ॥ २१ ॥
सा शुश्राव कदा चिद्धवलालयपृष्ठदेशमधिरूढा ।
केनापि गीयमानां प्रसङ्गपतितामिमामार्याम् ॥ २२ ॥
यौवनसौन्दर्यमदं दूरेणापास्य वारवनिताभिः ।
यत्नेन वेदितव्याः कामुकहृदयार्जनोपायाः ॥ २३ ॥
श्रुत्वाथ विपुलजघना मनसीदं मालती चकार चिरम् ।
अतिसाम्प्रतमुपदिष्टं सुहृदेवानेन साधुना पठता ॥ २४ ॥
तद्गत्वा पृच्छामो विकरालां कलितसकलसंसाराम् ।
यस्याः कामिजनौघो दिवानिशं द्वारदेशमध्यास्ते ॥ २५ ॥
इति मनसि सा निवेश्य द्रुततरमवतीर्य वेश्मनः शिखरात् ।
विकरालाभवनवरं परिजनपरिवारिता प्रययौ ॥ २६ ॥
अथ विरलोन्नतदशनां निम्नहनुं स्थूलचिपिटनासाग्राम् ।
उल्बणचूचुकलक्षितशुष्ककुचस्थानशिथिलकृत्तितनुम् ॥ २७ ॥
गम्भीरारक्तदृशं निर्भूषणलम्बकर्णपालीं च ।
कतिपयपाण्डुरचिकुरां प्रकटशिरासंततायतग्रीवाम् ॥ २८ ॥
सितधौतवसनयुगलां विविधौषधिमणिसनाथगलसूत्राम् ।
तन्वीमङ्गुलिमूले तपनीयमयीं च वालिकां दधतीम् ॥ २९ ॥
गणिकागणपरिकरितां कामिजनोपायनप्रसक्तदृशम् ।
आसन्द्यामासीनां विलोकयामास विकरालाम् ॥ ३० ॥
अवलोक्य सा विधाय क्षितिमण्डललीनमौलिना प्रणतिम् ।
परिपृष्टकुशलवार्ता समनुज्ञातासनं भेजे ॥ ३१ ॥
अथ विरचितहस्तपुटा सप्रश्रयमासनं समुत्सृज्य ।
इदमूचे विकरालामवसरमासाद्य मालती वचनम् ॥ ३२ ॥
विदधासि ःरिमकौस्तुभमहरिं ऋअविमगजनाथममरेन्द्रम् ।
अद्रविणं द्रविणपतिं नियतं मतिगोचरे पतितम् ॥ ३३ ॥
अयमेव बुद्धिविभवं हृतविभवस्ते पटच्चरावरणः ।
कामुकलोकः कथयति सत्त्रागारेषु भुञ्जानः ॥ ३४ ॥
उपसंहृतान्यकर्मा ढनवर्मा णर्मदाङ्घ्रियुगलस्य ।
सकलसमर्पितसम्पद्यदुपेतः पादपीठत्वम् ॥ ३५ ॥
यदुपनतो णयदत्तः षागरदत्तस्य मध्यमः पुत्रः ।
प्रीणयति ंदनसेनां विधाय पितृमन्दिरं रिक्तम् ॥ ३६ ॥
यल्लीलार्पितचरणौ ंञ्जर्या Bहट्टपुत्रनरसिंहः ।
परितोषं व्रजति परं मृदु मृद्नन्पाणियुगलेन ॥ ३७ ॥
यन्निःशेषितविभवो दीक्षितभवदेवपुत्रशुभदेवः ।
निर्भर्त्सितो ऽपि नोज्झति केसरसेनागृहद्वारम् ॥ ३८ ॥
अन्या अपि कामिजनं साधारणयोषितो यदाक्रम्य ।
विदधति कर्पटशेषं विलसितमेतत्तवोपदेशानाम् ॥ ३९ ॥
हीनान्वयजन्मानो गुणहीना रोगिणो निराकृतयः ।
उपसेविता मयापि प्रकटीकृतरागसौष्ठवं पुरुषाः ॥ ४० ॥
मातः किं विदधामो हतधातुर्वामताभियोगेन ।
नासादयाम इष्टं निजतनुपण्यप्रसारकेणापि ॥ ४१ ॥
तत्कुरु मातरनुग्रहमभिधत्स्व ममापि देहिनो भोग्यान् ।
तेषां च वेशचेष्टितमनसिजशरजालपातनोपायान् ॥ ४२ ॥
इति गिरमुदीरयन्तीं सप्रेमामृश्य पाणिना पृष्ठे ।
रुचिरवचो Vइकराला रुचिराकृतिमालतीमूचे ॥ ४३ ॥
अयमेव दह्यमानस्मरनिर्गतधूमवर्तिकाकारः ।
चिकुरभरस्तव सुन्दरि कामिजनं किङ्करीकुरुते ॥ ४४ ॥
अयमेव ते कृशोदरि मन्दोल्लसितभ्रुविभ्रमाधारः ।
अधरीकरोति धीरान्मधुरस्मितसुभगवीक्षितविशेषः ॥ ४५ ॥
इयमेव वदनकान्ती रतिकान्ताकूतमतितरां कुरुते ।
श्रुतिपथमप्युपयाता नियतं तव कामिनां मनसि ॥ ४६ ॥
इयमेव दशनपङ्क्ती रुचिराचिरकान्तिकान्तिसमकान्तिः ।
उत्पादयति नितान्तं तव ंन्मथदाहवेदनां पुंसाम् ॥ ४७ ॥
इदमेव समुल्लपितं लीलावति विजितपरभृतध्वानम् ।
तव निःशेषभुजङ्गव्याकर्षणसिद्धमन्त्रवच्चित्रम् ॥ ४८ ॥
इदमेव ंकरकेतननिकेतनं स्तनयुगं तवाभोगि ।
भोगवति भोगसाधनमपरोपायग्रहो व्यर्थः ॥ ४९ ॥
इदमेव बाहुयुगलं मृणालतनुसुन्दरं तवाभोगि ।
कस्य न जनयति मदनं कनकाङ्गदभूषणं सुतनु ॥ ५० ॥
अयमेव मध्यदेशः Kअन्दर्पादेशकरणचतुरस्ते ।
प्रकृशो ऽपि शरीरभृतो दशमीं प्रापयति मन्मथावस्थाम् ॥ ५१ ॥
इयमेव रोमराजिः षङ्कल्पजचापयष्टिगुणशोभाम् ।
दधती विदधाति तव स्मरसायकशल्यविक्लवान्यूनः ॥ ५२ ॥
इदमेव पृथुलजघनं कलधौतशिलातलाभिरमणीयम् ।
तव तरुणवशीकरणं यतिसंयतिनाशकारि करभोरु ॥ ५३ ॥
इदमेव तवोरुयुगं रम्भागर्भोपमं मनोहारि ।
वद सुन्दरि नाभिमतं मदनज्वरतापशान्तये कस्य ॥ ५४ ॥
यौवनकल्पतरोस्ते कनकलताविभ्रमं सुवृत्तमिदम् ।
जङ्घायुगलं नेच्छति कामफलप्राप्तये क इव ॥ ५५ ॥
निर्जितदाडिमरागं विजितस्थलकमलिनीविलासमिदम् ।
तव चरणसरोजयुगं कस्य न मानसमलङ्कुरुते ॥ ५६ ॥
ह्रेपयति वारणेन्द्रं हंसं हसति प्रयातमिदमेव ।
तव लीलावति ललितं यूनां हृदयानि मथ्नाति ॥ ५७ ॥
तदपि यदि ते कुतूहलमवधानं संविधाय तनुमध्ये ।
आकर्णय कथयामि स्वबुद्धिविभवानुसारेण ॥ ५८ ॥
स्वीकुरु तावत्प्रथमं नृपसेवकभट्टसूनुमतियत्नात् ।
स्वाधीनामतिविपुलां यदि सम्पदमीहसे सुतनु ॥ ५९ ॥
प्रत्यासन्नग्रामे स्वयं प्रभुः पितरि नित्यकटकस्थे ।
Bहट्टसुतश्चिन्तामणिराकृष्टो भवति पुत्रि नियमेन ॥ ६० ॥
शृणु तस्य चारुहासिनि वेषग्रहणं च चेष्टितं चैव ।
निपतति च यथा तूर्णं प्रियसुरभिकुसुमशरासनप्रसरे ॥ ६१ ॥
स्थूलस्थापितचूलकपञ्चाङ्गुलमात्रकेशविन्यासः ।
लम्बश्रवणनिवेशितकरपत्रिकघटितदशनपङ्क्तिश्च ॥ ६२ ॥
करशाखाश्रितमुद्रिकचामीकरकण्ठसूत्रिकाभरणः ।
परिमृष्टगात्रकुङ्कुमकिञ्चित्पिञ्जरितवसनसंवीतः ॥ ६३ ॥
प्रविलम्बिकुसुमदामकगलमण्डनजातरूपकृतशोभः ।
अन्तर्निविष्टसिक्थिततौरुष्किकखुश्शिकादिचरणत्रः ॥ ६४ ॥
नानावर्णविवेष्टितबहलदशापाशबद्धततकेशम् ।
एकस्मिन्दलवीटकमपरस्मिन्सीसपत्रकं कर्णे ॥ ६५ ॥
उच्चण्डकनकगर्भितकुङ्कुमपिञ्जरितवस्तिपरिधानम् ।
स्थूलतरकाचवर्तकमालां च गले दधानेन ॥ ६६ ॥
वृश्चिकरञ्जितकररुहकरमूलनिबद्धशङ्खचक्रेण ।
प्रथमवयस्त्वं भजता ताम्बूलकरङ्कवाहिनानुगतः ॥ ६७ ॥
श्रेष्ठिवणिग्विटकितवप्रधानरङ्गस्य सुमहतो मध्ये ।
शूलापालस्थापितकतिपयवध्रोरुपीठिकासीनः ॥ ६८ ॥
उत्सङ्गार्पितखड्गैरयथातथभाषिभिर्महौद्धत्यम् ।
बिभ्राणैरनुजीविभिरधिष्ठितः पञ्चषैः पुरुषैः ॥ ६९ ॥
चतुरतरसेवकार्पितपृष्ठपरिक्षिप्तपूर्वदेहांशः ।
अन्तर्विधृतावेलप्रोच्छूनकपोलकलितकरपर्णः ॥ ७० ॥
अनपेक्षितप्रसङ्गः पुनः पुनः पठति सोन्नतभ्रूकः ।
गाथाश्लोकप्रायं भावितचेता यथातथाधीतम् ॥ ७१ ॥
विस्मयलोलितमौलिः पार्श्वगतान्ताडयन्रसावेगात् ।
हाकष्टसाधुवादैरन्तरयति परसुभाषितश्रवणम् ॥ ७२ ॥
इदमुक्तो रहसि रुषा तातेन नृपो नृपेण तातो ऽपि ।
इति पितुराविष्कुरुते महीभृतः प्रणयविश्वासौ ॥ ७३ ॥
पत्रच्छेदमजानन्जानन्वा कौशलं कलाविषये ।
प्रकटयति जनसमाजे बिभ्राणः पत्रकर्तरीं सततम् ॥ ७४ ॥
ब्रह्मोक्तनाट्यशास्त्रे गीते मुरजादिवादने चैव ।
अभिभवति णारदादीन्प्रावीण्यं Bहट्टपुत्रस्य ॥ ७५ ॥
वसुनन्दचित्रदण्डकमुक्तायुधखड्गधेनुबन्धेषु ।
व्रजति पुरतो ऽस्य नियतं भार्गवतां ড়रशुरामो ऽपि ॥ ७६ ॥
वात्स्यायनमयमबुधं बाह्यं दूरेण दत्तकाचार्यम् ।
गणयति मन्मथतन्त्रे पशुतुल्यं राजपुत्रं च ॥ ७७ ॥
यः प्रार्थितो ऽपि यत्नात्कवचं राधासुतो ददाति स्म ।
अविचिन्तितवसुवर्षस्त्यागगुणं हसति तस्यायम् ॥ ७८ ॥
प्रपलायनैकहृदये यो विक्रममातनोति हरिणे ऽपि ।
सिंहस्य तस्य शौर्यं त्रपाकरं भट्टपुत्रस्य ॥ ७९ ॥
आखेटके ऽपि कौतुकमस्त्येव जयश्च चञ्चले लक्ष्ये ।
भट्टभयेन न खेलति भट्टसुतः किं त्वतिप्रकटम् ॥ ८० ॥
इति निजसेवकनिगदितरामणिकावचनजनितपरितुष्ट्या ।
अन्तर्मुदितो ब्रूते मामेष खलीकरोतीति ॥ ८१ ॥
कतमत्कतमल्लग्नं प्रस्थानं का च नर्तकी भद्रा ।
षिङ्गटके का नृत्यति कोहलभरतोदितक्रियया ॥ ८२ ॥
कीदृक्त्वं लयमार्गे धवलुकरचिते च भाणके कीदृक् ।
प्रेक्षणकादावेवं पृच्छति नृत्तोपदेशकं यत्नात् ॥ ८३ ॥
सुमनोमालां कण्ठात्सादरचेता ददाति नर्तक्यै ।
अपनीय सताम्बूलकमनवसरे साधुवादं च ॥ ८४ ॥
भुजपतनगात्रसंस्थितिलालित्योद्वहनपार्श्ववलितानि ।
अनयैव निर्मितानि स्थानकशुद्धिश्च चातुरस्र्यं च ॥ ८५ ॥
प्रविभक्तैर्भावरसैरभिनयभङ्ग्या परिक्रमैश्चित्रैः ।
ऋअम्भामप्यतिशेते किमुतेतरमर्त्यनर्तकीलोकम् ॥ ८६ ॥
इत्यपसारकविरतावविरतमुत्स्नायुकण्ठमत्युच्चैः ।
वर्णयति भावितात्मा लक्षितपदमात्रया पात्रम् ॥ ८७ ॥
प्रायेण Bहट्टतनयो भवतीदृशवेषचेष्टितो वत्से ।
तं मदनवागुरान्तः पातयसि यथा तथा ब्रूमः ॥ ८८ ॥
चतुरा प्रागल्भ्यवती परचित्तज्ञानकौशलोपेता ।
योज्या तस्मिन्दूती वक्रोक्तिविभूषिता प्रयत्नेन ॥ ८९ ॥
स उपेत्य तयावसरे ताम्बूलं सुमनसश्च दत्त्वेत्थम् ।
अभिधातव्यः सुन्दरि मकरध्वजदीपकैर्वचनैः ॥ ९० ॥
जन्मसहस्रोपचितैः पुण्यचयैरद्य फलितमस्माकम् ।
यत्त्वं नयनानन्दन नयनावसरं समेतो ऽसि ॥ ९१ ॥
चाटुक्रममनुरागं प्रणयरुषौ विरहजनितशोकार्तिम् ।
प्रकटयति वाररमणी नटीव शिक्षाभियोगेन ॥ ९२ ॥
प्रवयसि यौवनशालिनि हीनकुले सत्कुलप्रसूते च ।
रोगवति दृढशरीरे समचित्ता योगिनश्च गणिकाश्च ॥ ९३ ॥
उपचरिताप्यतिमात्रं प्रकटवधूः क्षीणसम्पदः पुंसः ।
पातयति दृशं व्रजतः स्पृहया परिधानमात्रे ऽपि ॥ ९४ ॥
इत्थं दृढतरवासितमनसां पुंसां त्वसाम्प्रतं पुरतः ।
वेशविलासवतीनामशरीरशरव्यथाकथनम् ॥ ९५ ॥
केवलमगणितलाघवदूरपरित्यक्तधीरताभरणा ।
मुखरयति मां दुराशादग्धसखी तेन कथयामि ॥ ९६ ॥
हृदयमधिष्ठितमादौ ंालत्याः कुसुमचापबाणेन ।
चरमं रमणीवल्लभ लोचनविषयं त्वया भजता ॥ ९७ ॥
क्षणमुत्कण्टकिताङ्गी क्षणमुल्बणदाहवेदनावस्था ।
क्षणमुपजाताकम्पा स्वेदार्द्रवपुः क्षणं भवति ॥ ९८ ॥
मुहुरविभावितहास्या मुहुरुज्झितधीरभावमत्युच्चैः ।
रोदिति गायति च पुनः पुनश्च मौनावलम्बिनी भवति ॥ ९९ ॥
पतति मुहुः पर्यङ्के मुहुरङ्के परिजनस्य मुहुरवनौ ।
किसलयकल्पिततल्पे मुहुरम्भसि मुहुरनङ्गसंतप्ता ॥ १०० ॥
महिषीव पङ्कदिग्धा हंसीव मृणालवलयपरिवारा ।
सुभग मयूरीवासौ भुजङ्गविद्वेषिणी जाता ॥ १०१ ॥
कदली चन्दनपङ्कः पङ्केरुहनीरहारघनसारम् ।
शशधरशशधरकान्तं शान्त्यै नो मदनहुतभुजस्तस्याः ॥ १०२ ॥
अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ।
अलमलमालि मृणालैरिति वदति दिवानिशं बाला ॥ १०३ ॥
संकल्पैरुपनीतं त्वामन्तिकमुल्लसन्मनोवृत्तिः ।
दृढमालिङ्गति पश्चात्स्वभुजापीडेन याति वैलक्ष्यम् ॥ १०४ ॥
कुसुमामोदी पवनः पिककूजितभृङ्गसार्थरसितानि ।
इयमियती सामग्री घटिता विधिनैव तद्विनाशाय ॥ १०५ ॥
अबलां बलिना नीतां दशामिमां मकरकेतुना रक्ष ।
आपत्पतितोद्धृतये भवति हि शुभजन्मनां जन्म ॥ १०६ ॥
नो गृह्णन्ति यथार्था अर्थिजनैर्निगदिता गिरः प्रायः ।
ंालत्या गुणलेशं शृणु धृष्टतया तथापि कथयामि ॥ १०७ ॥
आस्फालयतो नूनं धनुरतनोः कौसुमं रजः पतितम् ।
संहृत्य सा सुमध्या विश्वसृजा निर्मिता तेन ॥ १०८ ॥
उपहसति ङिरिसुताया लावण्यं येन सततलग्नेन ।
न द्रवतामुपनीतं भोगीन्द्रविभूषणस्य देहार्धम् ॥ १०९ ॥
शशधरबिम्बार्धगतां छायामिव षैंहिकेयवदनस्य ।
अलिपटलनीलकुटिलामलकावलिमलिकसंनिधौ वहति ॥ ११० ॥
सरसिजमस्थिरशोभं विभ्रमरहितं च मण्डलं शशिनः ।
केन समेतु समत्वं हृदयप्रिय ंालतीवदनम् ॥ १११ ॥
अलिरुपरि तदीक्षणयोर्भ्रान्त्वासौगन्ध्यसूचितविशेषः ।
निपतति कर्णाम्बुरुहे निर्गुणताप्यवसरे साध्वी ॥ ११२ ॥
बिभ्राणे ऽरुणिमानं सहजं जितबन्धुजीवरुचिमधरे ।
यदलक्तकविन्यसनं तत्तस्या मण्डनक्रीडा ॥ ११३ ॥
चित्रमिदं यत्कृशता तस्या वलिपरिगृहीतमध्यस्य ।
अथवा नो विधिविहिता महताप्यपनीयते तनुता ॥ ११४ ॥
आस्तामपरस्तावत्तस्याः स्मरवसतिपृथुतरनितम्बः ।
श्लथयति Kअपिलमुनेरपि दृक्पथपतितः समाधानम् ॥ ११५ ॥
तस्या रम्भावपुषो रम्भोपममूरुयुगलमवलोक्य ।
ंकरध्वजो ऽपि सहसा निजसायकलक्ष्यतां याति ॥ ११६ ॥
जघनभरालसयाता नो याता सा विलोचनप्रसरम् ।
तिष्ठति तेन मनोहर शरजन्मा ब्रह्मचर्येण ॥ ११७ ॥
यदि कथमपि ंधुमथनः पश्यति तामसमबाणसर्वस्वम् ।
तदसारभारभूतं ऌअक्ष्मीवपुरुरसि विनिहितं मनुते ॥ ११८ ॥
यदि पतति सा कथं चिद्वीक्षणविषयं हरस्य तदवश्यम् ।
त्रिभुवनमशिवं कुरुते वामेतरदेहभागमासाद्य ॥ ११९ ॥
सौन्दर्यं तत्तादृशमशेषयोषिद्विलक्षणं सृजतः ।
यन्निष्पन्नं धातुस्तन्मन्ये काकतालीयम् ॥ १२० ॥
सहजविलासनिवासं तस्या वपुरनभिवीक्षमाणस्य ।
मन्ये नाकाधिपतेः सहस्रमपि चक्षुषां विफलम् ॥ १२१ ॥
शिथिलयतु कुसुमचापं क्षिपतु शरान्बाणधौ ंनोजन्मा ।
संसारसारभूता विचरति भुवि ंालती यावत् ॥ १२२ ॥
Vआत्स्यायनमदनोदयदत्तकविटवृत्तराजपुत्राद्यैः ।
उच्छ्वसितं यत्किं चित्तत्तस्या हृदयदेशमध्यास्ते ॥ १२३ ॥
Bहरतविशाखिलदत्तिलवृक्षायुर्वेदचित्रसूत्रेषु ।
पत्रच्छेदविधाने भ्रमकर्मणि पुस्तसूदशास्त्रेषु ॥ १२४ ॥
आतोद्यवादनविधौ नृत्ते गीते च कौशलं तस्याः ।
अभिधातुं यदि शक्तो वदनसहस्रेण भोगिनामीशः ॥ १२५ ॥
परिगलदालोलांशुकमपयन्त्रणमुपरि ंालती रभसात् ।
निपतति नापुण्यवतां रतिलालसमानसा रहसि ॥ १२६ ॥
रतिरसरभसास्फालनचलवलयनिनादमिश्रितं तस्याः ।
तत्कालोचितमणितं श्रुतिपथमुपयाति नाल्पपुण्यस्य ॥ १२७ ॥
इत्थमभिधीयमानः शुभमध्ये यदि भवेदुदासीनः ।
एवं ततो ऽभिधेयः संदर्शितकोपया दूत्या ॥ १२८ ॥
किं सौभाग्यमदो ऽयं यौवनलीलाभिरूपतादर्पः ।
सहजप्रेमोपनतां ंालतिकां न बहु मन्यसे येन ॥ १२९ ॥
न गणयति या कुलीनान्द्रविणवतः शास्त्रवेदिनः प्रणतान् ।
सा भवदर्थे शुष्यति कुस्थाननिवेशितं धिगनुरागम् ॥ १३० ॥
कमलवती तीव्ररुचौ बहुभस्मनि शम्भुशिरसि शशिलेखा ।
सा च त्वयि पशुकल्पे यदभिरता तेन मे कृशता ॥ १३१ ॥
असरलमरसं कठिनं दुर्ग्रहमस्निग्धमाश्रिता खदिरम् ।
यदुपैति वाच्यपदवीं ंालतिका तत्किमाश्चर्यम्? ॥ १३२ ॥
अथवा कः खलु दोषो यदतुल्यतयोपजनितवैलक्ष्यः ।
स्वाधीनामपि सरसां परिहरति मृणालिकां ध्वाङ्क्षः ॥ १३३ ॥
मात्र करिष्यसि खेदं निष्ठुरमुक्तो ऽसि यन्मया सुभग ।
यूनां हि रक्ततरुणीसुहृदभिहितपरुषमाभरणम् ॥ १३४ ॥
चन्द्रमसेव ज्योत्स्ना Kअंसासुरवैरिणेव वनमाला ।
कुसुमशरासनलतिका Kउसुमाकरवल्लभेनेव ॥ १३५ ॥
मदलीला ःलिनेव स्तनयुगलेनेव हारलता ।
रम्यापि सा सुगात्री रम्यतरा भवतु संगता भवता ॥ १३६ ॥
किं बहुना यदि यूनामुपरि विधातुं समीहसे चरणम् ।
तत्कुरु रमणीरत्नं प्रेमोज्ज्वलमङ्कतस्तूर्णम् ॥ १३७ ॥
अथ तद्वचनश्रवणप्रविजृम्भितमदनभट्टदायादः ।
उपचरणीयः सुन्दरि निजवसतिमुपागतस्त्वयाप्येवम् ॥ १३८ ॥
दूरादभ्युत्थानं प्रणमनमात्मासनप्रदानं च ।
प्रविधेयमञ्चलेन प्रस्फोटनमङ्घ्रियुगलस्य ॥ १३९ ॥
ईषदयत्नप्रकटं कक्षोदरबाहुमूलकुचभागम् ।
संदर्श्य झटिति यास्यसि नायकदृग्गोचरात्तूर्णम् ॥ १४० ॥
अथ पर्यङ्कसनाथं दीपोज्ज्वलकुसुमधूपगन्धाढ्यम् ।
विततवितानकरम्यं प्रवेशितो वासकावासम् ॥ १४१ ॥
मात्रा ते गुरुजघने सादरमवतारणादिकं कृत्वा ।
अभिनन्दनीय एभिर्वचनविशेषैः प्रयत्नेन ॥ १४२ ॥
अद्याशिषः समृद्धाः परितुष्टा इष्टदेवता अद्य ।
कल्याणालङ्कारो यदलङ्कृतवानिदं वेश्म ॥ १४३ ॥
अनुरूपपात्रघटनं कुर्वाणस्याद्य Kउसुमबाणस्य ।
सुचिराद्बत संजातः शरासनाकर्षणश्रमः सफलः ॥ १४४ ॥
विन्यस्य शिरसि चरणं सुभगा गणिकाजनस्य सकलस्य ।
सौभाग्यवैजयन्तीं सम्प्रति वत्सा समुत्क्षिपतु ॥ १४५ ॥
दुहितर एव श्लाघ्या धिग्लोकं पुत्रजन्मसंतुष्टम् ।
जामातर आप्यन्ते भवादृशा यदभिसम्बन्धात् ॥ १४६ ॥
दृढपरिचया गुणज्ञा भवद्विधा नार्थनार्हका यदपि ।
तदपि हृदयाभिनन्दन दुहितृस्नेहादहं वच्मि ॥ १४७ ॥
सहजप्रेमोपहृता न्यस्ता त्वयि ंालती तथा कार्यम् ।
न यथा भवति वराकी त्वद्विप्रियजन्मनां शुचां वसतिः ॥ १४८ ॥
मृदुधौतधूपिताम्बरमग्राम्यं मण्डनं च बिभ्राणा ।
परिपीतधूपवर्तिः स्थास्यसि रमणान्तिके सुतनु ॥ १४९ ॥
सस्नेहं सव्रीडं ससाध्वसं सस्पृहं च पश्यन्ती ।
किं चिद्दृश्यशरीरा प्रविरलपरिहासपेशलालापा ॥ १५० ॥
मातरि निर्यातायां परिजनमुक्ते च वासकस्थाने ।
अभियुञ्जाने रमणे वामाचरणं क्षणं कार्यम् ॥ १५१ ॥
रतिसंगरनिहितमतावाकर्षति रभसतः पुरस्तस्मिन् ।
कुट्टमितमाचरन्ती जनयिष्यसि किं चिदङ्गसंकोचम् ॥ १५२ ॥
प्रारब्धे सुरतविधौ क्रमदर्शितचित्तयोनिसंवेगा ।
अपशङ्कमर्पयिष्यसि निर्व्याजं पुत्रि गात्राणि ॥ १५३ ॥
यद्यद्वाञ्छति हन्तुं यद्दंष्टुं यच्च विलिखितुं गात्रम् ।
तत्तदपसारणीयं सावेगं ढौकनीयं च ॥ १५४ ॥
दंशे सव्यथहुङ्कृतिमामर्दे विविधकण्ठरसितानि ।
नखविलिखने च सीत्कृतमाघातेषूल्बणं क्वणितम् ॥ १५५ ॥
ह्रस्वायासश्वासान्मुञ्चन्ती पुलकदन्तुरशरीरा ।
स्विद्यत्सर्वावयवा प्रकरिष्यसि रागवृद्धये पुंसाम् ॥ १५६ ॥
परभृतलावकहंसकपारावततुरगहृदयनिःस्वनितम् ।
अनुकार्यमुचितकाले कलकण्ठरुतैस्त्वया रसतः ॥ १५७ ॥
मा मा मामतिपीडय मुञ्च क्षणमदय नो समर्थास्मि ।
इति गद्गदास्फुटाक्षरमभिधातव्यस्त्वया कामी ॥ १५८ ॥
अनुबन्धमानुकूल्यं वामत्वं प्रौढतामसामर्थ्यम् ।
सुरतेषु दर्शयिष्यसि कामुकभावं स्फुटं बुद्ध्वा ॥ १५९ ॥
असमञ्जसमश्लीलं दूरोज्झितधैर्यमविनयप्रसरम् ।
व्यवहारमाचरिष्यसि वृद्धिमुपेते रतावेगे ॥ १६० ॥
अविवेचितनखरक्षतिरामीलितलोचना निरुत्साहा ।
नायककार्यसमाप्तौ स्थास्यसि शिथिलीकृतावयवा ॥ १६१ ॥
झगिति नितम्बावरणं निःसहतनुतां स्मितं सवैलक्ष्यम् ।
खेदालसां च दृष्टिं जनयिष्यसि मोहनच्छेदे ॥ १६२ ॥
वृत्ते रताभियोगे स्पृष्ट्वा सलिलं विकृष्टभूभागे ।
प्रक्षाल्य पाणिपादं स्थित्वा क्षणमासने समूह्य कचान् ॥ १६३ ॥
उपयुक्तवदनवासा शय्यामारुह्य दर्शितप्रणया ।
इति वक्ष्यसि तं रमणं दृढतरमालिङ्ग्य रभसतः कण्ठे ॥ १६४ ॥
Bहट्टसुत नूनमिष्टा तव जाया यदनुरक्तहृदयस्य ।
जनयति परितुष्टिमलं नापररामापरिष्वङ्गः ॥ १६५ ॥
सफलं तस्या जन्म स्पृहणीया सैव सकलललनानाम् ।
ङौरी तयैव महिता सुभगङ्करणं तपस्तयाचरितम् ॥ १६६ ॥
सैवैका गुणवसतिस्तस्या एवान्वयः सदा श्लाघ्यः ।
यस्याः शुभशतभाजः पाणिग्रहणं त्वया विहितम् ॥ १६७ ॥
तिष्ठतु सा पुण्यवती वंशद्वयभूषणं वरारोहा ।
या नापयाति भवतो ऌअक्ष्मीरिव णरकवैरिणो हृदयात् ॥ १६८ ॥
पातयसि कुवलयनिभे कौतुकमात्रेण लोचने यासु ।
ता अपि सत्यं सुन्दर हर्षोल्लसिता न मान्ति गात्रेषु ॥ १६९ ॥
तनुरपि नाथप्रणयः प्रायो मुखरीकरोति लघुमनसः ।
स्वार्थनिवेशितचित्ता करोमि ते ऽभ्यर्थनां तेन ॥ १७० ॥
तीव्रस्मरतारुण्याच्चापलतः कौतुकेन घृणया वा ।
मद्भाग्यसम्पदा वा दूत्या वा कौशलात्स्वभावाद्वा ॥ १७१ ॥
यो ऽयं प्रेमलवांशः प्रदर्शितो ऽस्मासु जीवनोपायः ।
बाधा नात्र विधेया गणिकाजनवृत्तमन्यथा बुद्ध्वा ॥ १७२ ॥
येन स्नेहः क्रोधः शाठ्यं दाक्षिण्यमार्जवं व्रीडा ।
एतानि सन्ति तास्वपि जीवद्धर्मोपनीतानि ॥ १७३ ॥
निर्व्याजसमुत्पन्नप्रबलप्रेमाभिभूतहृदयानाम् ।
दयितविरहाक्षमाणां गणिकानां तृणसमाः प्राणाः ॥ १७४ ॥
अत्राकर्णय साद्भुतमाख्यानं वर्णयामि यद्वृत्तम् ।
अद्यापि बिभर्ति वटो विशेषणं यदभिसम्बन्धात् ॥ १७५ ॥
अस्ति महीतलतिलकं षरस्वतीकुलगृहं महानगरम् ।
नाम्ना ড়ाटलिपुत्रं परिभूतपुरन्दरस्थानम् ॥ १७६ ॥
त्रिभुवनपुरनिष्पादनकौशलमिव पृच्छतो विरिञ्चस्य ।
दर्शयितुं निजशिल्पं वर्णकमिव Vइश्वकर्मणा विहितम् ॥ १७७ ॥
अश्रेयोभिरनाश्रितमभिभूतं नाभिभूतिदोषेण ।
न स्वीकृतमुपसर्गैः कलिकालमलैरनालीढम् ॥ १७८ ॥
पातालतलं भोगिभिरम्भोधिर्वारिरत्ननिचयैश्च ।
सुरसदनं विबुधगणैर्द्रविणोपचयैः पुरं Kउवेरस्य ॥ १७९ ॥
रमणीभिरसुरविवरं कटकं हेमाचलस्य गान्धर्वैः ।
ःरिनगरं क्रतुयूपैः शमविभवैर्मुनिजनस्थानम् ॥ १८० ॥
तिष्ठन्तु सकलशास्त्रव्यालोचनविमलबुद्धयो विप्राः ।
सदसद्गुणनिर्णीतौ ललना अपि निकषभूमयो यस्मिन् ॥ १८१ ॥
कलिकालोदितभीत्या क्रतुहुतवहधूमकम्बलावरणः ।
तिष्ठन्निभृतो ऽपि कृतश्चरितैरनुमीयते यस्मिन् ॥ १८२ ॥
अपहरति पिधातुमिव स्वकलङ्कं शशधरः प्रसार्य करान् ।
रात्रौ यत्र वधूनां लावण्यं वदनकोषेभ्यः ॥ १८३ ॥
तिमिरपटलासिताम्बरमपहरदभिसारिकाजनौघस्य ।
निजतनुकान्तिवितानं वल्लभसम्भोगविहतये यस्मिन् ॥ १८४ ॥
यत्र नितम्बवतीनां विचलन्नयनान्तशितशरैर्व्रणितः ।
शिथिलयति पथिकलोकः स्वकलत्रसमागमोत्कण्ठाम् ॥ १८५ ॥
यत्र च कुलमहिलानामल्पत्वं वचसि पाणिपादे च ।
स्वच्छत्वमाशयेषु व्यालोलविशालनेत्रे च ॥ १८६ ॥
पीनपयोधरभारे घनता जीवेशसहजरागे च ।
कुलदेवतार्चनविधौ वलिशोभा मध्यभागे च ॥ १८७ ॥
गम्भीरता स्वभावे चेतोभवबाणतूणनाभौ च ।
विस्तीर्णता नितम्बे गुरुजनपूजानुरक्तचित्ते च ॥ १८८ ॥
हरिणायतेक्षणानां विच्छित्तिः कोषहरणमब्जेषु ।
कुटिलत्वमलकपङ्क्तौ बालानां कामचेष्टितं यत्र ॥ १८९ ॥
संयमनमिन्द्रियाणामिनोपघातग्रहस्तमिस्रस्य ।
स्तब्धत्वं सालतरौ हारलता तरलसंगता यस्मिन् ॥ १९० ॥
भुजगाः पररन्ध्रदृशः खण्ड्यन्ते प्रियतमाधरा यत्र ।
सूचीव्यथानुभूतिर्नृत्याभ्यासप्रवृत्तानाम् ॥ १९१ ॥
नतवपुरप्यतिसरला मन्थरगमनापि नर्मदा यस्मिन् ।
गुरुजनशास्त्ररतापि स्वभावमुग्धाङ्गनाजनता ॥ १९२ ॥
तस्मिन्मखशतपूतः पुरुहूत इव द्विजन्मनां प्रवरः ।
गुरुरिव विद्यावसतिर्वसति स्म ড়ुरन्दरो नाम्ना ॥ १९३ ॥
धर्मात्मजस्य सत्यं त्रिपुररिपोर्विजितकुसुमचापत्वम् ।
ःरिनाभिपङ्कजभुवो विजितेन्द्रियतां जहास यः सततम् ॥ १९४ ॥
न्यक्कृतवृष इति शर्वे याचक इति कौस्तुभाभरणे ।
पीडितवसुधासुत इति Kअपिले न बभूव यस्य बहुमानः ॥ १९५ ॥
मार्गानुसृतौ लुब्धो यः प्राणिवपुर्विनाशविमुखो ऽपि ।
परिहृतपरदारो ऽपि स्वाकाङ्क्षितगुरुजनप्रमदः ॥ १९६ ॥
यस्यान्वये महीयसि सरसीव समस्तसत्त्वनिजवसतौ ।
सच्चरितजन्मभूमौ विनिवारितकलिमलप्रसरे ॥ १९७ ॥
पितृतर्पणप्रसङ्गे खड्गग्रहणं न शौर्यदर्पेण ।
त्रुटनं मेखलिकानां वटुकजने नो रताजिसंमर्दे ॥ १९८ ॥
श्रुतिभेदेषु विवादो नो रिक्थविभागमन्युना जनितः ।
तेजस्विता हविर्भुजि न शमैकरतेषु भूमिदेवेषु ॥ १९९ ॥
जरतामेव स्खलनं जपतामेवाधरस्फुरणम् ।
यजतामेव समिध्रुचि रेणाजिन एव कृष्णसम्पर्कः ॥ २०० ॥
तस्याभूत्सकलकलोद्भासितपक्षद्वयस्य सुत एकः ।
नाम्ना षुन्दरसेनः Kअच इव वचसामधीशस्य ॥ २०१ ॥
ড়शुपतिनयनहुताशनभस्मितमवधार्य यं वपुष्मन्तम् ।
अपरमिव कुसुमचापं रतिरतये निर्ममे ढाता ॥ २०२ ॥
तिष्ठन्तु तावदन्याः कुलललना यस्य रूपमवलोक्य ।
सापि महामुनिदयिता कृच्छ्रेण ररक्ष चारित्रम् ॥ २०३ ॥
कलधौतफलकशोभां बिभ्राणं यस्य पृथुतरं वक्षः ।
दृष्ट्वा चिराय ऌअक्ष्मीर्हरिहृदये दुःस्थितं मेने ॥ २०४ ॥
कथमीदृग्यदि न कृतः शशिशकलैरथ कृतः कथं व्यथकः ।
इत्थं यमीक्षमाणो निर्णयमगमन्न कामिनीसार्थः ॥ २०५ ॥
यो जग्राह हिमांशोः प्रसन्नमूर्तित्वमचलतः स्थैर्यम् ।
जलधरत उन्नतत्वं गाम्भीर्यं यादसां पत्युः ॥ २०६ ॥
यो विनयस्य निवासो वैदग्ध्यस्याश्रयः स्थितेः स्थानम् ।
प्रियवाचामायतनं निकेतनं साधुचरितस्य ॥ २०७ ॥
यो मदनः प्रमदानां तुहिनकरः साधुकुमुदषण्डस्य ।
निकषोपलो गुणानां मार्गतरुः पथिकलोकस्य ॥ २०८ ॥
सज्जनगोष्ठीनिरतः काव्यकथासारनिकषपाषाणः ।
प्रणयिजनकल्पवृक्षो लक्ष्मीलीलाविहारभूमिश्च ॥ २०९ ॥
जलधिरिव तुहिनभासः सहवृद्धिपरिक्षयः सुहृत्तस्य ।
सकलोपधाविशुद्धो बभूव ङुणपालितो नाम्ना ॥ २१० ॥
तेन समं स कदा चित्तिष्ठन्रहसि प्रसङ्गतः पतिताम् ।
केनापि गीयमानामशृणोदार्यामिमां सहसा ॥ २११ ॥
देशान्तरेषु वेषस्वभावभणितानि ये न बुध्यन्ते ।
समुपासते न च गुरून्विषाणविकलास्त उक्षाणः ॥ २१२ ॥
आकर्ण्याथ तमूचे वचनमिदं षुन्दरः सुहृन्मुख्यम् ।
शोभनमेतद्गीतं ङुणपालित साधुनानेन ॥ २१३ ॥
साधूनामाचरितं खलचेष्टां विविधलोकहेवाकान् ।
नर्म विदग्धैर्विहितं कुलटाजनवक्रकथितानि ॥ २१४ ॥
गुरुगूढशास्त्रचर्चां विटवृत्तं धूर्तवञ्चनोपायान् ।
वारिधिपरिखां पृथ्वीं जानाति परिभ्रमन्पुरुषः ॥ २१५ ॥
अत उत्सृज्य गृहस्थितिसुखलेशं विविधलाभपरिणामे ।
स्थापय गमनारम्भे वयस्य हृदयं मया सहितः ॥ २१६ ॥
इत्थं निगदितवन्तं सुहृदुत्तरलाभलालसात्मानम् ।
ऊचे षुन्दरसेनं लज्जित इव सहचरो वचनम् ॥ २१७ ॥
अभ्यर्थनानुबन्धो लज्जाकर एव मादृशां किं तु ।
आकर्णय कथयामः पथिकानां यानि दुःखानि ॥ २१८ ॥
कर्पटकावृतमूर्तिर्दूराध्वपरिश्रमावसितशक्तिः ।
पांसूत्करधूसरितो दिनावसाने प्रतिश्रयाकाङ्क्षी ॥ २१९ ॥
मातर्भगिनि दयां कुरु मा मैवं निष्ठुरा भव तवापि ।
कार्यवशेन गृहेभ्यो निर्यान्ति भ्रातरश्च पुत्राश्च ॥ २२० ॥
किं वयमुत्पाट्य गृहं प्रातर्गन्तार ईदृगेव सताम् ।
भवति निवासो यस्मिन्निज इव पथिकाः प्रयान्ति विश्रामम् ॥ २२१ ॥
अद्य रजनीं नयामो यथा कथं चित्त्वदाश्रये मातः ।
अस्तङ्गतो विवस्वान्वद सम्प्रति कुत्र गच्छामः ॥ २२२ ॥
इति बहुविधदीनवचाः प्रतिगेहं द्वारदेशमधितिष्ठन् ।
निर्भर्त्स्यते वराको गृहिणीभिरिदं वदन्तीभिः ॥ २२३ ॥
न स्थित इह गेहपतिः किं रटसि वृथा प्रयाहि देवकुलम् ।
कथिते ऽपि नापगच्छति पश्य मनुष्यस्य निर्बन्धम् ॥ २२४ ॥
अथ यदि कथं चिदपरः पुनः पुनर्याचितो गृहस्वामी ।
निर्दिशति सावधीरणमत्र स्वपिहीति शीर्णगृहकोणे ॥ २२५ ॥
तत्र कलहायमाना तिष्ठति गृहिणी विभावरीप्रहरम् ।
अज्ञाताय किमर्थं वासो दत्तस्त्वयेति सह भर्त्रा ॥ २२६ ॥
ईदृगयं सरलात्मा किं कुरुषे भगिनि तावको भर्ता ।
स्थास्यसि गेहे ऽवहिता भ्रमन्ति खलु वञ्चका एवम् ॥ २२७ ॥
इति भाजनादियाच्ञां बुद्धौ विनिधाय निकटवर्तिगृहात् ।
नारी समभ्युपेता ब्रूते तामाप्तभावेन ॥ २२८ ॥
गृहशतमधिकमटित्वा कलमकुलत्थाणुचणमसूरादि ।
एकीभूतं भुङ्क्ते क्षुधोपतप्तो ऽध्वगो भैक्षम् ॥ २२९ ॥
परवशमशनं वसुधां शयनीयं सुरनिकेतनं सद्म ।
पथिकस्य विधिः कृतवानुपधानकमिष्टकाखण्डम् ॥ २३० ॥
इति निगदितवति तस्मिन्षुन्दरसेनस्य चोत्तरावसरे ।
इयमुपगीता गीतिः केनापि कथाप्रसङ्गेन ॥ २३१ ॥
निजवरभवनं सुरगृहमुर्वीतलमतिमनोहरं शयनम् ।
कदशनममृतमभीप्सितकार्यैकनिविष्टचेतसां पुंसाम् ॥ २३२ ॥
समुपश्रुत्य च सुहृदं ড়ौरन्दरिरिदमुवाच परितुष्टः ।
मम हृदयगतं प्रकटितमेतेन सतैव भवतु गच्छावः ॥ २३३ ॥
अथ सहचरद्वितीयः क्लेशसमुद्रावतरणकृतचित्तः ।
निरगात्सुन्दरसेनः Kउसुमपुरादविदितः पित्रा ॥ २३४ ॥
पश्यन्विदग्धगोष्ठीरभ्यस्यन्नायुधानि सकलानि ।
शास्त्रार्थानवगच्छन्विलोकयन्कौतुकानि विविधानि ॥ २३५ ॥
जानन्पत्रछेदनमालेख्यं सिक्थपुस्तकर्माणि ।
नृत्यं गीतोपचितं तन्त्रीमुरजादिवाद्यभेदांश्च ॥ २३६ ॥
बुध्यन्वञ्चकभङ्गीर्विटकुलटानर्मवक्रकथितानि ।
बभ्राम सुहृत्सहितः षुन्दरसेनो महीमखिलाम् ॥ २३७ ॥
अथ विदितसकलशास्त्रो विज्ञाताशेषजनसमाचरणः ।
निजगृहगमनाकाङ्क्षी स शिलोच्चयमर्बुदं प्राप ॥ २३८ ॥
तत्पृष्ठदेशदर्शनलोलमलं षुन्दरं परिज्ञाय ।
ङुणपालितो बभाषे विलोक्यतामद्रिराज इति ॥ २३९ ॥
एष सुतः सानुतटस्यन्दच्छीताच्छसलिलसम्पन्नः ।
लोकानुकम्पयेव प्रालेयमहीभृता मरौ न्यस्तः ॥ २४० ॥
शिशिरकरकान्तमौलिः कटकस्थितपवनभोजनः सगुहः ।
विद्याधरोपसेव्यो बिभर्ति लक्ष्मीमयं शम्भोः ॥ २४१ ॥
अत्र तरुशिखरसंगतसुमनस इति जातनिश्चयो मन्ये ।
अभिलषति समुच्चेतुं तारा निशि मुग्धकामिनीसार्थः ॥ २४२ ॥
आश्चर्यं यदुपान्ते तिष्ठन्त्येतस्य सप्त मुनयो ऽपि ।
अथवा कस्याकर्षं न करोति समुन्नतिर्महताम् ॥ २४३ ॥
अवगत्य निरवलम्बनमम्बरमार्गं पतङ्गतुरगाणाम् ।
अयमवनिधरो मन्ये विश्रान्त्यै वेधसा विहितः ॥ २४४ ॥
इममाश्रित्य हिमांशोरोषधयः संनिकर्षमुपयाताः ।
प्रत्यासत्तिः प्रभुणा प्रायो ऽनुग्राहकवशेन ॥ २४५ ॥
सेक्तुमिवाशाकरिणो विसृजत्ययमवनिधरणपरिखिन्नान् ।
निर्झरसलिलकणौघान्भवति हि सौहार्दमेककार्याणाम् ॥ २४६ ॥
हारीताहृतशोभो मुदितशुको व्यासयोगरमणीयः ।
विश्रान्तभरद्वाजः समतामयमेति मुनिनिवासस्य ॥ २४७ ॥
अस्मिन्निःसङ्गा अपि परलोकप्राप्त्युपायकृतयत्नाः ।
गन्धवहभोजना अपि न हिंसकाः फलभुजो ऽपि न प्लवगाः ॥ २४८ ॥
शुभकर्मैकरता अपि षट्कर्माणो यता अपि स्ववशाः ।
अनभिमतरौद्रचरिताः शिवप्रिया अपि वसन्ति शमनिरताः ॥ २४९ ॥
मूर्तिरिव शिशिररश्मेर्हरिणवती सप्तपत्रकृतशोभा ।
सरणिरिव चण्डभासः पलाशिनी यातुधानजायेव ॥ २५० ॥
सोत्कण्ठेव समदना वासकसज्जेव तिलकपरिभूषा ।
धवहरिपीलुसनाथा नरनाथद्वारभूमिरिव ॥ २५१ ॥
आर्जुनबाणव्रातैः Kउरुनाथवरूथिनीव संछन्ना ।
ऋक्षसहस्रोपचिता लक्ष्मीरिव गगनदेशस्य ॥ २५२ ॥
ध्वजिनीव डानवानां रिष्टकसमधिष्ठिता त्रियामेव ।
उद्द्योतरोहिणीका रम्येयमुत्पत्यका भाति ॥ २५३ ॥
इति दर्शयति वयस्ये षुन्दरसेने च पश्यति प्रीत्या ।
स्वप्रस्तावोपगता गीतिरियं केन चिद्गीता ॥ २५४ ॥
अतिशयितनाकपृष्ठं पृष्ठं ये नार्बुदस्य पश्यन्ति ।
बहुविषयपरिभ्रमणं मन्ये क्लेशाय केवलं तेषाम् ॥ २५५ ॥
आकर्ण्य च स बभाषे महात्मनानेन युक्तमुपगीतम् ।
शिखरिशिरः पश्यामो वयस्य रम्यं समारुह्य ॥ २५६ ॥
अथ गिरिवरमारूढो विलोकयन्विविधविबुधभवनानि ।
वापीरुद्यानभुवः सरांसि सरितश्चचार विस्मेरः ॥ २५७ ॥
अचिराभामिव विघनां ज्योत्स्नामिव कुमुदबन्धुना विकलाम् ।
ऋअतिमिव ंन्मथरहितां श्रियमिव ःरिवक्षसः पतिताम् ॥ २५८ ॥
हस्तोच्चयं Vइधातुः सारं सकलस्य जन्तुजातस्य ।
दृष्टान्तं रम्याणामस्त्रं संकल्पजन्मनो जैत्रम् ॥ २५९ ॥
विकसितकुसुमसमृद्धिं शृङ्गाररसापगैककलहंसीम् ।
लीलापल्लववल्लीं व्रतिनामवधानवर्मणां भल्लीम् ॥ २६० ॥
विचरन्नुपवनमण्डपपुष्पप्रकराभिरामभूपृष्ठे ।
रममाणां सह सख्या ललनामालोकयामास ॥ २६१ ॥
अवलोकयतस्तस्य स्मरमार्गणवेध्यतामुपेतस्य ।
इदमासीन्मनसि चिरं विस्मयभाराभिभूयमानस्य ॥ २६२ ॥
क्वेदं खलु विश्वसृजः कौशलमत्यद्भुतं समुपजातम् ।
येन विरुद्धानामपि घटितैकत्र स्थितिस्तथा हीयम् ॥ २६३ ॥
ललितवपुर्निर्दोषा स्फुरदुज्ज्वलतारकाभिरामा च ।
निर्वाच्यवदनकमला जितवीणाक्वणितवाणी च ॥ २६४ ॥
संविहितविग्रहस्थितिरतिशोभनघटितसन्धिबन्धा च ।
उन्नतपयोधराढ्या शरदिन्दुकरावदाता च ॥ २६५ ॥
अभिमतसुगतावस्थितिरभिनन्दितचरणरचना च ।
अतिविपुलजघनदेशा विध्वस्तशरीरविहितशोभा च ॥ २६६ ॥
आविर्भवदनुरागे तस्मिन्नथ वलितलोचना सहसा ।
सापि बभूव मृगाक्षी हस्तगता Kउसुमचापस्य ॥ २६७ ॥
तरुमूलमाश्रिताया विस्मृतसकलान्यकर्मणः सपदि ।
तस्या गात्रलतायामङ्कुरितं सात्त्विकैर्भावैः ॥ २६८ ॥
सैवोपवनसमृद्धिस्तस्मिन्नेव क्षणे स्मरं स्मृत्वा ।
तां व्यथयितुमारेभे प्रभोर्हि कृत्यं करोति खलु सर्वः ॥ २६९ ॥
गात्रसरसेन्धनेभ्यः प्रस्वेदजलं विनिर्ययौ तस्याः ।
अन्तर्ज्वलितमनोभवहव्यभुजा दह्यमानेभ्यः ॥ २७० ॥
Kउसुमशरजालपतिता मुहुर्मुहुर्विदधती विवृत्तानि ।
अनिमेषं पश्यन्ती मत्स्यवधूमनुचकार सा तन्वी ॥ २७१ ॥
स्तब्धतनुं सोत्कम्पां पुलकवतीं स्वेदिनीं सनिःश्वासाम् ।
विदधे तामसमशरः क्रीडति हि शठो विशिष्टमासाद्य ॥ २७२ ॥
उच्छ्वासैरुल्लसनं कुचयुगले सौष्ठवं विलासानाम् ।
अभिलषितेन प्रेम्णा स्निग्धत्वं चक्षुषोर्मनोहारि ॥ २७३ ॥
अनुरक्त्या वदनरुचिं वचसि च गमने च साध्वसस्खलनम् ।
तस्या मदनः कुर्वन्नुपनिन्ये चारुतामधिकाम् ॥ २७४ ॥
पार्श्वगते ऽपि प्रेयसि Kआमशरासारताड्यमानापि ।
न शशाक साभिधातुं चित्तगतं प्रणयभङ्गतो भीता ॥ २७५ ॥
अथ विदितचित्तवृत्तिः सक्तदृशं प्रियतमे समाकृष्य ।
ंदनेन दह्यमानां विहसितविशदं जगाद तामाली ॥ २७६ ॥
अयि ःारलते संहर ःरहुङ्कृतिदग्धदेहसंक्षोभम् ।
सद्भावजानुरक्तिर्न हि पण्यं पण्यनारीणाम् ॥ २७७ ॥
अवधीरय धनविकलं कुरु गौरवमकृशसम्पदः पुंसः ।
अस्मादृशां हि मुग्धे धनसिद्ध्यै रूपनिर्माणम् ॥ २७८ ॥
अभिरामे ऽभिनिवेशं विदधाना विभवलाभनिरपेक्षा ।
उपहस्यसे सुमध्ये विदग्धवाराङ्गनावारैः ॥ २७९ ॥
येषां श्लाघ्यं यौवनमभिमुखतामुपगतो विधिर्येषाम् ।
फलितं येषां सुकृतं जीवितसुखितार्थिता येषाम् ॥ २८० ॥
ते ऽवश्यं स्वयमेव त्वामनुबध्नन्ति ंदनशरभिन्नाः ।
न हि मधुलेहाः सुन्दरि मृग्यन्ते चूतमञ्जर्या ॥ २८१ ॥
इति गदितवतीमालीं कामशरासारभिन्नसर्वाङ्गी ।
अव्यक्तस्खलिताक्षरमूचे कृच्छ्रेण ःारलता ॥ २८२ ॥
सखि कुरु तावद्यत्नं बहुमतमतिवेदनाप्रतीकारे ।
क्रोडीकृता विपत्त्या न भवन्त्युपदेशयोग्या हि ॥ २८३ ॥
अस्वायत्तः प्रेयान्मृदुपवनः सुरभिकुसुममुद्यानम् ।
इयती खलु सामग्री भवति क्षीणायुषामेव ॥ २८४ ॥
मत्वा ंदनाशीविषविषवेगाकुलितविग्रहामालीम् ।
समुपेत्य शशिप्रभया ড়ौरन्दरिरभिदधे कृतप्रणतिः ॥ २८५ ॥
यदि नाम रुणद्धि गिरं गणिकाभावोपजनितवैलक्ष्यम् ।
तदपि कथितव्यमेव स्निग्धापदि न हि निरूप्यते युक्तम् ॥ २८६ ॥
एतावति संसारे परिगणिता एव ते सुजन्मानः ।
आपत्सु परित्राणव्याकुलमनसां स्फुरन्ति ये बुद्धौ ॥ २८७ ॥
यस्मिन्नेव मुहूर्ते चक्षुर्विषयं गतो ऽसि मम सख्याः ।
तत एवारभ्य गता विधेयतां दग्धमदनस्य ॥ २८८ ॥
रोमोद्गमसंनहनं भित्त्वान्तर्विग्रहं परापतिताः ।
तस्या मानससम्भवकोदण्डविनिःसृता इषवः ॥ २८९ ॥
किं विदधातु वराकी कुत्र समाश्वसितु यातु कं शरणम् ।
पीडयति भृशं यस्या नित्यशुचिर्दक्षिणो मृदुः पवनः ॥ २९० ॥
वचसि गते गद्गदतामुज्झितमौनव्रताश्चिराय पिकाः ।
हृष्टा व्यथयन्ति सखीं जातावसरा निरर्गलं विरुतैः ॥ २९१ ॥
स्खलिताकुलिते गमने तन्वङ्ग्या अगणितश्रमा हंसाः ।
सुचिराल्लब्धावसराः कुर्वन्ति गतागतानि परितुष्टाः ॥ २९२ ॥
उष्णोच्छ्वसितसमीरैर्विदह्यमानो ऽपि मधुकरस्तस्याः ।
अलककुसुमं न मुञ्चति कृच्छ्रेष्वपि दुस्त्यजा विषयाः ॥ २९३ ॥
नो वारयसि तथा मां साम्प्रतमिति कथयतीव मधुलेहः ।
निःसहवपुषः कर्णे श्रुतिपूरकपुष्पसंगतो गुञ्जन् ॥ २९४ ॥
प्रशिथिलभुजलतिकातस्तस्याः पतितस्य हेमकटकस्य ।
यत्प्रापणं पृथिव्यास्तस्मिन्खलु मुक्तहस्तता हेतुः ॥ २९५ ॥
रशनागुणेन विगलितमेकपदे तन्नितम्बतश्चित्रम् ।
पतनाय नियतमथवा निषेवणं गुरुकलत्रस्य ॥ २९६ ॥
अङ्गीकृत्य मनोभवमुरसि तथा लालितो ऽपि हतहारः ।
तापयति सखीं तत्क्षणमन्तर्भिन्नात्कुतः कुशलम् ॥ २९७ ॥
वाससितं स्वेदजलं कज्जलमलिनाश्रुवारिणा मिश्रम् ।
कुचतटपतितं तस्याः प्रयागसम्भेदसलिलमनुकुरुते ॥ २९८ ॥
पिकरुतमलयसमीरणसुमनःस्मरभृङ्गदहनपरिकरिता ।
पञ्चतपश्चरति भवत्परिरम्भणसौख्यलम्पटा बाला ॥ २९९ ॥
न परां पतति वराकी दशमीं यावन्मनोभवावस्थाम् ।
त्रायस्व सुभग तावच्छरणागतरक्षणं व्रतं महताम् ॥ ३०० ॥
अथ तद्वचसि कृतादरमुद्भूतमनोभवं समवधार्य ।
अवगीतिभीतचेता ऊचे ङुणपालितः सुहृदम् ॥ ३०१ ॥
यद्यपि ंारप्रसरो दुर्वारः प्राणिनां नवे वयसि ।
चिन्त्यं तदपि विवेकिभिरवसानं वेशयोषितां प्रेम्णः ॥ ३०२ ॥
वारस्त्रीणां विभ्रमरागप्रेमाभिलाषमदनरुजः ।
सहवृद्धिक्षयभाजः प्रख्याताः सम्पदः सुहृदः ॥ ३०३ ॥
ताभिरवदातजन्मा कुर्वीत समागमं कथं यासाम् ।
क्षणदृष्टो ऽपि प्रणयी रूढप्रणयो ऽपि जन्मनो ऽपूर्वः ॥ ३०४ ॥
प्रद्युम्नः प्रद्युम्नो विरूपकः खलु विरूपकः सततम् ।
सुस्निग्धः सुस्निग्धो रूक्षो रूक्षस्तु गणिकानाम् ॥ ३०५ ॥
यासां जघनावरणं परकौतुकवृद्धये न तु त्रपया ।
उज्ज्वलवेषा रचना कामिजनाकृष्टये न तु स्थितये ॥ ३०६ ॥
मांसरसाभ्यवहारः पुरुषाहतिपीडया न तु स्पृहया ।
आलेख्यादौ व्यसनं वैदग्ध्यख्यातये न तु विनोदः ॥ ३०७ ॥
रागो ऽधरे न चेतसि सरलत्वं भुजलतासु न प्रकृतौ ।
कुचभारेषु समुन्नतिराचरणे नाभिनन्दिते ऽसद्भिः ॥ ३०८ ॥
जघनस्थलेषु गौरवमाकृष्टधनेषु नो कुलीनेषु ।
अलसत्वं गमनविधौ नो मानववञ्चनाभियोगेषु ॥ ३०९ ॥
वर्णविशेषापेक्षा प्रसाधने नो रतिप्रसङ्गेषु ।
ओष्ठे मदनासङ्गो नो पुरुषविशेषसम्भोगे ॥ ३१० ॥
या बाले ऽपि सरागा वृद्धेष्वपि विहितमन्मथावेशाः ।
क्लीबेष्वपि कान्तदृशः साकाङ्क्षा दीर्घरोगे ऽपि ॥ ३११ ॥
स्वेदाम्बुकणोपचिता अनार्द्रतानिजनिवासमनसश्च ।
आविष्कृतवेपथवो वज्रोपलसारकठिनाश्च ॥ ३१२ ॥
जघनचपला अनार्याः परभृतयः कृतकनेत्ररागाश्च ।
सर्वाङ्गार्पणदक्षा असमर्पितहृदयदेशाश्च ॥ ३१३ ॥
नकुलसमुत्पन्ना अपि भुजङ्गदशनकृतवेदनाभिज्ञाः ।
कन्दर्पदीपिका अपि रहिताः स्नेहप्रसङ्गेन ॥ ३१४ ॥
उज्झितवृषयोगा अपि रतिसमये नरविशेषनिरपेक्षाः ।
कृष्णैकाभिरता अपि हिरण्यकशिपुप्रियाः सततम् ॥ ३१५ ॥
ंेरुमहीधरभुव इव किम्पुरुषसहस्रसेवितनितम्बाः ।
नीतय इव भूमिभृतां सुपरिहृतानर्थसंयोगाः ॥ ३१६ ॥
बहुमित्रकरजदारणलब्धाभ्युदयाः सरोरुहिण्य इव ।
डाकिन्य इव च रक्तव्याकर्षणकौशलोपेताः ॥ ३१७ ॥
प्रतिपुरुषं संनिहिताः कृत्यपरा विविधविकरणोपचिताः ।
बहुलार्थग्राहिण्यः प्रकृतय इव दुर्ग्रहा गणिकाः ॥ ३१८ ॥
सादरमाश्लिष्य चिरं कुसुमस्तबकं च नरविशेषं च ।
रिक्तीकर्तुं निपुणं क्षुद्राः क्षुद्राश्च चुम्बन्ति ॥ ३१९ ॥
परमार्थकठोरा अपि विषयगतं लोहकं मनुष्यं च ।
चुम्बकपाषाणशिलाः रूपाजीवाश्च कर्षन्ति ॥ ३२० ॥
पुरुषाक्रान्ताः सततं कृत्रिमशृङ्गाररागरमणीयाः ।
आहन्यमानजघनाः करेणवो वारयोषाश्च ॥ ३२१ ॥
उचितगुणोत्क्षिप्ता अपि पुरतो विनिवेशिते सुवर्णलवे ।
झगिति पतन्ति मुखेन प्रकटप्रमदाः कलाधिकाश्च तुलाः ॥ ३२२ ॥
बहिरुपपादितशोभा अन्तस्तुच्छाः स्वभावतः कठिनाः ।
दास्यः समुद्गिका इव मणन्ति यन्त्रप्रयोगेण ॥ ३२३ ॥
बध्नन्ति ये ऽनुरागं दैवहतास्तासु वारवनितासु ।
ते निःसरन्ति नियतं पाणिद्वयमग्रतः कृत्वा ॥ ३२४ ॥
इत्युपदिशति वयस्ये षुन्दरसेने च मन्मथव्यथिते ।
आवादुपयातं गीतित्रयमभ्यधायि केनापि ॥ ३२५ ॥
तरुणीं रमणीयाकृतिमुपनीतां स्मृतिभुवा वशीकृत्य ।
परिहरति यो जडात्मा प्रथमो ऽसौ नालिको विना भ्रान्तिम् ॥ ३२६ ॥
इदमेव हि जन्मफलं जीवितफलमेतदेव यत्पुंसाम् ।
लडहनितम्बवतीजनसम्भोगसुखेन याति तारुण्यम् ॥ ३२७ ॥
सुमनोमार्गणदहनज्वालावलिदह्यमानसर्वाङ्ग्यः ।
प्रबलप्रेमप्रवणाः प्रमदाः स्पृहयन्ति नाल्पपुण्येभ्यः ॥ ३२८ ॥
एवमुपश्रुत्य वचः समुवाच ড়ुरन्दरात्मजः सुहृदम् ।
मम हृदयादिव कृष्ट्वा गीतमिदं साधुनानेन ॥ ३२९ ॥
तदतनुसायकविकलां हारलतां हरिणशावतरलाक्षीम् ।
आश्वासयितुं यामो गुणपालित किं विकल्पितैर्बहुभिः ॥ ३३० ॥
अथ यत्र कापि गणिका गणयन्ती परिचितं हृतद्रविणम् ।
प्रविशन्तमेव मन्दिरमीर्ष्याव्याजेन निरुरोध ॥ ३३१ ॥
का चिद्वञ्चकदत्तं लुण्डीकृतजीर्णवसनमवलोक्य ।
वेश्या विषीदति स्म क्षपाक्षये वृत्तकर्तव्या ॥ ३३२ ॥
दैवस्मृत्या पतितं दृष्टिपथं भग्नमूल्यविटमेका ।
ज्वलिता रुषा भुजिष्या जग्राह जवेन धावित्वा ॥ ३३३ ॥
अन्तःस्थितकामिगृहद्वारगतं लुप्तवित्तनरमन्या ।
समुवाच कुट्टनी व्रज कल्लोलाकल्पदेहेति ॥ ३३४ ॥
प्रकटितदशननखक्षतिरभिदधती राजपुत्ररतियुद्धम् ।
अपरा पुरः सखीनां वारवधूराततान सौभाग्यम् ॥ ३३५ ॥
अन्या कामिस्पर्धावर्धितभाटी समुच्छ्रिता खेडा ।
सौभाग्यगर्वदर्पं समुवाह विलासिनीमध्ये ॥ ३३६ ॥
एकगणिकानुबन्धक्रोधोद्यतशस्त्रकामिनोः कापि ।
सम्भ्रमतो धावित्वा निवारयामास कुट्टनी कलहम् ॥ ३३७ ॥
धनमाहृत्य बहुभ्यो भुज्यत एकेन केन चित्सार्धम् ।
इति धनवन्तं कामिनमावर्जयति स्म कापि वारवधूः ॥ ३३८ ॥
गायन्गाथामात्रं द्विपदकमथ सौष्ठवेन विट एकः ।
बभ्राम पुरो दास्या विदधद्विकृतीरनेकविधाः ॥ ३३९ ॥
कश्चित्पण्यस्त्रीणां विभवोपचितान्यपुरुषयोजनया ।
विदधाति स्माराधनमधनत्वमुपागतः कामी ॥ ३४० ॥
त्वयि सक्तेन मया गृहमुज्झितमधुना परेव जातासि ।
इति ढौकमलभमानः कश्चिद्गणिकामुपालेभे ॥ ३४१ ॥
उषितामपरेण समं वृद्धविटानां पुरः पराजित्य ।
त्याजयति स्म भुजङ्गः कश्चिद्गणिकां द्विगुणभाटीम् ॥ ३४२ ॥
दृष्टा त्वया Vइशेषक वलयकलापी शशिप्रभाभुजयोः ।
बाढं भण भण कीदृक्चारुतरा सा मया दत्ता ॥ ३४३ ॥
अद्य चतुर्थो दिवसश्चीनाम्बरयुगलकस्य दत्तस्य ।
तदपि परुषा विलासा वद ंदनक किं करोम्यत्र ॥ ३४४ ॥
स्नेहपरा मयि Kएली Kअलहंसक किं तु राक्षसी तस्याः ।
माता नात्मीकर्तुं वर्षशतेनापि शक्यते पापा ॥ ३४५ ॥
सुमनःकुङ्कुमवासं सज्जीकुरु किमिति तिष्ठसि विचित्तः ।
अद्य तव दयितिकायाः Kइञ्जल्कक नर्तनावसरः ॥ ३४६ ॥
यदि नाम पञ्च दिवसान्त्वयि कुरुते प्रेम धनलवं दृष्ट्वा ।
तदपि टरङ्गवती सा Kअन्दर्पक किं वृथा गर्वः ॥ ३४७ ॥
जीवद्वेषिनॢआसक परिहर दूरेण मूढ ःरिसेनाम् ।
बद्धावेशस्तस्यां व्यापृतपुत्रो महाविषमः ॥ ३४८ ॥
Kएसरया क्षणदत्तं कृत्वांशुकमुपरि कामिजालस्य ।
स्तब्धग्रीवं भ्रमतश्चन्द्रोदय पश्य माहात्म्यम् ॥ ३४९ ॥
कौमारकं विधातुं वाञ्छसि किल रमण ंदनसेनायाः ।
इच्छामि किं तु तस्या मात्रातीव प्रसारितं वदनम् ॥ ३५० ॥
Vइभ्रम कियतस्तपसः फलमेतद्यदुपभुज्यते मदिरा ।
स्वकरेण पीतशेषा मदघूर्णितदेवदत्तया दत्ता ॥ ३५१ ॥
Kउवलयमालानिलयो ऌईलोदय किमिति सम्प्रति त्यक्तः ।
किं विदधामस्तस्मिन्भ्रातर्दास्या विना मूल्यम् ॥ ३५२ ॥
मुषिताशेषविभूतेरिन्दीवरकस्य यामिनी याति ।
संवाहयतः सम्प्रति ंञ्जीरक टिलकमञ्जरीचरणौ ॥ ३५३ ॥
अद्यापि बालभावं निखिलं न जहाति ंदनिका तदपि ।
प्रौढिम्ना ंकरन्दक सकला ललना अधः कुरुते ॥ ३५४ ॥
Kउब्जे गत्वा वक्ष्यसि तं निर्दयचित्तनर्तनाचार्यम् ।
ःारा सुकुमारतनुः किमिति श्रममद्य कारिता भवता ॥ ३५५ ॥
निःसर को ऽभिनिवेशः शुकशावकपाठने षुरतदेवि ।
तिष्ठति बहिरुपविष्टः प्रतीक्षमाणस्तव प्रेयान् ॥ ३५६ ॥
वीणावादनखिन्ना पतितास्ते वासभवनपर्यङ्के ।
उत्थापय तां त्वरितं स्मरलीलां Bहट्टपुत्र आयातः ॥ ३५७ ॥
किमिदं यथास्थितत्वं तव ंाधवि यन्मुहुर्वदन्त्या मे ।
परिधत्से नाभरणं श्रीविग्रहराजसूनुना दत्तम् ॥ ३५८ ॥
ईदृक्शून्यमनस्त्वं किं कुर्मो मातरिन्दुलेखायाः ।
पानक्रीडासक्त्या पतितापि न चेतिता कनकताडी ॥ ३५९ ॥
नकुलः पयो न पायित इति रोषवशादियं हि दुःशीला ।
नाश्नाति Kआमसेना पुनः पुनः प्रार्थ्यमानापि ॥ ३६० ॥
श्रीबलसुतपरिपालित ऊर्णायुः किमनया विजेतव्यः ।
ंुकुला मुक्तसुखस्थितिरहर्निशं मेषपोषणे लग्ना ॥ ३६१ ॥
आताम्रतां समुपगतमुच्छूनं करतलं तव षुललिते ।
मा पुनरतिचिरमेवं प्रविधास्यसि कन्दुकक्रीडाम् ॥ ३६२ ॥
अभिराम डोम्ब भाटी प्रथममियं गृह्यते समुत्पन्ने ।
स्नेहे तु Kउसुमदेव्यास्त्वं प्रभवसि जीवितस्यापि ॥ ३६३ ॥
ग्रहणकमर्पय तावद्यदि कौतुकमुपरि Cअन्द्रसेनायाः ।
निर्वर्तितकर्तव्यो दास्यसि किं चिद्यथाभिमतम् ॥ ३६४ ॥
न परमदाता मातः सूनुरसौ णगररोटभट्टस्य ।
निर्लज्जः शठवृत्तिः पुनः पुनर्वार्यमाणो ऽपि ॥ ३६५ ॥
क्षपयति वसनानि सदा हठेन सकलानि षुरतसेनायाः ।
न ददात्येकामूर्णामुरणः परमत्ति कर्पाशम् ॥ ३६६ ॥
भगिनि न मुञ्चति वेश्म क्षणमपि मे कपटराजपुत्रो ऽसौ ।
भग्नो ऽन्यनरावसरो नग्नेनाधिष्ठितं यथा तीर्थम् ॥ ३६७ ॥
इत्थंप्राया वाचः शृण्वन्विटकुट्टनीसमुद्गीर्णाः ।
तं वेशसंनिवेशं पश्यन्प्रविवेश दयितिकावेश्म ॥ ३६८ ॥
आकृष्टमिवोत्कतया स्नपितमिव स्निग्धचक्षुषः प्रसरैः ।
तमुपागतमभ्यर्णं ःारलता पूजयामास ॥ ३६९ ॥
संविहितसमुचितस्थितिरवनतशिरसा प्रणम्य तत्सख्या ।
इदमभिदधे ऽतिनम्रं षुन्दरसेनः शुभे ऽवसरे ॥ ३७० ॥
प्रियदर्शन किं बहुभिः स्मरपीडितदीनवचनसंदर्भैः ।
इयमास्ते ःारलता जीवितमस्यास्त्वदायत्तम् ॥ ३७१ ॥
निर्यन्त्रकेलिविशदं सहजप्रेमानुबन्धरमणीयम् ।
कार्यान्तरान्तरायैः सुपरिहृतं यातु यौवनं भवतोः ॥ ३७२ ॥
निर्दयमविरतवाञ्छं ध्वस्तत्रपमव्यवस्थिताचरणम् ।
उपचीयमानरागं सततं भूयाद्भवत्सुरतम् ॥ ३७३ ॥
इति दत्त्वाशिषमन्तर्निर्याते परिजने तदङ्गेषु ।
विस्रम्भविविक्तरसो ववृधे Kउसुमायुधः सुतराम् ॥ ३७४ ॥
यदमन्दमन्मथोचितमनुरूपं यन्नवानुरागस्य ।
यद्यौवने ऽभिरामं यच्च फलं जीवितव्यस्य ॥ ३७५ ॥
अविनय एव विभूषणमश्लीलाचरणमेव बहुमानः ।
निःशङ्कतैव सौष्ठवमनवस्थितिरेव गौरवाधानम् ॥ ३७६ ॥
केशग्रहणमनुग्रह उपकारस्ताडनं मुदे दंशः ।
नखविलिखनमभ्युदयो दृढदेहनिपीडनं समुत्कर्षः ॥ ३७७ ॥
निगरणलोलं चुम्बनमवयवनिष्पेषणस्पृहो मर्दः ।
अन्तःप्रवेशनेच्छं निर्भरपरिरम्भणं यस्मिन् ॥ ३७८ ॥
यदनङ्गैरिव विहितं रागैरिव दीप्तिमत्त्वमुपनीतम् ।
प्रेमभिरिव निश्चलितं शृङ्गारैरिव विकाशमानीतम् ॥ ३७९ ॥
अप्रागल्भ्यं व्यसनं धैर्यमकार्यं विवेक उपघातः ।
ह्रेपणमगुणो यस्मिन्तत्सुरतं प्रस्तुतं ताभ्याम् ॥ ३८० ॥
प्रारम्भ एव तावत्प्रज्वलितो धगिति ंनसिजो यस्मिन् ।
तस्य विशेषावस्था वक्तुमशक्याः प्रवृद्धस्य ॥ ३८१ ॥
सहजरसेन जडीकृतमिति यूनोः कामशास्त्रनिर्णीते ।
नानाकरणग्रामे मालिन्यमवाप पाण्डित्यम् ॥ ३८२ ॥
अविधेयमनाख्येयं प्रविचार्यं छादनीयमविषह्यम् ।
न बभूव तयोस्तस्मिन्नाविद्धारब्धसुरतसंमर्दे ॥ ३८३ ॥
अभ्यस्ता या तन्व्या सुरतविधौ विविधचाटुपरिपाटी ।
तामालूनविशीर्णां चकार सहजः स्मरावेशः ॥ ३८४ ॥
सद्भावरागदीपितमदनाचार्योपदिष्टचेष्टानाम् ।
कः परिगणनं कर्तुं रतिचक्राविष्टरमणयोः शक्तः ॥ ३८५ ॥
बाला मृदुगात्रलता दृढपुरुषाक्रान्तविग्रहा न परम् ।
न व्यथिता मुदमाप प्रभवति खलु चित्तजन्मनः शक्तिः ॥ ३८६ ॥
किं रमणीं रमणो ऽविशदुत रमणी रमणमिति न जानीमः ।
स्वावयवावगमस्तु प्रणाशमगमत्तयोस्तदा निपुणम् ॥ ३८७ ॥
तस्या निमीलितदृशो निःस्पन्दतनोर्बभूव सुरतान्ते ।
लिङ्गमनङ्गच्छाया जीवितसत्तानुमानस्य ॥ ३८८ ॥
श्रमजलबिन्दूपचिता वृत्तस्मरणेन जातवैलक्ष्या ।
सा शुशुभे रतिविरतौ पर्याकुलकेशभूषणा नितराम् ॥ ३८९ ॥
निर्व्याजार्पितवपुषोर्निर्वृतिमयमेव गणयतोर्विश्वम् ।
क्षणदा विरराम तयोरक्षीणाकाङ्क्षयोरेव ॥ ३९० ॥
मोहनविमर्दखिन्ना विजृम्भमाणा स्खलद्गतिर्मन्दम् ।
निद्राकषायिताक्षी ःारलता वासवेश्मनो निरगात् ॥ ३९१ ॥
परिचितपार्श्वगताहं तेन समं पानभोजनं कृत्वा ।
नीता निशा कथाभिर्मोहनकार्यं तु यत्किं चित् ॥ ३९२ ॥
अविदग्धः श्रमकठिनो दुर्लभयोषिद्युवा जडो विप्रः ।
अपमृत्युरपक्रान्तः कामिव्याजेन मे रात्रौ ॥ ३९३ ॥
नेच्छाविरतिः क्षणमपि न च शक्तिर्वस्तुशून्यरतियत्नैः ।
केवलमलमद्याहं कदर्थिता वृद्धपुरुषेण ॥ ३९४ ॥
मद्यवशादभियोक्तरि मृतकल्पे तल्पभागमग्नायाः ।
अनिरोधितनिद्रायाः सुखेन मे यामिनी याता ॥ ३९५ ॥
सुकुमारसम्प्रयोगः पेशलवचनः सवक्रपरिहासः ।
शकुनवशेनोपनतो मम सखि रमणो मनोहराकारः ॥ ३९६ ॥
पर्यङ्कान्तनिलीनः पराङ्मुखो मुक्तमन्दनिःश्वासः ।
मच्चोदनया सुतरां निष्पन्दः स्वेदसलिलसंसिक्तः ॥ ३९७ ॥
पर्यस्तमितानङ्गो व्यपगतनिद्रः क्षपाक्षयाकाङ्क्षी ।
ग्रामोषितः प्रहीणो निष्प्रतिपत्तिः स्थितो ऽद्य सखि मनुजः ॥ ३९८ ॥
शृणु सखि कौतुकमेकं ग्रामीणककामिना यदद्य कृतम् ।
सुरतसुखमीलिताक्षी मृतेति भीतेन मुक्तास्मि ॥ ३९९ ॥
अविदितदेशप्रकृतेः शठात्मकाद्दुर्विदग्धतो ऽस्माभिः ।
अनुभूतो राजसुतादपि भाण्डविडम्बनाक्लेशः ॥ ४०० ॥
प्रियसखि लोकसमक्षं नगरप्रभुणा हठेन नीतास्मि ।
एवं बन्धकदातुर्द्विगुणार्थप्रार्थने कुतो ऽन्यायः ॥ ४०१ ॥
आकर्षन्ती जघनं व्रजसि यथा विक्षता नखैस्तिलशः ।
मन्ये तथोपभुक्ता त्वं Kएरलि दाक्षिणात्येन ॥ ४०२ ॥
अधरे बिन्दुः कण्ठे मणिमाला कुचयुगे शशप्लुतकम् ।
तव सूचयन्ति Kएतकि Kउसुमायुधशास्त्रपण्डितं रमणम् ॥ ४०३ ॥
इति शृण्वन्नुषसि गिरो निर्वृत्तनिशाभियोगगणिकानाम् ।
सो ऽपि यथाक्रियमाणं प्रविधातुं निर्जगाम कर्तव्यम् ॥ ४०४ ॥
सुरचितरागोपचितिस्वीकृतमनसस्तया समं तस्य ।
यौवनसुखमनुभवतो जगाम संवत्सरः सार्धः ॥ ४०५ ॥
विश्रम्भकथाः कुर्वन्विचरन्नुद्यानवेदिकापृष्ठे ।
सहचरकरसक्तकरः षुन्दरसेनः कदा चित्तु ॥ ४०६ ॥
स्थूलघनतन्तुसन्ततितानितनानाम्बरावरणम् ।
यष्टिप्रान्तनियन्त्रितदलवीटककुतपतुम्बकप्रायम् ॥ ४०७ ॥
त्रुटितचरणत्रसंगतविस्फुटिताभ्यक्तपादमलिनतनुम् ।
त्वरितगतिलेखवाहकमारादायान्तमद्राक्षीत् ॥ ४०८ ॥
प्रत्यासन्नीभूतं क्रमेण ড়ौरन्दरिः परिज्ञाय ।
साकूतमना ऊचे वयस्य हनुमानयं प्राप्तः ॥ ४०९ ॥
अवनितललीनशिरसा कृतनतिना तेन विनिहितं भूमौ ।
उत्क्षिप्य झटिति लेखं षुन्दर इति वाचयामास ॥ ४१० ॥
स्वस्ति श्रीकुसुमपुरात्पुरन्दरः षुन्दरं समभिधत्ते ।
अन्तर्जृम्भितशोकग्रस्तो ऽविस्पष्टवर्णपदम् ॥ ४११ ॥
कुलमकलङ्कं न गणितमवधीरितमग्रजन्मनामुचितम् ।
नापेक्षितमवगीतं शठसेवितवर्त्मनि त्वया पतता ॥ ४१२ ॥
वंशे ऽकुटिलगतीनां द्विजिह्वतादोषरहितचरितानाम् ।
अपरविनाशरतानामुत्पन्नः कथमसि भुजङ्गः ॥ ४१३ ॥
क्व पुरोडाशपवित्रितवेदपदोद्गारगर्भवदनं ते ।
क्व च मदिरासववासितवारवधूमुखरसास्वादः ॥ ४१४ ॥
क्व कुशविपाटनजन्मा सहसोदितवेदनाचमत्कारः ।
क्व च दासीरतसङ्गरनिर्दयनखरक्षतिः प्रीत्यै ॥ ४१५ ॥
क्व त्रेतानलधूमक्षोभितनयनाम्बुधौतवदनत्वम् ।
क्व च गणिकानिर्भर्त्सनशोकभरायातबाष्पसलिलौघः ॥ ४१६ ॥
क्व वषट्कारध्वानः षट्कर्मविभूषणं श्रवणपूरः ।
क्व च साधारणवनितारतिमणिताकर्णनौत्सुक्यम् ॥ ४१७ ॥
क्वाचार्यप्रतनुलताताडनसंक्षोभसम्भवः कम्पः ।
क्व च कुपितवारललनानिष्ठुरपादप्रहारविषहित्वम् ॥ ४१८ ॥
क्व हरिणचर्मावरणं स्मृतिशास्त्रनिवेदितं व्रतं चरतः ।
क्व च पण्यस्त्रीगात्रस्पृष्टाम्बरधारणेषु बहुमानः ॥ ४१९ ॥
समिधामेव च्छेदनमभ्यस्तं शैशवात्समारभ्य ।
शठवनिताधरखण्डन उत्पन्नं कौशलं कुतो भवतः ॥ ४२० ॥
शुश्रूषणमेव गुरोः परिशीलितमचलचेतसा सततम् ।
कुटिलमतयो भुजिष्याः कथं त्वयाराधिता निपुणम् ॥ ४२१ ॥
आम्नायपाठ एव स्फुटतरपदसौष्ठवं तव ख्यातम् ।
प्रकुपितवेश्यानुनये क्व शिक्षितं वचनचातुर्यम् ॥ ४२२ ॥
अथवा किं क्रियते ऽस्मिन्नवदातकुले ऽपि लब्धजन्मानः ।
सदसंस्तुता भवन्ति प्रागुपचितकर्मदोषेण ॥ ४२३ ॥
त्वयि विनिवेश्य कुटुम्बं परलोकहितार्जनैकनिहितात्मा ।
स्थास्यामीति समीहितमनुदिवसं तद्विसंवदितम् ॥ ४२४ ॥
इत्यवधृतलेखार्थे सुन्दरसेने विधेयसम्मूढे ।
आर्यामगायदन्यः स्वावसरे गीतिपरिकरिताम् ॥ ४२५ ॥
विषयतिमिरावृताक्ष्णामवटे पततामदृष्टमार्गाणाम् ।
पुंसां गुरुजनवचनद्रव्यशलाकाञ्जनं शरणम् ॥ ४२६ ॥
उद्वेजयति तदात्वे सुखसम्पत्तिं करोति परिणामे ।
कटुकौषधप्रयोगो गुरुनिगदितकार्यनिष्ठुरं च वचः ॥ ४२७ ॥
लब्ध्वाथ वचोवसरं मित्रमवादीत्पुरन्दरापत्यम् ।
पुनरपि न हि खिद्यन्ते प्रियजनहितभाषणे सन्तः ॥ ४२८ ॥
अगणितसहचरवचसो दुर्व्यसनमहाब्धिमग्नवपुषस्ते ।
मन्युव्यथितस्य पितुर्यदि परमवलम्बनं वचनम् ॥ ४२९ ॥
निजवंशदीपभूतः कृतचरितालङ्कृतो महासत्त्वः ।
षुन्दर सम्प्रति तातः स्पृष्टो दुष्पुत्रदोषेण ॥ ४३० ॥
पुत्राभावः श्रेयान्दुःसुतता पुत्रिणः कुलीनस्य ।
अन्तस्तापयति भृशं सच्चरितकथाप्रसङ्गेषु ॥ ४३१ ॥
सांव्यवहारिक एव प्रायो लोके गुणोन्नता नियताः ।
येन तु सुतेन जननी वन्ध्यात्वं श्लाघते स पापीयान् ॥ ४३२ ॥
विफलं शास्त्रज्ञानं गुरुगृहसेवापि नोपकाराय ।
विषयवशीकृतमनसो न्याय्यं पन्थानमुत्सृजतः ॥ ४३३ ॥
जीवन्नेव मृतो ऽसौ यस्य जनो वीक्ष्य वदनमन्योन्यम् ।
कृतमुखभङ्गो दूरात्करोति निर्देशमङ्गुल्या ॥ ४३४ ॥
नो परिहर्तुं विषयाः शक्याः सत्यं तथापि निपुणधियः ।
अभिधेयतां न गच्छन्त्यपवादविशेषिताभिधानस्य ॥ ४३५ ॥
गुरुपरिचर्या जाया कुलोद्गता स्निग्धबन्धुसम्पर्कः ।
ब्राह्मे कर्मणि सक्तिर्लोकद्वयसाधनं सुधियाम् ॥ ४३६ ॥
सुलभा तस्य विभूतिस्तस्य गुणा यान्ति जगति विस्तारम् ।
बहु मनुते तं सुजनस्तस्मै स्पृहयन्ति बान्धवाः सततम् ॥ ४३७ ॥
नासादयति स एकः सत्सेवितमार्गतः परिस्खलनम् ।
मण्डयति सो ऽन्ववायं स निवासः शर्मणामशेषाणाम् ॥ ४३८ ॥
स भवति विनयाधारो युक्तायुक्ते विवेकिता तस्य ।
वृद्धोपदेशवाचः श्रवणोदरतर्पणं सदा यस्य ॥ ४३९ ॥
प्राक्तनकर्मविपाकः क्षुद्रासु शरीरिणां यदासक्तिः ।
आयतनं तु सुखानां संसारभुवां कुलोद्गता रामा ॥ ४४० ॥
निर्विण्णे निर्विण्णा मुदिते मुदिता समाकुलाकुलिते ।
प्रतिबिम्बसमा कान्ता संक्रुद्धे केवलं भीता ॥ ४४१ ॥
यावद्वाञ्छितसुरतव्यायामसहाविरुद्धसंभाषा ।
चित्तानुवृत्तिकुशला पुण्यवतामेव जायते जाया ॥ ४४२ ॥
सद्भावप्रेमरसं वलयावलिशब्दशङ्किता निभृतम् ।
विदधानाङ्गसमर्पणमुन्मीलितकुसुमसायकाकूता ॥ ४४३ ॥
हा हा किमुद्धतत्वं श्रोष्यति कश्चिद्गतत्रप स्वैरम् ।
निकटे परिवारजनो विस्मृत एव स्मरातुरस्य तव ॥ ४४४ ॥
इति हुङ्कृतिसंवलितैरायासनिवेदितार्थपदवाक्यैः ।
द्विगुणीकरोति कुलजा नायककर्माणि मोहनप्रसरे ॥ ४४५ ॥
इत्थमुदीरितवाचं सुहृदमवोचत्पुरन्दरस्य सुतः ।
समुपस्थितजीवसमावियोगभयकम्पितो वचनम् ॥ ४४६ ॥
तातादेशे ऽलङ्घ्ये ःारलताविरहपावके तीव्रे ।
विधिवशवर्तिनि मरणे नो विद्मः कार्यपरिणामम् ॥ ४४७ ॥
अनपेक्षितधनलाभां स्नेहैकनिबद्धमानसां दयिताम् ।
दैवाकृष्टो मुञ्चति घटितो वा लोहवज्रकणिकाभिः ॥ ४४८ ॥
अथ कृतगमनविनिश्चितिरभिमतरामां चकार विदितार्थाम् ।
सापि तमनुवव्राज प्रस्तुतयात्रं शुचाकुलिता ॥ ४४९ ॥
आसाद्य वटस्य तलं बाष्पपयःकणचिताक्षिपक्ष्माग्राम् ।
विघ्नितचरणविहारो हारलतामभिदधाति स्म ॥ ४५० ॥
आ क्षीरवतो वृक्षादा सलिलाद्वा प्रिये प्रियं यान्तम् ।
अनुयायादिति वचनं तेन त्वमितो निवर्तस्व ॥ ४५१ ॥
किं कुर्मो दैवहताः प्रभवति यस्मिन्कृशोदरि प्रसभम् ।
प्रेमग्रन्थिच्छेत्ता गुरुशासनसायको निरावरणः ॥ ४५२ ॥
न द्रविणचयप्राप्तिर्नैकाश्रयपरिचयो न चाटुगुणः ।
न स्वामिसमादेशो नाकारविलोभनं न च ख्यातिः ॥ ४५३ ॥
हेतुस्तव प्रवृत्तेरस्मासु तथापि दैववशात् ।
ईदृक्को ऽप्यनुबन्धो यस्य विपाको ऽप्रतीकारः ॥ ४५४ ॥
परुषं यदभिहितासि प्रणयरुषा शङ्कितं च नर्मणि वा ।
सुदति न तत्स्मरणीयं दुर्भाषणकीर्तनोद्घाते ॥ ४५५ ॥
तव हृदये हृदयमिदं विन्यस्तं न्यासपालनं कष्टम् ।
यत्नात्तथा विधेयं स्थानभ्रंशो यथा न स्यात् ॥ ४५६ ॥
अथ विरतवचोदयितं बाष्पभरक्लिष्टवर्णपदयोगात् ।
इति कथमपि ःारलता संमूर्छितवस्तुभारतीमूचे ॥ ४५७ ॥
अविशुद्धकुलोत्पन्ना देहार्पणजीविका शठाचरणा ।
क्वाहं रूपाजीवा क्व भवन्तः श्लाघनीयजन्मगुणाः ॥ ४५८ ॥
यत्तु विषयावलोकनकुतूहलाभ्यागतेन विश्रान्तम् ।
इयतो दिवसानस्मिन्तन्मे परजन्मकृतशुभस्य फलम् ॥ ४५९ ॥
गुरुसेवां बन्धुजनं स्वदेशवसतिं कलत्रमनुकूलम् ।
अनुषङ्गदृष्टपरिचित आस्थां प्रविधाय कः परित्यजति ॥ ४६० ॥
यौवनचापलमेतद्यन्मादृशि भवति कौतुकं भवताम् ।
यत्तु सुखमनवगीतं तस्य स्थानं निजा दाराः ॥ ४६१ ॥
ते मधुराः परिहासास्ता वक्रगिरः स वामतासमयः ।
नो हृदये कर्तव्या रहसि क्षेमार्थिना भवता ॥ ४६२ ॥
लाघवतो यन्मनसः प्रणयाद्वा यत्तवाचरितम् ।
प्रतिकूलं तत्र मया नाथाञ्जलिरेष विरचितो मूर्ध्नि ॥ ४६३ ॥
दुःसंचारा मार्गा दूरे वसतिर्विसंष्ठुलं हृदयम् ।
ङुणपालित तव सुहृदा भवितव्यमतो ऽप्रमत्तेन ॥ ४६४ ॥
हृदयद्वय एकत्वं याते यूनोर्वियोगजं क्लेशम् ।
अनुभवतोरपरेण प्रसङ्गतः पठ्यते पथ्या ॥ ४६५ ॥
अन्योन्यसुदृढचेष्टितसद्भावस्नेहपाशबद्धानाम् ।
विच्छेदकरो मृत्युर्धीराणां वा परिच्छेदः ॥ ४६६ ॥
अथ तच्छ्रवणानन्तरमास्स्व सुखं दयितिके व्रजामीति ।
अभिधाय याति मन्दं षुन्दरसेने विवर्तितग्रीवम् ॥ ४६७ ॥
वटशाखालम्बिभुजां श्वसितोष्णसमीरशुष्यदधरमुखीम् ।
पर्यस्तां बिभ्राणां तन्मार्गविलोकनानिमेशदृशम् ॥ ४६८ ॥
दोलायमानवेणीं तिर्यग्गतकण्ठभूषणविशेषाम् ।
गलदश्रुवारिपूर्णां पतितांशुकभागनिःसहाङ्गलताम् ॥ ४६९ ॥
रुन्धानामिव हृदयं स्फुटदितरकरेण कुचयुगाश्रयिणा ।
परिशेषितां विलासैरुत्सृष्टां जीवलोककर्तव्यैः ॥ ४७० ॥
अङ्गीकृतां विपत्त्या वशीकृतां मर्मघट्टनैर्विषमैः ।
ःारलतामपरिस्फुटमन्तःपरिकृष्यमाणभारत्या ॥ ४७१ ॥
मा मा तावद्यात क्षणमेकं यावदेष निष्करुणः ।
वनगुल्मैर्न तिरोहित इत्यभिदधतीं जहुः प्राणाः ॥ ४७२ ॥
अथ पश्चात्समुपेतं पप्रच्छ ড়ुरन्दरात्मजः पथिकम् ।
दृष्टा शोकव्यथिता निवर्तमानाङ्गना भवता ॥ ४७३ ॥
स उवाच वटतरोरध उर्व्यां पतिता विनिश्चलावयवा ।
तिष्ठति वनिता नान्या नयनावसरं गतास्माकम् ॥ ४७४ ॥
इति तद्वचनाश्महतो विह्वलमूर्तिः पपात भूपृष्ठे ।
उत्थापितश्च सुहृदा सो ऽभिदधे तेन शोकदीनेन ॥ ४७५ ॥
भवतु कृतार्थस्तातस्त्वमपि सुमित्रास्स्व साम्प्रतं प्रीतः ।
समकालमेव मुक्ता पापेन मयासुभिश्च ःारलता ॥ ४७६ ॥
हा हा हाव हतो ऽसि ध्वस्ता लीला विलास किं कुरुषे ।
उच्च्छिन्ना विच्छित्तिर्भ्रम विभ्रम दश दिशो निराधारः ॥ ४७७ ॥
किलकिञ्चित गच्छ वनं मोट्टायितमशरणत्वमुपयातम् ।
कुट्टमित प्रव्रज्यां गृहाण बिब्बोक विश भुवो विवरम् ॥ ४७८ ॥
ललितमनाथीभूतं विहृतस्य न विद्यते गतिः क्वापि ।
शशधरबिम्बद्युतिमुषि यातायामन्तकान्तिकं तस्याम् ॥ ४७९ ॥
विनिवृत्त्य यामि दग्धुं मद्विरहे मुक्तवल्लभप्राणाम् ।
भवतु वराक्यास्तस्याः सप्तार्चिर्दानमात्रमुपकारः ॥ ४८० ॥
गत्वाथ तमुद्देशं यस्मिन्सा पञ्चभावमापन्ना ।
विललाप मुक्तनादं विलुठन्भुवि सहचरेण धृतमूर्तिः ॥ ४८१ ॥
एते वयं निवृत्ता मुञ्च रुषं देहि कोपने वाचम् ।
उत्तिष्ठ किमिति तिष्ठसि भूमितले रेणुरूषितशरीरा ॥ ४८२ ॥
विनिमील्य दृशौ कस्मादप्रतिपत्त्या स्थितासि शुभवदने ।
त्वदवारितगमनविधेरपराधितया न मे योगः ॥ ४८३ ॥
नाकाधिपतिपुरन्ध्रीरभिभवितुं त्वयि दिवं प्रयातायाम् ।
सत्स्वपि शरेषु पञ्चसु निरायुधः साम्प्रतं मदनः ॥ ४८४ ॥
वञ्चकवृत्ता वेश्या इत्यपवादो जनेषु यो रूढः ।
अपनीतो ऽसौ निपुणं त्वया प्रिये जीवमोक्षेण ॥ ४८५ ॥
वन्द्यः सद्व्रत एकस्त्रिपुरान्तकनन्दनो महासेनः ।
हृदयं यस्य स्पृष्टं न मनागपि वामलोचनाप्रेम्णा ॥ ४८६ ॥
मन्ये ऽभीष्टवियोगं निमेषमपि दुःसहं समवधार्य ।
ःरिणा वक्षसि ऌअक्ष्मीर्विधृता ङौरी ःरेण देहार्धे ॥ ४८७ ॥
अयि ऌओकपाल सा भुवि ललामभूता तया विना शून्यम् ।
विश्वमिति किं न चिन्तितमात्मस्थानं प्रियां नयता ॥ ४८८ ॥
भगवन्हुतवह मा मा लावण्यसमुद्रसारमुद्धृत्य ।
कथमपि विहितां धात्रा धक्ष्यस्येनां जगद्भूषाम् ॥ ४८९ ॥
इति विलपन्तं बहुविधमवधीर्य सुहृत्पुरन्दरस्य सुतम् ।
काष्ठैर्विरचय्य चितां तामकरोदग्निसाद्गणिकाम् ॥ ४९० ॥
तस्मिन्निद्धहुताशनविनिपतने कृतमतौ शुचाकुलिते ।
मनसि स्फुरितामार्यां पपाठ कश्चित्प्रसङ्गेन ॥ ४९१ ॥
अनुमरणे व्यवसायं स्त्रीधर्मे कः करोति सविवेकः ।
संसारमुक्त्युपायं दण्डग्रहणं व्रतं मुक्त्वा ॥ ४९२ ॥
श्रुत्वा षुन्दरसेनः सचिवमवोचद्व्यपेतवैक्लव्यः ।
प्रतिबोधितं मनो मे धीरेणानेन युक्तमुपदिशता ॥ ४९३ ॥
क्षणदृष्टनष्टवल्लभजन्मजराव्याधिमरणपरिभूते ।
आवर्तिनि संसारे कः कुर्यादाग्रहं सुमतिः ॥ ४९४ ॥
यातु भवान्कुसुमपुरं वयमप्यन्त्याश्रमे समाश्रयणम् ।
अङ्गीकुर्मो ऽविद्याप्रहाणसंसिद्धये विहितम् ॥ ४९५ ॥
सो ऽवददभिजातजनो बाल्यात्प्रभृति त्वया च न वियुक्तः ।
संन्यसनबुद्धिमधुना कथमुज्झति विषयनिःस्पृहं सुहृदम् ॥ ४९६ ॥
एवमिति सो ऽभिधाय स्थिरयतिनियमैस्तपोधनैर्जुष्टम् ।
ङुणपालितेन सहितः षुन्दरसेनो जगाम वनम् ॥ ४९७ ॥
एवं भवन्तु वेश्याः स्वार्थैकदृशो व्यपेतसद्भावाः ।
अभिलषितविषयसिद्धेः का हानिस्तदपि युष्माकम् ॥ ४९८ ॥
रमणहृदयानुवर्तनचतुरचतुःषष्टिकर्मकुशलानाम् ।
न स्पृशति तत्त्वचर्चा पण्यवधूनां विदग्धचेतांसि ॥ ४९९ ॥
वलितप्लुतचित्रगतिस्थितिवेगैश्चोदनानुवृत्त्या च ।
रागस्पर्शेन विना विशति मनः सादिनां तुरगः ॥ ५०० ॥
गन्धो ऽपि कुतः प्रेम्णः परभृतहारीतगृहकपोतानाम् ।
उज्ज्वलयन्त्यसमेषुं विरुतविशेषैस्तथापि ते यूनाम् ॥ ५०१ ॥
आहितयुक्ताहार्यः सम्यक्सकलप्रयोगनिष्पत्त्या ।
भावविहीनो ऽपि नटः सामाजिकचित्तरञ्जनं कुरुते ॥ ५०२ ॥
ये ऽपि धनक्षयदोषं पश्यन्ति जडा विलासिनीश्लेषे ।
प्रष्टव्यास्ते भवता किमकृतकशिपुव्यया दाराः ॥ ५०३ ॥
न च लाभ एक एव प्रवर्तने कारणं मनुष्येषु ।
रागादयो ऽपि सन्ति वैशिकशास्त्रप्रणेतृभिः कथिताः ॥ ५०४ ॥
का वा विभूतिराप्ता सुन्दरसेनात्तया तपस्विन्या ।
तद्विरहकुलिशभिन्ना मुमोच या जीवितं क्षणार्धेन ॥ ५०५ ॥
उत्तमतरुणप्रकृतिः पुलकादिकसूचितान्यतनुसक्तिः ।
स्फुटसंनिहितविभावो निवार्यते केन शृङ्गारः ॥ ५०६ ॥
अन्तःकरणविकारं गुरुपरिजनसंकटे ऽपि कुलटानाम् ।
बुध्यन्ति तदभियुक्ता भ्रूभङ्गापाङ्गमधुरदृष्टेन ॥ ५०७ ॥
अन्या विहाय पतिगृह मविचिन्तितकुलकलङ्कजनगर्हाः ।
रागोपरक्तहृदया यान्ति दिगन्तं मनुष्य आसज्य ॥ ५०८ ॥
अपमानः पतिविहितो गुरुपरिकरतीव्रता गृहे ऽपि दौर्गत्यम् ।
शीलक्षतये यासां तासामपि रागतो ऽन्यनरसक्तिः ॥ ५०९ ॥
या अप्यचलितवृत्ता भर्तुः परिचरणतत्पराः प्रमदाः ।
ता अपि रागविमुक्तास्तिष्ठन्त्यौचित्यमात्रेण ॥ ५१० ॥
तस्मादस्त्वभिगमनं विविधनिमित्तं निवार्यते केन ।
निजपरपण्यस्त्रीणां रागाधीनं तु हृदयनिर्वहणम् ॥ ५११ ॥
एवंविधदृष्टान्तैरुपपत्तियुतैस्तथेदृशैर्वाक्यैः ।
अन्यैरपि चाटुपदैरावर्जितमानसं गम्यम् ॥ ५१२ ॥
विहितस्वापविबोधं किञ्चित्प्रकटीकृतश्रमग्लान्या ।
उत्पादितजृम्भिकया परिरभ्य घनं निशापगमे ॥ ५१३ ॥
विघटितपुटमुद्रदृशा विलोक्य ककुभः सदीर्घनिःश्वासम् ।
वक्तव्यमिति भवत्या रजनि खले किं प्रयातासि ॥ ५१४ ॥
अबला विषहेत कथं दृढशक्तिमनुष्यरतिरसप्रसरम् ।
मदनजनितो ऽनुरागो न विदध्याद्यदि बलाधानम् ॥ ५१५ ॥
धन्या चक्राह्ववधूः प्रियतमसंघटनसमयसम्प्राप्त्या ।
शशिना वियुज्यमाना कुमुद्वति क्षीणपुण्यासि ॥ ५१६ ॥
विकसितसुरभिमनोहरसंस्थानं सरसकुसुममप्राप्तम् ।
न करोति तथा पीडामास्वादितविच्युतं यथा भृङ्ग्याः ॥ ५१७ ॥
विज्ञापयाम्यतस्त्वां रचिताञ्जलिमौलिना विधाय नतिम् ।
परिचारकजनमध्ये गणनीयाहं प्रसादेन ॥ ५१८ ॥
अथ दीपितरागाङ्गैरपहस्तितलाभदिक्क्रमोपचितैः ।
मृदुभिश्चित्तानुगतैरुपचारैः पातितस्य विश्वासे ॥ ५१९ ॥
अवलोकितो ऽसि लम्पट किमपि वदन्कर्णसंनिधौ निभृतम् ।
शङ्करसेनाधात्र्या अद्य मया जालमार्गेण ॥ ५२० ॥
मालत्या सह केलिं विदधासि सखी ममेति न विरोधः ।
यत्तु चिरं स्निग्धदृशा पश्यसि तां तत्र मे शङ्का ॥ ५२१ ॥
त्वामागता न वीक्षितुमनुबध्य न याचितः प्रयत्नेन ।
आहूय वद किमर्थं ताम्बूलं ग्राहिता कमलदेवी ॥ ५२२ ॥
कञ्चुकमपकर्षन्त्याः प्रकटीभवदंसकक्षकुचपार्श्वम् ।
साभिनिवेशं दृष्टं भवता किं कुन्दमालायाः ॥ ५२३ ॥
परिहासेन गृहीता यद्यंशुकपल्लवे त्वया हीरा ।
आच्छोट्यापक्रान्ता किं मामवलोक्य पृष्ठतः सहसा ॥ ५२४ ॥
विज्ञानेन ख्यातां Kउसुमलतां त्वं तु वर्णयस्यनिशम् ।
नृत्यन्तीं ंृगदेवीं विस्फारितलोचनः पश्यन् ॥ ५२५ ॥
कारणमत्र न वेद्म्यहमृजुपन्थानं प्रसिद्धमुत्सृज्य ।
वक्रेण यदेषि सदा माधवसेनागृहाग्रेण ॥ ५२६ ॥
इति सेर्ष्योपन्यासैरन्यैश्चामर्मवेधिलघुकोपैः ।
प्रणयप्रभवैर्विदिते च्छातोदरि रूढरागत्वे ॥ ५२७ ॥
श्रुतिविशये ऽन्तरिततनुर्जनितस्थितिरायताक्षि सह मात्रा ।
परुषगिरा त्वं कुर्या इत्थं मिथ्यावचःकलहम् ॥ ५२८ ॥
अक्लेशोपनतधनः प्रेमप्रह्वो निरर्गलत्यागः ।
भट्टानन्दस्य सुतो निधिभूतो ऽभव्यया त्वया त्यक्तः ॥ ५२९ ॥
व्यसनोपहतविवेको दैवैकगतिः स्वदारविद्वेषी ।
मामविगणय्य मूढे निर्भर्त्सित एव केशवस्वामी ॥ ५३० ॥
अगणितराजापायो ऽविच्छिन्नायः स्वभावतस्त्यागी ।
किमुपेक्षितो ऽनुरक्तो वामधिया शौल्किकाध्यक्षः ॥ ५३१ ॥
पितुरेक एव पुत्रश्चतुर्थवयसो गदाभिभूतस्य ।
द्रविणवतः प्रभुरातो निराकृतो ऽभूतिकामया सो ऽपि ॥ ५३२ ॥
स्वकरेण परित्यक्ता त्वया विभूतिः करोमि किं पापा ।
सर्वभरेणोपनतं वसुदेवमनादरेण पश्यन्त्या ॥ ५३३ ॥
पुरुषान्तरसंघर्षप्रोत्साहितचित्तवृत्तिरनपेक्षम् ।
वसु विसृजति यो रभसात्तस्य न वार्ता त्वया पृष्टा ॥ ५३४ ॥
चित्रादिकलाकुशलः स्मरशास्त्रविचक्षणो वृषप्रकृतिः ।
उपकुर्वन्नपि सर्वो विद्वेषिगणे त्वया क्षिप्तः ॥ ५३५ ॥
चन्द्रवतीमाभरणं दत्तं मधुसूदनस्य पुत्रेण ।
पश्यन्ती बिभ्राणामयि रागिणि किं न जिह्रेषि ॥ ५३६ ॥
ग्रामोत्पत्तिरशेषा प्रविशन्ती षिंहराजविनियोगात् ।
ंन्मथसेनावासं लघयति ते रूपसौभाग्यम् ॥ ५३७ ॥
आस्तामपरो लाभो हेडावुकनन्दिसेनतनयेन ।
शिवदेव्या उपचारः क्रियते यस्तेन पर्याप्तम् ॥ ५३८ ॥
पश्येदं धवलगृहं पाशुपताचार्यभावशुद्धेन ।
कारितमनङ्गदेव्या आभरणं पत्तनस्य सकलस्य ॥ ५३९ ॥
आपणिकार्थस्य कुतो राजा लभते चतुर्थमपि भागम् ।
हट्टपतिरामसेनप्रसादतो णर्मदा तमुपभुङ्क्ते ॥ ५४० ॥
पुंस्त्वख्यापनकामो न स्त्री न पुमान्किल प्रभुस्वामी ।
अनुबध्नन्नुपहसितस्त्वया जडे स्वार्थयोगमनपेक्ष्य ॥ ५४१ ॥
वाजीकरणैकमतिर्नरनाथानुग्रहेण विख्यातः ।
प्रत्याख्यातः स तथा ऋअविदेवः किङ्करत्वमाकाङ्क्षन् ॥ ५४२ ॥
किं कन्दर्पकुटुम्बे जातो ऽसावुत वशीकरणयोगम् ।
जानाति कमपि सिद्धं येनाकृष्टासि सर्वभावेन ॥ ५४३ ॥
बाल्ये तावदयोग्या पश्चादपि वृद्धभावपरिभूता ।
तारुण्ये रागहृता यदि गणिका भ्रमतु तद्भिक्षाम् ॥ ५४४ ॥
उपनय भाण्डकमेतद्यदर्जितं मामकेन देहेन ।
विदधामि तीर्थयात्रामास्स्व सुखं प्रेयसा सार्धम् ॥ ५४५ ॥
आर्यजननिन्दितानां पापैकरसप्रकाशनारीणाम् ।
एतावानेव गुणो यदभीष्टसमागमो निरावरणः ॥ ५४६ ॥
नो धनलाभो लाभो लाभः खलु वल्लभेन संसर्गः ।
अक्षिगतादर्थाप्तिर्न भवति मनसः प्रमोदाय ॥ ५४७ ॥
गाढानुरागभिन्नं तारुण्यरसामृतेन संसिक्तम् ।
न भजति सहृदयहृदयं विभवार्जनसम्भवा चिन्ता ॥ ५४८ ॥
लाभः स एव परमः पर्याप्तं तेन तेन तृप्तास्मि ।
विनिवेश्य यदुत्सङ्गे निक्षिपति मुखे मुखेन ताम्बूलम् ॥ ५४९ ॥
सुरतश्रमवारिकणान्परिमार्ष्टि निजांशुकेन गात्रेषु ।
यदुरसि निधाय विहसंस्तस्य न मूल्यं वसुन्धरा सकला ॥ ५५० ॥
शिथिलितनिजदाररतिर्मयि सक्तमना अनन्यकर्तव्यः ।
यदसौ जितनलरूपस्तिरस्कृतं तेन गाणिक्यम् ॥ ५५१ ॥
बहुकुसुमरसास्वादं कुर्वाणा मधुकरी विधिनियोगात् ।
ईदृक्प्रसवविशेषं लभते खलु येन भवति कृतकृत्या ॥ ५५२ ॥
अयि सरले तावदिमा उपदेशगिरो विशन्ति कर्णान्तः ।
यावन्नान्तर्भूतं तच्चेतसि मामकं चेतः ॥ ५५३ ॥
श्रीरस्तु दुर्गतिर्वा वेश्मनि वासो महत्यरण्ये वा ।
स्वर्लोके नरके वा किं बहुना तेन मे सार्धम् ॥ ५५४ ॥
इदमास्ते ऽलङ्करणं दुर्जननि गृहाण किं ममैतेन ।
तेनैव भूषिताहं गुणनिधिना Bहट्टपुत्रेण ॥ ५५५ ॥
उचितस्थाननियुक्तान्यपनीय विभूषणानि सावेगम् ।
एवमभिधाय यास्यसि मातुः पुरतः समुत्सृज्य ॥ ५५६ ॥
इति रागान्धः श्रुत्वा चेतसि कुरुते कदा चिदेवमिदम् ।
स्नेहाधिष्ठितमनसामविधेयं नास्ति नारीणाम् ॥ ५५७ ॥
जननीं जन्मस्थानं बान्धवलोकं वसूनि जीवं च ।
पुरुषविशेषासक्ताः सीमन्तिन्यस्तृणाय मन्यन्ते ॥ ५५८ ॥
रणशिरसि हते Vअज्रे वज्रोपमयन्त्रनिर्गतग्राव्णा ।
प्राणान्मुमोच दयिता न मन्त्रविधिना हृता नाम ॥ ५५९ ॥
कालवशेनायासीत्पञ्चत्वं दाक्षिणात्यमणिकण्ठः ।
प्रेमोपगता वेश्या तेनैव समं जगाम भस्मत्वम् ॥ ५६० ॥
Bहास्करवर्मणि याते सुरवसतिं वारितापि भूपतिना ।
तद्दुःखमसहमाना प्रविवेश विलासिनी दहनम् ॥ ५६१ ॥
ज्वालाकरालहुतभुजि नग्नाचार्यः पपात णरसिंहः ।
तस्मिन्नेव शरीरं निजमजुहोच्छोकपीडिता दासी ॥ ५६२ ॥
प्रीतिभराक्रान्तमतिस्त्रिदशालयजीविकां क्रमोपनताम् ।
अङ्गीचकार मुक्त्वा ञीहल्ला Bहट्टविष्णुमा मृत्योः ॥ ५६३ ॥
देशान्तरादुपेते प्रसादमात्रेण वीक्षिते वनिते ।
पादयुगं तत्यजतुर्न Vआमदेवस्य समिति निहतस्य ॥ ५६४ ॥
Bहट्टकदम्बकतनये याते वसतिं परेतनाथस्य ।
चक्रे देहत्यागं रणदेवी वारयोषितां मुख्या ॥ ५६५ ॥
अस्यामेव नगर्यां द्रविणमदात्कालसञ्चितमशेषम् ।
प्रेम्णाकृष्टा गणिका भट्टात्मजनीलकण्ठाय ॥ ५६६ ॥
इयमपि मयि विहितास्था मातृवचःश्रवणकलुषिता क्व गता ।
त्यक्त्वाभरणं सर्वं प्रविजृम्भितमन्युसंवेगा ॥ ५६७ ॥
उत्सृष्टालङ्करणां परिशेषितमातृमुक्तपरिवाराम् ।
संतर्पयामि सम्प्रति सर्वस्वेनापि हरिणाक्षीम् ॥ ५६८ ॥
गेहेन किं प्रयोजनमन्यैरपि बन्धुदारपरिवारैः ।
संसारग्रहकारणमेका खलु ंालती मम हि ॥ ५६९ ॥
अमृतकरावयवैरिव घटिता सा दृढतरं परिष्वक्ता ।
चेतो नयति समत्वं ब्रह्मण आनन्दरूपस्य ॥ ५७० ॥
आविर्भवदात्मभवक्षोभक्षतधीरता घनं रभसात् ।
विगलितकुचयुगलावृतिरालिङ्गति ंालती धन्यम् ॥ ५७१ ॥
निर्दयतरोष्ठखण्डनसव्यथहुङ्कारमूर्छितं सुरते ।
अहहेति वचस्तस्या अपुण्यभाजो न शृण्वन्ति ॥ ५७२ ॥
स्मृतिजन्मजनितविकृतिव्रततिच्छन्नं करोति संसारम् ।
आविद्धसुरतसङ्गरविमर्दसंक्षोभिता दयिता ॥ ५७३ ॥
गाढतराश्लिष्टवपुर्भजते कान्ता प्रमोदसम्मोहम् ।
शिथिलीकृता तु किं चिद्विविधविकारं समुच्छ्वसिति ॥ ५७४ ॥
सन्त्यन्या अपि सत्यं पुरुषोचितकर्मपण्डिताः प्रमदाः ।
सृष्टा तु तया नियतं विपरीतरतिक्रियागोष्ठी ॥ ५७५ ॥
तन्त्रीवाद्यविशेषानुद्दामानन्यजन्मनस्तस्याः ।
कुहरितरेचितकम्पितसम्पादननैपुणं करोति जडान् ॥ ५७६ ॥
ललिताङ्गहारजृम्भितवलितस्मितवेपनानि ंालत्याः ।
पश्यञ्जहाति Kआमः ऋअतिमोहनचेष्टितेषु बहुमानम् ॥ ५७७ ॥
न ग्राम्यं परिहसितं नाविभ्रमतरलितो ऽक्षिविक्षेपः ।
सुरतोद्योगनिरोधो दोहददानं न ড়ुष्पबाणस्य ॥ ५७८ ॥
नार्थपरो लपनरसो न पराशयवेदने ऽविचक्षणता ।
नासौष्ठवं प्रसङ्गेनोल्वणगुणकीर्तनेषु भारत्याः ॥ ५७९ ॥
नापरपुरुषश्लाघा न त्यागः कालदेशवेशस्य ।
वैदग्ध्यजन्मभूमेर्गुरुजघनभरेण मन्दयातायाः ॥ ५८० ॥
चक्राह्वपरिष्वजनं हंससमाश्लेषनकुलपरिरम्भम् ।
पारावतावगूहनमाचरति सुमध्यमा यथावसरम् ॥ ५८१ ॥
तद्वक्रवचनहासव्यवहृतिहृतमानसस्य जायन्ते ।
अनुकूलसुन्दरा अपि भरणीयभराय केवलं दाराः ॥ ५८२ ॥
सूचयति पृथक्करणं भ्रातऋणां वक्ति विषमशीलत्वम् ।
विवृणोति गृहविसंस्थामभिनन्दति पितृकुलस्य गुणवत्ताम् ॥ ५८३ ॥
अन्यसुतपक्षपातं कथयति मातुस्तिरस्करोति पतिम् ।
पार्श्वनिमग्ना जाया मा यातु विमुच्य कार्मुकं ंदनः ॥ ५८४ ॥
एवं कृते ऽपि सुन्दरि यदि तिष्ठति नायकः प्रकृत्यैव ।
इत्थं पथि परिमोषस्त्वत्सख्या नैपुणेन वक्तव्यः ॥ ५८५ ॥
गृहकार्यव्यग्रतया चित्तग्रहणाय वा कुलस्त्रीणाम् ।
नायाते भवति सखी प्रावृड्घनकलुषिते दिशां चक्रे ॥ ५८६ ॥
प्रग्रीवकशयनगता स्फारीभवदात्मसम्भवविकारा ।
त्वन्मार्गनिहितनेत्रा गीतामन्येन गीतिकामशृणोत् ॥ ५८७ ॥
यदि जीवितेन कृत्यं संभावय विरहिणि प्रियं तूर्णम् ।
घनरसितस्य हि पुरतः कदलीदलकोमलः कुलिशपातः ॥ ५८८ ॥
आकर्ण्य मामवादीद्धन्यास्ता युवतयः सखि कठोराः ।
या विषहन्ते दीर्घं प्रियतमविरहानलासङ्गम् ॥ ५८९ ॥
मम तु दिनान्तरिते ऽपि प्रेयसि लब्ध्वा सहायसामग्रीम् ।
विदधाति ंकरकेतन उत्कलिकाविधुरितं हृदयम् ॥ ५९० ॥
उत्कण्ठयति भृशं मां समीरणो बकुलकुसुमगन्धाढ्यः ।
प्रच्यावयन्ति धैर्यान्मधुरध्वनितैः कलापभृतः ॥ ५९१ ॥
सतडिन्मिलद्बलाकामसिताम्बुधरावलीं समुद्यन्तीम् ।
उत्सहते सा वीक्षितुमविरलमालिङ्गितो यया कान्तः ॥ ५९२ ॥
स्वेच्छागमनलघुत्वं बहुलापायं निशासु पन्थानम् ।
न विचारयन्ति महिला अभीष्टतमसङ्गतावुत्काः ॥ ५९३ ॥
क्रियतां भूषणशोभा त्वरयति मे मानसं ंनोजन्मा ।
रञ्जयति मनो नितरां कलधौतनिवेशितं रत्नम् ॥ ५९४ ॥
घनजलदावृतककुभि प्रदोषसमये प्रदोषगमनाय ।
विदधानया कुबुद्धिं रागान्धे किमिदमारब्धम् ॥ ५९५ ॥
वचनप्रपञ्चसारं जायाश्रितमन्यदेशसम्बद्धम् ।
पुरुषमभिगन्तुकामा नवेयमभिसारिका दृष्टा ॥ ५९६ ॥
दरधौततिलकरचनां गलदम्भोबिन्दुलुलितकेशाग्राम् ।
तिम्यत्तनुलीनावृतिचण्डानिलसलिलपातकण्टकिताम् ॥ ५९७ ॥
अविभावितसमविषमप्रस्खलदङ्घ्रिं सहायकरलग्नाम् ।
पुरतो ऽध्वनः प्रमाणं मुहुर्मुहुः साध्वसेन पृच्छन्तीम् ॥ ५९८ ॥
अन्यस्मिन्प्रेतपतौ व्यग्रे कृच्छ्रेण कथमपि प्राप्ताम् ।
तत्कालयोग्यपरिजननिवेदितामिति विकल्प्य सह सचिवैः ॥ ५९९ ॥
किं प्रेम्णो ऽयं महिमा किमुतानन्त्यं धनप्रलोभस्य ।
किं वान्यतः प्रवृत्ता प्रवेशिता वातवर्षेण ॥ ६०० ॥
संनिहितकलत्राणामनुचितमिति बाह्यलोकसंवदनात् ।
अन्यस्मिन्नुदवसिते विसर्जितामिष्टमालतीकेन ॥ ६०१ ॥
लोकेन हास्यमानां बिभ्राणां वाससी जलक्लिन्ने ।
रूपमदमुत्सृजन्तीं वैलक्ष्यव्रीडितेन नतवदनाम् ॥ ६०२ ॥
पश्चात्तापगृहीतां कण्टकदर्भाग्रभिन्नपादतलाम् ।
अस्मद्वचः स्मरन्तीं द्रक्ष्यन्त्यभिसारिकां सुकर्माणः ॥ ६०३ ॥
इति परुषमभिदधानां मातरमवधीर्य युष्मदभ्यासम् ।
चौरहतका व्रजन्तीं विद्रावितरक्षिणः सखीं मुमुषुः ॥ ६०४ ॥
एषा प्रपञ्चरचना यदि भवति वृथा पुनः पुरस्तस्य ।
वणिगिदमुपेत्य वक्ष्यति सहायपरिचोदितो भवतीम् ॥ ६०५ ॥
पूर्वादत्तस्योपरि मुक्ताहारस्य केदरास्त्रिंशत् ।
परिचारिकयानीता अन्यानपि मृगयते व्ययस्य कृते ॥ ६०६ ॥
यत्तु घनसारकुङ्कुमचन्दनधूपादि मुक्तकं दत्तम् ।
तत्सम्पुटके लिखितं शृणु पिण्डनिकां करोमि ते पुरतः ॥ ६०७ ॥
एतावन्तं कालं नावष्टभ्यार्थिता त्वमसि ।
रिक्तं भाण्डस्थानं साम्प्रतमिति याचना क्रियते ॥ ६०८ ॥
एवंवादिनि तस्मिन्किं चिल्लज्जानता क्षणं स्थित्वा ।
प्रश्रितया वाचा वाच्यः सवैलक्ष्यम् ॥ ६०९ ॥
हारस्तवैव तिष्ठतु मध्यस्थस्थापितेन मूल्येन ।
शेषं ततो यदन्यत्तद्दिवसैः संपादयिष्यामि ॥ ६१० ॥
इयमपि कपटग्रथना षण्डसमा चेत्तदीदृगभिधेयम् ।
आशङ्कन्ते ऽनिष्टं कातरहृदया हि योषितः प्रायः ॥ ६११ ॥
अपटुशरीरे स्वामिनि विज्ञप्ता भगवती मया गत्वा ।
भवतु निरामयदेहो जीवितनाथस्तव प्रसादेन ॥ ६१२ ॥
सम्पन्नवाञ्छिताहं बल्युपहारेण पूजयिष्यामि ।
सामग्रीविरहेण तु न वितीर्णा तत्र मे मनसि शूका ॥ ६१३ ॥
अस्मिन्व्यर्थीभूते रिक्तीकृतशीर्णवेश्मनो दाहम् ।
उत्पाद्य मन्दगामिनि सर्वविनाशः प्रकाशमुपनेयः ॥ ६१४ ॥
स्निग्धत्वमलं बुद्ध्वा सहभोजनशयनवसनलिङ्गेन ।
एभिरुपायद्रव्यैर्वान्तविरिक्तस्त्वया कार्यः ॥ ६१५ ॥
वार्धुषिककदर्थनया भोगध्वंसात्सहायवचनैर्वा ।
अवधारिते ऽपि निपुणं वरगात्रि विलुप्तसारत्वे ॥ ६१६ ॥
परुषवचोनिर्धारणमायत्यामीहितोपघातीति ।
यत्नादमी विधेया गम्यस्य विमोक्षणोपायाः ॥ ६१७ ॥
पृथगासननिर्देशः प्रत्युत्थानादिकेषु शैथिल्यम् ।
सासूयसोपहासा आलापा मर्मवेधि परिहसितम् ॥ ६१८ ॥
तत्प्रतिपक्षश्लाघा तदधिकगुणरागकीर्तनावृत्तिः ।
वदति प्रियमाभीक्ष्ण्यं बहुप्रलापित्वदूषणाख्यानम् ॥ ६१९ ॥
वचनान्तरोपघातैस्तत्प्रस्तुतसंकथासमाक्षेपः ।
तद्व्यवहारजुगुप्सा सव्यपदेशस्तदन्तिकत्यागः ॥ ६२० ॥
व्याजेन कालहरणं स्वापावसरे विवर्तनं शयने ।
निद्राभिभवख्यापनमुद्वेगः सम्मुखीकरणे ॥ ६२१ ॥
गुह्यस्पर्शनिरोधः स्वभावसंस्था रताभियोगेषु ।
चुम्बति वदनविकूणनमालिङ्गति कठिनगात्रसंकोचः ॥ ६२२ ॥
असहिष्णुत्वं प्रहणनकररुहदशनक्षतिप्रसङ्गेषु ।
दीर्घरते निर्वेदः स्वपिहीति वचो ऽभियोजके भूयः ॥ ६२३ ॥
तदशक्तावनुबन्धो वैदग्ध्यविकाशने तथा हासः ।
रात्र्यवसानस्पृहया पुनः पुनर्यामिकप्रश्नः ॥ ६२४ ॥
निःसरणं वासगृहादुषसि समुत्थाय तल्पतस्त्वरया ।
सरभसमुदीरयन्त्या निशा प्रभाता प्रभातेति ॥ ६२५ ॥
उभयेच्छया प्रवृत्तं निरुपाधि प्रेम भवति रमणीयम् ।
अन्योन्यसमासक्तौ संस्थानमिवाभिजातमणिहेम्नोः ॥ ६२६ ॥
यस्त्वेकाश्रयरागः परिभवदौर्बल्यदैन्यनाशानाम् ।
स निदानमसंदिग्धं सीतां प्रति दशमुखस्येव ॥ ६२७ ॥
यानि हरन्ति मनांसि स्मितवीक्षितजल्पितानि रक्तानाम् ।
तान्येव विरक्तानां प्रतिभान्ति विवर्तितानीव ॥ ६२८ ॥
विदधातु किमपि कथमपि निगृह्यमाणा मुहूर्तमासिष्ये ।
इति यत्र मनः स्त्रीणां तत्रापि रते रमन्ति पशुतुल्याः ॥ ६२९ ॥
यत्र न मदनविकाराः सद्भावसमर्पणं न गात्राणाम् ।
तस्मिन्नुज्झितभावे पशुकर्मणि पशव एव रज्यन्ते ॥ ६३० ॥
अवधीरणयोपहतः प्रतिदिवसं हीयमानसद्भावः ।
अभिमानवान्मनुष्यो योषितमूढामपि त्यजति ॥ ६३१ ॥
साक्षिनिकोचं सख्याः पाणितलं पाणिना समाहत्य ।
यं नरमुपहसति स्त्री ददातु तस्मै मही रन्ध्रम् ॥ ६३२ ॥
पुरुषान्तरगुणकीर्तनमन्योद्देशेन चात्मनो निन्दाम् ।
शृण्वन्नपि यः स्वस्थः स्वस्थो ऽसौ कालपाशबद्धो ऽपि ॥ ६३३ ॥
अवगत्याभिप्रायं स्वामिन्याः परिजनो ऽपि यं पुरुषम् ।
व्यवहरति तिरस्कुर्वंस्तस्य न मूल्यं वराटिकाः पञ्च ॥ ६३४ ॥
तत्त्वातत्त्वसमुत्थव्यवहृतयोर्यो ऽन्तरं न जानाति ।
स्थानं भवति स ড়शुपतिरपसंशयमर्धचन्द्रलाभस्य ॥ ६३५ ॥
क्रमगलितगौरवांशो रिक्ततया लाघवं परापतितः ।
अप्राप्तपरिच्छेदतटः प्लवते ऽसौ युवतिसरसि कुमनुष्यः ॥ ६३६ ॥
यत्नेन कपटघटिताञ्शृङ्गारज्ञापनार्थमनुभावान् ।
रतिशिल्पजीविकाभिर्मूढास्तत्त्वेन गृह्णन्ति ॥ ६३७ ॥
या धनहार्या नार्यो निर्मर्यादाः स्वकार्यतात्पर्याः ।
ताभिरपि समीहन्ते बत मन्दाः संगतमजर्यम् ॥ ६३८ ॥
अपरोक्षधनो गम्यः श्रीमानपि नान्यथेति निर्दिष्टम् ।
Kअन्दर्पशास्त्रकारैः कुतः कथा लुप्तविभवेषु ॥ ६३९ ॥
व्यासमुनिनापि गीतं द्वावेव नराधमौ मनो दहतः ।
यो ऽनाढ्यः कामयते कुप्यति यश्चाप्रभुत्वयुक्तो ऽपि ॥ ६४० ॥
क्षीणद्रव्ये देहिनि दारा अपि नादरेण वर्तन्ते ।
किमुतादानैकरसाः शरीरपणवृत्तयो दास्यः ॥ ६४१ ॥
अविदितहेयादेयास्तिर्यञ्चो ऽपि त्यजन्ति पीतरसम् ।
कुसुमं किमु कार्यविदो वेश्या नरमात्तसर्वस्वम् ॥ ६४२ ॥
उत्पादयति सदानो रागं रागात्मको यथाभ्यधिकम् ।
निर्दानो ऽपि सदा नो निःसंदेहं तथैव मनुजन्मा ॥ ६४३ ॥
यदतीतं तदतीतं भाविनि लाभे ऽपि नातिबहुमानः ।
तत्कालहस्तनिपतितमनियतपुंसां मुदे वित्तम् ॥ ६४४ ॥
पीडितमधु मधुजालं तुच्छीभूतं च मन्मथाग्रस्तम् ।
मुञ्चन्ति मदनशेषं क्षुद्राश्च प्रकटरामाश्च ॥ ६४५ ॥
एकः क्रीणात्यद्य प्रातो भविता तथापरः क्रेता ।
अन्यवशे क्षणमेकं न विक्रयः शाश्वतो ऽस्ति वेश्यानाम् ॥ ६४६ ॥
संदर्शितपरमार्थं भ्रूक्षेपकटाक्षदृष्टहसितादि ।
शृण्वन्तु ये सकर्णास्तत्कृतमन्यत्र संक्रान्तम् ॥ ६४७ ॥
यदि नाम निराकरणे न समर्था छिन्नकार्यबन्धे ऽपि ।
का चिन्महानुभावा बोद्धव्यं तदपि चेतनावद्भिः ॥ ६४८ ॥
तेनार्थेनोपकृतं तयापि तस्य स्वदेहदानेन ।
तच्चातीतं सम्प्रति निरर्थकः शुष्कशृङ्गारः ॥ ६४९ ॥
अवधीरणा रसायनमपमानो भवति यस्य परितुष्ट्यै ।
योग्यो ऽसौ पुरुषखरः खरतरनिर्भर्त्सनोक्तिलकुटानाम् ॥ ६५० ॥
दीपज्वालाललने व्रजतः खलु निर्वृतिं तयोस्त्वियान्भेदः ।
प्रथमा स्नेहेन विना तथापरा स्नेहयोगेन ॥ ६५१ ॥
धर्मः कामादभिनवगुणवन्निःस्वस्य मदनरोगवतः ।
अर्थो ऽर्थवतो ऽभिगमात्कामः समरतनरोपभोगेन ॥ ६५२ ॥
यस्तु न धर्मप्राप्त्यै नार्थाय न कामसाधनोपायः ।
स पुमान्सच्चरितधनैः पर्यनुयुक्तः किमाचष्टे ॥ ६५३ ॥
कामोद्वेगगृहीतं धूर्तैरुपहस्यमानशृङ्गारम् ।
दारिद्र्यहतं यौवनमबुधानां केवलं विपदे ॥ ६५४ ॥
व्यपगतकोषे रागिणि याति लयं पानमात्रलाभहृता ।
क्षुद्रा मधुकरिकाब्जे न तु गणिका चिन्तितस्वार्था ॥ ६५५ ॥
यासां कार्यापेक्षा सकटाक्षनिरीक्षणे ऽपि वेश्यानाम् ।
दर्शनमात्रक्षुभितैर्वञ्च्यन्ते ताः कथं पुरुषैः ॥ ६५६ ॥
क्लेशाय दुर्गतानां मानस्तुतिगात्रभङ्गविन्यासम् ।
गणिकाभिनयचतुष्टयमाकृष्ट्यै स्वापतेयपुष्टानाम् ॥ ६५७ ॥
किं धक्ष्यति भूयो ऽपि ज्वलनस्तं तादृशं कुलाङ्गारम् ।
यो दह्यते ऽविरामं विरक्तदासीतिरस्कारैः ॥ ६५८ ॥
गृहमेतदीश्वराणां कान्तारं दुष्प्रवेशमन्येषाम् ।
पूत्कृतमिदमुद्भुजया न ंालती कामसत्त्रदानपरा ॥ ६५९ ॥
इति चोदितगृहचेटीनिगदितकटुकाक्षरान्यकृतलक्ष्याः ।
आकर्णयतो वाचो दैवोपहतस्य तस्य मर्मभिदः ॥ ६६० ॥
एवमभिधीयमानो नो बुध्यति यदि पशुर्नराकारः ।
तदिदं सुन्दरि वाच्यः प्रश्रितवचसा त्वया कामी ॥ ६६१ ॥
प्रीयत एव तवोपरि हृदयं मे किं तु गुरुजनाधीना ।
मातृवचोतिक्रमणं न समर्था संविधातुमहम् ॥ ६६२ ॥
अर्हसि तावदतस्त्वं गन्तुमितः कतिपयान्यपि दिनानि ।
पुनरपि भवतैव समं भोक्तव्यं जीवलोकसुखम् ॥ ६६३ ॥
निर्वासिते तु तस्मिन्यः कामी पूर्वमुज्झितो भुक्त्वा ।
तस्य प्राप्तविभूतेर्युक्तिरियं भिन्नसंधाने ॥ ६६४ ॥
उपवनलीलाविहरणहावोज्ज्वलमञ्जुलस्य सह तेन ।
वर्णनमितिवृत्तस्य स्मरजविकाराश्च वीक्षिते तस्मिन् ॥ ६६५ ॥
इदमुपवनमतिधन्यं निर्भरमालिङ्गितं सुरभिलक्ष्म्या ।
मत्स्कन्धार्पितपाणिर्बभ्राम स यत्र जीविताधीशः ॥ ६६६ ॥
सख्य इतो भ्रमरकुलत्रासितया प्रियतमो मया सहसा ।
वक्रीभवत्पयोधरमुपगूढो धीरसीत्कारम् ॥ ६६७ ॥
रणदिन्दिन्दिरवृन्दे कूजत्कलकण्ठरावरमणीये ।
अत्रातिमुक्तकगृहे मरुदीरणविधुतकुसुमसंछन्ने ॥ ६६८ ॥
मयि जाताधिकरागो बलवति मदने सहायसामग्र्या ।
कान्तः पल्लवशयने नो तृप्तिमगाद्विविक्तकार्येषु ॥ ६६९ ॥
प्रेङ्खोलनवितरणयुक्त्या विध्यन्पार्श्वयोर्नखैर्धूर्तः ।
चक्रे मां मदनमयीं व्रततिप्रेङ्खामिमां समारूढाम् ॥ ६७० ॥
स्पृहणीयो ऽयमशोकः स्पृष्टो यद्वल्लभेन हस्तेन ।
अस्मदवतंसकार्थं नूतनदलपल्लवान्विचारयता ॥ ६७१ ॥
अस्मिन्सहकारतले तस्योत्सङ्गे सलीलमासीना ।
अशृणवमहमिति वाचः पश्यन्ती विलसितानि तरुणानाम् ॥ ६७२ ॥
उत्थापय ंानरसे दयितं चरणाग्रनिपतितं तूर्णम् ।
अत्याकृष्टं त्रुट्यति सुदृढमपि प्रेमबन्धनं मूढे ॥ ६७३ ॥
तिष्ठन्नपि यातसमः किं तेन निवारितेन सखि पशुना ।
यामीति निष्प्रकम्पं विनिःसृता यस्य ंाधवे वाणी ॥ ६७४ ॥
आयुःसारं यौवनमृतुसारः कुसुमसायकवयस्यः ।
सुन्दरि जीवितसारो रतिभोगसुखामृतास्वादः ॥ ६७५ ॥
रम्यं कुसुमस्तबकं कुरु मे प्रिय कैङ्किरातमवतंसम् ।
तिष्ठतु वा किमनेन प्रत्यग्रमशोककिसलयं चारु ॥ ६७६ ॥
आस्तामास्तामेतत्प्रापय मां सिन्दुवारमभिरामम् ।
नहि नहि राजति सुतरां चूतद्रुममञ्जरी कर्णे ॥ ६७७ ॥
धिक्तारुण्यमकान्तं धिक्कान्तं यौवनेन रहितं च ।
धिक्तद्द्वयमपि ंन्मथसामर्थ्यविकासितं विना सुरतम् ॥ ६७८ ॥
जनितो ऽप्यपराधशतैर्वामे तस्मिंश्चिरप्ररूढो ऽपि ।
अवगतमधुना सख्यो न वसन्तमतीत्य वर्तते मानः ॥ ६७९ ॥
वर्षशतस्य स सारः काललवः प्रथममेलकस्थानम् ।
सचकितमागच्छन्ती सोत्कलिका यत्र दृश्यते रमणी ॥ ६८० ॥
किं निर्मितो ऽसि धात्रा नवो ऽपरः किमु वसन्तगुण एषः ।
कुसुमशरपूर्णतूणः किमुताभवदन्य एव Kअन्दर्पः ॥ ६८१ ॥
नो पश्यसि यदि ककुभः प्रचुरोज्ज्वलसुरभिकुसुमरमणीयाः ।
परभृतकूजितमिश्रान्न शृणोषि यदि द्विरेफझङ्कारान् ॥ ६८२ ॥
गन्धं यदि नो लभसे वासितदिग्व्योम सुमनसां हृद्यम् ।
अनुभवसि यदि स्पर्शं नो शीतलदाक्षिणात्यपवनस्य ॥ ६८३ ॥
रसनेन्द्रियैकशेषः परसंचार्यो जनेन परिभूतः ।
नार्हसि ततो ऽपि मुक्त्वा निजाश्रयं गन्तुमन्यतो नितराम् ॥ ६८४ ॥
अस्मिन्सरसि सलीलं करयन्त्रविनिर्यदम्बुधाराभिः ।
दयितेन ताडिताहं मयाप्यसावाहतो मृणालिकया ॥ ६८५ ॥
पुनरन्तर्जलमग्नो मामुपगम्याविभावितः सहसा ।
उच्चिक्षेप सहासं हासितसंनिहितपरिवारः ॥ ६८६ ॥
संसक्तार्द्रावरणं जघनं नः पश्यतस्तदा तस्य ।
प्रथमाकाङ्क्षाकूतं भेजे सम्भोगशृङ्गारः ॥ ६८७ ॥
कालप्रदेशवेशव्यापारस्थितिविशेषघटनाभिः ।
चिररूढो ऽपि हि यूनां नवत्वमुपनीयते रागः ॥ ६८८ ॥
सादरमर्पयतो ऽब्जं गोत्रस्खलनापराधिनस्तस्य ।
सख्यः स्मरामि सहसा विलक्षतां क्लिष्टहसितस्य ॥ ६८९ ॥
प्रत्यग्रनखव्रणिते स्तनान्तरे क्षिपति लोचने स्पृहया ।
प्रेयसि ह्रीताच्छादनमकरवमहमब्जिनीपत्रम् ॥ ६९० ॥
क्षिप्त्वातर्कितमम्भो गर्भितनलिनीपलाशपुटमारात् ।
आहतया यद्विकृतं स्वस्थधिया तन्न शक्यते कर्तुम् ॥ ६९१ ॥
सुश्लिष्टो हावविधिर्मदनालसगात्रजृम्भितं ललितम् ।
गूढस्थानप्रकटनमङ्गुलिविस्फोटनं स्मितं सुभगम् ॥ ६९२ ॥
नीविविमोचनबन्धौ मुहुर्मुहुः केशपाशविश्लेषः ।
स्वाधरदशनग्रहणं बालकपरिचुम्बनं रतोत्सुकता ॥ ६९३ ॥
साकाङ्क्षितं क्षिपन्त्यास्तरलायतलोचने मुहुः काम्ये ।
उद्दिश्य तद्वयस्यकमिति शोकग्रस्तवर्णगिरः ॥ ६९४ ॥
एकीभावं गतयोर्जलपयसोर्मित्रचेतसोश्च तथा ।
व्यतिरेककृतौ शक्तिर्हंसानां दुर्जनानां च ॥ ६९५ ॥
अतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शण्ठः ।
परमार्थतः स हृदयं वहति पुनः कालकूटघटितमिव ॥ ६९६ ॥
येन तदा मामूचे परिजनमुत्सार्य विवृतनटमन्युः ।
दर्शितहितस्वरूपः परपीडाकरणपण्डितः प्रखलः ॥ ६९७ ॥
अविदितगुणान्तराणां को दोषः प्रान्तदेशवासानाम् ।
स्वाधीनकुङ्कुमा अपि यद्विदधति बहुमतिं नीले ॥ ६९८ ॥
क्व महीतलरम्भा त्वं न्यक्कृतचन्द्रप्रभा स्वदेहरुचा ।
Cइत्रलता क्व वराकी नीचैरुपसेविता वोटा ॥ ६९९ ॥
यस्यार्थे न विगणिताः प्रह्वात्मानो महाधनाः कुलजाः ।
सो ऽद्य हृदयेन तस्यां त्वयि तिष्ठति बाह्यवृत्तेन ॥ ७०० ॥
तामेव समाचरणां सदसद्भावप्रवर्तितां निपुणैः ।
विन्दन्ति तत्र कुशलाः स्नेहविरूक्षप्रभेदेन ॥ ७०१ ॥
तव तु विरूढप्रेम्णस्तत्कर्मविवेचनं मनोवृत्तिः ।
नारुहतीति मयैवं निवेदितं पारिचित्येन ॥ ७०२ ॥
इति दुर्जनाहिनिःसृतवाग्विषदूषितसमस्तवपुषो मे ।
ईर्ष्यारुजः प्रवृद्धाश्चिररूढप्रणयखण्डनप्रभवाः ॥ ७०३ ॥
लघुहृदयतया यस्माद्दुर्भाषितवज्रपातविहतानाम् ।
वक्तृविशेषवितर्को न स्पृशति प्रायशो मनः स्त्रीणाम् ॥ ७०४ ॥
प्रियमपि वदन्दुरात्मा क्षिपति विपत्सागरे दुरुत्तरे ।
आसाद्य प्राणभृतो मृतये परिलेढि जिह्वया खड्गः ॥ ७०५ ॥
हितमधुराक्षरवाणीव्यवहारमनुप्रविश्य तल्लीनम् ।
सरला दुराशयानामुपघातं फलत एव विन्दन्ति ॥ ७०६ ॥
परसंतापविनोदो यत्राहनि न प्रयाति निष्पत्तिम् ।
अन्तर्मना असाधुर्न गणयति तदायुषो मध्ये ॥ ७०७ ॥
दिवसान्तानभिनन्दति बहु मनुते तेषु जन्मनो लाभम् ।
ये यान्ति दुष्टबुद्धेः परोपतापाभियोगेन ॥ ७०८ ॥
विकसितवदनः प्रखलः प्रोत्फुल्लविलोचनो यथा भ्रमति ।
मन्ये तथा न जातः सदहितकरणश्रमो वन्ध्यः ॥ ७०९ ॥
शठमृगयुः कुसृतिशरैरज्ञातप्रतिविधानसाधुमृगान् ।
अभ्यस्तलक्षवेधो निघ्नन्न परिश्रमं व्रजति ॥ ७१० ॥
अनुकूलवरपुरन्ध्रिषु पुरुषाणां बद्धमूलरागाणाम् ।
नयति मनो दुःशीलः कुसुमास्त्रो हीनपात्रेषु ॥ ७११ ॥
सावरणं व्रजतो ऽन्यां कौतुकदृष्ट्या प्रसङ्गतो दयितान् ।
बुद्ध्वापि विदग्धधियो वर्तन्ते नाट्यधर्मेण ॥ ७१२ ॥
सत्यं प्रेमणि वृद्धे व्यथयति हृदयं मनागपि स्खलितम् ।
अवधृतनिजमाहात्म्यास्तदपि न धीरा विमुह्यन्ति ॥ ७१३ ॥
स्वच्छन्दं पिबतु रसं भ्रान्त्वा भ्रान्त्वा वनानि कुसुमेषु ।
अनुभूतगुणविशेषः पुनरेष्यति मालतीं मधुपः ॥ ७१४ ॥
मालत्या गुणवत्तां सम्यग्नो वेत्ति मधुकरस्तावत् ।
अनुभवमेति न यावत्सुमनोन्तरसंगमास्वादे ॥ ७१५ ॥
कोमलमानकदर्थां भजमानो भजति दीप्ततामधिकाम् ।
संचाल्यमानदारुः पावक इव सुप्रभः स्नेहः ॥ ७१६ ॥
यः पुनरतिकोपानलसंतापवशेन दूरमाकृष्टः ।
काचमणिः स खलु यथा परिणामे खण्डखण्डमुपयाति ॥ ७१७ ॥
वेतनलोभाद्बहवः सेव्यन्ते सौष्ठवेन पञ्चजनाः ।
विश्राम्यति यत्र मनः स तु दुष्प्रापः सहस्रेषु ॥ ७१८ ॥
ंन्वादिमुनिवरैरपि कालत्रयवेदिभिः सुदुर्ज्ञेयम् ।
तत्सुकृतं यस्य फलं रभसागतवल्लभाश्लेषः ॥ ७१९ ॥
याते ऽपि नयनमार्गं प्रेयसि यस्याः स्मृतिर्व्यलीकेषु ।
मन्ये तां प्रति नियतं कुण्ठितशरपञ्चकः ंदनः ॥ ७२० ॥
जीव्यत एव कथं चिद्धिग्वृत्तिमिमां महद्भिरवगीताम् ।
विजहाति यन्न गणिका तद्वाञ्छितरमणलाभलोभेन ॥ ७२१ ॥
कण्टकिनः कटुकरसान्करीरखदिरादिविटपतरुगुल्मान् ।
उपभुञ्जाना करभी दैवादाप्नोति मधुरमधुजालम् ॥ ७२२ ॥
का श्रीरप्रणयिवशा का विलसितयो मनोभवविहीनाः ।
को धर्मो निरुपशमः किं सौख्यं वल्लभेन रहितानाम् ॥ ७२३ ॥
स्वाच्छन्द्यफलं बाल्यं तारुण्यं रुचितसुरतभोगफलम् ।
स्थविरत्वमुपशमफलं परहितसम्पादनं च जन्मफलम् ॥ ७२४ ॥
अभिदधतीमिदमालीमवकर्ण्य गृहीतयेव भूतेन ।
यौवनसुखेन सार्धं मयैव यूयं परिच्छिन्नाः ॥ ७२५ ॥
अधुनानुतापपावकमध्यगता पच्यमानसर्वाङ्गी ।
निष्फलजन्मप्राप्तिर्जीवाम्युच्छ्वासमात्रेण ॥ ७२६ ॥
स्थानेषु येषु युष्मत्संगतया क्रीडितं चिरं धृत्या ।
तानि खलु वीक्षमाणा भवामि कण्ठस्थितप्राणा ॥ ७२७ ॥
अन्यवशेन विसंज्ञा कृतभूषा यन्त्रसूत्रसंचारा ।
दारुमयीव प्रतिमा विदधामि विडम्बना बह्वीः ॥ ७२८ ॥
यदि नामोदरभरणप्राप्त्यै कुरुते ऽन्यपुष्पसंश्लेषम् ।
तदपि न पुष्टिर्भृङ्ग्या अपिबन्त्या आरविन्दमकरन्दम् ॥ ७२९ ॥
आस्तामपरो लोकः क्रीडापेक्षी परापदि प्रीतः ।
व्यसनार्णवे पतन्ती न वारिता परिजनेनास्मि ॥ ७३० ॥
किं वा बहुभिः कथितैः सम्प्रति नियमे तु नियमिता बुद्धिः ।
स्थास्यामि संनियुक्ता भवद्गृहे प्रेष्यकार्येषु ॥ ७३१ ॥
इति नेत्रादिविकारैर्वशमुपनीतं प्रलीनधैर्याङ्गम् ।
ंारग्रहाभिभूतं परिमृष्टप्राङ्निराकृतिस्मरणम् ॥ ७३२ ॥
प्रादुर्भूतरिरंसं क्षणे क्षणे जत्रुदेशगतदृष्टिम् ।
पक्वाम्रमिव विमोक्ष्यसि पूर्ववदाचूष्य सुभ्रु निःशेषम् ॥ ७३३ ॥
स्वशरीरामिषदिग्धं वक्रस्मितदृष्टिपातवाग्बडिशम् ।
प्रक्षिप्याकृश्य जडं स्फुरणेन विवर्जितं सुपरिपुष्टम् ॥ ७३४ ॥
हस्तद्वयान्तरागतमुपचारपरिव्ययेन संस्कृत्य ।
भुक्त्वा यावन्मांसं त्यक्ष्यसि चर्मास्थिशेषितं मत्स्यम् ॥ ७३५ ॥
शृणु सुश्रोणि यथास्मिन्कलशेश्वरपादमूलमञ्जर्या ।
प्रवराचार्यदुहित्रा राजसुतश्चर्वितश्च मुक्तश्च ॥ ७३६ ॥
आसीच्छ्रीसिंहभटो नाम्ना नृपतिर्महीयसां प्रष्ठः ।
तस्यात्मजो ऽधितस्थौ निवेशनं देवराष्ट्रसंबद्धम् ॥ ७३७ ॥
स कदा चिद्वृषभध्वजदिदृक्षया परिमिताप्तपरिवारः ।
अनुवर्तमान आगात्तारुण्योदीर्णवेशचरितानि ॥ ७३८ ॥
मूर्धत्रिभागसंस्थितबृहदम्बरचीरकेशसंयमनः ।
अल्पाच्छगात्ररागो घनकुङ्कुमलिप्तकर्णकेशाग्रः ॥ ७३९ ॥
सिद्धार्थबीजदन्तुरललाटतिलकोपयुक्तताम्बूलः ।
श्रवणनिवेशितकुण्डलटीटिभकप्रायकन्धराभरणः ॥ ७४० ॥
केयूरस्थानगतस्वर्णावृतमन्त्रगर्भजतुगुडकः ।
मणिबन्धनविन्यस्तप्रचलाङ्कुरजातरूपमणिमालः ॥ ७४१ ॥
धृतवेत्रदण्ड ऊर्णकपरिवेष्टितसासिधेनुकनितम्बः ।
मृदुतरपटिकावरणः शब्दोल्बणचुर्चुराङ्कचरणत्रः ॥ ७४२ ॥
ङम्भीरेश्वरदास्यां लग्नः किल तव वयस्यको वीरः ।
प्राप्स्यति सापि दुराशावर्षत्रितयेन यन्मया प्राप्तम् ॥ ७४३ ॥
दर्शयति दिशः फलिता अमृतगभस्तिं करे ऽवतारयति ।
षुरदेवि Cअन्द्रवर्मा निर्वस्तुकवाक्प्रपञ्चेन ॥ ७४४ ॥
त्वामनुयान्तं सम्प्रति पश्यामि Kउरङ्गि Vअसुषेणम् ।
सुनिरूपिता भविष्यसि विषमा गुडजिह्विका तस्य ॥ ७४५ ॥
चर्वयति जलं यो ऽसौ ःरिणि ःरो धूर्तताभिमानेन ।
लिखति शतं दशवृद्ध्या स निमग्नस्तरलिकावर्ते ॥ ७४६ ॥
गृह्णासि यत्पटान्ते मम पश्यत एव णन्द ंदिराख्याम् ।
अत आवयोरवश्यं मा वक्ष्यसि नोक्तमन्तरं भवति ॥ ७४७ ॥
यो ऽयं गृहीतबृसिकः Kउशकर्णो विधृतदण्डकाषायः ।
लोकस्पर्शाशङ्की कृतापसारो विलोकयन्पार्श्वौ ॥ ७४८ ॥
कुर्वाणो मौनव्रतमुत्पादितसकलवैष्णवश्रद्धः ।
ःरिशासनं प्रपन्नस्त्रिपुरान्तकदर्शनापदेशेन ॥ ७४९ ॥
स्त्रैणं पश्यति युक्त्या साकाङ्क्षं वर्जितान्यजनदृष्टिः ।
Kउमुदिनि मम हृदयगतं भवितव्यं व्याजलिङ्गिनानेन ॥ ७५० ॥
पश्यत्यदृश्यमानो निरीक्षितो वीक्षते परां ककुभम् ।
ब्रूते किं चित्सस्पृहमभियुक्तो भवति कीलितध्वानः ॥ ७५१ ॥
न जहाति समासन्नं नोत्सहते स्पर्शगोचरे स्थातुम् ।
एष मनुष्यो मन्ये निष्प्रतिभः साभिलाषश्च ॥ ७५२ ॥
ते ऽतीताः खलु दिवसाः क्रियते नर्म त्वया समं येषु ।
अधुनाचार्यानी त्वं भाशुद्धाचार्यसम्बन्धात् ॥ ७५३ ॥
भ्रमसि यथेष्टं तावत्कुर्वाणो युवतिपल्लवग्रहणम् ।
ऌओलिकदास न यावन्नरदेवीपाशिकां विशसि ॥ ७५४ ॥
एवंप्रकारवाक्यप्रसक्तविटचेटिकासमाकीर्णम् ।
सेवाचतुरपुरःसरविजनीकृतवर्त्म देवकुलम् ॥ ७५५ ॥
सम्पादितहरपूजो निष्ठुरयाष्टीकनियमिते लोके ।
त्वरितनियोगिस्थापितमासनमध्यास्त षमरभटः ॥ ७५६ ॥
अग्रोपविष्टनर्तकवांशिकगातृप्रकाशयुवतिगणः ।
श्रेष्ठिप्रमुखवणिग्जनढौकितताम्बूलकुसुमपटवासः ॥ ७५७ ॥
विविधविलेपनखरटितचक्रकधरखड्गधारिणाशून्यः ।
पृष्ठत आत्तकृपाणैः शिरोभिरक्षैश्च विश्वस्तैः ॥ ७५८ ॥
ताम्बूलकरङ्कभृता सन्दंशगृहीतवीटिकाग्रहणे ।
ईषत्स्पृष्टं कुर्वन्मन्दं खटकामुखेन वामेन ॥ ७५९ ॥
पार्श्वावस्थितनर्मप्रियसचिवन्यस्तपूर्वतनुभागः ।
पप्रच्छ कुशलवार्तां स वणिग्जननर्तकप्रभृतीन् ॥ ७६० ॥
अथ वैतालिक उच्चैरुपसंहृतलोककलकले धीरः ।
अभितुष्टाव तमित्थं प्रसन्नगम्बीरया वाचा ॥ ७६१ ॥
जय देव परबलान्तक गुरुचरणाराधनैककृतचित्त ।
परवनिताजघनासन दारिद्र्यतमःप्रचण्डकरजाल ॥ ७६२ ॥
रणधीरवंशभूषण गुरुवसुधादेवपूजनप्रह्व ।
शरणागताभयप्रद हितबान्धवबन्धुजीवमध्याह्न ॥ ७६३ ॥
ईदृक्प्रतापदहनो भावत्को व्याप्तगगनदिक्चक्रः ।
दृष्टो जलायमानो रिपुवनितातिलकशोभासु ॥ ७६४ ॥
एष विशेषः स्पष्टो वह्नेश्च त्वत्प्रतापवह्नेश्च ।
अङ्कुरति तेन दग्धं दग्धस्यानेन नोद्भवो भूयः ॥ ७६५ ॥
श्रीफलभुक्पत्रवृतो विग्रहरसिको विमुक्तसत्त्ररतिः ।
राज्यस्थितिं न मुञ्चति हृतलक्ष्मीको ऽपि तव विपक्षगणः ॥ ७६६ ॥
ददतो वाञ्छितमर्थं सदानुरक्तस्य तव गृहं त्यक्त्वा ।
स्त्रीचापलेन कीर्तिर्नग्नासक्ता गता ककुभः ॥ ७६७ ॥
भवतः भवतो धैर्यं तेन हि भिन्नो ऽन्धकः प्रणतः ।
मुक्तास्त्वया तु बहवो रिपवो ऽपि प्रेक्षकाः समरे ॥ ७६८ ॥
अटता जगतीमखिलामिदमाश्चर्यं मया दृष्टम् ।
धनदो ऽपि नयननन्दन परिहरसि यदुग्रसम्पर्कम् ॥ ७६९ ॥
इदमपरमद्भुततमं युवतिसहस्रैर्विलुप्यमानस्य ।
वृद्धिर्भवति न हानिर्यत्तव सौभाग्यकोशस्य ॥ ७७० ॥
अपरं विस्मयजननं धवलत्वं नापयाति यद्भवतः ।
ललनालोचनकुवलयदलत्विषा शबलितस्यापि ॥ ७७१ ॥
हृदयेषु कामिनीनामेको ऽनेकेषु वससि येन त्वम् ।
जनक कुसुमास्त्रपाणेः पुरुषोत्तम तेन विश्वरूपो ऽसि ॥ ७७२ ॥
किं वहसि वृथा गर्वं प्रियो ऽहमिति योषितां नराधीश ।
काङ्क्षन्ति स्म ंुरारिं षोडशगोपीसहस्राणि ॥ ७७३ ॥
ब्राह्मण्येन ययाचे मखसमये यः Bअलिं ःृषीकेशः ।
न स भवति समो भवता दानैकनिषण्णहृदयेन ॥ ७७४ ॥
भूमिभृतामुपरिस्थित उन्नत्या सकलजीवलोकस्य ।
तृष्णासंतापहरो मेघ इव कदा न दक्षस्त्वम् ॥ ७७५ ॥
बहुमार्गो भङ्गयुतः कुसृतिपरो गोत्रभेदकरणपटुः ।
ङङ्गाजलप्रवाहः पुण्यदिशा केवलं तव समानः ॥ ७७६ ॥
दुर्व्यवहारोत्पत्तिर्मौर्ख्यप्रसवो ऽविवेकितावसतिः ।
एकस्त्वं दोषज्ञः कृतीकृतो येन कलिकालः ॥ ७७७ ॥
सुगतो ऽपि नाजिविमुखो वृषध्वजो ऽपि न विषादितायुक्तः ।
उद्यतशस्त्रो ऽपि रिपौ कथमसि सन्नासिको जातः ॥ ७७८ ॥
सन्मणिरनेकभोगो गुरुभारसहः स्थिरात्मतास्थानम् ।
नरदेव चित्रमेतद्यदशेषगुणैस्त्वमाश्लिष्टः ॥ ७७९ ॥
प्रकृतिलघोर्येन कृता जघन्यवर्णस्य गौरवापत्तिः ।
जघनचपला तथार्या स ড়िङ्गलस्ते कथं तुल्यः ॥ ७८० ॥
यस्य न जातिर्नात्मा नार्थज्ञानं न मानसे प्रशमः ।
भवसि भवसार न त्वं तेनाद्वयवादिनासदृशः ॥ ७८१ ॥
तत्रापि वृद्धियोगस्तस्मिन्नपि पुरुषगुणगणख्यातिः ।
परिभाषा तत्रापि व्याकरणान्नातिरिच्यसे तेन ॥ ७८२ ॥
निर्व्याजस्तवनो ऽपि त्यक्ताक्षेपो ऽपि निरुपमानो ऽपि ।
सद्रूपकजातिगुणैर्नाथ त्वं गामलङ्कुरुषे ॥ ७८३ ॥
अन्यैव वर्णनैषा भवत्सु लोकोत्तरा स्थिता कापि ।
वामो यथैव शत्रुषु मित्रेषु तथैव वामो ऽसि ॥ ७८४ ॥
पूजयसि येन गुरुजनमभिनन्दसि येन साधुचरितानि ।
प्रीणयसि येन विप्रान्नृपनन्दन तेन वृषलस्त्वम् ॥ ७८५ ॥
दैन्यमिदं यच्छ्लाघा क्रियते तव रक्षसापि न समस्य ।
न स हठमकरोद्योषिति भवांस्तु भुङ्क्ते प्रसह्य रिपुलक्ष्मीम् ॥ ७८६ ॥
रामणिकाचाटुपदस्तवनं यल्लाभहेतुरस्माकम् ।
तत्पतति ते स्वरूपे यामि नमः सन्तु सौख्यानि ॥ ७८७ ॥
श्रुत्वानन्तरमवदद्बन्दिनमभिनन्द्य साधुवादेन ।
आस्स्व किमाकुलता ते यास्यसि तुष्टो मया प्रहितः ॥ ७८८ ॥
पुनरपि पठ तद्युगलं गीतिकयोर्यत्त्वया पुरा पठितम् ।
कक्षान्तरितेन मम स्थितस्य कुलपुत्रिकावासे ॥ ७८९ ॥
त्वयि वदति साधुवादं वागियमुन्मुद्रिता बुधसमाजे ।
अभिधायेति पपाठ त्रिस्थानविशुद्धनादेन ॥ ७९० ॥
एका खण्डनकुपिता विरसान्या प्रणयभङ्गवैलक्ष्यात् ।
का चिन्निकटतरासनमप्राप्य बिभर्ति हृदयनिर्वेदम् ॥ ७९१ ॥
अन्या कलहान्तरिता नवपरिणयलज्जयापरा विहता ।
रमणीगणमध्यगतः स्मरातुरः किं करोतु बहुजानिः ॥ ७९२ ॥
अभ्युपगमावबोधकमस्तकचलनं विधाय विकृतभ्रूः ।
नृत्ताचार्यमवादीदेतस्मिन्किं सुसंगीतम् ॥ ७९३ ॥
स उवाच ततो वणिजो नेतारो यत्र यत्र पात्राणि ।
शाठ्यायतनं दास्यस्तत्र कुतः सौष्ठवं नाट्ये ॥ ७९४ ॥
का चिद्बलिनाक्रान्ता का चिन्न जहाति कामिनं रुचिरम् ।
अन्या पानकगोष्ठ्यां नयति दिनं प्रीतकैः सार्धम् ॥ ७९५ ॥
नोत्सृजति सततमेका पुरुषागमनाशया गृहद्वारम् ।
शूलापालः कथयति लब्धोत्कोचो रजस्वलामपराम् ॥ ७९६ ॥
रङ्गगतापि क्षुद्रा शृणोति यदि परिचितं गृहायातम् ।
उद्दिश्य वारिकार्यं व्रजति ततः प्रकृतमुत्सृज्य ॥ ७९७ ॥
आ तारुण्योद्भेदात्कान्ते दृष्टिर्ययाभ्यस्ता ।
सामाजिकमध्यस्था सा कथमन्यासु याति परभागम् ॥ ७९८ ॥
चेतोवशिता सत्त्वं सत्त्वे सति चारुता प्रयोगस्य ।
न भवति सा वेश्यानां मद्यामिषपुरुषनिहितहृदयानाम् ॥ ७९९ ॥
वयमपि देवनिकेतनमनङ्गहर्षे गते त्रिदशलोकम् ।
आश्रितवन्तो ऽगत्या तीर्थस्थानोपरोधेन ॥ ८०० ॥
इह तु कदा चित्किं चिद्वृत्तिनिरोधाभिशङ्कया निरुत्साहाः ।
ऋअत्नावल्यामेता विदधति करपादविक्षेपम् ॥ ८०१ ॥
Vअत्सेशभूमिकास्या इयमनुकुरुते नरेश्वरवयस्यम् ।
Vआसवदत्ताचरितप्रयोगमेषा विडम्बयति ॥ ८०२ ॥
उद्यमसाहित्यवशाच्छोभातिशयेन मदनुबन्धेन ।
अनया प्रसिद्धिराप्ता षिंहलराजात्मजानुकृतौ ॥ ८०३ ॥
विविधस्थानकरचनां परिक्रमं गात्रवलनलालित्यम् ।
काकुविभक्तार्थगिरो रसपुष्टिं वासनास्थैर्यम् ॥ ८०४ ॥
सात्त्विकभावोन्मीलनमभिनयमनुरूपवर्तनाभरणम् ।
मिश्रामिश्रे वाद्ये लयाच्युतिं वर्णयन्ति ंञ्जर्याः ॥ ८०५ ॥
एषाभिधानकीर्तननाशितसशरीरकुसुमशरबोधा ।
सहसोद्भिन्नमनोभवभावदृशा सिन्दुवारविवरेण ॥ ८०६ ॥
पश्यन्ती Vअत्सेश्वरमनुकार्यानुकरणभेदपरिमोषम् ।
साधुध्वनिमुखराननसामाजिकजनमनःसु विदधाति ॥ ८०७ ॥
Vअत्सपतिमालिखन्ती कामावस्थां क्रमेण भजमाना ।
वेपथुपुलकस्वेदैरावहति विसंष्ठुलं हस्तम् ॥ ८०८ ॥
सदृशे ऽप्यनुभावगणे करुणरसं विप्रलम्भतो भिन्नम् ।
दर्शयति निरभिकाङ्क्षितमुद्बन्धनगोचरापन्ना ॥ ८०९ ॥
तस्मिन्निर्दिशतीत्थं मञ्जरिकां साभिलाषमवलोक्य ।
पस्पर्श राजपुत्रः किमसाविति वेत्रदण्डेन ॥ ८१० ॥
बुद्ध्वाथ तस्य भावं प्रसारयन्युवतिसंकथाकेलिम् ।
न्यक्कुर्वन्वारवधूः सचिवः प्रशशंस बन्धकीगमनम् ॥ ८११ ॥
दाररतिः संततये व्याधिप्रशमाय चेटिकाश्लेषः ।
तत्खलु सुरतं सुरतं कृच्छ्रप्राप्यं यदन्यनारीषु ॥ ८१२ ॥
स्वव्यापारैकमतेः परचिन्ता नास्ति मे कदा चिदपि ।
पश्यन्त्यास्त्वामीदृशमद्य तु मे मानसं व्यथितम् ॥ ८१३ ॥
यदि वेद्मि तस्य वसतिं सामर्थ्यं यदि भवेत्ततो ऽभ्यधिकम् ।
तद्गत्वा दग्धविधिं लगुडैः संचूर्णयिष्यामि ॥ ८१४ ॥
वपुरिदमनुपममीदृग्यदि विहितं तव कृशाङ्गि हतधात्रा ।
अनुरूपरमणविरहात्किमिति कृतं वन्ध्यजन्मफलम् ॥ ८१५ ॥
शैशवमस्तु जरा वा व्याधिर्वा क्षेत्रियः प्रणाशो वा ।
स्वाकारं तारुण्यं न तु कुपतिकदर्थनाग्रस्तम् ॥ ८१६ ॥
केलिः प्रदहति मज्जां शृङ्गारो ऽस्थीनि चाटवः कटुकाः ।
न करोति मनस्तुष्टिं दानमभव्यस्य गृहभर्तुः ॥ ८१७ ॥
कुत आगतासि कस्मिन्वेलामियतीं स्थिता किमर्थमिति ।
पृच्छन्नस्वस्थमना जनयति गेही शिरःशूलम् ॥ ८१८ ॥
यदि भवति दैवयोगाच्चक्षुर्विषये समुज्ज्वलस्तरुणः ।
तत्रात्मानं क्षपयति जायां च रटन्गृहस्वामी ॥ ८१९ ॥
सविवादे परलोके जनापवादे ऽपि जगति बहुचित्रे ।
दैवाधीने प्रलये न विदग्धा हारयन्ति तारुण्यम् ॥ ८२० ॥
दुर्भर्तृकरास्फालनमलिनीक्रियमाणशोभमनुदिवसम् ।
तुङ्गमपि पतितकल्पं स्तनशालिनि तव पयोधरद्वन्द्वम् ॥ ८२१ ॥
पर्यङ्कः स्वास्तरणः पतिरनुकूलो मनोहरं सदनम् ।
तुलयन्ति न लक्षांशं त्वरितक्षणचौर्यसुरतस्य ॥ ८२२ ॥
सहसा संकटवर्त्मन्यवितर्कितसम्मुखागतेन विशा ।
अभिलषितेनोद्घृष्टकमनल्पशुभकर्मणा लभ्यम् ॥ ८२३ ॥
प्रीतिः किल निरतिशया स्वर्गः परलोकचिन्तकैर्गदितः ।
तस्यास्तु जन्मलाभो हृदयेप्सितपुरुषसंभोगात् ॥ ८२४ ॥
अतटस्थस्वादुफलग्रहणव्यवसायनिश्चयो येषाम् ।
ते शोकक्लेशरुजां केवलमुपयान्ति पात्रतां मन्दाः ॥ ८२५ ॥
किं प्रतिकूला ग्रहगतिरुत परिणतमन्यजन्मदुश्चरितम् ।
स्वानुष्ठानाभ्यसनं किं वा तस्यात्मयोनिहतकस्य ॥ ८२६ ॥
येन तपस्वी स युवा स्तौति समीरं त्वदङ्गसंस्पृष्टम् ।
त्वत्पादाक्रान्तभुवे स्पृहयति ककुभं त्वदाश्रितां नमति ॥ ८२७ ॥
ध्यायति युष्मद्रूपं त्वन्नामकवर्णमालिकां जपति ।
एकाग्रीकृतचेतास्त्वत्संगतसौख्यसिद्धिमभिकाङ्क्षन् ॥ ८२८ ॥
उत्सृष्टसकलकार्यस्तिर्यग्ग्रीवं विलोकयन्भवतीम् ।
कुरुते गृहाग्ररथ्यां यातायातैः शतावर्ताम् ॥ ८२९ ॥
दृष्टो ऽसि तया सुचिरं गेहाभ्याशे परिभ्रमन्स्पृहया ।
संदेश एष दत्तः प्राभृतमेतत्तव प्रहितम् ॥ ८३० ॥
शुष्यति सालभमाना भवत्कृते वेश्मनिर्गमावसरम् ।
इति चतुरशठस्त्रीभिर्विलुप्यते त्वदपदेशेन ॥ ८३१ ॥
किं वा कथितैरधिकैरस्थानाविष्टचेतसस्तस्य ।
अनुतिष्ठ यथायुक्तं त्वत्तो नाशश्च जीवरक्षा च ॥ ८३२ ॥
कुलपतनं जनगर्हां नरकगतिं प्राणितव्यसंदेहम् ।
अङ्गीकरोति तत्क्षणमबला परपुरुषमभियान्ती ॥ ८३३ ॥
स तु लिखति दासपत्रं त्यजति कुटुम्बं ददाति सर्वस्वम् ।
यावन्न भवति पुरतः परयुवतिः प्रोज्झितावरणा ॥ ८३४ ॥
दृष्टं यद्द्रष्टव्यं व्यपयातं कौतुकं विदितमन्तः ।
इति याति मनसि कृत्वा विहितविधेयस्ततस्तूर्णम् ॥ ८३५ ॥
सापि च्छिन्ना च्छोटनगृहीतमुक्ता विलोकयन्त्याशाः ।
विशति गृहं संत्रस्ता सर्वत आशङ्किता सवैलक्ष्या ॥ ८३६ ॥
नवचारित्रभ्रंशात्सुरचितकुलटोत्तरेषु नो निपुणा ।
पृष्टा क्व गतासि त्वं न क्व चिदिति सम्भ्रमाद्ब्रूते ॥ ८३७ ॥
एते दोषा बहवः पुरुषा अपि चपलकौतुकाः प्रायः ।
त्वं च ग्रहेण लग्ना कार्यविमूढात्र तिष्ठामि ॥ ८३८ ॥
इति दोलागतहृदया स्थिरीकृताभ्यस्तकर्मणा दूत्या ।
दृष्टेति शङ्कमाना पदे पदे चलति पर्णे ऽपि ॥ ८३९ ॥
सर्वत्र विक्षिपन्ती मुहुर्मुहुश्चकिततरलिते नेत्रे ।
प्राप्ता संकेतभुवं शतगुणितमनोरथाकृष्टा ॥ ८४० ॥
भयशृङ्गारव्रीडामिश्रीभूतानुभावसन्दोहम् ।
जनयन्ती लोलांशुकदृष्टादृष्टांसकुचनाभिः ॥ ८४१ ॥
नीवीश्लथनारम्भं निरुन्धती न न न यामि यामीति ।
निभृतास्फुटाभिधानैः पल्लवयन्ती स्मरस्य कर्तव्यम् ॥ ८४२ ॥
नयतीवान्तर्विलयं ग्रसमाना सर्वगात्राणि ।
यं श्लिष्यते ऽन्ययोषा तिक्तं तस्यामृतं पुरतः ॥ ८४३ ॥
न कृतं तव रहसि पुरो बाष्पावृतकण्ठकुण्ठया वाचा ।
गेहस्वामितिरस्कृतिनिष्पादितदुःखवेगनिर्वहणम् ॥ ८४४ ॥
उपधानीकृत्य भुजावन्योन्यं निर्विशङ्कमावाभ्याम् ।
संवलितोरु न सुप्तं शिथिलाङ्गं रतिविमर्दखिन्नाभ्याम् ॥ ८४५ ॥
आत्मगृहादानीतं प्रच्छाद्य स्वादु भोजनं विजने ।
स्वकरेण मया दत्तं निर्वृतहृदयेन नाशितं भवता ॥ ८४६ ॥
न कृता चरित्ररक्षा न च भुक्तं त्वच्छरीरमपयन्त्रम् ।
दृष्टादृष्टभ्रष्टा क्व यामि किं वा करोमि दुर्जाता ॥ ८४७ ॥
अवगुण्ठनविनयरतिं स्वैरालपनं सुमन्दसंचारम् ।
सम्प्रति मम पापायाः करपिहितमुखा हसन्ति भूमिज्ञाः ॥ ८४८ ॥
यासामासीत्सख्यं मया समं समवयःकुलस्त्रीणाम् ।
ता वारयन्ति मत्तः कुसङ्ग इति तन्नियन्तारः ॥ ८४९ ॥
धिग्वादान्परिजनतः सहमाना मन्युरोधनतवदना ।
तिष्ठामि निरभिमाना स्वविनिर्मितदोषदौर्बल्यात् ॥ ८५० ॥
सद्भिर्विधीयमानं प्रसङ्गपतितं पतिव्रतास्तवनम् ।
हृदयेन दूयमाना मूढा सीदामि शृण्वन्ती ॥ ८५१ ॥
आसन्न उपविशन्तीं मन्दाक्षान्मां निषेद्धुमसमर्थाः ।
अन्योन्यमीक्षमाणा ज्ञातिजनाः संकुचन्ति भुञ्जानाः ॥ ८५२ ॥
प्रकटीकृता त्वयैव क्षणमात्रममुञ्चता गृहोपान्तम् ।
अस्मासु दृशं मग्नां प्रेमस्निग्धामनुद्धरता ॥ ८५३ ॥
परगृहविनाशपिशुनाः सुभगंमन्याभिरूप्यकृतदर्पाः ।
कृकलासतुल्यरागा भवन्ति युष्मद्विधा एव ॥ ८५४ ॥
अनभीष्टव्यवहारप्रभवशुचा पीडिताक्षरा इत्थम् ।
सोपालम्भा विजने धन्याः शृण्वन्ति बन्धकीवाचः ॥ ८५५ ॥
परतरुणीसद्भावस्नेहार्पितनयनभागदृष्टस्य ।
वेश्यारचितविलासाः कथिताः पुरतः पुराणतृणतुल्याः ॥ ८५६ ॥
उपनमति रतिमहोत्सव आराधितदेवताविशेषाणाम् ।
वचनमपि प्रेमार्द्रं स्वैरिण्याः श्रवणमेति पुण्यवताम् ॥ ८५७ ॥
का गणना विषयरते पुंसि वराके पराङ्गना स्पृहया ।
व्याजेन वीक्षमाणा ध्यानधियां स्पृशति मज्जानम् ॥ ८५८ ॥
शिरसा रचिताञ्जलयो दधति निदेशं त्रिविष्टपे गणिकाः ।
परदाररसाकृष्टस्तथापि भेजे शचीपतिरहल्याम् ॥ ८५९ ॥
अप्सरसः किं न वशा वैदग्ध्यवतां च किं न धौरेयः ।
येन चकारासक्तिं गोविन्दो गोपदारेषु ॥ ८६० ॥
त्रैलोक्यगता वेश्याः स्वाधीना यातुधाननाथस्य ।
तदपि जहार कलत्रं दशरथतनयस्य ऋआमस्य ॥ ८६१ ॥
अथ ंञ्जर्या जननी निजपक्षसमर्थने कृतोत्साहा ।
आक्षेप्तुमाचचक्षे नृपसुतसचिवाश्रितं वाक्यम् ॥ ८६२ ॥
घटयुवतिषु प्रगल्भो नागरिकादर्शनेन हृतपुंस्त्वः ।
ग्रामोषितो ऽविदग्धो निन्दति गणिकां भवद्विधो ऽवश्यम् ॥ ८६३ ॥
नार्द्रयति मनः पुंसामवगाहितमीनकेतुशास्त्राणाम् ।
नखदशनक्षतिहीनं जीवत्पतिबन्धकीसुरतम् ॥ ८६४ ॥
स्थापय घटकं तावत्कुरु भूमितले तृणैः समास्तरणम् ।
सुरतोपक्रम ईदृक्प्रायो ग्रामीणतरुणमिथुनानाम् ॥ ८६५ ॥
बहलोशीरविलिप्तस्थितजूटककाणमल्लिकामाल्यः ।
पामरनार्या दृष्टः स्मरो ऽहमिति मन्यते विटो ग्राम्यः ॥ ८६६ ॥
गृहकर्मकृतायासप्रस्विन्नां सलिलकार्यनिर्याताम् ।
उपपतिरुपैति हर्षं निशागमे पामरीं प्राप्य ॥ ८६७ ॥
कूपावतारितघटाया नार्याः काष्ठनिहितचरणायाः ।
वलितग्रीवं वीक्षितमुन्नमयति मानसं यूनः ॥ ८६८ ॥
लग्नो ऽसि यत्र गात्रे कथमपि दैवेन देवयात्रायाम् ।
अद्यापि तन्न मुञ्चति पुलकोद्गमकण्टकं तस्याः ॥ ८६९ ॥
उच्चेतुं कर्पासं प्रविष्टया गहनवाटिकां शून्याम् ।
खङ्कारितेन संज्ञा कृता तया त्वं तु वेत्सि नो मूर्खः ॥ ८७० ॥
आलिङ्गितमुसलायास्त्वय्येव निविष्टचक्षुषस्तस्याः ।
आवृत्त्या भ्रमति पुरो जातः खलु शालिखण्डने विघ्नः ॥ ८७१ ॥
त्वां विल्वकं क्षिपन्तं पार्श्वस्थैः स्तूयमानसामर्थ्यम् ।
गृहकर्तव्यं त्यक्त्वा सापश्यद्द्वाररन्ध्रेण ॥ ८७२ ॥
त्वयि मार्गनिकटवर्तिन्यविवेचितखेदया तया सुभग ।
प्रत्यासन्नगृहेष्वपि कृतः प्रसह्य स्मरातुरो लोकः ॥ ८७३ ॥
इति चतुरदूतिकोदितवर्धितसौभाग्यगर्वपूर्णस्य ।
ऊर्मिसहस्रोल्ललितं भवति मनो ग्रामषिङ्गस्य ॥ ८७४ ॥
विनिवार्य तं प्रवर्तितवाक्यविकासं नतोत्तमाङ्गेन ।
श्रीसिंहभटस्य सुतं समुवाच वचो ऽथ नर्तकाचार्यः ॥ ८७५ ॥
नायकभूमौ Bहरतः कुशीलवाः Kओहलादयो मुनयः ।
अप्सरसः स्त्रीनाट्ये गान्धर्वः Kअमलजन्मनस्तनयः ॥ ८७६ ॥
सुषिरस्वरप्रयोगप्रतिपादनपण्डितः ंतङ्गमुनिः ।
यदि रञ्जयन्ति हृदयं भवतो भूमिस्पृशां कुतः शक्तिः ॥ ८७७ ॥
अभ्यधिकं धृष्टत्वं प्रायेण हि शिल्पजीविनां भवति ।
आश्रितनर्तकवृत्तेर्विशेषतो विजितरङ्गस्य ॥ ८७८ ॥
विज्ञापयाम्यतस्त्वां निर्मितनाट्ये प्रजासृजा सदृशम् ।
अवलोकयाङ्कमेकं मा भवतु मम श्रमो वन्ध्यः ॥ ८७९ ॥
इति कथयन्नरभर्तुः पुत्रेण स चोदितो भ्रुवोन्नतया ।
रचिते सकलातोद्ये नियोजयामास सूत्रधृतम् ॥ ८८० ॥
वांशिकदत्तस्थानक उद्ग्राहितभिन्नपञ्चमे सम्यक् ।
प्रावेशिक्या ध्रुवया द्विपदीग्रहणान्तरे ऽविशत्सूत्री ॥ ८८१ ॥
उत्साहभावयुक्तः सामाजिकहृदयरञ्जनं कुर्वन् ।
कविनैपुणवत्सेश्वरचरितस्वविधेयदाक्ष्यसामग्र्या ॥ ८८२ ॥
अष्टकलापरिमाणां ध्रुवां परिक्रम्य ताललययुक्ताम् ।
आहूय नटीं कृत्वा तया समं स्वगृहकार्यसंलापम् ॥ ८८३ ॥
सूचितपात्रागमनः किं चिद्दत्त्वा पदानि ललितानि ।
निश्चक्राम गृहिण्या सार्धं निःसरणगीतेन ॥ ८८४ ॥
आश्रित्य कथोद्घातं प्रविवेश ततः सविस्मयो ऽमात्यः ।
दुर्घटसंघटनेन क्षितिनाथस्योदयेन मुदितश्च ॥ ८८५ ॥
प्रासादमारुहन्तं कुसुमायुधपर्वचर्चरीं द्रष्टुम् ।
निर्दिश्य Vअत्सनाथं समनन्तरकार्यसिद्धये निरगात् ॥ ८८६ ॥
अथ विशति स्म नरेन्द्रः प्रासादगतः समं वयस्येन ।
अवलोकयन्प्रमोदं प्रमुदितचेताः स्वसौख्यसम्पत्त्या ॥ ८८७ ॥
विस्मयभावाकृष्टः प्रोत्फुल्लविलोचने ततो विसृजन् ।
नृत्यति पौरजनौघे प्रोवाच वयस्य पश्य पश्येति ॥ ८८८ ॥
तुल्यशिशुतरुणवृद्धं समगुप्तागुप्तयुवतिपरिचेष्टम् ।
अगणितवाच्यावाच्यं क्रीडति जनता प्रवृद्धहर्षरसा ॥ ८८९ ॥
पिष्टातकपिञ्जरितं रचितोल्बणविविधकुसुमनिर्यूहम् ।
गात्रायाससमुत्थितबहुनिःश्वासप्रकीर्णपदगीतम् ॥ ८९० ॥
तूर्यरवव्यामिश्रितकरतालैरुद्भुजं प्रनृत्यन्तम् ।
मुहुरपि जातस्खलनं संदर्शितदार्ढ्यसौष्ठवं स्थविरम् ॥ ८९१ ॥
अस्तु वसन्तः सततं स्वाधीनाभीष्टजनसमाश्लेषः ।
इति गायन्ती रभसादालिङ्गति मदवशात्तरुणी ॥ ८९२ ॥
क्रीडन्त्याशयरहितं शृङ्गकसलिलेन ताडितस्तरुणः ।
सीमन्तिन्या गणयति दुष्टात्मा सुभगमात्मानम् ॥ ८९३ ॥
भग्ने लज्जासेतौ पर्वावसरेण कुलवधूवदनात् ।
अश्लीलोक्तिजलौघे निर्याते केन वार्यते प्रसरः ॥ ८९४ ॥
तुल्यव्यापारगिरां ललनानां देवनप्रसक्तानाम् ।
आर्यानार्यावगमं वदनावृतिजालिका कुरुते ॥ ८९५ ॥
अथ सहचरनिर्दिष्टे मदस्खलच्चरणविघटिताभिनयम् ।
Vआसवदत्ताप्रहिते नृत्यन्त्यौ विविशतुश्चेट्यौ ॥ ८९६ ॥
दर्शितसरोजवर्तनमात्राभिनये शरे ऽभिनेतव्ये ।
विदधाने वीरदृशावायुधमात्रं समाश्रित्य ॥ ८९७ ॥
तद्वलितनयनवृत्तिः कौतुकहृतमानसो नराधिपतिः ।
निजगाद निर्भरमहो क्रीडितमनयोर्विलासिन्योः ॥ ८९८ ॥
करपीडनोपमर्दव्यतिकरसमये कदर्थ्यमानो ऽपि ।
स्तनमण्डले स्थितो ऽहं त्वं पुनराकृष्य कुत्र चित्क्षिप्तः ॥ ८९९ ॥
अधुनान्तरयसि मामिति कोपादिव वारवाणमभिरामम् ।
बहुचित्रपदन्यासैर्वल्गन्त्या हन्ति हार उच्छलितः ॥ ९०० ॥
चूतलता धम्मिल्लस्थानच्युतशेखरं दधौ श्लाघ्यम् ।
अधृत पतन्निर्यूहां न त्वेषा मदनिका वेणीम् ॥ ९०१ ॥
स्तनभारावनतस्य प्रतनोर्मध्यस्य नास्ति ते ऽपेक्षा ।
इत्थमिव पादलग्नौ क्रीडन्त्या नूपुरौ रसतः ॥ ९०२ ॥
वहति स्म यं नितम्बं कथमपि कृच्छ्रेण मन्दसंचारा ।
कलयति तं तूललघुं जयति मनोजन्मनो महिमा ॥ ९०३ ॥
ऊदयनसमनुज्ञातो नर्नर्ति Vअसन्तको ऽपि मुदितात्मा ।
हास्यत्रपाभिरामं चर्चरितालेन तन्मध्ये ॥ ९०४ ॥
धीरोद्धतललितपदैः क्रीडित्वा ते चिराय नरनाथम् ।
प्रद्योतस्य सुतायाः संदेशकमूचतुः समुपगम्य ॥ ९०५ ॥
आदिशति देव देवीत्यर्धोक्ते ते सलज्जमन्योन्यम् ।
अवलोक्य मुखं न हि न हि विज्ञापयति प्रणम्य विनयेन ॥ ९०६ ॥
मकरध्वजस्य पूजां त्वत्पादसरोजसंनिधौ कर्तुम् ।
पृथिवीमण्डलमण्डन समीहते मे मनोवृत्तिः ॥ ९०७ ॥
प्रियरतिभोगो मदनो दयितवसन्तो जनस्य मनसि वसन् ।
भावेन भवान्पूज्यो लोकस्थित्या तु कुसुमशरपाणिः ॥ ९०८ ॥
इति दत्त्वा संदेशं प्रकृतिवयःकालसमुचितं भ्रान्त्वा ।
ते मदमदनाविष्टे बभूवतुर्जवनिकान्तरिते ॥ ९०९ ॥
अपनीततिरस्करिणी ततो ऽभवन्नृपसुता समं चेट्या ।
अविदितरत्नावल्या पूजोचितवस्तुहस्तयानुगता ॥ ९१० ॥
अथ दृष्ट्वा सागरिकां प्रमादितां परिजनस्य निन्दित्वा ।
Kआञ्चनमालामवदन्नृपमहिषी जातसंक्षोभा ॥ ९११ ॥
प्रेषय कन्यामेनामवरोधं त्वं गृहाण कुसुमादि ।
यावन्न भवति विषये वीक्षणयोर्भूमिनाथस्य ॥ ९१२ ॥
उपगम्य ततश्चेटी तामवदत्त्वं किमर्थमायाता ।
मेधाविनीं विमुच्य व्रज तस्मिन्मा विलम्बस्व ॥ ९१३ ॥
विहिते देव्यादेशे मनसीदं सन्निधाय सा तस्थौ ।
विहगी षुसङ्गताया हस्ते निहिता मनोभवसपर्याम् ॥ ९१४ ॥
अवलोकयामि तावत्तिरोहिता सिन्दुवारविटपेन ।
तातान्तःपुरिकाभिर्यथार्च्यते किं तथेह नो वेति ॥ ९१५ ॥
पिण्डीकृतमिव रागं हृच्छयमिव लब्धविग्रहोत्कर्षम् ।
समुपेत्य Vअत्सराजं जगाद सा जयतु देव इति ॥ ९१६ ॥
परिभुक्तमपि नवत्वं शृङ्गारं ंदनपर्वणा नीतम् ।
भजमानो भजमानां स्वागतवचसाभिनन्द्य तामूचे ॥ ९१७ ॥
शर्वविलोचनपावकदाहाभ्यधिकां ंनोभवो मन्ये ।
प्राप्स्यति तव करसङ्गतिसुखविरहसमुत्थितां पीडाम् ॥ ९१८ ॥
अथ ंन्मथमभ्यर्च्य क्षितिनाथं तदनु समधिकं तस्याम् ।
परमां मुदं वहन्त्यां विग्रहवन्मदनमनसि कन्यायाम् ॥ ९१९ ॥
शृङ्गाररससमुद्रं सोत्कलिकं निपतिते तथा नृपतौ ।
तारमधुरस्फुटार्थं नग्नाचार्यः पपाठ नेपथ्ये ॥ ९२० ॥
नयनानन्दमखण्डितमण्डलमभिरामममृतरश्मिमिव ।
सायन्तन आस्थाने क्षितिपतयस्तस्थुरुदयनं द्रष्टुम् ॥ ९२१ ॥
उच्चारिते ऽथ नाम्नि त्रिदशमतौ तत्क्षणं व्यपेतायाम् ।
उत्पन्नविस्मयरतिर्निदधे नरभर्तुरात्मजा हृदये ॥ ९२२ ॥
अयमुदयनः स राजा तातः सत्कृत्य मां ददौ यस्मै ।
हन्त परप्रेषणमपि न निष्फलं साम्प्रतं जातम् ॥ ९२३ ॥
यावन्न वेत्ति कश्चित्तावदितस्त्वरितमेव निर्यामि ।
इति कथमपि नायकतः कृष्ट्वा दृशमुत्ससर्ज रङ्गभुवम् ॥ ९२४ ॥
कन्दर्पमहमहोत्सवहृतहृदयैर्नावधारितो ऽस्माभिः ।
संध्यातिक्रमकालः पश्य त्वं प्रियवयस्यक तथा हि ॥ ९२५ ॥
उदयतटान्तरितमियं प्राची सूचयति दिङ्निशानाथम् ।
परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी ॥ ९२६ ॥
देवि त्वन्मुखपद्मः पद्मान्विदधाति पश्य विच्छायान् ।
अलयो ऽपि लज्जिता इव शनैः शनैस्तदुदरेषु लीयन्ते ॥ ९२७ ॥
एवमभिधाय चित्रैश्चरणन्यासैः परिक्रमं कृत्वा ।
नैष्क्रामिक्या ध्रुवया विनिर्ययौ नायको ऽपि सह सर्वैः ॥ ९२८ ॥
अङ्के जातसमाप्तौ गीतातोद्यध्वनौ च विश्रान्ते ।
प्रेक्षणकगुणग्रहणं नृपसूनुः प्रववृते कर्तुम् ॥ ९२९ ॥
नाट्यप्रयोगतत्त्वं मतयो न विशन्ति मादृशां प्रायः ।
वाहनयजनपदातिग्रामादिककार्यदत्तहृदयानाम् ॥ ९३० ॥
आस्ते लिखितो ग्रामो गृहाण तं सत्प्रदेशबहुभूमिम् ।
वासय तत्रावासं भवसि ततः ठक्कुरो दिवसैः ॥ ९३१ ॥
कृतजीवनसंस्थो ऽपि त्वमपि किमर्थं करोषि विज्ञप्तिम् ।
अर्पय वा यदि नेच्छसि कुरु स्थितिं हस्तदानेन ॥ ९३२ ॥
न च पत्तयो न सप्तिर्न च पोष्यजनस्तथाप्यसंतुष्टः ।
लभमानो ऽपि स दायं चिरन्तनत्वाभिमानेन ॥ ९३३ ॥
विज्ञप्तिकोन्मुखत्वं दूरत एवावधारितं भवतः ।
तूष्णीं क्रियतामस्माच्छ्रोष्यसि कार्यं प्रतीहारात् ॥ ९३४ ॥
यूयं कुटुम्बमध्ये क्व गम्यते गोत्रपुत्रसामान्यम् ।
आदाय संविभागं स्वगृह इव स्थीयतां यथासौख्यम् ॥ ९३५ ॥
अभ्यन्तरव्ययार्थं न विलब्धो यो मया महोद्रङ्गः ।
तत्रापि ते ऽनुबन्धो नो जाने किं करोमीति ॥ ९३६ ॥
प्रथमतरमेव कल्पितमनल्पफलजीवनं प्रदेशस्थम् ।
अद्यापि ते न जातं नियोगिनां पश्य मन्थरताम् ॥ ९३७ ॥
एवंप्रायैरनुदिनलाभोदयमोहकारिभिर्वचनैः ।
फलशून्यैरनुजीवी प्रतारितः कः कियत्कालम् ॥ ९३८ ॥
एतद्विषये नैपुणमत्र तु भूमिज्ञतां समाश्रित्य ।
मुखरतया कथयामो जडमतिसामाजिकोचितं किं चित् ॥ ९३९ ॥
सप्ताश्रयः षडात्मा शारीरस्त्रिप्रमाणपरिमाणः ।
सत्त्वाधिक्याज्ज्येष्ठो व्यस्तसमस्तैस्त्रिभिर्विनिष्पाद्यः ॥ ९४० ॥
सुकुमाराविद्धक्रिय उपरञ्जकरञ्जितो विविधवृत्तिः ।
आदेयहेयमध्यैर्भावैः संपादितः प्रयोगो ऽयम् ॥ ९४१ ॥
गम्भीरमधुरशब्दं परिरक्षितगीतविविधभङ्गयुतम् ।
दर्शयतो वैचित्र्यं न भ्रष्टो वादकस्य लयकालः ॥ ९४२ ॥
अपरित्यक्तस्थानकरसकाकुव्यञ्जितस्फुटार्थपदम् ।
अभिरामाविश्रान्तं पठितं निरवद्यमखिलभाषासु ॥ ९४३ ॥
नियमितदीपनगमनं द्रुतमध्यविलम्बितालसंयुक्तम् ।
रसवत्स्वरोपपन्नं कृतसाम्यं साधु गातृभिर्गीतम् ॥ ९४४ ॥
प्रकृतिविशेषावस्थाप्रतिपादकवेषरचनसामग्र्या ।
अनुकरणमभ्यतीतं सिद्धिद्वयसम्पदाधारम् ॥ ९४५ ॥
Bहरतसुतैरुपदिष्टं क्षितिपतिनघुषावरोधनारीणाम् ।
मन्ये ता अपि नाट्ये शोभासंदोहमीदृशं नापुः ॥ ९४६ ॥
सुश्लिष्टसन्धिबन्धं सत्पात्रसुवर्णयोजितं सुतराम् ।
निपुणपरीक्षकदृष्टं राजति ऋअत्नावलीरत्नम् ॥ ९४७ ॥
एवंविधगुणकथनप्रसङ्गिनि विभावितात्मनृपतनये ।
पठति स्मार्यामन्यः स्मृतिविषयमुपागतां प्रसङ्गेन ॥ ९४८ ॥
संग्रामादनपसृतिः प्रेक्षाभिज्ञा सुभाषिताभिरतिः ।
आच्छोदनाभियोगः कुलविद्या राजपुत्राणाम् ॥ ९४९ ॥
एतद्वस्तुनि याते श्रुतिमार्गं नृपतिनन्दनो रसतः ।
आरब्धकथाच्छेदकमाखेटकवर्णनं चक्रे ॥ ९५० ॥
चललक्ष्यवेधकौशलमश्वप्रजवे स्थिरासनाभ्यसनम् ।
भूमिविभागज्ञानं भवन्ति मृगयाभियोगेन ॥ ९५१ ॥
वहति जवेन तुरङ्गे निबिडस्थितपादकटकपादाग्रः ।
तिर्यक्प्रणिहितकायो निम्नोन्नतमग्रतो भुवः पश्यन् ॥ ९५२ ॥
यावत्प्राणं धावत्याकुलिते विश्वकद्रुभिर्भीत्या ।
गोचरपतिते जीवे लघुक्रियः क्षिपति मार्गणं धन्यः ॥ ९५३ ॥
मूले स्थितस्य निभृतं मृगयुभिरुच्चाट्य ढौकितं निकटे ।
पातयतो मृगमुत्प्लुतमव्यपदेश्यं सुखं किमपि ॥ ९५४ ॥
गीतश्रवणोत्कर्णं निश्चलतृणकवलगर्भमुखहरिणम् ।
उपवेशितमस्पन्दं स्पृहणीया एव गृह्णन्ति ॥ ९५५ ॥
दावानलसंतापान्निर्यान्तं गहनवीरुधो ऽभिमुखम् ।
यो निरुणद्धि स वन्द्यः सूकरमेकप्रहारेण ॥ ९५६ ॥
घनकक्षोदरसुप्तं समुपेत्य स्वैरमकृतपदशब्दम् ।
व्याधवर एव कुरुते निर्जीवं हेलया शशकम् ॥ ९५७ ॥
इति विदधति षैंहभटावाखेटकशक्तिलाघवश्लाघाम् ।
हृदयागतामगायत्प्रसङ्गतो गीतिकामपरः ॥ ९५८ ॥
आस्तां व्यापाररसः प्रवर्तिता संकथापि मृगयायां ।
अन्तरयति तन्मनसामाहारादिक्रियोचितं कालम् ॥ ९५९ ॥
अवधार्य गीतिकार्थं दानं प्रति धननियुक्तमभिधाय ।
उत्तस्थौ षमरभटः ंञ्जरिकां समवलोकयन्प्रेम्णा ॥ ९६० ॥
गत्वाथ स्वावसथं निर्वर्तितभोजनादिकर्तव्यः ।
ंञ्जरिकाकृष्टमना अभिदध्यौ सचिवसंनिधावेवम् ॥ ९६१ ॥
भ्रूभङ्गस्मितवीक्षितमृदुवक्रवचोङ्गहारगमनेषु ।
कुसुमप्रहरण एको युगपद्विहिताश्रयः कथं तस्याः ॥ ९६२ ॥
षुन्दोपसुन्दनाशः फलमात्मभुवस्तिलोत्तमासृष्टेः ।
जनमृतये तां सृजता किं दृष्टं सुरहितं तेन ॥ ९६३ ॥
सुमनोभिः परिकरिता मृगशावकतरलचक्षुषस्तस्याः ।
कामोचितफलहेतुर्देहभृतां दीर्घिका वेणी ॥ ९६४ ॥
कमलमिव वदनकमलं पिबन्ति तस्यास्त्रिपिष्टपभ्रष्टाः ।
सदलिकमपेतदोषं सविभ्रमं मधुमदाताम्रम् ॥ ९६५ ॥
यः शैलेन्द्रनितम्बं सुरताप्त्यै सेवते तपोनिरतः ।
स्पृहयति सो ऽपि नितम्बं सुरताप्त्यै समवलोक्य तन्वङ्ग्याः ॥ ९६६ ॥
त्रिकरो मध्यविभागो बाह्वोर्युगलं करद्वयोपेतम् ।
जनयति तदपि मृगाक्षी सहस्रकरतो ऽधिकं तापम् ॥ ९६७ ॥
सा स्रग्धरा सुवदना प्रहर्षिणी सैव सैव तनुमध्या ।
न करोति कस्य विस्मयमिति रुचिरा मञ्जुभाषिणी सैव ॥ ९६८ ॥
अनुकुर्वत्या कन्यां तथा तथा नायकस्तया दृष्टः ।
येन जरत्स्वप्
यटनी धनुषः स्पृष्टा दशार्धबाणेन ॥ ९६९ ॥
रूपं यौवनचित्रितमनङ्गविकृतानि नाट्यदीप्तानि ।
शमिनामपि शमगर्वं मुष्णन्त्यविकल्पितं तस्याः ॥ ९७० ॥
दग्धे ऽपि वपुषि भीतिं न विमुञ्चति नीललोहितसमुत्थाम् ।
तत्क्षेत्रे वसति यतः प्रमदारूपेण शम्बरध्वंसी ॥ ९७१ ॥
यदि वः परलोकमतिः शृणुत श्रेयस्तपोधना मत्तः ।
उत्सृज्य यात तूर्णं वारवधूदूषितं स्थानम् ॥ ९७२ ॥
चिरमपि विकल्प्य निश्चितिरियमेव स्थाप्यते न गतिरन्या ।
तन्निर्माणे जाता लावण्यमयाः कणा विधेरणवः ॥ ९७३ ॥
आसाद्य समुच्छ्रायं तस्याः स्तनयुगलमविहतप्रसरम् ।
क्षपयति यज्जनमेवं कः स्प्रक्ष्यति तद्विवेकवान्पतितम् ॥ ९७४ ॥
स कथं न स्पृहणीयो विषयरतैस्तन्नितम्बविन्यासः ।
शान्तात्मनापि विहितं विश्वसृजा गौरवं यस्य ॥ ९७५ ॥
स्मरणाद्यस्योत्पत्तिः सुमनस इषवो ऽबलाश्रया शक्तिः ।
सो ऽपि व्यङ्गः प्रहरति धातुरहो चित्रमाचरितम् ॥ ९७६ ॥
तिष्ठन्त्वन्ये दृष्ट्वा सारं जगतां तदङ्गनारत्नम् ।
नष्टपठनावधानो भवति ब्रह्मा सनिर्वेदः ॥ ९७७ ॥
यदि पश्यति तां शर्वस्तदपररामासमागमाद्विमुखः ।
निन्दति मूर्धनि सोमं स्मराग्निसंधुक्षणं शरीरं च ॥ ९७८ ॥
Kएशव इह संनिहितः सापि मनोहारिरूपसम्पन्ना ।
तद्वक्षश्च्यवनभुवं कथमुज्झति षैन्धवीशङ्काम् ॥ ९७९ ॥
उदयति न पण्डितानां कथमात्मनि कौतुकं गजेन्द्रगतिः ।
यन्नववयसां पुंसां विना क्रियायोगमुपसर्गः ॥ ९८० ॥
श्रुतिकुवलयमीक्षणतां कुवलयतां वा विलोचनं यायात् ।
हरिणदृशो यदि न स्यात्कनकोज्ज्वलकेसरं मध्ये ॥ ९८१ ॥
ललनास्तदतुल्यतया पुरुषा अपि तदुपभोगविरहेण ।
गच्छन्ति शोषमनिशं प्रकृतिद्वयवर्जिताः स्वस्थाः ॥ ९८२ ॥
दुर्वृत्तयोर्न वृत्तं श्लाघास्पदमेति तत्पयोधरयोः ।
यौ दत्त्वामलमूर्तिं मध्ये हारं जनक्षयं कुरुतः ॥ ९८३ ॥
भूमण्डले ऽत्र सकले नातः परमपरमद्भुतं किं चित् ।
नो जाता यदपार्था कृशोदरी धार्तराष्ट्रयातापि ॥ ९८४ ॥
कृश एष मध्यदेशस्तन्व्या नाहार्यमण्डनं वोढुम् ।
शक्त इति कृतं विधिना रोमावलिभूषणं सहजम् ॥ ९८५ ॥
साकम्पो ऽधर ईक्षणयुगलस्याधीरता भ्रुवोर्भङ्गः ।
तन्वङ्ग्या बलमीदृग्जयति जगत्तदपि निःशेषम् ॥ ९८६ ॥
वहतु नितम्बः स्थूलो रशनां हारं च कुचयुगं पीनम् ।
तद्बाहुमृणालिकयोः सापायं कटकयोजनमयुक्तम् ॥ ९८७ ॥
बहलोपायाभिज्ञा गुणविषये सततमाहितप्रीतिः ।
बलिनः स्थापयति वशे करभोरुर्विग्रहेण मृदुनैव ॥ ९८८ ॥
इति तत्स्तुतिमुखरमुखे राजसुते मकरकेतनाकुलिते ।
समुपागता प्रगल्भा ंञ्जरिकाचोदिता दूती ॥ ९८९ ॥
सा सप्रणतिः पुरतः सुमनस्ताम्बूलपटलकं निदधे ।
व्यज्ञापयच्च तदनु स्वावसरे सहचरीकार्यम् ॥ ९९० ॥
ंुररिपुनाभिसरोरुहमवतंसीकर्तुमीहते मूढा ।
नक्षत्रराजमण्डलमिच्छति वियतः समादातुम् ॥ ९९१ ॥
निश्चेतनाभिकाङ्क्षति पीयूषं त्रिदिवसद्मनामशनम् ।
अभिलषति शयनमुष्णे नवचन्दनपल्लवास्तरणे ॥ ९९२ ॥
विदधाति पारिजातकसुमनोनिर्यूहधारणश्रद्धाम् ।
दुर्व्यवसिता जिघृक्षति णारायणवक्षसो रत्नम् ॥ ९९३ ॥
अनियतपुरुषस्पृश्याः पापा वयमन्यथा क्व हीनकुलाः ।
क्व च यूयमिन्द्रकल्पा अनल्पमनसो गुणाभरणाः ॥ ९९४ ॥
दुष्प्रकृतेः प्रकृतिरियं तस्य तु दग्धात्मजन्मनः कापि ।
अगणितयुक्तायुक्तो लगयति चेतो यदस्थाने ॥ ९९५ ॥
या हसति सरोजवतीं रसान्विता सहजरागरक्तेति ।
ध्यानधिय आत्मवृत्तिं निन्दत्येकत्र पुरुष आसक्ताम् ॥ ९९६ ॥
स्निग्धेति नाभिनन्दति जन्मशतेनापि सर्पिषो धाराम् ।
पञ्चाक्षद्यूतगतिं नानर्थकरमणसंगतां स्तौति ॥ ९९७ ॥
न स्तौति चन्दनलतां भुजङ्गपरिवेष्टितां रसार्द्रेति ।
न शृणोति कीर्त्यमानां स्वप्नेष्वपि मदनमूर्छितां मत्सीम् ॥ ९९८ ॥
विद्वेष्टि करणमध्ये रसनां ताम्बूलरागयुक्तेति ।
शंसति मतिं मुमुक्षोरविशिष्टां शशवृषाश्वपुरुषेषु ॥ ९९९ ॥
नो बहु मनुते ऋअम्भां णलकूबरमभिसृतेति कामार्ता ।
गर्हति च देवगणिकामनुरक्तामुर्वशीं ড়ुरूरवसि ॥ १००० ॥
हरति मनो नो ह्रियते रञ्जयति न रज्यते कदा चिदपि ।
गृह्णाति चित्रचरितैरुपकृतिभिर्गृह्यते न बह्वीभिः ॥ १००१ ॥
प्रेममयीवाभाति प्रेम तु नाम्नैव केवलं वेत्ति ।
कण्टकिता भवति रते रतभोगसुखं शृणोति लोकात्तु ॥ १००२ ॥
कुरुते विविक्तचाटूञ्शिल्पविशेषेण न तु रसावेशात् ।
अनभिज्ञा मदनरुजामाकल्पकवेदनां समावहति ॥ १००३ ॥
बालैवार्जवरहिता स्फुरतीश्वरमेत्य चन्द्रलेखेव ।
हृतधनपतिमाहात्म्या प्रवृत्तिरिव रक्षसां पत्युः ॥ १००४ ॥
नरनाथ किं ब्रवीमि त्रिपुरान्तकनयनदाहदग्धो ऽपि ।
दुःसाध्यसाधनग्रहमुत्सृजति न पापकुसुमास्त्रः ॥ १००५ ॥
त्वद्दर्शनावकाशं सम्प्राप्य यतो दुरात्मना तेन ।
चिरसम्भृतकोपेन प्रारब्धा सापि हन्तुमिषुधारैः ॥ १००६ ॥
अवहेलयैव भवता संस्पृष्टा येन वेत्रदण्डेन ।
जातः स एव तस्या आनन्यभवमार्गणः प्रथमः ॥ १००७ ॥
विज्ञानार्जितदर्पो निभृतं हसितः समानशिल्पाभिः ।
त्वयि सक्तदृशः सख्या विसंष्ठुले नाट्यनिर्माणे ॥ १००८ ॥
अवधीर्याचार्यरुषं भरतोदितदोषकरणसंभूताम् ।
विस्तारितः प्रयोगस्त्वदवस्थितिवाञ्छया तन्व्या ॥ १००९ ॥
भग्ने ऽपि प्रेक्षणके तदनन्तरभूमिकाश्रयावस्थाः ।
गृह एव निरवसानं वितनोति न नाट्यधर्मेण ॥ १०१० ॥
ध्यायत एकं पुरुषं परमात्मविदः शशंस या न पुरा ।
ताननुकुरुते सैव ध्यायन्ती त्वां महापुरुषम् ॥ १०११ ॥
गतमेवमेवमासितमालोकितमेवमेवमालपितम् ।
इति विस्मृतान्यकार्या स्मरति कृशाङ्गी त्वदीयलीलानाम् ॥ १०१२ ॥
णलकूबरो वराको ऋअतिरमणो रमण एव किं तेन ।
आनिरुद्धो ऽपि न बुद्धो विदग्धविहितासु सुरतगोष्ठीषु ॥ १०१३ ॥
न ञयन्तो ऽनन्तगुणो न Kउमारः ंारकर्मणो ऽबाह्यः ।
केन समतां नयामस्तमिति सखी वहति मानसं क्लेशम् ॥ १०१४ ॥
आगतमागच्छन्तं पुरतः पार्श्वे प्रसन्नमथ कुपितम् ।
पश्यति भवन्तमेकं संकल्पनिवेशितं बाला ॥ १०१५ ॥
रुच्यः कान्तो हृद्यः सुभगः सुखदो मनोहरो रमणः ।
इष्टः स्वामी दयितः प्राणेशः केलिकरणनिपुण इति ॥ १०१६ ॥
मुक्तान्यसमारम्भा वरतनुरनुपप्लुतेन चित्तेन ।
जपति समीहितसिद्ध्यै त्वद्द्वादशनामकं महास्तोत्रम् ॥ १०१७ ॥
तामेव गच्छ यस्यामासज्य विलम्बितो ऽसि गतलज्ज ।
वेलामियतीमलमलमेतैरधुना शठानुनयैः ॥ १०१८ ॥
वक्ष्यामि सापराधं क्रोधस्फुरदधरमञ्चितभ्रूकम् ।
इति विदधाति सुमध्या हृदयेन मनोरथावृत्तिम् ॥ १०१९ ॥
उत्सहते न द्रष्टुं प्रतिबिम्बितमाननं कुतः शशिनम् ।
का संकथा मृणाले क्षिपति भुजौ सर्वतो व्यथिता ॥ १०२० ॥
दूरे कदलीदण्डा ऊर्वोरपि न सहते समाश्लेषम् ।
करसम्पर्काद्विमुखी विश्राम्यति पल्लवेष्विति विरुद्धम् ॥ १०२१ ॥
अयि मञ्जरि सैव त्वं विदग्धजनमण्डिता पुरी सैव ।
Kउसुमायुधः स एव व्यसनं कुत एतदायातम् ॥ १०२२ ॥
यस्याः कामः कृपणो रागाकृष्टिस्तृणोलपप्रख्या ।
सापि गता भूमिमिमां जीवन्त्या नेक्ष्यते किमिह ॥ १०२३ ॥
अभियोगशिक्षितानामशिक्षितानां च मदनचेष्टानाम् ।
सुतनु विशेषग्रहणे सामर्थ्यं तद्विदामेव ॥ १०२४ ॥
व्यथयन्नपि सच्छायः परिजनचिन्ताकरो ऽपि रमणीयः ।
आधत्ते त्वयि लक्ष्मीमभिनवरागाश्रयो रागः ॥ १०२५ ॥
एकः स एव जातो भुवने ऽस्मिन्नसमसायकस्पर्धी ।
तेन शशिबिम्बफलके सुजन्मना लेखितं निजं नाम ॥ १०२६ ॥
पादस्तेन सलीलं विन्यस्तः सुभगमानिनां मूर्ध्नि ।
सौभाग्ययशःकुसुमं धनपतिसूनोः कदर्थितं तेन ॥ १०२७ ॥
नरवञ्चनपटुबुद्धिः संपादितकपटचाटुसंघटना ।
त्वमपि विलासिनि नीता गतिमियतीं येन सुभगेन ॥ १०२८ ॥
तद्वद तस्य स्थानं यतामहे कार्यसाधनायालम् ।
कुर्वत एव हि यत्नं भिषग्जनाः कृच्छ्रसाध्यरोगे ऽपि ॥ १०२९ ॥
इति गदिते सख्या सा तदभिमुखं चक्षुषी समुन्मील्य ।
वितरति कृच्छ्रेण चिराद्विभावितं क्लिष्टहुङ्कारम् ॥ १०३० ॥
का पुरुषार्थसमीहा द्योतयतः शर्वरीं शशाङ्कस्य ।
तर्पयतां भुवमखिलां सलिलमुचां को ऽभिकाङ्क्षितो लाभः ॥ १०३१ ॥
मण्डयितुं वियदुदयति पुरुहूतधनुर्विनैव फलवाञ्छाम् ।
अनपेक्षितात्मकार्यः परहितकरणग्रहः सतां सहजः ॥ १०३२ ॥
प्रायेण यन्निदानं तदसेवनमुपशमाय रोगाणाम् ।
स्मरमान्द्यं तु यदुत्थं तदेव खलु भेषजं यतस्तस्य ॥ १०३३ ॥
तेन स्पृहयति सुतनुस्त्वत्पादयुगाब्जरेणुसंगतये ।
आशीर्विषयोपेते सम्भोगसुखोदये तु नाकाङ्क्षा ॥ १०३४ ॥
प्रमदमुपैति मयूरी परमं शब्देन वारिवाहस्य ।
अनिमिषविलोकितेन प्राप्नोति झषी कृतार्थतामेव ॥ १०३५ ॥
न वृथास्तुतिमुखरतया न च युष्मल्लोभनाभियोगेन ।
विदधामि तद्गुणाख्यां स्वरूपमात्रप्रसङ्गेन ॥ १०३६ ॥
सद्भावबद्धमूले स्मितदृष्टिभ्रूविकारपल्लविते ।
सेवन्ते हृद्यरसां रागतरौ ंञ्जरीं धन्याः ॥ १०३७ ॥
तिष्ठतु तदङ्गसङ्गो विलोकिता येन झगिति वरगात्री ।
तस्यान्यो युवतिजनः प्रतिभाति मनुष्यरूपेण ॥ १०३८ ॥
सकृदपि यैरनुभूतस्तत्तनुपरिरम्भसुखरसास्वादः ।
विद्धि नराधिप तेषां दूरीभूतं प्रजाकार्यम् ॥ १०३९ ॥
आस्था का खलु तस्या विषयग्रहदुर्बलेषु पुरुषेषु ।
यस्या विलासजालकपतितः शकुनायते Kअपिलः ॥ १०४० ॥
दग्ध्वापि पुनर्दग्धो नूनमनङ्गः ःरेण तां तन्वीम् ।
दृष्ट्वापि येन तिष्ठसि निराकुलः स्वस्थवृत्तेन ॥ १०४१ ॥
अथ विरतोक्तौ तस्यामुल्लासितमानसे च नृपसूनौ ।
कश्चिदगायद्गीतिं स्मृतिसंगतिमागतां प्रसङ्गेन ॥ १०४२ ॥
अन्योन्यगाढरागप्रबलीकृतचित्तजन्मनोर्यूनोः ।
कालात्ययो मनागपि समागमानन्दविघ्नकरः ॥ १०४३ ॥
श्रुत्वा सिंहभटसुतः प्रियाप्रियां प्रीतिमान्स्मितप्रथमम् ।
निजगाद चारुभाषिणि गीतिकया समयसम्मतं कथितम् ॥ १०४४ ॥
अभिनन्द्य सा तथेति प्रययौ प्रमदावती निजं भवनम् ।
अकरोच्च विदितकार्यां युक्ते ऽवसरे मनोरमां गणिकाम् ॥ १०४५ ॥
अथ सा कृतसंकल्पा सत्वरमादाय रुचिरविच्छित्तिम् ।
आसाद्य नृपनिशान्तं विवेश संचारिकासहिता ॥ १०४६ ॥
विहितनमस्कृतिरासनमधितष्ठौ नायकेन निर्दिष्टम् ।
पृष्टे च देहकुशले विनयान्वितमभ्यधाद्दूती ॥ १०४७ ॥
श्रीमन्नद्य श्रेयःसम्पन्ना गुरुजनाशिषो ऽशेषाः ।
अद्य मदनः प्रसन्नो भाग्यचयैरद्य परिणतं फलतः ॥ १०४८ ॥
अद्य जननी प्रसूता सौभाग्यगुणोदयो ऽद्य निष्णातः ।
त्वयि वितरति सस्नेहं निरामयप्रश्नभारतीं तस्याः ॥ १०४९ ॥
उत्कलिकाकुलमनसामुद्रिक्तरिरंसयाभिभूतानाम् ।
औदासीन्यं भजतां समागता भवति नालिका यूनाम् ॥ १०५० ॥
धृतसुमनःशरधनुषा सहायवांस्तिष्ठ दयितया सार्धम् ।
यामो वयं न राजति विजनस्थितमिथुनसंनिधावपरः ॥ १०५१ ॥
एषा नृत्यश्रान्ता मदनेनायासितातिसुकुमारा ।
त्वमपि रतिसमरशूरः स्वर्गभुवः सन्तु कुशलाय ॥ १०५२ ॥
यावद्यावदशक्तिं प्रथयति ललना हि मोहनाक्रान्ता ।
तावत्तावत्पुंसामुत्साहः पल्लवान्समुत्सृजति ॥ १०५३ ॥
इति शून्यीकृतवेश्मनि हरति शनैः सहजमंशुकं तस्मिन् ।
दर्शितसाध्वसलज्जा जगाद सा किं करोषीति ॥ १०५४ ॥
अयि मुग्धे तत्क्रियते पुरुषार्थचतुष्टयस्य यत्सारम् ।
इति निगदितसस्मेरः स्मरविधुरित आततान रतिकलहम् ॥ १०५५ ॥
नानासुरतविशेषैराराध्य चकार भुक्तसर्वस्वम् ।
गणिकासौ राजसुतं त्वगस्थिशेषं मुमोच नातिचिरात् ॥ १०५६ ॥
तद्यन्मयोपदिष्टं कामिजनार्थाप्तिकारणं तेन ।
महतीं समृद्धिमेष्यसि कामुकलोकाहृतेन वित्तेन ॥ १०५७ ॥
इत्युपदेशश्रवणप्रबोधतुष्टा जगाम धाम स्वम् ।
ंालत्यपगतमोहा Vइकरालापादवन्दनां कृत्वा ॥ १०५८ ॥
काव्यमिदं यः शृणुते सम्यक्काव्यार्थपालनेनासौ ।
नो वञ्च्यते कदा चिद्विटवेश्याधूर्तकुट्टनीभिरिति ॥ १०५९ ॥

"https://sa.wikisource.org/w/index.php?title=कुट्टनीमतम्&oldid=123467" इत्यस्माद् पुनः प्राप्तिः